०४ ईश्वरः

अथ ईश्वरः - विभुश् चेतन ईश्वरः ।
अयम् एव पर-ब्रह्मेति, भगवान् इति, ईश्वर इति, परमपुरुष इति, नारायण इति, सर्वशरीरीति चोच्यते ।

[[४२]]

जगता सम्बन्धः

स सर्वम् अपि चिद्-अचिद्-आत्मकं जगत्
अन्तर्यामितया व्याप्य वर्तते
अतः सर्वम् अपि जगत् -
शरीर-वाचि-पदानां शरीरि-पर्यन्तताया लोक-सिद्धत्वेन -
तस्य शरीरम् । सर्वाण्य् अपि पदान्य् अपर्यवसान-वृत्त्या भगवत्-पराणि
अत एव

सर्वं खल्व् इदं ब्रह्म
छा- उ. ३-१४.

" विश्वमेवेदं पुरुषः"
महा-उ. ३.

तद् एवाग्निस्
तद् वायुस्
तत् सूर्यस्
तद् उ चन्द्रमाः
महा-उ. १-७.

इत्य्-आदि-सामानाधिकरण्य-श्रुतिः ।

अयम् ईश्वरश् चिद्-अचिद्-विशिष्ट-वेषेण जगद्-उपादानम्
यथोक्तम्-

सच् च त्यच् चाभवत्
तै-उ, २-७-१.

इत्यादि ।

सङ्कल्प-विशिष्ट-वेषेण निमित्त-कारणम्
यथोक्तम् -

" सोऽकामयत - बहु स्यां प्रजायेयेति ।
इदं सर्वम् असृजत "
तै- उ. २-६-१.

इति ।

कालादि-रूपेण सहकारि-कारणं च ।

गुणवत्ता

स चायम् ईश्वरो ऽनन्त-कल्याण-गुण-निधिः,
अस्पृष्ट-दोष-गन्धश् च ।
एतद् एव ब्रह्मण उभय-लिङ्गम् इत्य् उच्यते ।

श्रुति-स्मृत्य्-आदिषु ब्रह्म-नैर्गुण्य-वादा
ब्रह्मणो हेय-गुण-निषेध-पराः ।
सागुण्य-वादाः स्वाभाविक-ज्ञान-शक्त्य्-आदि-कल्याण-गुण-वैशिष्ट्य-पराः ।

स्वाभाविकी ज्ञान-बल-क्रिया च
श्वे. उ. ६-८.

इति गुणानां स्वाभाविकत्वं हि श्रूयते ।
एकस्मिन्न् एव हि वाक्ये
“वि-जिघत्सो+++(←अद् खादने)+++ ऽपिपासः " (छा-उ. ८-१-५.)
इति हेयगुणान्निषिध्य
“सत्यकामः सत्यसङ्कल्पः " (छा-उ. ८-१-५.)
इति गुणोक्तिर् दृश्यते ।

अतः सगुण-निर्गुण-वाक्ययोर्
उत्सर्गापवाद-न्यायेनोपक्रमोपसंहार-न्यायेन वा
विषय-व्यवस्था ।

नियत-पौर्वापर्याद्+++(=??)+++
अपच्छेद-न्यायस्य (→पौर्वापर्ये पूर्व-दौर्बल्यं - प्रकृतिवत्) नात्रावसरः । अनियत-पौर्वापर्यस्थले हि सः ।

’ ब्रह्म निर्विशेषम् ।
तस्याच्छादिकया अविद्यया तिरोधानान् न प्रकाशः ।
विक्षेपिकया अविद्यया तस्मिन् प्रपञ्चाध्यासः ।
स एव सृष्टिः '

इति वादस् तु न विचार-सहः,
ब्रह्मणो ज्ञानानन्दमयस्याविद्यादि-दोष-गन्धायोगात् ।+++(5)+++
तस्य निर्धर्मकत्वे तिरोधेय-धर्माभावात् तिरोधानायोगः ।
तत्-स्वरूपस्यैव तिरोधाने तस्यैव हानि-प्रसङ्गः ।

[[४३]]

अमिथ्यात्वम् प्रपञ्चस्य

’ प्रपञ्चो मिथ्या
दृश्यत्वात्, व्यावर्तमानत्वात्'

इत्यपि न सम्यक् - प्रपञ्चोपहितस्य ब्रह्मणो दृश्यत्वेन मिथ्यात्वापातात् ।

एमम् अनुपहितस्यापि -
घटे देशान्तरं नीते
‘इहेदानीं घटो न सन्’
इति सत्त्वस्य व्यावर्तमानत्वेन
सत्त्व-सामान्यस्यापि मिथ्यात्व-प्रसङ्गाच् च ।

न च
तत्-तद्-देश-कालावच्छेदेन
व्यावर्तमानत्व-विवक्षणान् न दोषः,
तथा हि सति
तादृश-प्रतीतेर् भ्रमत्वाङ्गीकारात् ।

वाचस्पत्य्-उक्त-रीत्या मिथ्या-पदस्यानित्य-परत्वे तु
न कोऽपि विवादः,
प्रपञ्चानित्यत्वस्य सर्वेषाम् अभिमतत्वात् ।

विकारौचित्यम्

ब्रह्मैव च जगत उपादानं निमित्तं च ।
ब्रह्म-स्व-रूपस्याविकारित्वेन
प्रकार-भूत–चिद्-अचिद्-अंशे परिणामाङ्गीकारः ।
तत्राप्य् अचिद्-अंशे स्वरूप-विकारः,
चिद्-अंशे तु धर्म-भूत-ज्ञानांश+++(य्)+++ इति विवेकः ।

नित्यस्यापि जीव-धर्म-भूत-ज्ञानस्य
कर्म-कृत-सङ्कोच-विकासात्मक-विकारः
प्रामाण-संप्रतिपन्नत्वेनेष्ट एव ।

निमित्तत्वं तु स्वरूपेणैव ।

ब्रह्म-निर्विशेष-वादे तु
तत्-स्वरूप एव विकारस्याङ्गीकरणीयत्वान्
निर्विकारत्व-श्रुति-विरोधः ।

“माया-रूपोपाध्य्-अंशे विकार” इति तु न सुवचम् -
उपाधेस् तद्-अभिन्नत्वे स्व-रूपानतिरेकात् ।
भिन्नत्वे तु स-विशेषत्वम् एवायातम् ।

सत्, अद्वितीयम्

“सद् एव सौम्येदम् अग्र आसीत्
एकम् एवाद्वितीयम्”
तै- उ. २-१-१.

इत्यादौ इदम् इति स्थूल-चिद्-अचिच्-छरीरकं ब्रह्म परामृश्य
तस्य सृष्टेः प्राग्
इदानीं परिदृश्यमानानाम् अ-रूप-विभागानर्हतया
केवलं सच्-छब्द-वाच्य–सूक्ष्म-चिद्-अचिच्-छरीरक-ब्रह्मोपादनकत्वं
सद् एवेत्य् एकम् एवेति चोच्यते ।

अद्वितीयम् इति निमित्तान्तर-राहित्यम् इत्य्
अभिन्न-निमित्तोपादानत्वं सिध्यति ।

सत्यं ज्ञानम् अनन्तम्

एवं च सद्-विद्यादिर् अपि
षड्-विध-तात्पर्य-लिङ्गैः स-विशेष-ब्रह्मोपासन-परैव ।

" सत्यं ज्ञानम् अनन्तम्”
छ-उ. ८-२-१.

इत्य्-आदिभिर्
ब्रह्म सत्यत्वादि-विशिष्टम् एव बोध्यत
इति सविशेषम् एव ब्रह्म ।

यत् तु –

’ सत्यं ज्ञानम् अनन्तम्’
इति वाक्यम् अ-खण्डार्थ-परम्+++(=??)+++,
लक्षण-वाक्यत्वात्, “प्रकृष्ट-प्रकाश-चन्द्र” इति वाक्यवत् ।
[[४४]]
न “चैतत् स्व-रूप-बोधकं न भवती"ति वक्तुं शक्यते,
“कश् चन्द्र” इति चन्द्र-स्वरूपस्यैव पृष्टत्वेन
+उत्तरस्यापि स्व-रूप-बोधकत्वावश्यकत्वात् ।
यद् एव पृष्टुं,
तद् एव हि प्रतिवक्तव्यम्,
अन्यथा “आम्रान् पृष्टः कोविदारान् आचष्टे”
इति न्यायावतार-प्रसङ्गाद्’

इति,
तत्रेदं वक्तव्यम् —

सत्यादि-वाक्यं लक्षण-परम् इति सर्वसम्मतम् ।
लक्षणं हि नामासाधारणो धर्मः ।
तद्-वाचिनः कथं निर्विशेष-परत्वम् ?
दृष्टान्तोऽपि साध्य-विकलः,
तस्यापि वाक्यस्य चन्द्रासाधारण-धर्म-प्रतिपादन-परत्वात् ।
नाप्य् अपृष्टोत्तरम्,
प्रष्टा खलु सामान्यतश् चन्द्र-शब्दार्थं प्रतिपद्य
तद्-विशेष-जिज्ञासुस् तद्-अ-साधारण-धर्मम् अप्राक्षीत् ।
वक्ता च तद्-असाधारण-धर्म-रूपं लक्षणं प्राहेति कोऽत्र विरोधः ?
अतः प्रश्नोऽपि स-विशेष-परः,
उत्तरम् अपि तथैवेत्य् अवगन्तव्यम् ।

सामानाधिकरण्यम्

“भिन्न-प्रवृत्ति-निमित्तानां शब्दानाम्
एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम्
1 महा.प्र. १-२-४२.

इति हि शब्द-विद आमनन्ति ।
यत् त्व्

अत्र भिन्न-प्रवृत्तिनि-मित्तानाम् इति प्रायिकाभिप्रायम्
कोश-पठितेषु पर्याय-पदेषु तद्-अभावाद्

इति कस्यचिद् आधुनिकस्य कल्पनं,
तत् तु नादरणीयम् -
पर्याय-पदेष्व् अपि “अमरा निर्जरा देवाः " (नाम. १-१-७.) इत्यादिषु
प्रवृत्ति-निमित्त-भेद-सत्त्वात्,
अन्यथा “घटः घटः घटः” इत्य्-आदिवद् उन्मत्त-प्रलापापातात् ।+++(5)+++
सोऽपि हि

" न सोऽस्ति प्रत्ययो लोके
यः शब्दानुगमाद् ऋते ।
अनुविद्धम् इव ज्ञानं
सर्वं शब्देन भासते ॥ "
वाक्य. १-१२४.

इत्यादिना शब्दानुविद्धाम् एव तत्-तत्-पदार्थ-प्रतीतिम् आचष्टे ।

अनिरुपाधिकता

इदं ब्रह्मैव
हिरण्य-गर्भादि-शरीरकं जगत् सृजति,
विष्णु-रूपेण रक्षति,
रुद्रान्तकाद्य्-अन्तर्यामितया तच्-छरीरकं संहरतीति,
तद् +++(→ब्रह्म)+++ एव जगज्-जन्म-स्थिति-लय-कारणं भवति ।
एवं च निरुपाधिकं ब्रह्म
सोपाधिकम् ईश्वर इत्य् उच्यत

इति परेषां मतं नाङ्गीक्रियत इति ज्ञेयम् ।

पञ्च रूपाणि

स चायम् ईश्वरः
पर-व्यूह-विभवार्चान्तर्यामि-रूपेण
पञ्चधा ऽऽत्मानं प्रतिपद्यते ।

परो नाम
श्री-वैकुण्ठे श्री-भूमि-नीला-सहितः
+++(ज्ञानम्, बलम्, ऐश्वर्यम्, वीर्यम्, शक्तिः, तेजः इति)+++ षाड्-गुण्य-परिपूर्णः
पर-ब्रह्म–पर-वासुदेव–नारायणादि-शब्द-वाच्यः ।

व्यूहो नाम
स एवोपासनाद्य्-अर्थं
वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-भेदेन
चतुर्धा व्यूह्यावस्थितः ।

[[४५]]
केशवादयो व्यूहावान्तरभेदाः+++(=??)+++ ।

विभवो नाम मत्स्य-कूर्माद्य्-अवतार-विशेषाः ।

अर्चा नाम
स्वयं-व्यक्त–दैव-सैद्ध-मानुषादि-भेदेन
देवालयादिषु समर्च्यमानो मूर्ति-विशेषः ।

अन्तर्यामी नाम
समस्त-चिद्-अचिद्-अन्तर्व्याप्त्या
तेषां ध्यानोपयोगितया सदा सन्निहितः स्व-रूप-विशेषः ।

जीवे प्रवेशः

अणुरूपे जीवे
ब्रह्मणः कथम् अन्तः प्रवेश?

इति चेत् ; अत्र केचित् -
अघटित-घटना-+++(चमत्कार?)+++शक्त्येति वदन्ति ।

वस्तुतस् तु तद्-अ-प्रविष्ट-भागाभावो
दश-दिक्-सम्बन्ध एव वा सर्व-व्याप्तिर्
इति न दोष इति ।