श्रीवेङ्कटेशं करिशैलनाथं श्रीदेवराजं घटिकाद्रिसिंहम् ।
कृष्णेन साकं यतिराजमीडे स्वप्ने च दृष्टान् मम देशिकेन्द्रान् ॥ १ ॥
यतीश्वरम् प्रणम्याहं वेदान्तार्यम् महागुरुम् ।
करोमि बालबोधार्थं यतीन्द्रमतदीपिकाम् ॥२॥
१. श्रीमन्नारायण एव चिदचिद्विशिष्टाद्वैततत्त्वम् भक्तिप्रपत्तिभ्याम् प्रसन्नः स उपायः, अप्राकृतदेशविशिष्ठः स एव प्राप्य इति वेदान्तवाक्यैः प्रतिपादयतां श्रीव्यासबोधायन-गुहदेवभारुचिब्रह्मनन्दिद्रमिडाचार्य श्रीपराङ्कुशनाथयामुनमुनियतीश्वरप्रभृतीनाम् मतानु- सारेण बालबोधार्थं वेदान्तानुसारिणी यतीन्द्रमतदीपिकाख्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति सङ्ग्रहेण प्रकाश्यते ।
२. सर्वम् पदार्थजातम् प्रमाणप्रमेयभेदेन द्विधा भिन्नम् । प्रमाणानि त्रीण्येव । प्रमेयं द्विविधम् – द्रव्याद्रव्य भेदात् । द्रव्यं द्विविधम् – जडमजडं चेति । जडं तु द्वि- विधम् – प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विंशतितत्त्वात्मिका । कालस्तु उपाधिभेदात् त्रिविधः ।
३. अजडं तु द्विविधम् – पराक् प्रत्यक् चेति । अजडम् परागपि तथा – नित्यविभूति- धर्मभूतज्ञानं चेति ।
४. प्रत्यगपि द्विविधः- जीवेश्वरभेदात् । जीवस्त्रिविधः- बद्धमुक्तनित्यभेदात् । बद्धोऽपि द्विविधः – बुभुक्षुमुमुक्षुभेदात् । बुभुक्षुर्द्विविधः – अर्थकामपरो धर्मपरश्चेति । धर्मपरो द्विविधः – देवतान्तरपरो भगवत्परश्चेति । मुमुक्षुर्द्विविधः- कैवल्यपरो मोक्षपरश्चेति । मोक्षपरो द्विविधः – भक्तः प्रपन्नश्चेति । प्रपन्नो द्विविधः – एकान्ती परमैकान्ती चेति। परमैकान्ती द्विविधः – दृप्तार्त भेदात् ।
५. पञ्चधावस्थित ईश्वरः – परव्यूहविभवान्तर्यावतारभेदात् । पर एकधा । व्यूहश्च- तुर्द्धा – वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धभेदात् । केशवादि व्यूहान्तरम् । मत्स्यादयो विभवाः पुनरनन्ताः । अन्तर्यामी प्रतिशरीरमवस्थितः । अर्चावतारस्तु – श्रीरङ्ग- वेङ्कटाद्रिहस्तिगिरियादवाद्रिघटिकाचलादिषु सकलमनुजनयनविषयतां गतो मूर्तिविशेषः ।
६. अद्रव्यं तु सत्त्वरजस्तमःशब्दस्पर्शरूपरसगन्धसंयोगशक्तिभेदाद्दशधैव ।
७. एवमुद्दिष्टानामुद्देशक्रमेण लक्षणपरीक्षे क्रियेते । तत्र प्रमाकरणम् प्रमाणम् । प्रमाणं लक्ष्यम् । प्रमाकरणत्वं लक्षणम् । यथावस्थितव्यवहारानुगुणज्ञानम् प्रमा। प्रमा लक्ष्यम् । यथावस्थितव्यवहारानुगुणज्ञानत्वं लक्षणम् । “ज्ञानम् प्रमा” इत्युक्ते शुक्तिकायाम् “इदं रजतम्” इति ज्ञाने अतिव्याप्तिः; अत उक्तम् “व्यवहारानुगुणम्” इति । एवमपि तत्रैवातिव्याप्तिः; भ्रान्तिदशायामपि “इदं रजतम्” इति व्यवह्रियमाण-त्वात् । अत उक्तम् “यथावस्थितम्” इति । “यथावस्थित” इति पदेन संशयान्यथा-ज्ञानविपरीतज्ञानव्यावृत्तिः ।
८. धर्मिग्रहणे मिथोविरुद्धानेकविशेष स्मरणं संशयः । यथा ऊर्द्वताविशिष्टे “स्थाणुर्वा पुरुषो वा” इति ज्ञानम् । अन्यथाज्ञानं नाम धर्मि विपर्यासः । यथा कर्तृत्वेन भासमाने आत्मनि कुयुक्तिभिः कर्तृत्वस्य भ्रान्तत्वोपपादनम् । विपरीत-ज्ञानं नाम धर्मिविपर्यासः । यथा वस्तुनो वस्त्वन्तरज्ञानम् ।
९.लक्षणस्य त्रीणि दूषणानि सन्ति । अव्याप्त्यतिव्याप्त्यसम्भवभेदात् । लक्ष्यैकदेशे लक्षणस्यावर्तमानत्वमव्याप्तिः। “कपिलवर्णवत्त्वं गोर्लक्षणम्” इति लक्षणे कृते शुक्ला- यामव्याप्तिः । लक्ष्यादन्यत्र प्रवर्तमानत्वमतिव्याप्तिः । लक्ष्ये क्वाप्यविद्यमानत्वमसम्भवः । यथा – “चक्षुर्विषयो जीव” इत्युक्ते असम्भव एव । अत्रोक्तदूषणत्रयाभावात् प्रमालक्षणं स्वस्थम् ।
१०. साधकतमं करणम् । अतिशयितं साधकं साधकतमम् । यस्मिन् सति अविलम्बेन ज्ञानमुत्पद्यते तत् “अतिशयितम्” इत्युच्यते । तेन प्रमाकरणम् प्रमाण-मिति सिद्धम् । अनधिगतार्थ – गन्तृ प्रमाणमित्यादिकं तु तत्तद्वादिभिरेव निरस्त-त्वादनादरणीयम् ।
प्रत्यक्षम्
११. तानि प्रमाणानि प्रत्यक्षानुमानशब्दाख्यानि त्रीणि ।
१२. अत्र साक्षात्कारप्रमाकरणम् प्रत्यक्षम् । अनुमानादिव्यावृत्त्यर्थम् “साक्षात्कार” इति। दुष्टेन्द्रियजव्यावृत्त्यर्थम् “प्रमा” इति ।
१३. तच्च प्रत्यक्षं द्विविधम् – निर्विकल्पकसविकल्पकभेदात् । निर्विकल्पकं नाम गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणम् । सविकल्पकं तु सपत्यवमर्शं गुण-संस्थानादिविशिष्ट द्वितीयादिपिण्डग्रहणम् । उभयविधमपि एतद् विशिष्टविषयमेव । अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भादनुपपत्तेश्च ।
१४. ग्रहणप्रकारस्तु – आत्मा मानसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनिति । इन्द्रियाणाम् प्राप्यप्रकाशकारित्वनियमात् । अतो घटादिरूपार्थस्य चक्षुरादिरूपेन्द्रि-यस्य च सन्निकर्षे सति “अयं घटः” इति चाक्षुषज्ञानं जायते । एवमेव स्पार्श- नप्रत्यक्षादयोऽपि ।
१५. द्रव्यग्रहणे संयोगः सम्बन्धः । द्रव्यगतरूपादिग्रहणे समवायानङ्गीकारात् संयुक्ताश्रयणसम्बन्धः ।
१६. निर्विकल्पकसविकल्पकभिन्नम् प्रत्यक्षं द्विविधम् – अर्वाचीनम् अनर्वाचीनं चेति । अर्वाचीनम् पुनर्द्विविधम् – इन्द्रियसापेक्षं तदनपेक्षं चेति । तदनपेक्षं च द्विविधम् – स्वयंसिद्धं दिव्यं चेति । स्वयं सिद्धं योगजन्यम् । दिव्यम् भगवत्प्रसादजन्यम् । अनर्वाचीनं तु इन्द्रियानपेक्षम् मुक्तनित्येश्वरज्ञानम् । अनर्वाचीनम्ं तु प्रसङ्गादुक्तम् । एवं साक्षात्कारप्रमाकरणम् प्रत्यक्षमिति सिद्धम् ।
१७, ननु यथावस्थितव्यवहारानुगुणज्ञानम् प्रमेत्युक्तम् । एवञ्च स्मृतेरपि यथाव-स्थितव्यवहारानुगुणत्वेन प्रामाण्यात् स्मृतेरपि प्रमाणत्वेन परिगणनाच्च त्रीण्येव प्रमाणानीति कथम् प्रतिपाद्यते? इति चेत्, उच्यतेः – स्मृतेः प्रामाण्याङ्गीकारेऽपि संस्कारसापेक्षत्वात् तस्य प्रत्यक्षमूलत्वात् मूलभूतप्रत्यक्षेऽन्तर्भाव इति न पृथक् प्रमाणत्वकल्पनम् । अतस्त्रीण्येवेति प्रमाणानि सम्भवन्ति ।
१८. स्मृतिर्नाम पूर्वानुभवजन्यसंस्कारमात्रजन्यं ज्ञानम् । संस्कारोद्वोधश्च “सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः” इत्युक्तप्रकारेण कचित्सदृशदर्शनाद्भवति, कचिददृष्टात्, कचिच्चिन्तया । आदिशब्देन साहचर्यस्यापि ग्रहणात्तेनापि च भवति ।
१९. सादृश्यजा यथा – देवदत्तयज्ञदत्तयोः सदृशयोर्देवदत्तदर्शनेन यज्ञदत्तस्मृतिः। द्वितीया यथा – यादृच्छिकी कालान्तरानुभूतश्रीरङ्गादिदिव्यदेशस्मृतिः। तृतीया यथा – चिन्त्य-माने सति श्रीवेङ्कटेशस्य कमनीयदिव्यमङ्गलविग्रहस्मृतिः । चतुर्थी तु सहचरितयो- र्देवदत्तयज्ञदत्तयोर्मध्ये अन्यतरदर्शनेन तदन्यतरस्मृतिः ।
२०, संयक् पूर्वमनुभूतस्य सर्वस्य स्मृतिविषयत्वनियमः । क्वचित्कालदैर्ध्यात् व्याध्यादिना वा संस्कारप्रमोषात् स्मृत्यभावः ।
२१. यथा स्मृतेः प्रत्यक्षेऽन्तर्भावस्तथा “सोऽयं देवदत्त” इति प्रत्यभिज्ञायाम् अपि प्रत्यक्षेऽन्तर्भावः । अस्मन्मते अभावस्य भावान्तररूपत्वात् तज्ज्ञानस्यापि प्रत्य- क्षान्तर्भावः । भूतले घटात्यन्ताभावो भूतलमेव । घटप्रागभावो नाम मृदेव । घटध्वंसश्च कपालमेव ।
२२. प्रायः पुरुषेण अनेन भवितव्यम् इत्येतदूहः । पुरः किं-सञ्ज्ञकोऽयं वृक्ष इति अनध्यवसायो ज्ञानं संशय उक्तः । एतयोरपि प्रत्यक्षेऽन्तर्भावः । पुण्यपुरुषनिष्ठा प्रतिभापि प्रत्यक्षेऽन्तर्गता ।
२३. सर्वं विज्ञानं यथार्थमिति वेदान्तविदाम् मतमित्युक्तत्वात्, भ्रमादिप्रत्यक्ष- ज्ञानं यथार्थमेव ।
२४. अख्यात्यात्मख्यात्यनिर्वचनीयताख्यात्यन्यथाख्यात्यसत्ख्यातिवादिनो निरस्य सत्ख्यातिपक्षस्वीकारात् ।
२५. सत्ख्यातिर्नाम ज्ञानविषयस्य सत्यत्वम् । तर्हि भ्रमत्वं कथम्? इति चेत्, विषयव्यवहारबाधात् भ्रमत्वम् । तदुपपादयामः- पञ्चीकरणप्रक्रियया पृथिव्यादिषु सर्वत्र सर्वभूतानां विद्यमानत्वात् । अत एव शुक्तिकादौ रजताशंस्य विद्यमानत्वाज्ज्ञानविषयस्य सत्यत्वम् । तत्र रजतांशस्य स्वल्पत्वात् तत्र न व्यवहार इति तज्ज्ञानम् भ्रमः । शुक्त्यंशभूयस्त्वज्ञानात् भ्रमनिवृत्तिः ।
२६. स्वप्नादिज्ञानं तु सत्यमेव । तत्तत्पुरुषानुभाव्यतया तत्तत्कालावसानान् रथादीन् परमपूरुषः सृजतीति श्रुत्याऽवगम्यते ।
२७. “पीतः शङ्ख” इत्यादौ नयनवर्तिपित्तद्रव्यसंयुक्ता नायनरश्मयः शङ्खादिभिः सह संयुज्यन्ते । तत्र पित्तगतपीतिमाभिभूतः शङ्खगतशुक्लिमा न गृह्यते। अतः सुवर्णा- नुलिप्तशङ्खवत् “पीतः शङ्ख” इति प्रतीयते । सूक्ष्मत्वात् पीतिमा स्वनयननिष्कान्त-तया स्वेनैव गृह्यते, न तु अन्यैः ।
२८. जपाकुसुमसमीपवर्तिस्फटिकमणिरपि “रक्त” इति गृह्यते । तज्ज्ञानं सत्यमेव ।
२९. मरीचिकायां जलज्ञानमपि पञ्चीकरणप्रक्रियया पूर्वोक्तवदुपपद्यते । पञ्ची- करणप्रक्रिया तु उत्तरत्र वक्ष्यते ।
३०. दिग्भ्रमोऽपि तथैव । दिशि दिगन्तरस्य विद्यमानत्वात् अवच्छेदकमन्तरेण दिगिति द्रव्यान्तरानङ्गीकाराच्च ।
३१. अलातचक्रादौ तु शैघ्रयात्तदन्तरालाग्रहणात्तत्तद्देशसंयुक्ततत्तद्वस्तुन एव चक्राकारेण ग्रहणम् । तदपि सत्यमेव ।
३२. दर्पणादिषु निजमुखादिप्रतीतिरपि यथार्था । दर्पणादिप्रतिहतगतयो नायनरश्मयो दर्पणादिग्रहणपूर्वकं निजमुखादि गृह्णन्ति । तत्राप्यतिशघ्रयादन्तरालाग्रहणात् तथा प्रतीतिः ।
३३. द्विचन्द्रज्ञानादावपि अङ्गुल्यवष्टम्भतिमिरादिभिर्नयनतेजोगतिभेदेन सामग्रीभेदात् सामग्रीद्वयमन्योन्यनिरपेक्षं चन्द्रद्वयग्रहणे हेतुर्भवति । सामग्रीद्वयम् पारमार्थिकम्, तेन द्विचन्द्रज्ञानम् भवति ।
३४. अतः सर्वं ज्ञानं सत्यं सविशेषविषयं च । निर्विशेषवस्तुनोऽग्रहणात् ।
३५. एवम्भूतम् प्रत्यक्षम् प्रथमतो भेदमेव गृह्णाति । भेद इति व्यवहारे तु प्रतियोग्य- पेक्षा न स्वरूपे । तेन अनवस्थान्योन्याश्रयदोषोऽपि नास्ति । उपर्युपर्यपेक्षाऽनवस्था । परस्परापेक्षोऽन्योन्याश्रयः ।
३६. ननु “दशमस्त्वमसि” इत्येतदपि प्रत्यक्षं किं न स्यात्? इति चेत्, न। “त्वम्” इत्येतस्य प्रत्यक्षत्वेऽपि “दशमोऽहम्” इत्यस्य वाक्यजन्यत्वात् । यदि “दशमोऽहम्” इत्यस्य प्रत्यक्षविषयत्वं तर्हि “धर्मवाँस्त्वमसि” इत्येतस्यापि प्रत्यक्षत्वं स्यात् । अङ्गीकारे अतिप्रसङ्गात् । अत एव ‘तत्त्वमसि’ इति वाक्यस्य नापरोक्षज्ञानजनकत्वम् ।
३७. एतेन प्रत्यक्षप्रमाकरणम् प्रमाणम् । प्रमा च आत्मचैतन्यमेव । चैतन्यं च त्रिविधम् – अन्तःकरणावच्छिन्नचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नचैतन्यम्, विषया- वच्छिन्नचैतन्यं चेति । यदा त्रयाणामैक्यं तदा साक्षात्कारः । सोऽपि निर्विशेष- विषय एव अभेदमेव गृह्णातीत्यादिकुदृष्टिकल्पना निरस्ता ।
३८. निर्विकल्पकं नाम जात्यादियोजनाहीनं वस्तुमात्रावगाहि किञ्चिदिदमित्यादि- नैयायिकमतमपि निरस्तम् ।
३९. ननु “काणादम् पाणिनीयं च सर्वशास्त्रोपकारकम्” इत्युक्तत्वात् कथं गौतममतनिरासः? इति चेत्, उच्यते । नास्माभिः कार्त्स्न्येनास्य मतस्य निरासः क्रियते । यावदिह युक्तियुक्तं तावत् स्वीक्रियते । परकल्पिततटाकोपजीवनवत् न खलु तटाकस्थः पङ्कोऽपि स्वीक्रियते ।
४०. अतः परमाणुकारणत्ववेदपौरुषेयत्वेश्वरानुमानिकत्वजीवविभुत्वानि, सामान्यसम-वायविशेषाणाम् पदार्थत्वेन स्वीकारः, उपमानादेः पृथक् प्रमाणत्वकल्पनम्, सङ्ख्या- परिमाणपृथक्त्वपरत्वापरत्वगुरुत्वद्रवत्वादीनाम् पृथक् गुणत्वकल्पनम्, दिशोऽपि द्रव्यत्वकल्पनमित्यादिसूत्रकारादिविरुद्धा प्रक्रिया नास्माभिः स्वीक्रियते इति न विरोधः ।
इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन विरचितायां यतीन्द्रमतदीपिकायाम् प्रत्यक्षनिरूपणं नाम प्रथमोऽवतारः ॥