०७ अद्रव्यम्

अथ अद्रव्यम्॥
संयोग-रहितम् अद्रव्यम् ।
तच् च सत्त्व-रजस्-तमांसि शब्द-स्पर्श-रूप-रस-गन्धाः संयोगः शक्तिर् इति दश-धा ।
सङ्ख्या-परिमाणादीनां दर्शनान्तरोक्तानां
तत्-तद्-द्रव्य-स्वरूपम् आदायोपपत्तेर्
नातिरिक्तता ।