०२ अनुमानम्

१. अथानुमानं निरूप्यते । व्याप्यस्य व्याप्यत्वानुसन्धानात् व्यापकविशेष- प्रमितिरनुमितिः । तत्करणमनुमानम् । व्याप्यस्य धूमस्य अग्निव्याप्यत्वानु- सन्धानात् व्यापकविशेषप्रमितिर्वह्निप्रमितिः ।

२. अनधिकदेशकालनियतं व्याप्यम् । अन्यूनदेशकालवृत्ति व्यापकं तदिदम- विनाभूतं व्याप्यम्; तत्प्रतिसम्बन्धि व्यापकमिति ।

३. तेन निरुपाधिकतया नियतसम्बन्धो व्याप्तिरित्युच्यते । सेयम् “यत्रधूमस्तत्र वह्निः” इति व्याप्तिर्भूयोदर्शनात् गृह्यते ।

४. व्याप्तिर्द्विविधा – अन्वयव्यतिरेक भेदात् । साधनविधौ साध्यविधिरूपेण प्रवृत्ता व्याप्तिरन्वयव्याप्तिः । यथा – “यो यो धूमवान् स सोऽग्निमान्” इति । साध्यनिषेधे साधननिषेधरूपेण प्रवृत्ता व्याप्तिर्व्यतिरेकव्याप्तिः । यथा – “योऽनग्निः स निर्धूम” इति ।

५. सेयमुभयविधा व्याप्तिरुपाधिसम्भवे दुष्यति । साध्यव्यापकत्वे सति साधना- व्यापकत्वम् उपाधिः । यथा वह्निना धूमे साध्यमाने आर्द्रेन्धनसम्बन्ध उपाधिः । मैत्रीतनयत्वेन श्यामत्वे साध्यमाने शाकपाकजत्वमुपाधिः ।

६. स चोपाधिर्द्विविधः – निश्चितः शङ्कितश्चेति। निश्चितो यथा – “विप्रतिपन्ना सेवा दुःखहेतुः, सेवात्वात्, राजसेवावत्” इत्यत्र पापारब्धत्वमुपाधिः । अयन्तु ईश्वरसेवायां नास्तीति निश्चयादयं निश्चितोपाधिः । शङ्कितो यथा – “विप्रतिपन्नो जीव एतच्छरीरा- वसाने मुक्तिमान्, निष्पन्नसमाधित्वात्, शुकादिवत्” इत्यत्र कर्मात्यन्तपरिक्षय उपाधिः। स च निष्पन्नसमाधौ विप्रतिपन्ने जीवे, अस्ति नास्तीति सन्दिग्धत्वात् शङ्कितोपाधिः । अतो निरुपाधिकसम्बन्धवत् व्याप्यमिति सिद्धम् ।

७. व्याप्यं साधनं लिङ्गम् इत्यनर्थान्तरम् ।

८. तस्य द्वे रूपे अनुमित्यङ्गभूते – व्याप्तिः पक्षधर्मता चेति । पञ्चरूपाण्यपि सन्ति। तानि च पक्षसत्त्वं सपक्षसत्त्वं विपक्षात् व्यावृत्तिः अबाधितविषयत्वम् असत्प्रति-पक्षत्वं चेति ।

९. सिसाधयिषितधर्मविशिष्टो धर्मी पक्षः । यथा अग्निमत्त्वादिसाधने पर्वतादिः ।

१०. सिसाधयिषितसजातीयधर्मवान् सपक्षः । यथा महानसादिः ।

११. साध्यतज्जातीयशून्यो विपक्षः । यथा महाह्रदः ।

१२. प्रबलेन प्रमाणेन पक्षे निश्चितसाध्याभाववत्त्वम् बाधितविषयत्वम् । यथा – “महाह्रदोऽग्निमान्” इत्यादि । तदभावस्तु अबाधितविषयत्वम् ।

१३. समबलतया प्रतीयमानप्रमाणोपरोधाभावोऽसत्प्रतिपक्षत्वम् ।

१४. एवम्भूतं व्याप्यं द्विविधम् – अन्वयव्यतिरेकिकेवलान्वयिभेदात् ।

१५. पूर्वोक्तपञ्चरूपोपपन्नं व्याप्यम् अन्वयव्यतिरेकि । यथा – “पर्वतोऽग्निमान् धूमवत्त्वात्, यो यो धूमवान् स सोऽग्निमान्, यथा “महानसः” “योऽनग्निस् स निर्धूमः, यथा महाह्रद” इति ।

१६. तादृशमेव विपक्षरहितं व्याप्यं केवलान्वयि । यथा – “ब्रह्म शब्दवाच्यम्, वस्तुत्वात्, घटवत्” । विपक्षाभावात् केवलान्वयि चतूरूपोपपन्नम् ।

१७. केवलव्यतिरेकिणि साध्याप्रसिद्धेस्तद्व्यतिरेकव्याप्तिर् दुर्ग्रहा । अतः केवलव्यतिरेकि- निरासः ।

१८. केवलान्वयिनि अन्वयव्यतिरेकिणि च अत्यन्तातीन्द्रियार्थगोचरता निरस्ता ।

१९. तदेतदनुमानं स्वार्थं परार्थं चेति द्विधा विभज्य केचिदाहुः ।

२०. सर्वेषामनुमानानां स्वप्रतिसन्धानादिबलेन प्रवृत्ततया स्वव्यवहारमात्रहेतुत्वमिति स्वार्थानुमानमेव इत्यपरे ।

२१. तदनुमानबोधकवाक्यम् प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपपञ्चावयवसंयुक्तम् ।

२२. तत्र पक्षवचनम् प्रतिज्ञा । यथा – “पर्वतोऽग्निमान्” इति ।

२३. लिङ्गस्य वचनं हेतुः । यथा – “धूमवत्त्वात्” इति ।

२४. व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमुदाहरणम् । तत् द्विधा – अन्वयव्यतिरेकभेदात्। यथा – “यो यो धूमवान् स सोऽग्निमान्, यथा महानस” इत्यन्वयोदाहरणम् । ‘योऽन- ग्निः स निर्धूमः, यथा महाह्रद” इति व्यतिरेकोदाहरणम् ।

२५. दृष्टान्तनिदर्शनेन व्याप्ततया पक्षे हेतूपसंहारवाक्यमुपनयः । सोऽपि द्विविधः – अन्वयव्यतिरेक भेदाद् । “तथा धूमवान्” इति अन्वयोपनयः । ‘अयं च न तथा निर्धूम” इति व्यतिरेकोपनयः ।

२६. हेतुपूर्वकम् पक्षे साध्योपसंहारवाक्यं निगमनम् । एतदपि द्विविधम् । यथा –“तस्मादग्निमान्” इति अन्वयेन निगमनम् । “तस्मादयं निरग्निर्न भवति” इति व्यतिरेकेण ।

२७. एवम् पञ्चावयववादिनो नैयायिकाः ।

२८. प्रतिज्ञाहेतूदाहरणरूपत्र्यवयववादिनो मीमांसकाः ।

२९. उदाहरणोपनयरूपावयवद्वयवादिनः सौगताः ।

३०. अस्माकं त्वनियमः । क्वचित् पञ्चावयवः क्वचित्त्र्यवयवः क्वचित् द्व्यवयवः। उदाहरणोपनयाभ्यामेव व्याप्तिपक्षधर्मतयोः सिद्धत्वात् तावतैव अनुमित्युपप-त्तेश्च । मृदुमध्यमकठोरधियां विस्तरसङ्ग्रहाभ्यां व्यवहार उपपद्यते इत्यनियम एव। एवम् पञ्चावयवसंयुक्तः सद्धेतुरेव वह्न्यनुमापकः । सद्धेतुरित्युक्तत्वात् धूमसदृश- धूलीपटलान्न वह्न्यनुमितिः ।

३१. अन्ये हेतुवद्भासमाना हेत्वाभासाः । ते च असिद्धविरुद्धानैकान्तिकप्रकरण-समकालात्ययापदिष्टभेदेन पञ्चप्रकाराः ।

३२. तत्र असिद्धस्त्रिविधः – स्वरूपासिद्ध आश्रयासिद्धो व्याप्यत्वासिद्धश्चेति ।

३३. स्वरूपासिद्धो यथा – “अनित्यो जीवः, चाक्षुषत्वात्, घटवत्” इति ।

३४. आश्रयासिद्धस्तु – “व्योमारविन्द सुरभि अरविन्दत्वात्, सरोजारविन्दवत्” इति । व्योमारविन्दमाश्रयः । स चासिद्धः ।

३५. व्याप्यत्वासिद्धो द्विविधः – एको व्याप्तिग्राहकप्रमाणाभावात्, अपरस्तु उपाधि- सद्भावात् । आद्यो यथा – “यत् सत् तत् क्षणिकम्” इति । क्षणिकत्वसत्त्वयोः व्याप्ति- ग्राहकप्रमाणासिद्धेः। द्वितीयो यथा – “अग्नीषोमीया हिंसा अधर्मसाधिका हिंसात्वात्, क्रतुबाह्यहिंसावत्” इति । अत्र निषिद्धत्वमुपाधिः । अतो हिंसात्वहेतुः सोपाधिकः ।

३६. साध्यविपरीतव्याप्तो हेतुविरुद्धः । तद्यथा – “नित्या प्रकृतिः, कृतकत्वात्, कालवत्”। कृतकत्वहेतुः साध्याभावव्याप्तः ।

३७. सव्यभिचारोऽनैकान्तिकः । स च द्विविधः – साधारणोऽसाधारणश्चेति ।

३८. पक्षसपक्षविपक्षवृत्तिः साधारणः । यथा – “शब्दो नित्यः, प्रमेयत्वात्, कालवत्” । असाधारणस्तु विपक्षसपक्षव्यावृत्तः । यथा- “भूमिर्नित्या, गन्धवत्त्वात् व्योमवद्” इति ।

३९. प्रकरणसमस्तु साध्यविपरीतसाधकहेत्वन्तरवान् । यथा – “ईश्वरोऽनित्यः, नित्यधर्मरहितत्वात्” । “ईश्वरो नित्यः, अनित्यधर्मरहितत्वात्” इति । अयमेव सत्प्रतिपक्षः ।

४०. यस्य हेतोः साध्याभाववान् पक्षः स कालात्ययापदिष्टः। कालात्ययापदिष्टो यथा– “अग्निरनुष्णः, पदार्थत्वात्, जलवत्” । अयं च प्रत्यक्षेण उष्णत्वाव- धारणात् बाधितः ।

४१. एवमनुमाने निरूपिते उपमानादेरनुमानादावन्तर्भावः । यथा अतिदेशवाक्यार्थ- स्मरणसहकृतगोसादृश्यविशिष्टपिण्डज्ञानम् उपमानम् । गवयमजानन्नपि “यथा गौः तथा गवय” इति कुतश्चिदारण्यकवाक्यात् श्रुत्वा वनं गतो वाक्यार्थं स्मरन् यदा गोसादृश्यविशिष्टपिण्डम् पश्यति तदा तद्वाक्यार्थस्मरणसहकृतसदृशपिण्डज्ञानं जायते। तदुपमानमित्युच्यते । स्मरणरूपत्वात् तस्य प्रत्यक्षेऽन्तर्भावः। व्याप्तिग्रहणा-पेक्षत्वादनुमाने अन्तर्भावः। वाक्यजन्यत्वात् शब्दे वा अन्तर्भाव ऊह्यः ।

४२. अर्थापत्तिर्नाम दिवा अभुञ्जानस्य पुरुषस्य पीनत्वदर्शनात् रात्रौ भोजनं कल्प्यते । एतस्या अनुमाने अन्तर्भावः ।

४३. तर्को नाम व्याप्याङ्गीकारेण व्यापकप्रसञ्जनम् । तद्यथा – “पर्वतो वह्निमान्, धूमवत्त्वात्” इत्यनुमाने, “धूमोऽस्तु वह्निर्मास्तु’ इत्युक्ते, “यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति; एतस्य प्रमाणानुग्राहकत्वम् ।

४४. तर्कानगृहीतप्रमाणपूर्वकत्वावधारणं निश्चयः ।

४५. वीतरागकथा वादः ।

४६. पक्षद्वयसाधनवती विजिगीषुकथा जल्पः ।

४७. स्वपक्षस्थापनहीना तु वितण्डा ।

४८. अविवक्षितशब्दार्थारोपेण दूषणं छलम् ।

४९. स्वव्याप्तदूषणं जातिः । असदुत्तरं जातिरिति वा ।

५०. पराजयहेतुर्निग्रहस्थानम् । इत्येषामनुमानाङ्गत्वादनुमाने अन्तर्भावः ।

५१. क्वचित् क्वचित् नैयायिकमतानुसारेण उक्तमिति न विरोधः । इत्यनुमानं निरूपितम् ।

इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन

विरचितायां यतीन्द्रमतदीपिकायाम् अनुमाननिरूपणम्

नाम द्वितीयोऽवतारः ॥