अथ नित्यविभूतिः ।
इयं शुद्ध-सत्त्व-शब्देन चोच्यते ।
रजस्-तमो-ऽसंसृष्ट-शुद्ध-सत्त्ववती नित्य-विभूतिः ।
अचेतना चेयम् ।
स्वयम्-प्रकाशत्वात् ज्ञानात्मिका । +++(5)+++
विस्तारः (द्रष्टुं नोद्यम्)
तेन शैवोक्त-बुद्धि-तत्त्ववद् भाति!
एतादृश-नित्य-विभूतिवत् शैव-दर्शने तत्त्वं किम् अपि नास्ति ।
परं बिन्दुर् इति शुद्ध-ज्ञानात्मकं तत्त्वं स्वीक्रियते ।
बिन्दुः, महामाया, कुण्डलिनी इति पर्यायाः ।
अयं बिन्दुर् यद्य् अपि जडात्मकः
मल-त्रय-रहित–किंचिद्-अधिकार-मल-युक्तानाम् अनन्तेश्वरादि-विद्येश्वराणां
(शुद्ध-)भोग-सिद्ध्य्-अर्थं बैन्दव-शरीरम् उत्पादयति
येन शरीरेण तादृश-शुद्ध-भोगांश् चानुभूय
महा-प्रलये शिवानुग्रहेण
एते शिव-समतात्मकं मोक्षं लभन्ते ।अयमेव बिन्दुः नाद-रूपतया परिणमते
यो हि शब्दस्य अति-सूक्ष्म-रूपः
परा-पश्यन्त्य्-आदि-चतुर्धा विभज्य
शब्द-अक्षरादिरूपेण परिणमते ।
- इति गणेशः
शरीरादि
इयं च नित्य-मुक्तेश्वराणाम् इच्छानुरूप-शरीरादि-रूपेणावतिष्ठते ।+++(5)+++
तत्र नित्य-मुक्तयोः शरीर-परिग्रहो भगवद्-अभिमत-कैङ्कर्य-लाभाय ।
भगवतस् तु
स्व-भोगाय
स्व-शेष-भूत-नित्य-मुक्तानन्दाय
मुमुक्षूपास्यत्व-सिद्धये च
स्व-सङ्कल्पाद् एव ।
मोक्षः
शुद्ध-सत्त्वमयं श्री-वैकुण्ठं प्राप्तस्य
निर्दुःख-निरतिशयानन्द-रूप–भगवद्-अनुभवतः कैङ्कर्यात्मको मोक्षः ।
न तु स्वात्मानुभव-रूप-कैवल्यम् एव,
तस्य परिमितानन्द-प्रदत्वात् ।
एवं चाप्राकृत-शुद्ध-सत्त्वमय-लोक-प्राप्त्य्-अनन्तरम् एव
जीवस्य मुक्त इति व्यवहारः,
न तु ततः पूर्वम् इति स्थितिः ।
पराभ्युपगता जीवन्-मुक्तिर् न सम्मन्यते,
जीवतो मुक्तत्वासम्भवात् ।
मुक्ति-सादृश्यात् गौण-व्यवहारे तु न विरोधः ।