०६ मतिः

अथ मतिः ।
अर्थ-प्रकाशो मतिः ।

आश्रयः, अवस्थाः

सा च जीवेश्वर-निष्ठा ।
नित्येष्व् ईश्वरे चाविकारा नित्या विभुश् च ।
तथापि सा बद्धानां तिरोहिता ।
मुक्तानां पूर्वे तिरोहिता,
अनन्तरम् आविर्भूता ।

तस्या उत्पत्ति-नाशादि-व्यवहारस् तु
सङ्कोच-विकास-परः ।

द्रव्यत्व-गुणत्वे

सा च स्वतः प्रमाण-भूता स्व-प्रकाशा च ।
यतः सा सङ्कोच-विकासवती,
अतो द्रव्यम् ।

नियमेनात्माश्रितत्वात् गुणश् च ।

एकस्यैव द्रव्यत्वं गुणत्वं च
न विरुद्धम् ।
न हि वयम् आक्षपादा इवाद्रव्यम् एव गुणम् आचक्ष्महे ।
[[४६]]
किं तु

अवस्थाश्रयो द्रव्यम्,
नियमेन किञ्चिद् आश्रितं गुण

इति द्रव्यगुणयोर् लक्षणं ब्रूमः ।

यथा प्रभा प्रभावतो गुणो ऽप्य्
उष्ण-स्पर्शाश्रयत्वात्
प्रभावन्तं विहायान्यत्र प्रसरणाच् च
द्रव्यम् अपि,
तथा प्रकृतेऽपि ।

भेदाः

सैषा मतिर् एवोपाधि-भेदात्
सुख-दुःखेच्छा-द्वेष-काम-सङ्कल्प-व्यवहार-भाग् भवति ।
प्रत्यक्षानुमान-शब्द-जाः प्रमितयो ऽपि तद्-भेदा एव ।

प्रत्यक्ष-प्रमितिः

तत्र ज्ञात–करण+++(=साधकतम)+++-ज-ज्ञान–स्मृति–भिन्ना मतिः प्रत्यक्ष-प्रमितिः
सा च द्विविधा - निर्विकल्पक–स-विकल्पक-भेदात् ।
उभय-विधा ऽपि विशिष्ट-विषयैव,
इन्द्रियार्थ-सम्बन्धैक-जन्या च ।

केचित्तु शब्द-जन्याम् अपि प्रत्यक्ष-प्रमितिम् इच्छन्ति ;
तथा हि ‘तत् त्वम् असि’ इत्य्-आदि-वाक्यार्थे ऽवगते
जीवाभिन्न-ब्रह्म-साक्षात्-कारो जायते ।
दृश्यते च ‘दशमस् त्वम् असि’ इति वाक्यात्
दशमत्वापरोक्ष-प्रमितिः ।
अत एव श्रूयते - “यत् साक्षाद् अपरोक्षाद् ब्रह्म” (बृ-उ. ३-४-१) इति ।

अत्रेदं वक्तव्यम् –

शब्दस्यापरोक्ष-ज्ञान-जनकत्वं न सम्भवति, व्याघातात् -
अ-ज्ञात–करण+++(=साधकतम)+++-जन्यत्वस्य प्रत्यक्षत्वस्य
ज्ञात-करणके+++(=साधकतम)+++ शाब्दे ऽवृत्तेः ।

यद्य् अपि संस्कारस्य
परोक्ष-स्मृति-जनकतैक-स्वभावस्यापि
क्वचिद् अपरोक्ष-भूत-प्रत्यभिज्ञा-जनकत्वं दृष्टम्,
तथा ऽपि तत्रेन्द्रिय-सह-भाव-रूप-विशेष-सत्त्वात् तथात्वम् ।
अत्र तु शब्दस्य
न तादृशेन्द्रिय-सह-भावोऽस्तीति वैषम्यम् ।

“दशमस् त्वम् असी"ति दृष्टान्तो ऽप्य् असङ्गतः ।
तत्र त्वम्-अर्थ-मात्रं प्रत्यक्षम् ।
“दशमो ऽहम्” इति तु न प्रत्यक्षम् इति सर्वसम्प्रतिपन्नम् ।

अयं भावः –
“दशमस् त्वम् असी"ति वाक्यं दृष्टान्तयतः कोऽभिप्रायः ?
किम् अयम् उपदेशो ऽनवगत-दशम-भावं प्रति ?
उत अवगत-दशम-भावं प्रति ?

आद्ये दशमत्वस्यानवगतत्वात् उपदेश-लभ्यं तद् इति परोक्षम् एव ।
यदीन्द्रियं, पुरुष-वचनम् अनपेक्ष्य,
+अत्र स्वतन्त्रम् एव बोधयेत्
तर्हि कुतो ऽनवगतं तत् ?
यदि च त्वम्-अर्थे विशेष्यांशे
चक्षुः-सन्निकर्ष-योग्यता-मात्रेण
विशेष-णांशे शब्द-जन्ये ऽपि ज्ञाने प्रत्यक्षत्वाभ्युपगमः,
तर्हि “धर्म-वांस् त्वम् असी"ति कार्तान्तिकोपदेशादौ
धर्मादेर् अपि प्रत्यक्षत्वं प्रसजेत् ।

[[૪૭]] द्वितीये तु पक्षे
माष-राशि-प्रविष्ट-मषी-न्यायेन
पूर्वापरापरोक्ष-धी-नैरन्तर्येण
मध्य-वर्ति–शब्द-जन्य–धियो ऽप्य् अ-परोक्षत्व-व्यवहारः,
यदि तादृशो व्यवहारः प्रामाणिकः स्यात् ।

भक्ति-प्रपत्ती

मोक्ष-साधनतया ऽवगते भक्ति-प्रपत्ती अपि मतिभेदावेव ।

भक्तिः

तत्र भक्तिर् नाम यम-नियमाद्य्-अङ्गवती
तैल-धारावद् अ-विच्छिन्न-स्मृति-सन्तति-रूपा ।
सा च त्रै-वर्णिक-मात्राधिकारा
कर्म-योग–ज्ञान-योगाङ्गिका च ।

सा च दहर-विद्यादि-भेदेन बहुधा ।

प्रपत्तिः

प्रपत्तिर् नाम न्यास-विद्या । तस्याः पञ्चाङ्गानि -

आनुकूल्यस्य सङ्कल्पः,
प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो,
गोप्तृत्व-वरणं तथा ।
आत्म-निक्षेप–कार्पण्ये
षड्-विधा शरणागतिः ॥
(अहि. सं. ३७-२-२७, २८.)

इति ।
अत्रात्म-निक्षेपो ऽङ्गी ।
इतराणि तद्-अङ्गानीति-विवेकः ।
अस्यां च प्रपत्ताव्
अधिकुर्वाणैर् अवश्यावगन्तव्याः पञ्चार्थाः ।

ते च —

प्राप्यस्य ब्रह्मणो रूपं
प्राप्तुश् च प्रत्यग्-आत्मनः । प्राप्त्युपायः फलं चैव
तथा प्राप्ति-विरोधि च ’ ।।
हारी - सं.

इति ।
किञ्चैषा प्रपत्तिस् त्रैवर्णिकैस् तद्-इतरैश् चाधिकर्तुं शक्या,
न तु भक्ति-योगवत् त्रैवर्णिकैर् एव ।
अस्याश् च

“ब्रह्मणे त्वा महस
ओमित्यात्मानं युञ्जीत”
3 महा- उ. २४१.

" तस्मान् न्यासम् एषां तपसाम् अतिरिक्तम् आहुः * "
महा-उ, २४-१,

" मुमुक्षुर् वै शरणम् अहं प्रपद्ये "
श्वे-उ. ६-१८,

इत्य्-आदि-वैदिक-वाक्य-प्रतिपाद्यत्वे ऽपि
सत्य-वदनादिवत् सर्वाधिकारत्वं न विरुध्यत
इति सम्प्रदायः ।

भक्ति-योगस्य साधन-भक्तिर् इति
न्यास-योगस्य साध्य-भक्तिर् इति च प्रख्यान्तरम् ।
तत्र साधन-भक्तिः प्रारब्धेतर-कर्म-नाशनी ।
साध्य-भक्तिस् तु प्रार्थनानुसारेण
+++(अनभ्युपगत-)+++प्रारब्ध-कर्मणोऽपि विनाशनीति सिद्धान्तः ।

प्रपत्तेर् अपि
ज्ञान-विशेष-रूपतया ब्रह्म-ज्ञानान् मुक्तिं वदन्तीभिस्
तद्-इतरोपाय-निषेध-पराभिश् च श्रुतिभिर्
न विरोधः ।
प्रपत्तिलक्षणं तु-

[[[४८]]]

“त्वम् एवोपाय-भूतो मे
भवे"ति प्रार्थना-मतिः । शरणागतिर् इत्य् उक्ता
सा देवेऽस्मिन् प्रयुज्यताम् ॥
1 अहि-सं. ३७-३१.

इत्य्-आदिकम् उक्तम् ।
विस्तरस् तु श्रीमद्-रहस्य-त्रय-सारे निक्षेप-रक्षादौ चावगन्तव्यः ।

फलम्

भक्तस्य भगवद्-अनुभव एव फलम्,
प्रपन्नस्य तु तत्-कैर्यम् अपीति
फल-भेद-कल्पनं तु
न चतुर्-अश्रम् - प्रमाणाभावात् ।