०२ कालः

अथ कालः॥
अयम् अप्य् अचिद्-विशेषो गुण-त्रय-रहितो विभुर् नित्यो
निमेष-काष्ठा-कला-मुहूर्त-दिवसादि-परिणामी
भूतादि-व्यवहार-हेतुश् च ।
विभोर् अपि परिणामित्वं न विरुध्यते ।
प्रत्यक्षश् चायम्, वर्तमानो घट इत्य्-आदि-प्रतीतेः ।