०८ परम्परा-भेदः

एवं नाथ-यामुन-यतीन्द्रादि-सत्-सम्प्रदाय-सिद्धो ऽप्य्
अयं विशिष्टाद्वैत-सिद्धान्तो
भगवद्-रामानुज-शिष्य-परम्परायाम् अन्यतमैः
श्री-प्रणतार्तिहर-देशिकैः श्री-गोविन्द-यतिभिश् च प्रवर्तितः
वात्स्य-वरदाचार्याद्यैः श्री-लोकाचार्याद्यैश् च सूक्ष्मेक्षिकया विमृष्टो
मनाग् इवाष्टादशसु विषयेषु मति-भेदम् आपद्यत ।

स च भेद इत्थं समगृह्यता ऽभियुक्तैः-

भेदः स्वामि-कृपा–फलान्य-गतिषु श्री-व्याप्त्य्-उपायत्वयोस्
तद्-वात्सल्य-दया-निरुक्ति-वचसोर्, न्यसे च तत्कर्तरि ।
धर्म-त्याग-विरोधयोः स्व-विहिते न्यासाङ्ग-हेतुत्वयोः
प्रायश्चित्त-विधौ तदीय-भजने ऽणु-व्याप्ति–कैवल्ययोः॥
अष्टाद-वि. २.

इति । अयम् अर्थः -

०१ कृपा-हेतुः

भगवतः कृपा निर्हेतुका
पुरुषार्थं जनयति ।
तस्याः +++(कृपायाः)+++ स-हेतुकत्वे भगवतो ऽवाप्त-समस्त-कामत्वं भज्येत ।
अतो भगवति मुक्तिं दित्सति सति
पुरुषस्यानिवारण-मात्रम् अपेक्षितम् ।
लोके ऽपि स्वामी स्वकीय-वस्तुनो रक्षणे
स्वयम् एव प्रवर्तते,
न तु तदीयां रक्षापेक्षां प्रतीक्षते ।

[[४९]] अतो निर्हेतुकैव भगवत्-कृपा ।
भक्ति-प्रपत्तिभ्यां
न मनाग् अपि तत्रोपयोग

इति परेषां मतम् ।

श्री-वेदान्त-देशिक-मतं तु
भगवत्-कृपा निर्हेतुका ऽपि
भक्ति-प्रपत्योर् अन्यतरं व्याजम् अवलम्ब्यैव प्रवर्तते ।
यथोक्तम्-

सर्वज्ञोऽपि हि विश्वेशः
सदा कारुणिकोऽपि सन् । संसार-तन्त्र-वाहित्वाद्
रक्षापेक्षां प्रतीक्षते ॥
1 ल-त. १७.७८.

इति ।
अन्यथा सर्व-मुक्ति-प्रसङ्गो,
मोक्षोपाय-विधि-शास्त्र-वैयर्थ्यं च स्यात् ।
सूत्र-कारश् च " वैषम्य-नैर्घृण्ये न, सापेक्षत्वात् " (ब्र-सू. २-१-३४.) इत्य् आह ।
सा स्वरूपतो निर्हेतुका ऽपि
व्याजं कञ्चनावलम्ब्यैव रक्षणोन्मुखा भवति ।
न च तावता तस्याः कापि हानिः ।
यथा कल्पक-तरुर् ईप्सित-प्रदो ऽप्य्
अर्थिनाम् एव ददाति,
नान्येषाम् इत्य् एतावता
तस्य मनाग् अपि न वदान्यताहानिस्,
तथा प्रकृतेऽपीति ।

०२ फलं मोक्षः

स च भक्ति-योग-निष्ठानां भगवद्-अनुभव एव ।
प्रपत्ति-योग-निष्ठानां तु भगवत्-कैङ्कर्यम् ।
एषा च व्यवस्था तत्-क्रतु-न्याय-सिद्धा ।
अतः फले द्वयोर् भेदो वर्तत

इति परेषां मतम् । स्व-मतं तु —
भक्त-प्रपन्नयोर् उभयोर् अपि
मुक्तत्वाविशेषात्
भगवद्-अनुभवस् तत्-कैङ्कर्यं चेत्य् उभयम् अपि फलम् एव ।
न हि वयम् आनन्द-तीर्थीया इव मुक्ति-तारतम्य-वादिनः ।
न चात्र तत्-क्रतु-न्याय-विरोधः ।
स हि न्याय उपासनायां ये विषयाः,
तेषां फल-दशायाम् अवश्यम्-भावित्वम् अभिसन्धत्ते
न त्व् अन्येषाम् अभावम् ।
यदाहुर् आचार्याः–

‘उपासित-गुणादेर् या
प्राप्ताव् अप्य् अ-बहिष्क्रिया ।
सा तत्-क्रतु-नय-ग्राह्या
नाकारान्तर-वर्जनम्’
रह-सारः. ९.

इति ।

[[५०]]

०३ अन्य-गतिः - प्रपत्ति-व्यतिरिक्तोपायः ।

कर्म-योग–ज्ञान-योग–भक्ति-योगाचार्याभिमान-योग-भेदाच्
चतुर्विधो मोक्षोपायः ।
स प्रत्येकम् अन्यानपेक्षया मोक्ष-साधक

इति परेषां मतम् ।

स्वमतं तु —
प्रपत्ति-व्यतिरिक्तो मोक्षोपायो भक्तियोग एक एव ।
उपासना-विरोधि-पाप-नाशनेन कर्म-योगस्य,
आत्मावलोकन-साधनतया ज्ञानयोगस्य च
परम्परया साधनत्वम् ।
आचार्याभिमान-योगस्तु प्रपत्ति-योग-भेद एवेति ।

०४ श्री-व्याप्तिः

श्रीः स्वरूपेणाणुः, न विभुः ।
किञ्च सा जीवकोटावेवान्तर्-भवति, न त्व् ईश्वर-कोटौ ;
ईश्वर-द्वित्व-प्रसङ्गाद्

इति परेषां मतम् ।
स्वमतं तु -

श्रीः विभुर् एव,

“यथा सर्व-गतो विष्णुस्
तथैवेयं द्विजोत्तम"
1 वि-पु. 1-८-१७.

त्वयैतद् विष्णुना चाम्ब
जगद् व्याप्तं चराचरम्
वि. पु. १-९-१२४.

इत्य्-आद्य्-उक्तेः ।
सा चेश्वर-कोटाव् एवान्तर्-भवति ।
न चेश्वर-द्वित्व-प्रसङ्गः, श्री-विशिष्टस्यैव तत्त्वात् ।

यदाहुः– “उभयाधिष्ठानं चैकं शेषित्वम्" (2 षड-सं.) इति ।
आत्म-हविः-समर्पणे अग्ना-विष्णु-समुदायस्येव
लक्ष्मीश्वर-समुदायस्यैवोद्देश्यत्वम् इति निष्कर्षः ।

०५ श्रिय उपायत्वम्

मोक्षोपायत्वं भगवत एव, न लक्ष्म्याः ।
सा तु पुरुष-कारतया परम्परया मोक्षोपाय-भूता,
न साक्षात् ।
अन्यथोपाय द्वित्वं प्रसजेद्

इति परेषां मतम् । स्वमतं तु –

श्री-र् अपि भगवान् इव साक्षान्-मोक्ष-प्रदेव ।
यथोक्तम् -

" आत्मविद्या च देवि त्वं
विमुक्ति-फल-दायिनी "

इति ।
यथा भगवतः श्री-विशिष्टतयैव मोक्ष-प्रदत्वेऽपि
तद्-अ-विना-भावान् नोपाय-द्वित्वं,
तथा श्रियोऽपि भगवन्-महिषीत्व-वेषेणैव मोक्ष-प्रदत्वात्
नोपाय-द्वित्व-प्रसक्तिर्

इति ।

०६ वात्सल्यम्

दोष-भोग्यत्वम् एव वात्सल्यम् । अतः प्रपन्नैः क्रियमाणान् दोषान्
भगवान् स्रक्-चन्दनादीव
भोग्यतया स्वीकरोति । [[५१]]
अत एव

“दोषो यद्यपि तस्य स्यात्
सतामेतद् अगर्हितम् "

इति भगवद्वचनं सङ्गच्छत

इति परेषां मतम् ।

स्वमतं तु —

दोषादर्शित्वम् एव वात्सल्यम् ।
अदर्शनं नामोपेक्षा ।
एतद् एवाभिप्रेत्य सहस्र-नाम-स्तोत्रे ‘अविज्ञाता’ इत्य् उच्यते ।
भक्त-दोषादर्शित्वम् एव हि तत्राविज्ञातृत्वम्,
अन्यथा सर्वज्ञत्व-विरोधात् ।
परोक्त-रीत्या दोष-भोग्यत्वे
भगवत्-प्रीति-कामेनाकृत्य-करणादेर् अवश्य-कर्तव्यता प्रसजेत्,
प्रायश्चित्त-विधि-वैयर्थ्यापातश् च ।

०७. दया

पर-दुःख-दुःखित्वं दया ।
अत एव

" व्यसनेषु मनुष्याणां
भृशं भवति दुःखितः "
रामा. ६-१८-३.

इति वचनं सङ्गच्छते ।
तद्धि गुण-वर्णन-प्रकरणे दृश्यते ।
अतो भगवतो गुण-रूपा दया
पर-दुःख-दुःखित्व-रूपैव ।
दृश्यते हि श्री-रामभद्रस्य पर-दुःख-दर्शनेन
स्वयं दुःखित्वम्

इति परेषां मतम् ।

स्वमतं तु -

पर-दुःखासहिष्णुत्वम् एव दया।
सा च तन्-निराकरणेच्छा-पर्यन्ता,
शक्तौ सत्यां निराकरण-पर्यन्ता च ।
पर-दुःख-दुःखित्व-रूपत्वे
भगवतः सदा दुःखित्व-प्रसङ्गः ।+++(5)+++
अनन्ते हि जीव-वर्गे
प्रायशः सर्वे दुःखिन एव वर्तन्ते ।
तान् दृष्टा भगवता ऽपि नित्य-दुःखिनैव भवितव्यम्
इति हेय-प्रत्यनीकत्व-विरोधः ।
" भृशं भवति दुःखितः " इत्यादिकं तु
दुःखाभिनय-मात्र-परम्
इत्य् अगत्या सर्वैः समाधातव्यम् ।

०८ न्यासः

भगवति रक्षोन्मुखे
स्वस्यानिवारण-मात्रं
पर-शेषतैक-रसात्म–याथात्म्य–ज्ञानं वा प्रपत्तिः ।
न त्व् आत्म-समर्पण-रूपा मानसी क्रिया,
अत्यन्त-पर-तन्त्रस्य स्व-रूप-विरुद्धत्वेन
कस्यचिद् अप्य् अनुष्ठानस्यानुपपत्तेः ।
स्वामिनि स्वकीय-स्व-भूतस्यात्मनो
रक्षण+++(य्)+++ उन्मुखे सति
स्वानुष्ठानस्यैव वैयर्थ्याच् च

इति परेषां मतम् ।

[[५२]]

स्वमतं तु —
आत्म-निक्षेपानुष्ठानमेव न्यासः ।
न तु केवलं पारतन्त्र्य-ज्ञानादिः ।
अत एव “मुमुक्षुर् वै शरणम् अहं प्रपद्ये " (श्वे-उ, ६-१८),
" मामेकं शरणं व्रज” (भ-गी १८-६६) इत्यादाव्
अनुष्ठान-विधिः सङ्गच्छते ।
किञ्च " रक्षापेक्षां प्रतीक्षते " (ल-त , १७.७०.)
इति पुंसो रक्षापेक्षा कर्तव्यतयोपदिश्यते ।+++(4)+++
अनिवारण-मात्रस्य न्यासत्वे
निवारणासमर्थानाम् अचिताम्
अनिवारणस्य स्वतः सिद्धतया
नित्य-मुक्तत्वं स्यात् ।

०९ न्यासकर्ता

गीतायां भगवता
विविधान् धर्मान् भक्त्य्-अङ्गतयोपन्यस्यान्ते
सर्व-धर्म-परित्याग-विधानात्
भक्तौ विश्वास-मान्द्यम् उदेति ।+++(4)+++
तादृश-विश्वास-मान्द्यवान् प्रपत्ताव् अधिकारी ।
किञ् च प्रपत्ति-गर्भित-द्रमिड-वेदान्ताध्याय्य् एव प्रपन्नः,
नान्य +++(5)+++

इति परेषां मतम् ।

स्वमतं तु —

अनन्य-गतिर् अ-किञ्चनो विलम्बाक्षमश् च न्यासाधिकारी ।
ज्ञान-शक्त्य्-आदिमान् विलम्ब-क्षमश् च भक्त्य्-अधिकारीति
प्रमाणिकी व्यवस्था सर्वाचार्य-सम्मता ।

“न भक्तिमांस् त्वच्-चरणारविन्दे ।
अकिञ्चनो ऽनन्य-गतिः "
स्तो-र, २२.

इति यामुनेय-श्री-सूक्त्या
भक्ति-राहित्याद् आकिञ्चन्यम् अनन्य-गतित्वं चाधिकारतया प्रतीयते ।
न तु भक्तौ विश्वास-मान्द्यम् ।+++(5)+++
किं चाधीत-द्रमिड-प्रबन्धः प्रपन्नो, नेतर
इति पक्षोऽपि न साधुः ।
न हि प्रपत्ति-गर्भित-सूक्ति-पाठ-मात्रेण
कश्चित् प्रपन्नो भवितुम् अर्हति ।
अन्यथोपासना-गर्भितोपनिषद्-वाक्य-पठन-मात्रेणोपासकः स्यात् ।
अत आकिञ्चन्यादिविशिष्ट एव प्रपत्ताव् अधिकारीति ।

१० धर्मत्यागः

“सर्वधर्मान् परित्यज्ये"ति चरमश्लोके
सर्व-धर्म-परित्याग-वचनात्
प्रपन्नैः काम्य-कर्माणीव नित्य-नैमित्तिक-कर्माण्य् अपि त्याज्यानि,
देवतान्तर-गर्भितत्वात् ।
किञ् च सर्व-धर्म-त्यागस्य प्रपत्त्य्-अङ्गतया विधानात्
प्रपत्ति-साद्गुण्यार्थे नित्य-नैमित्तिकानाम् अपि कर्मणां त्यागो ऽवश्य-कर्तव्य

इति परेषां मतम् ।

[[५३]]

स्वमतं तु —

विहितत्वाद्
अकरणे प्रत्यवायावहत्वाच् च
नित्य-नैमित्तिक-कर्माणि
प्रपन्नैर् अपि न परित्याज्यानि ।
सूत्रकारश् च " विहितत्वाच् चाश्रम-कर्मापि " (ब्र-सू ३-४-३२.) इत्याह ।
तेषां देवतान्तर-गर्भितत्व-शङ्का तु
+++(कौषीतक-ब्राह्मणोपनिषद्-उक्त–इन्द्र-कञ्चुक-ब्रह्म-प्रोक्त-)+++प्रतर्दन-विद्या-न्यायेन
तत्-तद्-देवतान्तर्यामि-परत्वेन वा
“साक्षाद् अप्य् अविरोधं जैमिनिः” (ब्र. सू, १-२-२८.) इति न्यायेन वा तेषां
भगवत्-परतया समाधातव्या ।
सर्व-धर्म-परित्याग-वचनं तु फल-त्यागादि-परम् ।

११ विरोधः

स्वतः शेष-भूतस्य पुंस
उपायान्तरम् उपासनं स्वरूप-विरुद्धम् ।
अत एव तत्राप्रवृत्तिः -
न तु ज्ञान-शक्त्य्-आद्य्-अभावात् ।
किञ् च ‘अहम् इत्य् एवोपासीत ’
इत्य् उपासनस्याहङ्कार-गर्भितत्वोक्तेश् चानुपादेयता

इति परेषां मतम् ।

स्व-मतं तु —
उपासनं स्व-रूप-विरुद्धं न भवति ।
आत्म-याथात्म्य-विद एवोपासनं विहितम् ।
‘अहम् इत्य् एवोपासीत ’ इत्य्-अत्रत्याहं-शब्दो ऽस्मद्-अर्थपरः ।
न तु प्राकृत-महत्-तत्त्व-कार्याहङ्काराख्य-दोष-परः ।
तस्मात् आकिञ्चन्य-विरुद्धम् उपासनम्,
न स्व-रूप-विरुद्धम् ।

१२ स्वविहितम्

स्वम् उद्दिश्य शास्त्रेषु विहिता वर्णाश्रमधर्मा
लोकसङ्ग्रहार्थम् एव प्रपन्नैः करणीयाः ।
नावश्य-कर्तव्य-बुद्धया,
प्रपन्नानां तत्-त्याग-विधानात् ।
ते चानुष्ठिता धर्मा
विधवाद्य्-अलङ्कारा इव निष्फलाः ।
न केवलम् एतावद् एव -
पातकानीव स-वासनं परित्याज्या

इति परेषां मतम् ।

स्वमतं तु –

“ मनीषी वैदिकाचारं
मनसापि न लङ्घयेत्”
ल. त, १७-९४.

श्रुतिः स्मृतिर् ममैवाज्ञा
वि ध, 4, 4-11.

इत्य्-आदिभिर् अकरणे प्रत्यवाय-स्मृतेर्
वर्णाश्रम-धर्माः प्रपन्नैर् अप्य् अनुष्ठेया एव ।
न तु परित्याज्याः ।

१३ न्यासाङ्गानि

[[५४]]

आनुकूल्य सङ्कल्पादीनि
न्यासाङ्गतया विहितान्य् अपि
परमैकान्तिभिः प्रपदने नावश्यानुष्ठेयानि ।
किन्तु यथा-सम्भवं ग्राह्याणि ।
काम्य-कर्मस्व् एव हि साङ्गानुष्ठानं नियतम् ।+++(4)+++
मुमुक्षूणां फल-कामनाभावात्
तेषाम् अङ्गानां न नियमेनानुष्ठानावश्यकता

+इति परेषां मतम् ।
स्वमतं तु —
अङ्गानां विहितत्वान् नियमेनानुष्ठानम् आवश्यकम् एव ।
मुमुक्षुभिः फल-सङ्ग-त्यागो ऽपि
प्रधान-फलत्वाभिसन्धि-त्याग-विषयः,
तेषां भगवद्-अनुभव-कैङ्कर्यादि-फल-सम्बन्धस्यावर्जनीयत्वात् ।
अतस् तादृश-फलावाप्त्य्-अर्थे
साङ्ग-प्रपदनानुष्ठानम् आवश्यकम् एव ।

१४ न्यासस्य हेतुत्वम्

" नायम् आत्मा प्रवचनेन लभ्यः " (मु-उ, ३-२-३.) इति श्रुत्या
भगवतः सिद्धोपायस्यैव साधनत्वावगत्या
न साध्योपायस्य प्रपदनस्य मोक्षोपायत्वम् ।
तस्याधिकारि-विशेषणत्वेनान्वयस् त्व् इष्ट एव

+इति परेषां मतम् ।

स्वमतं तु -
प्रपदनस्यापि साधनत्वम् अस्त्य् एव ।
अत एव

“उपायः सुकरश् चायं
दुष्करश् च मतो मम "
ल.त, १७.१०४.

इति प्रपदनस्योपायत्वोक्तिः सङ्गच्छते ।
" नायमात्मा” (मु.उ, ३.२.३.) इति श्रुतेस् तु
सिद्धोपायस्य भगवतः प्राधान्ये तात्पर्यम् ।
न त्व् एतावता ऽन्यस्योपायत्व-निषेधः ।
साधन-द्वित्वं तु
शास्त्र-सिद्धत्वान् न दोषाय ।
अन्यथा भक्त्य्-आदेग्ध्युपायत्वं न स्यात्,
तस्यापि भगवत्-प्रसादम् अन्तरा फल-प्रदान-सामर्थ्याभावात् ।
किं बहुना ?
ज्योतिष्टोमादीनाम् अपि स्वर्गादि-साधनत्वं न स्यात् ।
तैस् तैः कर्मभिर् आराधितो भगवान् एव
तत्-तत्-फलानां प्रदायक
इत्य् एव हि परम-सिद्धान्तः ।

१५ प्रायश्चित्तविधिः

प्रपन्नैर् बुद्धि-पूर्व-पापे कृते ऽपि
भगवतः क्षमैव प्रायश्-चित्त-स्थाने स्थित्वा
तत्पापं व्यपोहयति ।
अतः स्मृत्यादि-विहितं कृच्छ्र-चान्द्रायणादि न कर्तव्यम् ।
" सर्वपापेभ्यो मोक्षयिष्यामि " (गी. भ, १८.६६.) इति -
सर्व-शब्दः पूर्वाघानीवोत्तराघान्य् अपि क्रोडी-करोति ।
एवं सत्यपि यदि प्रायश्चित्त-करणेच्छा,
तदापि पुनः प्रपदनम् एव कार्यम् ।
न स्मृत्याद्य्-उक्तम्,

" प्रायश्-चित्तिर् इयं सा तु
यत्पुनः शरणं व्रजेत् "
ल-त, १७.९१

इति वचनाद्

इति परेषां मतम् ।

[[५५]]

स्वमतं तु —

बुद्धिपूर्वोत्तराघे
प्रपन्नेन शक्तौ सत्यां
स्मृत्याद्य्-उक्तं प्रायश्-चित्तं कर्तव्यम्,
अशक्तौ पुनः प्रपदनम् इति व्यवस्था ।
एवं च शक्ता-शक्त-विषयतया प्रायश्-चित्त-व्यवस्था ।
अन्यथा स्मार्तस्य प्रायश्चित्त-विधेर् आनर्थक्यं स्यात् ।
अ-प्रपन्नविषयः स भविष्यतीति चेत्,
मानस-वारुण-स्नानयोर् अप्य् एवं व्यवस्थापत्तौ
धर्म-वैयाकुली-प्रसङ्गः ।
किञ् च “निमित्ते सत्य् एव नैमित्तिकस्योदय” इति
भाव्य्-अघम् उद्दिश्य
पूर्वम् एव प्रपदनस्योदय
इति न सम्भाव्यम् एतत् ।

१६ तदीय-भजनम्

न शूद्रा भगवद्-भक्ता
विप्रा भागवताः स्मृताः
(भार- आश्र, १०८-३२.)

" चण्डालम् अपि वृत्तस्थं
तं देवा ब्राह्मणं विदुः " (भार-आश्र, १०६.८.)

इत्य्-आदि-शास्त्रात्
भागवताः शूद्र-चण्डाल-जातयो ऽपि
विप्रैर् भागवत-ब्राह्मणा इव
वन्दनादिभिः पूजनीयाः,
नानादरणीया

इति परेषां मतम् । स्वमतं तु —

भागवता अपि शूद्रा
भागवत ब्राह्मणैः सङ्ग्राह्याः,
नाभागवत-शूद्रा इवानादरणीयाः ।
किन्तु आशीर्वचन-सादर-सम्भाषणादिभिः सन्तोषणीयाः,
न तु वन्दनीयाः ।
यावच्-छरीरपातं देहाश्रिता जातिस् तिष्ठत्य् एव,
न तु प्रपन्नत्वादिना ऽपैति ।
देव-सुरभिर् अपि गौर् एव भवितुम् अर्हति ।
परं त्व् इतर-गवीभ्यो विशिष्यत
इत्येव वक्तुं शक्यते ।
तद्वत् प्रपन्नः शूद्रोऽपि शूद्र एव ।
परं त्व् इतर-शूद्रेभ्यो विशिष्यते ।

" न शूद्रा भगवद्भक्ताः” (भार- आश्र, १०८-३२.) इत्यादिकं
न हि निन्दा-न्यायेन
भक्त्य्-उत्कर्ष-प्रतिपादन-परम् ।
तथा च यथा

“ पितृभिर् भ्रातृभिश् चैव
पतिभिर् देवरैस् तथा”

इत्य्-आदि-वचनैर्
“दुहित्रादयो भूषणादिना पूज्या” (मनु. ३-५५)
इत्य् उच्यते
तथा ब्राह्मणैर् अपि यथाशास्त्रं यथाधिकारं च
भागवत-शूद्राः पूज्या
इत्य् एवोच्यते ।

[[५६]]

१७ अणु-व्याप्तिः

अणु-परिमाणे जीवे
परमात्मनः कथम् अन्तर्-व्याप्तिः?
सावयवे खलु वस्तुन्य् अन्तर्-भाग-बहिर्-भागादि-व्यवस्था ।
जीवश् च निरवयवो ऽणुश् च ।

" अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा"
तै-आर, ३-२००४,

इत्यादिभिः कथम् अन्तः प्रवेश उच्यमानो घटेतेति शङ्कायाम्,
ईश्वरस्याघटित-घटना-सामर्थ्याद् अन्तः-प्रवेशो युज्यत

इति परेषां मतम् ।

स्व-मतं तु —
सर्वत्राबाधितेनार्थेनैव शास्त्रार्थ-निर्वाहः कार्यः ।
अन्यथा पर-पक्षेषु बाधे उद्घाटिते
“अघटित-घटना-समर्थेश्वरेच्छया न दोष”
इति परेणोक्ते
किम् अस्माभिः प्रतिवस्तुं शक्येत ?
तस्माद् अणौ जीवे ईश्वरस्य सर्व-व्याप्तिर् नाम दश-दिक्-सम्बन्धः,
जीवस्येश्वरव्याप्ति-रहित-भाग-वैधुर्यं वेत्य् आस्थेयम् ।

१८. कैवल्यम्

कैवल्यं नाम भगवदनुभवं विना आत्म-मात्रानुभवः ।
तद्वतां स्थानम् अपि परमपद एव क्वचित् कोणे ।
तच् चानश्वरम् एव ।
अत एव केवल-जीवोपासकस्यार्चिर्-आदि-मार्गेण गमनम्
अनिवृत्तिश् च
श्री-गीता-भाष्ये प्रपञ्चितम् ।
अत एव च कदाचिन् मोक्षोपाय-सम्पादन-योग्य-संसाराद् अपि
कैवल्यस्यात्यन्तिक-भगवद्-अनुभवादि-विघ्नकरस्य
नरक-प्रायतां सात्त्विका विवेकिनो मन्वत

इति परेषां मतम् ।

स्वमतं तु

केवलात्मानुभवतां प्रकृति-मण्डल एवावस्थानम् ।
नश्वरश् च केवलात्मानुभवः ।
अयं भावः –
उपासका द्विविधाः ;
ब्रह्मात्मक-स्वात्मोपासकाः
स्वात्म-शरीरक-ब्रह्मोपासकाश् चेति ।
प्रथमे पञ्चाग्नि-विद्या-निष्ठाः
प्राकृत-स्थाने हिरण्य-गर्भादि-स्थानाद्
उपर्य् अधस्ताद् वा
यत्र कुत्रचित् स्थित्वा
स्वात्मानुभवम् अवाप्य
ततोऽर्चिरादि-मार्गेण परम-पदं प्राप्य
यथावस्थित-परिपूर्ण-ब्रह्मानुभवं
तत्-कैङ्कर्यं च प्राप्नुवन्ति ।

[[५७]]

द्वितीये तु
मध्ये स्वात्मानुभव-विलम्बम् अन्तरा
द्रागेवार्चिरादि-मार्गेण परमपदं प्राप्य
यथावस्थित-परिपूर्ण-ब्रह्मानुभवं तत्-कैङ्कर्यं चावाप्नुवन्ति ।
गीताभाष्ये आत्मोपासकस्यार्चिर्-आदि-मार्गेण गमनम्
आत्मानुभवञ् चोच्यमानं
पूर्वोक्त-पञ्चाग्नि-विद्या-निष्ठ-विषयम् एवेत्य् अवगन्तव्यम् ।
एवं विलम्बेन परम-पुरुषार्थ-प्राप्ताव् अपि
किञ्चिद् अपि विलम्बम् असहमानान् उद्दिश्य
कैवल्यस्य नरक-प्रायत्वोक्तिर् इति मन्तव्यम् ।

उपसंहारः

इत्थं केषुचिद्विषयेषु सयूथ्याभिप्रायभेदे सत्य् अपि
प्रधान-प्रतितन्त्र-सिद्धान्ते
न मनाग् अपि मिथो विमतिर् इति
त्रिवेदी-भद्र-वेदीम् अधिरूढो ऽयं विशिष्टाद्वैत-सिद्धान्त इति
यथायथं निगमयति ग्रन्थकारः -

दृष्टेऽपह्नुत्य्-अभावाद्, अनुमिति-विषये लाघवस्यानुसाराच्,
छास्त्रेणैवावसेये विहति-विरहिते, नास्तिकत्व-प्रहाणात् ।
नाथोपज्ञं, प्रवृत्तं बहुभिर्, उपचितं यामुनेय-प्रबन्धैस्
त्रातं सम्यग्-यतीन्द्रैर्, इदम् अखिल-तमः-कर्शनं दर्शनं नः ॥
सङ्क. सू २-४९.

इति ।