०३ जीवः

अथ जीवः - अणुश् चेतनो जीवः ।

भ्रमास्पदानि

स च न देह एव, नेन्द्रियाण्य् एव, नापि प्राणा एव,
‘मम देहः, मम नेत्रं, मम प्राणाः’ इत्यदि-व्यतिरेक-दर्शनात् ।

नापि संविद् एव, ‘सोऽहं जानामि ’ इति संविदाश्रयत्व-प्रतीतेः ।
[[४१]]
नापि धीर् इयं भ्रान्तिः - अबाधात्,
भ्रान्तित्वेऽपि ज्ञातारम् अन्तरेणानुपपत्तेः ।

किञ् च अहम् इत्य् अहम्-अर्थतया ह्य् आत्मनः प्रतीतिः ।
धियश् चाहम्-अर्थत्वासम्भवः,
अहं जानामीत्य् अहम्-अर्थनिष्ठतया प्रतीतेः ।

नापि

चिच्-छाया ऽऽपत्त्या
अन्तःकरणस्यैव ज्ञातृत्व-प्रतीतिर् अहम्-अर्थत्वं

चेति युक्तम्,
अ-चाक्षुषयोर् बिम्बाधिकरणयोश् छायापत्त्य्-अ-योगात्।
“अध्यास-मात्रे छायापत्त्य्-उपचार” इति चेत्;
अत्रेदं विवेचनीयम् - “कुत्र कस्याध्यास?” इति ।
अन्तःकरणे चैतन्यस्येति चेत्,
तर्हि तत्र चैतन्यम् एव मिथ्या स्यात् ।
जपायाम् अध्यस्तो हि रक्तिमा
मिथ्येति परेषां मतम् ।
चैतन्यं अन्तःकरणस्याध्यास इति चेत,
तर्हि ज्ञानस्यान्तः-करणाश्रयता भ्रमः स्यात्,
न तु अन्तःकरणस्य ज्ञातृत्वं भ्रमः ।

अहम्-प्रतीतिः

“स चात्मा अहम्” इति प्रतीतिसिद्धः पुण्य-पापादि-कर्ता च ।
कर्तृत्वं च तस्य परम-पुरुषाधीनम् ।

गुणाः, ज्ञानम्

स च +++(जीवः)+++ स्वयंप्रकाशो नित्यो नाना च ।
तस्य स्वयं-प्रकाशत्वात् क्वचित् ज्ञानत्व-व्यपदेशोऽपि ।
तद् एवं ज्ञानं धर्मि-भूत-ज्ञानं धर्म-भूत-ज्ञानं चेति द्विविधम् ।
धर्मि-भूत-ज्ञानं जीवः ।
धर्म-भूत-ज्ञानं तस्य धर्मः ।

स च जीवः प्रतिशरीरं भिन्नः
सौभरि-प्रभृतीनां +++(मयया ऽनेकेषु)+++ शरीरेषु त्व् एकम् एव शरीरं जीववत् ।
अन्यानि तु धर्म-भूत-ज्ञान-व्याप्ततया सुखाद्य्-उपलब्धि-साधनानि भवन्ति ।

धर्मभूत-ज्ञानस्य
शास्त्र-प्रमाणेन कर्म-कृत-संकोचाभ्युपगमात्
बद्ध-दशायां संकुचितत्वम्

मुक्त-दशायां तु कर्माभावात् विकासित्वात् सर्व-विषयत्वम् इति ज्ञेयम् ।

सृष्ट्यादि देहे

जीवस्य नित्यत्वेऽपि
देह-संबन्धोत्पत्ति-विनाश-प्रयुक्ताः
’ उत्पन्नो जीवः, नष्टो जीवः ’ इत्यादिका व्यवहाराः ।

दशाः

स च जीवस् त्रिविधः- बद्ध-मुक्त-नित्य-भेदात् ।
तत्र बद्धाः संसारिणः कर्म-परवशा
ब्रह्मादि-स्तम्ब-पर्यन्ताः ।
मुक्ताः कंचित्-कालं संसारिणो भूत्वा
भक्ति-प्रपत्तिभ्यां समाराधित-भगवत्-संकल्पेन निवृत्त-संसाराः ।+++(5)+++
नित्याः कदाचिद् अप्य् असंसारिणो
भगवद्-अनुभव-तत्कैंकर्य-परा
अनन्त-गरुडादयः ।