०१ पूर्वशतकम्

विस्तारः (द्रष्टुं नोद्यम्)

श्रीपराशर-भट्टार्यः
श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतश् श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥

विश्वास-प्रस्तुतिः

श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १ ॥

मूलम्

रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी ।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥

रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः ।
कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३ ॥

विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् ।
नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥

मूलम्

विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् ।
नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥

विश्वास-प्रस्तुतिः

नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे ।
वैराग्यभगवत्तत्वज्ञानभक्त्यभिवर्षुकम् ॥ ५ ॥

ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् ।
सहस्रशाखां योद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ६ ॥

नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ ७ ॥

श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८ ॥

अस्ति वस्त्विदमित्थंत्वप्रसंख्यानपराङ्मुखम् ।
श्रीमत्यायतने लक्ष्मीपदलाक्षैकलक्षणम् ॥ ९ ॥

लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तबकचञ्चलः ।
श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १० ॥

स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः ।
श्रीरङ्गराजाच्छरदश्शतमाशास्महेतमाम् ॥ ११ ॥

पातु प्रणतरक्षायां विलम्बमसहन्निव ।
सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥ १२ ॥

अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् ।
इति रङ्गराजमुदजूघुषत्त्रयी स्तुमहे वयं किमिति तन्न शक्नुमः ॥ १३ ॥

यदि मे सहस्रवदनादिवैभवं निजमर्पयेत्स किल रङ्गचन्द्रमाः ।
अथ शेषवन्मम च तद्वदेव वा स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४ ॥

सो अङ्ग ! वेद यदि वा न किलेति वेदस्सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् ।
स्थाने(य)तदेष खलु दोषमलीमसाभिर्मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५ ॥

स्वं संस्कृतद्राविडवेदसूक्तैर्भान्तं मदुक्तैर्मलिनीकरोति ।
श्रीरङ्गकम्रः कलभं क एव स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६ ॥

किन्तु प्रपत्तिबलतारितविष्णुमायमद्वंश्यराजकुलदुर्ललितं किलैवम् ।
श्रीरङ्गराजकमलापदलालितत्वं यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७ ॥

नाथस्य च स्वमहिमार्णवपारदृश्वविज्ञानवाग्विलसितं सहते न वेदः ।
आपेक्षिकं यदि तदस्ति ममापि तेन श्रीरङ्गिणस्स्तुतिविधावहमध्यकार्षम् ॥ १८ ॥

अन्यत्रातद्गुणोक्तिर्भगवति न तदुत्कर्षचौर्यैः परेषां स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् ।
आम्नायानामसीम्नामपि हरिविभवे वर्षबिन्दोरिवाब्धौ संबन्धात्स्वात्मलाभो न तु कबलनतः स्तोतुरेवं न किं मे ॥ १९ ॥

कावेरीमवगाहिषीय भगवद्भोगान्तरायीभवत्कर्मक्लेशफलाशयप्रशमनोद्वलामलस्रोतसम् ।
जन्तोस्संसरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या लोकेऽस्मिन् विरजेव वेल्लितजला श्रीरङ्गमालिङ्गति ॥ २० ॥

दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरश्श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला ।
चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान्कावेरी लहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ २१ ॥

तीर्थं शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् ।
श्यामं वेदरहो व्यनक्ति पुलिने फेनैर्हसन्तीव तद्गङ्गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वघम् ॥ २२ ॥

अगणितगुणावद्यं सर्वं स्थिरत्रसमप्रतिक्रियमपि पयःपूरैराप्याययन्त्यनुजाग्रती ।
प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वृधा ॥ २३ ॥

तरलतनुतरङ्गैर्मन्दमान्दोल्यमानस्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा ।
क्षिपतु कनकनाम्नी निम्नगा नारिकेलक्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ २४ ॥

कदलवकुलजम्बूपूगमाकन्दकण्ठद्वयससरसनीरामन्तरा सह्यकन्याम् ।
प्रबलजलरपिपासालम्बमानाम्बुदौघभ्रमकरतरुबृन्दं वन्द्यतामन्तरीपम् ॥ २५ ॥

यद्विष्णोः पदमतमः परोरजोऽग्र्यं मुक्तानामनुविरजं विदीप्रमाहुः ।
तत्पुण्यं पुलिनमिदंतयाऽद्य मध्येकावेरि स्फुरति तदीक्षिषीय नित्यम् ॥ २६ ॥

त्रय्यन्तप्रहतिमतीषु वैष्णवानां प्राप्यासु प्रचुरभवश्रमापहासु ।
कावेरीपरिचरितासु पावनीषु श्रीरङ्गोपवनतटीषु वर्तिषीय ॥ २७ ॥

स्फुरितशफरदीर्यन्नालिकेरीगुलुच्छप्रसृमरमधुकुल्यावर्धितानोकहानि ।
रतिमविरति रङ्गारामरम्यम्थलानि क्रमुकपदसमोचामेचकानि क्रियासुः ॥ २८ ॥

अधिपरमपदं पुरीमयोध्याममृतवृतामपराजितामुशन्ति ।
पुलिनमुपरि रङ्गराजधानी पिशितदृशामपि सा पुरश्चकास्ति ॥ २९ ॥

भवपदमपि दिव्यधाम कर्तुं तदुभयतन्त्रितहर्म्यमालिकेव ।
भवनमणितलैर्विजृम्भमाणा जयतितरामिह रङ्गराजधानी ॥ ३० ॥

मणिमकररुचीर्वितत्य पाशान् विसृमरकेतुकरैर्मृगं हिमांशोः ।
श्रिय इव नवकेलये जिघृक्षुस्सुखयतु रङ्गपुरी चकासती नः ॥ ३१ ॥

जनपदसरिदन्तरीपपुष्यत्पुरपरिपालननित्यजागरूकान् ।
प्रहरणपरिवारवाहनाढ्यान् कुमुदमुखान् गणनायकान् नमामि ॥ ३२ ॥

अहृतसहजदास्याः सूरयस्स्रस्तबन्धा विमलचरमदेहा इत्यमी रङ्गधाम ।
महितमनुजयतिर्यक्स्थावरत्वाश्श्रयन्ते सुनियतमिति ह स्म प्राहुरेभ्यो नमः स्तात् ॥ ३३ ॥

श्रीरङ्गदिव्यभवनं भुवि गोपुराणां प्राकारितेन निकरेण गरुत्मतेव ।
पार्श्वप्रसारितपतत्त्रपुटेन भक्त्या नानातनूभिरुपगूढमुपघ्नयामः ॥ ३४ ॥

प्रकारमध्याजिरमण्डपोक्त्या सद्वीपरत्नाकररत्नशैला ।
सर्वसहा रङ्गविमानसेवां प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५ ॥

जितबाह्यजिनादिमणिप्रतिमा अपि वैदिकयन्निव रङ्गपुरे ।
मणिमण्डपवपगणान् विदधे परकालकविः प्रणमेमहि तान् ॥ ३६ ॥

स्मेराननाक्षिकमलैर्नमतः पुनानान् दंष्ट्रागदाभ्रुकुटिभिर्द्विषतो धुनानान् ।
चण्डप्रचण्डमुखतः प्रणमामि रङ्गद्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७ ॥

सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशम् ।
आस्थानमानन्दमयं सहस्रस्थूणादिनाऽऽम्नातमवाप्नवानि ॥ ३८ ॥

विहरति हरौ लक्ष्म्या लीलातपत्रपरिष्क्रियाविनिमयविधासूनासूनिक्रियासफलोत्पलाम् ।
अथ मुनिमनःपद्मेष्वब्जासहायविहारजश्रमहरतटीं यामस्तामैन्दवीमरविन्दिनीम् ॥ ३९ ॥

तापत्रयीमैन्दवपुष्करिण्यां निमज्ज्य निर्वापयिताऽस्मि यस्याः ।
अभ्यासतोऽपामघमर्षणीनां चन्द्रस्सुधादीधितितामवाप ॥ ४० ॥

पूर्वेण तां तद्वदुदारनिम्नप्रसन्नशीताशयमग्ननाथाः ।
पराङ्कुशाद्याः प्रथमे पुमांसो निषेदिवांसो दश मां दयेरन् ॥ ४१ ॥

आधारशक्तिमुपरि प्रकृतिं परेण तां कूर्ममत्र फणिनं पृथिवीं फणासु ।
पृथ्व्यां पयोधिमधितन्नलिनं निधाय श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥ ३२ ॥

परेण नाकं पुरि हेममय्यां यो ब्रह्मकोशोऽस्त्यपराजिताख्यः ।
श्रीरङ्गनाम्ना तमपौरुषेयं विमानराजं भुवि भावयानि ॥ ४३ ॥

अनाद्याम्नातत्वात्पुरुषरचनादोषरहितं जने तांस्तान् कामान् विदधदपि सायुज्यहृदयम् ।
असन्देहाध्यासं भगवदुपलम्भस्थलममी प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्द्धि शरणम् ॥ ४४ ॥

अपि फणिपतिभावाच्छभ्रमन्तश्शयालोर्मरकतसुकुमारैरङ्गभर्तुर्मयूखैः ।
सकलजलधिपानश्यामजीमूतजैत्रं पुलकयति विमानं पावनं लोचने नः ॥ ४५ ॥

व्यापि रूपमपि गोष्पदयित्वा भक्तवत्सलतयोज्झितवेलम् ।
तद्द्विषन्तपनृकेसरिरूपं गोपुरोपरि विजृंभितमीडे ॥ ४६ ॥

अहमलमवलम्बस्सीदतामित्यजस्रं निवसदुपरिभागे गोपुरं रङ्गधाम्नः ।
क्वचन नृपरिपाटीवासितं क्वापि सिंहक्रमसुरभितमेकं ज्योतिरग्रे चकास्ति ॥ ४७ ॥

संशोध्य पावनमनोहरदृष्टिपातैर्देवाय मामपि निवेदयतां गुरूणाम् ।
सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षापङ्क्तिं प्रपद्य परितः परितो भवेयम् ॥ ४८ ॥

श्रीरङ्गराजकरनम्रितशाखिकाभ्यो लक्ष्म्या स्वहस्तकलितश्रवणावतंसम् ।
पुन्नागतल्लजमजस्रसहस्रगीतिसेकोत्थदिव्यनिजसौरभमामनामः ॥ ४९ ॥

श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं विन्यस्य विश्वचिदचिन्नयनाधिकारम् ।
यो निर्वहत्यनिशमङ्गुलिमुद्रयैव सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५० ॥

सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् ।
श्रीपदलाक्षालाञ्छितसेवाप्रोतलसद्दोर्वल्लिविलासाम् ॥ ५१ ॥

विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः करिमुखजयत्सेनौ कालाह्वसिंहमुखौ च न ।
जगति भजतां तत्तत्मत्यूहतूलदवानलाः दिशिदिशि दिवारात्र श्रीरङ्गपालनकर्मठाः ॥ ५२ ॥

श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः ।
शरणमभिगताः स्मो यत्र रूपस्वरूपखगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३ ॥

तार्क्ष्यपक्षतिवदस्य वल्लभां रुद्रया सह सुकीर्तिमर्चये ।
हर्षबाष्पमपि कीर्तिमर्थिनां यन्मुखेन कमला कटाक्षयेत् ॥ ५४ ॥

स्वास्त्ररूपस्फुरन्मौलि मा शब्द इत्युद्धुनानां सुरांस्तर्जनीमुद्रया ।
नाथनिद्रोचितोन्निद्रताम्रेक्षणां सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५ ॥

अस्त्रग्रामाग्रेसरं नाथवीक्षाशीधुक्षीबोद्वेलनृत्ताभिरामम् ।
चक्रं दैत्यच्छेदकल्माषिताङ्गं भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६ ॥

हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य ।
रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥ ५७ ॥

इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् ।
औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेत्रवरं व्रजामि ॥ ५८ ॥

शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् ।
आलम्बमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥ ५९ ॥

श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् ।
पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६० ॥

लीलालताकृपाणीभृङ्गारपतद्ग्रहार्पितकराग्राः ।
प्रोतावतंसितकुचाः पदाब्जसंवाहिनीर्वयं स्तुमहे ॥ ६१ ॥

मुकुलितनलिनास्सकौमुदीका इव सुनिशा विमलादिका नवापि ।
शिरसि कृतनमस्यदेकहस्ता इतरकरोच्चलचामराः श्रयेयम् ॥ ६२ ॥

उत्फुल्लपङ्कजतटाकमिवोपयानि श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः ।
लक्ष्मीं विहाररसिकामिव राजहंसीं छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३ ॥

पिब नयन ! पुरस्ते रङ्गधुर्याभिधानं स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् ।
श्रियमपि विहरन्तीं राजहंसीमिवास्मिन् प्रतिफलनमिवास्याः पश्य विश्वंभरां च ॥ ६४ ॥

सौशील्यशीतलमवेलकृपातरङ्गसंप्लाविताखिलमकृत्रिमभूम निम्नम् ।
लक्ष्म्या च वासितमभूम विगाहमानाः श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥ ६५ ॥

सिंहासने कमलया क्षमया च विश्वमेकातपत्रयितुमस्मदसून्निषण्णम् ।
लक्ष्मीस्वयंवरसनाथितयौवनश्रीसौन्दर्यसंपदवलिप्तमिवालिहीय ॥ ६६ ॥

आपादमूलमणिमौलि समुल्लसन्त्या स्वातन्त्र्यसौहृदतरङ्गितयाऽङ्गभङ्ग्या ।
सख्यं समस्तजनचेतसि सन्दधानं श्रीरङ्गराजमनिमेषमनुस्त्रियास्म ॥ ६७ ॥

क्षितिकमलनिवासाकल्पवल्लीसलीलोल्लुठनदशदिशोद्यद्यौवनारम्भजृम्भः ।
श्रममपहरतां मे रङ्गधामेति तत्तद्वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८ ॥

संभाषमाणमिव सर्ववशंवदेन मन्दस्मितेन मधुरेण च वीक्षणेन ।
दिव्यास्त्रपुष्पितचतुर्भुजमत्युदारं रङ्गास्पदं मम शुभाश्रयमाश्रयाणि ॥ ६९ ॥

एते शङ्खगदासुदर्शनभृतः क्षेमंकरा बाहवः पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः ! ।
इत्यूचुष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्व्याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्गसर्वंसहः ॥ ७० ॥

अङ्गैरहंप्रथमिकाचरितात्मदानैरामोदमाननवयौवनसावलेपैः ।
है ! पारिजातमिव नूतनतायमानशाखाशतं (हृदि दधी) कथमधीमहि रङ्गधुर्यम् ॥ ७१ ॥

आलोका हृदयालवो रसवशादीशानमीषत्स्मितं प्रच्छायानि वचांसि पद्मनिलयाचेतश्शरव्यं वपुः ।
चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गशृङ्गार ! ते भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतासि नः ॥ ७२ ॥

आयत्किरीटमलिकोल्लसदूर्ध्वपुण्ड्रमाकर्णलोचनमनङ्कुशकर्णपाशम् ।
उत्फुल्लवक्षसमुदायुधबाहुमर्हन्नीवि च रङ्गपतिमब्जपदं भजामः ॥ ७३ ॥

अब्जन्यस्तपदाब्जमञ्चितकटींसवादिकौशेयकं किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् ।
चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं श्रीरङ्गे शरदश्शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४ ॥

अग्रे तार्क्ष्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च श्रीभूमिभ्यामतृप्त्या नयनचुलकनैस्सेव्यमानामृतौघम् ।
वक्त्रेणाविःस्मितेन स्फुरदभयगदाशङ्खचक्रैर्भुजाग्रैर्विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजाम ॥ ७५ ॥

आर्तापाश्रयमर्थिकल्पकमसह्यागस्करक्ष्मातलं सद्यस्संश्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् ।
श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ॥ ७६ ॥

स्वफणवितानदीप्रमणिमालिसुदामरुचिम्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् ।
मदभरमन्थरोच्छ्वसितनिश्श्वसितोत्तरलं फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥ ७७ ॥

वटदलदेवकीजठरवेदशिरःकमलास्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् ।
वरदमुदारदीर्घभुजलोचनसंहननं पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८ ॥

उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालयाविनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि ।
फणिपरिबृढस्फारप्रश्वासनिःश्वसितक्रमस्खलितनयनं तन्वन् मन्वीत नः परमः पुमान् ॥ ७९ ॥

जलधिमिव निपीतं नीरदेनाद्रिमब्धौ निहितमिव शयानं कुञ्जरं वाऽद्रिकुञ्जे ।
कमलपदकराक्षं मेचकं धाम्नि नीले फणिनमधिशयानं पूरुषं वन्दिषीय ॥ ८० ॥

श्रीरङ्गेशय इह शर्म निर्मिमीतामाताम्राधरपदपाणिविद्रुमो नः ।
कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१ ॥

सिञ्चेदिमं च जनमिन्दिरया तटित्वान् भूषामणिद्युतिभिरिन्द्रधनुर्दधानः ।
श्रीरङ्गधामनि दयारसनिर्भरत्वादद्रौ शयालुरिव शीतलकालमेघः ॥ ८२ ॥

आमौलिरत्नमकरात्पुनरा च पद्भ्यां धामक्रमोन्नमदुदारमनोहराङ्गम् ।
श्रीरङ्गशेषशयनं नयनैः पिबामः पश्यन्मनःप्रवणमोघमिवामृतस्य ॥ ८३ ॥

अरविन्दितमङ्घ्रिपाणिवक्त्रैरपि तापिञ्छितमञ्चिताङ्गकान्त्या ।
अधरेण च बन्धुजीवितं श्रीः नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४ ॥

अन्योन्यरञ्जकरुचोऽनुपमानशोभाः दिव्यस्रगम्बरपरिष्करणाङ्गरागाः ।
संस्पर्शतः पुलकिता इव चिन्मयत्वाद्रङ्गेन्दुकान्तिमधिकामुपबृंहयन्ति ॥ ८५ ॥

द्रुतकनकजगिरिपरिमिलदुदधिप्रचलितलहरिवदहमहमिकया ।
स्नपयति जनभिममपहरति तमः फणिशयमरतकमणिकिरणगणः ॥ ८६ ॥

भोगीन्द्रनिःश्वसितसौरभवर्धितं श्रीनित्यानुषक्तपरमेश्वरभावगन्धि ।
सौरम्यमाप्लुतदिशावधि रङ्गनेतुरानन्दसंपदि निमज्जयते मनांसि ॥ ८७ ॥

रङ्गभर्तुरपि लोचनचर्चां साहसावलिषु लेखयमानम् ।
पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८ ॥

एकैकस्मिन्परमवयवेऽनन्तसौन्दर्यमग्नं सर्वं द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः ! ।
त्वां सौभ्रात्रव्यतिकरकरं रङ्गराजाङ्गकानां तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९ ॥

वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु ।
विकासस्सौन्दर्यस्रजि रसिकताशीधुचुलको युवत्वं रङ्गेन्दोस्सुरभयति नित्यं सुभगताम् ॥ ९० ॥

किरीटचूडरत्नराजिराधिराज्यजल्पिका ।
मुखेन्दुकान्तिरुन्मुखं तरङ्गितेव रङ्गिणः ॥ ९१ ॥

शिखारत्नोद्दीप्रं दिशिदिशि च माणिक्यमकरीलसच्छृङ्ग रङ्गप्रभुमणिकिरीटं मनुमहे ।
समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२ ॥

विहरतु मयि रङ्गिणश्चूलिकाभ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वम् ।
मुखममृततटाकचन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥ ९३ ॥

मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमास्समौक्तिकाः ।
इह रङ्गभर्तुरभियन्मधुव्रतप्रकरश्रियं भ्रमरकाणि बिभ्रति ॥ ९४ ॥

हृदयं प्रसा(ध)दयति रङ्गपतेः मधुरोर्ध्वपुण्ड्रतिलकं ललितम् ।
अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदभिशङ्कयते ॥ ९५ ॥

सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपंक्तिनिभे ।
स्फुरतो भ्रुवावुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६ ॥

स्मरशरनलिनभ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि ।
युगमुदयति रङ्गभर्तुर्भ्रुवोः गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७ ॥

कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे ।
प्रथमं श्रवसी समास्तृणाते इति दैर्घ्येण विदन्ति रङ्गनेतुः ॥ ९८ ॥

श्रवोनासारोधात्तदवधिकडोलायितगते विशालस्फीतायद्रुचिरशिशिराताम्रधवले ।
मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि दयाम् ॥ ९९ ॥

करुणामृतकूलमुद्वहैषा प्रणमत्स्वागतिकी प्रसन्नशीता ।
मयि रङ्गधनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिःस्तात् ॥ १०० ॥

विलसति नासा कल्पकवल्ली मुग्धेव रङ्गनिलयस्य ।
स्मितमपि तन्नवकुसुमं चुबुककपोलं च पल्लवोल्लसितम् ॥ १०१ ॥

नयनशफरिविद्धौ कर्णपाशावरुद्धौ रुष इव लुठतोऽर्चिर्मञ्जरीरुद्गिरन्तौ ।
परिमिलदलकालीशैवलामंसवेलाम् अनु मणिमकरोद्धौ रङ्गधुर्यामृताब्धेः ॥ १०२ ॥

अधरमधुराम्भोजं तत्कर्णपाशमृणालिकावलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् ।
नयनशफरं नासाशैवालवल्लरि कर्णिकामकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३ ॥

रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चितक्रमुकतरुणग्रीवाकम्बुप्रलम्बमलिम्लुचः ।
प्रणयविलगल्लक्ष्मीविश्वंभराकरकन्दलीकनकवलयक्रीडासंक्रान्तरेख इवोल्लसन् ॥ १०४ ॥

अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमलाकरेणोरालाने अरिकरिघटोन्माथमुसलौ ।
फणीद्रस्फीतस्रग्व्यतिकरितसन्दिग्धविभवौ भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिन ॥ १०५ ॥

प्रतिजलधितो वेलाशय्यां विभीषणकौतुकात् पुनरिव पुरस्कर्तुं श्रीरङ्गिणः फणिपुङ्गवे ।
समुपदधतः कञ्चित्कञ्चित्प्रसारयतो भुजद्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६ ॥

कुसुमभरालसौ स्फटिकवेदिशयौ विटपावमरतरोः परं परिहसत् पृथु रङ्गभुजः ।
बहुमणिमुद्रिकाकनककङ्कणदोर्वलयैः किसलयि दोर्द्वयं फणिनि निर्भरसुप्तमिमः ॥ १०७ ॥

मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे शार्ङ्गज्याकिणकर्कशिम्नि सुमनस्स्रङ्मोहने मार्दवे ।
दोर्द्वन्द्वं बहुश प्रलोभ्य कमलालीलोपधानं भवत्तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥ १०८ ॥

भवार्तानां वक्त्रामृतसरसि मार्गं दिशदिव स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव ।
कराम्भोजं पङ्केरुहवनरुषा पाटलमिव श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९ ॥

किरीटं श्रीरङ्गेशयितुरुपधानीकृतभुजः विधीशाधीशत्वाद्धटत इति संस्पृश्य वदति ।
निहीनानां मुख्यं शरणमिति बाहुस्तदितरः स्फुटं ब्रूते पादाम्बुजयुगलमाजानुनिहितः ॥ ११० ॥

मलयजशशिलिप्तं मालतीदामतल्पं सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् ।
दनुजवृषविषाणोलेखचित्रं च लक्ष्मीललितगृहमुपासे रङ्गसर्वंसहोरः ॥ १११ ॥

हारस्फारितफेनमंशुलहरीमालर्द्धि मुक्ताफलश्रेणीशीकरदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् ।
आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२ ॥

वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वेशत्वं कथयतितरां रङ्गधाम्नस्तदास्ताम् ।
कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदानद्धा मौग्ध्याभरणमघिकं नस्समाधिं धिनोति ॥ ११३ ॥

कियान् भरो मम जगदण्डमण्डलीत्यतृप्तितः क्रशितमिवोदरं विभोः ।
रिरक्षिषोचितजगतीपरम्परा परामिव प्रथयति नाभिपङ्कजम् ॥ ११४ ॥

त्रिविधचिदचिद्बृन्दं तुन्दावलम्बिवलित्रयं विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः ।
प्रणतवशतां ब्रूते दामोदरत्वकरः किणः तदुभयगुणाकृष्टं पट्टं किलोदरबन्धनम् ॥ ११५ ॥

त्रयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं त्रिकादस्मात्तत्त्वं परमिति वितर्कान् विघटयन् ।
विभोर्नाभीपद्मो विधिशिवनिदानं भगवतस्तदन्यद्भ्रूभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६ ॥

गर्भे कृत्वा गोप्तुमनन्तं जगदन्तर्मज्जद्भ्रम्या वाच्छति साम्यं ननु नाभिः ।
उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७ ॥

मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्पम् ।
स्फुटमिव परिभूय गर्वगुर्वोः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८ ॥

कटीकान्तिसंवादिचातुर्यनीवीलसद्रत्नकाञ्चीकलापानुलेपम् ।
महाभ्रंलिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९ ॥

भर्मस्थलाशुपरिवेष इवाम्बुराशेस्सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य ।
शम्पाकदम्बकमिवाम्बुमुचो मना नः पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२० ॥

वैभूषण्या कान्तिराङ्गी निमग्ना विष्वद्रीची क्वापि सोन्मादवृत्तिः ।
जाने जानुद्वन्द्ववार्ताविवर्तो जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१ ॥

श्रीरङ्गेशयजङ्घे श्रीभूम्यामर्शहर्षकण्टकिते ।
तत्केलिनलिनमांसलनालद्वयललितमाचरतः ॥ १२२ ॥

वन्दारुबृन्दारकमौलिमालायुञ्जानचेतःकमलाकरेम्यः ।
संक्रन्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै नवै च ॥ १२३ ॥

यद्बृन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं यल्लक्ष्मीकरसौख्यसाक्षि जलजप्रस्पर्धमानर्द्धि यत् ।
यद्भक्तेष्वजलस्थलज्ञमपि यद्दूत्यप्रसङ्गोत्सुकं तद्विष्णोः परमं पदं वहतु नः श्रीरङ्गिणो मङ्गलम् ॥ १२४ ॥

शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वजच्छत्रीकल्पकशङ्खचक्रमुकुरैस्स्तैस्तैश्च रेखामयैः ।
ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं श्रीरङ्गेशयपादपङ्कजयुगं वन्दामहे सुन्दरम् ॥ १२५ ॥

पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गुलीझलज्झलितजाह्नवीलहरिबृन्दसन्देहदाः ।
दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुमप्रवालनवमञ्जरीः नखरुचीर्विगाहेमहि ॥ १२६ ॥

श्रीरङ्गेन्दोः पदकिसलये नीलमञ्जीरमैत्र्या वन्दे वृन्तप्रणयिमधुपव्रातराजीवजैत्रे ।
नित्याभ्यर्चानतविधिमुखस्तोमसंशय्यमानै हेमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ १२७ ॥