०१ त्रि-गुणम्

तत्र महद्-आद्य्-अवस्थाश्रयं त्रि-गुणम्

प्रकृतिः

परस्पर-सम्मिश्र-सत्त्व-रजस्-तमो-गुणकत्वात् त्रि-गुणम् इत्य् उच्यते ।
तत्र च गुण-त्रयस्य परस्-परम् उत्कर्षापकर्ष-वैधुर्येण साम्येनावस्थितिः ।
तच् च विचित्र-सृष्ट्य्-उपकारकत्वात् मायेति,
महद्-आदि-विकार-प्रकृतित्वात् मूल-प्रकृतिर् इति,
विद्या-विरोधित्वात् अविद्येति,
भगवतो लीलोपकरणत्वात् लीला-विभूतिर् इति,
सर्व-प्रपञ्च-प्रधान-कारणत्वात् प्रधानम् इति,
अति-सूक्ष्मत्वात् गुण-साम्यावस्थाया अप्य् अस्फुटत्वाच् च अव्यक्तम् इति चोच्यते ।

अवस्था-भेदाः

इदम् एवावस्था-भेदात्
प्रकृतिः, महात्, अहङ्कारः, एकादशेन्द्रियाणि, पञ्च तन्-मात्राणि, पञ्च भूतानि चेति चतुर्-विंशतिधा भवति ।

मात्रा-भेदाः

तत्रापि मात्रया भेदम् अवलम्ब्य
अव्यक्ताक्षर–विभक्त-तमो–ऽविभक्त-तमो-रूपावस्था-चतुष्टयम् उदाहरन्ति ।

मात्रासाम्यावस्थाः

तत्र गुण-त्रय-साम्यावस्थायाम् अ-व्यक्तम् इति व्यपदेशः ।
सा चावस्था गुण-त्रय-वैषम्यस्याव्यवहित-पूर्वावस्था ।

गुण-साम्यावस्थस्यैव चेतन-समष्टि-गर्भत्वम् अक्षर-शब्देन व्यपदिश्यते ।
अतश् च सर्वे प्राकृत-तत्त्व-जातं चिद्–अ-चिद्-आत्मकम् इति मन्तव्यम् ,
यद् आहुर् महर्षयः –

“ प्रधानादि-विशेषान्तं चेतनाचेतनात्मकम् "

इति ।

तमः

एतादृशं चेतन-समष्टि-गर्भत्वम् अपि यत्र विवेक्तुम् अशक्यं
तद्-अवस्थम् अतिसूक्ष्मं तमः शब्देनोच्यते ।
तच् च द्वेधा - विभक्तम्, अविभक्तं चेति ।
अक्षराद्य्-अनन्तरावस्थौन्-मुख्य-विशिष्टं विभक्तं तमः ।
तदौन्मुख्य-रहितम् अविभक्तं तमः ।
तच् च परमात्म-शरीरतयापि चिन्तयितुम् अशक्यं
सलिल-विलीन-लवणक-रूपं
सर्व-ज्ञ-परमात्मैक-वेद्यम् अवतिष्ठते ।

अत्र चेत्थं निदर्शनं वक्तुं शक्यते -
कुसूल+++(धान्यागार)+++-निहित-बीज-स्थानीयम् अविभक्तं तमः ।
मृन्-निहित-बीज-स्थानीयं विभक्तं तमः ।

[[३९]]

सलिल-संसृष्टार्द्र-शिथिलावयव-बीज-तुल्यम् अक्षरम्
उच्छून-बीज-समानम् अव्यक्तम्
अङ्कुर-स्थानीयो महान् इति ।

महान्

अथ महान्
अहङ्काराव्यवहित-पूर्वावस्था-विशिष्टं त्रिगुणं महान् ।
बुद्धितत्त्वं महानिति साङ्ख्योक्तिस् तु
बुद्धेर् आत्मधर्मत्वाद् अनादरणीया ।

स च महान् सात्त्विकः, राजसः, तामसश् चेति त्रिधा भिद्यते ।
सर्वत्र गुण-त्रय-सत्त्वेऽपि तत्-तद्-गुणस्योन्मेष-वशात्
तथा तथा व्यवहारः ।

अहङ्कारः

अथाहङ्कारः॥
इन्द्रिय-शब्द–तन्-मात्रान्यतराव्यवहित-पूर्वावस्था-विशिष्टं त्रि-गुणम् अहङ्कारः
अभिमानोऽहङ्कार इति साङ्ख्योक्तिस् तु
अहङ्कारस्यात्मधर्मत्वाद् अनादरणीया ।

अत्रेदम् अवधेयम् –
अहङ्कार-शब्दस् त्रिष्व् अर्थेषु प्रयुज्यते ।
अनात्मनि देहादाव् “अहम्” इति प्रातीताव् एकः ।
तदा चाभूत-तद्-भावे च्वि-प्रत्ययम् उत्पाद्य व्युत्पन्नोऽयं शब्दः ।

तादृश-प्रतीति-हेतौ त्रि-गुण-विकारे अपरः ।
प्रत्यग्-आत्मनो ऽहं-शब्दार्थतया प्रतीताव् अन्यः ।
स चायं त्रि-गुण-द्रव्य-विकार-भूतो ऽहङ्कारः
सात्त्विक-राजस-तामस-भेदेन
त्रि-विधान् महत उत्पद्यमानः
स्वयम् अपि सात्त्विकादि-भेदेन त्रिविधः

तत्र सात्त्विकाहङ्कारस्य वैकारिक इति,
तामसाहङ्कारस्य भूतादिर् इति च नामान्तरम् ।

वैकारिकाद् एकादशेन्द्रियाणि
भूतादेः शब्द-तन्-मात्रं चोत्पद्यते ।

राजसाहङ्कारस् तूभयोर् अप्य् अनुग्राहकः ।

इन्द्रियाणि

अथेन्द्रियाणि॥
सात्त्विकाहङ्कारोपादानकं द्रव्यम् इन्द्रियम् ।
तच् च द्विविधम् - ज्ञानेन्द्रियं कर्मेन्द्रियं चेति ।

ज्ञान-प्रसरण-शक्तम् इन्द्रियं ज्ञानेन्द्रियम्
तच् च षोढा – मनः-श्रोत्र-चक्षुर्-घ्राण-रसना-त्वग्-भेदात् ।

उच्चारणाद्य् अन्यतम-क्रिया-शक्तम् इन्द्रियं कर्मेन्द्रियम्
तच् च पञ्चधा - वाक्-पाणि-पाद-पायूपस्थ-भेदात् ।

तन्मात्राणि

अथ तन्मात्राणि॥
भूतानाम् अव्यवहित-पूर्व-सूक्ष्मावस्थं द्रव्यं तन्-मात्रम्
तादृशी चावस्था तन्मात्रा
तन्मात्रम् एव भूतोपादानम्
तच् च पञ्चधा -
शब्दतन्मात्र, स्पर्शतन्मात्र, रूपतन्मात्र, रसतन्मात्र, गन्धतन्मात्र-भेदात् ।

[[४०]]

भूतानि

अथ भूतानि॥
विशिष्ट-शब्दादि-विषयाधिकरणं भूतम् इति भूतसामान्य-लक्षणम् ।
तच् च पञ्चधा —
आकाश-वायु-तेजो-जल-पृथिवी-भेदात् ।

तेषां सृष्टि-क्रमश् चेत्थम् –
शब्द-तन्मात्राद् आकश उत्पद्यते ।
आकाशात् स्पर्श-तन्मात्रम् । तस्माद्-वायुः ।
वायोः रूप-तन्मात्रम् । तस्मात् तेजः ।
तेजसो रस-तन्मात्रम् । तस्माज् जलम् ।
जलात् गन्ध-तन्मात्रम् । तस्मात् पृथिवीति ।

तत्रोत्तरोत्तरस्मिन् भूते पूर्व-पूर्व-भूतगुणा अनुवर्तन्त इति सिद्धान्तः ।+++(5)+++

लय-क्रमस्तु व्युत्क्रमेणानुसंधेयः ।

अन्धकारः पार्थिवं द्रव्यम्,
अबाधित-नीलादि-प्रतीतेः ।
सर्वाण्य् अप्य् एतानि भूतानि प्रत्यक्षाणि ।

पञ्ची-करण-प्रक्रिया

अथ पञ्ची-करण-प्रक्रिया॥
पञ्च भूतानि
प्रत्येकं द्विधा कृत्वा
भागम् एकं निधाय
भागान्तरं चतुर्धा विभज्य
तांश् चतुरो भागान्
भूतान्तरेषु चतुर्षु संयोजयेत् ।
एवं सर्वेषु भूतेषु क्रियमाणेष्व्
एकैकस्य भूतस्यार्धं स्वभागः,
अर्धान्तरं चतुर्णो भूतान्तराणां भागैः समुच्चितम् इति ज्ञातव्यम् ।

तथा च सर्वाणि भूतानि सर्व-भूतावयव-समाहार-रूपाणि ।
तथापि स्व-स्व-भागस्य भूयस्तया
पर-भागानाम् अल्पीयस्तया
चाकाशादि-व्यपदेशः ।

एवं सम्मेलने,
+++(५ भूतैस् सह)+++ प्रकृति-महद्-अहङ्कारादि-गणने
चाष्टीकरणाद्य् अपि ज्ञेयम् ।

शरीरम्

अथ शरीरम्॥

पञ्च भूतानि, प्रकृति-महद्-अहङ्काराश् चेत्य्
अष्टौ शरीरोपादान-भूतानि ।
तत्र शरीरं नाम -
चेतनं प्रति सर्वात्मना आधेयतया विधेयतया शेषतया
चापृथक्-सिद्ध-प्रकार-भूतं वस्तु ।