अथ अद्रव्यम्॥ संयोग-रहितम् अद्रव्यम् । तच् च सत्त्व-रजस्-तमांसि शब्द-स्पर्श-रूप-रस-गन्धाः संयोगः शक्तिर् इति दश-धा । सङ्ख्या-परिमाणादीनां दर्शनान्तरोक्तानां तत्-तद्-द्रव्य-स्वरूपम् आदायोपपत्तेर् नातिरिक्तता ।