+कृष्णमाचार्योक्ता मत-प्रक्रिया

Source: TW

(सङ्कल्पसूर्योदय-प्रस्तावात्)

अथेत्थम् अस्य ग्रन्थ-कर्तुर् अभिमता औपनिषद-मत-प्रक्रिया –

विशिष्टाद्वैतम्

विशिष्टाद्वैतम् अस्याभिरुचितं गुरु-परम्परागतम् औपनिषदं मतम् ।
विशिष्टाद्वैतं नाम विशिष्टस्याद्वैतम् ।
अ-शेष-चिद्-अचिद्-विशिष्टस्य ब्रह्मणो ऽद्वैतम् एकत्वम् इत्यर्थः ।

चिद्-अचिद्-ईश्वर-रूपेण तत्त्वानि त्रि-विधानि ।

तत्र चिताम् अचितां चेश्वरेण सह प्रकार-प्रकारि-भावेन सम्बन्धः ।
चितः अचितश्च प्रकार-भूताः । ईश्वरस् तु प्रकारी ।
तेषां प्रकारत्वं चापृथक्-सिद्ध-सम्बन्धेन शरीरतया ।
एवं च चिद्-अचिच्-छरीरकं ब्रह्मैकम् एव तत्त्वम् इत्य् उक्तं भवति ।

[[३८]]

तत्र प्रकार-भूतानां चिद्-अचितां
प्रकारि-भूतस्य ब्रह्मणश्
चात्यन्त-विलक्षणत्वेन परस्परं भेदः ।
तथा प्रकाराणां चिताम् अचितां च परस्परं भेदः ।
एवं चितोऽपि परस्परं प्रत्येकं भिन्नाः ।
तथा अचितोऽपि ।

तथा ऽपि विशिष्टस्य ब्रह्मण एकत्वात्
एकत्व-व्यपदेशस्, तद्-इतर-निषेधश् च शास्त्रेषु ।

पदार्थः

पदार्थो द्विधा – द्रव्यम्, अद्रव्यं चेति ।
तत्र द्रव्यं षोढा - त्रिगुणं, कालः, जीवः, ईश्वरः, नित्यविभूतिः, मतिश् चेति ।