विस्तारः (द्रष्टुं नोद्यम्)
श्रीपराशर-भट्टार्यः
श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतश् श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥
विश्वास-प्रस्तुतिः
हर्तुं तमस्सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति ।
तेनावलोक्य कृतिनः परिभुञ्जते तं तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १ ॥
मूलम्

या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कृदृष्टयस्ताः ।
आगस्कृतां रङ्गनिधे ! त्वदध्वन्यन्धङ्करण्यः स्मृतवान् मनुस्तत् ॥ २ ॥

प्रत्यक्षप्रमथनपश्यतोहरत्वान्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म ।
दुस्तर्कप्रभवतया च वक्तृदोषस्पृष्ट्या च प्रजहति रङ्गविन्द ! वृद्धाः ॥ ३ ॥

अवयवितयेदङ्कुर्वाणैर्बहिष्करणैर्वपुर्निरवयवकोऽहङ्कारार्हः पुमान् करणातिगः ।
स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते तदधिकुरुतां शास्त्रं रङ्गेश ! ते परलोकिनि ॥ ४ ॥

प्रत्यक्षा श्रुतिरर्थधीश्च न तथा दोषास्तदर्थः पुनः धर्माधर्मपरावरेश्वरमुखः प्रत्यक्षबाध्यो न च ।
तच्चार्वाकमतेऽपि रङ्गरमण ! प्रत्यक्षवत् सा प्रमा योगोन्मीलितधीस्तदर्थमथवा प्रत्यक्षमीक्षेत सः ॥ ५ ॥

न सद् अ-सद् उभयं वा नोभयस्माद् बहिर् वा
जगद् इति न किलैकां कोटिम् आटीकते तत् ।
इति निर्-उपधि सर्वं-सर्विकातो निषेधन्
वरद ! सुगत-पाशश् चोर-लावं विलाव्यः ॥ ६ ॥
मूलम्
न सदसदुभयं वा नोभयस्माद्बहिर्वा जगदिति न किलैकां कोटिमाटीकते तत् ।
इति निरुपधि सर्वंसर्विकातो निषेधन् वरद ! सुगतपाशश्चोरलावं विलाव्यः ॥ ६ ॥
English - राजारामज-शङ्करः
The world is not existent; nor is it non-existent; nor is it simultaneously both; nor is it beyond existence and non-existence. It also does not align with any of the (above 4) positions" - Thus, O Varada, he negates everything wholesale. He, Sugata, must be chopped to pieces like a thief.
विश्वास-प्रस्तुतिः
प्रतीतिश्चेदिष्टा न निखिलनिषेषो यदि न को निषेद्धाऽतो नेष्टो निरुपधिनिषेधस्सदुपधौ ।
निषेधेऽन्यत्सिध्येत् वरद ! घटभङ्गे शकलवत् प्रमाशून्ये पक्षे श्रुतिरपि मतेऽस्मिन्विजयताम् ॥ ७ ॥

योगाचारो जगदपलपत्यत्र सौत्रान्तिकस्तद्धीवैचित्र्यादनुमितिपदं वक्ति वैभाषिकस्तु ।
प्रत्यक्षं तत्क्षणिकयति ते रङ्गनाथ ! त्रयोऽपि ज्ञानात्मत्वक्षणभिदुरते चक्षते तान् क्षिपामः ॥ ८ ॥

जगद्भङ्गुरं भङ्गुरा बुद्धिरात्मेत्यसद्वेत्त्रभावे तथा वेद्यवित्त्यो ।
क्षणध्वंसतश्च स्मृतिप्रत्यभिज्ञादरिद्रं जगत्स्यादिदं रङ्गचन्द्र ! ॥ ९ ॥

अहमिदमभिवेद्मीत्यात्मवित्त्योर्विभेदे स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु ।
प्रमितिरपि मृषा स्यान्मेयमिथ्यात्ववादे यदि तदपि सहेरन् दीर्घमस्मन्मनायु ॥ १० ॥

एतद्रामास्त्रं दलयतु कलिर्वह्ममीमांसकाश्च ज्ञप्तिर्ब्रह्मैतज्ज्वलदपि निजाविद्यया बम्भ्रमीति ।
तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो यद्यद् दृश्यं तद्वितथमिति ये ज्ञापयांचक्रुरज्ञाः ॥ ११ ॥

अङ्गीकृत्य तु सप्तभङ्गिकुसृतिं स्यादस्तिनास्त्वात्मिकां विश्वं त्वद्विभवं जगज्जिनमते नैकान्त माचक्षते ।
भिन्नाभिन्नमिदं तथा जगदुषे वन्ध्या ममाम्बेतिवन्नूत्नवब्रह्मविदे रहः परमिदं रङ्गेन्द्र ! ते चक्षताम् ॥ १२ ॥

कणचरचरणाक्षौ भिक्षमाणौ कुतर्कैः श्रुतिशिरसि सुभिक्षं त्वज्जगत्कारणत्वम् ।
अणुषु विपरिगाभ्य व्योमपूर्वं च कार्यं तव भवदनपेक्षं रङ्गभर्तर्ब्रुवाते ॥ १३ ॥

वेदे कर्त्राद्यभावाद्बलवति हि नयैस्त्वन्मुखे नीयमाने तन्मूलत्वेन मानं तदितरदखिलं जायते रङ्गधामन् ! ।
तस्मात्सांख्य सयोगं सपशुपतिमतं कुत्रचित्पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥ १४ ॥

सञ्चष्टे नेश्वरं त्वां पुरुषपरिषदि न्यस्य यद्वाऽऽन्यपर्यात् सांख्यो योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचित् ।
भिक्षौ शैवस्सुराजम्भवमभिमनुते रङ्गराजातिरागात् त्वां त्वामेवाभ्यधास्त्वं ननु परविभवव्यूहनाढ्यम्भविष्णुम् ॥ १५ ॥

इति मोहनव(र्ष्मणा)र्त्मना त्वयाऽपि ग्रथितं बाह्यमतं तृणाय मन्ये ।
अथ वैदिकवर्मवर्मितानां मनिताहे कुदृशां किमीश ! वर्त्म ॥ १६ ॥

संस्कारं प्रतिसञ्चरेषु निदधत्सर्गेषु तत्स्मारितं रूपं नाम च तत्तदर्हनिवहे व्याकृत्य रङ्गास्पद ! ।
सुप्तोद्बुद्धविरिञ्चपूर्वजनतामध्याप्य तत्तद्धितं शासन्नस्मृतकर्तृकान्वहसि यद्वेदाः प्रमाणं ततः ॥ १७ ॥

शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां छन्दश्छन्दश्चितौ स्याद्गमयति समयं ज्यौतिषं रङ्गनाथ ! ।
कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोर्न्यायमीमांसयोस्स्यात् अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ १८ ॥

आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः न्यायैस्सार्धं त्वदर्चाविधिमुपरि परिक्षीयते पूर्वभागः ।
ऊर्ध्वो भागस्त्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाप्तौ वेद्यो वेदैश्च सर्वैरहमिति भगवन्! स्वेन च व्याचकर्थ ॥ १९ ॥

क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुरप्रसादो वा कर्तुः फलद इति रङ्गेश ! कुदृशः ।
त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥ २० ॥

आज्ञा ते स-निमित्त-नित्य-विधयः, स्वर्गादि-काम्यद्-विधिः
सोऽनुज्ञा, शठ+++(→अभिचारक)+++-चित्त-शास्त्र-वशतोपायो ऽभिचार-श्रुतिः ।
सर्वीयस्य समस्त-शासितुर् अहो ! श्रीरङ्ग–सर्व-स्व ! ते
रक्षाकूत-निवेदिनी, श्रुतिर् असौ त्वन्-नित्य-शास्तिस् ततः ॥ २१ ॥+++(5)+++
न्यायपरिशुद्धौ विस्तारः (द्रष्टुं नोद्यम्)
आज्ञा ते इत्य्-आदि-श्लोकोऽपि श्रीरङ्गराजस्तवे ।
हे रङ्गेश । सनिमित्त-नित्य-विधयः नैमित्तिकविधयः नित्यविधयश्च तव आज्ञा ।
स्वर्गादि-काम्यद्-विधिः - स्वर्गादिकं काम्यतः = कामयमानान् उद्दिश्य विधिः काम्यविधिः तव अनुज्ञा । तत्रैव अभिचारविधिर् अपि अन्तर्भूतः ।
कथम् अनिष्ट-साधनम् आभिचारिक-कर्म अनुज्ञायते भगवता इत्यत्राह शठचित्तेति ।
शठ-चित्तस्य शास्त्र-वशत्वोपाय-रूपत्वात् तत्कर्मापि भगवद्-अनुज्ञा ।
शत्रु-वधे तीव्र-प्रवृत्तिमतः पुरुषस्य
पापान्तराद् विनिवर्त्य
शास्त्रीये एतद्-उपाये प्रेरणं,
स स्वेष्टसिद्धौ सत्यां शास्त्र-विश्वासात्
क्रमशः आज्ञादिकम् अपि कुर्वन्
संसाराद् उत्तीर्णः स्यात्
इत्यनुग्रहबुद्ध्येति भावः ।
सर्वीयस्य सर्वजनहितस्य ते तव रक्षाकूतनिवेदिनी = रक्षायां परमतात्पर्यस्य प्रकाशिका श्रुतिरपि त्वदीयनित्यशासनरूपेत्यर्थः ।
विश्वास-टिप्पनी
मन्ये भागवतहितायाप्य् अभिचारो ऽनुज्ञातस् स्यात्।
यथा भागवतानुग्रहे वयं भगवत्-साधनानि,
तथा तद्-विरोधि-निग्रहे ऽपि कुतो न स्याम?
इतिहास-रसिकास् स्मरेयुः - चिङ्ग्गिज़्-सम्राट् ख्वारॆज़्म्-मरुरक्षोराष्ट्रोत्पाटने तथैवोवाच।
मूलम्
आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः सोऽनुज्ञा शठचित्तशास्त्रवशतोपायोऽभिचारश्रुतिः ।
सर्वे(र्वा/र्वो) यस्य समस्तशासितुरहो ! श्रीरङ्गसर्व स्व ! ते रक्षाकूतनिवेदिनी श्रुतिरसौ त्वन्नित्यशास्तिस्ततः ॥ २१ ॥
विश्वास-प्रस्तुतिः
अत्रास्ते निधिरितिवत्पुमर्थभूते सिद्धार्था अपि गुणरूपवृत्तवादाः ।
रङ्गेश ! त्वयि सकलास्समन्वयन्ते नोपासाफलविधिभिर्विशेष एषाम् ॥ २२ ॥

देहो देहिनि कारणे विकृतयो जातिर्गुणाः कर्म च द्रव्ये निष्ठितरूपबुद्धिवचनास्तात्स्थ्यात् तथेदं जगत् ।
विश्वं त्वय्यभिमन्यसे जगदिषे तेनाद्वितीयस्ततः मायोपाधिविकारसङ्करकथा का नाम रङ्गेश्वर ! ॥ २३ ॥

स्थित्युत्पत्तिप्रवृत्तिग्रसननियमनव्यापनैरात्मनस्ते शेषोऽशेषः प्रपञ्चो वपुरिति भवतस्तस्य चाभेदवादाः ।
सर्वं खल्वैतदात्म्यं सकलमिदमहं तत्त्वमस्येवमाद्याः व्याख्थाता रङ्गधामप्रवण ! विजयिभिर्वैदिकैस्सार्वभौमैः ॥ २४ ॥

सराजकमराजकं पुनरनेकराजं तथा यथाभिमतराजकं जगदिदं जजल्पुर्जडाः ।
जगाचवशचित्रतातरतमत्वतर्काङ्गिका श्रुतिश्चिदचिती त्वया वरद ! नित्यराजन्वती ॥ २५ ॥

ब्रह्माद्यास्सृज्यवर्गे भ्रुकुटिभटतयोद्धटिता नावतारप्रस्तावे तेन न त्वं न च तव सदृशा विश्वमेकातपत्रम् ।
लक्ष्मीनेत्रा त्वयेति श्रुतिमुनिवचनैस्त्वत्परैरर्पयामः श्रीरङ्गाम्भोधिचन्द्रोदय ! जलमुचितं वादिकौतस्कुतेभ्यः ॥ २६ ॥

दोषोपधावधिसमातिशयानसंख्यानिर्लेपमङ्गलगुणौघदुघाष्षडेताः ।
ज्ञानैश्वरीशकनवीर्यबलार्चिषस्त्वां रङ्गेश ! भास इव रत्नमनर्घयन्ति ॥ २७ ॥

युगपदनिशमक्षैः स्वैः स्वतो वाऽऽक्षकार्ये नियममनियमं वा प्राप्य रङ्गाधिराज ! ।
करतलवदशेषं पश्यसि स्वप्रकाशं तदवरणममोघं ज्ञानमाम्नासिषुस्ते ॥ २८ ॥

नयनश्रवणो दृशा शृणोषि अथ ते रङ्गपते ! महेशितुः ।
करणैरपि कामकारिणः घटते सर्वपथीनमीक्षणम् ॥ २९ ॥

सार्वज्ञ्येनाज्ञमूलं जगदभिदधतो वारितास्साक्षिमात्रात् सांख्येक्तात्कारणं त्वां परयति भगवन्नैश्वरी रङ्गशायिन् ! ।
अप्रेर्योऽन्यैः स्वतन्त्रोऽप्रतिहति सदसत्कर्मचैत्र्या विचित्रं यत्रेच्छालेशतस्त्वं युगपदगणयन् विश्वमाविश्चकर्थ ॥ ३० ॥

कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः सा ते शक्तिस्सुकरमितरच्चेति वेलां विलङ्घ्य ।
इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा सैवैशानादतिशयकरी सोर्णनाभौ विभाव्या ॥ ३१ ॥

स्वमहिमस्थितिरीश ! भृशक्रियोऽप्यकलितश्रम एव बिभर्षि यत् ।
वपुरिव स्वमशेषमिदं बलं तव पराश्रितकारणवारणम् ॥ ३२ ॥

मृगनाभिगन्ध इव यत्सकलार्थान् निजसन्निधेरविकृतो विकृणोषि ।
प्रियरङ्ग ! वीर्यमिति तत्तु वदन्ते सविकारकारणमितो विनिवार्यम् ॥ ३३ ॥

सहकार्यपेक्षमपि हातुमिह तदनपेक्षकर्तृता ।
रङ्गधन ! जयति तेज इति प्रणतार्तिजित् प्रतिभटाभिभावुकम् ॥ ३४ ॥

मर्त्योत्थायं विरिञ्चावधिकमुपरि चोत्प्रेक्ष्य मीमांसमाना रङ्गेन्द्रानन्दवल्ली तव गुणनिवहं यौवनानन्दपूर्वम् ।
न स्वार्थं स्प्रष्टुमीष्टे स्खलति पथि परं मूकलायं निलिल्ये हन्तैवं त्वद्रुणानामवधिगणनयोः का कथा चित्तवाचोः ॥ ३५ ॥

न्यधायिषत ये गुणा निधिनिधायमारण्यकेष्वमी म्रदिमचातुरीप्रणतचापलक्षान्तयः ।
दयाविजयसौन्दरीप्रभृतयोऽपि रत्नौघवत् जगद्व्यवहृतिक्षमा वरद ! रङ्गरत्नापणे ॥ ३६ ॥

यमाश्रित्यैवात्मंभरय इव ते सद्गुणगणाः प्रथन्ते सोऽनन्तस्ववशघनशान्तोदितदशः ।
त्वमेव त्वां वेत्थ स्तिमितवितरङ्गं वरद ! भोः ! स्वसंवेद्यस्वात्मद्वयसबहुलानन्दभरितम् ॥ ३७ ॥

आघ्रायेश्वरगन्धमीशसदृशंमन्यास्तवेन्द्रादयो मुह्यन्ति त्वमनाविलो निरवधेर्भूम्नः कणेहत्य यत् ।
चित्रीयेमहि नात्र रङ्गरसिक ! त्वं त्वन्महिम्नः परः वैपुल्यान्महितः स्वभाव इति वा किन्नाम सात्म्यं न ते ॥ ३८ ॥

षाङ्गुण्याद् वासुदेवः पर इति स भवान् मुक्त-भोग्यो, बलाढ्यात्
बोधात् सङ्कर्षणस् त्वं हरसि, वितनुषे शास्त्रम्,, ऐश्वर्य-वीर्यात् । प्रद्युम्नस्, सर्ग-धर्मो नयसि च भगवन् ! शक्ति-तेजो ऽनिरुद्धो
बिभ्राणः पासि तत्त्वं, गमयसि च तथा व्यूह्य रङ्गाधिराज! ॥ ३९ ॥
rAjagopAlaH
“O, Sovereign of [^f160] Śrīraṅga!
As the Supreme Vāsudeva (Para) endowed with all the six qualities,
you are the object of blissful enjoyment for those that have attained mokṣa ;
as Saṅkarṣaṇa being endowed with strength and knowledge,
you destroy the Universe and also promulgate the śāstras;
as Pradyumna being endowed with lordship and virility,
you create the Universe and make Dharma prevail;
as Aniruddha being endowed with splendour and the power to overcome others,
you protect the world and teach the Truth.
In this way you divide yourself.”
मूलम्
षाङ्गुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् सङ्कर्षणस्त्वं हरति वितनुषे शास्त्रमैश्वर्यवीर्यात् ।
प्रद्युम्नस्सर्गधर्मौ नयसि च भगवञ्च्छक्तितेजोऽनिरुद्धः बिभ्राणः पासि तत्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ! ॥ ३९ ॥
विश्वास-प्रस्तुतिः
जाग्रत्-स्वप्नात्यलस+++(←सुषुप्ति)+++-तुरीय+++(←मूर्च्छायां मरणे वा)+++-
प्राय-ध्यातृ-+++(एकाग्रता-)+++क्रमवद् +++(चतुर्धा)+++ उपास्यः ।
स्वामिंस् तत्-तत्-सह+++(→योग्य)+++(/+++(वर्णादि-)+++गुण)-परिबर्हः
चातुर्-व्यूहं वहसि +++(वैकुण्ठे विशाख-यूपे यथा)+++ चतुर्-धा +++(→४*४=१६)+++ ॥ ४० ॥
मूलम्
जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः ।
स्वामिंस्तत्तत्सह(/गुण)परिबर्हः चातुर्व्यूहं वहसि चतुर्धा ॥ ४० ॥
विश्वास-प्रस्तुतिः
अचिदविशेषितान् प्रलयसीमनि संसरतः करणकलेबरैर्घटयितुं दयमानमनाः ।
वरद ! निजेच्छयैव परवानकरोः प्रकृतिं महदभिमानभूतकरणावलिकेरकिणीम् ॥ ४१ ॥

निम्नोन्नतं च करुणं च जगद्विचित्रं कर्म व्यपेक्ष्य सृजतस्तव रङ्गशेषिन् ।
वैषम्यनिर्घृणतयोर्न खलु प्रसक्तिः तद्ब्रह्मसूत्रसचिवाः श्रुतयो गृणन्ति ॥ ४२ ॥

स्वाघीने सहकारिकारणगणे कर्तुश्शरीरेऽथवा भोक्तुः स्वानुविधापराधविधयोः राज्ञो यथा शासितुः ।
दातुर्वाऽर्थिजने कटाक्षणगिव श्रीरङ्गसर्वस्व ! ते स्रष्टुस्मृज्यदशाव्यपेक्षणमपि स्वातन्त्र्यमेवावहेत् ॥ ४३ ॥

प्रलयसमयसुप्तं स्वं शरीरैकदेशं वरद ! चिदचिदाख्यं स्वेच्छया विस्तृणानः ।
खचितमिव कलापं चित्रमातत्य धून्वन् अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥ ४४ ॥

भूयो भूयस्त्वयि हितपरेऽत्युत्पथानात्मनीनस्रोतोमग्नानपि पथि नयंस्त्वं दुराशावशेन ।
रुग्णे तोके स्व इव जननी तत्कषायं पिबन्ती तत्तद्वर्णाश्रमविधिवशः क्लिश्यसे रङ्गराज ! ॥ ४५ ॥

सार्व ! त्वत्कं सकलचरितं रङ्गधामन् ! दुराशापाशेभ्यस्स्यान्न यदि जगतां जातु मूर्खोत्तराणाम् ।
निस्तन्द्रालोस्तव नियमतो नर्तुलिङ्गप्रवाहा सर्गस्थेमप्रभृतिषु सदाजागरा जाघटीति ॥ ४६ ॥

सुहृदिव निगलाद्यैरुन्मदिष्णुं नृशंसं त्वमपि निरयपूर्वैर्दण्डयन् रङ्गनेतः ! ।
तदितरमपि बाधात्त्रायसे भोगमोक्षप्रदिरपि तव दण्डापूपिकातस्सुहृत्त्वम् ॥ ४७ ॥

धृतिनियमनरक्षावीक्षणैश्शास्त्रदानप्रभृतिभिरचिकित्स्यान् प्राणिनः प्रेक्ष्य भूयः ।
सुरमनुजतिरश्चां सर्वथा तुल्यधर्मा त्वमवतरसि देवोऽजोऽपि सन्नव्ययात्मा ॥ ४८ ॥

अनुजनुरनुरूपरूपचेष्टा न यदि समागममिन्दिराऽकरिष्यत् ।
असरसमथवाऽप्रियम्भविष्णु ध्रुवमकरिष्यत रङ्गराजनर्म ॥ ४९ ॥

गरीयस्त्वं परिजानन्ति धीराः परं भावं मनुजत्वादिभूष्णुम् ।
अजानन्तस्त्ववजानन्ति मूढाः जनिघ्नं ते भगवञ्जन्म कर्म ॥ ५० ॥

मध्येविरिञ्चगिरिशं प्रथमावतारः तत्साम्यतः स्थगयितुं तव चेत् स्वरूपम् ।
किं ते परत्वपिशुनैरिह रङ्गधामन् ! सत्त्वप्रवर्तनकृपापरिपालनाद्यैः ॥ ५१ ॥

मधुः कैटभश्चेति रोधं विधूय त्रयीदिव्यचक्षुर्विधातुर्विधाय ।
स्मरस्यङ्ग ! रङ्गिस्तुरङ्गावतारः समस्तं जगज्जीवयिष्यस्यकस्मात् ॥ ५२ ॥

रङ्गधे ! तिमिरघस्मरशीतस्वच्छहंसतनुरिन्दुरिवोद्यन् ।
वेदभाभिरनुजग्रहिथाऽऽर्तान् ज्ञानयज्ञसुधयैव समृद्ध्यम् ॥ ५३ ॥

वटदलमधिशय्य रङ्गधामन् ! शयित इवार्णवतर्णकः पदाब्जम् ।
अधिमुखमुदरे जगन्ति मातुं निदधिथ वैष्णवभोग्यलिप्सया वा ॥ ५४ ॥

उन्मूल्याहर मन्दराद्रिमहिना तं सम्बधानामुना दोर्भिश्चञ्चलमालिकैश्च दधिनिर्माथं मथानाम्बुधिम् ।
श्रीरङ्गेश्वर ! चन्द्रकौस्तुभसुधापूर्वं गृहाणेति ते कुर्वाणस्य फलेग्रहिर्हि कमलालाभेन सर्वः श्रमः ॥ ५५ ॥

देवीहस्ताम्बुजेभ्यश्चरणकिसलये संवहद्भ्योऽपहृत्य प्रत्यस्यानन्तभोगं झटिति चलपुटे चक्षुषी विस्तृणानः ।
आक्षिप्योरश्च लक्ष्म्याः स्तनकलशकनत्कुङ्कुमस्तोमपङ्काद्देवः श्रीरङ्गधामा गजपतिधुषिते व्याकुलः स्तात् पुरो नः ॥ ५६ ॥

अतन्त्रितचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुकं किमिति चाकुलान्तःपुरम् ।
अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥ ५७ ॥

यं पश्यन्विश्वधुर्यां धियमसकृदथो मन्थरां मन्यमानः हुंकारास्फालनांघ्रिप्रहतिभिरपि तं तार्क्ष्यमध्यक्षिपस्त्वम् ।
किञ्चोदञ्चन्नुदस्थास्तमथ गजपतेरबृंहिते जृम्भमाणे देव ! श्रीरङ्गबन्धो ! प्रणमति हि जने कान्दिशीकी दशा ते ॥ ५८ ॥

श्रीरङ्गेशय ! शरणं ममासि वात्याव्यालोलत्कमलतटाकताण्डवेन ।
स्रग्भूषाम्बरमयथायथं दधानः धिङ्मामित्यनुगजगर्जमाजगन्थ ॥ ५९ ॥

मीनतनुस्त्वं नावि निधाय स्थिरचरपरिकरमनुमनु भगवन् ! ।
वेदसनाभिस्त्वोक्तिविनौदैरकलितलयभयलवममुमवहः ॥ ६० ॥

श्रीनयनाभोद्भासुरदीर्घप्रविपुलसुरुचिरशुचिशिशिरवपुः ।
पक्षनिगीर्णोद्गीर्णमहाब्धि स्थलजलविहरणरतगतिरचरः ॥ ६१ ॥

चकर्थ श्रीरङ्गिन्निखिलजगदाधारकमठो भवन् धर्मान् कूर्मः पुनरमृतमन्थाचलधरः ।
जगन्य श्रेयस्त्वं मरकतशिलापीठललितं जलादुद्यल्लक्ष्मीपदकिसलयन्याससुलभम् ॥ ६२ ॥

हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन् प्रलयार्णवं क्षितिकुचतटीमर्चन् दैत्यास्रकुङ्कुमचर्चया ।
स्फुटधुतसटाभ्राम्यद्ब्रह्मस्तवोन्मुखबृंहितः शरणमसि मे रङ्गिंस्त्वं मूलकोलतनुर्भवन् ॥ ६३ ॥

नृहरिदशयोः पश्यन्नौत्पत्तिकं घटनाद्भुतं नरमुत हरिं दृष्ट्वैकैकं समुद्विजते जनः ।
इति किल सिताक्षीरन्यायेन सङ्गमिताङ्गकं स्फुटसटमहादंष्ट्रं रङ्गेन्द्रसिंहमुपास्महे ॥ ६४ ॥

द्विषाणद्वेषोद्यन्नयनवनवह्निप्रशमनभ्रमल्लक्ष्मीवक्त्रप्रहितमधुगण्डूषसुषमैः ।
नखक्षुण्णारातिक्षतजपटलैराप्लुतसटाच्छटास्कन्धो रुन्धे दुरितमिह पुंस्पञ्चवदनः ॥ ६५ ॥

नखाग्रग्रस्तेऽपि द्विषति निजभक्तद्रुहि रुषः प्रकर्षाद्विष्णुत्वद्विगुणपरिणाहोत्कटतनुः ।
विरुद्धे वैयग्रीसुघटितसमानाधिकरणे नृसिंहत्वे बिभ्रद्वरद ! विभरामासिथ जगत् ॥ ६६ ॥

दैत्यौदार्येन्द्रयाञ्चाविहतिमपनयन् वामनोऽर्थी त्वमासीः विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये ।
नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः तस्थौ रङ्गेन्द्र ! वृत्ते तव जयमुखरो डिण्डिमस्तत्र वेदः ॥ ६७ ॥

भवान् रामो भूत्वा परशुपरिकर्मा भृगुकुलादलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा ।
भुवो भाराक्रान्तं लघु तलमुपाचीक्लृपदिति द्विषामुग्रंपश्योऽप्यनघ ! मम मा जीगणदधम् ॥ ६८ ॥

मनुजसमयं कृत्वा नाथावतेरिथ पद्मया क्वचन विपिने सा चेदन्तर्धिनर्म विनिर्ममे ।
किमथ जलधिं बध्वा रक्षो विधीशवरोद्धतं बलिमुखकुलोच्छिष्टं कुर्वन् रिपुं निरपत्रयः ॥ ६९ ॥

यदुद्यूते विजयापदानगणना कालिङ्गदन्ताङ्कुरैः यद्विश्लेषत्वोऽपि कालियभुवे कोलाहलायाभवत् ।
दूत्येनापि च यस्य गोपवनिताः कृष्णागसां व्यस्मरन् तं त्वां क्षेमकृषीबलं हलधरं रङ्गेश ! भक्तास्महे ॥ ७० ॥

आकण्ठवारिभरमन्थरमेघदेश्यं पीताम्बरं कमललोचनपञ्चहेति ।
ब्रह्म स्तनंधयमयाचत देवकी त्वां श्रीरङ्गकान्त ! सुतकाम्यति काऽपरैवम् ॥ ७१ ॥

शैलोऽग्निश्च जलांबभूव मुनयो मूढांबभूवुर्जडाः प्राज्ञामासुरगास्सगोपममृतामासुर्महाशीविषाः ।
गोव्याघ्रास्सहजांबभूवुरपरे त्वन्यांबभूबुः प्रभो ! त्वं तेष्वन्यतमांबभूविथ भवद्वेणुक्वणोन्माथने ॥ ७२ ॥

कल्कितनुर्धरणी लघयिष्यन् कलिकलुषान् विलुनासि पुरा त्वम् ।
रङ्गनिकेत ! लुनीही लुनीहित्यखिलमरुन्तुदमद्य लुनीहि ॥ ७३ ॥

आस्तां ते गुणराशिवद्गुणपरिवाहात्मनां जन्मनां संख्या भौमनिकेतनेष्वपि कुटीकुञ्जेषु रङ्गेश्वर ! ।
अर्च्यस्सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः प्रीणीषे हृदयालुभिस्तव ततश्शीलाज्जडीभूयते ॥ ७४ ॥

श्रीमद्व्योम नसीम वाङ्मनसयोस्सर्वेऽवताराः क्वचित् काले विश्वजनीनमेतदितिधीः श्रीरङ्गधामन्यथ ।
आर्तस्वागतिकैःकृपाकलुषितैरालोकितैरार्द्रयन् विश्वत्राणविमर्शनस्खलितया निद्रासि जागर्यया ॥ ७५ ॥

सर्गाभ्यासविशालया निजधिया जानन्ननन्तेशयं भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः ।
कल्पानेव बहून् कमण्डलुगलद्गङ्गाप्लुतोऽपूजयद्ब्रह्मा त्वां मुखलोचनाञ्जलिपुटैः पद्मैरिवाऽऽवर्जिते ॥ ७६ ॥

मनुकुलमहीपालव्यानम्रमौलिपरम्परामणिमकरिकारोचिर्नीराजिताङ्घ्रिसरोरुहः ।
स्वयमथ विभो ! स्वेन श्रीरङ्गधामनि मैथिलीरमणवपुषा स्वार्हाण्याराधनान्यसि लम्भितः ॥ ७७ ॥

मन्वन्ववाये द्रुहिणे च धन्ये विभीषणेनैव पुरस्कृतेन ।
गुणैर्दरिद्राणमिमं जनं त्वं मध्येसरिन्नाथ ! सुखाकरोषि ॥ ७८ ॥

तेजः परं तत्सवितुर्वरेण्यं धाम्ना परेणाप्रणखात्सुवर्णम् ।
त्वां पुण्डरीकेक्षणमामनन्ति श्रीरङ्गनाथं तमुपासिषीय ॥ ७९ ॥

आत्माऽस्य गन्तुः परितस्थुषश्च मित्रस्य चक्षुर्वरुणस्य चाग्नेः ।
लक्ष्म्या सहौत्पत्तिकगाढबन्धं पश्येम रङ्गे शरदश्शतं त्वाम् ॥ ८० ॥

यस्यास्मि पत्युर्न तमन्तरेमि श्रीरङ्गतुङ्गायतने शयानम् ।
स्वभावदास्येन च योऽहमस्मि स सन् यजे ज्ञानमयैर्मखैस्तम् ॥ ८१ ॥

आयुः प्रजानाममृतं सुराणां रङ्गेश्वरं त्वां शरणं प्रपद्ये ।
मां ब्रह्मणेऽस्मै महसे तदर्थं प्रत्यञ्चमेनं युनजै परस्मै ॥ ८२ ॥

आर्तिं तितीर्षुरथ रङ्गपते ! धनायन् आत्मम्भरिर्विविदिषुर्निजदास्यकाम्यन् ।
ज्ञानीत्यमून् सममथास्सममत्युदारान् गीतासु देव ! भवदाश्रयणोपकारान् ॥ ८३ ॥

नित्यं काम्यं परमपि कतिचित्त्वय्यध्यात्मस्वमतिभिरममाः ।
न्यस्यासङ्गा विदधति विहितं श्रीरङ्गेन्दो ! विदधति न च ते ॥ ८४ ॥

प्रत्यञ्चं स्वं पञ्चविंशं पराचस्सञ्चक्षाणास्तत्त्वराशेर्विविच्य ।
युञ्जानाश्चर्तम्भरायां स्वबुद्धौ स्वं वा त्वां वा रङ्गनाथाऽऽप्नुवन्ति ॥ ८५ ॥

अथ मुदितकषायाः केचिदाजानदास्यत्वरितशिथिलचित्ताः कीर्तिचिन्तानमस्याः ।
विदधति ननु पारं भक्तिनिघ्ना लभन्ते त्वयि किल ततमे त्वं तेषु रङ्गेन्द्र ! किं तत् ॥ ८६ ॥

“उपादत्ते सत्ता-स्थिति-नियमनाद्यैश् चिद्-अचितौ
स्वम् उद्दिश्य श्रीमान्” इति वदति वाग् औपनिषदी ।
उपायोपेयत्वे तद् इह तव तत्त्वं न तु गुणौ
अतस् त्वां श्रीरङ्गे-शय ! शरणम् अ-व्याजम् अभजम् ॥ ८७ ॥+++(5)+++
राजगोपालः - English
“The Upaniṣads state that
the Lord of Śrī creates, maintains, controls and does such other things
in regard to sentient and non-sentient things,
only for His own sake.
It is therefore, O, Lord of Śrīraṅga,
Thy nature to be the means of salvation (upāya ) for the jīva
and also the object of attainment.
Therefore I seek Thee as my upāya without any thought of my own interests.”
Español
“Los Upaniṣads indican que
El Señor de Śrī crea, mantiene, controla y hace otras cosas
con respecto a las cosas sensibles y no sensibles,
Solo por su propio bien.
Por lo tanto, O, Señor de śrīraṅga,
Tu naturaleza es el medio de salvación (upāya) para el jīva
y también el objeto de logro.
Por lo tanto, te busco como mi upāya
sin pensar en mis propios intereses “.
मूलम्
उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी ।
उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणौ अतस्त्वां श्रीरङ्गेशय ! शरणमव्याजमभजम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
पटुनैकवराटिकेव क्लृप्ता स्थलयोः काकणिकासुवर्णकोट्योः ।
भवमोक्षणयोस्त्वयैव जन्तुः क्रियते रङ्गनिधे ! त्वमेव पाहि ॥ ८८ ॥

ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहमिर्च्छोधिकारशकनानुशयानभिज्ञः ।
रङ्गेश ! पूर्णवृजिनश्शरणं भवेति मौर्ख्याद्ब्रवीमि मनसा विषयाकुलेन ॥ ८९ ॥

त्वयि सति पुरुषार्थे मत्परे चाहमात्मक्षयकरकुहनार्थाच्छ्रद्दधद्रङ्गचन्द्र ! ।
जनमखिलमहंयुर्वञ्चयामि त्वदात्मप्रतिमभवदनन्यज्ञानिवद्देशिकस्सन् ॥ ९० ॥

अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽपि अभिद्रुह्यन्वाग्धीकृतिभिरपि भक्ताय सततम् ।
अजानन् जानन् वा भवदसहनीयागसि रतस्सहिष्णुत्वाद्रङ्गप्रवण ! तव माभूवमभरः ॥ ९१ ॥

प्रकुपितभुजगफणानामिव विषयाणामहं छायाम् ।
सति तव भुजसुरविटपिप्रच्छाये रङ्गजीवित ! भजामि ॥ ९२ ॥

त्वत्सर्वशक्तेरधिकाऽस्मदादेः कीटस्य शक्तिर्बत रङ्गबन्धो ! ।
यत्त्वत्कृपामप्यति कोशकारन्यायादसौ नश्यति जीवनाशम् ॥ ९३ ॥

श्रीरङ्गेश ! त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम् ।
ओघे मोघोदन्यवत् त्वद्गुणानां तृष्णापूरं वर्षतां नास्मि पात्रम् ॥ ९४ ॥

त्यं चेन्मनुष्यादिषु जायमानस्तत्कर्मपाकं कृपयोपभुंक्षे ।
श्रीरङ्गशायिन् ! कुशलेतराभ्यां भूयोऽभिभूयेमहि कस्य हेतोः ॥ ९५ ॥

क्षमा सापरधेऽनुतापिन्युपेया कथं सापराधेऽपि दृप्ते मयि स्यात् ।
तथाऽप्यत्र रङ्गाधिनाथानुतापव्यपायं क्षमेतातिवेला क्षमा ते ॥ ९६ ॥

बलिभुजि शिशुपाले तादृगागस्करे वा गुणलवसहवासात्त्वत्क्षमा संकुचन्ती ।
मयि गुणपरमाणूदन्तचिन्तानभिज्ञे विहरतु वरदासौ सर्वदा सार्वभौमी ॥ ९७ ॥

दया पर–व्यसन-हरा, भव-व्यथा
सुखायते मम तद् अहं दयातिगः ।
तथा ऽप्य् असौ सुखयति दुःखम् इत्य् अतो
दयस्व मां गुणमय ! रङ्गमन्दिर ! ॥ ९८ ॥
मूलम्
दया परव्यसनहरा भवव्यथा सुखायते मम तदहं दयातिगः ।
तथाऽप्यसौ सुखयति दुःखमित्यतः दयस्व मां गुणमय ! रङ्गमन्दिर ! ॥ ९८ ॥
विश्वास-प्रस्तुतिः
गर्भजन्मजरामृतिक्लेशकर्मषडूर्मिगः ।
श्वेव देववषट्कृतं त्वां श्रियोऽर्हमकामये ॥ ९९ ॥

अनुकृत्य पूर्वपुंसः रङ्गनिधे ! विनयडम्भतोऽमुष्मात् ।
शुन इव मम वरमृद्धेः उपभोगस्त्वद्वितीर्णायाः ॥ १०० ॥

सकृत्प्रपन्नाय तवाहमस्मीति आयाचते चाभयदीक्षमाणम् ।
त्वामप्यपास्याहमहम्भवामि रङ्गेश ! विस्रम्भविवेकरेकात् ॥ १०१ ॥

+++(प्रायः शैशवय् आपदि)+++ तव भरोऽहम् अकारिषि धार्मिकैश्,
+++(तद् अविज्ञाय पश्चात् स्वतः)+++ “शरणम्” इत्य् अपि वाचम् उदैरिरम् ।
+++(इत्थं समर्पितस्य समर्पणम् अबुद्धिपूर्वकम् अपि।)+++
इति स साक्षिकयन्न् इदम् अद्य मां
कुरु भरं तव रङ्ग-धुरन्-धर! ॥ १०२ ॥
English
102
I was made Your burden
by the people of the dharma.
I uttered the word
“refuge” (saraṇam).
Regarding this as my witness, make me Your burden right now, O Bearer of the burden [of the Universe]
[Who dwells] in [Śri]rangam!
राजगोपालः - English
“I have been made Thy responsibility by my ācārya-s who follow the way of dharma.
I have also (myself) uttered the word seeking refuge.
Taking this into consideration, O, Lord of Śrīraṅgam,
make me Thy burden or responsibility”
विश्वास-टिप्पनी
अनेन द्विर् भर-समर्पणं कृतं वेति प्रश्न उदेति।
नेति बुधाः - सकृद् एव कस्यचिद् अपि वस्तुनः समर्पणार्हत्वात् (कन्यादानादिवत्)।
तेनोपदेशपरोऽयं श्लोक इति परिहरन्ति।
किञ्चोपदेशायालीकम् उक्तम् इति यथासम्भवं न भावनीयम्।
अतः, द्वयम् अपि जातम् - शैशवय् आपद्य् आचार्यैः, पश्चाद् तद्-अस्मरणेन स्वतो भरः समर्पित इति परिहारो रोचतेतराम्।
अनेन भर-समर्पणे ऽधिकार-क्रमस्यापि व्यभिचारो नास्ति -
शिशोर् अस्त्येवाचार्य-निष्ठायाम् अधिकारः, पश्चाज् जात-बुद्धेश् च स्व-निष्ठायाम्।
मूलम्
तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् ।
इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ! ॥ १०२ ॥
विश्वास-प्रस्तुतिः
दयाऽन्येषां दुःखाप्रसहनमनन्योऽसि सकलैः दयालुस्त्वं नातः प्रणमदपराधानविदुषः ।
क्षमा ते रङ्गेन्दो ! भवति न तरां नाथ ! न तमां तवौदार्यं यस्मात्तव विभवमर्थिस्वममथाः ॥ १०३ ॥

गुणतुङ्गतया तव रङ्गपते ! भृशनिम्नमिमं जनमुन्नमय ।
यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता ॥ १०४ ॥

त्वं मीनपानीयनयेन कर्मधीभक्तिवैराग्यजुषो विभर्षि ।
रङ्गेश ! मां पासि मितम्पचं यत्पानीयशालं मरुभूषु तत्स्यात् ॥ १०५ ॥