गोपालाचार्यव्याख्या १

Source: TW

[[TODO: परिष्कार्यम्]]

श्रीरङराजस्तवः ॥ श्री श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे श्रीवत्स चिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गळसूत्रताम् ॥ १ ॥ सर्वलोकमान्याः, स्वचक्षुहीन्यापि स्वदिव्यचक्षुभूत भगवतः परत्वं सर्वलोकसाक्षिकं सुदृढं शपथितवन्तः स्वपितर इति न्याय्यः कवेः तेषु चहुमानः । ’ प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम्’ इति लक्ष्मणमुनिश्रीसूक्तिवतिविषये श्रतिदेव्याः भर्तृसंयोजनानुभव इव अत्र श्रीवत्साङ्कमि श्रश्रीसूक्तीनां मत्री भगवता चिरवियोजितानां त्रयीदेवीनां पुनः सङ्घ टकत्वानुभवः । नाथाश्लेषसनाथनश्रुतिवधूवैधव्य खेदच्छिदं प्राचीनां नयपद्धति यतिपतिः प्राचीकशन्नैव चेत् । 1 इति सङ्कल्पसूर्योदये । ‘चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिका’ इति दुग्धसागरसुधाम बुरश्रीलक्ष्मणमुनिसारस्वत कर्तृकश्रुतिवधूकेशपाशमङ्गलविधिविधानानुभवस्तत्र । तुल्योऽनुभवः श्रीमद्भार्यस्य स्वपितृश्रीसूक्तिविषये । सक २ श्रीरङ्गराजस्तवः । ललोकमङ्गलमूलभूतायास्वय्या मङ्गलत्वविवायिन्यस्ताः सुक्कय इत्याशयः । श्रीवत्स चिह्नमिश्रेभ्यः । तिष्ठन्तु मम गुरूणां परममाङ्गलिक्यः सूक्तयः । तेषां नामैव लोकोत्तरमङ्गलचिह्नवदित्युच्यते श्रीवत्सचिह्नति माङ्गलिकनामग्रहणेन । श्रीशब्दः श्रीवत्सशब्दश्य परममाङ्गलिको । ‘श्रियः पतिः’ इति मावारम्भः । ‘श्रियः कुरूणाम्’ इति किरातार्जुनीयारम्भः । ‘श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरम् -’ इति सद्योजातात शिशोर्मङ्गलघनत्ववर्णनं श्रीशुकेन । ‘श्रीवत्सवक्षा नित्यश्रीः’ इति प्राचेतसः । श्रीवत्सालंकृतवक्षस्त्वादनपायिनी श्रीः । यत्र श्रीवत्सस्तत्र लक्ष्मीः । चिह्नशब्देन नाम्न्यपि मङ्गलचिह्नमस्तोति द्योत्यते । ‘चिहैरनिह्नव परैरपैरश्च कैश्चिन्निश्चिन्वते त्वयि विपश्चित ईशितृत्वम्’ इति श्रीवैकुण्ठस्तवेोक्तरीत्य ऽनपलपनीयभगवच्चिह्नवच्छ्रुतिप्रमाणे पदर्शवितारः श्रीवत्साङ्कमिश्राः । श्रीवत्सांशः श्रीकूरनाथ इत्यपि श्रूयते ॥ नमउक्तिमधीमहे । तेषामुक्तयो गम्भीरमधुराः । तासां प्रभाव उत्तरार्धे वर्त्यते । दिव्यविचित्रोक्तिमय उक्तिरुचित उपहार इति व्यज्यते उभयत्रोक्तिग्रहणेन । ‘अधीमहे इति त्रय्युच्चारणे प्रयोगः । तेन चोच्चारणेन गुरूच्चारणानूच्चारणेन भाव्यम् । एतदुभयमुत्तरार्धे सम यते ॥ यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूतताम् । तद्विषयनमउक्तौ कथमध्येयत्व बहुमान इति चेदुच्यते तेषामुक्तिभिस्त्रयी तत्पूर्वमन्योक्तिभिश्चिरं नायकेन वियोजिता नूनं नूतनं समयुज्यतेति । चिरवियुक्तपतिना नूतनविवाहमङ्गलावसरे नववध्वा त्रयीसरस्वत्या नम उक्तिर्विधीयेत पतिसंयोजकब्राह्मणविषये । यथा श्रीरुक्मिण्या ‘न पश्यन्ती ब्राह्मणाय प्रियमन्यननाम सा’ इति नमस्क्रियाऽऽचरिता । न हापौरुषेय्या त्रय्याशरीरिण्या कायिकनमस्त्रिया शक्या । अशरीरत्वेऽपि वाक्सामर्थ्यमस्ति भूयः श श्रीरङ्गराजस्तवः । व्दमय्यास्तस्याः । ‘अशरीरिणी वाक्’ इति वण्यते । तस्मात् तया नमउक्तिमात्रं क्रियते घटकविषये मङ्गलसुत्रस्य कण्ठे संयोजनावसरे 1 वय्या यद्वै किञ्चिदुच्यते तत्त्रय्युक्तत्वादध्येयम् । श्रीरङ्गराजपुरोहिता एतद्वंश्याः श्रीरङ्गराजविवाहघटयितारः । तत्पुरोहितविषये तव्या वध्वा विवाहमङ्गलावसरे उक्ता नम उक्तिः सर्वेतरत्रय्युक्तिवन्नूनमध्येया भवति । त्रयीगुरूचरिता नमउक्तिस्तदुच्चारणमनु मयोच्चार्यत इति च गुरुच्चारणानूच्चारणप्रयुक्ताध्ययन शब्दस्योपपत्तिसमर्थनमिति रसिकैर्भाव्यम् । मातापितृसहस्रेभ्योऽपि वत्सलतराया हृदयगुहान्धकारनिरोधन्यास्त्रय्या गुरुत्वमस्त्येव ॥ यदुक्तयः । नववध्याः कण्ठदेशे स्त्रीणामेवावस्थित्यौचित्यम् ॥ लयीकण्ठे । श्रोभूमिनीति त्रित्वसंख्या देवीषु । सैव संख्या त्रयीदेवीषु । त्रयीकण्ठः खल्वस्मान् वेदितव्यं वेदयति । तत्र निरतिशया कृतज्ञता । तिसृणामपि नाथपरत्वे एककत्वादेक एवं कण्ठ इत्येकवचनेन व्यज्यत इव । एकत्ववाचित्वे तात्पर्यानुपपत्त्यभावात्, प्रत्युत तल स्वारस्यभूयस्त्वस्य विद्यमानत्वान्न जातविकवचनाश्रयणक्लेशः । त्रिसमुदाय भूतका व्यक्तिवी त्रयी । युक्तं ज्ञानमय्यास्त्रव्याः प्रज्ञानघनेन प्राज्ञेन नाथेन परिणयः ॥ यान्ति मलसूत्रताम् । श्रीवत्स चिह्नमिश्रा मिश्रयितारः पुरोहिताः । त्रयोत्रह्ममिश्रयितारो मिश्राः । पुरोहितवंश्यानां सर्व मङ्गलसुत्रत्वेन भासेत । श्रीरङ्गराजपुरोहितानां जामाता रङ्गराज एव भवेत् । उक्तीनां सुत्रत्वमुच्यते । तेन च वक्तुः पितुः सुत्रकृत्यमुक्तं भवति । ब्रह्मसूत्रमित्यत्र ब्रह्मशब्दस्यावृत्त्या तस्य वेदपरत्वं परब्रह्मपरत्वं च लभ्यते । तेन च शब्दब्रह्मणो ब्रह्मपरत्वेन निर्णायकानि सूत्राणि ब्रह्मसूताणीत्यर्थो लभ्यत इत्युच्यते वेदान्तग्रन्थेषु । त्रयी ब्रह्म ब्रह्मणा मङ्गलसुत्रेण संयोज्यते ४ । श्रीरङ्कराजस्तवः । परिणीयत इति ब्रह्मसूत्राणि पितृसूक्तयः । ब्रह्मसूत्रत्वमस्तु वा मा वा । मङ्गलसूत्रत्वमस्त्येव । मङ्गलसूत्रकारो मत्पिता । वेदान्तवाक्यकुसुमग्रथनाथीनि सुत्राणि ब्रह्मसुत्राणीति शङ्कराचार्याणां भावः । प्रभूतोपनिपदमृतोदन्वत्सारभूतामृतमथनसाधनानि सूत्राणीति वेदान्ताचार्याः । शव्दचह्मणस्त्रय्याः परब्रह्मणा विवाहमङ्गलर्निर्वर्तकानि माङ्गल्यतन्तवो ब्रह्मसुत्राणिति भट्टपादानामाशय इव । सूचनात् सूत्रमिति यौगिकार्थाश्रयणादपि रुढतन्त्वर्थमवलम्ब्यार्थवर्णनेऽर्थसन्निकर्षाधिक्यं स्वारस्यरूपफलाधिक्यं चेति त्रयाणामप्याशयः । मत्पित्रा घटकेन पुरोहितेन तदुक्तिमङ्गलसू त्रैरलौकिक्या लयीवच्या संयुक्तं जामातरं श्रीरङ्गराजमनुभवामीत्यत्र तास्पर्यवर्णनेन श्रीरङ्गराजस्तेवऽस्यान्तर्भावः । जामातृबुद्धया वयं पश्येम श्रुतिपतिम् । ‘सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना’ इति भावपरत्वप्रतिपादिकासु श्रुतिषु सतीष्वपि श्रुतिरहितत्वरूपवाधिर्यमुझते कैश्चिदिति श्रीवैकुण्ठस्तवे । सत्यामपि श्रुतौ श्रवणेन्द्रिय, बधिरास्त इति चारु प्रदश्यते तत्र । ब्रह्म च ब्रह्म च ब्रह्मणी । एकशेषः ॥ रामानुजपदच्छाया गोविन्दाहवाऽनपायिनी । तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥ त्रयीब्रह्मणोः परिणय उक्तः । स्वाचार्यस्य यतिपतिपादेन परिणयः कीर्त्यते । ‘छायेवानुगता सदा’ इति छायात्वं पत्नीत्व योतकम् । ‘अन्वासते वह्निमतो यथार्ह छायाः सजीवा इव धर्मद्वारा:’ इति वेदान्ताचार्यैः सजीवच्छायात्वरूपणं तपोवनचदाराणाम् ॥ रामानुजपदच्छाया । तप्तस्य ममात्मन इयं तापहरा सुभगा छाया । नान्यत्र मदात्मनो विभ्रमः । ‘अभिनतशिशिरान्’ इत्याचार्याणां तापहरत्वमुच्यते द्रमिडे। पनित्पनात्पर्यरत्नावल्याम् । ‘बाहुच्छायामधो यस्य लोको महात्मनः’ इति वोरेण वीरबाले छायादत्यवर्णनम् । श्रीरङ्गराजस्तवः । ‘पत्युः संयमिनां प्रणम्य चरणौ तत्पादकांटरियोः सम्बन्धन समिध्यमानविभवान्धन्यांस्तथाऽन्यान् गुरून्’ इत्युक्तरीत्या श्रीभाष्यकारपादसम्बन्धन समिध्यमानविभवास्तदर्वाचीना अम्मगुरवः । तत् योत्यते रामानुजपद च्छायेति । ‘जनिपधपरिवृत्तिश्रान्तविश्रान्तिशाखी’ इति रूपणं वृक्षत्वन यतिपतेः । ‘यतिचक्रवर्तिपदपद्मपत्तनम्’ इति रामानुजपदस्य पत्तनत्वन रूपणम् । अत्रात्मनस्तापापनोदनक्षमच्छायापेक्षा या स्तोत्रत्वात्तद्रूपणम् । एतेन रामानुजपदाधःस्थितिः संपाद्यते । श्रीभाष्यकाराधीना खसतेति दृढोऽध्यवसायः श्रीगोविन्दपादानाम् । ‘अवस्तुप्रस्तावेष्वचरममभृद्रस्तु यदिदं स एवाहं सत्सु व्यगणि यदीयैर्वगुणैः’ इत्युक्तं तैः । विम्बाधीनसत्ताका छाया । रामानुजपदाधः परमशीतला छाया मद्विश्रमस्थली • भवति ॥ गोविन्दाहवा । नाममात्रमस्त्यस्य यतिपतेः पृथग्भूतम् । व्यक्ति स्तु तदनन्या तच्छायैव । नामैव पृथग्वस्तुत्वकथने हेतुः । चेतना सप्राणेयं छाया । न छायासामान्यम्य छायिनाम्नः पृथङ्नाम भवेत् । तरुच्छाया छतच्छायेत्यादौ तर्वादोनां नामैव तत्तच्छाया नाम । अत्र चेतनस्य छायात्वान्नामभेदः ॥ अनपायिनी । रामानुजपदानुगतयं छाया । न कदाचिदपि तत्पदविश्लेषो यथा नित्यं तस्याच्युतपदाम्बुजाविश्लेषः । एतच्छायापाये मम विश्रमापायो भवेत् । नितान्तं तप्येय तदुपाये ॥ तदायत्तस्वरूपा । अत्यन्ततादधीन्यं । शास्त्रसिद्धं भगवदायत्तस्वरूपत्वमप्यविगणय्याचार्यपदाय तस्वरूपतानुसन्धीयते । मधुरकविनिष्टाऽ रूपत्वमप्यविगणय्याचार्यपदायत्तस्वरूपतानुसन्धीयते नुरुध्यते ॥ सा । मम तत्पदार्थप्रतीतिविषयभूता सा ॥ जीयात् । छायायाः प्रकर्षे प्रच्छायकत्वम् । तत्र च निद्रा । श्री रङ्गराजस्तवः । विश्रमादिसौलभ्यम् । जीयादिति प्रकर्षमुक्त्वाऽनुपदमेव विश्रमपठनेन ‘प्रच्छायसुलभनिद्राः’ इति महाकव्युक्तं स्मार्यत इव । निद्रा च योगनिद्रा समाधिः । मङ्गलाशासनमिदमाशीर्लिंङा । शिष्यप्रयुक्ताशी गुरु विषये । I मद्विश्रमस्थली । मदिति स्वात्मनो ग्रहणम् । धीसन्तापशा न्तिरिष्यते । आचार्यपादच्छायायां धीसन्तापशान्तिसंभवः । वासुदेवतरुच्छायासेवनमपि नाभिलषामः । रामानुजपद च्छायासेवनमलमस्माकं तापनिवृत्तये । ‘सा किं न सेव्यते’ इति वासुदेवतरुच्छायाविषये प्रयुक्तं ‘सा’ शब्द मेवास्मदाचार्यविषये प्रयुज्महे ॥ रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रितात् । कलिकोलाहलकीडामुधाग्रहमपाहरत् ॥ ३॥ छाया नता । इदानीं छायादाय वस्तु प्रणम्यते । ‘मदनमत्सरमानमयः पुमान् बहुपिशाचगृहीत इवार्मिकः । निगमसिद्धनरेन्द्रनिरीक्षया निपुणपद्धतिनभ्यवपद्यते’ इति सङ्कल्पसूर्योदये । नरेन्द्रो मान्त्रिकः । शिष्या अर्मकाः । मायाग्रहगृहीतो हरिः । तस्यैवावच्छेदिका माया । कलिब्रह्ममीमांसकत्वेन परेषां वर्णनमुत्तरशतके । तेषां कोलाहलक्रीडया मायाग्रहो हरेः । भगवत्क्रीडाप्रयुक्तोऽस्माकं मायाग्रह इति शास्त्रम् । लीलाकैवल्यमिति सूत्रकारः । परेषां कोलाहलक्रीडया भगवान् मायया ग्रहीप्यते । तस्मान्मुवाग्रहान्मोक्ष्यते हरिः । मुधाग्रहो मायाग्रहः । ‘भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ इति कोलाहलोद्घोषो भगवतः । स एव भगवान् मायया यन्त्रितः परैः खकोलाहलकीडया । ‘परं ब्रह्मबाज्ञं भ्रमपरिगतम्’ इति परैरुच्यत इति शोच्यते वेदार्थसंग्रहारम्भे । मायाग्रहगृहीतं मायायन्त्रयन्त्रितं भक्तियन्त्रे आरोप्य मायायन्त्रादवरोपयन्ति श्री माष्यकाराः । मायायन्त्रितस्य भक्तियन्त्रारोपणेन मोचनम् । माया-श्रीरङ्गराजस्तवः । यन्त्रितः संसरतीति परे । भक्तियन्त्रितो भगवान् मायाग्रहादात्मानमस्मां श्च बन्धान्मोचयति ॥ रामानुजमुनिः । मुनिरिति सिद्धनाम । ‘सिद्धानां कपिलो मुनिः’ इति भगवान् ॥ जीयात् । वर्धतामभिवर्धताम् । जीयाज्जीयादिति तद्विषय मङ्गलाशासनात्तेषां जीया इति संज्ञा कृतेव । छाया जीयात् । छायी जीवात् !! यः । रामाभिधानहरेः शत्रकारितसीतावियोगजनितेोन्मादग्रहा लक्ष्मणेनापहृताः । अयमपरो लक्ष्मणः । ‘यो ब्रह्माणं विदधाति पूर्वम्’ इत्यादिवद्यच्छब्दोपनिबद्धं वर्णनं श्रीभाव्यकारविषये ॥ हरेः । (अपाहरत्) सर्वलोकस्य मायापहारको हरिः । ‘मामव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।’ तस्य मायाग्रहो मुधाग्रहः अनेन मुनिनापहियते । हरेरापदुद्धारकोऽयम् । ‘कुदृष्टि कुहनामुखे निपततः परब्रह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः’ इति यतिराजसप्तत्या मेवमनुभवः । तत्रापि मुनिग्रहणम् । ‘यत्त्वयोपकृतं हरे’ इति हरी रामो हरिं हनूमन्तं प्रति । ‘लोकस्य हरिरहम् । हरेर्ममापद्धरो हरिस्त्वम् ॥ भक्तियन्त्रितात् । ‘यन्त्रारूढानि सर्वभूतानि मायया भ्रामयामि’ इति भगवान् । तमेव मायया यन्त्रयन्ति । तं मायायन्त्रितं मायाग्रहग्रस्तं वर्णयन्ति । यदि मोचक एव यन्त्रितः कोऽस्मान्मोचयेत् । यन्त्रान्तरारोपणन तं ग्रहान्मोचयामो वशोकुर्मश्च । भक्तिरजाभिस्तं बध्नीमः । ‘प्रेम्णाऽथदामपरिणामजुषा बबन्ध ।’ ग्रहगृहीतान्यन्त्रविशेषे आरोप्य ग्रहान्मोचयेयुः सिद्धा मान्त्रिकाः । भगवतो ग्रहान्मोचने तद्भक्तिरेव यन्त्रं भवति । तेनैव तस्य रक्षा । नान्यस्य रक्षासामर्थ्यम् ॥ श्रीरङ्गराजस्तवः । कलिकोलाहलकीड मुघाग्रहम् । मुधाग्रहो मायाग्रहः । परमेश्वरं मायाग्रहगृहीतं कुर्म इति केषां चित्कोलाहलक्रीडा । यद्यपि ‘मायागृहीतः परः’ इति तेषामभिमानः स मुधाग्रह इत्यपि बोध्यते । वितथमनोविलासस्तदाग्रहः ॥ अपाहरत्। हरेरपि हरित्वोपपादनायैषा हरतिक्रियोपात्ता ॥ विधाय वैदिकं मार्गमकौतस्कृतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहे ॥ ४ ॥ श्रीमद्गोविन्दपादा रामानुजदयापातत्वाद्वम्तुतामुपयाताः । ‘यत्पदाम्भोरु हध्यानविध्वस्ताशेव कल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमाम्यहम् ॥’ इति कथयन्ति भाष्यकाराः । तं यामुनं प्रणमति । भक्तिरित्युक्तं पूर्वश्लेोके । कस्तस्या नेता ? केन मार्गेण ? यातुनस्तस्या नेता भगीरथः । वैदिकेन मार्गेण नेता । आरण्यकश्चेन्मार्गः सकण्टकः स्यात् । कथं सकण्टकेन मार्गेणाहरणसम्भवः ? मार्ग निष्कण्टकीकृत्यानिनायेत्युच्यते ॥ विधाय । [ अकण्टकम् ] कृत्वा । भक्तेरविधेयत्वमुद्भूय विधेयत्वं प्रसाध्येत्यपि गम्यते ॥ वैदिकं मार्गम् । वेदैकसमधिगम्योऽयं मार्गः । वैदिकमित्यवधारणगर्भम् । वेदादेव समुत्पन्नम् । ‘नावेदविन्मनुते तम्’ ॥ अकौतस्कुतकण्टकम् । आरण्यको मार्गः कण्टकावृतः स्यात् । तत्र सञ्चरणमेव दुःशकम् । कथं तद्द्वारा भक्त्यानयनम् । तत्र कण्टका ना मनुष्या वृक्षतृणलतादयो ये परशुखनिलादिना सुलभं छिद्येरन् । पुमांसः कौतस्कुतास्तत्र कण्टकाः । ते कुतः कुत इति सततं पृच्छन्ति । ‘को अद्धा वेद क इह प्रवोचत् ? कुत आजाता कुत इयं विसृष्टि: ? इति श्रुतिः कौतस्कुतान्हैतुकान्प्रतिवदति प्रतिप्रश्नैः । ‘श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयंत यामुनमुनिः । इति वेदार्थसंग्रहे । ‘कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः ? कः पुण्डरीक श्रीरङ्गराजस्तवः । नयनः ? पुरुषोत्तमः कः ? ’ ‘कस्योदरे हरविरिञ्चमुखः प्रपञ्चः को रक्षतीममजनिष्ट च कस्य नाभेः’ इत्यादिभिर्बहुभिः प्रतिप्रश्नैस्तान् कौतस्कुतान् प्रश्नप्रियान् शमयति । कौतस्कुताः प्रश्नः प्रत्युच्यन्ते तोप्यन्ते चेति व्यज्यते कौतमकुतकण्टकापनयनकथनेन । कौतस्कुतविशेषणेन कण्टकान्तरस्याभ्युपगमो द्योत्यत इति रसिकैर्भाव्यम् । कौतस्कुतकण्टकमात्रनपनीयते । पुलकरूपकण्टकस्य भूयस्य भिमतिः । ’ आह्वादशीतनेवाम्बुः पुलकीकृतगात्रवान्’ इति पुलकाविनाभावो भक्तिमार्गस्य । ‘श्रवा नामानि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात् दृष्ट्वा यस्याननेन्दु भवति वपुरिदं चन्द्रकान्तानुकारि’ इति नायिका कर्णसुन्दरी तन्नान्नि नाटके बिल्हणीये । ‘नले जलं गात्ररुहेषु हर्षः’ इति श्रीशुकः । ‘कण्टकयोंगो योगेषु’ इति बाणः ॥ नेतारं भगवद्भयमुनं मनवामहै । आगमप्रामाण्येन भगबद्भक्ति जटिलस्य सात्त्वतस्य रक्षणं चकिरे कौतस्कृतशल्येभ्यः ॥ नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्त्व ज्ञानभक्त्यभिवषुकम् ॥ ५ ॥ यन्नमस्कारेण स्तोत्वरत्नमुपक्रान्तम् ‘नमोऽचिन्त्याद्भुत-’ इति तं स्तौति । नौमि । अभिष्टोमि ॥ नाथमुनिं नाम । नाथाय नाथमुनये इत्यस्य स्मारणम् । ‘नाथेन मुनिना तेन भवेयं नाथवानहम्’ इति श्रीवेदान्ताचायीः ॥ जीमूतं भक्त्यवग्रहे । ‘अगाध भगवद्भक्तिसिन्धव’ इति सिन्धुत्वरूपणं स्तोत्ररले । ‘नमाम्यहं द्राविडवेदसागरम्’ इति भक्तामृतस्य श्रीमच्छठकोपादिप्रवन्धस्य सागरत्वनिरूपणं नाथमुनिभिः । सिन्धुरूपणं तेपां चेतसे रोचेत इति सिन्धुत्वोक्तिः स्तोत्ररले । अत्र तस्य मवरू s 2 १० श्रीरङ्गराजस्तवः । पणम् । भ्रवमवग्रह एवाभूद्भक्तिरसस्य श्रीमत्पराङ्कुशपरकालादिकालानन्तरम् । अवग्रहे वर्षुकवलाहकेनोपकारः । समाधिरसपूर्णोऽयं योगी । समाधिर्धर्ममेध इति व्यवह्वियते योगसूत्रेषु । भक्तिर्धर्मः । तद्धर्मवर्षकोऽयं मेघः । तृषार्तेी भगवान् भक्तयवग्रहे । भक्तिरसस्तद्धारकः । ’ तदहं भक्त्युपहृतम्’ इति तस्य भक्तितृषासूचनम् । न केवलमस्माकं जीमूते। भगवतः कालमेघस्य जीमूतोऽयम् । ग्रहान्मुमोच हरिं रामानुजमुनिः । अवग्रहाद्ररक्ष तं नाथमुनिः । नाथेोपज्ञ प्रवृत्तस्यास्मद्दर्शनस्यायमेव जीमूतः पोषकः ॥ चैराग्यभगवत्तत्त्वज्ञानभक्त्यभिवर्षुकम् । वैराग्यं भक्तेः पूर्वभावि तत्साधनम् । प्रथमं भगवदितरवैराग्यं तार्तीयप्रथमपादन द्वितीयपादैकदेशेन च प्रतिपाद्यते । भगवत्तत्त्वज्ञानं द्वितीयपादेन । भक्तिरूपविद्या च तृतीयपादेन । तादृशः क्रमोऽत्र !! ऋषि जुषामहे कृष्ण तृष्णातत्त्वमिवोदितम् । सहस्रशाखां योऽद्राक्षीत् द्रामिडों ब्रह्मसंहिताम् ॥ ६ ॥ भक्तयभिवर्षुकमित्युक्तं नाथमुनिविषये । तच्च भक्तिरसघनदिव्यप्रबन्धवर्षणेन । योगबलेन तल्लब्धधर्मवीर्येण ददर्श द्रामिडवेदान्नाथमुनिः । श्रीशठकोपस्तु प्रथमं साक्षात्स्वयं ददर्श । तद्विशेषद्योतनाय ऋषिरिति प्रथमविशेषणम् । ऋषयो मन्त्रद्रष्टारः । ‘भक्तिप्रभावभवदद्भतभावबन्धसंधुक्षितप्रणयसाररसौघपूर्णः’ इति परांकुशपयोधिवर्णनं श्रीवैकुण्ठस्तवे ॥ जुपामहे । प्रीत्या सेवामहे । प्रपन्नननकूटस्थ श्रीशठकोप श्रयणावसरे आत्मनि बहुमानेन प्रथमं बहुवचनप्रयोगः ॥ कृष्णकृष्णातत्त्वमिवोदितम् । कृष्णतृष्णा तीव्रा तदनुबुभूषा श्रीशठकोपत्वेनोदितेव । परभक्तिमयः पराङ्कुशः । नास्य तृष्णाऽनुभवेन शाम्येत् । अनुभवेन भूयो वर्धतेऽस्य कृष्णतृष्णा । तीव्रोत्कटतृष्णा श्रीरङ्कराजस्तवः । ११ मेव भूयः पश्यामस्तत्संहितायाम् । यदि कचित् प्राप्तिरूपानुभवः स भूयस्तृष्णामेवोपचिनोति । ‘न जातु कामः कामानामुपभेोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ इत्येतद्भक्तिरूपप्रशस्त कामेऽपि समानम् । एतन्नयायस्य नाव्याप्तिः कृष्णविषयतृष्णारूप कृष्णवर्त्मनि कृष्णवर्त्मा तृष्णेयम् । अत्र हविरात्महविः ॥ कृष्ण तृष्णातत्त्वमिवोदितम् । मन्त्रद्रष्टारो ऋषयो न नियमेन मन्त्रप्रतिपाद्यदेवतादौ तीव्ररागवन्तः । अयं तु ऋषी रागो मूर्तिमानिव । नेयं तृष्णा विषयमृगतृष्णिकावदतत्त्वभूता । नेयं तृष्णा गुणमात्रम् । गुणी धर्मी तत्त्वमियं तृष्णा । उदितमाविर्भूतं, न जातमयोनिजमिदं तत्त्वम् ॥ 1 सहस्रशाखां योऽद्राक्षीत् द्रामिड ब्रह्मसंहिताम् । ऋषिरिति भूतार्थव्याहृतिर्न स्तुतिः । अन्ये ऋषयः संहितैकदेशं खल्पं वाऽ • धिकं वा दृष्टवन्तः । अयं तु सहस्रशास्त्रां कृत्स्नां संहितां ददर्श । अन्ये ऋषयः प्रायेण कर्मसंहितामद्राक्षुः । अयं तु ब्रह्मसंहितामद्राक्षीत् । सर्ववर्ण हैवेदमयमपश्यदित्युच्यते द्रामिडीमिति । ‘कचित्कचिन्महाभागा द्रमिडेषु च भूरिशः’ इति महाभागत्वेनार्थप्रशंसा द्रमिडमुनीनाम् । ऋपिंणा प्रशस्त ऋषिः । वेदार्थविशदीकरणं द्रामिडवदेन । वेदार्थनिणीयकस्य सूत्रस्यादिममरमद्भाष्यं द्रमिडमाप्यम् । ब्रह्मसंहितेत्यत्र ब्रह्मशब्दस्य वेदपरत्वं च । तेन च संहितायां वेदत्वं संकोत्यते ॥ नमः श्रीरङ्गनायक्यै यद्भविभ्रमभेदतः । ईशेशितव्यभेदेन निम्नान्नतमिदं जगत् ॥ ७ ॥ तृष्णामय ऋषिर्नतः । नित्ययुक्ताऽपि श्रीः क्षणमपि न विश्लेषं सहेयेति सततं वदन्ती निरवधिकतृष्णां प्रकाशयति । ‘त्वमेव भर्ती न च विप्रयोगः’ ‘किमस्या न प्रेयो यदि परमसह्यो न विरहः’ इति विश्लेषभीरू दम्पती । ‘अतिस्नेहः पापकी’ । कृष्णतृष्णामयीं श्रियं नमति ॥ १२ श्रीरङ्गराजस्तवः । नमः श्रीरङ्गनायक्यै । गुरुत्वेनास्या नमस्कारः प्राप्तो गुरुप रम्पराप्रस्तावात् । प्रसङ्गात्तस्या ऐश्वर्यमुच्यते । संराज्यस्मदाचार्यानी । श्रीरङ्गराजं तुष्टूपता प्रथमं तन्नायिका नन्तव्या ॥ यद्भूविभ्रमभेदतः । रङ्गन/यक्या नटीत्या विभ्रमनैपुण्यम् । ‘लोकवत् तु लीलाकैवल्यम् ।’ लीला च लोके दम्पत्योः प्रायेण । नायकलीला प्रकारेषु कान्ताभ्रमङ्गाः प्रमाणमिति च दृष्टचरम् । ‘इङ्गितज्ञा हि कोसलाः । इमौ चायोध्यको भ्रमङ्गविलासेङ्गितमेवालं कान्ताशयपरिज्ञानाय । भ्रममूलः प्रपञ्च इति केचित् । एतविभ्रममूल इति वयम् ॥ ईशेशितव्यभेदेन निनोचतमिदं जगत् । वैत्रम्यनैर्नृण्य सूत्रस्थवैषम्यस्यानुवादोऽत्र । ईशशब्देन निरंकुशेश्वरस्य भगवतोऽपि यदि ग्रहणम् ‘अपाङ्गा भूयांसो यदुपर परं ब्रह्म तदभूत्’ इति तत्समर्थनमेष्टव्यम् । यद्यापेक्षिकेशग्रहणम् ‘अमी यत्र द्विलाः स च शतमखादिस्तदधरात्’ इति तत्साधनम् । ‘इदं’ इति श्रत्यनुगमः, सूत्रानुगमश्च । अत्र यथासंख्याश्रयणं शक्यं कयाचिद्विधया । ईश्वरोऽहमित्यानिमानः पतनरूपनिम्नत्वहेतुः । ईशितव्यत्वरूपशेषत्वाभिमान औन्नत्यहेतुः । एवं चशस्य निनत्वमीशितव्यस्योन्नतत्वं च भवति ॥ श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये । चिन्तामणिमिवोद्दान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८ ॥ ‘सेनेशं श्रियमिन्दिरासहचरम्’ इति क्रमः । श्रियैवार्य रङ्गशाय निरूप्यते । आ भगवत्तः प्रथिता गुरुपरम्परा समाप्यते । कथमत्र तेजस्त्वकीर्तनं गुरोः ! तेजोमयी वाक्–। निरतिशयेोज्ज्वलबागस्य । ? न गीतासदृशी वाक् ॥ श्रीस्तनाभरणं तेजः । सामरणमिदं तेजः । ‘सर्वभूषण भू श्रीरङ्गराजस्तवः । १३ पाही: किमर्थं न विभूषिताः’ इत्यनाभरणत्वप्रयुक्तशोच्यत्वस्यानवसरः । यद्यपीदं तेजः खतो निरतिशयभास्वरम् इदमधिकं शोभते आभरणविशेषेण । आभरणस्याभरणमिति लावण्यधाम्नः किमाभरणं भवेत् । तस्य तेजसा ऽप्रमेयत्वकारिकायाः ‘यस्य सा जनकात्मजा’ इति कथितायाः श्रियः स्तनमिति ब्रूमः । ‘तप्तकाञ्चनवर्णाभा’’ ‘तप्तजानूनद’ इति कनकवर्णायाः श्रियः काञ्चनस्तनः चिन्तामणित्वेनोत्तराचे वर्णितस्य रत्नरूपतेजसः ‘रत्नं समागच्छतु कांचेनन’ इतिवत् भूषको भवतीत्यानुरूप्यानुभवः । स्तनस्य गाडनिवेशाभावे तस्य सा न भवेत् । ‘मौर्यस्योरसि नाथुनाऽपि कुरुते वामेतरं श्रीः स्तनम्’ इति राक्षस बनाशङ्किन्या राज्यलक्ष्न्याश्चन्द्रगुप्तोरसि वामेतरस्तनानिवेशेकथनमत्र भाव्यम् । ‘समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ’ इति दयाशतके । चैतन्यस्तन्यदायित्वमभिप्रेयते स्तनग्रहणेन, गुरुपरम्प रानुसन्धान प्रकरणात् ॥ श्रीरङ्गेशयम् । स्तनाभरणमिति गाढालिङ्गनं सूचितम् । तच शयनावसरमाक्षिपति । तदुच्यते श्रीरङ्गेशयमिति । भाखरप्रणवान्तस्थं तेजः । रङ्गस्य प्रणवाभिन्नत्वात् । तुष्टूषितस्य रङ्गराजस्यानुध्यानारम्भे प्रणवालम्बनत्वेन कवेरनुसन्धानमोङ्कारोपक्रमत्वात् परममाङ्गलिकम् । अत्र प्रणवनिदिष्टास्त्रयोऽपि सह निर्दिश्यन्ते । श्रीविशिष्टं तेजः शेषेोत्सङ्गे । एते च प्रणवरूप रङ्गान्तः । अत्र रने परस्य ब्रह्मणो रूपं शेषित्वं स्फुटमीक्ष्यते ।। आश्रये । समाश्रयेदादिदेवमितिवत् । रङ्गमाश्रितोऽयं सर्व भूताश्रयः । तमहमाश्रये । रङ्गाश्रितमाश्रयाणि इत्यत्रैव स्तवे । श्रीः श्रयते परं पदम् । प्रजाभिस्तत्स्मरणपूर्वकमाश्रयणम् । ‘निद्राति स्नाति’ इति लौकिकप्रमेोरिव नास्य निद्रा अनाश्रयणहेतुः । योगनिद्राऽस्य निद्रा परमजागररूपा ॥ चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः । आश्रयेऽहमि १४ श्री रङ्गराजस्तवः । त्याश्रयणमुक्तम् । आश्रयणप्रसङ्गे चिन्तामणेरुरुकृष्टतर आश्रयो न लभ्यत । ‘प्रगतजनचिन्तामणिगिरिः’ ‘आश्रितचिन्तामणिः’ इति भूयान् व्यवहारः । तेज इत्युक्तस्य मणित्वेन रूपणम् ॥ इवोद्वान्तम् । बहुफगावति फणिनि शेतेऽयम् । फणी चोल्बणं विषं वमेत् । तत्समीपेऽपि न गन्तव्यम् । कथं तदाश्रयेमहि । एवं भये जात उच्यते—सत्यमयं फणी वमति । न विषं वमति । किन्तु खशिरोरत्नं वमति । अमुख्यार्थ उद्वान्तशब्दो न ग्राम्यः । मुख्यार्थे प्रयुक्तो ग्राम्यो भवेत् । निगीर्येक्तिौ प्रशस्तः । ‘अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहेत’ । ‘उत्सङ्गेऽनन्तभोगिनः’ ‘देव्या श्रिया सह वसन्तमनन्तभोगे’ इति वैकुण्ठस्तवे । ’ तथा सहासीनमनन्तभोगिनि ’ इति स्तोत्ररत्ले । ‘शयानं श्रिय उत्सङ्गे’ इतिवच्छबस्योत्सङ्गे शयनम् । दम्पती शयांत शेषोत्सङ्गे । तज्जनितोऽनन्तो भोगः शेषस्यति व्यज्यतेऽनन्तभोगिन इति यौगिकार्थश्रयणन ॥ अस्ति वस्त्विदमित्थत्वप्र संख्यानपराङ्मुखम् । श्रीमत्यायतने लक्ष्मीपदलाक्षैकलाच्छनम् ॥ ९ ॥ अब भगवस्तोत्रं प्रारप्स्यते । अस्तीति माङ्गलिकपदप्रयोगः । ‘अस्त्युत्तरस्यां दिशि देवतात्मा’ इति कुमारसम्भवमारभ्यते । अस्ति इत्येव भगवान् बेोद्धव्यस्तम्येयत्तायाः प्रभावस्य च परिच्छेदानर्हत्वात् । एवमस्तीति न निरूपयितुं शक्यते ब्रह्म । ‘अस्तीत्येवोपलब्वव्यः’ इति कठवल्ली । अध्वनः षारभूतं विष्णोः परमं पदं तत्र प्रस्तूयते । भुवि विष्णोः परमपदत्वेन श्रीरङ्गस्य प्रसिद्धिः । कठवली श्रीरङ्गराजविषयेति व्यज्यते कविना अस्तिशब्दस्य प्रथमपठनेन । ‘तद्विष्णोः पदमतमः परोरजोप्रथम् ’ इत्यादिश्लेोकेऽप्यवमेव कठवलयनुभवः श्रीरङ्गराजविषये । ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’ इति ब्रह्मास्तित्वज्ञानाधीनत्वात् स्वसत्त्वस्य, श्रीरङ्गराजस्तवः । असता स्तोता स्तवस्यासाध्यत्वात् ; स्तोतुः स्वस्य सिद्धिं सम्पादयति ‘अस्ति वस्तु’ इति ब्रुवन् स्तवारम्भे । ‘अनस्तमितास्तिशब्दम्’ इति वरदराजस्तवे । वस्तु । ‘नृप वस्तु किम्’ इति पृष्टं वस्त्विदम् । श्रीपराशरखचनानां प्रत्यभिज्ञापकमिदम् । श्रतिप्रसिद्धिः स्मृतिप्रसिद्धिश्च ॥ इदमित्थत्वप्रसंख्यानपराङमुखम् । ‘अस्ति इति भवद्भिरुच्यते । नेति नेतीति निषेधः श्रयते । ‘नैकस्मिन्नसंभवात् ।’ एकत्रास्तित्वनास्तित्वयोन सम्भवः । एवमाक्षिप्ते नेति नेति श्रत्यर्थो वण्यते । प्रत्यगिदं वस्तु । प्रतीपमश्चतोति प्रत्यक् । इन्द्रियैर्मनसा चापरोक्षीकरणोद्यमे तेभ्यः प्रतीपं गच्छति । इदमित्थमिति सवी लौकिकी प्रतीतिजांबते । आन्तरस्यास्य सर्वदृष्टविलक्षणत्वात् ‘नैवं नैव इत्येव वक्तुं शक्यम् । सर्वविधपरिच्छेदातीतत्वादिय तारहितत्वान्नेति नेत्यादिश्यते ब्रह्म । प्रकृतैतावत्वं हि प्रतिषिध्यते नेति नेतीति । ‘अपरिच्छिद्यमानस्य देशकालादिभिस्तव ! निदर्शनं त्वमेवैकत्वदन्यव्यतिरेकतः ॥ इति यादवाभ्युदये। दृष्टसवैविलक्षणं वस्तु कथं दृहैः प्रकारज्ञयित । स्वभावतो बाहिर्विषयविषयाणीन्द्रियाणि नान्तरपरमात्मविषयाणि । ‘न तत्र चक्षुगच्छति न वागगच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिप्यात्’ इति केनोपनिषत् । प्रसंख्यानमिति योगशास्त्रप्रसिद्धः शब्दः । ‘सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेषपर्यन्तं परं प्रसंख्यानमित्याचक्षते ध्यायिनः’ इति व्यासभाष्ये । ‘प्रसंख्यानं धीसन्ततिः’ इति कल्पतरुकृतः । ’ तद्रूपप्रत्यये चैका सन्ततिश्वान्यनिस्पृहा । तद्ध्यानम् -’ इति ध्यानलक्षणम् । ‘हरः प्रसंख्यानपरो बभूव’ इति कुमारसम्भवे । तथा च प्रसंख्यानमिति ध्यानपर्यायः । योगिभिरपि दुर्विज्ञेयम् । प्रत्यग्वस्तु पराङ्मुखं भवतीति विरोधस्फोरणम् । आन्तरवस्तुन इदमित्थत्वरूपनाम " १६ श्रीरङराजस्तवः । तीतिर्विसदृशत्वं प्रत्यक्त्वानुकूलमिति परिहारः । आवृतचक्षुषान्तर चक्षुश ज्ञेयम् । इन्द्रियपराङ्मुखत्वेनैव प्रत्यक्त्वासिद्धिः । ’ तादृक्त दीड गदमि त्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै’ इति श्रीवैकुण्ठस्तवोकमल भाव्यम् ॥ श्रीपत्यायतने । प्रसंख्यानशब्देन योगिभिर्नृभ्यमाणमन्त ज्योतिः सुचितम् । आन्तरं प्रत्यग्ज्येोतिः प्रणवजपेन तदर्थभावनेन च सुदर्श भवतीति योगिनः । तस्य वाचकः प्रणवः इति प्रणयस्येश्वरवाचकत्वं ‘तज्जपस्तदर्थभावनम्’ इति प्रणवजपतदर्थ भावनयोगसन्नतमोपायत्वं च सूलितम् । ओङ्कारस्य च ब्रह्मण आयतनत्वेनोपनिषदी प्रसिद्धिः । एतद्वै सत्यकाम परं चैवापरं च ब्रह्म यदोङ्कारस्तस्मादेतन वायतननै कतरमन्वति’ इति प्रश्नोपनिषदि । अत्रायतनोपादानं श्रीरङ्गविमानस्य ओङ्काराभेदयोतकं प्रश्नोपनिषद्वाक्यस्मारणेन । ‘श्रीमति’ इति ‘श्रीमति वसुदेवसद्मनि’ इति माघप्रथम श्लोक स्मारकमिव ॥ लक्ष्मीपदला क्षैक लाञ्छनम् । अनेनैकेन प्रकारण सुलक्षमिदं वस्तु । अदृश्यं दुर्दर्श वस्तु मातृवाल्लभ्यमालात्सुदर्श भवति । श्रिय पतित्वद्योतकतत्पादलाक्षाङ्कितत्वेनैव ब्रह्मत्वनिर्णयः । यो हियो लक्ष्म्याश्च पतिः स पुंयुक्तोक्तं सर्वकारणं ब्रह्म, यः पुंसुक्तादौ कारणत्वेन प्रसिद्धः स श्रियः पतिरिति लक्ष्मीपतित्वस्य कारणत्व सामानाधिकरण्यम् । लक्ष्म्याः स्थानं वक्षः । वक्षोजस्याभरणत्वमुक्तं पूर्वश्लोके । पादलाक्षारसाङ्कत्वमुच्यते वक्षसः । यत्र लक्ष्मीः पदं निवेशयति तस्य मङ्गळभूयिष्ठत्वम् । सुदर्शनपाञ्चजन्यादिलाञ्छना वैष्णवाः । लक्ष्मीपदलाक्षेक लाञ्छना विष्णुः । लाक्षाशब्दोऽरूक्तकार्थको जत्वर्थकश्च । लाक्षया जतुना मुद्रणं क्रियत इव । परत्वमुद्रेयम् । भूयान्मङ्गलप्रस्तावोऽत्र स्तवारम्भे । ‘साक्षालक्ष्मीस तता लिङ्गन सौभाग्यसूचकैः सर्वैर्लक्षणैर्लक्षणे सावुरिति सर्वलक्षणलक्षण्यः’ इति सहस्रनाममाप्ये ॥श्रीरङ्गराजस्तवः ।, लक्ष्मीकल्पलतोत्तङ्गस्तनस्तव कचञ्चलः । श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १० ॥ १७ अदृश्यस्य लाक्षालांच्छितत्वेन दृश्यत्वमुक्तम् । अनेजता निष्क्रि यस्य स्थिरस्य चञ्चलत्वमुच्यते । लक्ष्मीः स्थिरा भर्तुरुरसि । भर्ती तु तत्स्तने लोलञ्चञ्चलः । मङ्गलस्यावृत्तिलक्ष्मीति । अष्टमश्लोके स्तनग्रहणम् । मध्ये पूर्वश्लोके पदग्रहणम् । अत्रानन्तरश्लोकेन पुनः स्तनग्रहणम् । लिः स्तनस्य ग्रहणं सकृत्पदस्य । वाल्लभ्यातिशयद्योतनाय मध्ये पदग्रहणम् । पूर्वश्लाके तत्पूर्वश्लोके च वक्षसि स्थितिरुक्ता । अत्र केनापि कामेन तत उत्थाय पृथक् तिष्ठतीति वयते श्रीस्तस्याः स्तनयोरुत्तुङ्गत्वकथनेन, भगवता भ्रमररूपेणोड्डीय तत्स्तनस्तवक रूपलोलत्वकथनेन च । केनोद्देशेन सा तथेोदतिष्ठदिति चेत् प्रजाभूतभट्टायमानसाम्बुजरमणाय नायकगृ प्रेरयितुमिति श्रमः । ‘स्त्रीप्रायमितरत्सर्वं’ इति तस्य स्त्रीत्वेऽपि तदयाम्भोजे नायकस्य रमणं तस्या भोगाय । तस्यास्तादृशेषु स्वस्तनवाहादितुल्याभिमानात् ॥ लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तवक चञ्चलः । न लतामालत्वेन रूपणं उत्तमस्त्र्यन्तरवत् । इयमुदारतमा कल्पलतात्वेन रूप्यते । भगवतोऽपि सा कल्पलतेव । भृङ्गो भूत्वा तत्स्तनस्तवकं मुहुर्मुहुः स्पृशति । उत्तंगेति तिष्ठदवसरो द्योत्यत इव । स्तनयोगढालेपाच्छ्लथनमावश्यकं । तयोभृङ्गत्वेन लोलबलनार्थम् । श्रथनाभावे कथं स्तनस्तवकचञ्चलत्वसंभवः ! स्तनान्तिकगमने भक्तस्यास्य मानसाम्बुजं गत्वा तत्र रमस्वति नियुज्यते श्रीरङ्गराजभृङ्गः । चञ्चलायाः श्रियो भगवद्भृङ्गचाञ्चल्ये रसः स्यादिति चाञ्चल्यवर्णनमिव । चञ्चलां चाञ्चल्यं प्रीणीयात् । स्तनस्य कुसुमयुगन्धत्वादि धोत्यते स्तवकरूपणेन ॥ श्रीरङ्गराजभृङ्गः । भृङ्गत्वेऽप्ययं राजभृङ्गो न सामान्यभृङ्गः । 3S R १८ श्रीरङ्गराजस्तवः । ‘भ्रमर कितवबन्यो मा स्पृशाङ्घ्रि सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रभिर्नः’ इत्यादि गही भ्रमरगीतायां स्त्र्यन्तररमणप्रभवासुयया । अयं तु श्रीरङ्गराजभृङ्गो स्त्रीप्रायस्य मम हृदये रमणाय प्रेर्यते नायिकया । गोपालदूतभृङ्गभाग्याव्यतिरेकः । भृङ्गश्चातिचाञ्चल्येन पुष्पात्पुष्पं धावेत्पययेण । स्तनात्स्तने चञ्चलं धावनं भोगदम् । ‘चलापाङ्गं दृष्टः स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करं व्याधून्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्वान्वेषान्मधुकर हतास्त्वं खलु कृती इति कृतित्वं श्रीरङ्गराजभृङ्गस्य । ‘पर्याप्त पुष्पस्तव करतनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुः प्रणत्रशाखाभुजबन्धनानि । ’ इति कुमारसंभवलोके लताया बधूत्वेन स्तवकस्य स्तनत्वेन च रूपणम् ॥ मे ‘स्त्रीप्रायमितरत्सर्वं’ इति स्त्रियो मम ॥ मानसाम्बुजे मे । देव्या श्रुत्या नवोढया मन्मनसो नाम कृतं दहरं पुण्डरीकमिति । तच्चावितथी कार्यं भगवता । मम मानसस्याम्बुजत्वं स्थापनीयं तत्र रमणेन । अम्बुजोदरे रमणं भृङ्गस्खभावः ॥ रमताम् । लक्ष्मीस्तनस्तवकचञ्चलत्वजन्यरति तुल्यरतिं द्योतयति । तत्र चञ्चलत्वमत्र रतिरूपस्थायिभावः । लक्ष्मीस्तनसमीपे तल्लोलश्रीरङ्गराजभृङ्गस्य गमने तत्र गत्वा रन्त्वा पुनरागच्छेति सा तं प्रेरयति । स्वस्तनस्पर्शभोगदानार्थं नायकस्यागमने कथं तस्यान्यत्र प्रेरणमिति चेत्-स्त्र्यन्तरेऽपि तस्याः स्वस्तनत्वबुद्धिरित्याचार्यैरेवोक्तम् । ‘याभिस्त्वं स्तनबाहुदृष्टिभिरिव खाभिः प्रियं लाघसे’ इति खलु तस्या भावः । ‘आत्मारामोऽप्यरमत्’ इति रमयितृत्वमात्रेण नालम् । स्वयं रमताम् ॥ स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितो रसः । श्रीरङ्गराजाच्छरदः शतमाशास्महेतराम् ॥ ११ ॥ श्रीरङ्गराजस्तवः । १९ दम्पती पृथक्पृथनतौ । इदानीमुभाभ्यामाशीर्वरणम् । मन्मानसाम्बुजे रमणेन हृटा नायिका तं गाढं परिषस्वजे । उभयोर्गाढोपगूढत्वावसरेऽभिमतं प्रार्थयते कविना तयोः सकाशात् । शरदः शतं कुशलमाशास्यते तौ तत्कल्याणगुणगणप्रभावं श्रावयितुम् । ‘भरत समयसिद्धां पादुके भावयंस्त्वां शतमिह शरदस्ते श्रावयेयं समृद्धि’ इति रङ्गराजपादुकास्तोत्रान्ते । तदर्थमायुराशासनं न दोषाय । तत्पादभक्तिज्ञानचिरानुवृत्तिप्रार्थना गुणाय भवेत् । ’ चन्द्रमास्तिरति दीर्घमायुः’ । रङ्गराजो रङ्गचन्द्र माः । राजा चन्द्रः ॥ स्वस्ति । श्रुत्याऽयं शब्दो मङ्गलप्रयोजनो भवति, यथाऽथशब्दः शारीरकप्रथमसुले । स्वस्तीति स्वस्मै स्यात् । मिथुनाय वा । मिथुनमः स्वकुशलत्वेनाभिमतः !! श्रीस्तनकस्तूरीमकरीमुद्रितो रसः । गाढाश्लेषाभावे न स्तनलिखित कस्तूरीमक रिकामुद्रालाभः । वृत्तो गाढा श्लेषो द्योत्यते । स च पूर्वश्लो कोक्तमन्मानसाम्बुजरमणमुद्दितलक्ष्मी स्वयंग्रहः । पदलाक्षामुद्रोक्ता पूर्वम् । अल स्तनकस्तूरी मकरीमुद्रोच्यते । श्रीमुद्राभूयस्त्वं परदेवताव्यक्तेः सुलभनिष्कर्षोपयोगि । लाक्षामुद्रा रक्तवर्णा । कस्तूरीमुद्रा कृष्णवणी । पदलाक्षामुद्रया पादमङ्गलरेखाङ्कनमपि लभ्यते । इदानीं मकङ्कनम् । एवं मङ्गल भूयस्त्वलाभः । ‘अशिथिलपरिरम्भैराहितामिन्दिरायाः कनकवलयमुद्रकण्ठदेशे दधानः’ इति मुद्रान्तरवर्णनं वरदराजविषये । इयं च मुद्रा परदेवतामुद्रा ॥ श्रीरङ्गराजात् । श्रीरङ्गचन्द्रमसः ॥ । शरदः शतम् । ‘यः सर्वथा जीवति स वर्षशतं जीवति’ इति महाभाष्ये । ‘जीवेम शरदः शतं’ । ‘स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः ’ इति शान्तिपाठः । शतं संवत्सरान् देवं स्तुवीय। देव ३०. श्रीरङ्गराजस्तवः । स्तवनं मत्स्वस्ति । तस्तवार्थं दीर्घायुरभिमतम् । ‘शरद:’ इति कृत्स्नस्य संवत्सरस्य शारदत्वमाशास्यत इव । प्रियया सह विहारस्य तदृतोरनुकूलत्वम् । ‘शारदीं रजनीं चैव’ ‘भगवानपि ता रात्रीः शरदुत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे – ’ इत्यादिकमिह भाव्यम् । शरच्चन्द्रस्य शोभा प्रसन्नता च प्रसिद्धा ॥ आशास्यतेतराम् । यद्यप्यायुराशासनं परमैकान्तिनां नात्यन्तशेमनं ‘कुर्वन्नेवेह हि कर्माणि जिजीविषेच्छतं समाः इति श्रुतिविहितकर्माणि सम्यगनुष्ठास्यसि चेच्छतमपि समा जिजीविषेरित्यनुमतिं ददाति’ । श्रतिप्रयुक्तसन्वाच्येच्छाविषयत्वानुसारण श्रीरङ्गराजस्तवनरूपकैङ्कर्यव्याप्ताः शतसमाः सुतरामाशासनीया एवेति तरपा द्योत्यते ॥ पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधीं विभ्रत्स नः श्रीरङ्गनायकः ॥ १२ ॥ पञ्चवाणवशत्वमुक्तं पूर्वम् । इदानीं पञ्चायुधीमत्त्वमुच्यते । शयानो रङ्गराजोऽस्मदार्ति न हरेदिति मा मंस्थाः । स्वस्य किञ्चिदग्रे खात्मनैव सन् रङ्गराज उत्सवमूर्तित्वेन पञ्चायुधीं विभ्रजागरूकस्तिष्ठति । अस्मत्कर्तृकप्रार्थनाऽप्यनपोक्षता । स एव स्वयं सदा संनद्धः सायुधस्तिष्ठति रूपान्तरेणास्मान् रक्षितुम् ॥ प्रणतरक्षायां विलम्बमसहन्निव । ‘सर्व सहे मे सहजं हि दुःखम्’ इति वयं प्रणता दुःखं सहामहे । चिरविलम्ब च सहामहे । रक्षकस्त्वायुधसम्पादनविलम्बमपि न सहतेऽस्मदार्तिपरिहरणे ॥ सदा पञ्चायुधीं बिभ्रत् । वयं तं न सदा सेवामहे । सकृदेव तं प्रपद्यामहे । सोऽस्मान् त्रातुं सदाऽऽयुधपञ्चकं विभर्ति । पञ्चा प्रयुक्तोपायनिष्ठानां त्राणं पञ्चायुध्या । श्रीरङ्गनायकः स नः पातु । ओङ्कारान्तःस्थं वस्तु । ओक्का श्रीरङ्गराजस्तवः । २१ रश्च खप्रकृतावकारे लीनः । अकारश्च रक्षकार्थः । ओङ्कारविमानान्तःस्थोऽ स्मानवतु ॥ अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । इति रङ्गराजमुदजुघूषत्त्रयी स्तुमहे वयं किमिति तन्न शक्नुमः ॥ १३ ॥ स्तोत्र प्रणेतारः स्तुतिशक्तयभावादिकं वर्णयेयुः स्तोतारम्भे । चतुःश्लोक्यां श्लोकद्वयेन स्तुत्यशक्तिर्वर्णिता । अत्र स्तूयमानस्य स्तोतुमशक्यता, स्तोतुः स्तुत्यशक्तता च वयते श्लोकद्वयेन ॥ अमतं मतम् । ‘यस्यामतं तस्य मतं मतं यस्य न वेद सः’ इति केनश्रुतिः । श्रतिक्रमः श्लोकेऽनुरुध्यते । श्रुतिरेव निविशते तवे । अमेयमपरिच्छेयमिति निश्चितं चेन्मतम् । अमेयत्वप्रकारेण मतिविषयं भवति । यद्यपि तेन मतेन सर्वममतं मतं भवतीति श्रयते, तस्य मतत्वाभिमाने सोऽमता भवति । तस्मिन्मतेऽमतमपि तदितरत्सर्वं मतं भवतीति फलस्य कीर्तनमप्यावृत्त्या लभ्यत । सद्विद्याश्रुतिस्मारणेन वैचित्र्यमप्यभिप्रेतं स्यात् ॥ मतमथामतम् । ‘यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्’ इनि पूर्ववाक्यमनुरुद्ध्य यद्यर्थकाथशब्दप्रयोगः । यदि मतमित्यभिमतममतमेव । अपरिच्छिन्नत्वेन ज्ञानं सम्यज्ज्ञानम् । परिच्छिन्नत्वेन ज्ञानमज्ञानं विपरीतज्ञानं वा । एवं च ‘स्तोतुमशक्यम्’ इति स्तोत्रोद्यमाद्विरतिः स्तुतिः स्यात् । स्तोत्रं च निन्दा भवेत् ॥ स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । अयं च फलितो ऽर्थो द्वामित्रह्मसहितायां वर्णितः ॥ स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । अयमेव क्रमो दृश्यते द्रामिङब्रह्मसंहितायाम् । स्तोतुं योग्यमित्युक्ते सम्यङ्निन्दितं भवेत् । २२ श्रीरङ्गराजस्तवः । स्तोतुमयोग्यमित्युक्ते स्तुतं भवेत् । अवाच्यमित्युक्ते स्तुतं स्याद्यद्यपि लोकेऽवाच्यत्वोक्तिर्निन्दा स्यात् । ‘अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः’ इति गीतावचनमुदाहृतं चण्डमारुते ‘अवाच्यवादाश्च वाच्यत्वसमर्थनेनैन निराकरिष्यन्ते’ इति शतदूषणीवाक्यव्याख्याने । ‘तादृक्तदीदृगिदमित्युपवर्णयन्त्यो वाचो यदीयविभवस्य तिरस्क्रियायै’ इति परमपदमहिमवर्णनं श्रीवैकुण्ठस्तवे ॥ इति रङ्गराजमुदजूघुषत्त्रयी । श्रुतिः संस्कृता द्रामिडी च । ‘त्वं संस्कृतद्राविडवेदसुक्तैः’ इति वक्ष्यते ॥ किमिति वयं तं स्तुमहे । परिच्छेदोद्यमस्य स्तुतिविपरीत निन्दो पपादकत्वे केन प्रकारेण वयं तं स्तुमः । ‘न शक्नुमः’ इत्युक्तिरेव वरम् । तथोक्तौ स्तुतिः कृता स्यात् । ‘अवचनेनैव प्रोवाच’ इति वाचामतीतत्वेन मौनेन व्याख्येयं वस्तु । यदि मे सहस्रवदनादिवैभवं निजमर्पयेत् स किल रङ्गचन्द्रमाः । अथ शेषवन्मम च तद्वदेव वा स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४ ॥ ‘प्रकल्प्य ते ये शतमित्यनुक्रमात्’ इतिवत्कल्पयित्वाऽप्यपरिच्छेधवर्णनं श्रुत्या । ‘दिवि सूर्यसहस्रस्य भवेयगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः’ इति कल्पयित्वा सादृश्यसम्भववर्णनं सञ्जयस्य । अत्र तादृशी वर्णनरीतिः । ‘तद्विप्रासो विपन्यवो जागृवांसः समिन्धते’ इति विविधं स्तोतारो विपन्यवोऽनन्तादिसुरयः श्रयन्ते । कथं सर्वेषामस्तुत्यत्वमिति चेदलोच्यते सहस्त्रवदनादिवैभवम् । ‘सहस्रशीषी पुरुषः’ ‘सर्वतोऽक्षिशिरोमुखम्’ इत्यादिवचनैः सहस्रवदनत्वं प्रसिद्धं भगवतः । आदिशब्देन श्रीरङ्गराजस्तवः । २३ ‘यः सर्वज्ञः सर्ववित्’ इत्यादिवचन सिद्धसर्वविषयसामान्यज्ञान सर्वविषयविशेषज्ञानादि गृह्यते । वैभवं सामर्थ्यम् । ‘उत्तरार्धे स्तुतिशक्तयभावविभवे’ इति विभवशब्दो गृह्यते । ‘उदेति सविता ताम्रस्ताम्र एवास्तमेति च’ इति शब्दैक्यस्य काव्यगुणत्वम् । ‘रक्त एवास्तमेति च’ इति शब्दवैरूप्यं काव्यदोष इत्यालङ्कारिकाः ॥ निजम् । सहस्रवदनेत्यनन्तस्य ग्रहणं स्यात् । आदिपदेन च गरुडविण्वक्सेनादीनाम् । तद्यावृत्त्यर्थं निजमित्युच्यते ॥ स रङ्गचन्द्रमाः । कलाभिर्निजशरीरदानेन प्रसिद्धोदारश्चन्द्रः । कान्तत्वमुदारत्वं च गम्यते । स इत्यौदार्थप्रसिद्धित्यते ॥ यदि किल मेऽर्पयेत् । यथा चन्द्रमा अर्पयति । अथ । तदा । शेषवत् । शेषो भगवदत्तसहस्रवदनवैभवः । तदायत्तसार्वज्ञ्यश्च । अनन्तोऽपि स न भगवद्गुणानामन्तमाप्नुयात् । गुणिनिष्ठगुणाभिधानं स्तुतिः । ‘सम्यक्तत्वगुणाभिवर्णनपरं स्तोत्रम्’ इति श्रीवत्साङ्कमिश्राः । भगवद्विवये केनापि तन्न साध्यं भवेत् । शार्ङ्गिणो गुणाः संख्यातुं नैव शक्यन्ते तेषामानन्त्यात् ॥ तद्वदेव वा । तिष्ठतु शेषः । शेषिणोऽपि तत्त्वेन स्वगुणसम्पूर्णवर्णनम साध्यमेव । ’ को मज्जतेोरणुकुलाचलयोर्विशेषः’ इत्युक्तं भगवद्विषयस्तोतृविषये । स्वस्तुतिशक्तयमावे स्वस्याप्यवैशेष्यमित्युच्यतेऽत्र ॥ मम च । ममापि । ‘ममैवांशो जीवलोके जीवभूतः’ इति भगवदुक्तयाऽहं तदंशः । अंशभूतोऽहं तदानन्दादिवैभवे अंशभाक् । समश्च ममांशो भगवता । न मनागपि वैषम्यम् । तेन परमं साम्यं ममांशः । स्तुतिशक्तयभावविभवेपि भागिता । सहस्रवदनादिवैभवमस्माकं दीयते स्तुतिशक्तिसिद्धिहेतोः । स्तुतेरसाध्यत्वात्तन्निष्फलं भवति । स्तुतिर्न २४ श्रीरुराजस्तवः । सिध्यति, वैभवदानेन कथं परिभवलाभ इत्याक्षिप्येत । तत्रोच्यते । वैभवमेव फलितमिति । किं तद्वैभवमिति चेत् स्तुतिशक्तचभाववैभवम् । तस्मादानुरूप्यमेव वैभवदानेन विभवलाभ इति । ईश्वरचिह्नभूतलक्ष्मीपतित्व जगत्कारणत्वाद्यैश्वर्यादृते सर्व भगवद्वैभवं तत्साम्यमापन्नानां सर्वेषां समानम् । ते सर्वेऽपि भगवता समानभागिनः । अस्मिंस्तुतिशक्तयभावेऽपि ते भागिनः स्युः साम्यस्य परमत्वात् । स्तुतिशक्तयभावस्य कथं विभवत्वमिति चेत्-अभावविभवोऽयम्, न भावविभवः । देोषाभावो विभवः स्यात् । भावान्तराभाववादिनो वयम् । स्तुतिशक्तयभावो विभवानन्त्य एव पर्यवस्यति ; विभचानन्त्यं च भावरूपम् । यद्यप्यभाव इव सः, तस्य भावे पर्यवसानम् । ‘पराऽस्य शक्तिर्विविधैव श्रयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यनन्तज्ञानशक्तेरापे भगवतो यदि स्वगुणवर्णनमशक्यमनन्तवैभवमेव तेन तस्य सिध्येत् । एवं च भगवतः स्वस्तुत्यशक्तिः स्वविभवानन्त्यपर्यवसायिनी । भगवत्स्तुत्यशक्तिः कथमस्मद्विभवो भवेदिति चेत् — दत्तोत्तरमिदं पूर्वश्लेोकेन । स्तुतिर्नाम स्तूयमानगुणेयत्तापरिच्छेदः । परिच्छेत्तुमशक्यमित्यशक्तिपरिज्ञानमस्माकं ज्ञानित्यविभवं सम्पादयति । अपिशब्देन विभवान्तरे भागिता सिद्धेति द्योत्यते । ‘यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥’ इति भगवान् । सर्वस्यापि चेत । नाचेतनजातस्य भगवदंशत्वेऽपि विभूतिमत्सर्वं भगवत्ते जोंशसम्भवं न केवलमंशमात्रमित्यभिप्रेयत इव । निजमिति नैजमनारोपितमित्यप्यर्थः स्यात् । निजं वैभवं सहस्रवदनत्वादिकम् । स्तुतिशक्तयभावो युक्तया विभवत्वेन कल्प्यते । यौक्तिकोऽयं विभवो न निजो वास्तवः । यथा निजेऽनारोपिते विभवे भागिता ; तथा कल्पितविभवेऽपि भागितेत्यपिशब्देन द्योत्यत इव । सहस्रवदनत्वेऽपि स्तुत्यशक्तिः शेषस्य भगवतश्चास्ति । तावुभावेव तादृशविभवे सत्यप्यशक्तिभागिनौ । यदि मे सहस्रवदनादिवैभवं दीये श्रीरङ्गराजस्तवः । २५ ताहमपि तादृशाशक्तिविभवे तृतीयो भागी स्यामित्यपि भावः । यथा भावविभवेषु भागिता तथाभावविभवेषु भागितेत्यपि योत्यतेऽपिशब्देन । सहस्रवदनादिवैभवदानं स्तोतृत्वप्रसक्तिलाभाय ॥ १४ ॥ सो अङ्ग वेद यदि वा न किलेति वेदः सन्देग्ध्यनघविदमात्मनि रंगनाथम् । स्थाने यदेष खलु दोषमलीमसाभि र्मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५ ॥ किं युक्त्योच्यते भगवानपि खमहिमपरिच्छेदाशक्त इति उतास्ति तत्र किमपि प्रमाणम् ? अस्ति वेदरूपमूलप्रमाणमित्युच्यते ॥ सोऽङ्ग वेद न किलेति वेदः सन्देग्धि । ‘सोऽङ्ग वेद यदि वा न वेद’ इति श्रुतिः । ‘यः सर्वज्ञः सर्ववित्’ ‘खाभाविकी ज्ञानवलक्रिया च ’ इति दृढं वदन्ती श्रुतिः संशयं प्रकटयतीव तस्य स्वमहिमपरिज्ञाने । यदि श्रुतेरेव सन्देहः कस्तत्र निर्णेतुं प्रभवेत् । श्रुतिर्भगवति परमगौरवेण सदेहमात्रं वक्ति । अज्ञाननिश्चय एव तस्याः । पूर्वोक्तपक्षारुच्या ‘यदि वा न वेद’ इत्युत्तरो मुख्यः पक्षः । स्वमहिम्नोऽनन्तत्वात् तस्यापरिच्छेद एव सर्वज्ञताया अनुगुणम् । इतरथा भ्रान्तता भवेत् ॥ ज्ञम् ॥ आत्मन्यनर्घविदम् । स्वविषये महिमानभिज्ञम् । स्वार्थानभि स्थाने । युक्तम् । स्वमाहात्म्यानभिज्ञत्वस्य माहात्म्यापरि छिन्नत्वेन समर्थनं पूर्वश्लेोके । अत्र तस्यैव प्रकारान्तरेण विचित्रं समर्थ नम् ॥ यदेष खलु । यूयं खलु स्तोतारः । दोषमलीमसा वाचो युदमद्वाचः । युष्माकं खलु स्तुतिकर्तृत्वम् । कथं भगवानेव स्तुतिकर्तेति कृत्वा दोषवत्या स्तुत्यात्मानं मलिनयतीत्युच्यत इति चेदुच्यते न खल्वहं 4 Sr २६ श्रीरङ्गराजस्तवः । स्तुतिकर्ता । नास्य सहकारमनुमति वा विना किञ्चिदपि क्रियेत मया । ‘दैवं चैवात्र पञ्चमम्’ इति हेतुपञ्चके स्वस्याप्यन्तर्भाव इति तेनैवोकं खलु इदं सर्वं विवक्ष्येत प्रसिद्धियोतकखलुशब्देन ‘यदेषः’ इति च । दोषमलीमसाभिर्मद्वाग्भिः । यथा स निर्दोषो गुणपूर्णश्च, तथा मद्वाचा गुणरहिता दोषपूर्णाश्च । अनन्तरश्लोके निर्दोषाः संस्कृत द्राविडवेदसुक्कयो गृह्यन्ते । तद्विरुद्धखभावा मद्वाचः ॥ ऐशमतिशायनमावृणोति । परगतातिशयाधानार्थमेव शेषस्य मम स्वरूपमिति श्रूयते । ‘शेषः परार्थत्वात् ‘स्वमुद्दिश्य श्रीमान्मामुमुपादत्ते सत्तास्थितिनियमनाद्यैः । ’ शेषस्य मम वाग्भिः स्वस्य पूर्वसिद्धं निरतिशयमतिशयमावृणोतीति विचित्रमिदम् । न केवलमतिशयानाधायकत्वम्, किंतु पूर्वसिद्धातिशयह्रास करत्वमपोति धोत्यते ॥ स्वं संस्कृतद्राविडवेदसूक्तै र्भान्तं मदुक्तैर्मलिनीकरोति । श्रीरङ्गकम्रः कलभं क एव स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६ ॥ स्तवप्रिय इति तपोधनेन भीष्मेणोक्तम् । तदवन्ध्ययितुं स्तवरसिक आत्मानं मत्स्तुतिभिर्मलिनयतीति चेत् सन्ति भूयांसि तत्स्तवरूपाणि वेदसुक्तानीत्युच्यते । स्तवान्तरालाभादात्मस्तवेन स्तवरसं तर्पयतीति वक्तुं न शक्यम् । ‘स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः’ इति खमलिनीकरणेऽपि तत्वाच्छन्द्यमपर्यनुयेोज्यमित्येव समाधिर्वरम् ॥ स्वम् । स्वतो निरतिशयदीप्तिमन्तं तेजसां राशिमूर्जितम् । वेदादिप्रकाशकान्तरं विनाऽपि स्वतो भास्वरम् ॥ संस्कृतद्राविडवेदसूक्तैः स्नात्वा भान्तम् । योगमायासमावृतत्वाद प्रकाशत्वादुज्ज्वलैर्वेद सूक्तैर्विशेषतो मास्यते । स्तवरसिको भगवा-श्रीरङ्गराजस्तवः । २७ विचित्रवेदस्तवैर्हृष्टोऽधिकं प्रसादादिना शोभते । संस्कृतद्राविडेति क्रमो दर्शनकालपौर्वापर्यप्रयुक्तः । ‘प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या’ इति दिव्यदेशेषु दृष्टक्रममनुसृत्य द्राविडवेदस्याभ्यर्हिततरत्वाश्रयणे भाषयोः प्रकृतिविकृतिभावेन प्रकृतिभूतसंस्कृतस्य पूर्वग्रहणम् । सूक्तैरिति स्वोक्तेदुरुक्तत्वं द्योत्यते । उत्तरार्धे स्नात्वापीति स्नानमुच्यते । खानेन शो भाधिक्यं सहजम् । अत्रापि वेदसू कैरभिषेको व्यज्यते । वेदसूक्तपठनसहकृताभिषेकेनाधिकभास्वरत्वं ‘सूक्तैर्मानम्’ इत्यनेन व्यज्यते । अर्चाभूतस्य श्रीरङ्गराजस्य वेदसूक्तैरभिषेककाले जायमाना शोभाऽनुभवसिद्धा । अभिषेककाले तदनन्तरं वा मदुक्तान्यपि शृणोति प्रभुः । ‘भूयो भट्टपराशरेति फणितः श्रीरङ्गभर्ता स्वयम्’ इति भूयो नान्ना मामाहूयाभिषेकावसरे पराशरभट्टार्यश्रीसूक्तीः श्रावयेत्याज्ञापयति । वेदसक्तैः खात्वा मान्तमात्मानं मद्दुरुक्तैर्मलिनीकरोति रङ्गकलभ इत्याचार्यो विस्मयमापद्यते । स्नात्वेत्यत्राप्यन्वति ॥ मलिनीकरोति । स्वतो निरञ्जनं वेदसूक्तानुपाठः सह निरञ्जनं यथा तथा स्वपितमात्मानं साज्जनं करोति । अभूततद्भावे च्चिः । इतः पूर्वमभूतं तस्य मालिन्यं मह्तवेन निष्पाद्यते । श्रीरङ्गकभ्रः । यद्यपि मत्स्तुत्यात्मानं रञ्जयतीति मम हर्षो न्याय्यस्तस्यात्यन्तं कमनीयस्य यूनो लावण्यं शुद्धत्वेनाधूसरितत्वेनानुवुभूपामि । तस्य कम्रस्य तदिच्छया मस्तसंयोगेनापि धूसरितत्वमहं न सहेय । स्वात्म मृतशे पिवस्तुनेो निरंजनत्वरक्षणे तावानादरः । कलभं क एव स्वात्वापि धूलोरसिकं निषेद्धा । बहुप्रकारैः सदृशमुपमानं प्रदर्शयते । ‘कुञ्जरशौचवत्’ ‘गजस्त्रानमिव’ इति प्रसिद्धो न्याय्यः । कलभश्च स्नानानन्तरक्षण एवं स्वहस्तोत्क्षिप्ताभिधूलिभिरात्मानं धूसरयति । न वयं तं प्रष्टुं निषेद्धं वा प्रभवेम । तदुद्यमश्चानर्थाव हो २८ श्रीरङ्गराजस्तवः । भवेत् । स्वतन्त्रमीश्वरं कथं निषेधेम । ‘क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतोपयेत्’ इति नियाम्यजनेऽपि गुरुजनस्य मातुर्निषे धासमर्थतोच्यते ॥ १६ ॥ किं तु प्रपत्तिवलतारितविष्णुमाया मद्वंश्यराजकुल दुर्ललितं किलैवम् । श्रीरङ्गराजकमलापदलालितत्वं यद्वापराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७ ॥ अहं कर्तेति कृत्वा स्तवेन महूपणं मध्येवारोप्यत इव । किं त्वं न कर्ता ? त्वदुदाहृतगीता श्लोके ‘अधिष्ठानं तथा कर्ता’ इति भवतोऽपि कर्तृत्वमुक्तम् । यद्यपि मदायत्तं त्वत्कर्तृत्वं त्वत्कृतप्रयत्रापेक्षा ह्यहमनुमतिदानेन त्वया सह कर्ता । त्वत्प्रयत्नं विना कथमहं त्वां कारयेयम् ? कुर्वन्तमेव भवन्तमहं कारयामि । अतस्त्वमपि कर्ती । कथं तव स्तुतिसाहसे प्रवृत्तिरिति भगवता पृष्टे उच्यते-अत्र द्वयोरन्यतरत्कारणम् । कुळाचारो वा स्तूयमानकर्तृकलालनं वा कारणम् । कुलाचारस्य प्राबल्यम् । ‘कुलधर्माश्च शाश्वताः’ इति गीता । ‘दाक्षिण्यं नाम बिम्बोष्ठ बैम्बिकानां कुलव्रतम्’ इत्यग्निमित्रो राजा । यद्वेत्युक्तोत्तरपक्षे स्तुतिसाहसापराधेो भगवत्यव पुनर्निपुणमारोप्यत इत्यवधेयम् । किं तु । स्तुतिसाहसप्रवृत्तिर्मय्यारोप्येत शास्त्रबलात् । किं तु नाहं कर्ता । भगवदनुमतः कुलपरंपरागताचारोऽपराध्यति । कुलकमागतचन्दिनो वयं श्रीरङ्गराजस्य । मामकवद्दिव्यदम्पती पदकमलैर्लालितवन्तौ । तच्च तत्पदलालनमपराध्यति । तत्प्रयुक्तवाल्लभ्यप्रत्ययं विना नाचतरेयं साहसे । प्रपत्तिबलतारितविष्णुमायामद्वंश्य राजकुल दुर्ललितं किलैवम् । ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति प्रपत्तिवलेन मायातरणं श्रीरङ्गराजस्तवः । २९ प्रसिद्धम् । अत्र तारणमुच्यते, न तरणमिति रसिकैरवश्रेयम् । खतारणं चाचार्यरूपपुरुषकारेण । ‘तव भरोऽहमकारिपि धार्मिकैः’ इत्युत्तरत्रोच्यते । प्रपत्तिबलेन तारिनाः । आचार्यकर्तृकप्रपत्त्या अवशेन बलात् तारिता इति वा । ‘मम माया दुरत्यया’ इत्युक्ता विष्णुमाया । विष्णुमायेति दुरत्ययत्वं द्योत्यते । तत्तरणाय भूयो बलापेक्षति बलशब्देन व्यज्यते विष्णोर्मायाऽपि विष्णुवद्विष्वव्यापिनी वैष्णवी । मायाया अपि विष्णुत्वम् । अस्मद्वेश जनिमात्रमलं मायातरणाय । अहत्याचार्यप्रपत्तिवलमस्माकम् । राजकुलत्वं ‘राजपुत्रापराधवत्’ इत्यपराधस्य मर्पणीयतां द्योतयति । राजशब्देन यतिराजग्रहणम्, कूरेशग्रहणम् ; उभयग्रहणं वा । श्रीरङ्गराजपरिजनत्वादस्माकं तद्राजकुलान्तर्गतत्वं च । दुर्ललितं चाधिकलालितत्वप्रयुक्तवानिर्भीकत्वादि । भगवत्स्तुतिसाहसर सिकत्वप्रयुक्तवैयात्यमेवमपराध्यति ॥ श्रीरङ्गराजकमलापदलालितत्वम् । भूयो लालनं कृतं स्वपदकमलैः । कुसुमैरकानां लालन क्रियेत । कमलापद इति कमलाग्रहणेन पदस्यापि कमलवं व्यज्यते । पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च । पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ॥’ इति द्राण्यस्त्र विप्लुष्टाङ्गस्य गर्भस्थस्य परीक्षितो विषये । पूर्वी राजकुलजत्वापराधः । अत्र राजापराधः । सर्वथा न प्रजापराधः । उभयत्र राजशब्दग्रहणेनेदं व्यज्यत इव ॥ यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् । अयमेव मुख्यः पक्षः । स्तूयमानावेव यदि लालनेन मां निर्भीकं कुर्याताम्, तदेव मुख्य कारण भवेत् ॥ १८ ॥ नाथस्य च स्वमहिमार्णवपारदश्व विज्ञानवाग्विलसितं सहते न वेदः । .३० श्रीरङ्गराजस्तवः । आपेक्षिकं यदि तदस्ति ममापि तेन श्रीरङ्गिणः स्तुतिविधावहमध्यकार्षम् ॥ १८ ॥ साहसिकेनापि नानधिकृते कर्मणि प्रवर्तनं न्याय्यम् । भवतामधिकारोऽस्ति वा न वेति विचारणीयम् । अर्थित्वे सति सामर्थ्यमविक्रियाघटकम् । अर्थित्वं काममुपपादितं साहसरुचिप्रख्यापनेन । सामर्थ्य च वैदुष्य वाग्विलसितं चाक्षिपति । स्तवोचितज्ञानादिकं नास्तीति भवद्भिरेवोच्यते । कथमनधिकृतस्याधिकारसम्भवः १ स्तुतिविधाविति विधिशब्देन अध्यकर्षिमित्यधिकार कीर्तनेन चेदृश आक्षेपो गम्यते ॥ " वेदः । अधिकारानधिकार विचारे प्रसक्ते वेद एव प्रमाणम् । तं पृच्छामः । स्तुतिविधौ कोऽधिकारी । स्तुतेः स्वयंप्रयेोजनत्वे तुष्टूषा, स्तुतिसामर्थ्यवटकविज्ञानवाविलसितं चापेक्ष्येते । अस्ति तुष्टूषा भूयसी । स्तुत्युपयुक्तविज्ञानवाग्विलसितमपेक्षितम् । स्तुतिश्च सम्यक्तवगुणाभिवर्णनम् ॥ नाथस्य च स्वमहिमार्णवपारदृश्वविज्ञानवाग्विलसितं न सहते नाथस्य स्वस्तुत्युपयुक्तविज्ञानवाग्विलसितं नास्ति । अनन्तस्तस्य महिमाण वः । तन्महिमार्णवपारदर्शित्वं तत्स्तुत्युपयुक्तशक्तिमत्त्वम् । सर्वशक्के प तदनुकूलशक्तिकायै न भवेत् । तथा च सर्वस्याशक्तता । यथार्थस्तुतौ यदि न कोऽपि मुख्याधिकारी, कथमधिकार्यनधिकारिव्यवस्था निबद्धुं शक्या । भूयो भगवत्स्तवो दृश्यते प्रमाणग्रन्थेषु । शक्तिकायै नाधिकारकोटौ निर्विशेत । अमुख्या आपेक्षिकशक्तिरेवाधिकारत्वेन ग्राह्या स्ततिति भगवन्नाम । न तस्य स्तुत्यान्तरमस्ति । स्वस्तोत्रं विना तस्य तन्नाम वन्ध्यं भवेत् । अत एव भगवान् शठकोपादिव्याजेनात्मानं स्तौतीति प्रबन्धद्रष्टुमिरुच्यते । तस्य स्वगुणस्तोत्रेऽधिकारः कृत्स्त्रशक्तिं विनाऽप्यापेक्षिकशक्तिमात्रेण निरुह्येत । ममाप्यापेक्षिकामुख्याधिकारः सुलभः । नाथस्य स्वमहिमार्णवपा श्रीरङ्गराजस्तवः । ३१ रहश्वत्वरूप पूर्णशक्ति न सहते वेदः । आपेक्षिकशक्तिं तु सहते। भगवतः स्वस्तुत्यशक्ति सहते वेदः । तन्महिमार्णवस्य पारवत्त्वापादिकां स्वस्तुतिशक्तिं तु न सहते । तावान्वेदस्य नाथम हिन्नोऽपारत्वे पक्षपातः । काममशक्तो भवतु नाथः, अवाकी भवतु सः ; अज्ञो वा भवतु । मा तन्महिमा परिच्छेदं गमत् । वेदत्वाद्वेदोऽनन्तस्य परिच्छेदं न सहेत । वेद । यतीति वेदः । अलौकिकवस्तुविषययथार्थज्ञानजनकत्वमेव तत्कृत्यम् । नाथमहिमानन्त्यं खलु तत्त्वम् । नाथेनापि तत्परिच्छेदं तत्त्वबोधको वेदो न सहते । ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’ इति सर्वश्रेष्ठस्य जगगुरोर्नाथस्याचरणं सर्वानुष्ठापकं भवेत् । स्ततिति तपोधनवर्णितस्य तस्य पूर्णशक्त्यभावेऽपि स्वस्तोतृत्वमितरेषामस्मदादीनां पूर्णसामर्थ्याभावेऽपि तस्तोतृत्वमभ्यनुजानाति । नाथस्य चेत्यनेन जगद्गुरोराचरणस्यास्मद नुष्ठ। पकत्वं व्यज्यते । नाथस्यापि शक्त्येकदेश एव । शक्त्येकदेशो ममाप्यस्ति, यद्यप्यल्पाल्पः । कुलाचलपरिमाणास्तु नाथशक्तिः । अणुप्रमाणा भवतु मच्छक्तिः । न तावता तारतम्येन ममाधिकारलोपः । यथाशक्ति स्तवनसामर्थ्यमधिकारप्रयोजकम् ॥ आपेक्षिकं यदि तत् । नाथस्य स्वस्तवाधिकारो यदि तस्य पारदृश्वत्वोपयुक्त सम्पूर्ण विज्ञानाद्यभावेऽप्यापेक्षिकतच्छक्तया निरुह्येत, मद्विषयेऽपि सापेक्षिकत्वाश्रयणगतिः समाना ॥ तेन । पञ्चावयववाक्यगर्भः श्लोकः । तेनेति निगमनप्रारम्भः । श्रीरङ्गिणः स्तुतिविधौ । विधिशब्दो विध्याक्षिप्ताधिकारादिविचारमपि प्रसञ्जयति ॥ अहमध्यकार्यम् । निगमनवाक्येनाधिकारस्य सिद्धत्वं कीर्त्यते लुङा । न वर्तमानप्रयोगो वा भविष्यत्प्रयोगो वा ॥ १८ ॥ ३२ श्रीरङ्गराजस्तवः । अन्यत्नातगुणोक्तिर्भगवति न तदुत्कर्षचौर्यात् परेषां स्तुत्यत्वाद्यावदर्थाफणितिरपि तथा तस्य निस्सीमकत्वात् । आम्नायानामसीनामपि हरिविभवे वर्षचिन्दोरिवाब्धौ सम्बन्धात्स्वात्मलाभो न तु कवलनतः स्तोतुरेवं न किं मे ॥ १९ ‘वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः’ इति यामुनाचार्याः । कथं तादृशी वाग्वाचस्पतिनाऽपि शक्यरचना त्वसद्गुणार्णोनिधौं’ इति श्रीवत्साङ्कमिश्राः । स्तोललक्षणं च विकल्पमुखेन शोधितं तैस्तच्छ्लोके, तद्रीतिरनुरुध्यते । उपोद्घातश्च समाप्यतेऽस्मिञ्च्छूलोके । अनन्तरश्लोके कावेरीवर्णनारम्भः । स्तवसिद्धयर्थं स्वात्मलाभः संपाद्यते । स्तोतारं विना कथं स्तुतिः सिद्धयेत् अन्यत्वातद्गणांक्तिर्भगवति न । ‘यद्यन्यदीयान् गुणानन्यत्र त्वसतोऽधिरोप्य फणितिः’ इत्येकमनभिमतं लक्षणं विकल्पप्रथम शिरस्त्वेन । अन्यत्रेति स्तूयमानवस्तुपरामर्शः । अन्यत्र त्वसतः स्तूयमाने वस्तुन्यविद्यमानानन्यदीयान् गुणांस्तूयमानभिन्नवस्तुनिष्ठान् गुणानधिरोप्य फणितिः स्तूयमानवस्तुन्यसतो गुणानारोप्य वितथोक्तिः स्तुतिरित्येकः पक्षः । स पक्षोऽनूद्यतेऽत्र ‘अन्यत्रातद्रुणोक्तिः, इति । अन्यत्रेति स्तूयमानवस्तुपरामर्शः । तस्मिन् वस्तुन्यन्यत्र शब्दप्रयोग उदाहृतपितृलोकरीत्या । अतगुणेोक्तिः स्तूयमानेऽविद्यमाना गुणा अतद्गुणाः । स्तूयमाने तदुक्तिरतगुणेोक्तिः । तच्छब्देन स्तूयमानवस्तुपरामर्शः । एवंरूपा स्तुतिर्भगवति न सम्भवेत् ॥ तदुत्कर्षचौर्यात् परेषां स्तुत्यत्वात् । न प्रतिज्ञामात्र साधकं भवेत् । हेतुः प्रदर्श्यताम् ? हेतुरुच्यते उत्कर्षवचनं स्तुतिः । गुणकृत उत्कर्षः । भगवतोऽन्यत्र न स्वत उत्कर्षोऽस्ति । यद्यस्ति अनुजि घृक्षया तद्दत्त एव स्यात् । भगवति विद्यमानमुत्कर्षं तत उत्कृष्य गृहीत्वा स्तूयमानवस्तुनि निवेशनीयं स्तोला । तच्चासद्गुणवर्णनं न वस्तुस्वभावावितथवर्णनं भवेत् । ‘स्वाभाविकी ज्ञानवलक्रिया च’ इति भगवद्गुणाः श्रीरङ्गराजस्तवः । ३३ स्वाभाविकाः । भगवतोऽन्यत्र दृश्यमाना भगवद्गुणलेशा न स्वाभाविका; किं तु तद्दत्तास्तदिच्छाधीनाः । उत्कर्षस्य स्वाभाविकत्वेन वर्णनं खलु क्रियते स्तोता । तच्चात्यन्तं वितथमेव । यदि तत्त्वमनपलप्य स्तूयमानवस्तुदृष्टोत्कर्षो भगवद्द तोत्कर्षरत ते जो ऽशसम्भव इति स्तोत्रा कविनोच्येत भगवानेवस्तुतः स्यान्नतुषितं वस्तु । ‘वयद्विभूतिमत्सत्त्वं श्रीमदर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजशसम्भवम् ॥’ इति यत्र यत्र स्तुत्य दृश्यते तत्र तत्र दृट उत्कर्षो भगवतस्तेजाशसम्भव इति ज्ञेयं इति भगवान् । एवंभूतायां तत्त्वस्थितौ यदि कश्चित् स्तोता भगवव्यतिरितमुत्कर्षवद्वस्तु स्तुयात् ; तत्र दृष्टस्योत्कर्षस्य भगवत्तेजें। शसम्भवत्वात् स्तूयमानस्यास्वाभाविकत्वादस्वत्वाच्चास्वभावभूतेनोत्कर्षेण स्वभाववर्णनरूपस्तुतिः कृता स्यात् । स्तूयमानस्योत्कर्षस्य तात्त्विकं भगवदीयत्वमपलप्य चर्वणैव स्तुतिः क्रियेत । एवं चौर्यमुपपादितं भवति ॥ यावदर्था फणितिः । अविद्यमान गुणारोपणेनाधिकवर्णन मशक् स्यात् । विद्यमानार्थमालवर्णनं कुर्मः । यावदथी फणितिः स्तुतिः । सा च सुशंकेति चेत् अपि तथा । साऽपि पूर्ववन्न शक्या ॥ ॥ तस्य निःसीमकवात् । तत्र हेतुरुच्यते । तस्य वर्णनीयस्य विद्यमानार्थस्य निरवधिकत्वात् ॥ असीनामप्याम्नायानाम् । निःसीमकत्वादशक्येत्युक्तम् । सान्तैः निःसीम गुणस्तुतिरसाध्या स्यात् । अनन्तैः वेदैः कथं तदनन्तमहिम्नोऽपरिच्छेदः ? ‘अनन्तजिह्वेनानन्तेन, अनन्तशाखैराम्नायैः; साक्षात् सरस्वत्या च दुरुदाहरमाहमा । ’ इत्याचार्याः सहस्रनामभाष्ये । यद्यपि वेदा बहवो ऽनन्ताश्च तेषामपि निःसीमकत्वात् । इदं पूर्वत्र तरल चान्वेति । एकैकगुणावचीप्सया प्रवृत्ता वेदा………निलिदियो ‘यतो वाचो निवर्तले अ " 5 sr ३४ श्रीरङ्गराजस्तवः । प्राप्य मनसा सह’ इत्युक्त्वा । यद्यप्यसीमानोऽनन्ता वेदास्तेषां हरित्रेभवसम्बन्धादेव स्वात्मलाभः । तत्सम्बन्धं विना वस्तुसत्तयाऽनन्तानामपि वेदानां स्वात्मैव न सिध्येत् । सतो लक्षणमुक्तं वेदेनैव ‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः असन्नेव स भवत्यसद्ब्रह्मेति वेद चेत्’ इति । वेदोऽपि ब्रह्माऽस्तीति वेद चेद्वेदः स्यात् । न वेद चेत् वेदो न स्वात् । वेदवाक्येनैव वेदस्य ब्रह्मविभवसम्बन्धात् स्वात्मलाभ उन्नीयते । ब्रह्मवेदनं च ‘अनन्तं ब्रह्म’ इत्यानन्त्यवैशिष्ट्येन ॥ हरिविभवे । हरिगुणविभवसागरे । विभवसागरसम्बन्धात्तत्रान्तः प्रविष्टत्वं द्योत्यते । न विन्दुः सागराद्वहिः स्थित्वा तेन सम्बध्यते । सागरे पतित्वैव तदविभागमापद्य तेन सम्बध्येत । सागरे निपत्य तत्र मज्जनेनैव तस्य स्थिरत्वलाभः । बहिरवस्थितवेदात मृदि वा शोषणेन विलयमियात् । अपृथक्सिद्धकवरूप स्वभावस्य पृथक स्थितिः पार्थक्यमसिद्धिहेतुः । अपार्थक्यं च सिद्धिहेतुः । अविभागे स्वरूपानपायः । विभागे चापायः । तस्मिन्नेव स्थितः स्थितिः । तत्रानवस्थितेः प्रच्युतिः । ‘अवस्थितेरिति काशकृत्खः ।’ ‘अविभागेन दृष्टत्वात्’ इति सौत्र प्रदर्शनम् ॥ वर्षविन्दोरिवाब्धौ । ‘यथा नद्यः स्यन्दमानाः समुद्रे’ ‘यथोद कं शुद्धं शुद्धे प्रसिक्तम्’ इत्यादिश्रौतदृष्टान्तभावप्रदर्शनम् । वाग्वर्षो वेदेन; कविभिश्च । हरिविभवसागर पतिताश्चेद्वाग्वर्ष बिन्दवस्त स्वात्मलाभं लभेरन् । अन्यत्र पतिताश्चेच्छुप्येयुः । नीरसाः शुष्का भवेयुः ॥ सम्बन्धात् स्वात्मलाभः । तत्रावस्थितिरूपस्तद पृथक्सिद्धिरूपः सम्बन्धः । हरिविभवसागरे पतनरूपसम्बन्धेन मौक्तिकत्वं च सिद्धयेत् । मौक्तिकत्वासिद्धये नाव खात्यादिपुण्यकालविशेषापेक्षा ॥ न तु कबलनतः । कथं बिन्दुः सागरं चुलकयेत् ? कथमस्मद्वाश्वविन्दवोऽपारं हरिगुणपारावारं चुलकयितुं प्रभवेयुः । यद्यपि प्राकृतः श्रीरङ्गराजस्तवः । ३५ परिमितः सागर आचान्तः कुम्भयेोनिना मुनिना हरिविभवान्धिनीनन्तैरप्याम्नायैश्चुलकयितुं शक्यः । न सागरो विन्दौ मज्जेत् । विन्दुस्तु सागरे मज्जनेनानपायां स्थितिं लभेत । ‘सामुद्रा हि तरङ्गः वचन समुद्रो न तारङ्गः ॥ स्तोतुरेवं न किं मे । किं मय्येकस्मिन्नव्याप्तिरस्य न्यायस्य । किं मदेकवमस्य न्यायस्य प्रसरणम् ॥ कावेरीमवगाहिषीय भगवद्भोगान्तरायीभव त्कर्म क्लेशफलाशयप्रशमनोद्वेलामलस्रोतसम् । जन्तोः संसरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या लोकेऽस्मिन् विरजेव बेल्लितजला श्रीरङ्गमालिङ्गति ॥ २० ॥ अब्धिप्रस्तावः कृतः पूर्वश्लेोके । हरिगुणसागरे मज्जनं च प्रस्तुतम् । ब्रह्मगुणाव्याववगाहः परमपुरुषार्थः । अत्र ब्रह्म च विवर्णयिषितो भूलेाकवैकुण्ठनाथः श्रीरङ्गराजः । कावेरीमध्यद्वीपमध्यस्थत्वात् तत्प्राप्तिः कावेरी प्रवेशतत्तरणं विना न सिद्धये कुतश्चिदपि दिशः । एष ब्रह्म प्रविष्टोऽस्त्रि’ इति वर्णितशीतत्रह्मावगाह प्रयोजकः कावेर्यवगाहः । स्वतः शीतत्वे तदर्थत्वादपि शीततामनुभवामः । ब्रह्मावगाहसिद्धयर्थं तदशे कावेर्यवगाहनं करिष्य इत्यनुभव इव । अस्य वैकुण्ठत्येयं विरजा ॥ कावेरीम् । अब्धिमज्जनमुक्तम् । इदानीं तत्पत्नीभूतनदीमज्जनमुच्यते । ‘कावेरी च महाभागा -’ इति ऋपिपतिप्रसिद्धनाम्नो यच्छदोपनिबद्वपठनम् । जानकी, वैदेही; जनकात्मजेतिवत्पितृपुत्रीत्व द्योतकं नाम ॥ अवगाहिपीय । ‘अवग’ ह्यार्णवं स्वप्स्वे’ इति सीताविरहदवान लतप्तो राववः । तापत्रयतप्तानां शीतावगाहनमनोरथः सहजः । शीततरावगाहान्तरसाधकोऽयमवगाहः । ब्रह्मावगाहादनुन्मज्जनम् । कावेर्यवगाहा ३६ श्रीरङ्गराजस्तवः । त्तृन्मज्जनमस्ति ब्रह्मावगाहसम्भवाय । ब्रह्मणि निमज्य तु नेतरत्र मज्जनमुचितम् । ‘अनावृत्तिः शब्दात्’ इत्यनुन्मज्जनवे ।धकशब्दावृत्तिः ॥ भगवद्भोगान्तरायीभवत्कर्मक्लेशफलाशयप्रशमनोद्रेलामलस्रो तसम् । विरजातौल्यं संपाद्यते कावेर्याः । ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषावशेष ईश्वर:’ इति योगसूत्रम् । ईश्वरेण भोगे परमसाम्यं मुक्तौ । अपहतपाप्मत्वादिगुणाष्टकवत्वं च सममीश्वरेण । क्लेशकर्मविपाकाशयाः संसारिणः । तेभ्यो मुक्तोऽसंसारी । तद्विमोकच विरजानानेन । तल्लभ्यतेऽत्रैव श्रीरङ्गाश्लेष्टकावेरीस्नानेन । ‘अविद्यादयः क्लेशाः । क्लिश्नन्ति खल्त्रमी पुरुष सांसारिकविविधदुःखप्रहारेणेति । कुशला कुशलानीति धर्माधर्मास्तेषां च कर्मजत्वादुपचारात्कर्मत्वम् । विपाका जात्यायुर्भोगाः । विपाकानुगुणा वासनाश्चित्तभूमावाशेरत इत्याशयाः । ’ इति व्यासभाष्ये । अस्मिन् लोके कर्मणः प्रथमनिर्देशः ‘कर्मविद्यादिचके –’ इत्यत्रेव । फलशब्दो विपाकपर्यायः । संसारिण एतैः मुक्तेश्वरेभ्यो विभज्यन्ते । भगवद्भोगरूपब्रह्मानन्दस्यैतेऽन्तरायाः । व्याधिप्रभृतयोऽन्तरायाः’ इति योगसूत्रम् । ते चैतज्जन्याः । भोगशब्देन भोगविभूतिप्रत्यभिज्ञापनमिव । एते कर्मक्लेशः दयोऽन्तरायाः प्रत्यक्प्रवणधीसन्ततिस्रोतसा प्रशममीयुः । तच्च धोस्रोतोऽमलं स्यात् । कावेर्या अमलस्रोतोभिरेते निःशेषं शाल्यन्ते यद्यप्यमाकगभलवी सन्ततिर्नास्ति । यथा कावेरीसोत उद्वेलं प्रवहति सह्यपर्वतेऽधिकवर्षात्तदा तदत्यन्तनिर्मलमिति प्रसिद्धम् । जन्तोः । जनिमतः । जन्मैवास्य बाधकम् । संसरणे । गतागतेषु । यातायाते । अर्निरादिसरणिव्यासङ्गभङ्गाय । गतिचिन्तनमावश्यकं मुमु. क्षणाम् । अर्विरादिमार्गविषयधोसन्ततिराय की । धिया तव्यासङ्गः कार्यः । तद्व्यासङ्गश्रमे ऽनावश्यको भवति विरमातुल्य कारखानेन । अस्माकं विर-श्रीरङ्गराजस्तवः । जानदीर्घ टेतार्चिरादिगतिध्याननिर्वन्धापनुत्तये । ३७ या ‘स आगच्छति विरजां (बिजरां) नदीम् । तां मनसात्येति’ इति कौषीतको । तामिति तत्र विरजानिर्देशः । तदनुत्रियत इव येतिसर्वनाम्ना । लोकेऽस्मिन् । अनित्येऽस्मिल्ला के । भूलोके इयं विरजा । विरजेव । नदी चंद्रजो भूयिष्ठा स्यात् । तत्परिहर्तुं तदपवादेन विरजेति नाम्ना रजोनिषेधः । वेल्लितजला । वेल्लितेति कम्पवत्वं सुच्यते । आलिङ्गने कम्पः सात्विकभावः । श्रीरङ्गमालिङ्गति । भगवदधिष्ठितं क्षेत्रमालिङ्गति । भगवन्तं नालिङ्गति; सागरपलीत्वात् । भगवतश्च स्वजामातृत्वात् । नद्या भगवद्विमहालिङ्गनस्यानौचि याच । उत्तररङ्गक्षेत्रे तदालिङ्गनजनितानर्थः सुविदितः । इयं भूलोकवैकुण्ठविरजा समन्तादाश्लिष्यति श्रीरङ्गम् । सानुरागालिङ्गनदिमित्तं चोच्यतेऽनन्तरश्लोके । जामातृगृहम्, पुत्रीगृह ॥ दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्त्री वरः श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीयाकुला । चञ्चच्चामरचन्द्रचन्दनमहामाणिक्य मुक्तोत्करान् कावेरी लहरीकरौर्विदधती पर्येति सा सेव्यताम् ॥ २१ ॥ कवेरस्यात्मजेति कावेरीनामग्रहणम् । तस्या आत्मजा लक्ष्मीः, जामाता विष्णु रेत्युच्यते । जामातृगृहमायाता श्वश्रूः पुत्रीजामातृविभवानुरूपं स्वविभवानुरूपं महार्घाणि लोकोत्तरद्रव्याणि खवोचीकरैरुपहरतीत्यु च्यते । दुग्धाब्धिर्जनकः । सागरपत्नी कावेरी । दुम्मसागरलुता लक्ष्मीः । कल्पवृक्षकामधेन्वादिजनको दुम्बान्धिः । अस्याः पितुलेको चरैर्यम् । ३८.. श्रीरङ्गराजस्तवः । पितृकीर्तनं देयस्त्रीधनाधिक्याय । जनन्यहम् । हेमाएगा, कनकसरिखल्वहमित्यहशब्देन चोत्यते । मज्जलौघैर्मत्तीरस्थ केदाराः, तत्स्वामिनश्च धान्यादिसमृद्धिमन्तः क्रियन्ते । अमाढ्यतमा । इयं श्रीरेव पुत्त्री । इयं स्वत एवानन्याधीन सर्वैश्वर्यवती । पुत्त्रीति ममाभिमतिविषयभूता । श्रीरेवेयम् । एतदधीना सर्वेषां मम च श्रीः । नेयं ’ यथा श्रीः’ इत्युपमानपदेन निर्देश्या । अशेषविभववतामियं सदोपमानम् । वरः श्रीरङ्गेश्वरः । वरोऽयं वरः । अस्यावराः सर्वेऽपि । पुरुषोत्तमोऽयं वरः । ‘देवतानां विष्णुः परमः ’ । ‘नाविष्णुः पृथिवीपतिः’ इति राजानः सर्वेऽप्येतत्ते ऽश संभवत्वादेव राजानो भवन्ति । जामाता विष्णुवत्पूज्य इति न्यायः । अविष्णुरपि जामाता विष्णुवत्पूज्यः । पूज्येष्वधिकतमो विष्णुः । अयं जामाता विष्णुरेव । विष्णुले सति जामातृत्वेनायं निरतिशयपूज्यो भवति ॥ एतदर्हमिह किं कुर्यामितीवाकुला । एतच्छब्देन पूर्वोक्तसर्वपरामर्शः । न वरमात्रस्य । पूर्वोक्तलोकोत्तरहर्षनिमित्तसत्त्वेऽप्याकुलता भवत्यनुरूप विभवोपहारान्वेषणविषये ॥ चञ्चच्चागरचन्द्रचन्दनमहामाणिक्यमुक्तेश्वरैः कावेरी । का वेरीति कवेरराजपुत्रीत्वेक्तिः सह्यपर्वतात्पितृगृहादानीतचामरचन्दनादिविभववत्त्वप्रदर्शनाय । जामात्रे राज्ञे चामरोपहारो न्याय्यः । श्रीरङ्गचन्द्रमसे चन्द्रोपहारो न्याय्यः । चन्द्रः कर्पूरः । हरिचन्दन इति हरिनामाङ्कितचन्दनः । हरये जामात्रे हरिचन्दनोपहार उचितः । महामाणिक्यानि सङ्घात् प्रवाहायतानि । मुक्ताश्च पर्वतस्थतीरस्थ वंशेभ्यो मुक्ताः । चामरचन्दनादयः प्रवाहानीताः । एते उत्क्षिप्य स्वकरैरुत्कीर्यन्ते ॥ लहरीकरैः । ऊर्मिभुजैः । उपहारदातारः करा अपि नवनवाः, श्रीरङ्गरराजस्तवः । यथोपहियमाणचामरादिद्रव्याणि नवनवानि । अद्भुतेयं वथः ॥ 1 ३९ विदधती । एको बहूनां विदधाति कामान् जामाता । तस्मा एवा बहून् कामान् विदधातीति व्यज्यते ॥ पर्येति । भूलोकपरमपदे इयं क्रीडति रमते ‘स तल पर्येति जक्षक्रीडन् रममाणः’ इतिवत् ॥ सा । ‘स तत्र पर्येतीति श्रुतिः प्रत्यभिज्ञाप्यते सेति । तिष्ठतु श्रीरङ्गराजसेवा प्रथमं तद्गुरुजनोऽयं सेव्यताम् । अवगाद्यतां तत्तीर्थम् ॥ T तीर्थ शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् । श्यामं वेदरहो व्यक्ति पुलिने फेर्नैईसन्ती तत् गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वधम् ॥ २२ ॥ श्वभूरियं पुत्र्या गृहे शाश्वतमवस्थाय सततं परिचारिकेव सर्वैः प्रकारैः परिचरन्त्यास्ते । अत्रत्यकूपतडागादितीर्थानि कावेरजिलैः शुध्यन्ति । कावेरीसामीप्यं विना नालत्यतीथीनां शुद्धता स्यात् । चन्द्रपुष्करिण्यादिपुण्यतीर्थानि च कोवरीजलेन पूर्यन्ते ; शोध्यन्ते च । तीर्थं कुर्वन्ति तीर्थानि कावेर्यापः ॥ पाति नन्दनतरून् । नन्दनवनवृक्षान् यथा गङ्गा पाययति, तथेयं श्रीरङ्गद्वीपवनस्थवृक्षान् पाययित्वा पाति । नन्दनतरुवदभिमानः कावेर्याः स्वतीरस्थतरुषु । जामातृगृहस्था वृक्षास्तथा पाल्यन्ते ॥ रथ्याङ्गणान्युक्षति । अस्या राजधान्या राजमार्गः कावेरीप्रवा हजलैः स्वयमेव वा पवनाहृतैवी सिच्यन्ते विरजीकरणाय ॥ पानीयाद्दणवारि वहति । भगवदभिषेकार्थम्, भगवन्निवेदनार्थं च स्वच्छमधुरं वारि वहति । क्षारं जलं न पानीयोपयुक्तम् स्यात् । कावेर्याी आपः सर्वोपयुक्ताः । वहतीति किङ्करभावो द्योत्यते ॥ स्नातः पुनीते जनान् । जामातृसेवार्थं नानादिग्भ्य आगतान् ४० श्रीरङ्गराजस्तवः । स्नातः सर्वान् जनान्पवित्रयति । आत्मनेपदेन खस्या अपि वातृमहाजनैः पवित्रोकरणफलं सूच्यते ‘तीर्थीकुर्वन्ति तीर्थानि ’ इति प्रमाणानुरोधात् । श्यामं वेदरहो व्यनक्ति पुलिने । मरकतश्यामं कुवलयदलश्यामं वदैश्च सवैरेकवेद्यं गूढतमं वस्तु स्वपुलिने स्वमध्ये सर्वदृश्यतया प्रदशयति । श्याममिति वेदरहस्यभूतप्रपत्त्युपायो व्यावर्त्यते । ‘सर्वगुह्यतमं भूयः’ इति शरणागते रहस्यतमत्वम्; ‘मुमुक्षुर्वे शरणमहं प्रपद्ये’ इति वेदप्रतिपाद्यत्वं च । सागरपुलिने व्यञ्जितं तद्रहस्य श्यामेन भगवता । उपेयभूतं श्यामं रह इदम् । तत् । परोक्षभूतमतीन्द्रियं वेदरहः ॥ फेनैर्हसन्तीव गङ्गां विष्णुपदीत्वमात्र मुखराम्। गङ्गा विष्णुपदोद्भवमात्रत्वेन स्वमहिमानमुच्चैरुद्धोषयति प्रवाहशब्दैः । विष्णुमेव कृत्स्नं व्यनक्तीयम् ; न तत्पदमात्रम् । फेनैस्तां हसतीव । नोच्चैर्हसति दन्तमात्रमीषत्प्रकाशयति मन्दहासेन । हेमापगा अघं हन्तु । अघमर्षण्य आपः ॥ अगणितगुणावद्यं सर्वे स्थिरत्त्रसमप्रति क्रियमपि पयः पूरैराप्यायन्त्यनुजाग्रती । प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वधा ॥ २३ ॥ विष्णुपदीत्वमात्रं गङ्गाया इत्युक्तम् । इयं कावेरी तु भगवद्दयाप्रवाह इव । दया च हृदयोद्भवा । तस्मादप्यस्या उत्कर्ष इत्युच्यते । दया दयनीयगुणदोषान्न गणयति । स्नातृजनगुणदोषं न गणयति कावेरी । स्थावरजङ्गमप्राणिजातं पाति दया । इयमपि तथा । पाति नन्दनतरून् स्थावरान् ; पुनीते नातो जनाजङ्गमान् । उमे अपि शिशिरमधुरागाधे । श्रीरङ्गराजस्तवः । ४१ अगणितगुणावयम् । ‘दोषो यद्यपि तस्य स्यात्’ इति भगव दुक्तिः । तस्य प्रत्यभिज्ञापनम् ॥ सर्व स्थिरतसमप्रतिक्रियमपि । ‘शरीरजैः पापयति स्थावरतां नरः’ इति पापिष्ठां स्थिरयोनिं प्राप्तान् : जङ्गमांश्च । अप्रतिक्रियं दुष्परिहरपापवन्तम् । अप्रतिक्रियमाप्याययन्तीति क्रियाविशेषणं वा । अपेक्षन्तां वा मावा, बलात् तानाप्लावयन्ती ॥ पयः पूरैः । प्रभूतैर्दयास्रोतोभिः ॥ आप्याययन्त्यनुजाग्रती । प्राणिशेोकमनु जागरणम् । यद्यपि भगवान् स्वप्यात् तद्दया सदा जागरूकास्ते । शोचन्तमनुजायती सा । यथा कावेरीप्रवाहो न खप्यात् तथा शेषशायिनो दयाप्रवाहो न स्वप्यात् । प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया शिशिरमधुरागाधा । कावेरीप्रवाहस्य दयाप्रवाहस्य च भूयः साम्यम् । नदीप्रवाहः केदारपोषणद्वारा जगद्धारकः । भगवद्दयां विना न जगद्ध्येित ॥ सा नः पुनातु मरुद्रधा । पवित्रीकरणपार्थनायां वेदप्रसिद्धनामग्रहणं मरुदूति । न दयां बिना पापनिर्हरणम् । ‘अगणितनुपातम् ’ इत्यगणितपदप्रयोगो गङ्गावर्णने उत्तररामचरिते । अगणितपदेनात्र लोको पक्रमः ॥ तरळतनुतरङ्गैर्मन्दमान्दोल्यमान स्वतटविटपिराजीम अरीसुतभुंगा । क्षिपतु कनकनाम्नी निम्नगा नारिकेल कमुकजमकरन्दै मसलापा मदेहः ॥ २४ ॥ कावेरी जागर्तीत्युक्तम् । ततटविटपिमञ्जरी स्थभृङ्गाः स्वपन्तीत्युच्यते । कावेरीतरङ्गाणां तनुत्वमन्दत्वादिखभावश्च वयते । जामातृक्षेत्रस्यभृङ्गानां डोलान्दोलनमारच्यते कावेर्या ॥ 6 Sr । ४२ श्रीरङ्गराजस्तवः । तरलतनुतरंगैः । तरङ्गाणां तरलत्वम् ; तनुत्वं च मन्दान्दोलनप्रयोजकम् ॥ ; मन्दमान्दोल्यमान स्वतट विटपिराजीमञ्जरी सुप्तभृंगा । यद्यपि श्रीरङ्गराजस्य डोलां न निर्वर्तयति कावेरी तथाऽपि तत्क्षेत्रवर्तिभृङ्गानामान्दोलिकां रचयति । तांश्च स्वापयति । मञ्जरीषु स्थिता भृङ्गा तरङ्गैर्मन्दमान्दोलनेन सुषुप्सन्ति ; स्वपन्ति च । पूर्वमसुप्ता आन्दोलनेन स्वपन्ति । सुप्तानां स्वापो न विहन्यते । आन्दोलनस्यातिमन्दत्वात् ॥ कनकनाम्नी निम्नगा । कनकं न निम्नगामि निम्नप्राप्यं न भचेत् । उच्चगमेव तत् । कनकसरित्त्वऽपीयं निम्नगा ; निम्नजनसुलभा । निम्नकेदारसुलभा । कावेरीतीरे नारिकेलबाहुल्यं प्रसिद्धम् । ‘कावेरीणालिए तरलणनिउणा जम्मदा जम्मआरा कन्दप्पोद्दीपणेण गहिद निहरणा दाहिण एन्ति तासाम्’ इति बिल्हणविरचिते कर्णसुन्दरीनाटके तत्प्रसिद्धिदृश्यते ॥ नारिकेलक्रमुकजमकरन्दैमसलापा । इयं निम्नगा अत्युच्चनीरिकेलकमुकवृक्षैर्मकरन्दनिष्यन्दैराराध्यते । ‘स्वकुसुमैरर्चन्ति गोदावरीम् ’ इति भवभूतिः ॥ मदंहः क्षिपतु । निम्नगेयं निम्नस्य मम पापं निर्हरतु ॥ कदलवकुलजम्बूपूगमाकन्दकण्ठ द्वयससरसनीरामन्तरा साकन्याम् । प्रबलजलपिपासालम्बमानाम्बुदौघ भ्रमकरतरुवृन्दं वन्द्यतामन्तरीपम् ॥ २५ ॥ कावेर्यवगाहः; तद्गुणावगाहश्च वृत्तः । इदानीं तन्मध्यस्थो भगवदधिष्ठितो द्वीपो नमस्क्रियते । निम्नगा कावेरत्युिक्तम् । तोरवृक्षानसौ प्रवाहकाले सरससलिलराकण्ठं पूरयतीत्युच्यते । मेघेन भगवताऽधिष्ठिते क्षेत्रे श्रीरङ्गराजस्तवः । घनीभूतवृक्षकदम्बकानि मेघमाला भासयन्तीव ॥ ४३ कदलवकुल … सरसनीराम् । निर्दिष्टानां वृक्षाणां कण्ठद्वयसजलमस्ति प्रवाहकाले । आकण्ठमन्ना इमे वृक्षाः । नारिकेलकमुका बालवृक्षाः नेमे वृद्धवृक्षाः । कण्ठद्वयसजलेऽवगाहनं सुभगम् । सरसनोरामिति कावेरीजलस्थवृक्षवर्धकत्वम् तत्पुष्टिकरत्वं च द्योतयति ॥ , सह्यकन्याम् । इयं सह्यजा वृक्षाणां सहजेव ॥ अन्तरा अन्तरीपम् । नेदं सिंहलादिवत्सागरमन्तरा द्वीपम् । किंतु नदीमन्तरा । कृष्णा गोदावरी नदीमध्यवर्तिनां द्वीपानां लङ्केति नाम । प्रवल जलपिपासालम्बमानाम्बुदौवभ्रमकरतरुवृन्दम् । अत्यन्तृषितत्वादाकण्ठ पपिवन्निव मेघाः । आकण्ठवारिमरत्वान्मन्थरीभूता न व्योम गन्तुं प्रभवन्ति । आकण्ठमनवृक्षवृन्दमा कण्ठवीरभर मेघवृन्दसदृशम् । एते वृक्षाः तृवाशमनार्थमागता मेघा इव ॥ वन्द्यताम् । सुरिवृन्दवन्नमस्कार्यमिदं तरुवृन्दम् ; तद्विशिष्टमन्तरीपं च । समुद्रान्तरीपवासी विभीषणो रङ्गराजस्य कावेरीद्वीपवासं भोग्यं मेने ! यद्विष्णोः पद्मतमः परोरजीश्रयं मुक्तानामनुविरजं विदीयमाहुः । तत्पुण्यं पुलिनमिदं तयाऽद्य मध्ये कावेरि स्फुरति तदीक्षिपीय नित्यम् ॥ २६ ॥ अम्बुदौघश्रम करत स्वृन्दमन्तरपिमित्युक्तम् । निःशेषा विद्यानिवृत्तिस्थलं परमपदमिति श्रयते । अत्र भ्रमबुद्धिः कथमित्याक्षिप्ते उच्यते -कविचतुरोक्तिरियम् । परमार्थन न गृह्यतां को रूपणवचः । श्रीवैकुण्ठाभिन्नभिदं द्वीपम् । परमपदवर्णनं क्रियते तदभिन्नस्यास्य द्वीपस्य प्रशस्त्यै । तदभेदाद्वप्यं च ॥ ४४ श्रीरङ्गराजस्तवः । यत् । तद्विष्णोः परमं पदं सदा पश्यन्ति सुरयः’ ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति श्रौतपुरोवादप्रसिद्धिमनुसृत्याल यच्छन्दोपनिबद्धः प्रसिद्धवदनुवादः ॥ विष्णोः परमं पदम् । न ‘राहोः शिरः’ इतिवदगतिकाभेदप ष्ठ्याश्रयणम् ॥ अतमः । ‘तमसः परस्तात्’ ‘तमसस्तु पारे’ ॥ परोरजः । अतम इति नञः पर्युदासशक्त्या रजसः प्राप्तिः स्यात् । तद्व्यावर्त्यते । तम इति रजसेोऽप्युपलक्षणमिति स्पष्टीक्रियते श्रत्यर्थः ॥ अग्रथम् । न ह्येतस्मात् परमुत्कृष्टमुच्चस्थानमस्ति ॥ अनुविरजम् । तमसः पारे इत्युक्तम् । तथा च रजस्तमस्सग्बन्धः स्वात् तत्पारवर्तित्वात् । तद्व्यावर्त्यते मध्ये विरजा नदीसत्त्वस्फोरणेन । रजस्तमसोः शुद्धसत्त्वस्य च मध्ये विरजा आस्ति । तस्मान्न रजस्तमः सम्बन्धः । विरजातीरे वर्तते । न साक्षाद्रजस्तमसः पारे ॥ मुक्तानां विदीप्रम् । ‘अत्यर्कानलदोप्तम् ’ स्वयंप्रकाशम् । । आहुः । आम्नाया आम्नायवृद्धाश्च ॥ तत्पुण्यं पुलिनम् । पुण्यमिति भोग्यत्योक्तिः ; न पुण्यसाध्यत्वम् । पुण्यापुण्यातीतत्वात्। सुकृतरूपपुण्यस्यापि पाप्मशब्दनिर्दिष्टत्वात् ॥ मध्येकावेरि । नानुकावेरि, यथाऽनुविरजम् ; किंतु कावेरीमध्ये ॥ इदंतया स्फुरति । मांसचक्षुषापि पुरोवर्तित्वेन घटपटादिवद्वी क्ष्यं भवति ॥ तदीक्षिषीय नित्यम् । ‘सदा पश्यन्ति सूरयः’ इतिवदहमे तन्नित्यं पश्येयम् ॥ वय्यन्तप्रहतिमतीषु वैष्णवानां प्राप्यासु प्रचुरभवश्रमापहासु । श्रीरङ्गराजस्तवः । कावेरीपरिचरितासु पावनीषु श्रीरङ्गपवनतीषु वर्तिषीय ॥ २७ ॥ ४५ परमपदं चेत् तत्र ‘अमन्नमहमन्नम्’ इत्यादि सामोचेत्यर्निमुके जेंगीयेत । अत्र सामभूतास्त्रय्यन्ताः किं गीयन्त इति पृष्टे उच्यते न केवलं

त्रिवेदीसामानि द्रामिडब्रह्मसंहितासामानि च सततं जेगीयन्ते ॥ ; त्रय्यन्तमतिमतीषु । अत्र दिशः पूरिताः संस्कृतद्राविडसामगानैः । प्रहतिशब्देन सामसंहितायाः पौनःपुन्येनाविच्छिन्नमुचैर राम्रेडनं येोत्यते । दुन्दुभिप्रहतिवदत्र सामप्रहतिः । ‘उच्चैः साम्ना’ इति खलु विधिः । मतुवा प्रहतेर्नित्यत्वं द्योत्यते ; प्राशस्त्यं च ॥ वैष्णवानां प्राप्यासु । नेमाः स्थल्यः प्रापिका उपायभूताः । प्राप्या इमाः । वैष्णवानामिति शठकोपादिवैष्णवमुनि सार्वभौमाभिमतिद्यत्यते । वैष्णवदर्शनस्थापकानां मतमनुसृत्य परमं प्राप्यं भुवि । परमपदादप्यस्य रस्यत्वं जोधुप्यते ॥ प्रचुरभवभ्रमापद्दासु । प्रचुरशब्देन प्रायेण संसारश्रमनिवृत्ति द्यात्यते । प्राचुर्येण प्रायेण संसारतापनिवर्तिकासु । यद्वा प्रचुरः प्रभूतः । प्रभूतो भवश्रमस्तन्निवर्तिकासु ॥ कावेरीपरिचरितासु । का दिव्यस्त्री मालाहस्ता परिचरत्यपहतभवश्रमानत्र ; यथा परमपदे ‘शतं मालाहता दिव्यस्त्रियः’ इति पृष्टे उच्यते_कावेर्यापरिचरितास्विति । परिचारविधयश्चाक्ता बहुभिः श्लेोकैः । पुण्यनद्यः श्रीरामभद्रं ‘वीचीवातैः शीकरक्षोदशीतैः’ इति पर्यचरन् दण्डके । व्विति भवभूतिः । ‘यमुना च विचित्रं परिचचार यामुनम्’ इति श्रीशुकः तथा कावेरी परिचरति भगवन्तम् ; भागवतांश्च ॥ पावनीषु । न सुखजनकत्वमात्रेणेोपादेयाः । परिशुद्धाः प्रदेशाः । एतद्विषयवास एव पापहरः ॥ ४६ श्रीरङ्गरराजस्तवः । श्रीरङ्गोपवनतटी । कुतः पावनत्वमिति चेत् — श्रीरङ्गविमानसमीपवर्तित्वादमीषामुपवनप्रदेशानाम् । उपवनमिति न वृन्दावनवन्महावनत्वम् । श्रीरङ्गमिति प्रणवश्चाभिप्रेतः । प्रणचसन्निकर्षात् पावनत्वम् । वय्यन्त इति श्लोकोपक्रमः । श्रीरङ्गकीर्तनेनोपसंहारः । वय्याः पूर्वं परस्ताच ओङ्कारः पठनीयः । वय्या उभयोरन्तयोर्नियमेन दृष्ट ओङ्कारस्त्रय्यन्तः । उपक्रमस्थत्रय्यन्तशब्देनोङ्कारोऽपि गृह्यंत । तेन चादावन्ते च ओङ्कारः स्यात् । तेन च कारव्याप्तत्वं श्रीरोपवनतटीनाम् । उच्चैरुद्धोप्यते मिलितैरध्येतृभिशङ्कार आदावन्ते च । ओङ्कारप्रहत्या पावनत्वम् । ओङ्काराभिन्नरङ्गविमानसामीप्यात् पावनत्वम् ॥ वर्तिषीय । ‘वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः’ इति वेदान्ताचार्याः । नास्मात् स्थानात् स्थानान्तरमियाम् । आवर्तनविरोधी वर्तनशब्दः । नावृत्तिर्भवतु ॥ स्फुरितशफरदीर्यन्नारिकेली गुलुच्छ प्रसृमरमधुकुल्यावार्धतानोकहानि । रतिमविरति रङ्गाराम रम्यस्थलानि क्रमुकपनसमोचामेचकानि क्रियासुः ॥ २८ ॥ श्रीरङ्गमित्युक्तम् । ‘रतिं गतो यतस्तस्माद्रङ्गमित्यभिधीयते’ इति भगवते। निरतिशयां रतिं गमयतीति रङ्गशब्दस्यार्थं निर्वचनम् । रज्यन्ते ऽस्मिन् सर्वे सामाजिका इति रङ्गम् । तदध्यक्षोक्रियेत तत्स्थवृक्षमनुष्याणां रतिकरत्वप्रदर्शनेन । अत्यन्तदृष्टान् तरून् दृष्ट्वा द्रष्टॄणां हर्षो भवेत् ॥ स्फुरित… • अनोकहानि । शफराः कनकवर्णी मत्स्याः । कनकसरिति तेषां प्राचुर्यम् । कनकसरित्सलिले ते स्वाभाविकहर्षेणीत्यतन्ति । तदुद्वर्तने कनकस्येव स्फुरणम् । नालिकेरीवृक्षा न वृद्धोन्नतवृक्षाः ; किंतु बालवृक्षाः । नारिकेली स्तबका दीर्यन्ते शफरस्फुरणेन ।श्रीरङ्गराजस्तवः । ४७ अतिपेलवाः कोमला बालनारिकेली स्तबकाः । दीर्यमाणस्तत्र कान्मधुधारा गलन्ति । तास्तीरवृक्षमूलान्यापूरयन्ति । मधुसेकेन तरवो वर्ध्यन्ते ॥ क्रमुकपनसमोचामेचकानि । यथा राजा तथा प्रजाः । यथा स मरकतशिलाम चकस्तथा तदुपवनवृक्षाः । क्षेत्र मेचकितं भवत्यधिष्ठातृदैवतवत् । मोचाः कदलयः । श्यामायमानानि दिगन्तराणि’ इतिवत् रङ्गप्रदेशाः श्यामायन्ते ॥ रङ्गारामर म्यस्थलानि । नैतेषामुपवनप्रदेशानामतैर्विचित्रहृष्टतरुमी रम्यत्वम् । श्रीरङ्गराजः स्वाराम भूतेध्येतेषु प्रदेशेषु स्वाभिन्नेनेोत्सवमूर्तिरूपेण विहरत्युत्सवान् रचयन् । ततो रम्याण्येतानि स्थलानि । ‘रम्याणि कामचाराणि’ इति प्रमाणवचनप्रत्यभिज्ञापनं रम्येति । आरामो विहारः ॥ अविरति । अविच्छिन्नं यथा तथा । रतेर्विरतिर्माऽभूत् । आरामस्य विरामो मा भूत् ॥ रति क्रियासुः । रङ्गस्थलानि ममाविरतां रतिं विदधताम् । यथा रङ्गराजस्य रतिं करोति रनं तथास्माकं रतिप्रदं भूयात् । यथा राज्ञे तथा प्रजाभ्यः ॥ अधिपरमपदं पुरीमयोध्या ममृतवृतामपराजितामुशन्ति । पुलिनमुपरि रङ्गराजधानी पिशितदृशामपि सा पुरश्चकास्ते ॥ २९ ॥ रतिरित्युक्तम् । इयं रतिः परमपदवासजन्या परमात्मरतिर्ब्रह्मानन्दः । अपराजिता अयोध्या पुरी सैवाल मांसचक्षुर्विषयो भवति । उपवनप्रदेशात् पुरीप्रवेशः ॥ अधिपरमपदम् । परमपदोपरि ॥ पुरीममृतवृताम् । ‘अमृतनावृतां पुरीम् ॥ ४८ श्रीरङ्गराजस्तवः । अयोध्यामपराजिताम् । दोषैरयोध्याम् दोषैरपराजिताम् । यत्र रामः सायोध्या । यत्र रामदैवतं सायोध्या ॥ उशन्ति । अनपायिन्यो वेदवाचो यां पुरीं कामयन्ते । सेति तच्छन्दसामर्थ्याद्यच्छन्दो ऽध्याहर्तव्यः ॥ पुलिनमुपरि । अधिशब्दस्थाने तत्समानार्थकोपरिशब्दः । कावेपुलिनोपरि । पार्श्वद्वयेऽपि नदीवत्त्वं परमपदस्य नास्ति । पुलिनतीरे आस्ते सा पुरी ; न पुलिनोपरि ॥ पिशितदशामपि । ‘न मांसचक्षुरभिवीक्षते तम्’ इति ब्रह्मदर्शनस्याशक्यता । यदात्मको भगवांस्तदात्मिका भगवव्यक्तिरिति परमपदस्य मांसचक्षुर्ग्राह्यत्वाभावः । पिशिताशनेन्द्रप्रतिष्ठिता पुरी पिशितदृशां चकास्ते । अपिना परमपदवासिभिरप्यनुभाव्यता द्योत्यते ॥ पुरश्चकास्ते । अस्मत्पुरोवर्तिनी भूत्वा समीपे प्रकाशते ॥ भवपदमपि दिव्यधाम कर्तुं तदुभयतन्त्रितहर्म्य मालिकेव । भवनमणितलर्विजृम्भमाणा जयतितरामिह रङ्गराजधानी ॥ ३० ॥ रङ्गक्षेत्रस्य परमपदत्वमुपपद्यते । तत्सिद्धवत्कृत्योक्तं पूर्वलोके ‘सायोध्यापुरी पुरश्चकास्ते’ इति ॥ इह । संसारमण्डले ॥ रङ्गराजधानी । ब्रह्मानन्दरूपरतिगमयित्री दिव्या पुरी ॥ जयतितराम् । परमपदादप्यधिकोत्कर्षवती । तरप्परमपदापेक्षया । भवपदमपि । संसारमण्डलमपि ॥ दिव्यधामकर्तुं । परमपदं कर्तुम् ॥ तदुभयतन्त्रितहर्म्यमालिकेव । प्रकृतिमण्डलम् ; परमपदमि त्युभयं तदुभयशब्देन गृह्यते । उभयपदसंबन्धप्रचुरता विद्यतेऽत्र हवेंषु । श्रीरङ्गराजस्तवः । हर्म्याणां परमपदपर्यन्तौन्नत्यम् । तन्त्रितं संयुक्तं निबद्धम् ॥ ४९ भवनमणित लैर्विजृम्भमाणा । खच्छेषु भवनमणितलेषु खच्छशुद्धसत्वप्रतिविम्वनमिव । मणितलेघूर्ध्वस्थितनमः प्रतिफलनम् । मणितलं स्वच्छं शुद्धसत्वसदृशम् । उपरिस्थितमणितलैरुपरिभागे शुद्धसत्वमयम् । मणिमकररुचीर्वितत्य पाशा न्विसृमर केतुकरैर्मृगं हिमांशोः । थिय इव सबकेलये जिवृक्षुः सुखयति रङ्गपुरी चकासती नः ॥ ३१ ॥ मणितलान्युक्तानि स्वच्छशुद्धसत्वसादृश्योपपादनाय । इदानीं मणिमकरकान्तयश्चान्द्रहरिणग्रहणार्थ वितताः पाशा इवेति रूयन्ते । रक्तराजधानीत्युक्तम् । तत्र ध्वजादिकं प्रदर्शनीयम् । ध्वजाश्च चन्द्रमण्डलं स्पृशन्ति ॥ मणिमकररुचीर्वितत्य पाशान् । रत्नमकरिका अलंकुर्वन्ति ध्यजस्तम्भम् । मन्मथमन्मथस्त्र नगरीयम् । युक्तमत्र मकराकृतध्वजस्तम्भस्थापनम् । रत्नमकरकान्तयः स्वलग्नमकरविशिष्टपाशसादृश्यं वहन्ति । ध्वजाः करा इव भवन्ति । करधृतपाशा इव भवन्ति मणिमकररुचयः । करैः पाशान्वितत्य ॥ स्मार्यते ॥ विसृमरकेतुकरैः । ध्वजकरैः ! हिमांशोर्मृगम् । चान्द्रं मृगम् । ‘चान्द्रं हरामि हरिणम्’ इत्यादि थियो नवकेलये जिवृक्षुरिव चकासती । राज्ञयाः श्रीरङ्गनायक्या नवनवकोडकौतुकाय ग्रहीतुमिच्छुरिव ।। नः सुखयति । रङ्गपुर्थी रञ्जनायकीपिप्रीणा । वयं प्रोग्रामह । शेषिप्रीतिरस्मत्प्रीतिः ॥ जनपद सरिदन्तरीपपुण्य त्पुरपरिपालन नित्य जागरुकान् । 7 Sr ५० श्रीरङ्गराजस्तवः । प्रहरणपरिवारवाहनाढ्यान् कुमुदमुखान्गणनायकान्नमामि ॥ ३२ ॥ राजधान्या अङ्गेषु हर्म्यमाला; ध्वजाश्चोक्ताः । इदानीं नगरपालका गणनायका उच्यन्ते । क्षेत्रनायको रङ्गराजः शेते । गणनायकाः पुर पालकाः सततं जाग्रति ॥ जनपदसरिदन्तरीपपुष्यत्पुर परिपालननित्यज गरुकान् । ‘कोसलो नाम मुदितः स्फीतो जनपदो महान् । निर्विष्टः सरयूतीरे धनधान्यसमृद्धिमान् ॥’ इतिवदस्य जनपदस्य सारवत्त्वम् । कनकसरितीरवर्तित्वातु भूयसी धनधान्यसंपत् । संपत्प्रकर्षं सततं जागरूकाः पालयन्ति ॥ प्रहरणपरिवारवाहनाढ्यान् । पालकानामायुधानि भटाः ; वाहनानि च भूरि भूयः सन्ति ॥ कुमुदमुखान् गणनायकान्नमामि । यथा सेनापतिः कुमुदो वानरनायको रामदासस्तथेमे कुमुदादयो नायकाः ॥ अहृतसहजदास्याः सूरयः स्रस्तबन्धा विमलचरमदेहा इत्यमी रङ्गधाम । सद्दितमनुजतिर्यक्स्थावरत्वाः श्रयन्ते सुनियतमिति येऽस्य प्राहुरेभ्यो नमस्तात् ॥ ३३ ॥ आढ्या गणनायका इत्युक्तम् । किं तेभ्यो भूरिवेतनं दीयत इति पृष्टे उच्यते । -नेमे भृतकमाहिदासाः । एतेऽशुल्कदासाः । स्वयं प्रयोजनं सहजमेषां दास्यम् । नेमे कुतश्चिद्दासकर्मणे आहृताः स्वयमागता एते । ॥ अहृतसहजदास्याः । स्वतो दासभूवाः । स्वयंदास्यमुपागताः । कदापि तेषां स्वरूपभूतं दास्यं नापहृतम् । एते नित्याः ; नित्यदासाः ॥ सूरयः । दासाः पामराः स्युः । इमे पण्डिता विपश्चितः । नि श्रीरङ्गराजस्तवः । ५१ त्या उच्यन्ते । स्त्रस्तबन्धाः । दासाश्चेन्नियमबद्धा अस्वतन्त्राः स्युः । ‘स स्वराभवति’ इत्यनन्याधिपतय इमे । सम्बन्धाः मुक्ताः । विमलचरमदेहाः । मुमुक्षवः येषामिदं जन्म चरमजन्म ; ये एतद्देहावसाने नियतं मोक्ष्यन्ते । इत्यमी । एते सर्वे नित्या मुक्ता मुमुक्षवश्च । सहितमनुजतिर्यक्स्थावरस्याः । मनुजभावेन तिर्यग्भावेन ; स्थावरभावेन चाल मिलिताः । रङ्गधाम श्रयन्ते सुनियतमिति । एते निर्वन्धलेश विना नियमेन स्वयं प्रीत्या रक्तधामाश्रयन्ते । इति येऽस्य प्राहुरेभ्यो नमस्तात् । न केवलमेतान्नित्यसुर्यादीनमामि । नित्यसुर्यादयोऽत्र मनुजतिर्यक्यावरत्वेनावस्थाय परिचरन्तीति ये एतद्रहम्यं प्राचीकस्तानपि नमानि । श्रीरङ्गदिव्यभवनं भुवि गोपुराणां प्राकारितेन निकरेण गरुत्मतेव । पार्श्वप्रसारितपतत्रपुटेन नानातनूभिरुपगूढमुपघ्न्नयाम ॥ ३४ ॥ सूरयः स्थावरत्वेन श्रयन्त इत्युक्तम् । तदुपपाद्यते । अनन्तस्य शय्यात्वेनावस्थापनं प्रसिद्धमुपदेशं विनापि । गरुडो गोपुरप्राकारत्वेनावतिष्ठते इत्युच्यते । श्रीरङ्गादिव्यभवनमुपघ्नयाम । सुरयः श्रयन्ते रङ्गधाम । वयं तदाश्रयाम ॥ भुवि गोपुराणां निकरेण प्राकारितेन । गोपुरा गरुत्मन्त इव गोपुरोभयपार्श्ववर्तिप्राकारौ तत्पक्षाविव । गरुत्मानेव शरीरपरिग्रहेण गोपुरनिकरत्वेनावतिष्ठते । वेदात्मा गरुडः । प्रणवो रङ्गम् । वेदवेष्टितः प्रणवः 1 वेदशृङ्गं रङ्गम् । ५२ श्रीरङ्गराजस्तवः । पार्श्वप्रसारित पतत्रपुटेन गरुत्मतेव । आलिङ्गने पक्षिणः पको प्रसारितौ भवेतामिति पक्षिस्वभावः पदश्यते । नानातनूभिरुपगूढम् । (श्रीरङ्गदिव्यभवनम् ) ‘स एकधा भवद्विधा भवति विधा भवति’ इति नानातनुपरिग्रहः । गात्रः शोकाविकाशः संस्पृशय सकामाहं-’ इति शरीरबहुत्वमनोरथः सहजोऽभिमतवस्तुपरिष्वङ्गे । अनेकशरीराणि परिगृह गाढं परित उपश्लिष्टम् । गाढोप । । ग्रह । वेदात्मा सुपर्णो गरुत्मान् । श्रीरङ्गं च प्रणवः । प्रणवस्य वेशेषगू हां न्याय्यम् । गरुत्मानुरगूहति रङ्गन् । गरुत्मदुपगूढं रङ्गं वयमुपघ्नयाम वृक्षं लतेव । चिरप्रणिपातो द्योत्यते ; तत्व नित्यवासश्च । प्राकारमध्याजिरमष्टपोक्तया सद्वीपरत्नाकररत्न शैला । सर्वेसहा रङ्गविमानसेवां प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५ ॥ गरुमान् परमपदादागत्य रङ्गमुपगूहतीत्युक्तम् । अत्रैव स्थिता विश्वम्भरा प्रेयसी प्राकारमध्या जिरमण्डपलेनावतिष्ठते रङ्गविमानसेवायै इत्युच्यते । प्राकारमध्याजिरमण्डपोक्त्या सद्वीपरत्नाकररनरौला । सतदोषा वसुमती सप्तार्णवती रत्नवती सशैला । अत्र प्राकाराः सप्त । प्रकरमध्याजिराणि सप्त । अजिरेषु शिलामण्टनाः । प्राकारा आवरणानो । ‘दशोत्तराण्यावरणानि यानि च’ ‘दशोत्तराण्यशेषाणि मैत्रेयैतानि सत’ ‘चतुर्दशभुवनावरणहेम कटाहरूपमण्डलम्’ इत्यादिकमिह भाग्यम् । प्रकाश आवरणानि । प्राकारमध्याजिराणि रत्नाकराः सागरा इव । विचित्रशिलामण्डपा रनरौला इव । साजिराश्चतुर्दशावरणानि । श्रीर द्वीपमध्यस्थम् । तेन सद्वीवत्वं निरूपितं भवति । नदीसहितत्वं चाति । उवा व्याजेन, नाम्म्रा । अपदेशेन । श्रीरङ्गराजस्तवः । ५३ सर्वेसहा । रजस्तमः सम्बन्धन् पापिष्ठजन वहनभारम् ; परम 9 पदानुभवस्य स्वस्याः प्राप्तत्वेऽपि तद्विलेषं च सोढुं समर्थैव । तथाऽपि यदा परमपदमत्रायातं तत्सेवां साभिलषेदेव । रङ्गविमानसेवां प्राप्तेव । रङ्गविनानस्य कायिकसेवां प्राप्तव भाति सर्वसहा । रङ्गमन्दिरत्वेन प्रकाशते । जितवाह्यजिनादिमणिप्रतिमा अपि वैदिकयशिव रङ्गपुरे । मणिमण्डपवप्रगणान् विदधे परकालकविः प्रणमेमहि तान् ॥ ३६ ॥ वेदात्मनो गरुडत्य रङ्गपरिचरणमुकम् । भूदेव्याश्च परिचरणमुक्तम् । परकालकविपरिचरणमुच्यते । परकालेति तन्नामान्वयीकियते तेन बाह्यान् परान् जिनादीन् वैदिककृत्य । गरुडः स्वयं गोपुरप्राकारादि बभूव । भूमिश्च द्वीपराजिरादि वभूव । परकालो मण्डपनादीन् निर्ममे । भवन्ति । रङ्गपुरे । ओकारपुरे । ओङ्कारपुरत्वादवेदिका अध्यल वैदिका जितबाह्यजिनादिमणिप्रतिमा अपि । बडवो जैनादिवाद्या जिताः परकालेन । तत्प्रतिमाः परकालनिर्मितमण्टोषु निवेशिताः । जिनो जयशील इति तेषामुद्वपः । जिनस्य जितत्वमित्याश्चर्यम् । वैदिकयन्निव । तेऽप्यूर्वपुण्ड्वारिणः शेखचकादिलाञ्छना ह इयन्ते । तेऽपि वैदिकीभूता इव । मणिमण्टपवगणान् विदधे । मणिमण्टपेषु मणिप्रतिमाः । परकालकविः । अन्वर्थं नाम । प्रणमेमहि तान् । वैदिकोभूतजिन दिप्रतिमापरामर्शः, तानिति परकालपरामर्शो वा । ५४ श्रीरङ्गराजस्तवः । स्मेराननाक्षिकमलैर्नमतः पुनानान् दंप्रागदाभ्रकुटिभिर्द्विषतो धुनानान् । चण्डप्रचण्ड मुखतः प्रणमामि रङ्ग द्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७ ॥ अवैदिका वैदिकीकृताः प्रणताः । इदानीं द्वारचतुष्टयस्था अधिकारिणः प्रणम्यन्ते । चण्डप्रचण्डौ प्राग्द्वारे, याम्ये भद्रसुभद्रौ; पश्चिमे जयविजयौ, उदीच्यां धातृविधातारौ । नमतः । भगवत्प्रणन्तन् । प्रणामो भगवदुद्देश्यकः ; यद्यपि द्वाःस्थसमीपे प्रणम्यते । Ε स्मेराननाक्षिकमलैः। स्मयमानमुख नेत्राम्बुजैः ॥ पुनानान् । अघपरिहरणं कुर्वन्तः ॥ द्विषतः । भगवद्विषः । दंष्ट्रागदाभ्रुकुटिभिर्धुनानान् । भीषणैदेष्ट्रादिनिषयन्तः । दंष्ट्रायदावत्ततेऽधिकं वा भीषणां भ्रुकुटयः ॥ रङ्गद्वारावलीषु चतसृषु । चतुर्षु गोपुरद्वारेषु ॥ अधिकारभाजः । अधिकार प्रीत्या सेवमानाः ॥ चण्डप्रचण्डमुखतः । चण्डवचण्डादीन् । प्राद्वारे चण्डपचण्डौ । प्राग्द्वारेण प्रविष्टस्य तौ प्रथमदृशै । प्रणमामि । एतान्नमामि । सर्वात्मसाधारणनाथ गोष्ठी पूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्र स्थूणादिनाम्ना तदवाप्नवानि ॥ ३८ ॥ .. प्राग्गोपुरद्वारा अन्तःप्रवेशे सहस्रस्थूणामण्टपो दृष्टिगोचरो भवति । नायं मण्टपस्थूणामयः ; किं त्वानन्दमयः । नाममात्रमस्य सहस्रस्थूणामण्टप श्रीरङ्गराजस्तवः । ५५ इति । शतगुणितोत्तरक्रमेणानन्दमयस्य निरवधिकानन्दवत्त्वं लक्षितं श्रुत्या । स्थूणामय इवायं मण्टपश्चर्मचक्षुषाम् । अत्र यद्यपि स्थूणाः सहस्रसंख्यारूपपरिच्छेदवन्तः ; नाथगोष्ठी दर्शन जन्यानन्दस्य संख्यातीतत्वम् निरवधिकत्वं च । स्थूगाविषये सहस्ररूपसंख्या । अत्राविर्भवदानन्दस्य संरूयातीतत्वम् । सर्वात्मेत्यादि परमपदादप्यत्र यद्यपि गोष्ठी महत्तरा ; नास्य मण्टपस्यावकाशः पूर्यते । परमपदापेक्षया अत्रत्यगोष्ट्या महत्त्वेऽ पि महत्तरेऽवकाशः । गोष्ठीमात्रं पूर्यते । मण्टपावकाशस्तु न पूर्यते ; किं तु शिष्यते । ‘पूर्णमेवावशिष्यते’ । यथा भगवान् तथा तन्मण्टप: । ‘अस्मिन्परमपदेऽयोध्यापराजिता पुरी, अपराजितमायतनम् ; सहस्रस्थूणादिपरिकरं दिव्यस्थानरलम्, तत्र पर्यङ्के श्रिया सनाथः’ इत्यनाद्यनन्तं मुक्तभोग्यं छान्दोग्यतैत्तिरीय कौषीतकिप्रभृतिप्रसिद्धमनुसन्धेयम्’ इति सहस्रनामभाप्यं । त्रिपाद्विभूतित्वेन प्रसिद्धमवकाशमहत्त्वेनाप्यतिशेतेऽयं मण्टपः । ना. थशब्देन ‘यत्र देवानामधिदेव आरते’ इति श्रुतिखण्डप्रत्यभिज्ञापनमिव । आस्थानमानन्दमयं सहस्रस्थूणादिनाम्ना । यद्यपि नाम्ना सहस्रस्थूणाख्यपरिच्छेदवानिव, वस्तुतोऽस्य संख्यातीतानन्दमयत्वम् । आनन्दमयशब्देन तत्प्रकरणप्रतिपादितासंख्येयत्वव्यञ्जनम् । चित्सभा नटराजस्य ; आनन्दमयतभा श्रीरङ्गनटराजस्य । आनन्दमयस्य पुरुषस्यानन्दमयमास्थानमनुरूपम् ; यथा निर्लेपस्यासङ्गस्य पुरुषस्य तुल्यखभावमक्षि अनुरूपं स्थानामिति चारु प्रदर्शयति श्रुतिः ‘यद्यप्यत्र सर्पिवेदिकं वा सिञ्चति वलेनीलेव गच्छति’ इति । सहस्रस्थूणादिनाम्ना प्रसिद्धम् । लोकप्रसिद्धिमनुसृत्य लोकबोधार्थं परिच्छेदापादकनामग्रहणम् ; न वास्तवीं रीतिमनुस्मृत्येति भावः । मण्टपस्य महामणिमण्टप इति नामान्तरग्रहणमपि । आदिपदेन ‘सहस्रस्थूणे विनिर्मिते दृढ उम्रे’ इति श्रत्युक्तेतरपदानां स्मारणं स्यात् । तत् । परमपद्मण्टपेनै तल्लक्ष्यं भवति । प्रसिद्धेन ज्ञातेनाप्रसिद्धस्य ५६ श्रीरङ्गराजस्तवः । बोधनं न्याय्यम् । परमपद्मष्टपादप्यस्याधिकावकाशवत्त्वं लक्ष्यते । तस्ब ज्ञातत्वमभ्युपगम्य तेनैतस्योपलक्षणं क्रियते । उपलक्षकं तत् उपलक्ष्यमिदम् । तेनात्र तदिति निर्देशः । अस्य मण्टपस्यानन्दमयत्वाकारो लक्ष्यते । आप्रवानि । ‘ब्रह्मलोकमभिसंभवानि’ इतिवन्मन्मनोरथः । अयं श्लोक उदाहृतः श्रीमद्वेदान्ताचार्यैः स्तोत्रभाष्ये ॥ विहरति हरौ लक्ष्म्या लीलातपत्त्रपरिष्क्रिया विनिमयविधासूना सूनक्रिया सफलोत्पलाम् । अथ मुनिमनः पश्शेष्यब्जा सहाय विहारज श्रमहरतटीं यामस्ता मैन्दवीमरविन्दिनीम् ॥ ३९ ॥ ब्रह्मसभाप्रवेश उक्तः ब्रहाप्रवेशः शीतहृदप्रवेश इव । शीतइदा नुभवो बुद्धिस्थो भवति । नाथगेोष्ठीत्युत्सवसमाप्तिद्यतिता । अवभृथस्नानं चन्द्रपुष्करिण्यां भवेत् । इयं पुष्करिणी न केवलं तापत्नयतप्तास्मच्छ्रमहरा ; किं तु सर्वतापातीत समस्तजन तापहरशीततमदिव्यमिथुनस्यापि श्रमहरेति चारु प्रदर्शयेत । अस्यामुत्पलानि सन्ति । पुष्करिणीत्युक्तयैव पद्मसद्भावो नियतः ॥ अथ । नाथगोष्ठयनुभवानन्तरम् ॥ विहरति हरौ लक्ष्म्या । उचितः पद्मिन्यां पद्मया सह विहारः । विहरतीति हरिरिति संज्ञेव । ’ त्वत्संप्रीत्यै विहरति हरौ-’ इति श्रीस्तुत्याम् । हरिरिति सर्वलोकतापहरशीतलत्वं द्योत्यते । ‘रुक्मिणी हरता हरे’ इति रुक्मिणीहरणेन हरिसंज्ञेति व्यज्यत इव ॥ लीलात पत्र परिष्क्रियाविनिमयविधा सूनाक्रिया सफलोत्पलाम् । लीलातपत्रं स्वयमेव रचयतः ; परिष्कुर्वतो वा । प्रथमं पद्ममनन्तरमुत्पलम् ; तदनन्तरं पद्ममिति पर्यायेण पुष्पनिवंशो लीलातपत्रे लीलातपत्रस्य रचनमा लीलया क्रियते । पद्मा पद्मानि, नीलो भगवान्नीलोत्पलानि चश्रीरङ्गराजस्तवः । ५७ च निवेशयति । अत्र सूनासूनिरूपस्पधी भवति । परिष्क्रियति परम्परालंकरणमपि भवेत् । एवमुत्पलानां साफल्यम् ॥ । मुनिमनः पद्मेषु यथा क्रियाव्यतिहारेण पद्मोत्पलनिवेशनम् ; तथा पर्यायेण मुनिमनः पद्मप्बैन्दवपद्मिन्यां च विहार इति धोत्यते । पद्मया सह मनःपद्मेषु विहार उचितः ॥ अजासहायविहारजश्रमहरतटीम् । इच्छाविहारजन्यः श्रमः । न कर्मप्रयुक्तजनपदीयातायातजन्यः । हरेः श्रमहरतटी ॥ यामः । आप्नवानीति पूर्वश्लां के एकवचनम् । अत्र बहुवचनम् । गोष्ठीस्थाः सर्वे गच्छन्ति । ऐन्दवीमर विन्दिनीम् । ‘कुमुदान्येव शशाङ्कः’ इति चन्द्रसरस्युत्पलानां सद्भावो युक्तः स्यात् । पद्मान्यप्यत्र भवन्तीत्यन्तमिदम् । भगवत्सन्निधौ सहजविरोधिनां विरोधविश्रान्तिः । ‘विरोधो विश्रान्तः’ इति रामागमने लवचन्द्रकेतू । तापत्त्रयी मैन्दव पुष्करिण्यां T निमज्य निर्वापयितास्मि यस्याः । अभ्याशतोऽपामघमर्षणीनां चन्द्रः सुधादीधितितामवाप ॥ ४० ॥ दिव्यमिथुनस्य विहरणश्रमहरणमत्र । मम तापत्रयापकान्तिः । मदघहरणं यथा चन्द्रस्य । ममामृतत्वप्राप्तिर्यथा चन्द्रस्यामृतांशुत्वम् । सभा उक्ता । अत्र पद्मिन्युच्यते । ‘विमानानि सभास्तथा । आक्रीडा विविधा राजन् ! पद्मिन्यश्वामलेोदका:’ इति समापद्मिन्योः साहचर्यम्; पौर्वापर्यक्रमश्च । गोष्ठ्यां नित्यमुक्ता अपि स्युः । सर्वेऽलागताः । तापत्रयं न नित्यमुक्तेषु संभवेत् । इतरेषां संसारिणां तापत्रयमस्तीति नास्माभिर्वक्तुं युक्तम् । स्वमात्त्रस्यात्र पृथक्कृत्यैकवचनेनोक्तिः । तटीं याम इत्युक्तं पूर्वश्लेोके । गत्वा न तटस्यस्तिष्ठेयम् । किं तु तत्र मज्जेयमित्युच्यते । 8 Sr ५८ श्रीरङ्गराजस्तवः । ऐन्दवपुष्करिण्यां निमज्य । अनन्तभवार्णवान्तमज्जनेन ताप त्रयी भूयः सम्पादिता । इदानीमत्र निमज्य । निमज्येति स्तोत्ररल लेोकप्रत्यभिज्ञापनमिव । तापत्रयीं निर्वापयितास्मि । तापनिर्वापणेन परनिर्वाणप्राप्तिः । यस्या अघमर्षणीनामपामभ्याशतः । यस्या इति पौराणिकप्रसिद्धिसुचनम् । अस्या अपामेवाघमर्षणीत्वादघर्षणसूक्त जपापेक्षाऽपि न । अभ्याशतः सामीप्यमात्रात् । तटस्थत्वमात्रात् । न मज्जनेन । अनेन किमुत मज्जनेनेति द्योत्यते । अभ्यासत इति वा पाठः । पुनः पुनर्मज्जनेन । चन्द्रः सुधादीधितितामवाप । अमृतरश्मित्वमाप्तं चन्द्रेण । मया निमज्जनेनामृतत्वमेव लभ्येत ॥ पूर्वेण तां तद्वदुदारनिम्न प्रसन्नशीताशयमग्ननाथाः । पराङ्कुशाद्याः प्रथमे पुमांसो निषेदिवांसो दश मां दयेरन् ॥ ४१ ॥ मुनिमनः पद्मेषु पुष्करिण्यां च नाथविहार उक्तः । तापत्रयतप्तानां चेतनानां पद्मिनीमज्जनमुक्तम् । इदानीं नाथस्यैव पराङ्कुशादिशीत। शयमज्जनमुच्यते । यथास्मत्तापनिर्वापणमत्र मज्जनेन, तथा नाथतापनिर्वापणं शठकोपादिसुरिशीताशयमज्जनेन । स्वानुभवसागरे नाथस्य मज्जयितार इति तेषां मज्जकसंज्ञेव । मग्ननाथा इति नाथस्य तदाशयमज्जनं स्पष्टमुच्यत इव । अन्तर्भावितणिजभिप्रेयत इव मज्जकसंज्ञायाम् । तां पूर्वेण । पूर्वदिशि पूर्वपुंसां निषदनमुचितम् । पूर्वेण पूर्वे ॥ तद्वदुदार निम्नप्रसन्न शीताशयमग्ननाथाः । ‘एष ब्रह्म प्रविष्टो ऽस्मि ग्रीष्मे शीतमिव हृदम्’ इति तप्तंचतनानुभवः । तद्वदत्र शठकोपादी. नामाशये मज्जनानुभवो नाथस्य । मुनिमनः पद्मसरसि मज्जनेन भक्तयवग्रहेण श्रीरङ्गराजस्तवः । ५९ तप्तस्य नाथस्य शैत्यानुभवः । आशेरतेऽस्मिन्भावा इति आशयपदं हृदयवाचि । हृदयमेव हृदो भवति । आशेतेऽल ब्रह्म । पराङ्कुशाद्याः प्रथमे पुमांसः । ‘स उत्तमः पुरुषः’ इत्युक्तपुरुषोत्तमपरमसाम्यापन्ना निरञ्जनाः ॥ निषेदिवांसो दश मां दयेरन्। मां भगवते रोचयेरन् । इमे दश अवताराः मां भगवदनु भवसागरे अवतारयेयुः । आधारशक्तिमुपरि प्रकृति परेण तां कूर्ममत्र फणिनं पृथिवीं फणासु । पृथ्व्यां पयोधिमधि तन्नलिनं निधाय श्रीरङ्गधामसु निविष्टमभिवानि ॥ ४२ ॥ विमानानुभवः । स्वाधिष्ठिते विश्वस्मिन् भगवान् प्रतिष्ठितः । भगवच्छक्त्या धृता प्रकृतिः । प्रकृतिमण्डलं कूर्मे प्रतितिष्ठति । कूर्मे शेषः । तत्फणासु पृथिवी । तस्यां समुद्रः । तस्मिन्नष्टदलपद्मम् । तस्मिन् प्रतिष्ठितं विमानमिति क्रमः प्रदश्यते आधारशक्तिमुपरि प्रकृतिम् । सर्वधारकभगवच्छक्तिराधारशक्तिः । तदुपरि निधाय । निधायेति सर्वत्रान्वति । परेण तां (प्रकृति) कूर्मम् । अत्र कू शेषः, तत्फणा सु पृथिवी; तस्यां पृथिव्यां पयोधिः तं पयोधिमधि नलिनमष्टदलप झम् ॥ ४२ ॥ परेण नाक पुरि हेममय्यां यो ब्रह्मकोशोऽस्त्यपराजिताख्यः । श्रीरङ्गनाम्रा तमपौरुषेयं विमानराजे भुवि भावयानि ॥ ४३ ॥ प्रकृति परेणेत्याद्युक्तम् । नाक परे स्थिता पृरुच्यते । अत्र परमपदस्य ६० श्रीरङ्गराजस्तवः । पुर्या रङ्गविमानस्योपलक्षणम् । नाकं परेण । स्वर्गदप्युपरि । हेममय्यां पुरि । हिरण्मयस्य पुरुषस्य हेममयी पुरी । यो ब्रह्मकोशोऽस्त्यपराजितास्यः । कोशो मन्दिरं विमानम् । ब्रह्मकोशश्च ओङ्कारः । ’ ब्रह्मणः कोशोऽसि मेघया पिहितः’ इति तित्तिरयः । वेदस्तस्मात्कोशा दुद्धियते । अन्ते च तस्मिन् न्यस्यते । कोश इव ब्रह्मणो वेदस्योङ्कारः । ब्रह्मणोऽप्योङ्कार आयतनम् । श्रीरङ्गविमानं च प्रणवाभिन्नम् । अपराजिताख्यः । अयोध्या अपराजिता । नास्याः कालादिना पराजयः । कालः सर्वं विकुर्यादिमामेकां पुरीं विहाय । ‘न कालस्तल प्रभुः’ । श्रीरङ्गनाम्ना । नाममात्त्रभेदः । न वस्तुभेदः । तम् । स एव विमानराजोऽत्र नामभेदेनानुभूयते । विमानराजं भुवि भावयानि । सदा पश्यन्ति सुरयः परमपदे । अत्र भुवि वयं तं निरन्तरं भावयाम ॥ ४४ ॥ अनाद्यानातत्वात् पुरुषरचनादोषरहितं जने तांस्तान् कामान् विदधदपि सायुज्यहृदयम् । असन्देहाध्यासं भगवदुपलम्भस्थलममी प्रतीमः श्रीरङ्गं श्रुतिशतसमानार्थे शरणम् ॥ ४४ ॥ अपौरुषेयमिति सिद्धवत्कृ.योक्तं पूर्वश्लोके । अत्र तत् साध्यते प्रथमपादेन । आद्यं स्वयंव्यक्तमिदं क्षेत्रम् । अनादित्वेनाम्नातमिदम् । । अनाद्याम्नातत्वात् । ओङ्कारः स्वभिन्नवेदभागस्यादिः । ओङ्कारस्त्वत्यन्तमनादिः । ओङ्कारेणादिमन्तो वेदाः । तेऽप्यपौरुषेयत्वेनाभ्युपगम्यन्ते । किं वक्तव्यमेोङ्कारस्यापौरुषेयत्वे । श्रीरङ्गराजस्तवः 1. ६१ सर्वफलसर्वरसप्रत्येऽपि । पुरुषरचनादोषरहितम् । पुरुषाप्रणीतत्वमपौरुषेयत्वम् । जने तांस्तान् कामान् विदधदपि ‘एको बहूनां यो विदधाति कामान्’ इति ब्रह्मविषयश्रुतिः । ‘नाटखं भिन्नरुचेर्जनस्य बहुवाऽप्येकं समाराधनम्’ इति रङ्गप्रवृत्तनाट्यविषयमहाकव्युक्तिरपि प्रत्यभिज्ञाप्यते । एकस्मिन् रङ्गे सर्वरसनिष्पत्तिः । एकं रङ्गं बहुधा भिन्नजनस्य तांस्तान् कामान् विदधाति । अघटितसर्वफल घटक रङ्गम् । सायुज्यहृदयम् । सर्वरसप्रतिपादकत्वेऽपि ब्रह्मसायुज्यरूपशान्तिरसेऽस्य हृदयम् । मोक्षपुरुषार्थदानेऽस्य मुख्यं कुतूहलम् । सायुज्यरहस्यमिति वा भावः । पृथक्त्वज्ञाननैव त्रिवर्गार्थत्वम् । अपृथक्त्वरूपसायुज्यरहस्य प्रणवेन स्फुटं बोध्यते । असन्देहाभ्यासं भगवदुपलम्भस्थलम् । ओङ्कारे भगवान्निःसन्देहमनध्यासमीक्ष्यते । तथाऽत्र तदभिन्ने रह्ने । ‘परस्य ब्रह्मणो रूपं शेषित्वं स्फुटमीक्ष्यते । ‘स्फुटशब्दस्य विवरणमसन्देहाध्यासमिति । स्थलशब्रेन क्षेत्रत्वद्योतनमपि । अतस्मिन् तद्बुद्धिरध्यासः । अत्र रङ्गे दृश्यमानः पुरुषो भगवानेव । नेदं प्रतीकेऽब्रह्मणि ब्रह्मदर्शनम् ; किंतु ब्रह्मण्येव ब्रह्मबुद्धिः, अग्नावमिवुद्धिरिव । योषित्यमिवुद्धिरध्यासमूला स्यात् । इदं बोध्यतेऽनध्यासेति । अमी प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्धिशरणम् । अमी वयं श्रीरङ्गे भगवत एव स्फुटाभिव्यक्तिस्थानमिति श्रद्दध्महे । प्रतीमः प्रत्ययं विश्वास कुनैः । श्रतिशतसमानर्थि । उपनिषदो भगवन्तमतिसमीपे प्रदशयन्ति । ततोऽपि समीपे प्रदर्शयितृ इदं शरणम् । ऋद्धिश्च समीपप्रदर्शयितृत्वरूपमहिमा । शरणं गृहं मन्दिरम् । इदं शरणमज्ञानामस्माकम् । श्रुतयः सर्वा अप्योङ्काख्याता ओङ्कारान्तर्गताश्च । ६२ श्रीरङ्गराजस्तवः । अपि फणिपतिभावाच्छु भ्रमन्तःशयाली मरकतसुकुमारै रङ्ग भर्तुर्मयूखैः । सकलजलधिपानश्यामजीमूत जैत पुलकयति विमानं पावनं लोचने नः ॥ ४५ ॥ भगवन्तं स्फुटमभिव्यक्ति विमानमित्युक्तम् । सत्त्वस्य प्रकाशकत्वम् । भास्वरं शुक्लं सत्त्वन् । इदं तु विमानं नीलं भासते । कथमस्य सत्त्वत्वम् भगवत्प्रकाशकत्वं वेति शङ्कायां उच्यते । " फणिपतिभावाच्छुभ्रमपि । फणिपतिः शुभ्रः । तद्भावाच्छुभ्रमेवेदम् । तथाऽपि नीलीभवत्यन्तः शयान भगवन्मयूखैः । स्वतः सत्त्व मयत्वाच्छुभ्रम् । अन्तःशयालोर्मरकतसुकुमारै रङ्गभर्तुर्मयूखैः । शशिवर्ण इति वयेते भगवान् प्रसिद्धे सर्वैः प्रत्यहं पठ्ने ‘शुकाम्बरधरं विष्णुम्’ इति ध्यान श्लेोके । स च श्लोकः शिवरहस्यस्थ इति दीक्षिताः । श्वेतवर्णत्वं भगवद्विग्रहस्य स्वाभाविकम् । तथाऽपि धनकरुणारसौघभरितत्वात् तस्य मेघवनीलत्वमिति तैरुच्यते । अत्र शुभ्रा विमानमन्तः स्थमरकत भूधरनीलमयूवर्जीमूतनीलं भवति । सुकुमारैरिति मयूखानां विशेषणं नयनयोः पुलकसम्पादनेन सप्रयेोजनं भवति । सकलजलधिपानश्याम जीमूतजैलम् । धनकरुणारसौषमरितभगवन्नीलिमप्रयुक्तश्यामकान्तिः सकलजलाधिपानेन श्यामतमं जीमूतमध्यतिशेते । पावनं विमानम् । नलिकान्तिशवलवेऽपि शुद्धसत्त्वमयं शुद्धम् । मी लोचने पुलकयति । लोचने सजातपुलके करोति । नीलि मा, शैत्यम्; सौकुमार्यमिति सर्व नेत्ररक्षकम् । सुकुपारा नीलरश्मयो नेश्रयोः संयुज्य पुलकमुत्पादयन्ति । सुकुमारत्वं विना कथं नेत्रयोः सुखसंयोगः । श्रीरङ्गराजस्तवः । ६३ व्यापिरूपमपि गोष्पदयित्वा भक्तवत्सलतयोज्झितवेलम् । तद्विषन्तपनृकेसरिरूपं गोपुरोपरि विजृम्भितमीडे ॥ ४६ ॥ मध्यस्थं विमानं दूरादनुभूतम् । इदानीं श्रीनृसिहरू ५मनुभूयते । ‘दिविस्पृशत्कायम् -’ इति श्रीनृसिह्मावताररूपस्य निरतिशयव्यापित्वं प्रसिद्धम् । उज्झितबेल बेलातीतमपरिमितं तद्वयं स्वभावतः । उज्झितवेलत्वोक्त्या तद्रूपस्य वारिवित्वं बोध्यते । उज्झितवेलोऽयं वारिधेः । एतमुशितलं वारिधिं गोष्पदीकृत्य । भक्तवत्सलतयाऽस्माभिः सुग्रहत्वाय । उज्झितवेलम् । स्वभावतो मर्यादातीतमनन्तमपारम् । व्यापिरूपमपि । विष्वख्याप्तमपि । निरतिशयबृहन्मूर्ति । भक्तवत्सलतया गोष्पदयित्वा । प्रह्लादार्मकार्थमवतरन्नृसिंहो वात्सल्यैकनिधिः । अर्भकविषयकृपाया वात्सल्यशब्देन निर्देशः । अच्युतस्यास्यावतारनिमित्तभूतं वात्सल्य न कदापि च्यवते । अस्मानु वात्सल्येनात्मनो निरतिशयं वृहद्रूपं गोष्पदवदलीय । तत् । अवतारकालिकवृहद्रूपपरामर्शः । द्विपन्तमनृकेसरिरूपम् । प्रवलशत्रविषयः क्रोध अवतारकाल द्विषन्तं तद्रूपं भषिणमतिवृहत् । ‘विनाशाय च दुष्कृताम्’ इति शत्रुविनाशोऽप्यभिप्रेतः । ततस्तस्य रूपस्य वृहत्त्व भीषणत्वादि । अत्र परिवाणाय साधूनाम्’ इति भक्तवत्सलतामात्रनस्माकं स्वतनुविवरणे प्रयोजकम् । तदर्थं भूम्नोऽल्पभूमिकापरिग्रहः । भक्तवत्सलतयेत्यवधारणगर्भम् । तेन चराव्दोक्तदुष्कृद्विनाशो व्यावर्त्यते । गोपुरोपरि विजृम्भितम् । न स्तम्भं निर्मिव । किं तु गोपुरो परि विजृम्भितम् । विजृम्भणं चोतरल के वर्णते । ६४. श्रीरङ्गराजस्तवः । ईडे । ‘हरिमीडे’ इति श्रीशङ्कराचार्यकृतं स्तोत्रम् । श्रीशङ्करा चार्यो नृसिंहभक्तः । हरिः सिंहः । सिंहविषये ‘ईडे’ इति प्रयोगश्चारुतरः । अहमलमवलम्बः सीदनामित्यजत्रं निवस दुपारभागे गोपुरं रङ्गधाम्नः । वचन नृपरिपाटीवासितं कापि सिंह क्रमसुरभितमेकं ज्योतिरमे चकास्ति ४७ ॥ विमानमन्तर्ज्योतिः श्रीरङ्गधःमा । गोपुरोपरि जृम्भमाणमिदं नृसिंहज्येोतिः । द्वार एव गोपुरोपरि दृश्यत इदं तेजः । ततो धनकरुणारसौधभरितादपि रङ्गमहसो विमानान्तज्योतिषोऽस्याधिकं वात्सल्यम् । सीदताम् । दीनानाथानां तापत्रयव्यथितानाम् । उपसदनमपि मास्तु । सदनमेवालं मत्कृपालब्धय इति व्यज्यते । मोपसीदन्तु । सीदन्तु केवलम् । तदेवालम् । अद्दमलमवलम्बः । अहं पर्याप्तमवलम्बनम् । ‘हस्तावलम्बनं को भक्तिक्रीतो जनार्दनः’ इति प्रमाणवचनप्रत्यभिज्ञापनमिवावलम्बनपदाचलम्बनेन । नात्र भक्त्या क्रयापेक्षेति वैजात्यमपि । ‘लक्ष्मीनृसिंह मम देहि करावलम्बम्’ इति श्रीशङ्करानुभवोऽपि स्मार्यतेऽवलम्बशब्देन । प्रार्थनां विनाऽप्यहं सज्जो रक्षितुम् । इति । एवं वदन्निव । अजस्रम् । न क्षणकालं यथा सन्ध्यायां महासुरसभायाम् । रङ्गधानः । यथा रङ्गराजस्य विमानं धाम गृहं भवति, तथाऽ Sस्य नृसिंहस्य गोपुरोपरिभागो धाम निवासस्थानं भवति रङ्गनिवासिनः । उभयास्तेजसोर्निवासवत्त्वमुच्यते । गोपुरोपरिभागे । न स्तम्भमध्ये, सभामध्ये वा । निवसत् । धामवत् । श्रीरङ्गराजस्तवः । ६५ वचन नृपरिपाटीवासितम् । ‘भारूपः सर्वगन्धः’ इत्युक्तं वेलातोतपरिमलमिद ज्योतिः । वासितमिति हृदये वासनारूपसंस्काराधानमपि द्योत्यत इव । महापुरुषस्य पुरुषोत्तमस्य सुपरिमलवत्त्वं सहजम् । क्वापि सिंहक्रम सुरभितम् । मृगराजस्य परिमलवत्त्वं स्यात् । अस्य ब्रह्मसिंहस्य परिमलवत्त्वं निःसंशयम् । मद्धृदयगुहायां निवसेदयं सिंहस्तत्र सौरभ्यमादधीतेति मनोरथ इव । एकं ज्योतिः । अखण्डमेकमिदं ज्योतिः । यद्यपि स्तम्भः खण्डितः; यद्यपि स्वतनुरपि नरत्वसिंहत्वाभ्यां खण्डितेव स्वरूपमखण्डमेव । अग्रे । नान्तः । चकास्ति । स्वां तनुं स्वयं विवृणुते । संशोध्य पावनमनोहरदृष्टिपातै देवाय मामपि निवेदयतां गुरूणाम् । सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षा पंक्ति प्रपद्य परितः परितो भवेयम् ॥ ४८ ॥ भगवज्ज्योतिर चकास्तीत्युक्तम् । न साक्षात् तदाश्रयणीयं भवेत् । तस्मै निवेदनीया वयं घटकैर्गुरुभिः । संशोध्य च निवेदनीयाः । तदैव वयं तस्मा अन्नं भोग्यं भवेम । निवेदनं च शुद्धस्य भोग्यस्य स्यात् । संशोध्य निवेदनमुच्यते । अस्य भगवतः । अस्य ज्योतिषः । ज्योतिषि प्रत्यग्रूपहविष ऋत्विग्निहोंम उचितः । एतदुच्यते देवायेति । सव्योत्तरे । ‘ब्रह्म दक्षिणतो ब्रह्मात्तरतः’ इतिवत् गुरवो ब्रह्मज्योतिः परितो निषण्णाः । मामपि अशुद्धमपि माम् । ‘निवेदयत माम् -’ इति विभीषणोक्तिः स्मार्वते । अपीति तत्राभिप्रेतार्थविवरणम् । 9 Sr ६६ थोरङ्गराजस्तवः । पावनमनोहरदृष्टिपातैः । अशुद्धं मनो हियते विषयेभ्यः । भगयति च लयमेष्यति । अस्मदृष्टेषु पतनात् पूर्वमेव तेषां दृष्टयोऽस्मासु पतन्ति । पावनत्वं रमणीयत्वं च । ‘ते पुनन्त्युरुकालेन दर्शनादेव साधवः’ इत्यस्मद्दर्शनमात्रेणास्मान् सद्यः पुनन्ति । तदृष्टिपतनेन पावयितृत्वं सिद्धमैच । शक्तिनिपातः, दृष्टिनिपात इति गुरुवीक्षणमहिमा वण्यते कुत्रचित् । संशोध्य । सम्यनिर्मल।कृय । परीक्ष्य विविधापायैरिति न परीक्षादिकरणम् । संशोध्येति परीक्ष्येत्यपि स्यात् । तदपि स्मार्थत इव तव्यावर्त्य सौलभ्यप्रदर्शनार्थम् । अशुद्धमपि मां संशोध्य । देवाय । ‘तं देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ इति प्रपत्तव्यत्वं देवस्य । देवशब्देन श्रुतिस्मारणमिव । निवेदयताम् । समर्पयतां हविरिव । आत्मद्रव्यकयागो ज्ञानयज्ञः । आत्मयाजिनो गुरवः । गुरुणाम् । हृदयगुहान्धकारनिरोधिनाम् । कटाक्षवीक्षापंक्तिम् । ‘गुरुपंक्तिमहं प्रपद्ये’ इतिवन्न गुरुपंक्तिप्रपदनम् । किं तु गुरुवीक्षापंक्तिप्रपदनम् । तद्वीक्षणैर्निवेदनं भवति । ‘दिशि दिशि निपतद्भिर्देशिकैर्नीयमाना भगवदनुकम्पा ’ । परितः प्रपद्य । सम्यगुपपद्य । समाश्रित्य । ‘परिप्रश्नेन’ ‘परिपत्रच्छ’ इतिवत् गुरुविषयं परितः प्रपदनम् । परितो भवेयम् । परितः प्रपदनस्य परितो भवनं फलम् । न भवनमात्रम् । ‘तं सर्वगं सर्वतः प्राप्य धीराः कृतात्मानः सर्वमेवाविशन्ति’ इत्यादिकं भाव्यम् । परितः परितः प्रपद्य भवेयम् ; सत्तां लभेय इति वा ॥ श्रीरङ्गराजकरन म्रितशाखिकाभ्यां लक्ष्म्या वहस्तकलितश्रवणावतंसम् ।श्रीरङ्गराजस्तवः । पुन्नागतल्लजमजस्रसहस्रगीति. से कोत्थादिव्यनिज सौरभमामनामः ॥ ४९ ॥ ६७ परितो भवनं वण्यते । अश्वत्थः सोमसवन इति परमपदे । अत्र पुन्नागो वयते । नाश्वत्थः कुसुमदः । अयं तु लक्ष्मी कर्णावतंसकुसुमदः । तत्त्राश्वत्थसमीपे ‘अह्मन्नमहमन्नम् इत्यादिमुक्त गीतिर्भवेत् । अत द्राविडप्रबन्धसहस्रगीतिर्भवति । तङ्गीत्याईरसेन सिच्यते । श्रीरङ्गराजकरनत्रितशाखिकाभ्यः । तुङ्गस्तनभरनता लक्ष्मीः । भगवदपेक्षयौन्नत्यं न्यूनमेव च स्यात् स्वभावतः । तस्या हस्तस्पर्शे जाते महदोहदं कृतं स्यात् वृक्षस्य । यदि रङ्गराजः स्वयमेव कुयुममपचिनुयात्तस्याः करस्पर्शो न स्यात् । इदानीं द्वयोरपि करस्पर्शो भवति । अतः स्वकरेण शाखां नम्रयति, साऽपि तां स्पृष्टवा पुष्पमपचिनुयादिति । ‘प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः’ इति भगवत्करस्पर्शनास्त्येव प्रीतिर्वृक्षस्य । द्विगुणा प्रीतिरुभयोः करस्पर्शे । लक्ष्म्या । तस्याः करस्पर्शो भवेत्पुष्पावचये । गन्धद्वारायास्तस्याः करस्पर्शेन दिव्यपरिमलावानं स्यात् । स्वहस्तकलितावतंसम् । स्वहस्तविशेषणं स्वहस्तापचितत्वमपि द्योतयति । न सैरन्ध्रया कलितोऽवतंसः । खहतेन कलितत्वं बहुमानभूयतां द्योतयति । भगवन्नमितशाखापचितकुसुमम् । गाथाश्रवणभाग्यवत् । अजस्र सहस्रगीति से कोत्यदिव्यनिजसौरभम् । सहस्रगीतिच श्रीशठकोपगाथासहस्री । तस्या आर्द्रता, रसमयता; परिमवत्ता च सुप्रसिद्वा । तद्रससेकेन बकुलसुमनोवासना धीयते । दिव्यानेजसोममिति गीतीनां निजं वकुलसौरमं स्यात् । विचित्रमिदं पुत्रागवृक्ष वकुलसौरमविशिष्ट इति । ६८ श्रीरङ्गराजस्तवः । पुन्नागतल्लजम् । पुन्नागजाता वयमेवोत्कृष्टतमः । कस्यापरस्येदृशं भाग्यम् । आमनामः । गाथासहस्रनामनन्त्यध्यापकाः । वयं पुन्नागतलजमामनामः । आम्नायरससिक्तमामनामः ॥ श्रीरङ्गचन्द्रमसामिन्दिरया विहतु विन्यस्य विश्वचिदचिन्नयनाधिकारम् । यो निर्वहत्य निशमंगुलिमुद्रयैव सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५० ॥ गाथासहस्रशुक्त्या कारिसुनुरप्युक्तः । ‘सेनापतेः पथि च कारिगृहेऽवतीर्णम् -’ इति सेनापत्यंशत्वमपि श्रीशठकोप सुरेर्गम्यते । इदानीं सेनापत्याश्रयणम् । गुरुपरम्परायां वकुलभूषणोपरि सेनेशः । श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं विन्यस्य । ‘अहं सर्वं करि प्यामि जाग्रतः स्वपतश्च ते । भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ॥ इतिवत्तौ भोगे विन्यस्य । इन्दिरया सह विहरणे विन्यस्य । तद्भरोऽ स्मिन् न्यस्यते । ईश्वरभरो गुरुषु न्यस्यते । तत्सन्निवेशितभर ईश्वरो निर्भरः । विश्वचिदचिन्नयनाधिकारम् । चिदचिन्नयनमीश्वरकृत्यम् । तन्निरुह्यते सेनेश्वरेण । अनिशम् । जाग्रतः स्वपतश्च मिथुनस्य । अंगुलिमुद्रयैव । युक्तमस्य गुरोरंगुलिमुद्रयैव शिष्यनयनम् । सेनान्यम् । सेनानायकस्याज्ञा यथावन्निर्वर्तनीयाः । तद्भञ्जने सयो महान् दण्डः । तथैव गुरोराज्ञा न भञ्जनीयाः । अन्यविमुखाः । विष्वक्सेना मुख्यं नोचितम् । विश्वक् खलु तत्य सेना व्याप्ताः । श्रीरङ्गराजस्तवः । ६९ तमशिश्रियाग । प्रथमं प्रणिपातः कृतः । अनन्तरं तस्य वृत्तत्वं कीर्त्यते ॥ सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् । श्रीपदलाक्षालाछित सेवाप्रांतल सद्दोलि विलासाम् ॥ ५१ ॥ आचार्यश्रयणानन्तरमाचार्यन्यिाश्रयणम् । सैन्यधुरीणप्राणसहायाम् । प्राणभूता प्राणसमा सहाया । अम्बाम् । सेनापतेः पत्नी । मम अम्बा । मातुर्गरीयस्याचार्यानी । ‘शरीरमेव मातापितरौ जनयतः ।’ सूत्रवतीम् । प्राणस्य वेदान्तग्रन्थेषु सुत्रत्वेन व्यवहारो दृष्टचरः । भर्तृप्राणाः सुलवती । प्राणसहाया सुतवती । श्रीपदलाशालाञ्छित सेवाप्रांतल सहोर्वलिविलासाम् । अस्था दोलतायां लक्ष्मीपदसेवाकाले तल्लाक्षालाच्छितं प्लोतमद्रिवस्त्रं लतालम्बिवएकलवद्विलसति । समस्तजनन्याः सेवानियुक्ता मदम्वा वेत्रवती ॥ विदधतु सुखं विष्वक्सेनस्य ते प्रथम भटाः करिमुखजयत्सेनौ कालाह्रसिंहमुखौ च नः । जगति भजतां तत्तत्प्रत्यूह तूलदवानला दिशि दिशि दिवारात्रं श्रीरङ्गपालनकर्मठाः ॥ ५२ ॥ पत्नी वन्दिता । सेनान्यो भटाः स्युः । चत्वारो भटाश्चतसृषु दिक्षु पालयन्ति । तेभ्यः शर्म प्रार्थयते । जगति भजताम् । भगवदुपासकानाम् । दिशि दिशि । एकैकेन प्रधानभटनैकैकस्यां दिशि पालनम् । दिवारात्रम् । सेनान्योऽनिशं पालनं भटेदिवारात्रं पालनेन सुकरं भवति । ७० श्रीरङ्गराजस्तवः । तत्तत्प्रत्यूहदवानलाः । विघ्नायुतं सहजं गोविन्दभक्तानाम् ; तद्भक्तिमाशंसमानानाम् । तद्विघ्नास्तूलीभवन्ति । एते च दवानला भवन्ति । श्रीरङ्गपालनकर्मठाः । अकर्मवश्या अप्येते कर्मठा भवन्ति । अ / निसाध्यं कर्म । तद्वत्त्वं व्यज्यते दवानलत्वेन । बहुव्रीह्याश्रयणेन तद्वत्त्वम् ॥ श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः । शरणमभिगताः स्मो यत्त्र रूपस्वरूप स्वगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३ ॥ विष्वक्सेनप्रदक्षिणं कुर्वंस्तत्प्राकारमध्यवर्तिगोपुरस्य पुरतो भगवदग्रेऽवस्थितबृहद्रूपं गरुत्मन्तमभिष्टौति । श्रुतिमयम् । वेदात्मा । यथा वेदो भगवन्तमस्मत्समीपं प्रापयति तथाऽयं वेदात्मा वाहनं भूत्वा तमस्मत्समीपमानयति । वह प्रापणे । श्रुतिमयः सर्पः पर्यङ्कः । श्रुतिमयो गरुडो वाहनम् । अतिद्दर्षप्रश्रयस्मेरवक्त्रम् । हृष्टं प्रसन्नं स्मरं मुखम् सदा भगव द्दतचक्षुषः । रङ्गधाम्नः अग्रे । यद्यप्ययं धाम तेजोमयः, अयमनेनैव प्रकाश्येत । मणिमुकुरमिव मङ्गलम् । मणिदर्पणस्य माङ्गलिकत्वम् । तदर्थं तस्य मुखाग्रेऽवस्थापनं सहजम् । श्रुतिर्भगवतो मणिदर्पणो भवति । ‘महति मुहुरामृष्टे मनौ मणिदर्पणे’ इति भगवन्मन्त्रविषयेऽनुभवः । न श्रुतिसमानं विशदप्रकाशकं भगवत्स्वरूपस्य । यत्र । मणिमुकुरे । रङ्गशायी । शयानः पुरुषोऽग्रे मुकुरमवस्थाप्य शयीत प्रभाते मङ्गलं तं द्रष्टुम् । पूर्वं रङ्गधमेति । अत्र रङ्गशायीति 1 रूप स्वरूपखगुणमहिमदर्शी । खरूपरूपगुणविभूतितयति क्रमः । श्रीरङ्गराजस्तवः । ७१ अत्र रूपस्य प्रथमं निवेशनम् । ‘मूर्त ब्रह्म ततोऽपि तत्रियतरं रूपं यदत्यद्भुतम्’ इति रूपस्य स्वरूपादपि प्रियतरत्वमनुसृत्य । नीरूपस्वरूपापेक्षया विग्रहस्य विम्वितत्वं सुलभम्। अनन्तरं स्वरूपस्य । अनन्तरं तद्गुणानां तेषामद्रव्यत्वात् । मोदते । ‘तेनैव सह मोदते’ इति प्रमाणवचनं स्मार्यते ॥ तार्क्ष्यपक्षतिवदस्य वल्लभां रुद्रया सह सुकीर्तिमर्चये । हर्षवाष्पमपि कीर्तिमर्थिनां यन्मुखेन कमला कटाक्षयेत् ॥ ५४ ॥ गरुडपल्यो वन्द्येते । पक्षौ प्राणसमौ पक्षिणः । आनन्दमयपक्षिणः ‘मोदो दक्षिणः पक्षः’ ‘प्रमोद उत्तरः पक्षः’ । ‘अलिखच्चञ्चुपुटेन पक्षती’ इति नैषये । पक्षमूल पक्षतिः । वानरस्य वालवत् पक्षतिर्वलमा पक्षिणः । ‘चुचुम्ब पुच्छम्’ । पक्षतिसंख्या पत्नीसंख्यासमाना । एवंविधरूपविविधचेष्टितहतहृदयान्सानन्दवाप्पान् कुर्वन् रोदयतीति रुद्र’ इति रुद्रनामनिर्वचनं सहस्रनामभाव्ये । पक्षबद्बलमे इमे पल्यौ । कमला एतद्द्वाराऽर्थिनामानन्दचाप्पम् ; कोर्ति च कटाक्षयत्यनुगृह्णाति । रुद्रयानन्दवाप्पम् ; सुकीत्यी कीर्ति च । रुद्रा भक्तेषु न दुःखाश्रमती; किं त्यानन्दाश्रमती, तत्प्रवाहयित्री च ॥ स्वास्त्र रूपस्फुरन्मौलि मा शब्द इत्युद्धनानां सुरांस्तर्जनीमुद्रया । नाथनिद्राचितांनिद्रता प्रेक्षणां सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५ ॥ भक्तानामानन्दवाप्पप्रवाह यत्नी रुद्रा देवी नता । विरोधिनां दुःखाश्रप्रवर्त यित्री पञ्चायुधी प्रणम्यते । ७२ श्रीरङ्गराजस्तवः । स्वास्त्ररूपस्फुरन्मौलि । स्वेपामस्त्रत्वं यथा स्वशिरसि भासते तथाऽवस्थितिः । स्फुरन्मौलि यथातथा । माशब्द इत्युज्जुनानां सुरांस्तर्जनीमुद्रया । सेवार्थमायातान् ब्रह्मादीन् ‘शब्दं मा कुरुत’ इति तर्जनीमुद्रयैव प्रतिषेधति । मौनेनैव मुद्रामालेण तर्जनं; भगवन्निद्राया अभङ्गाय । नाथनिद्रोचितांन्निद्र ताम्रेक्षणाम् । स्वामिनि निद्राणे आयुधैरुनिद्रैर्भाव्यम् । उन्निद्राणि निर्निमेषाणि ताम्राणीक्षणानि । प्रजागररक्तानि कोपरक्तानि । सञ्चरन्तीं पञ्चायुधीम् । नाथे निद्राणे तमभितः सञ्चरन्ति तद्रक्षायै ॥ अस्त्रग्रामाग्रेसरं नाथवीक्षा सिन्धुक्षीबोद्वेलनृत्ताभिरामम् । चक्रं दैत्यच्छेद कल्माषिताङ्गं भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६ ॥ पञ्चायुधीनता समुदायेन । श्रीसुदर्शनस्य मुख्यत्वम् । तस्य च पार्थक्येनास्त्यायतनं श्रीरङ्गे । पृथक्प्रपद्यते । अस्त्रग्रामाग्रेसरम् । ‘अस्त्रग्रामविधौ कृती’ इति वेण्यां कर्णः । न केवलं संग्राम/ग्रेसरत्वम् । तत्तुल्यं पञ्चानामप्यायुधानाम् । तेप्यग्रेसर त्वमस्य । नाथवीक्षासिन्धुक्षीवोद्वेलनृत्ताभिरामम् । निग्रहशक्तिरुक्ता । अनुग्रहश तिरुच्यते । दुष्टनिरसनमुक्तम् । साधुपरित्राणमुच्यते । सिन्धुप्रियो नाथः । स्वयं च दयासिन्धुः । दयासिन्धुत्वं च वीक्षासिन्धुना भवति । वीक्षासिन्धावुद्वेलदयोतरङ्गताण्डवं भवति । तत्ताण्डवेऽतिवेगयुक्तावर्तचक्रं भवति । तदेवेदं चक्रमित्यत्रोत्प्रेक्षा । अस्यावर्तस्य न भीष श्रीरङ्गराजस्तवः । ७३ त्वम् किं त्वभिरामत्वमभिगम्यत्वम् । अभिगम्योऽयं सिन्ध्वावर्तः । अभिगम्यो रत्नैरर्णवः । क्षीयत्वमुन्मत्तत्वम् । क्षीयत्वमुलत्वं चोद्धतताण्डवनर्तनलक्षणम् । चक्रम् । चक्राकारोपपादनं कृतं द्वितीयविशेषणेन । इदानीं नाम ग्रहणं चक्रमिति । दैत्यच्छेइकल्मापिताङ्गम् । ‘चक्रं तच्चक्रपाणेदितिजतनुगलद्रक्तधाराक्तधारम्’ इति श्रीशङ्करानुभवः । तत्र दितिजेति । अत्र दैत्येति । अत्र च्छेद उच्यते । तत्र गलद्रक्तधारा उक्ताः । तदुक्तिर्बीभत्सरसमुत्पादयेत् । अनुग्रहशक्तिवर्णनमत्र प्रायः । ततश्छेमुक्त्वा कल्माषितत्वमात्रमुच्यते । न सद्या गलदाद्वरुधिरधारा वयन्ते । स्वभृत्यसुरप्रतिभटरक्षोऽसुरशेोणित कल्माषितज्वालाञ्चितं चक्रमस्येति । भ्राम्यज्ज्वालामालभारि । ताण्डव स्योन्मत्तत्वमुक्तम् । ज्वालाभ्रमणमुच्यते । प्रपत्तव्यत्वस्य भारवत्त्वं भारवहनशीलत्वमनुकूलम् । ताच्छील्ये णिनिः । प्रपद्ये । मद्रक्षणभरं न्यस्यामि । सुदर्शनश्च विष्णो रक्षणसन्नाह रूपतत्त्वम् ॥ हनुभूपविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य । रघुनायकनिष्क्रयभूतं भुवि रङ्कधनं रमयेत ॥ ५७ ॥ पञ्चायुध्यनुभवो वृत्तः । तत्कायकरावनुभूयेते । ‘एप सर्वायुधेपितः’ इति भगवद्रक्षार्थं सर्वायुधोपेतो विभीषणोऽनुभूयते । वाहनभूतविहगेश्वरोऽनुभूतः । तदधिकारभाग्घनुभूपोऽनुभूयते । आयुधा देवा अनुभूताः । इदानीं रक्षा भूतवानरराक्षसानुभवः । हनुभूपविभीषणयोः स्याम् । तयोरेवाहं भूयासम् । ‘दासोऽहं 10 Sr ७४ श्रीरङ्गराजस्तवः । कोसलेन्द्रस्य – ’ इति प्रथमस्य रामदासत्वं प्रथमनिरूपकन् । अनन्तरमेव ‘हमिति स्वप्रत्यक्त्वप्रतीतिः । न स इन्द्रप्रेषितः ; यथा शत्रुणा शङ्कितः । किं तु कोसलेन्द्रप्रेषितः । तादृशस्य राघवदासस्य दासोऽहं भूयासम् । एतयोरुभयोरन्यतरोऽहं स्यामिति वा मनोरथः । अनयोरन्यतरस्य दास्यरीतिर्मया ईप्स्यते । यथा असंख्येषु भगवद्भक्तेष्विमौ यतमाविति निर्दिश्यते; तथाऽहमनयोरन्यतरः स्याम् । ‘दुर्लभो मानुषो देहः’ इति दुर्लभे लब्धे मानुषदेहेऽनादरः । मास्तु मानुष्यम् । वानरो वा भूयासम् ; राक्षसो वा भूयासम् । अहमनयोरन्यतरो भवेयम् । यतमाविह मोक्षमुपेक्ष्य । वयं मोक्षमेपक्ष्य मोक्षार्थं श्रीरङ्गे निवसामः । इमौ तु करस्थं सिद्धं परमपुरुषार्थमुपेक्ष्यात्र निवसतः । परमपुरुषाथदपि परमत्वबुद्धिरनयो रङ्गधनानुभवे । रघुनायकनिष्क्रयभूतम् । रघुनायकस्य प्रतिभूः श्रीरङ्गधामा । यद्यपि रघुनायकोऽनयोर्नायकः, एतद्भक्तिक्रीतः सः अनयोर्विक्रयाहों भवतीति व्यज्यते नायकशब्देन क्रयशब्दोपादानेन च । दासो विक्रययोग्यः । अत्र नायको विक्रीयते । नायकशब्देन नायकरलत्वद्योतनमपि विक्रेयत्वोपपादनाय । रामरत्नं विक्रीयते । रङ्गधनं रङ्गरलं च क्रीयते । रामाराध्यं रामकुलधनं रङ्गधनं रामादधिकार्धम् । भुवि । राघवस्य सदृशः प्रतिभूः परमपदे स्यात् । भुवि तत्प्रतिभूः श्रीरङ्गधामैव । चतुराविमावल्पं दत्वाऽधिकं क्रीणीतः । आराधकं विक्रीयाराध्यं क्रीणीतः । रङ्गधनम् । धनार्थं विक्रयः स्वरसः । बहुभिः प्रकारैरस्य धनवं चारु निरूप्यते । ‘धनञ्जयविवर्धनं धनमुदृढगोवर्धनं सुसाधनमबाधनं सुमनसां समाराधनम्’ इति वैराग्यपञ्चके । रमयेते । धमेन रमेरञ्जनाः । धनं रमयेते इमौ । ‘एष ह्येवानन्द श्रीरङ्गराजस्तवः । बाति’ इति प्रसिद्धं सर्वानन्द हेतु भूत मानन्दमयमानन्दयतः ॥ इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् । औपाधिकेभ्यां निरुपाधिभोग्ये प्रत्याहरद्वेतवरं भजामि ॥ ५८ ॥ ७५ अन्तज्योतिर्विदृक्षितं रङ्गमहः । आवृतचक्षुषा दृश्येतान्तरं प्रत्यग्ज्येोतिः । न पराक्चक्षुषा । प्रत्याहारदृश्यमिदम् । इतो बहिः पञ्च पराञ्चि खानि । ‘पराश्चि खानि व्यतृणत् खयम्भूतस्मात् परापश्यति नान्तरात्मन्’ इति श्रुतिः प्रत्यभिज्ञाप्यते परांचि खानीति श्रुतिखण्डोपादानेन । श्रुतौ पञ्चति नोक्तम् । कर्मेन्द्रियाणां प्रत्यङ्मुखत्वासम्भवाज्ज्ञानेन्द्रियमात्र तात्पर्यकत्वं श्रौतस्य खशब्दस्येति पञ्चसंख्याग्रहणेन बोध्यते । 6 प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् । इत्थमिति वेवस्य पुरः प श्चाच्चलनप्रकारानुवादः । पश्चाच्चनेनान्तरावृत्तिर्नियम्यत इव । औपाधिकेभ्यः । अन्याधीनभोग्यत्वेभ्यः । औपाधिकमोस्येभ्यः । न खतो भोग्यत्वं विषयाणाम् । भगवत्सङ्कल्पादेव तेषां भोग्यम् । ‘आत्मनस्तु कामाय सर्वं प्रियं भवति । निरुपाधिभोग्ये । अनन्याधीनभोग्यत्वं ब्रह्मणः । स्वत आनन्दत्वं तस्य । प्रत्याहरद्वेलवरम् । प्रतिहारभूमिस्थितो वेत्रदण्डी इन्द्रियप्रत्याहारं नियमयति । भजामि । भयेन निरन्तरस्मरणम् । तद्भयेन प्रत्याहियन्त खानि बहिर्विषयेभ्यः ॥ शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् । आलम्बमिवामा स्तम्भद्वयमन्तरमभियामः ॥ ५९ ॥ ७६ श्रीरङ्गराजस्तवः । प्रत्याहारे कृते, प्रत्याहृतेष्विन्द्रियेषु ‘कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ इत्युक्तरीत्या प्रत्यगात्मदर्शनं लभ्येत । अस्मिन्नाश्रितजने कटाक्षाः पतन्ति । कटाक्षा अमृतनदीप्रवाहत्वेनातिवेगं निर्गच्छन्ति । तत्प्रवाहवेगेन मज्जिता अवलम्बं मृगयामहे । तत्प्रवाहमध्यवत्यन्तरङ्गलेऽवलम्बो ऽपेक्ष्यते । स्तम्भद्वयं चावलम्बीभवति । अन्तर्हृदयेन्द्रियाणामन्तरङ्गाणामस्माकमन्तरङ्गौ आमोदस्तम्भाववलम्बनं भवतः । अन्तश्चक्षुषामन्तरङ्गोऽवलम्ब उचितः । शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् । अमृतत्वप्रवाहे मज्जयित्रीयममृनसरित् । श्रतिस्थामृतत्वशब्दप्रत्यभिज्ञापनमिवामृतनदीशब्देन । दयासरिद्वेगाकुलिता लोलायिताश्च वयम् । आमोदस्तम्भद्वषम् । अतिवेगेन कस्मात्स्तम्भात् भ्रंशे स्तम्भान्तरम स्त्यवलम्बनाय । अन्तरङ्गमालम्वमिव । (स्थितम्) अभियामः । अभिगच्छामः । अभिगमनशब्दः प्रतिपत्तिविशेषद्योतकः ॥ श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीत द्रम्य जामातृगर्भम् । पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६० ॥ प्रत्याहृत करणानामन्तर्दृष्टीनामन्तर्मन्दिरमन्तमणिक्यगर्भोन्मीलिता मञ्जूषेवाभाति । श्रीरङ्गान्तर्मन्दिरम् । गर्भगृहमिति प्रख्यातम् । दीप्रशेषम् । बद्धरतैः शिरोभिर्दीप्रो जाज्वल्यमानः शेषः । तेन दीप्रमुज्ज्वलम् । श्रीभूमीत द्रम्यजामातृगर्भम् । अन्तर्मन्दिरं गर्भगृहमित्युक्तम् । किं तद्गर्भ इति पृष्ठे उच्यते स्त्रीरत्नादिगर्भमिति । श्रीर्नारीणामुत्तमा वधूर्जगन्माता सर्वाश्रयभूता । भूमिर्विश्वम्भरा या विश्रं स्वगर्भे धत्ते । साऽस्य गर्भ इत्य-श्रीरङ्गराजस्तवः । ७७ द्भुतरसानुभवः । रम्यजामाता रङ्गराजः प्रसिद्धस्तत्पदार्थः । स च रम्यजामाता च तद्रभ्यजामाता । यद्वा यथा जना एनं जामातृबुद्धयाऽनुभवन्ति मैथिलजनवत्तथेमे पल्यावपि जामातृत्वेनानुभवन्ति । वध्योः खलु वरः । जामातृवदाद्रियते वधूभ्यां विष्णुः । विष्णुः खलु जामाता । जामाता विष्णुवत् पूज्यः । तद्रम्यजामतिति श्रीभूम्यो रम्यजामाता । तस्य तज्जामातृत्वानुपपत्तौ जामातृचदादरणीयत्वमात्रं लक्ष्यते । आदरस्य निरतिशयत्वद्ये । तने तात्पर्यम् । नित्यवधूवरगर्भमिदं मन्दिरम् । नित्यकल्याणवत्त्वं व्यज्यते । यथा प्रणवो वधूवरगर्भस्तथा प्रणवविमानम् । उन्मीलितायाः श्रीदिव्य माणिक्य भूपामञ्जूषायाः । न केवलं दिव्यदम्पतिगर्भम् । कौस्तुभरत्नगर्भ च। तद्रले बिना प्रणयत्वं न स्यात् । दिव्यमाणिक्येति मकारथिभूतज्ञानमय स्वयंप्रकाशजीवरलग्रहणम् । मकारार्थसन्निकर्षीय मकारादिमाणिक्यनामग्रहणमिति विभाव्यम् । मकारार्थजीवसमुदाययोतनाय तद्रत्नमञ्जूषासादृश्यवर्णनम् । कस्या इयं मञ्जूषा ? श्रीदेव्या मञ्जूषेयम् । श्रियो मञ्जूषा । श्रीश्चेदवश्यं कोशमञ्जूषाद्यपेक्षा । रङ्गकोशः श्रियः कोशः । तस्मिन्कोशे नायकरत्नम् श्रीः रत्नगभी वसुन्धरा ; जीवरलानि च सन्ति । श्रियः कोशे श्रियोऽप्यवस्थितिरावश्यकी । रत्नपेटिकाया उद्घाटितकवाटत्व एवान्तः स्थितोत्तमरत्नदर्शनं स्यात् । प्रणवे त्रयाणामपि स्फुटं दर्शनम् । उन्मीलितत्वं स्फुटत्वोपपादकम् । परस्य ब्रह्मणो रूपं शेषित्वं स्फु टमीक्ष्यते । मञ्जूषायां मरकतमिवेत्यन्यत्र । पश्येम । दृशां प्रयोजन लगेमहि ॥ लीलालताकृपाणीभृङ्गारतगृहार्पित करायाः । लोतावर्तसितकुचाः पदाब्जसंवाहिनीर्वयं स्तुमहे ॥ ६१ ॥ पादाब्जसंवाहिन्यो वर्ण्यन्ते । तासां कराग्रेषु लता, कृपाणी; खर्णपात्रम्, कलाची च भवन्ति । लीलाशब्दः प्रत्येकमन्वेति । तत्कुचा अवतंसिताः । ७८ श्रीरङ्गराजस्तवः । अब्जसंवाहन योग्यतालाभाय लावतंसादिसाहचर्यवर्णनम् । मुकुलितनलिनाः सकौमुदीका इव सुनिशाविमलादिका नवापि । शिरसि कृतनमस्यदे कहस्ता इतरकरांञ्चलचामराः श्रयेयम् ॥ ६२ ॥ विमलादिका नव परिचारिकाः प्रणम्यन्ते । आनन्देनार्वनिमीलिते लेोचने तदुच्यते मुकुलितनलिना इति । परिचरणरूपसेवायां निरतिशयानन्दानुभवो व्यज्यते । श्रीरङ्गचन्द्रमसः सन्निधौ तन्नयनाब्जानि मुकुलितानि । नयनाब्जमुकुलने, पपादनं सकौमुदोका इति । सुनिशानान्नोऽन्वर्थत्वोपपादनं सकौ मुदीकाचवर्णनेन । कृतनमस्य दे कह स्तत्वमुकुलितनलिनत्वयोः उच्चलचामरत्वसकौमुदीकत्वयोश्च बिम्बप्रतिबिम्बभावः । शिरसि कृतनमस्यदेकहस्ता इतरक रोश्ञ्चलचामराः । एकहस्तकृताञ्जलिनिषेधो नात्र प्रसरेत् । अन्यस्य हस्तस्य कैङ्कर्यव्यापृतत्वात् । प्रवृत्तस्यानुज्ञाकर्यस्य प्राधान्यम् । बद्धाञ्जलिपुटा हृष्टाः सत्कुर्वत्य इमाश्चामरग्राहिण्यः । श्रयेयम् । भृत्याया भृत्यो भवेयम् ॥ उत्फुलपङ्कजतटाकमिवोपयानि श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः । लक्ष्मी विहारसिकामिव राजहंसी छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३ ॥ मध्यम श्लोकोऽयं पूर्वशतकस्य । अत्र श्रीमूमीसहित श्रीरङ्गराजस्य प्रथमदर्शनम् । दिव्यविग्रहस्य समुदायानुभवो नक्षत्रसंख्यैः श्लोकः । अनन्तरमामौले: आच पादादनुभवः । ‘एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम्’ इति ब्रह्मावगाहे आर्षः शीततानुभवः । शीतो हृदः पद्मवान् स्यात् । राजहंसी च तत्र विहरेत् । राजहंसभूतस्य रङ्गराजस्यैव तटाकत्वान्न हंसस्य पृथकीर्तनमिति रसिकै माध्यम् । अयमेव नाथ आरामश्य भवति नाययोः । 1 श्रीरङ्गराजस्तवः । ७९ मुकुलिताब्जनयनप्रस्तावः कृतः पूर्वश्लोके । अत्रोत्फुल्लपङ्कजवत्तटाकानुभवः । उत्फुल्लपङ्कजतटाकमिव । पुण्डरीको पमितस्वाक्षिणी, खमुखकरपादाब्जानि च पङ्कजानि श्रीरङ्गराजहदे । ‘भवातीनां वक्तामृतसरसि’ इति वक्त्रमात्रस्यामृतसरस्त्ववर्णनमुत्तरत्र । अत्र कृत्स्नविग्रहस्य पद्मिनीत्वानुभवः । ‘साभिप्रायस्मितविकसितम्’ इति प्रणयिजनाभिमुख्यवात्सल्यादिद्यातकमुत्फुल्लत्वं विकसितत्वम् । ’ उपयानि । अभिगम्यत्वेन भोग्यत्वेन सर्वतापहरत्वेनोपसीदेयम् । ; श्रीरङ्गराजमिह । स एव तटाकः । यदि राजहंस कोर्तनापेक्षा नामैकदेशे नामग्रहणमिति राजशब्देन राजहंसस्मारणं भवेत् । दक्षिणसव्यसीम्नोः । अयं तटाकः । अयमेव हंसः । अस्योभयपार्श्वयो हस्यौ । लक्ष्मीं विहाररसिकामिव राजहंसीम् । हंसमिथुनं विहरेत् । अत्र हंसीमिथुनं सपल मिथुनं नायकतटाके विहरति । । छायामिवाभ्युदयिनीमवनीं च तस्याः । कथमिदं सम्भवेत्सपत्न्योमिथो नाथतटाके विहरणमिति ? नानयोर्द्वधकरं सापत्न्यम् । किं तु छायाच्छायिनेोरिवाभेदवटितम् । लक्ष्म्याश्छाययं भूमिः । तद्विभूतिरियं तत्कान्तिप्रतिबिम्ब इव । यथा श्रीरङ्गराजस्य छाया प्रभा लक्ष्मीस्तथेयं तस्याश्छायेव । महानभ्युदयो हर्ष उत्सवो लक्ष्म्या इयम् । तस्या अवनी रक्षिकेयमिति तस्यामभिमानः । अलावनीशब्दो योगरूढः । तस्या अवनीति यौगिकार्यग्रहणेऽस्ति स्वारस्यम् ॥ पिय नयन पुरस्ते रङ्गधुर्याभिधानं स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् । श्रियमपि विहरन्तीं राजहंसीमिवास्मि न्प्रतिफलनमिवास्याः पश्य विश्वम्भरां च ॥ ६४ ॥ ८० श्रीरङ्गराजस्तवः । यद्यप्यत्र पूर्वश्लोकोक्तस्य पुनरुक्तिरिव । अभ्यासातिशयात् प्रथमानुभूतस्याभ्यासेनादरेण धारणं क्रियते । ‘आदराद लोपः । पुनरुक्तिरूपाभ्यासं विना न धारणादिसम्भवः । पूर्वमुपयानीति ब्रह्मतटाकसमीपगमनमादिष्टं स्वात्मानं प्रति वकुलभूषणप्रदर्शितमार्गमनुसृत्य । उपसदनं वृत्तम् । इदानीं दर्शनपानास्वादनाद्यादिश्यते । नयन । एकवचनोक्तिर्द्रष्टव्यविषयैक्यं नियमयतीव । द्रष्टव्यविषय द्वैधं माऽस्तु यद्यपि द्रष्टृणी द्वे लोचने । पिब । अस्मिंस्तटाकरूपाचीविग्रहे नावगाहनोक्तिसम्भवः । लोचनाभ्यां पानमेव सम्भवि । मुखेन जिह्वातात्वादिना मुख्य पानमसम्भवि । ‘लोचनाभ्यां पिवन्निव’ इति नयनयोः पानमादिश्यते । ‘त्वक् च दृक्च निपिपासति । ’ तृषार्तेन प्रथमं पानादेशनं क्रियते । तन्मात्रोक्तौ जिहादेस्तत्र प्रवृत्तिर्भवेत् ; तद्व्यावर्त्यते नयनसम्बोधनेन । 1 पुरस्ते रङ्गधुर्याभिधानम् । नायं रङ्गधुर्यः पुरुषः । किं त्वयं तटाकः । नाममात्रमस्य रङ्गचुर्येति । एवं निगीर्योक्तिः । स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् । स्थावरो निर्विकारः सदैकरूपरूपो वृद्धिद्वासरहितस्तटाकः । नात्र पद्मानां कदाचिदपि निमोलनम् । स्थितं परिफुल्लत्वमवत्यपुण्डरीकाणाम् । श्रियमपि विहरन्तीं राजहंसीमिवास्मिन् । पद्मिनीं रङ्गराजे पिबेत्यादेशः । श्रियं राजहंसीं तच्छायामवनिं च पश्येत्यादिश्यते । देवीविषये लोचनाभ्यां पानादेशो न न्याय्यः । अतो दर्शनमात्रमादिश्यते पश्येति । प्रतिफलनमिवास्याः पश्य विश्वम्भरां च । श्रियइच्छाया विश्वम्भरा चेको वा तस्या महिमा । रङ्गधुरन्धरो रङ्गधुर्यो नाथः । अस्याइछाया तु विश्वधुरन्धरा ॥ श्रीरङ्गराजस्तवः । सौशील्यशीतलमवेलकृपोत्तरङ्ग संप्लाविताखिलम कृत्रिमभूमिनिम्नम् । लक्ष्म्या व वासितमभूम विगाहमानाः श्रीरंगराजमिषपद्मसरः प्रसन्नम् ॥ ६५ ॥ ८१ यद्यपि वयं भीत्या श्रीरङ्गराजब्रह्मण्यवगाहनान्निवृत्ताः, परमोदारः सौशील्यभूमा सः स्वयं कृपातरङ्गैरस्मान्सम्प्लावयत्यवगाहयति । कृपाप्रवाहावगाहनं यद्यपि भवति, नास्मत्प्रयत्नेनास्मदिच्छया वा भवति । तद्व्यज्यते विगाहमाना अभूमित्युक्त्या । स्थितं तटाकमिवेत्युक्तम् । तेन तरङ्गाभावः प्रसज्येत । तद्याव त्र्त्यते उद्वेलतरङ्गवत्त्वकथनेन ॥ सौशील्यशीतलम् । शीतमिव हृदमित्युक्तम् । शैत्यं च सौशीस्यशीतवारिणेत्युच्यते । सौशील्यरसशीतोऽयं हृदः । प्रमाणोक्तं शैत्यमुपपाद्यते । अबेलकृपोत्तरङ्गसंलाविताखिलम् यद्यप्यहं दूरस्थितः वेलामुल्लंघ्य मामाष्प्लावयति । अकृत्रिमभूमिनिनम् । तटाकश्चेत्कुत्रिमनिम्नभूमौ स्यात् । कृत्रिमं खाजनिम्नप्रदेशे स्यात् । स्वयंव्यक्तमिदं सरः । लक्ष्म्या च वासितम् । ईशावासितं जगत् । लक्ष्म्या वासितमीशसरः । यथेशात्मकं जगत्तेन धार्यते, तथा लक्ष्मीधार्यो भगवान् । ‘न जीवेयं क्षणमा विना तामसितेक्षणाम् । ’ तया परिमलितमिदं पद्मसरः । सर्वगन्धस्यापीयं गन्धद्वारा दुराधर्षा । श्रीरङ्गराजमिषपद्मसरः । पद्मसरस्त्वमेव वास्तवम् । प्रसन्नम् । तच्च लक्ष्मीवासितत्वात् । इतरथा कलुषं भवेत् ॥ सिंहासने कमलया क्षमया च विश्वमेकातपत्रयितुमस्मद सूनिषण्णम् । लक्ष्मीस्वयंवरसनाथितयौवनश्री सौन्दर्यसम्पदवलिप्तमिवालिहानि ॥ ६६ ॥ 11 Sr ८२ श्रीरङ्गराजस्तवः । पिव नयनेति नयनयोरनुभवः । विगाहमाना इति त्वाचानुभवः । जिह्नानुभवः प्रदश्यत इवालिहानोति । श्रीरङ्गराजमिषपद्मसर इति राजत्वं न वास्तवम्, सरस्त्वं वास्तवमित्युक्तम् । सरोरूपकासिद्धयर्थमुक्तं तथा कविरीत्या । परमार्थेन तद्वचो न गृह्यतामित्युच्यते राजत्वसमर्थकसिंहासनावस्थित्यादिग्रहणेन । एकाधिपत्यं समर्थ्यते । । सिंहासने कमलया क्षमया च निषण्णम् । शेष एव सिंहासनं भवति । ‘शरीरभेदैस्तव शेषतां गतैर्यथोचितम् -’ इति तस्य सिंहासनभवनं प्रसिद्धम् । स एव शय्या । स एवासनम् । यथोचितं स्वाम्यभिमतानुसारेण तस्य शरीरभेदाः शेषतां गताः । ‘रामं रत्नमये पीठे सहसीतं न्यवेशयन् ।’ स्वयं व्यक्तः श्रीरङ्गनाथो न निवेशितः ; किंतु निषण्णः । श्रीरामावतारे भूम्याः श्वश्रत्वाभिमानादेकदारव्रतत्वाच्च सीतयैकया सहासनम् । बहुबल्लभा राजान इति श्रीरङ्गराजो बहुवल्लभः । ‘असूर्यमिव सूर्येण निवातमिव वायुना । कृष्णेन समुपतेन जहृषे भारतं पुरम् ॥’ इति सर्वासुनिलयः । । विश्वमेकातपत्त्रयितुम् । यदि क्षमैव पत्नी विश्वस्य तद्वशत्वे कः सन्देहः ? क्षमापठनानन्तरं विश्वादिपठनमेतत्सूचयतीव । अस्मदसून् । अस्मत्प्राणाः श्रीरङ्गराजः । सिंहासनारूढोऽस्मत्प्राणाः । भक्तान् पाण्डवान् ‘मम प्राणा हि पाण्डवाः’ इत्यन्वर्थप्रतीत्या प्राणत्वेनाभिमनुते भगवान् । कृते च प्रतिकर्तव्यम् । वयं तं प्राणत्वेनाभिमन्वीमहि । ‘प्राणा वै सत्यं तेषामेष सत्यम्’ ‘प्राणस्य प्राणः’ इति तस्य विश्वप्राणत्वं प्रसिद्धम् । अस्मत्प्राणाः सिंहासनाधिरूढाश्चेत् तद्भाग्यमस्माकमेवेति कः सन्देहः । अस्मदसवः खलु सिंहासने निषण्णा इत्यस्मत्परमानन्दो व्यज्यतेऽसमदसूनित्युक्त्या । ‘ययो वक्षःस्थलं हरेः’ इति लक्ष्मीस्वयंवरप्रकरणे । हरेरिति हरिनामग्रहणं तस्य लक्ष्मीमनोहरशोभावत्त्वं सूचयति । निरपेक्षमी श्रीरङ्गराजस्तवः । ८३ प्सितमिति तत्प्रकरणे शुकः । निरपेक्षो हरिरासीत् । तस्य निरपेक्षत्वादेवेप्सितो हरिर्लक्ष्म्या । तस्य सापेक्षत्वप्रदर्शने स्वयंवरत्वहानिः । लक्ष्म्या स्वयं वृतोऽयं हरिः । तां विनाऽस्य रङ्गनाथस्य यौवनश्रीरनाथा स्यादनुभावेव्यभावात्काननचन्द्रिकायत् । ’ नाथवन्तस्त्वया लोकास्त्वमनाथा विपद्यसे’ इतिबद्भवेत् । रङ्गनाथयौवनश्रियः श्रिया सनाधितत्वकथनेन तस्य नाथस्व नाथवत्त्वं भवेदिति द्योत्यते । यौवनमात्रग्रहणे तस्य नाथवत्त्ववर्णनास्वारस्यात् यौवनश्रीग्रहणम् । श्रिया सनाथीक्रियतेऽस्य यौवनश्रीः । सौन्दर्यसम्पदवलिप्तमिव सौन्दर्यसम्पदस्यावलेपनमिव भवति । यौवनस्य श्रियश्चावलेपरूपगर्वोन्मादादिजनकत्वं सहजम् । अवलिप्तमिति सौन्दर्य व लेपेनावलिप्तमित्यपि भावः । तेन चावलेहनाशा जायेत । मध्वायवलिप्तस्यावलेहनं सम्भवि । आलिहानि । आस्वादयेयम् । तथा च ममार्तिः शाम्येत् । स्वस्यातिनीचत्वानुसन्धानमपि भवेत् । ग्रामसिंहः सिंहासनस्थरङ्गयूनः सौन्दर्यश्रियं लिलिक्षति । किमिदं साहसम्? कोऽयं नाथगुणः ? ‘नाये’ निति नैच्यद्योतकद्राविडव्यवहारः स्मयिते । ‘शुना लोढाऽपि भागीरथी’ इत्यादिकं स्मर्तव्यम् ॥ आपादमूलमणिमौलि समुल्लसन्त्या स्वातन्त्र्य सौहृदतरङ्गितयाऽङ्गभङ्गया । सख्यं समस्तजनचेतसि सन्दधानं श्रीरङ्गराजमनिमेषमनुभ्रयास्म ॥ ६७ ॥ अवलिप्तमित्युक्तम् । कथं यौवनावलिप्तस्यावलहनादिसम्भवः । तत्समीपगमनादिसम्भवः प्रदश्यते तस्य सर्वभूतसुहत्त्वप्रकाशनन । ‘सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति’ इत्युक्तसर्वभूतसुहृत्त्वं प्रत्यङ्गं प्रदर्शयत इव । आपादमूलमणिमौलि । आपीठान्मौलिपर्यन्तं स्वातन्त्र्य सौन्दर्य ८४ श्रीरङ्गराजस्तवः । तरङ्गिततयोद्वेलं सौहार्दमाख्यान्तीवाङ्गानि । अङ्गभङ्गीति संग्युक्तिस्तरङ्गानुकूला 1 स्वातन्त्र्यभासनं कथं विश्वासःपयोगीति चेत् — यद्यप्यशुद्धाः सर्वथासमा वयं न सख्यार्हाः, अत्मच्चेतसि सख्यं जनयत्यपर्यनुये। ज्य स्वातन्त्र्यत्वादेव । सोऽस्मान् सुहृत्वेनाभिमनुते । प्रभुसम्मितवेदादिभिर्निषिद्धोऽपि स्वातन्त्र्यादेवास्मदयेोग्यतामविगणय्यास्मासु त्रिति । अतः स्वातन्त्र्यप्रका शो विश्वासजनकः । तत्स्वातन्त्र्यं विना नास्माकं तत्सख्यलाभः । I सख्यं समस्तजनचेतासे सन्दधानम् । स्वकोयनिरतिशय सौहार्दप्रकाशः अस्मच्चेतसि तस्मिन् सख्यमुत्पादयति । सुहृदं सर्वभूतानामिति स एव स्वस्य सौहृदं स्वयं प्रख्यापयति । सर्वपदस्थाने समस्तेति । भूतस्थाने जनशब्दः । सख्यमात्मनिवेदनमिति सख्योत्पादने ते स्वयमात्मनिवेदनं कुर्युः । सख्यं सन्दधानमिति नाथ एवं प्रथमं प्रवर्तते सख्यकरणविषय इति द्योत्यते । यद्यपि चेतनाः प्रणवधनुषि चेतःशरसन्धानं न कुर्वते, ईश्वरः स्वयं तच्चेतसि सख्यं सन्धत्ते । कारणम् । श्रीरङ्गराजम् । राजत्वेऽप्यस्य सख्यादौ प्रथमप्रवृत्तिरिति विस्मय अनिमेषमनुश्रयास्म । सदा पश्येम निर्निमेषा नित्यसुरिवत् ॥ क्षितिकमलनिवासा कल्पवल्लीसलीलो ल्लुठनदशदिशांद्ययौवनारम्भजृम्भः । श्रममपहरतां मे रङ्गधामेति तत्त द्वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८ ॥ यद्यपि वयं नम्रा न भवामः ; स नम्र। भवति । ‘भवन्ति नम्र स्तरवः फलोइमैः । फलमरं वहस्तेन नम्रो भवति । तापत्रयविरचितधर्मगाढ तप्तेभ्यो ऽयं शीतलच्छायां ददाति । एतत्सर्वसिद्धये पारिजात वृक्षत्वेनानुभवः । क्षिति कमलनिवासा कल्पवली सलीलोल्लुठन्दशदिशांययौत्र श्रीरङ्गराजस्तवः । ८५ नारम्भजृम्भः । क्षितिकल्पवली; लक्ष्मीकल्पवल्लीति बल्लीद्वयाश्रितयुवपारिजातः । ‘चूतेन सङ्गतवती नवमालिकेयम्’ इतिवत्कल्पवल्लीसङ्गतपारिजातोऽयम् । साश्रया लताः प्रमदाश्च शोभन्ते । अयं पारिजात आश्रितलताभ्यां शोभते । ‘कलराजलधिकन्यावल्लरी कल्पशाख।’ इति श्रीवरदराज विषये वेदान्ताचार्यः । देवतरुषु कल्पतरुपारिजातौ पच्येते । उभौ देवजातीयौ । देवत्वे समानेऽपि मिथेो गोलभेदोऽस्ति येन परिणयोग्यता भवति । ‘आहो वराहवपुषः परिरम्भणेन’ इति परिरम्भणरसरसिका गोप्यो भूदेवीपरिष्वङ्गमुत्प्रेक्षयन्ति । प्रभू रङ्गमन्दिरान्तरास्ते । तस्य यौवनप्रारम्भजृम्भणे कथं दशसु दिक्षु योवनत्य जृम्भणमिति चेदल द्वेवा समाधिः । ब्रह्मणो यौवनं दिगन्तयाप्तं भवेत् ब्रह्मणो यौवनत्वात् । ब्रह्मणे। युवत्वप्रारम्भे जृम्भमागे तत्साम्ययोग्यास्तत्साम्यवहनप्रेप्सवः सर्वेऽपि युवानो भवन्ति । ‘चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः’ इत्यार्षानुभवः स्मर्तव्यः । रङ्गधामेति । रूढनाममात्रमस्य रङ्गधामेति । वस्तुतोऽयं स्वर्गध. मा पारिजातः । श्रममपहरतां मे । मच्छ्रमापहरणफलं तस्यैवेति द्योद्यते आत्मनेपदेन । सम्भाषमाणमिव सर्ववशंवदेन मन्दस्मितेन मधुरेण च वीक्षणेन । दिव्यास्त्र पुष्पित चतुर्भुजमत्युदारं रङ्गाश्रयं मम शुभाश्रयमाश्रयाणि ॥ ६९ ॥ पारिजातत्वेन रूपणं कृतम् । अर्च विग्रहो भगवान् स्थावरपारि जातवन्मूक इति भवद्भिस्तपणं कृतं किमिति पृष्ठे वदति । भाषतेऽयं, सम्यक् च भाषते । ‘स्मितपूर्वाभिभाषी’ राघव इति ऋषिः । तदाराध्योऽयं स्मितेन भाषते मौननियमात् । सर्ववशंवदेनमन्दस्मितेन मधुरेण च वीक्षणेन । ‘मधुरैरवशानि लम्भयन्नपि तिर्यन्वि शनं निरीक्षणैः इति श्रीवेदव्यासमुनिविषये प्रोक्को ८६ श्रोरङ्गराजस्तवः । भाररावैश्लोक उदाहृत आचार्यैः सहस्रनामभाष्ये । तच्छूले कानुभवस्मरणं मधुरेण वीक्षणेनेति । ऋरसत्त्वान्यपि वशी क्रियेरन्नस्य मधुरेण वीक्षणन । सर्वेति ‘त्वं मेऽहं मे’ इति प्रतियोद्धारः कौतस्कुता नास्तिका अपि वशे नीरन्निति । द्यते । दिव्यास्त्र पुष्पितचतुर्भुजम् । अत्युदारस्यास्य विषये पारिजात वृक्षस्वरूपणपरित्यागो न न्याय्यः । तदप्यनुवर्तयिष्यामः । अयं पुष्पितशाखाचतुष्टययुक्तो वासुदेवतरुः । शाखासु पुष्पाणीच दृश्यन्ते दिव्यास्त्राणि भुजशाखासु । प्रतिकूलेषु घातकतया क्षिप्यमाणानि तीक्ष्णतीक्ष्णान्यस्त्राणि अनुकूलेषु पुष्पाणीव क्षेप्तुं योग्यानि भवन्तीति व्यज्यते ‘अस्त्रपुष्पितमिति’ । भीषणतमान्यस्त्राणि पुष्पवत्सुदर्शनान्यनुभाव्यानि भवन्ति भक्तानाम् । ‘शलूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः । ’ इति स्वभावोऽनुगम्यते चेतनैर्भगवदखैः । मूर्च्छाक्रान्तलक्ष्मणस्य शरीरस्य तादृशः स्वभावोऽवयत ऋषिणा । ज्वालामालभारि चक्रं पुष्पवत्सुदर्श सुदर्शनं भवति भक्तानामिति व्यञ्जने तात्पर्यमिव । भगवत्सारूप्यभाग्निर्भक्तैः शाखाभ्यो यथेष्टमपचाय्य स्वैरापे पुष्पवद्धारयितुं योग्यानीमान्यस्त्राणीत्यपि व्यज्यते । एवमेवात्युदारत्वं निरु ह्यत । न पृथग्भूतानामायुधानां भुजेषु निवेशः । अपृथक्सिद्धानीमानीति । अत्युदारम् । चतुर्भुजमित्युक्तम् । ‘चतुर्णां पुरुषार्थानां दाता नोऽस्तु चतुर्भुजः ।’ इति रसिका आलङ्कारिकाः । चतुर्विधा भजन्ते मामिति स्वेनेोक्तम् । तत्प्रकरणे ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ’ ‘उदाराः सर्व एवैते’ इति अत्यर्थप्रियत्वेनोदारत्वेन च श्लाघ्यन्तेऽर्थिनः । तादृशस्य परमोदारस्यात्युदारत्वेन वर्णनमेवोचितमिति भावः । अत्यर्थमुदारम् । ‘अतीव प्रियदर्शनम्’ इतिवत् । रङ्गाश्रयं मम शुभाश्रयमाश्रयाणि । मम शुभाश्रयरूपाश्र्व स-श्रीरङ्गराजस्तवः । ८७ म्पादयितुमयं रङ्गमाश्रयत इवेति व्यज्यते ॥ एते शङ्खगदासुदर्शनभृतः क्षेमङ्करा बाहवः पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः । इत्यूविष्यभयङ्करे करतले स्मेरेण वक्त्रेण त याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्ग सर्वसहः ॥ ७० ॥ सम्भाषत इत्युक्तम् । किं भाषते, कथं च भुजैभीषणे उपकार इति चोच्यते । करतलस्याभयवक्तृत्वं चोच्यते । त्रिषु बाहुप्वायुधाः । इत्यूविष्यभयङ्कर । अभयंकरं करतलमपि सम्भाषते न केवलं वक्त्रम् ; ‘पश्यत्यचक्षुः’ इति न करणायत्तकरणव्यापारोऽयम् । करतलेनापि भाषते । स्वस्याभयङ्करत्वेऽपि पादद्वन्द्वमभयं शरण्यमिति प्रदर्शयति करतलम् । किमेतदुच्चैष्ट्वम् ? स्वयमभयङ्करेण इतरस्याभयत्वेन प्रदर्शन विस्मयकरम् । बाडूनां क्षेमङ्करत्वेऽपि पादद्वन्द्वस्य भद्रत्वेन प्रदर्शन करतलेन । भद्रमिति क्षेमङ्करत्वम् । इतीति सम्भाषणप्रकारोक्तिः । हे इति दूरस्थानामप्युच्चैराह्वानं सूच्यते । प्लुतेनाह्वयतीव मौननियममपि भक्त्वा । स्मेरेण वक्त्रेण तद्याकुर्वन्निव । करतलोक्तं व्याकरोति विशदयति सस्मितं मुखम् । वक्त्रं भाष्यकर्तृ भवति । श्रीरङ्गसर्वेसहः । एवं स्थितः सर्वधुरन्धरो ध्रुवं मजुरां निर्वहत् । मम धुरं निर्वहेत् । मद्योगक्षेमं निर्वहेत् । यद्यप्यपारकरुणया ‘योगक्षेमं वहाम्यहम्’ इति स वहनं प्रतिजानीते निर्वहत्वित्येव वयं वदामः । न वहत्विति । अनुपसृष्टवहामिशब्दस्य निर्वहामि इत्यर्थं वर्णयामः, उपसर्गाणां धोतकत्वात् ॥ अरदंप्रथमिकाचरितात्मदाने रामोदमाननवयौवनसावलेपैः । ८८ श्रीरङ्गराजस्तवः । है पारिजातमिव नूतनतायमान शाखाशतं कथमधीमहि रङ्गधुर्यम् ॥ ७१ ॥ करतलस्य भाषणऽप्रथमिका वर्णिता । सर्वेषामङ्गानामात्मदानेऽहं प्रथमिका वण्यते । न केवलमाश्रयिणः पूर्वमेवाहं प्रथमं सम्भाषणादिकं कुर्यीमिति मनोरथः । एकैकेनाङ्गेन इतरभ्योऽङ्गेभ्योऽपि प्राथमिकत्वमिष्यते आश्रितलालने इति व्यज्यते । है । हे इति करतलम् । है इत्याचायीः । आमोदमाननवयौवन सावलेपैः । नवयौवनेन प्रमोदाधानम् ; परिमलाधानं च । रम्यजामातुः परिमलरङ्गस्योभयमप्यावश्यकम् । ‘कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्’ इति महाकविः शकुन्तलाविषये । नवकुसुमस्य सौरभ्यमपि । न सौन्दर्यमात्रम् । लोभनीयत्वं न सौन्दर्यमात्रेण । किं तूद्यत्परिमलेनापीति भावः प्रदश्यत इवाचार्यैः । नवयौवनस्य सावलेपत्वमपरिहार्यम् । शुद्धसत्त्वमूर्ती रजोगुणभूतस्यावलेपस्यावकाशः कथमिति चेत्आत्मदानेऽहं प्रथमिकासंरम्भरूपावलेपो न दोषाय ; प्रत्युत महते गुणाय भवेत् । अहंप्रथमिकाचरितात्मदानैरङ्गैः । ‘य आत्मदाः’ ‘स्मरतः पादकमलमात्मानमपि यच्छति’ इत्यात्मदानं स्वभावो भगवतः । यदात्मको यत्स्वभावो भगवांस्तदात्मिका शुद्धसत्त्वमयी भगवव्यक्तिरूपतद्दिव्यतनुः । भगवत्स्वभावमनुकुर्वते तदङ्गानि । आत्मदाने भगवत्पूर्वत्वमपीष्यत इव तैः भगवतोऽपि तेषां स्पर्धा तद्विषये । न केवलं मिथः स्पर्धा । भगवत्तोऽपि पूर्वत्वमिष्यते । आत्मसमर्पणं करोतुं वा मा वाऽऽश्रयिजनः । वयं तस्मा आत्मसमर्पणमाचरामेति मनोरथ इव । आश्रितकरिष्यमाणात्मदानात्पूर्वत्वमपीष्यते । सर्वापेक्षया प्रथमत्वमनोरथः । आचरितेति ‘स्वयमाचरते । यस्मात्तमाचार्यं प्रचक्षत’ इत्यात्मसमर्पणधर्मोपदेशेनाचार्यकं वहन्तीति व्यज्यते । श्रीरङ्गराजस्तवः । प्रथमगुरोरङ्गानि खलु तानि । ८९ नूतनतायमानशाखाशतं पारिजातम् । यौवनप्रादुर्भावे न केवलं शाखासु नवनवकुसुमानि ; नवनवाः शाखा अपि प्रादुर्भवन्ति । सर्वजनसंग्रहणाय शाखा शतप्रादुर्भावः । तन्यमानेत्युक्ते विवक्षितदैर्थ्यांनुरोधो न लभ्येत । अतस्तायमानेति वैकल्पिकदोर्घरूपाश्रयणम् । रङ्गधुर्य कथमधीमहि । प्रणवधुर्यस्त्र रङ्गधुर्यस्य शाखोपशाखात्वमुचितम् । तद्विषयेऽधीमहीत्युक्तिर्न्याय्या । शाखाधिक्येऽध्ययनं दुष्करं स्यात् । बाल्ये एवाध्ययनं क्षमम् । नूतनं नूतनं शाखासु प्ररोहन्तीषु कथमध्ययनस्य शक्यता । कथमिति तद्दुष्करतायतनम् ॥ आलोका हृदयालवो रसवशादीशानमीषत्स्मितं प्रच्छायानि वचांसि पद्मनिलयाचेतः शरव्यं वपुः । चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गशृङ्गार ते भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतांसि नः॥ ७२ ॥ लावण्यजलधिरित्युक्तलावण्यजलधौ ‘तमिमं गुणसागरम् –’ इति दहराधिकरणभाष्योक्त गुणसागरे मनो भवत्याचार्यः । परिच्छेदातीतोऽयमनुभवः । अस्य परमोदारस्य स्वागतोपचारादिरीतिर्वण्यते । आलोका हृदयालवः । यद्यप्ययं निद्रालुः अस्याले का हृदयालबः । दयालोरालाका हृदयालवः । आकेकराण्यस्य विलोकितानि । रसवशादीशानमीष स्मितम् । अस्येशानत्वं रसवशेन ; न भयेन निर्बन्धेन वा । स्मितमात्रेण वयं रसवशेन दास्यमुपगच्छामः । ‘गुणैर्दास्यमु. पागतः’ इतिवत् नानेकगुणसमुदायापेक्षा दासीकरणाय । स्मितपदेनैवेषत्त्वलाभेऽप्यधिकेषत्त्वायेषग्रहणम् । अत्यन्तालस्मितेनापि वयं जिताः । स्मितेनेशानत्वम्; नाट्टहासेन । अट्टहासे भयेनेशानत्वं भवेत् । प्रच्छायानि वचांसि । ‘तरुच्छाया तोयम् -’ इति वाचा वृक्ष 12 Sr ९० श्रीरङ्गराजस्तवः । च्छायां दिशेयुर्वनदेवताः । अस्य देवदेवस्य वचांस्येव प्रच्छायानि सर्वतापहराणि । वासुदेवतरेर्वचांसि प्रच्छायानि । भाषमाणे छायातरौ वचांस्येव छायादायीनि भवेयुः । पद्मनिलयाचेतःशरव्यं वपुः । ‘नारीणामुत्तमा वधू’ लक्ष्मीः । तस्या अपि कमनीयमिदम् । तस्याश्चेतो वेध्यं लक्ष्यं भगवद्वपुषः । पद्मनिलयाचेतसः शरव्यं तद्वपुरिति वा । पद्मनिलया निवासभूतपद्मिनीं विहायोत्फुल्लपकजतट के भगवद्वपुषि चेतः प्रक्षिप्य तन्मयी भवतीति व्यज्यते । चक्षुष्मन्ति गतागतानि । ‘रामं मेऽनुगता दृष्टि:’ । ‘मम चक्षुषी शंखेन चक्रेण ; अरविन्दाक्षिभ्यां च गच्छतः’ इति वकुलभूषणाः । अनुगतद्रष्टृचक्षुर्युक्तानि गतागतानि । गतागतरूपसञ्चाराणां नान्ध्यम् । ‘चक्षुष्मता अन्धा इव नीयमानाः’ इति चक्षुष्मताज्ञान्धनयनोक्तिः ‘अन्धेनैव नीयमाना यथान्धाः’ इत्युक्तान्धकर्तृकनयन वैजात्यप्रदर्शनाय । यदि गतागतमेव चक्षुष्मद्भवेन्न नेतुश्चक्षुष्मत्वाद्यपेक्षा । निद्राणस्य निमीलितनयनस्याप्यस्य गतागतानि चक्षुष्मन्ति । उत्सवमूर्तेः प्रसिद्धमनोनयन हारिसलीलगतागतादिविहारा अत्राभिप्रेताः । उभयोरभेदात् । आलोका हृदयालव इति प्रथममुक्तम् । किमर्थं चक्षुः पर्यन्तधावनम् ! गतागतान्येव विचित्रं कटाक्षयन्तीवेति भावः । गतागतैर्नीयामहे वयं निमीलितनयना आनन्दजडाः । भगवद्गतागतमेवास्मच्चक्षुर्भवति । अतो न स्खलामः । I श्रीरङ्गशृङ्गार । शृङ्गं कामेोद्रेकमृच्छतीति शृङ्गारः । स्वानुभवपूर्तिद्योतकसंबोधनम् । वेदशृशं प्रणवः । तन्निवासस्य शृङ्गारत्वमुचितम् । ‘अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम्’ इति श्रीवेङ्कटेशविषये श्रीरङ्गरामानुजमुनयः । ते भावा यौवनगन्धिनः । यौवनविलासपूर्णाः । ‘सर्वगन्धस्य भावाः खलु’ । तेषां गन्धित्वमुचितम् । श्रीरङ्गराजस्तवः । ९१ किमपरम् । किमपरं वाच्यम् । सिञ्चन्ति चेतांसि नः । कुलिशकठोराणि शुष्कशुष्काण्यस्मद्ध दयान्यार्थी कुर्वन्ति ॥ आयत्किरीटमलिकोलस दूर्ध्वपुण्ड्र माकर्णलोचनमनङ्कुशकर्णपाशम् । उत्फुल्लवक्षलमुदायुधबाहुमञ्च नीविं च रङ्गपतिमब्जपदं भजामः ॥ ७३ ॥ भगवदनुभवे मज्जनं प्रस्तुतम् । तत्र मज्जतां शठकोपादीनां रीतिरनुखियते । मज्जद्भिर्मज्जन्तो नीयन्ते । विलासवीक्षणादिकमुक्तम् । किरीटादिभिरलंकृतत्वमनुभूयते । आयत्किरीटम् । आयामवत्किरीटम् । किरीटा उपगच्छन्त्य चिन्त्यस्य शिरसि स्थितिं लभेमहीति । इतरेषां शिरसि स्थितावस्य चरणस्पर्शमात्रं लभ्येत । लसति । अलिकोलस दूर्ध्वपुण्ड्रम् । अष्टमीचन्द्रसदृशे ललाटे ऊर्ध्वपुण्ड्रं वि आकर्णलोचनम् । कर्णीन्तविश्रान्ते लेोचने । अनङ्कुशकर्णपाशम् । लोचनयोः कर्णाववधिः । ‘दिशः श्रोत्र:मिति वर्णितयोः श्रोत्रयोर्नविधिः । ‘चक्षुषी चन्द्रसूर्ये’ । चन्द्रसूर्ययोर्नेत्रयोरस्ति दियपोऽवधिः । उत्फुल्लवक्षसम् । पद्मालंकृतवक्षः उत्फुल्लमिव भासते । उदायुधबाहुम् । शार्ङ्गगदाद्यदायुधमितिवत् । अञ्चन्नीविं च । द्योतमाननीविम् । अब्जपदम् । अरविन्दचरणम् । ९२ श्रीरङ्गराजस्तवः । रङ्गपति भजामः । निरन्तरं भावयामः । अब्जन्यस्तपदाब्जमञ्चितकटीसंवादिकौशेय कं किंचित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् । चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं श्रीरङ्गे शरदः शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४ ॥ मगवदनुभवे मज्जनं प्रस्तुतम् । तत्र मज्जनप्रवीणानां शठकोपादीनां रीतिरनुस्रियते । अब्जपदमित्युक्तं पूर्वश्लोकान्ते । अब्जे पदाब्जं विन्यस्तम् । । अब्जन्यस्तपदाब्जम् । सुन्दरबाह्रनुभवगाथाः स्मार्यन्ते । पूर्वश्लेोके आशीर्वादनुभवः । अत्रापीठान्मौलिपर्यन्तम् । अब्जेऽब्जन्यासः । अनउजस्य पदस्य पद्मे निवेशने ध्रुवमनौचित्यम् । ‘नैसर्गिकी सुरमिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि’ इति भवभूतिः । कविगही वार्यते पदस्याब्जत्वरूपणेन । अञ्चितकटीसंवादिकौशेयकम् । कटिशोभासादृश्यवद्वसनम् । एकदेशसादृश्यं संवादिशब्देन व्यज्यत इव । किंचित्ताण्डवगन्धिसंहननकम् । मध्यप्रदेशात्कृत्स्नानुभवः । पदाब्जविन्यासः कटीशोभा च रङ्गनटस्य नर्तनचातुर्यानुरूपावयववैशिष्ट्यं द्योतयतः । परिमलरङ्गस्य विषये सादृश्यार्थेऽपि गन्धशब्द प्रयोगः सुश्लिष्टः । निर्व्याजमन्दस्मितम् । नटस्य स्मितादयः सव्याजाः स्युः । अस्य नटस्य स्मितं निर्व्याजम् । चूडाचुम्बिमुखाम्बुजम् । अवयवानां परस्परं प्रेम । एकावयवः इतरं सानुरागं चुम्बतीव । मुखपद्मं चूडामलंकुरुत इव । निजभुजा विश्रान्त दिव्यायुधम् । कोऽयं गुणः । नायुधानि स्वापकाले आयुधागारे, कोशे वा निघाति । आश्रितान्यायुधानि खभुजेष्वेव विश्रमयति । श्रीरङ्गराजस्तवः । ९३ विश्रान्त्यनुगुणदैर्घ्यं भुजा इति । श्रीरङ्गे । ‘रङ्गे यथा नटवरौ क च गायमानौ’ इति श्रीशुकः । अत्र रङ्ग एव लक्ष्मीसखो विहरति । नोपमानपदावकाशः । शरदः शतम् । आदौ पादाब्जमन्ते मुखाब्जम् । अब्जानुकूलशरदृतुना संवत्सरोपलक्षणं हृदयङ्गमम् । तत इतः पश्येम लक्ष्मीसखम् । शारदी ज्योत्स्ना भवति लक्ष्मी रङ्गचन्द्रमसः । भूमविद्योक्तप्रकारेण सर्वतः पश्येमैतदपर्याप्तामृतम् ॥ अग्रे तार्येण पश्चादद्दिपतिशयनेनात्मना पार्श्वयोश्च श्रीभूमिभ्यामतृप्त्या नयनचुलकनैः सेव्यमानामृतौघम् । वक्त्रेणाविः स्मितेन स्फुरदभयगदाशङ्खचकैर्भुजाग्रै विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजामः ॥ ७५ ॥ तत इतः पश्येम लक्ष्मीसखमिति भूमविद्येोक्तानुभवमनोरथः प्रादर्शि । भूमा पुरुषो देवोवाहनशयनादिविशिष्टः । पश्चात् पुरतो दक्षिणतश्चोत्तरेण तदनुभवो वण्यते । उत्सवमूर्तिविषयोऽयं श्लोकः । स एव पुरस्तात्पश्चाच्चेतस्ततो भवति । अग्रे । पुरस्तात् । तार्क्ष्यण । गरुडेन । लोचनाभ्यां निपीयमानम् । पश्चात् । पश्चाद्भागे । अहिपतिशयनेनात्मना । भुजगशयनो मूलविग्रहः । स च उत्सवमूर्तेरात्मा । उभयोस्तादात्म्यम् । खेनैव मूलविग्रहेण निपीयते । ‘अग्रे किञ्चित् भुजगशयनः स्वात्मनैवात्मनः सन्’ इति वेदान्ताचार्याः । तत्र मूलविग्रहस्याये उत्सवमूर्तिकीर्तनम् । अत्र उत्सवमूर्तेः पश्चान्मूलविग्रहस्य कीर्तनम् । भगवान् स्वस्याप्यनुभाव्य एव । ‘ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ॥’ ९४ श्रीरङ्गराजस्तवः । पार्श्वयोश्च श्रीभूमिभ्याम् । उभयतो देवीद्वयेन । ‘भुक्तं प्रियाभिनिमेषविलोचनाभिः’ इति वेदान्ताचार्याः । अतृप्त्या । अनलंबुद्धया अपर्याप्त्या । नयनचुलकनैः सेव्यमानामृतौघम् । ‘लोचनाभ्यां पिवन्निव’ इति वल्लोचनाभ्यां पानम् । अमृतप्रवाहोऽयम् । प्रतिक्षणं चुलकनेऽप्यविच्छिन्ननवनवप्रवाहपरम्पराः स्यन्दन्त इव । लावण्यौघद्वयमिव । वक्त्रेणाविः स्मितेन । वक्त्रे नवनवं स्मितमाविर्भवदेवास्ते । स्फुरदभयगदाशङ्खचक्रैर्भुजायैः । एकस्मिन् भुजेऽभयं स्फुरति । इतरेषु तत्समर्थकान्यायुधानि । विश्वस्मै तिष्ठमानम् । तिष्ठदवसरो विश्वतापप्रशमनमनोरथं व्यनक्तीव । ‘विवृणुते तनुं खां’ इति स्वप्रकाशनाय तिष्ठति । मृग्यमध्यस्थवत् वा निर्णयमन्विष्यस्तिष्ठति । ‘प्रकाशन स्थेयारूययोश्च’ इति सूत्रविवक्षितमर्थद्वयमपि ग्राह्यम् । शरणमशरणं रङ्गराजं भजामः । निद्रां परित्यज्यास्मदर्थं तिष्ठते । अस्मत्त्राणेन परस्य तस्य फलमित्यात्मनेपदेन द्यात्यते । ‘लोकविक्रान्तचरणौ शरणं तेऽवजं प्रभो’ इति तिष्ठदवसरः शरणवरणानुकूलः । शरणं प्रपद्यामहे । अशरणमिति शरणत्रज्यायां शरणान्तरराहित्यबुद्धिः ॥ आतपाश्रयमर्थिकल्पकमसह्यागस्करक्ष्मातलं सद्यः संश्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् । श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च दत्तां मयि ॥ ७६ ॥ विश्वत्राणाय चतुर्भिर्भुजैः सर्वाणि फलानि दातुं सङ्कल्प्य तिष्ठतीत्युक्तम् । अत्युदारमिति चोक्तम् । तदेवौदार्यमनुभूयते । श्रीरङ्गराजस्तवः । ९.५ आतांपाश्रयम् । आते जिज्ञासुरित्याद्यधिकारिषु प्रथम आर्तिः । ‘आर्तिं जिहीर्षुः’ । ‘कैवल्ये तु तद्बुद्ध्या तदग्रहणम् । अर्थिकल्पकम् । अर्थार्थीति तृतीयोऽधिकारी । अर्थिनः कल्पवदु । दाराः क्रियन्ते । यदर्थिनः कल्पकवृक्षा भवन्ति । असह्यागस्करक्ष्मातलम् । सर्वापराधसहिष्णुः । नन्दनस्य कल्प वृक्षो भूतलं भवतीति विरोधः । । सद्यः संश्रितकामधेनुम् । समुपसृष्टत्वाच्छ्रयणस्य मोक्षार्थी स्यात् मोक्षं दुग्धे । अविद्यानिवृत्तिरुक्ता पूर्वविशेषणेन । अभियत्सर्वस्वमस्मद्धनम् । भूमविद्योक्तप्रकारेणाभिगतानामभितः सर्वतो भवति । नायं धनवानुदारः । धनमेवायं वदान्यः । धनत्वे च सर्वस्वं धनम् । अस्य धनत्वेन सर्वस्वत्वेन चानुभवो भक्तानाम् । इतरे त्रयोsपिन भगवन्तं धनत्वेन मन्यन्ते । तं धनादिदातारं मन्यन्ते । तद्भिन्नं स्वस्ववांछितमर्थयन्ते लभन्ते च । प्रतिबुद्धो मुमुक्षुस्तु तमेव धनं सर्वस्वं चाभिमनुते । तस्मै किं स्वभिन्नं दद्यात् । आत्मानमेव ददाति । दानं चानुभवविषयीकरणम् । तस्य परितो भवति । कमलाचक्षुः । न केवलं कमलमस्य चक्षुः । कमला अस्य चक्षुभवति । तया दर्शनप्रयोजकक अयं पश्यति । जननी कमला । न प्रजापराधं पश्येत् । यदि सैवास्य चक्षुरयमपि न पश्येदपराधम् । महीजीवितम् । धनत्वे सप्राणत्वं न स्यादिति प्राप्ते ‘प्राणस्य प्राणश्चक्षुषश्चक्षुः’ इत्युच्यते । कमलादीनामीश्वरीणां चक्षुः प्राणाश्च । धनं प्राणत्वेनाभिमन्वते जनाः । ‘बाह्याः प्राणा नृणां द्यर्थो हरता तं हता हि ते’ इति जैनाः । घनत्वकीर्तनानन्तरं प्राणत्वमपि कीर्त्यते । मही क्षमामूर्तिः । साऽस्य प्राणाः । ९६ श्रीरङ्गराजस्तवः । श्रीरङ्गेश्वरमाश्रयम । ईश्वरीकीर्तनानन्तरं तदीश्वरः कीर्त्यते । ईश्वरीश्वरमाश्रयेम । प्रणवेश्वरमाश्रयेम । श्रीश्वरं रङ्गेश्वरम् । श्रीरङ्गे । प्रणवे । सुचिरं स सुखाकरोतु । सुखयतु आनुलोम्येन नः । सुखाकरोविति दैर्घ्यपठनं सुखस्य सुदीर्घत्वमनोरथानुगुणम् । दास्यं च धत्तां मयि । स ईश्वरः । अहं दासः । मत्स्वरूपानुकूल तद्दास्यं मम दद्यात् । यद्यप्यात्मानं मम दद्यात्, यद्यप्यात्मानं मम दद्यात्, मा ममैश्वर्य भवतु । दास्यमेव मम भवतु । ईश्वरत्वेनैवात्मानं मम ददातु । माऽस्तु ममैश्वर्यम् । धर्मिणमात्मानं मे ददातु । न स्वधर्ममैश्वर्यम् । मद्धर्मं दास्यमेव मह्यं ददातु । ‘परधर्मो भयावहः ’ ॥ सफणवितानदीप्रमणिमालिसुदामरुचि म्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् । मदभरमन्थरोच्छ्वसितनिःश्वसितोत्तरलं फणिपतिडोलिकातलिममाश्वासमः प्रणताः ॥ ७७ ॥ तिष्ठतु भगवान् । तस्य खोलपर्यङ्किका मूतशेषशयनं प्रणमाम । शेष आन्दोलिकातलिमत्वेनानुभूयते । दास्यं ददात्विति प्रार्थना कृता । शेषवत्पर्यकीभवनादिपरिचर्यायां विनियुज्येयेति मनोरथ इव । फणिपतिर्डोलिका भवति । सावयवरूपकमिदं पूर्णरूपकं पूर्णस्य भगवतो डोलाविषये । सफणवितानदीप्रमणिमालिसुदामरुचि । डोलिकातलिम विशेष्यम् । फणिपतिश्च तत्त्वेन रूप्यते । डोलिकायावितानमपेक्ष्यते । फणाश्च वितानं भवन्ति । तत्र महार्घरत्नमाला भवेयुः । तत्खचितानि शोभनदामानि मत्रेयुः । नागरलमाला उपरिक्षिप्तनागशरीरायामश्च दीर्घ दाम भवति । म्रदिम सुगन्धिभोगसुखशापितरंगधनम् । अस्ति विचित्रंश्रीरङ्गराजस्तवः । ९७ डोलिकातलिमम् । कस्तत्र शायी शायित इति पृष्ठे-रङ्गशायी तत्र शायित इत्युच्यते । श्रदिमसुगन्धित्वादिशय्यागुणा भोगिभोगस्य सहजाः । ‘भोगिभोगे शयानम् -’ इति हंसे वेदान्ताचार्याः । अस्य भोगस्यापि भोगित्वरूपभोगवत्त्वमिति तत्र भावः । सुखमेव शेषमेोगः, न तत्साधनमात्रम् । भोगे आनन्दे शायितोऽयम् । ततः सुखशायितः । प्रणवधनस्येयं डोला । निर्निमेषं नित्यजागरूकमपि स्वापयतीयं ढोलाशय्या । । मदभरमन्थरोच्छ्वसितोत्तरलम् । मदश्च भोगप्रयुक्तः । मतस्य पीनस्याजगरादेरुच्छ्वासनिःश्वासादयो मन्दमन्दाः स्युः । शयानस्य निद्रालो रतिमन्दमान्दोलनं न्याय्यम् । आन्दोलनं न हस्तेन, किंतु वातेन । वातश्च मुखवायुभूतोच्छ्वासनिःश्वासमात्रम् । अतीव मन्दोऽयं वातः । तेन मन्दमन्दं चाल्यते डोलारूप भोगिशरीरम् । सप्राणा चेतनेयं शय्या । प्राणश्वात्यते इयं विश्वप्राणशय्या । फणिपतिडोलिकातलिमम् । खफणाभिरेव डोलिकां निर्वर्तयति । प्रणताः । डोलायै नमस्कुर्मः । आश्वसिमः । सप्राणा भवामः । फणिपतेर्मन्दोच्छ्वास्त्रनिःश्वासे भ्यो वयं प्राणान् लभेमहि ॥ वटदलदेवकीजउरवेदशिरः कमला स्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् । वरदमुदारदीर्घभुजलोचन संहननं पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८ ॥ शय्या प्रस्तुता । शय्यान्तराणि वर्ण्यन्ते । वटदल । ‘वटस्य पत्रस्य पुंढे शयानं’ निरतिशयगृह हुस । देवकीजठर । मातृजठरः सुखमयी शय्या भवति । कोऽयं गुणः । गर्भवासो भोगाय कल्पते । 13 Sr ९८ श्रीरङ्गराजस्तवः । वेदशिरः । अशरीरस्यापौरुषेयस्य वेदस्य बौद्धं शिरः पुरुषस्य शय्या भवति । कमलास्तन । ‘नीलातुङ्गस्तन भरत टीसुप्तम्’ । शठकोपवाग्वपुषि । ‘तल्प कल्पान्तयूनः’ इति शठकोपयाविषय वेदान्ताचार्याः । वपुषीति प्रत्येकमन्वेति । ‘शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः’ इति श्रीस्तुतौ । रङ्गगृहे । प्रणवरूपायतने । शयितम् । शयानम् । णिचमन्तर्भाव्य शायितमर्भकवत् । वरदम् । यौगिकार्थस्य ग्रहणम् । प्रणतार्तिहरभित्युक्ते स्तन्मूर्तेरभेदबुद्धया श्रीवरदराजस्यैव वा ग्रहणं स्यात् । वरदानार्थमेताः शय्या आश्रीयन्ते । उदारदीर्घभुजलोचनसंहननम् । भुजादीनां दीर्घत्वं वरदानानु कूलादारत्वापयुक्तम् । प्रणतार्तिहरं परमं पुरुषम् । ‘वरदशब्दः ’ ‘प्रणतार्तिहरशब्दः ’ इति शब्दद्वयं देवराजस्मरणं तदभेदबुद्धिं च द्रढयत इव । उपासिषीय । भजेय । उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालया विनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि । फणिपरिवृढस्फार प्रश्वासनिःश्वसनक्रम स्खलितनयनं तन्वन्मन्वीत नः परमः पुमान् ॥ ७९ ॥ बहुचः शय्याः परिकीर्तिताः । प्रथाने क्षीराब्धिः परमव्योमस्य शेषपर्यङ्कश्चेति द्वे शय्ये भवता विस्मृते इत्याक्षिप्ते उच्यते । नाहं व्यस्मार्ष ; रङ्गशायी भगवांस्ते विस्मृत्यात रजे शेत इत्युच्यत इव उदधिपरमव्योम्नोर्विस्मृत्येति । ‘पद्मवनालयाविनिमयमयी निद्रां लक्ष्म्या वा निद्रया वा परिवृत्त्या विहरते । पद्मवनालयया प्रियया ‘परिष्वक्को’ निद्राण इव ‘न बाधे श्रीरङ्गराजस्तवः । ९९ किंचन वेद नान्तरम्’ । सर्वेतरविस्मारकत्वं परिष्वङ्गद्वयस्य तुल्यम् । अतो लक्ष्मीन्द्रियोर्विनिमयकथनमुचितम् । ‘निद्रावशेन भवताऽप्यनवेक्षमाणा पर्युत्सुकत्वमत्रला निशि खण्डितेव । लक्ष्मीर्विनादयति येन दिगन्तलम्बी सोपि स्वदाननरुचिं विजहाति चन्द्रः ॥’ इति श्लोकोऽल भाव्यः । फणिपरिबृठेत्यादि । ब्रह्म परिवृढं सर्वतः इत्युक्तस्य फणिपरिवृढे। ऽनुरूपशय्या । मन्वीत नः । निद्रानप्यस्मान् मन्बीत । जाग्रतोऽपि वयं तं न मनुमहे । निद्रानपि सोऽस्मान् मन्वीत ॥ जलधिमिव निपीतं नीरदेनाद्रिमन्धौ निहितमित्र शयानं कुअरं वाऽद्विकुजे । कमलपदकराक्षं मेचकं धानि नीले फणितमधिशयानं पुरुषं वन्दिषीय ॥ ८० ॥ विश्वकुक्षिम्भरि नीलं तेजोऽनुभूयते । नीलो भगवान् । तत्तेजसा नीलं विमानम् । नीरदेन निपीतं जलधिमिव । नीरदो विमानम् । तद्गर्भस्था भगवाञ्जलधिरिव नीलतेजःपुञ्जः । अब्धौ निहितमद्रिमिव । अब्धिविमानं नैल्यतेजसा । तत्र निहितो नीलपर्वतरूपो निधिर्भगवान् । अनिकुञ्ज शयानं कुञ्जरमिव । अद्रिकु विमानम् । तत्र शया नो गज इव भगवान् । नीले धानि । नैल्यतेजोमये विमाने । मेचकं । नीलम् । अनेन नीले घामाने नीलस्य तेजसेोऽनुभवः । कमलपदकराक्षम् । अस्मिन्नीलतेजः प्रवाहे पदकराक्षिरूपपद्मानि । फणिनमधिशयान पूरुवं वन्दिषीय । वन्दनमाशास्यते । न बन्दनेनाशीर्लिप्सा । सततवन्दनमेव परमफलम् ॥ १०० श्रीरङ्गराजस्तवः । श्रीरशय इह शर्म निर्मिमीता माताम्राधरपदपाणिविद्रमां नः । कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१ ॥ उदधित्वमुत्प्रेक्षितं पूर्वम् । उदधितर्णकत्वमुत्प्रेक्ष्यते । एतदनुसृत्यो कमभीतिस्तवे ‘जलधिडिम्भडम्भस्पृशः’ इति । 1 आताम्राधरपदपाणिविद्रुमों नः । विद्रुमवत्त्वं तत्सादृश्यवदधरपादतलपाणितलैः । सद्यो जातस्य डिम्भस्य पाणिपादादीनामत्यन्तताम्रत्वम् । कावरीलहरिकरोपलाल्यमानः । सद्यो जातं जलधिडिम्भं मातृ भूतजलाधिपत्नी कावेरी खलहरी करैरुपलालयति । अर्णवस्य तर्णकः । सद्योजातजलधिडिम्भः । श्रीरङ्गेशयः । डिम्भस्य शयानत्वमेव । न तिष्ठदवस्था । उत्तान शयो डिम्भः । इह शर्म निर्मिमीताम् । तिष्ठतु विश्वनिर्माणम् । सुखं निर्मिमीताम् ॥ सिञ्चेदिमं च जनमिन्दिरया तटियान्भूषामणिद्यतिभिरिन्द्रधनुर्दधानः । श्रीरङ्गधामनि दयारसनिर्भरत्वा ददौ शयालुवि शीतलकालमेघः ॥ ८२ ॥ अर्णवतणकत्वेन रूपणं कृतम् । चक्षुर्निर्वृतिस्तद्दर्शनेनाभूत् । मेघत्वेऽस्मात्सश्चनेन सर्वाङ्गाणामाहादा जायेतेति सावयवमेधरूपकविन्यासः ।। इन्दिरया तटिखान् । विचित्रोऽयं मेघः । यद्यपि मेघशीतलः ; तत्पत्नी तद्दाहकत्वादिबाधकशीला । अस्य मेघस्य तटिदिन्दिरा । सा च सर्वभूतजननी करुणामय्यत्यन्तशीतला अज्ञातनिग्रहा । मेघादपि शीतलतरे या बाटत् । प्रमयाऽत्र सादृश्यम् ; लतात्वेन च । श्रीरङ्गराजस्तवः । १०१ भूषामणिद्युतिभिरिन्द्रधनुर्दधानः । आभरणरलानां विचित्र वर्णरश्मीनामिन्द्रधनुराकारत्वम् । दयारसनिर्भरत्वात् । मेघश्चेद्रसपूर्णः स्यात् । अयं दयारसपूर्णः । अद्रौ शयालुरिव शीतलकालमेघः । रसपूर्णः शेते । इमं व जनं सिञ्चेत् । अनमतिनिकृष्टमपि सिञ्चेत् । पर्जन्यस्य नोच्च नोचभेदः ॥ आमौलिरत्ननिकरात्पुनराच पद्भ्यां धामक्रमोन्नमदुदारमनोहराङ्गम् । श्रीरङ्गशेषशयनं नयनैः पिवामः पश्यन्मनः प्रवणमोघमिवामृतस्य ॥ ८३ ॥ अलामृतप्रवाहेत्वनानुभवः । पश्यतां मनः पूर्यते आमौलिरत्ननिकरात्पुनराच पद्भ्याम् । धामक्रमोन्नमदुदारमनोहरा । तेजः परम्परया एचमानानि अपरिच्छेद्यमहिमानि अङ्गान्यस्येति । पश्यन्मनः प्रवणममृतस्यौघमिय । ओघश्चेनिम्नं गच्छेत् । अस्मन्मनो निम्नम् । तत्प्रवणोऽयमोघः । स्वयमेवास्मन्मनसि पतति । श्रीरङ्गशेषशयनम् । प्रणवशाय्ययं शेषशायी । उभयत्र शेते । यथा प्रासादे खट्वायां शयीत पुरुषस्तथा श्रीरङ्गे प्रणवे शेषे शेते । द्वयोः समुच्चयः । नयनैः पिबामः । लोचनैः पानमेतदमृतस्य । ‘एतदेवामृतं दृष्ट्वा तृप्यन्ति’ । न खादन्ति न पिबन्ति । निर्निमेषनयनाभ्यामनुभवन्ति । अरविन्दितमंत्रिपाणिवक्त्रै रपि तापिञ्छितमञ्चिताङ्गकान्त्या । अधरेण च बन्धुजीवितं श्री नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४ ॥ १०२ श्रीरङ्गराजस्तवः । अमृतौघत्वमुक्तम् । ओघत्वेनानुभूतो लक्ष्म्या नन्दनवनत्वेनानुभूयते । दिव्यमूर्तेर्दिव्योद्यानत्वमुचितम् । आनन्दमयस्य नन्दनवनत्वमुचितम् । रङ्गचन्द्रो नन्दनायमानः श्रियमानन्दयति । अंघ्रिपाणिवक्त्रैररविन्दितम् । अमृतौधे पद्मानि । नन्दने दिव्यपद्मानि । दिव्यमूर्तेः पादपाणिमुखानि दिव्यपद्मानि । चन्द्रोऽरविन्दायत इत्याश्चर्यम् । सर्वविरोधशमनोऽयं शान्तिसमृद्धोऽमृतानन्दः पुरुषः । । अञ्चिताङ्गकान्त्या तापिञ्छितमपि । कृत्स्नाङ्गनीलकान्तिस्तापिंचसादृश्यमावहति । तापिञ्छो नीलपुष्पम् । ‘तापिञ्छसन्मुखाय’ इति शुकः । अधरेण च बन्धुजीवितम् । बन्धुजीवो रक्तपुष्पम् । अधरेण तद्वानिव । प्रियाजनानां जीवितं प्राणाः अधरः । श्रीः । इन्दिरा । नियतम् । ध्रुवम् । रङ्गचन्द्रम् । प्रणवविमानान्तर्गतं चन्द्रमसम् । नन्दनयेत । नन्दनवनं कुर्वीत ॥ अन्योन्यरञ्जकरुचोऽनुपमानशोभा दिव्य स्त्रगम्बरपरिष्करणाङ्गरागाः । संस्पर्शतः पुलकिता इव चिन्मयत्वा इन्दुकान्तिमधिकामुपयन्ति ॥ ८५ ॥ अस्य रहेन्दोर्ब्रह्मणः कान्तिर्वृमयते दिव्यखगादिभिः । ‘शक्यमम्बरमारुह्य मेघसोपानपंक्तिभिः । कुटजार्जुनमालाभिरलं कर्तुं दिवाकर’ मित्यादिकविः । वर्षर्ती मन्दवीर्यो दिवाकरः । तदृतावेव तं पुप्पैरलङ्कर्तु कदाचिच्छक्येत । इन्दवे मालासमर्पणे नर्तुविशेषापेक्षा । सर्वतुषु मालाः समप्यन्तेऽस्मै रङ्गचन्द्रमसे । अन्योन्यरञ्जकरुचः । परस्परं शोभावत्वम् । परस्परं रञ्जकत्वं च । चिन्मयत्वादिति हेतुरलाप्यन्वीये ॥। श्रीरङ्गराजस्तवः । १०३ अनुपमानशोभा दिव्य स्रगम्बरपरिष्करणाङ्गरागाः । यद्यपि प्रत्येकमनुपमत्वमेषां परस्परं भूप्यत्वं भूषकत्वं चास्ति । ‘साधारणो भूषणभूण्यभावः’ इति महाकयुक्तिर्भाव्या । संस्पर्शतः पुलकिता इव । चदि आह्लादने । चन्द्रस्पर्शे चेतनानामाहादो नियतः । आह्लादस्य पुलका लक्षणम् । चिन्मयत्वात् । ‘द्रवति च हिमरमावुद्यते चन्द्रकान्तः’ इत्यचेतनस्य चन्द्रकान्तस्यानन्द विकृतिर्भवेत् ; नेतरेषामचेतनानां तादृशी विकृतिभवेत् । चेतनत्वमुपपादनीयममीषां फुलकसंभवाय । चिन्मयाः खल्वमी । ‘चिन्मयैः खप्रकाशैश्च -’ इति प्रमाणस्य प्रत्यभिज्ञापनम् । नित्यविभूतिस्थसर्वपदार्थानां चिन्मयत्वमिति पक्षोऽल प्रदर्शयते । पक्षद्वयमप्यस्ति । रङ्गेन्दुकान्तिमधिकामुपवृह्मयन्ति । ब्रह्मकान्तिरधिकं बृह्मयत 1 इत्याश्चर्यम् । उपबृंहणवद्विशदीकुर्वन्ति स्वरूपम् ॥ हुतकन कजगिरिपरिमिल दुदधिप्रचलितलहरीबदहमहमिकया । स्नपयति जनमिमपहरति तमः फणिशयमरकतमणिकिरणगणः ॥ ८६ ॥ अङ्गरागादयोऽनुभूताः । भगवानेव फणिशयने मरकतमणिरिवाभाति । तन्नीलरश्मयोऽनुभूयन्ते । तैर्वयं स्त्राप्यामह इव । अस्मदन्धतमसमपहियत इव तत्कान्त्या लाकैः । फणिशयमरकतमणिकिरणगणः । चिन्मयत्वं न केवलमङ्गराग द्रव्यादीनाम् । भगवन्नीलविग्रहकान्तीनामपि चिन्मयत्वमिवेति तासामहमहमिकावणनेनाभिप्रेयत इव । द्रुतकनकजगिरिपरिमिलदुदधिप्रचलित लहरीवत् । हिरण्मयः पुरुषो हिरण्यगिरिरिव । द्रवीभूत कनकमवोऽयं गिरिः । कनकमयं तेजः । उद १०४ श्रीरङ्गराजस्तवः । धिवन्नीलमय्यपि कान्तिः । मिलितमिव तेजः । कनकसरितीरे कनकगिरिः । स्त्रपयति जनमिमम् । अस्य तेजसो न तापकत्वम् । शीतं स्वपय त्युपसत्तृजनम् । अपहरति तमः । नैल्येऽप्यस्मन्मनोन्धकारमपहृत्य तत्र भास्वज्ज्ञा नदीपं निवेशयति । फणिशयमरकतमणिकिरणगणः । नीलमणेः प्रभावलिः ॥ भोगीन्द्र निःश्वसितसौरभवर्धितं श्रीनित्यानुषक्त परमेश्वरभावगन्धि । सौरभ्यमालत दिशाबधि रङ्गनेतु रानन्दसम्पदि निमज्जयते मनांसि ॥ ८७ ॥ स्नपनमुक्तम् । ‘स्नानाद्रमुक्तेष्वधिधूपवासम् ’ इति स्नानानन्तरं

गन्धानुलेपनाद्यपेक्ष! । सौरभ्येणा तत्वं वयते । कान्त्यम्भोमज्जनमुक्तम् । इदानीमानन्दे ममत्वमुच्यते । भोगीन्द्र निश्वसितसौरभवर्धितम् । परमसाम्यवत्त्वाच्छेषस्यापि सर्वगन्धत्वसम्भवः । तन्निःश्वासगन्धेनोपचीयत इव शेषिणः सौरभम् । ‘क्षीरं शर्करयेव ’ शेषशेषिणोर्मेलनं नितरां शोभेत । श्रीनित्यानुषक्त परमेश्वरभावगन्धि सौरभ्यम् । गन्धद्वारामिति प्रसिद्धायाः श्रियो नित्यानुषङ्गेण विचित्रः परिमलः । श्री नित्ययोगेन जगत्कारणत्वादिरूपपारमैश्वर्य सिद्ध्यति । तस्या नित्ययोगेन पारमैश्वर्यवासितत्वमस्य सौरभस्य । नायं गन्धः केवलं परिमलः । पारमैश्वर्यवासितोऽयं परिमल इति वैचित्र्यं प्रदश्यते । आप्लुतदिशावधि । सर्वदिक्प्लावकं सौरभ्यम् । सर्वदिक्षु वाति सर्वगन्धस्य गन्धः । सर्वदिव्यापी गन्धः । तद्वान् सर्वगन्धः । अर्श आद्यच् । आनन्दसम्पदि निमज्जयते मनांसि । दिगन्ताष्ठव कमस्म श्रीरङ्गराजस्तवः । १०५ न्मनांस्य लावयति । अनेकमनावत्त्वमनोरथो भोगाधिक्याय । ‘मात्रैः शोकामिकर्शितैः’ इतिवत् । स्वयं दिगन्तेष्वाप्लुतं स्वसक्तान्याप्लावयति ॥ रङ्गभर्तुरपि लोचनचच साहसावलिषु लेखयमानम् । पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८ ॥ वाङ्मनसगोचरसौकुमार्यस्यानुभवः । आनन्दे मज्जनमुक्तम् । तद्विषये ‘यतो वाचो निवर्तन्तेऽप्राप्य मनसा सह’ इत्युक्तं श्रुत्या । तदानन्दादिसकलकल्याणगुणादिविषयम्, आनन्दस्य सर्वोपलक्षकत्वात् । ‘गुणास्त्वदेकैकगुणावधीप्सया सदाऽऽश्रिता नोद्यमतोऽतिशेरते’ । श्रुत्युक्तं वाङ्मनसातीतत्वं सौकुमार्येऽनुभूयते । आनन्दविषये लोचनचचमपि । विविच्य दर्शनमपि । अस्मन्नयन रश्मिभिरभिघा तमपि न सहेत तत्सौकुमार्यम् । साहसावलिपु लेखयमानम् । ‘आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमा लोहितम् -’ इत्यादिसाहसावल्युलेखन कविभिः । न केवलं खकर्तृकेक्षणादिव्यापारः साहसम् । अन्यकर्तृकदर्शनादिकमपि साहसम् । ‘चेटीभृशाले/कितैरङ्गम्लानि-’ इति श्रीगुणरत्रकोशे । पुष्पहास इति नाम दुद्दानम् । ‘पुष्पहासः प्रजागरः’ इति सहस्रनामसु पठ्यते । रङ्गभर्तुरपि । नटस्य कठिनजङ्घादिव्यापारैरङ्गकाठिन्यवतः स्वाभाविकं सौकुमार्यमित्याश्चर्यम् । अपिना विरोधस्फोरणम् । रङ्गमती नटो सर्वदर्शनार्थमेव नटति । तद्दर्शनं साहसमित्याश्चर्यम् । नटस्य गात्रविक्षपेषु लोचनचर्चा न्याय्या । अतिवाङ्मनसं नः । यद्यप्यस्मन्मनांसि मज्ज्यन्त, अवशादबुद्धि 14 Sr १०६ श्रीरङ्गराजस्तवः । पूर्वकं निमज्ज्यामहे । नास्माकं तद्विषयवाचि वा तच्चिन्तायां वा सामर्थ्यम् ॥ पपातकम् । 1 एकैकस्मिन्परमवयवे ऽनन्त सौन्दर्यम सर्वे द्रक्ष्ये कथमिति मुधा मा मथा मन्दचक्षुः । त्वां सौभ्रावव्यतिकरकरं रङ्गराजाङ्गकानां तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९ ॥ भवतु साहसं दर्शनम् । ‘न साहसमनारूढो नरे। भद्राणि पश्यति’ ‘आपीठान्मौलिपर्यन्तं पश्यतः पुरुषेत्तमम् । पातकान्याशु नश्यन्ति किं पुनस्तू।’ इति भगवदाज्ञाभूतस्मृतिः । किं कुर्मः । साहसेनापि पश्यामः परमपुरुषम् । मज्जनमुकम् । ययैकैकगुणे म ज्जनं तथैकैकावयवशोभायां मज्जनं भवेत् । अगाधानुभवसागरे मनस्य कथमुन्मज्जनसम्भवः ? प्रथमावयवसौन्दर्य एव मग्नाः स्याम । कथं कृत्स्नविग्रहानुभवः सम्भवेदित्यत्रापायश्चिन्त्यते । ‘यद्यत्पश्यामि ते गात्रं पूर्णेन्दुसदृशानने । तत्र तत्रैव सुश्रोणि चक्षुर्मम निबद्धयते ॥ ’ इति विंशतिचक्षुष्मानपि दशाननः । । मन्दचक्षुः । विग्रहसौन्दर्यरसपानपीनत्वाच्चक्षुषो मन्दगमनम् । एकैकस्मिन्नवयवे परमनन्तसौन्दर्यमग्नम् । अनन्तस्य प्रत्यङ्गस्यानन्तं सौन्दर्यम् । अनन्ते मज्जने उन्मज्जनं दुष्करम् । एकैकस्मिन्नेव । सर्व द्रक्ष्ये कथमिति मुधाः मा मथाः । मा निराशं भव । ‘भव हृदय साभिलाषम्’ । सौभ्रात्रव्यतिकरकरं तलावण्यम् । किं विस्मृतं त्वया सौन्दर्थं लावण्यमिति शोभाद्वयमस्ति सुन्दरवस्तुष्विति । सौन्दर्यमवयवशोभा । समुदायशोभा लावण्यम् । लावण्यानुभवेनैकस्मादवयवादुपरिगमनं संभवेत् । लावण्यानुभवोऽप्यत्र नयेन्मनः । ‘धवलत्वमिवान्तरा -’ इतिवदन्तरान्तरावयवानां समुदायशेोभाऽपि दृष्टिगोचरा भवति । अन्योन्यं सुघटितानामव ।श्रीरङ्गराजस्तवः । यवानां समुदायशेमानुभूयमानावयवमुश्लिष्टावयवान्तरदर्शनं घटयति । विश्वपारीणवृत्ति । सर्वदृक्त्वेन । परिणमयति । समर्थयते ॥ वपुर्मन्दारस्य प्रथमकुसुमोलाससमयः क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु । १०७ विकासः सौन्दर्यस्रजि रसिकतासीधुचुलको युवत्वं रङ्गेन्दोः सुरभयति नित्यं सुभगताम् ॥ १० ॥ लावण्यमित्युक्तम् । कथं पुराणस्य वृद्धस्य तत्सम्भवः ? पुराणपुरुषो ऽप्ययं नित्ययुवा । मन्दारस्य वपुः । रङ्गेन्दोर्विग्रह। मन्दारप्रख्यः । प्रथम कुसुमाल्लाससमयः । वसन्तसमयः । ’ आये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः –’ इति शाकुन्तले । वसन्तप्रारम्भ इव भगवद्वपुः । क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादमधु । वसन्तसमयप्रारम्भे मधुमरितानि कुसुमानि स्युः । क्षमारक्ष्मीति द्वे उत्तमभ्रमर्यो । रसिकतमे ते । मकरन्दनिर्भरात्सारतमादस्मात्पुष्पात्कामं मधु निपीयोन्मत्तसकलकरण भवतः । अस्य वपुरेव तत्करणोन्मादकमधु । मधुमासो मधु च भवति । विकासः सौन्दर्यस्रजि । माला भूतसौन्दर्यस्य विकास एव यौवनम् । रसिकतासीधुचुलकः । रसिकतां रासिक्यं रसयति । न रस मात्रम् । । । रङ्गन्दोर्युक्त्वं नित्यं सुभगतां सुरभयति । ‘चन्द्रं श्रिता पद्मगुणान भुंके पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः’ इत्युक्तं महाकविना पार्वतीयौवनवर्णने । अस्मिन् रङ्गेन्दो स्वाभाविकं महत्सौरभ्यम् । सौरभ्यसौभाग्ययोरत नित्यमै १०८ श्रीरङ्गराजस्तवः । काधिकरण्यम् । अस्य युवत्वं नित्यम् । प्रसिद्धचन्द्रविलक्षणोऽयं सौरभ्य बानू रङ्गचन्द्रः ॥ किरीटचूडरनराजिराधिराज्यजल्पिका । मुखेन्दुकान्तिरुन्मुखं तरङ्गितैव रङ्गिणः ॥ ९१ ॥ मुखादारभ्य सौन्दर्यानुभवः । प्रथममृषेः शठकोपस्य सुन्दर बाहुमुखशोभानुभवरीत्याऽत्र किरीटस्य मुखशोभाविकासत्वेनोत्प्रेक्षणम् । रङ्गराजस्याधिराज्यसूचक किरीटस्य प्रथमग्रहणमुचितम् । किरीटस्य मुखचन्द्रिका कान्तिविकासत्वान्मुखमेवानुभूयते । पञ्चचामरा वृत्तम् । भगवन्मुखं चामरपञ्चकेन विवीजयिषितमिव । उत्तरार्धपादद्वयं न लभ्यते । द्विपदीखण्डोऽयम् । आधिराज्यजल्पिका । अधिराजत्वोद्घोषिका किरीटचूडरत्नराजिः । किरीटचूड/स्थरत्नपङ्क्तिः । रङ्गिणो मुखेन्दुकान्तिः । मुखचन्द्रप्रभा । उन्मुखं । उपरि प्रसृतं यथातथान्मस्तकम् । तरङ्गितेव । उज्जृम्भितॆव । रङ्गिणस्तरङ्गितत्वमिति शब्दानुरूप्यम् । तथैव शृङ्गं रङ्गप्रभुमणिकिरीटमित्यनन्तर ले। के ॥ शिखारनोद्दीप्रं दिशि दिशि च माणिक्यमकरी लसच्छृङ्गं रङ्गप्रभुमणिकिरीटं मनुमहे । समुत्तुङ्गस्फीतं चिदचिदधिराज्यश्रिय इव प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२ ॥ अधिराजत्वद्योतकत्वरूपोपकारात्किरीटस्य पुनः पार्थक्येनानुभवः । आधिराज्यश्रियः क्रीडापर्वतमिव भाति किरीटः । शिखारत्नोद्दीनं दिशि दिशि च । सर्वदिक्प्रसरचूडारत्नो ज्ज्वलकान्ति क्रीडापर्वतशिरो रत्नोज्ज्वलम् । माणिक्य मकरीलसच्छृङ्गम् । किरीटोपरिभागे माणिक्यघटिल श्रीरङ्गराजस्तवः । मकरिकाभूषणं भासते । तेन विलसति किरीटपर्वत शृङ्गम् । १०९ रङ्गप्रभुमणिकिरीटम् । उच्चैः शिरा रङ्गप्रभुः, तस्य रत्नकिरीटम् । समुत्तुङ्गस्फीतम् । उन्नतो विशालध्याय पर्वतः । दिक्षु विदिक्षु प्रसरश्मि बाहुल्यादुन्नतविशालपर्वतसादृश्यम् । चिदचिदधिराज्यश्रियः प्रियाक्रीडम् । चेतनांचतनविश्वाधिपत्यलक्ष्म्याः प्रियारामं क्रीडा पर्वतोद्यानम् । तमभितश्चूडामणि नितम्बमपि । तं परितः कटकवद्भासमानं चूडामणिमपि । मनुमहे । दिशि दिशि पुरस्तात् पृष्ठतश्चानुभवामः ॥ विहरतु मयि रङ्गिणइचूलिका भ्रमर कतिल को पुण्ड्रोज्ज्वलम् । मुखममृततटाक चन्द्राम्बुजस्मय हर शुचिमुग्धमन्दस्मितम् ॥ ९३ ॥ विहरतीति हरिः । अमृततटाकचन्द्राम्बुजस्मयं हरतीति हरिः । तत्स्मयहरं हरेर्मुखं मयि विहरतु । स्मयहरं मुखं मयि सस्मितं विहरतु । एवं बहुधा वैचित्र्यप्रदर्शनमिव । चूलिका भ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वलम् । अधो बद्धैः कुन्तलैस्तिलकेन च शोभमानम् । अमृततटाकचन्द्राम्बुज स्म यहरशुचिमुग्धमन्दस्मितम् । स्मित न विकसितम् । रंगिणो मुखं मयि विहरतु । तिष्ठतु रङ्गे विहारः । मयि विहरतु । रङ्गनिवासी रङ्गविहारी रंगी ॥ मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमाः समौक्तिकाः । इह रंगभर्तुरभियन्मधुवत प्रकरश्रियं भ्रमरकाणि विभ्रति ॥ ९४ ॥ ११०

श्रीरङ्गराजस्तवः । मुखस्य पुण्डरीकस्मयहरत्वमुक्तम् । पुण्डरीके मधुत्रता लीना भवेयुः । किं मधुव्रतारतत्र सन्तीति पृष्ठे – तद्भूयस्त्व श्रीरुच्यते । ऊर्ध्वपुण्ड्र शोभि मुखमनुभूतम् । ऊर्ध्वपुण्ड्रमनुभूयते । ऊर्ध्वं पुण्ड्रं विचित्रमनुभूतं श्रीशङ्कराचार्यैः ‘उत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमः खण्डनं मण्डनं नः’ इति । कथं वयं तन्नानु भवामः । :1 मुखपुण्डरीकमुपरि त्रिकण्टकम् । नालोपरि पुण्डरीकं स्यात् । अत्र मुखपुण्डरीको परि नालत्रयम् । भ्रमरकाणि । ललाटलम्बमानचूर्ण कुन्तलाः । अभियन्मधुव्रतप्रकरश्रियम् । समन्तात्परिभ्रमतां भ्रमराणां समूहस्य शोभा वहन्ति । अभियन्मधुत्रतेति सर्वदाभिगच्छद्भक्तगणा अपि गृह्यन्ते ॥ हृदयं प्रसादयति रंगपते मधुरोर्ध्वपुण्ड्रतिलकं कलितम् । अलिकार्धचन्द्रदलसंवलिता ममृतस्त्रतिं यदभिशङ्कयते ॥ ९५ ॥ अम्बुजस्मयहरत्वमुपपादितं मधुस्यन्दनरूपणेन मधुकराकर्षणवर्णनेन च । चन्द्रसमयहरत्वं निरूप्यतेऽमृतप्रवहणवर्णनेन । अष्टमीचन्द्रसदृशललाटादमृतं प्रवहति । त्रिपथगावदे।घत्त्रयेण स्यन्दते । अमृतौघत्रयमेव त्रिपुण्ड्रकम् । ऊर्ध्वं गच्छन्तीमे अमृतौघाः । अमृतत्वस्य ऊर्ध्वगमनं न्याय्यम् । नेमे निम्नगाः ; किं तूर्ध्वगाः । अमृतनाड्य इव । ’ तयोर्ध्वमायन्नमृतत्वमेति’ । ‘उत्थं तत्पुण्ड्रमूर्ध्व जनिमरणतमः खण्डनं मण्डनं नः’ इति श्रीशङ्कराचार्या ऊर्ध्वपुण्ड्रेन आत्मस्त्रेातस ऊर्ध्वगमनं व्यज्यत इत्यभिप्रयन्ति । रंगपतेः । नटस्यालिकं सम्यक्तिकाङ्कितं स्यात् । कलितम् । धृतम् । श्रीरङ्गराजस्तवः । १११ प्रसादयति हृदयम् । ऊर्ध्वगमनेनामृतत्वद्योतनमस्मान् प्रत्यायय ति । मां सम्यक् प्रसन्न ‘संप्रसाद’ करोति । तथा च परं ज्योतिरूपसम्पद्य स्पेन रूपेणाभिनिप्पत्स्ये’ । त्रि पुण्ड्रं चालिकचन्द्रनिःसरद मृत स्रुतिवद्भाति ॥ सरसीरुहे समवनाम्य मदा दुपरिप्रनृत्यदलिपंक्तिनिभे । स्फुरती वावुपरि लोचनयोः सविलासलास्यगति रंगपतेः ॥ ९६ ॥ भ्रमरपंक्तिरुक्ता । मुखपुण्डरीकमुक्तम् । तत्र मधुगनममृतस्वचोक्ते । रङ्गभृदयं नटाग्रेसरो नर्तनरसिकः । नटस्य वेोर्विलासचेष्टितानि मनोहराणि स्युः । रङ्गनटस्य वावेव मुखसरसीरुहे मत्तप्रनृत्यमरावलीत्वेन रूप्येते । एवमपेक्षित सर्वप्रदर्शनं भवति । सरसीरुहे । उत्फुल्लपङ्कजतटाकवद्दिव्यविग्रहः । तत्र दिव्यसरसि प्ररोहत्पङ्कजे लोचने । नेत्रपङ्कजे सरस अपचाय्य नान्यत्र नीयेते । सरस्येव नालेऽवतिष्ठतः । भ्रमरैरहमहमिकयाश्रयणं मधुपानादिकं च । एतद्व्यज्यते सरसीरुहशब्देन । समवनाम्य । अवनते कृत्वा । मदात् । पीतमधुमदात् । उपीर प्रनृत्यदलिपंक्तिनिभे । भ्रमराणां पद्मोपरि नर्तनं स्वभावः तत्पंक्तिसादृश्यं लोचनपङ्कजेोपरि नृत्यद्रङ्गपतिभ्रुवोः । रङ्गनटभ्रवौ ध्रुवं प्रकर्षेण नृत्येयुः । लोचनयोरुपरि । ‘यथा कप्यासं पुण्डरीकमेवमक्षिणी’ इति श्रौता नुभवः । तदुपरि । रंगपतेर्भुवा । नटत्वद्योतकरङ्गपतिग्रहणमत्र साभिप्रायम् । सविलास लास्यगति । अनेन प्रनृत्यमरपंक्तिसादृश्यम् । क्रि ११२ याविशेषणमव्ययम् । श्रीरङ्गराजस्तवः । स्फुरतः । प्रकाशते । भ्रवः स्फुरणव्यवहारः प्रसिद्धः । तत्पद ग्रहणमत्रात्यन्तसुश्लिष्टम् ॥ स्मरशरनलिनभ्रमान्नेनयोः परिसरनमदिक्षुचापच्छवि । युगमुदयति रंगपतेर्भुवोर्गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७ ॥ भ्रुवोरनुभवो वर्तते । कामशरासनापमितत्वं भुवः । मन्मथस्येक्षुचाप एव भ्रवौ भूत्वा मन्मथशरभूतलोचनपद्मनिकट नमन्वर्तत इव । बोर्नृतरङ्ग रङ्गपतेर्मुखम् । भ्रवौ नमित कामधनुः । भ्रविभ्रमानुसारि दिव्यायुधभूतशार्ङ्गस्य नर्तनम् । तस्मात् गुरुकुलमिव भवतो भ्रवौ शानृतश्रियः । धनुभूतभ्रनर्तनमनु माणवकशङ्गिनर्तनम् । शार्ङ्गण योध्यमानाः शत्रवोऽपि प्रथमं भगवतो निरतिशय सुन्दर भ्रशोभया कामशरासनेनेव वशोक्रियन्त इति प्रसिद्धम् । प्रथमं मदनबाणहता अनन्तरमेव शार्ङ्गण हन्यन्ते । स्मरशरनलिनभ्रमात् । पुण्डरीकदलामलायतेक्षणे पुण्डरीकभ्रमः सहजः, सौसादृश्यस्य निर्भरत्वात् । मन्मथशरपद्ममिति भ्रान्त्वा । परिसरनमदिक्षुचापच्छवि । शरकुसुमदर्शने मान्मथेक्षुचापः स्वयं नमति शरयोः स्वस्मिन् सन्धानाय । तच्छोभां वहति भ्रूयुगम् । रंगराजभ्रुवोर्युगम् । रङ्गराजेति नर्तनचातुर्य योत्यते । तद्भू युगं प्रकाशते । शार्ङ्गनृत्तश्रियो गुरुकुलमिव । शार्ङ्गनर्तनशोमाया आचार्यस्थानमिव । विभ्रमाधीनत्वं शार्ङ्गव्यापारस्य । उदयति । प्रकाशते ॥ कृपया परया करिष्यमाणे सकलांग किल सर्वतोऽक्षि नेवे । श्रीरङ्गराजस्तवः । प्रथमं श्रवसी समास्तृणाते इति दैर्येण विदन्ति रंगनेतुः ॥ ९८ ॥ ११३ इक्षुचापत्वेन वानुभवो वृत्तः । इदानीं त्रिभिः लोकेऽनुभूयेते । नेत्राभ्यां खलु सम्पूर्णशीतलकटाक्षणम् । करुणा कृत्खा नेत्राभ्यां खलु प्रदश्र्खेत । करुणामयस्य रङ्गनेतुः सर्वाण्यङ्गानि नेत्रीक्रियन्त इव नेत्राभ्याम् । पुरुषोत्तमस्योत्तमाङ्गे मुखे उत्तमभागभूते नेत्रे सर्वाण्यङ्गानि चक्षुर्मयानि चिकीर्षतः । व्यापनशीलख विष्णोचक्षुषी अङ्गान्तराणि व्याप्य चक्षुर्मयानि कुर्वते । सर्वतोऽक्षिमान् भवति विग्रहः । ‘चक्षुष्मन्ति गतागतानि -’ इत्युक्तं पूर्वम् । सर्वाण्यङ्गानि चक्षुमन्ति भवन्ति । सर्वाण्यङ्गानि स्वहमरितानि कटाक्षयन्तीव । व्यापनव्यापारे प्रथमं कर्णे व्याप्नुत इत्यनुभवः । ‘तमेकदृश्यं नयनैः पिवन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥’ इति कुमारसम्भव सप्तम सर्ग लोके ईश्वरद्रष्टृपौराङ्गनानां चक्षुरिन्द्रियान्तराणि प्रविष्टानीवति वर्णितम् । अत्र चक्षुषी सर्वेतराङ्गाण्यभिव्याप्य चक्षुर्मयं विकुरुत इत्यनुभवः । 1 1 रङ्गनेतुनैत्रे । लोचने । नेतुर्नेले इति वैचित्र्यलामो नेवशब्दप्रयोगेण । युक्तमिदं नेतुतयो: सर्वेतराङ्गानां नेत्रीकरणम् । सकलाङ्गम् । नयनं प्रधानम् । प्रधानमनु सर्वम् । कृपया परया । यदा सर्वाण्यङ्गानि चक्षुभवन्ति, सर्वतः कटाक्षणं लभ्येत । तथा च ‘सर्वतोऽक्षिशिरोमुखम्’ इतिवदनुभवः संपद्येत । इतः परा का कृपा भवेत् । परका कृपया चक्षुर्मयकृपाप्रसारणं सुलभम् । सर्वतोऽक्षि । ‘सर्वतोऽक्षिशिरोमुखम्’ इति विश्वरूपविषयवचनप्र त्यभिज्ञापनम् । अत्रैकैकमङ्गं सर्वतोऽक्षि भवतीति विशेषः । करिष्यमाणे किल । चिकीर्षिते इव । 15 Sr ११४ श्रीरङ्गराजन्तवः । प्रथमं श्रवसी समास्तृणाते । प्रथमं कर्णयोः समीपं गत्वा तौ व्याप्नुत इव । नेत्रयोः कर्णान्तविश्रान्तत्वं सौन्दर्यलक्षणम् । गम्यते ॥ इति दैर्घ्येण विदन्ति । सर्वाङ्गव्याप्त्या दीर्घत्रोक्षणमनोरथो दैर्येण थवोनासारोधात्तदवधिक डोलायित गते विशालस्फीतायद्रचिरशिशिराताम्रधवले । मिथो बद्धस्पर्धस्फुरितशफर द्वन्द्वललिते क्रियास्तां श्रीरङ्गप्रणयिनवनाब्जे मयि दयाम् ॥ ९९ ॥ श्रीरङ्गप्रणयिनयनाब्जे । प्रकृष्टतम स्तोत्रभूतप्रणवाभिन्नश्रीरङ्गे नि 1 रतिशयप्रणयो भगवतः । श्रीरङ्गे परमपदादप्यतिशयिता रतिर्भगवत इति च स्मर्यते । निरतिशयरतिकरे स्थलविशेषे प्रीत्युत्फुल्ल नयनाब्जे । श्रवोनासारोधात्तदवधिकडोलायितगते । एकपार्श्वे श्रवणम् इतरपार्श्वे नासेत्युभयतो रुद्धमेकैकं लोचनं । उभयतो डोलायत इवैकैकं लोचनम् । श्रवोरोधेनाहतं पुनः प्रतिनिवृत्तं नासारोधेनाहन्यते । पुनर्निवृत्त श्रवो धावतीव । एवं डोलायितत्वं लोचनमहसः । वाताहते सरसि पद्मानां डोलायितत्वं सम्भवि । करुणा चात्र वातः । विशालस्फीताय द्रुचिरशिशिराताम्रधवले । मुनिवाहन योग्य नुभवः स्मायते । मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते । मीनस्य स्फुरणरूपक्रीडनं स्वभावः । नयनयोर्मिथः स्पर्धा आश्रित शिशिरकटाक्षणे ; तत्कारणमनादिनिर्हेतुकसहज कारुण्यम् । मयि दयां क्रियास्ताम् । खस्मा आशीः प्रयुज्यते । ‘आत्मैव ह्यात्मनो बन्धुः ॥ श्रीरङ्गराजस्तवः । ११५ करुणामृत कूलमुद्रदेषा प्रणमत्स्वागतिकी प्रसन्नशीता । मयि रङ्गधनोपकर्णिकाक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिः स्तात् ॥ १०० ॥ लोचनयोर्दीर्घत्वमुक्तम् । उभयतो रुद्धत्वेन डोलायितत्वम् ; स्फुरच्छफरत्वमब्जत्वं चोक्तम् । इदानीं प्रवत्कृपासरित्वं रूप्यते । स्वयं सरितौ पद्मे शफरे च भवतः । यथा लोचनयोः करुणा कूलमुद्वहत्वं तथात्राचार्यानुभवस्यापि कूलमुद्वहत्वमिव । करुणामृतकूलमुद्वहा अक्ष्णोः सरितोवक्षणवीचिसन्ततिरुपकर्णिकैषा । ‘खोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान् मृगतृष्णिकायाम्’ इतिवद्वयमेतद्दिव्यनीरपानमपहाय वृथा विषयभोगमरीचिका अन्विष्यामः । अस्मानासादयितुं लावयितुं च कूलमुदुजे भूत्वा वीची: सन्तन्वाने दूरस्थमपि मां गृह्णीताम् । गङ्गायां मणिकर्णिकादिघट्ट इवेयमुपकर्णिका । प्रणमत्स्वागतिकी । नयने कुशलसंप्रश्नचतुरे । रङ्गधन । ‘मीलचक्षुषि बेल्लितभ्रणि मुहुर्दचावमानाक्षरे’ इति धनवतोऽक्षिणी सावज्ञे स्याताम् । धनस्य तव स्वभावो विलक्षणः । मयि स्तात् । लोचने मां स्वपयतां पाययतां च । ‘यद्यप्यहं लोचनाभ्यां तं न पिवेयम् ॥ विलसति नासाकल्पवल्ली मुग्धेव रङ्गनिलयस्य । स्मितमपि तन्नवकुसुमं चुचुककपालं च पलवोल्लसितम् ॥ १०१ ॥ ‘अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्’ इति प्राकृतामपि युवति वर्णयन्ति । अर्थिकल्पकस्य लावण्यधाम्नो भगवतो नास’ सुन्दरकल्पवल्लीत्वेनानुभूयते । ११६ श्रीरङ्गराजस्तवः । रङ्गनिलयस्य मुग्धा नासा कल्पवल्लीव विलसति कल्पवल्लीशांभां वहति । स्मितमपि तन्नवकुसुमम् । वल्ली च नाकुसुमिता । स्मितं कु· सुममिव शोभते । चुचुककपोलं च पल्लवोल्लसितम् । चुबुकं च कपालौ च पल्लववद्भासन्ते । ‘यो यदिच्छति तस्य तत्’ इति यदुक्तं भगवद्विषये तत्सत्यं तद्विग्रहावयवविषयेऽपेि । बहुभिर्बहुल्लिख्येता लौकिकं रूपम् ॥ नयनशफरविद्धौ कर्णपाशावरुद्धौ रुष इव लुटतोऽर्चिर्मञ्जरी रुद्भिरन्तौ । परिमिलदलकाली शैवलामंसवेला मनुमणिमकरोद्धौ रंगधुर्यामृताब्धेः ॥ १०२ ॥ कल्पवल्लीत्वेनोल्लेखः कृतः पूर्वश्लेोके । कल्पवल्ली च क्षीराब्ध्युद्भवा । कार्य कारणं च भगवानेक एव भवति । ‘न तस्य प्राकृता मूर्तिः’ इति भगवतो दिव्याया नासा कल्पवल्लयाः अमृतस्वभावत्वात्सा अमृताब्ध्युद्भवा भवेत् । खावयवभूतनासाकल्पवल्याः स्वयमेव कारणममृताब्धिर्भवति भगवद्विग्रह इति वर्ण्यते । रङ्गे विचित्राद्भुतानि नवनवानि प्रदर्शनीयानि रङ्गागतानाम् । नटश्च नवनवाद तवेषं धरेत् । ‘ज्योतींषि विष्णुः’ ‘नद्यः समुद्राच’ इति नद्यः समुद्राश्च तद्वेषाः । अमृताब्धित्वेन भगवद्विग्रहः, शफरत्वेन नयने, कर्णो मत्स्यग्रहणार्थं विततपाशत्वेन, अंसौ वेलात्वेन अलकाली शैवलत्वेन च रूप्यन्ते । ‘ब्रह्म वनं ब्रह्म स वृक्ष आसीत्’ इतिवदयं सर्वं भवति । शफरादयोऽस्याब्धेरवयवाः । कुण्डले वर्ण्यते मकारिकात्वेन । रंगधुर्यामृतान्धेः । रङ्गस्य धुरं वहत्ययम् । अतो विचित्राब्धिरूपं प्रदर्शयति द्रष्टृदृष्टिचित्तापहरणाय ।श्रीरङ्गराजस्तवः । ११७ मणिमकरोदौ । उत्कृष्टरलमकरिके । ‘भूषामयी मकरिका विविधान् विहारान्’ इत्येतदनुभवानुकरणं वेदान्ताचार्यैः । नयनराफर विद्धौ कर्णपाशावरुद्धौ । अन्धी अतिवेगं भ्रमतः । नयनपर्यन्तं घावने शफरभूननयनाभ्यां विद्धे प्रतिनिवृत्य कर्णपर्यन्तं भ्रमन्त्यौ कर्णपाशरूपपाशेनावरुद्धयेते । रुप इवार्चिर्मञ्जरुद्भिरन्तौ । पाशावरोधेन सञ्जातरोष इव मञ्जरीरूपतेजांसि वमन्ति । ते ह्यन्यतेनोऽभिभवाद्वमन्ति । ’ परिमिलदल कालीशैवलामं सवेलामनु लुटतः । अलकाल्यः शैवलमंसश्च वेला भवति । अंसंवेलां लक्ष्यीकृत्य लुटतः । मकरिकारलकान्तयो लुटन्ति ॥ अधरमधुराम्भोजं तत्कर्णपाशमृणालिका वलयमभि मामास्तां रंगेन्दुवक्त्रसरश्विरम् । नयनशफरं नासाशैवालवल्लरि कर्णिका मकरमलक श्रेणीपर्यन्तनीलवनावलि ॥ १०३ ॥ श्रीरङ्गराजमुखस्य सरस्त्वेनानुभवः । तत्राधरोऽम्मैोजम्, कर्णे मृणालवलये, नयने शफरौ ; नासा शैवालवल्ली, कर्णिका मकरः, अलकश्रेणयो नील वनावल्यः । अधरमधुराम्भोजम् । पद्मताम्रोधरो मधुपूर्णः । तद्विशिष्टं पद्मसरः । कर्णपाशमृणालिकावलयम् । कर्णपाशेति न केवलं पाशशब्दमात्रम् । पाशाकारत्वमपि । कर्णपाशात्रेव मृगालवलय इव । तद्विशिष्टम् । नयनशफरम् । नयने मत्स्यौ, तद्विशिष्टम् । नासा शैवालवल्लारे । दीर्घश्यामा नासा शैवालवल्लीव भासते । कर्णिकामकरम् । कर्णाभरणे मकरौ । तद्विशिष्टम् । ११८ वनानि । तिष्ठतु ॥ श्रीरङ्गराजस्तवः । अलकश्रेणीपर्यन्तनीलवनावलि । अलकश्रेणयः परिसरवर्तिनील तद्वेगेन्दुवक्त्रसरः । प्रसिद्धमेवं गुणोपेतं रङ्गेन्दुमुखसरः । चिरं मामभ्यास्ताम् । चिराय मामभितो वर्तताम् । मामावृत्य रमयतु स मां कण्ठः श्रीरंगभर्तुरुदञ्चित क्रमुक तरुणग्रीवाकम्बु प्रलम्ब मलिम्लुचः । प्रणयबिलगलक्ष्मीविश्वम्भराकरकन्दली कनकवलय क्रीडासंक्रान्तरेख इव स्फुरन् ॥ १०४ ॥ अमृताब्ध्यनुभवो मुखसरोऽनुभवश्च वृत्तः । इदानीं कण्ठस्याब्धिभवशखत्वेन सरस्तीरवर्तिक्रमुक तरुण श्रीवतया चोपमितिः । तत्रस्थ सुक्ष्मरेखालयस्य देवीकनकवलयमुद्रात्वनोल्लेखः । उदञ्चितक्रमुक तरुणग्रीवा कम्बु प्रलम्बमलिम्लुचः । क्रमुकग्रीवाशोभाचोरः; शंखशोभाचोरश्च । प्रणयविल गल्लक्ष्मीविश्वम्भराकर कन्दलीकनकवलय क्रीडासंक्रान्तरेखः । देवीखयंग्रहे कण्ठाश्लेष देवीकनकवलयैर्दत्तमुद्र इव । ‘कण्ठा श्लेषे रमायाः ॥ ’ इति श्रीशङ्करानुभवः । ‘रठिवलयसनाथे चापमासज्य कण्ठे । ’ इति मन्मथवर्णनं कुमारसम्भवे । ‘अशिथिलपरिरम्भैराहितामिन्दिरायाः कनकवलयमुद्रां कण्ठदेशे दधानः’ इति श्रीवरदराजानुभवः । स्फुरन् । प्रकाशमानः । देवीवलयचिद्वैरधिकस्फुरणम् । श्रीरंगभर्तुः स कण्ठः । प्रसिद्धस्तादृशः कण्ठः । मां रमयतु । तिष्ठतु तद्रमणं देवीखयंग्रहादिना । मम रतिं कारयतु । यथा रतिं प्रापितस्तथा मां मोहं प्रापयतु । श्रीरङ्गराजस्तवः । अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमला करेणारालानावरिकरिघटोन्माथमुसलौ । फणीन्द्र स्फीतस्त्रय्यतिकरितसन्दिग्धविभवौ भुजौ में भूयास्तामभयमभि रंगप्रणयिनः ॥ १०५ ॥ सर्वभूतेभ्यो ऽभयप्रदौ, सर्वभयप्रमथनदक्षौ भुजावनुभूयेते । ११९ अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य । भुवनं चेतनाचेतनात्मकं विश्वम् । तदेवात्यन्तपृथुयन्त्रम् । भुवनभ्रमणयन्त्रम् । पृथुयन्त्रमिति पृथुसम्बन्धिन्याः पृथिव्याः पृथुयन्त्रमिति वैचित्र्यमप्यभिप्रेतं स्यात् । भुवनभ्रामक पृथुयन्त्रस्याधारस्तम्भाविव भुजौ । ‘ईश्वरः सर्वभूतानां हृद्देशेऽ र्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ इति गीतं गीतान्ते भगवता । ‘नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । ’ इति कविसार्वभौमः । यदि भगवद्धजौ विश्वभ्रामणयन्त्रस्याधिष्ठानं भवेतां जगच्चक्रस्य भगवता भ्रामणं साधु समयैत । विश्वभ्रमाधिष्ठानं ब्रह्म भगवानित्येके वेदान्तिनः । यन्त्रे जगदारोप्य स्वेन जगतो भ्रामणं वक्ति भगवान् । न खस्यैव भ्रमं भ्रमणं वा । विश्वभ्रमाधिष्ठानं ब्रह्मेति ते । वयं तु ब्रह्मवाहोर्विश्वभ्रमणाधिष्ठानत्वं वर्णयामः । अधिष्ठानशब्देन, गीता श्लोकस्य यन्त्रशब्देन चैतच्चारु व्यज्यत इव । कमलाकरेणोरालानौ । मदश्चञ्चलत्वं च लोकप्रसिद्ध श्री स्वभावः । श्रीः करेणुत्वेन रूप्यत । करेणुः कमलिन्यामुद्दामं विहरेत् । करिणी कमला सरसिजवनं जिगमिषेद्भगवद्वक्षेो विहाय । ‘स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा’ इति श्रीस्तुतौ । एतद्यज्यते कमलाशब्दोपादानेन । बाहुद्वयं कमलाया बहिर्गमनं रुणद्धि । काममुद्दामं धावनादिविहारमनुभववियं तरुणेभी कमलाकरेणुर्भगवतः पृथुवक्षसि बाहेोर्मध्ये । के मस्तके रेणुरस्या इति करेणुः । १२० श्रीरङ्गराजस्तवः । अरिकरिघटोन्माथमुसलौ । करेणुरित्युक्तम् । ‘भार्या रूपवती शब्द:’ । तस्याः शत्रुत्वं शत्रुसम्पादकत्वेन । अहल्या पत्नी, इन्द्रः शत्रुः । सीता पत्नी, दशकण्ठः शत्रुः । यदि करेणुः कञ्चिद्वजमाश्रयेत, ध्रुवं तदेतदसहमाना बहवो गजाः शत्रवो भूत्वा संघशस्तं योधयेयुस्तां करिणीमपहर्तुम् । एवमायोधनप्रसङ्ग यौ भुजौ करेण्वालानभूतौ, तावेव शत्रुनिरासकमुसलाविति चारु प्रदर्श्यते । करेण्ववस्थितिस्थलपर्यन्तयोरेव मुसलौ भूत्वा शत्रुगजघटानां प्रवेश निरुन्धतः । करवर्णने करेणुनिर्देशः, करिनिर्देशो व्यतिकरितानिर्देशश्च चारुतामावहन्तीव । शत्रुमथनोक्तिश्चातिस्वरसा । ‘यदर्थमम्बोधिरमन्धि’ ‘निर्मथ्य वैद्यमगवेन्द्रबलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्य शुल्काम्’ इत्यादिकं भाव्यम् । मथनेन प्रियाप्राप्तिः, प्राप्ताया रक्षणं च । फणीन्द्रस्फीतस्त्रग्ध्यति करितसन्दिग्धविभवौ । अधिष्ठानमिति कथञ्चिद्धमस्मारणं कृतम् । मत्तगजादिप्रस्तावश्च कृतः । एवं भूयान्भ्रमोन्मादादिकथा । तदानुरूप्येण भुजयोः शेषभोगत्वेन, स्फीतस्रक्त्वभ्रान्तिविषयत्वं वयत इत्यवधेयम् । कर्पूरालिप्तयोर्भुजयेोर्भोगिभोगत्वेन, पुष्पमालात्वेन च भ्रान्तिः सहजा । ‘बाहुं भुजगभोगाभम् -’ इत्यार्षवर्णनमल भाव्यम् । ‘स्रग्भोगिभोगोपमम्’ इति प्रबोधचन्द्रादये । रङ्गप्रणयिनः । अस्मद्दुः खापायार्थं रङ्गप्रणयी । अस्मद्भयप्रदा नाय रङ्गशयनम् । भुजौ मेऽभ्यभयं भूयास्ताम् । सर्वभूतेभ्यो ऽभयम् । तावेवाभयं भवताम् । तद्दर्शननैवाभयं लभ्यते । न ताभ्यामभयप्रदर्शनदानाद्यपेक्षा । प्रतिजलधितो वेलाशय्यां विभीषणकौतुका त्पुनरिव पुरस्कर्ते श्रीरङ्गिणः फणिपुङ्गवे । समुपदधतः कंचित्कंचित्प्रसारयतो भुज द्वयमपि सदा दानश्रद्धालुदीर्घमुपास्महे ॥ १०६ ॥ · श्रीरङ्गराजस्तवः । १२१ बाह्रौ भुजगभोगभ्रमो वर्णितः । ‘बाहुं भुजगभोगाभम् -’ इति प्रकरणस्मारणेन प्रतिशयन भूमिका स्मृतिमायाता । इयमपरा प्रतिशयन भूमिकेत्युत्प्रेक्ष्यते । विभीषणच्छन्दानुवर्तनार्थं सागरवेलायां दर्भानास्तीय महोदधिं प्रति शयितं प्रभुणा । विभीषणकौतुकमेव निमित्तीकृत्यालापि शयनं निर्वर्त्यते । पूर्वश्लेोके बाह्वोरधिष्ठानत्वं वर्णितम् । अत्र दक्षिणबाहुनोपहितत्वं वर्ण्यते । यदधिष्ठानमभूत् तदत्रोपधानं भवति । प्रतिजलधितः । समुद्रमभि । श्रीरङ्गे पतिपल्योरमेदेन महोदधि कावेर्योरभेदानुसन्धानम् । मित्तम् । वेलाशय्याम् । सागरतीरे शयनम् । विभीषणकौतुकात् । अत्रापि विभीषणमनोरथानुवर्तनमेव नि पुनः पुरस्कर्तुमिव । पुनरपि बहुमन्तुमिव । फणिपुङ्गवे । तत्र फणिपतेः स्मरणमात्रमुपमानखेन ‘बाहुं भुजगभोगाभम् -’ इति । तत्सम्बन्धस्य मानुषमाननाविरुद्धत्वात् । अत्र फणिपतिरेव शयनं भवति । ‘आत्मानं मानुषं मन्ये-’ इति नात्र मानुषत्वाव्यभिचारनिर्बन्धः । पुङ्गवस्याल श्रेष्ठवाचकत्वम् । न पुङ्गवरूपवृषभमारूढेोऽयम्, किं तु फणिश्रेष्ठं फणिपुङ्गवशय्यामारूढः कञ्चित्समुपदधतः । दक्षिणं भुजमतिमनोहरमुपधानीकृतवतः । कञ्चित्प्रसारयतः । वामं बाहुमाजानु प्रसारितवतः । श्रीरङ्गिणः सदा दानश्रद्धालुदीर्घ भुजद्वयमपि । भुजयोरायतत्वमर्थिसमीपं गत्वा दानेच्छां प्रकटीकर्तुमिव । दातव्यं दातव्यमिति श्रद्धया दीर्घभवत इव भुजौ । समीपमागत्य दत्तमपि वयं सगर्व तिरस्कुर्याम, न प्रतिगृह्णीयामेति श्रद्धालुः सो न वेद । वयं प्रतिगृह्णीयामेति सो श्रद्धते । तच्छ्रद्वयाऽयं दीर्घं प्रसारयति भुजावस्मत्समीपम् । श्रद्धादैर्घ्याजौ दीर्घ 16 Sr १२२ श्रीरङ्गराजस्तवः । भवत इव । अस्य दातुः प्रतिग्रहीतरि श्रद्धा । अप्रतिग्रहे मोघाशो भवेदयं श्रद्धालुः । न याच्ञाया मोघत्वभयं यथा लोके । दित्सा मोघा भवेदिति बिभेति । उपास्महे । अस्मत्समीपमस्मासु श्रद्धयायातौ भुजौ । न ततो दूरगमनमुचितम् । अतस्तत्समोप एव स्थित्वा भजामहे ॥ कुसुमभरालसौ स्फटिकवेदिशयों विटपावमरतरोः परं परिहसत्पृथुरङ्गभुजः । बहुमणिमुद्रिकाकनककङ्कणदोवलयैः किसलयि दोईये फणिनि निर्भरसुप्तमिमः ॥ १०७ ॥ दानश्राद्धावित्युक्तम् । पारिजातस्य शाखे इति भुजावुत्प्रेक्ष्यते । पारिजातस्य श्री प्रदत्वं प्रसिद्धम् । कुसुमभरालसौ । कुसुमभारेण नम्रौ निश्चेष्टौ । निद्राणस्य भ गवतो भुजयोः सहजसत्त्वगुणप्रदर्शनलाभायैतद्विशेषणम् । स्फटिक वेदिशयौ । स्फटिकवेद्यां शयाते विटपौ । कुसुमभरपीडितौ वत्साविव तत्र शयाते । शयानस्य पुरुषस्य भुजयोः साम्यं शयानशाखाभ्याम् । स्फटिक भूमिलाभे शिशयिषा सहजा । अमरतरोर्विटपौ । पारिजातशाखे। वासुदेवतरू रङ्गशाय्यमरतरुः । परं परिहसत् । ततोऽपि बन्धुरम् । रङ्गभुजः पृथु दोर्द्वयम् । रङ्गरसिकस्य । भुजवर्णने भुज इति षष्ठ्यन्तपदस्य ग्रहणं वैचित्र्यावद्दम् । रङ्गभुग्धास्यरसपूर्णः स्यात् । रने हास्यरसस्यावश्यकता । रङ्गानुभवितुर्भुजद्वयं परिहसति । उचितमिदम् । फणिनि निर्भरसुप्तम् । स्फटिक वेदिकास्थाने फणी । कुसुमभरेण सुप्ताविवालसौ विटपौ । इमौ भुजौ तु निर्भरसुप्तौ इति वैजात्यस्फोरणमिव । न भाराक्रान्तिसञ्जातश्रमेण खापः, यथा विटपयोः । किं तु नैर्मर्येण वाप इति विशेषद्योतनम् । श्रीरङ्गराजस्तवः । १२३ बहुमणिमुद्रिका कनक कङ्कणदार्बलयैः किसलयि दोर्द्वयम् । रत्न स्वर्णभूषणैः किसलयितम् । इमः । प्राप्नुमः ॥ मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे शार्ङ्गज्याकिणकर्कशिनि सुमनःसम्पादने मार्दवे । दोर्द्वन्द्वं बहुशः प्रलोभ्य कमलालीलोपधानं भव तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसंगिनः ॥ १०८ ॥ दोर्द्वन्द्वं प्राप्नुम इत्युक्तम् । मदागमनकांक्षि बद्धकङ्कणमिवास्ते तद्द्वन्द्वम् । मद्विरोधिनिरसनसामर्थ्य मां श्रद्धापयितुं ज्याकिणायकानपि प्रदर्शयति । मम मातुरुपवानं च भवति श्रियः । एवं भूयो मदाश्रयणौचित्यप्रदर्शनं दोद्वन्द्वेनेत्युच्यते । मद्रक्षात्रतकौतुके सुकटके । स्वहस्तधृतकनकवलयानि लक्ष्म्यै प्रद ‘इमानि त्वत्पुत्ररक्षणार्थं निवद्धानि कङ्कणानीति’ तां रञ्जयति । विक्रान्तिकर्णजपे शार्ङ्गज्या किणकर्कशिनि । मणिबन्धे ज्याघाताङ्कं स्वपराक्रमसूचकं तस्यै वीरपत्लयै प्रदश्ये तां प्ररोचयति, सन्तोष यति । । सुमनःस्रङ्मोहदे मार्दवे । पुष्पहास इति नाम दुहान मर्दिवमस्ति विष्णोः । कुसुमस्रगिव मृदु दोर्द्वन्द्वम् । तन्मोहदं दर्द्विन्द्वम् । उपधानौचित्याय मार्दवप्रदर्शनम् । ज्याघाताककर्कशस्यशेमदिवम् । दोर्द्वन्द्वं बहुशः प्रलोभ्य । एवं बहुभिर्हेतुभिः पत्नीं सन्तोप्य । कमलाली लोपधानं भवत् । दोर्द्वन्द्वं कमलाया उपधानं भवति । कमलति सौकुमार्यातिरेकसुचनम् । तदाभिरूप्याय सुमनः स्रङ्मोहदमार्दववर्णनम् । पूर्वोक्तप्रलेाभनमुपयानत्वाङ्गीकाराय । १२४ श्रीरङ्गराजस्तवः । तच्चित्रालकमुद्रितम् । न कनकवलयमुद्राः ; ज्याघाताका वा चित्राः । किं तु कमलायाश्चितालकमुद्रा अति विचित्राः । श्रीरङ्गसंसंङ्गिनः (दोर्द्वन्द्वं) विजयते । श्रीरङ्ग संसङ्गश्च मद्रक्षणार्थम् । एवंभूतं दोर्द्वन्द्वं सर्वोत्कर्षेण वर्तते । ‘असङ्गो न हि सज्जते’ इत्युक्तोऽसङ्गः पुरुषः श्रीरङ्गसङ्गी । न केवलं सङ्गी । किं तु संसङ्गी ॥ भवार्तानां वक्त्रामृतसरसि मार्ग दिशदिव स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव । कराम्भोजं पङ्केरुहवनरुषा पाटलमिव श्रयामि श्रीरङ्गेशयितुरुपधानीकृतभुजम् ॥ १०९ ॥ न केवलं लक्ष्म्या उपधानम् । स्वस्योपधानीभवति दक्षिणबाहुः । तेन च वक्लमंगुल्या प्रदर्शयत इव । वक्त्रं चामृतसरः । तापत्रयाती भविनो नितान्तं तृषितास्तद्दाहशमनायाध्यात्मामृतपानं तीव्रमपेक्षन्ते । तद्रसपूर्ण सरो वक्त्रम् । ग्रीष्मसमये आतपतप्तानामध्वगानां जनानां मार्गसमीपस्थसरसः सत्त्वावबोधनायांगुली चिह्नाङ्किता दारुस्तम्भा मार्गे निवेश्यन्ते राज्याधिकारनियुक्तैः । अयं करुणामयः सौशील्यवात्सल्यनिधी रङ्गराजः स्वहस्तेनैवाङ्गलिचिह्नवद्दारुस्तम्भकार्य निर्वहति । उपहिते दक्षिणभुजे दृष्टिपातं कुर्वन्मुखं कटाक्षरूपेङ्गितेनायं दक्षिणहस्तेा वरदहस्त इति ज्ञापयतीव । एवं परस्परमहिमोपकारादिसुचनमङ्गद्वयेनेति विचित्रोऽनुभव आचार्याणां कं वा न वशीकुर्यात् । ‘इङ्गितज्ञा हि कोसला’ । नटस्याङ्गुल्या नयनादिना च भावप्रदर्शनकौशलं सहजम् । अयं कोसलदैवतम् । अयं रङ्गनटः । भवार्तानाम् । संसारघर्मतप्तानाम् ; संसाराध्यपरिश्रान्तानाम् । वक्त्रामृतसरासे । उत्फुल्लपङ्कजशी ततटाके भगवद्वक्त्रे । मार्ग दिशादिव । मार्गमुपदिशदिव । भगवद्दिव्यमङ्गलविग्रहोत्तमा ह्रस्य भगवद्धस्तरूपगुरोरुपदेशेनैव गम्यत्वम् । स्वयमेव खां तनुं विवृणुते । श्रीरङ्गराजस्तवः । १२५ स्वयमित्यत्राप्यन्वेति । स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव । दक्षिणहस्तस्य वरदत्वं सन्दिश्यते मुखनैव । अस्य गुरोर्मोनं व्याख्यानम् । तमसः पारं दर्शयतोत्यत्रेव दर्शनफलको पदेशः । ‘सन्दर्शनाद कस्माच्च’ ‘कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्’ इत्यादाविव सन्दर्शनशब्दग्रहणं भगवद्विग्रहविषय । श्रयामि श्रीरङ्गेशयितुः कराम्भोजं पङ्केरुहवनरुपा पाटलमिव । ताम्रवर्णो दृश्यते हस्तः । अम्भोजसदृशहन्तस्ताम्रः । रक्तत्वं रोषसुचकम् । यदि रोपरको हस्तः कथं स आश्रयणाहों भवेदित्याशङ्कायाम् उच्यते । सत्यं सरोषो रक्तहस्तः । किं तु तस्य रोषस्य विषयः पङ्केरुहवनम् । पङ्कजवनजिगीषयायं पाटलिमा । न भेतव्यमस्माभिः । एतद्व्यज्यते पङ्केरुहेत्यादिना । उपधानीकृतभुजम् । इदमुपधानीकरणमेव हेतुः पूर्वधिवर्णितो लेखयेऽपि । एतदुपाधिकमेव तदुलेखद्वयम् ॥ किरीटं श्रीरङ्गेशयितुरूपधानीकृतभुजो विधीशाधीशत्वात इति संस्पृश्य वदति । निहीनानां मुख्यं शरणमिति बाहुस्तदितरः स्फुटं व्रते पादाम्बुजयुगलमाजानुनिद्दितः ॥ ११० ॥ दक्षिणवा होरुपधानीकरणेनान्यदपि व्याख्यातं भवति । यद्यपि मौननियमोऽस्ति, ‘अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थ’ इत्यवचनेनाङ्गविन्यासविशेषमात्रेणैव भावप्रदर्शन नटनटीखभावः । अयं नटाग्रणी रङ्गनटः । अवाक्यप्ययं वदति, स्फुटं च वदति इत्युच्यते । श्रीरङ्गेशयितुरूपधानीकृतभुजः । उपहितो दक्षिणहस्तः । यथा वाम्बद्धो मौन्यपि सन्वदतीव तथा निद्राणोऽपि वदतीति व्यज्यते श्रीरङ्गेशयितुरिति वचनव्यक्तथा । १२६ श्रीरङ्गराजस्तवः । किरीटं संस्पृश्य वदति । सम्यक्स्पृष्टवा कथयति । विधीशाधीशत्वाद्घटते । किरीटस्पर्शेनेदमुच्यत इव । किराटर्शेन तस्यौचित्यं प्रदर्श्यत इव । किरीटौचित्यं तु निरङ्कुशेशितृत्वेन । अधिरुपर्यर्थकः । ईशोपरीशत्वम् । परत्वसुचकः किरीटस्पर्शी दक्षिणभुजः । आजानुनिहितः । नायनुपहितः, किं तु निहितः । निहितोऽयं चरणयुगलनिधिं प्रदर्शयति । तदितरो वाहुः । वामबाहुर्वामानामस्माकं शरण्यं दर्शयति । 1 पादाम्बुजयुगलं निहीनानां मुख्यं शरणमिति व्रते । पादौ प्रदश्मौ नीचनीचानां वास्तवं शरणमिति ब्रवीति । नीचानामपि सुलभत्वप्रदर्शनमत्र यथोत्तमानामुपर्युत्तमत्वं पूर्वार्धे । मुख्ययोरपि मुख्यतरत्वं तत्र । अत्र निहीनानां मुख्यत्वम् तत्र किरीटप्रदर्शनम् । अत्र पादप्रदर्शनम् । । मुख्यमिति नेदमौपचारिकं मन्तव्यम् । वास्तवमिदम्, सर्वैः श्रद्धेयमिति व्यज्यते । मुख्यं नामुख्यमौपचारिकं शरणम् । पूर्वार्धोक्ताधिशब्द स्थानेऽत्रमुख्यशब्दः । नितरां हीना निहीना अकिञ्चनाः ॥ मलयजशशिलिप्तं मालतीदामतल्प सुमणिसरवितानं कौस्तुभ वस्तिदीपम् । दनुजवृषविषाणोल्लेख चित्रं च लक्ष्मी ललित गृहमुपासे रंगसर्वसहोरः ॥ १११ ॥ ‘मन्दिरामन्दिरायाः’ इति वक्षोऽनुभवः श्रीवैकुण्ठस्तवे । ‘अन्तः पुरं जलधिराजकुमारिकायाः’ इति वक्षोवर्णने श्रीमदप्पयदीक्षिता वरदराजस्तवे । अत्र लक्ष्म्याः शय्यागृहत्वेन वक्षोऽनुभवः । पूर्वश्लेोके पादयुगलं शरणमित्युक्तम् ‘शरणं गृहरक्षित्रोः’ । अस्मदक्षितृत्वरूपशरणत्वमुक्तं तत्र । गृहत्वरूपशरणत्वमत्रोच्यते । बाहुद्वयवर्णनानन्तरं तन्मध्यवक्षोवर्णनम् । मलयजशशिलिप्तम् । चन्दनकर्पूराद्यनुलेपनविशिष्टम् ।श्रीरङ्गराजस्तवः । १२७ मालतीदामतल्पम् । पुष्पमयशय्यावत् । ‘तस्याः पुष्पमयी शरी रललिता शय्या’ । अनुलेपनापरि पुष्पमालाः । सुमणिसरवितानम् । महार्घरलसरैरलंकृतं वक्षः । खट्वावितानलम्बमानमणिसरविशिष्टत्वेनोल्लेखः । पुत्रा वा । कौस्तुभस्वस्तिदीपम् । जीवमणिदीपवत् । कौस्तुभाश्च सोदराः । दनुजवृषविषाणोल्लेख चित्त्रम् । क्रीडागृहे वृषविषाणादयो निवेश्येरन् । तल्लखचित्राणि च तत्र स्युः । वृषासुरादीनां विषाणानि भगवद्वक्षसि लग्नानि । एतच्छूलोकस्थविचित्रोल्लखा आचार्याणां चित्तमरञ्जयन्निव । उल्लेख चित्रमित्ययं श्लोकोऽपि वण्यते किमाचार्यैः । लक्ष्म्या ललितगृहं रंगसर्वसहोर उपासे । लक्ष्म्या भोगशयनमन्दिरमिदं भगवद्वक्षः । सर्वबुरन्धरं सर्वसाधनक्षममिदम् । रङ्गे विचित्रातदर्शनानि प्रदर्शनीयानि रङ्गधुरन्धरेण । विचित्रशयनगृह प्रदर्शनमत्र ॥ हारस्फारित फेनमं शुलहरीमालार्द्ध मुक्ताफल श्रेणीशीकर दुर्दिनं तत इतो व्याकीर्णरत्नोत्तरम् । आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निःसीमभूमाद्भूतं वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२ ॥ अमृतमथनप्रदर्शनमत्र रङ्गनेला । शयनमन्दिरत्वेनानुभवः पूर्वश्लेोके । अत्र मन्दरमथ्यमानोदधित्वेनानुभवो वक्षसः । तच्च खोलपर्यङ्कका भवति । दृश्यन्ते । हारस्फारितफेनम् । मुक्ताहाराः फेनायन्ते । अंशुलहरीमालर्द्धि । विशालनोलवक्षसः कान्तयो नीलतरङ्गायन्ते । मुक्ताफलश्रेणीशी करदुर्दिनम् । मुक्ताः शीर्यमाणजलकणवत् व्याकीर्णरतोत्करम् । मथितादला करादु कीर्यमाणरलानीवात्रो १२८ त्कीर्णरत्नानि । श्रीरङ्गराजस्तवः । आविःकौस्तुभलक्ष्मि । किं रत्नैरन्यैः ? कौस्तुभरत्नमाविर्भवति । स्त्रोरलं लक्ष्मीरष्याविर्भवति । मन्दरमथ्यमानजलधिश्लावम् । ‘ययौ वक्षःस्थलं हरेः’ इति समुद्रमथनलब्धाया लक्ष्म्या वक्षःस्थलगमनमुक्तम् । अत्र वक्षस एव मथनम् तत्रैव लक्ष्म्याविर्भाव इत्युलेखः । निःसीमभूमाद्भुतम् । अस्य महिमविस्तारादीनामपरिच्छद्यत्वम्; अद्भुतत्वं च । श्रीरङ्गदसतेर्वक्षो विलोकेमहि । न क्षीराब्धिवसतेः ; किं तु श्रीरङ्गनिवासिनः ॥ वक्षस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वेशत्वं प्रथयतितरां रंगधाम्नस्तदास्ताम् । कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदा नद्धा मौग्ध्याभरणमधिकं नः समाधिं धिनोति ॥ ११३ ॥ वक्षस्थले परत्वं सौलभ्यमुभयं चानुभूयते । यथा लक्ष्मी कौस्तुभावलंकृतं वक्षस्तथा यशोदानद्धग्राम्याभरणेनाप्यलंकृतम् । यथा लक्ष्म्या नित्ययोगः, तथा यशोदानद्धम लयाऽपि नित्ययोगः । किमिदं सौलभ्यम् । एतद्वीक्ष्य समाहितं भवति चेतः । सर्वमपि भयं शाम्यति । वक्षःस्थल्याम् । लक्ष्मीवासस्थानस्य स्त्रीत्वेन निर्देशः स्थलीति । तुलसिकमलाकौस्तुभैः । प्रत्येकं परत्वबोधनमेमिः । श्रियःपतित्वेन पुरुषसुक्तप्रतिपाद्यत्वम् । कौस्तुभैर्जीवानां परमप्राप्यत्वं । एतेषामप्राधान्यं वैजयन्त्यपेक्षयेति सुच्यते तृतीयानिर्देशेन । वैजयन्ती । वनमाला पञ्चभूताभिमानितत्वम् । एतेन प्रकृ तीश्वरत्वसुचनम् । ‘पतिं विश्वस्य -’ इति । श्रीरङ्गराजस्तवः । १२९ रङ्गधाम्नः सर्वेशत्वं प्रथयतितराम् । भूतमाला रूप बृहतीपता का सर्वेशत्वं सुतरां प्रथयति । आस्तां तत् । तत्तिष्ठतु । यशोदानद्धा । नेयं मुख्यमाता । गोपीयम् । तया नद्धा । कूर्मव्याधीनखपरिमलत्पञ्चहेती । इदमपि रञ्जयति लक्ष्मीम् । मौग्ध्याभरणम् । बालाभरणम् । ग्राम्याभरणम् । नः समाधिमधिकं धिमोति । अधिकं प्रीणात्यस्मन्मनः । नो भयं शमयति । निर्विशङ्कं करोति ॥ क्रियान् भारो मम जगदण्डमण्डलीत्यतृप्तितः कृशितमिवोदरं विभोः । रिरक्षिपोचितजगतीपरम्परां परामिव प्रथयति नाभिपङ्कजम् ॥ ११४ ॥ उदरनाभ्यनुभवः । प्रलयकाले उदरेऽण्डानां निक्षेपः । महापुरुषस्यास्योरसः काश्य स्वभावः । अस्य विश्वनिगरणं च स्वभावः । उभयोर्हेतुहेतुमद्भाव उत्प्रेक्ष्यते । रक्षणसमर्थस्य कारुणिकस्य रक्ष्यन्यूनतया शोकः ; तत्प्रयुक्तकायै च । जगदण्डमण्डली । प्रलीयमानानि सर्वाण्यण्डानि । कियान् भारो मम । ममात्यल्पभारः । नालं भरो मम । इत्यतृप्तितः । एवं भारानलंबुद्धिप्रयुक्तशोकेन । कृशितमिवोदरं विभोः । अस्योदरं शोकेन सञ्जातकाश्यमिव । विभोशित विशेषणेनास्य सर्वव्यापिनो विश्वशरीरिणो जठरस्यातिवृहत्त्वौचित्यं सुच्यते । विभोः स्वकीयरक्षणव्यग्रतासुचनं च । नाभिपङ्कजम् । जठरस्य शोकं तत्स्थनाभौ स्थितं नालीकं शिशमयिषति । भूयो रजस्तस्मिन् पङ्कजे । रजश्च स्रष्टृन् वेधसः सृजेत् । 17 Sr १३० श्रीरङ्गराजस्तवः । रिरक्षिषोचितजगती परम्परां परां प्रथयतीव । तीव्ररिरक्षिषापूर्त्यभावप्रयुक्त एव जठरस्य शोकः । रिरक्षिषापर्याप्तरक्ष्यजगत्सम्पादनेनैवोदरस्य शोकोऽपनुद्येत । तदुचितबृहत्तराण्डमण्डलीमन्यां विस्तारयति । प्रथ विस्तारे । परामित्यन्यार्थकः, उत्कृष्टार्थकश्च । पूर्वस्या बृहत्तरा । प्रथयतीत्यनेनापि पृथूकरणमुच्यते । ‘नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः’ इत्युत्तरशतके । तत्र पादनाभ्योः स्पर्धा । अत्र स्वावयविभूतोदरशोकनिर्विवर्तयिषा नाभेः । ‘विश्वं निगीर्य विबुधेश्वरजातकार्यम् -’ इति वेदान्ताचार्याः । कृशितमित्यत्रस्थस्य विवरणं जातकार्यमिति ॥ त्रिविधचिदचिद्वृन्दं तुन्दावलम्बि वलिवयं विगणयदिवैश्वर्ये व्याख्याति रंगमहेशितुः । प्रणतवशतां व्रते दामोदरस्वकरः किण स्तदुभयगुणाकृष्टं पट्टे किलोदरबन्धनम् ॥ ११५ ॥ उदरस्थवलित्रयमनुभूयते । उत्तमस्त्रिय इव लावण्यधाम्नः पुरुषोत्तमस्य वलिवयं चारु भवेत् । वलित्रयेणादरं भागत्रयेण विभक्तमिव भाति । चितो नित्यमुक्तवद्धत्वेन त्रेधा विभक्ताः । अचितश्च प्रकृतिकालनित्यविभूतित्वेन । वलित्रयकृतविभागेषु त्रेधा विभक्ताश्चिदचितो निविशन्त इव । तुन्देन वलित्रयविभागेन चिदचिदैश्वर्याणि विभज्य गण्यन्त इव । सत्यपि सर्वलोकैकैश्वर्ये वलित्रयव्याख्यातेऽस्ति तत्रैवोदरे रेखान्तरम्, येन सर्वेश्वरस्य प्रणतवशता व्याख्यायते । सा च मात्रा यशोदयोलूखले दाम्ना बन्धनेन जनिता । एवं यत्रैश्वर्यप्रदर्शन तत्रैव सौलभ्यकाष्ठा प्रदर्शनमपि । तुन्दावलम्बि वलिनयम् । उदरावलम्बिन्यस्तिस्रो वलयः । त्रिविधचिदचिद्वृन्दम् । त्रैविध्यं चित्स्वचित्सु च । बृन्दमिति सर्वेषामत्रैव सत्त्वं द्योत्यते । रङ्गमहेशितुरैश्वर्यम् । सर्वचिदचिन्नियमनरूपमहैश्वर्यम् । ‘सर्वस्य 1 श्रीरङ्गराजस्तवः । १३१ वशी सर्वस्येशानः’ इति श्रुतिः । तच्छ्रुतिप्रत्यभिज्ञापनं महेशितृशब्देन, तृतीयपादस्थवशताशब्देन च । यत्त्र सर्वेशितृत्वकीर्तनं तत्रैव सर्वस्य वशित्वकीर्तनं च । ‘एकैश्वर्ये स्थितोऽपि प्रणतबहुफले’ । तिष्ठतु तेभ्यः फलदातृत्वम् । तेषां तावद्वशो भवति यथा तैर्बन्धनं सहते । व्याख्याति । ऐश्वर्यख्यातिं व्याख्याति । दामोदरत्वकरः किणः । ‘दामानि लेोकनामानि भान्ति यस्योदरान्तरे । तेन दामोदरो देवः -’ इति वचनमुदाहृतं सहस्रनामभाष्ये । मणिबन्धे इवेोदरबन्धे किणः । यथा ज्या किणः शवविजयद्योतकस्तथायं दामकिण आश्रितकर्तृकज्याकिणपराजयद्योतकः । प्रणतैः पराजयः सौलभ्यवि जयद्योतकः । द्वादशनामसु काष्ठाभूतं चरमं दामोदरनाम । तन्नाम दुग्धमनेन किणेन । नाम्ना यशः । ततः स दामोदरतां प्रययौ दामबन्धनात्’ इति पराशरः । प्रणतवशतां व्रते । नात्र व्याख्यानापेक्षा, यथा पूर्वार्धोक्तविषये । स्पष्टमिदमाख्यायते दामकिणेन । आबालगोपालं प्रसिद्धं खलु दामादरत्वम् । तत्किणदर्शने व्याख्यानं विनैव स्पष्टं दामोदरत्वं कथितं भवति । एतद्यज्यते ‘ते’ इति । ‘दामोदरः सहः’ इति सहस्रनामसु । दामबंन्धतर्जनभर्त्सना दिसहनात्सह इत्यपि नाम सम्पादितम् । तदुभयगुणाकृष्टं पट्टे किलोदरबन्धनम् । गुणः पट्टो बध्यत विजयोत्कर्षसुचनार्थम् । अस्मिन्नुदरबन्धे एतैः परत्वसौलभ्यसूचकैर्गुणैविजयोत्कर्षपट्टबन्धव दिवाभात्युरुवन्धनम् । गुणैराकृष्य बध्यन्ते गुणाः । ‘गुणा गुणानुवन्धित्वात्तस्य सप्रसवा इव’ । गुणैराकृष्य बद्धं गुणपट्टमिव । तयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं विकादस्मात्तत्वं परमिति वितर्कान्दिवटयन् । १३२ श्रीरङ्गराजस्तवः । विभोनीभीपद्मो विधिशिवनिधानं भगवत स्तदन्यभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६ ॥ रङ्गमहेशितुरित्युक्तं पूर्वश्लेोकं । सर्वैश्वर्य चोक्तम् । किरीटवर्णने विधीशाधीशत्वं श्रीरङ्गशायिनि घटत इत्युक्तम् । न प्रतिज्ञामात्रेण कश्चित् सिद्धान्तः साधितो भवेत् । एवमाक्षिप्ते नाभीपद्मो भगवत्परत्वं करतलामलकीकृत्य स्पष्टं निदर्य सिद्धान्तयतीत्युच्यते । बहवः पक्षास्त्रिमूर्तीनां परत्वविषये । ‘आत्मैक्यं दैवतैक्यं त्रिकसमधिग (क)ता तुल्यतैक्यं त्रयाणामन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः । ’ इति वेदान्ताचायी इमं श्लोकं सर्वात्मनाऽनुगच्छन्ति । साधूक्तम् ‘अनुकरोति कूरनाथसुतम्’ इति । त्रयो देवास्तुल्याः । समत्वं तिसृणां मूर्तीनाम् । तेषां व्यक्तिर्ब्रहु त्वेऽपि तुल्यत्वम् । त्रितयमिदमद्वैतम् । एकस्यैव तत्त्वस्य तिस्रो मूर्तयः प्रकाराः । ‘एकैव मूर्तिर्बिभिदे त्रिधा नु’ इति कालिदासः । तत्पक्ष व्यक्त्यैक्यम् । अधिकं त्रिकादस्मात्तत्त्वं परम् । न त्रिष्वन्यतमस्य परत्वम् । त्रिकाद्वहिर्भूतस्य तुरीयस्य परत्वम् । इति वितर्काविघटयन् । एवं बहुधा विप्रतिपत्तीः शमयन् । विधिशिवनिदानम् । ब्रह्मरुद्रावत्र पुत्रपौत्रत्वेन प्रत्यक्षी कियेते । भगवतो विभांर्नाभीपद्मः । नाभीपद्मेन भगवदितरयोः पुत्रपौत्ररूपावरत्वम् ; तयोस्तदुत्पन्नत्व तन्नियाम्यत्वादि च स्पष्टं निःसंशयं प्रदश्यते । भगवच्छब्दो विभुशब्दश्च निरङ्कुशैश्वर्ययोतकौ । तदन्यत् । भगवदन्यमूर्तिद्विकम् । भ्रभङ्गीपरवत् । तयोः परत्वं पूर्वपक्षितम् । न परत्वं तयोः । ; किं तु भगवद्भूभङ्गीपरवत्त्वमिति चारु प्रदश्यते । न परत्त्वम्, किं तु पर बत्त्वम् । श्रीरङ्गराजस्तवः । १३३ इति सिद्धान्तयति नः । तिष्ठन्तु दर्शनस्थापका ऋषय आचार्यश्च । इयं नाभिरेव प्रचलतमेन प्रत्यक्षप्रमाणेनास्माकं सिद्धान्तयति । नाभिश्च मध्यस्था । मध्यस्थेक्तेः श्रद्धेयत्वम् । शब्दश्च प्रथमं नाभेरुत्पद्यते । हार्दोऽयमुपदेशः । ‘विधीशाश्रीशत्वं घटत इति संस्पृश्य वदति’ इति किरीटविषयश्लोक उपपत्तिमात्रोपदेशः । न करबदरसमानं प्रत्यक्षनिदर्शनम् ॥ गर्भे कृत्वा गोष्तुमनन्तं जगदन्तर्मज म्या वाञ्छति साम्यं ननु नाभिः । उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्धमिभूयं नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७ ॥ कथं भगवतः परत्वसिद्धान्तनम् । पुत्रपौली भगवतोऽपि व्यापकौ स्याताम् । पितुः परः पुत्रः पौत्रश्च भूयो दृश्यते । न पुत्रपौत्रमालत्वादवरत्वनिर्णयः साधीयान् । एवमाक्षिते तत्कार्यभूतसृष्टप्रलयावियमेव निर्वर्तयतीत्युच्यते । यदि नाभिरेव ‘गम्भीरत्वात्कचन समये गूढनिक्षिप्तविश्वा’ इति प्रलयावा. रा, यदि च तस्या नालीकं प्रलीनं जगदुद्धृत्य स्रष्टुं समर्थ ध्रुवं भगवतैव सृष्टिप्रलयौ निर्वर्त्यते इति दृढं निश्चीयेत । अतस्तत्प्रदश्यतेऽत्र । अनन्तं जगत् । उपरिभागे भागेविभूत्यान्तवत्त्वं जगतः । इतरथाऽ नन्तवत्त्वमेव । गर्भे कृत्वा गोप्तुम् । प्रजायां मातुरिव वात्सल्यं द्योत्यते गर्भ इति । गोप्तुमिति प्रलयस्यापि कृपाकार्यत्वं द्योत्यते । अन्तर्मजद्भम्या साम्यं नाभिवीच्छति ननु किं न वाञ्छति । नामिरावर्त इव दृश्यते । मज्जज्जगदनुमिमङ्क्षतीव नाभिः । एतन्मग्नं जगदुत्क्षिप्य । तत् द्रष्टुमुपरि निर्गच्छद्ध मिसाम्यं भजते नाभीपद्मम् । भ्रमिभूयं भ्रमिसादृश्यम् । रहति, गच्छति । नामरूपान्तरप्रतिपत्तिरूपसृष्टिसन्दर्भे यो रंहतिशब्दप्रयोगः स तार्तीयप्रथमसूलस्मारकः । १३४ श्रीरङ्गराजस्तवः । ‘तदन्तरप्रतिपत्तौ रंहति’ इति । रङ्गायतनाब्धेः । इदं सर्व श्रीरङ्गनाथसमुद्रे ॥ मदमिव मधुकैटभस्य रम्भा करभकरीन्द्रकराभिरूप्यदर्पम् । स्फुटमिव परिभूय गर्वगुर्योः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८ ॥ 1 नामेरावर्तौपम्यवर्णनं कृतम् । तदध ऊर्वोरवतीर्य तदौपम्यान्वेषणवर्णनादिकं बह्वपायमत्यन्तसाहसम् । कुञ्जरोऽयं रङ्गकम्रः । अस्योरू अत्यन्तमतौ यथा मधुकैटभरूपप्रबलतम शत्रोर्मदमपनिन्यतुस्तथा खोपमान्वेषिणः सर्वान्, परिभावयतः । रम्भाकरभनागना साखित्वा प्रवृद्धविमदावृतौ दृश्येते । यदि वयं तदौपम्यान्वेषणवर्णनादौ प्रवर्तेमहि धवं वयमपि परिभूयेमहि । ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति समाधिकरहितयोरनयेोर्निरुपमत्वमेव कथ यामः । मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्प स्फुटमिव परिभूय । मधुकैटभरूपप्रवलशव दण्ड्यौ । मिःसमाभ्यधिकेनेश्वरेण साम्यमन्विष्यतां सर्वेषामपि गर्वः शमयितुं योग्य इति व्यज्यते । गर्वगुर्योः । स्वभावतो गुरू ऊरू गर्वेण गुरू इत्युत्प्रेक्ष्यते । किमुपमिमीमहि । साम्यान्वेष्टारः सर्वेऽपि परिभूयन्ते । अस्माकं तदुपमानान्वेषण प्रवृत्तिः केवलं परिभवमेवापादयेत् । अतिदृप्ते मत्ते इमे ऊरू । तत्साम्यवर्णनं ध्रुवं न सहेयाताम् । अतो विरमामस्तत्प्रयत्नात् ॥ । कटीकान्तिसंवादिचातुर्यलीला लसद्रत्नकाञ्चीकलापानुलेपम् । महाभ्रंलिहन्मेरुमाणिक्यसानू रिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९ ॥ ॥ श्रीरङ्गराजस्तवः । १३५ समुद्रौपम्यं वर्णितं रङ्गराजस्य तन्नाभिवर्णने । निरुपमत्वं वर्णितं मत्तयेोरूर्वोः । अत्र मेघत्वेन रङ्गराजं, पोताम्बरं च मेरुमणिम यसानुत्वेन चेात्प्रेक्ष्येते । स्वर्णवर्णमेरुसादृश्यं पीताम्बरस्य । माणिक्यखचितसानोरौपम्यमुपरिभागे रत्नकाञ्चीपरिवेष्टितस्य पीताम्बरस्य । पीताम्बरेण लीढेो मेघश्याम वि महः । कटीकान्तिसंवादिचातुर्य लीलाल सद्रत्नकाची कलापानुलेपम् । सुन्दरबाहुविषये श्रीमद्वकुलभूषणवर्णनरीत्यनुसारः स्पष्टः । न स्पर्धा क्रियते किं त्वेकदेशसंवादित्वमात्रम् । अतस्तस्य चातुर्यम् । न स्पर्धते यथा रम्भा: दिरूरुभ्याम् । विनयचातुर्येण भगवद्विप्रहे स्थिरसंश्लेषं लभते । महाभ्रंलिहन्मेरुमाणिक्य सानूरिवाभाति पीताम्बरम्। रङ्गराजविग्रहस्योपमानभूताम्रस्य महत्वम् । रङ्गबन्धोः। संवादित्वमात्रमनोरथरूपविनयेन बन्धुर्भवति रङ्गकुञ्जरः । सर्वोऽपि दर्पः प्रशान्तो विनयप्रदर्शनेन । स्वजनो बन्धुर्भवतीव । मर्मस्थलांशुपरिवेष इवाम्बुराशेः सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य । शम्पा कदम्बकमिवाम्बुमुचो मनो नः पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२० ॥ पुनरपि श्रीरङ्गराजस्य समुद्रत्वेनानुभवः । भगवन्नीलविग्रहे पीताम्बरं सागर सौवर्णस्थलकान्तिपरिवेष इव सन्ध्यारक्तमेघमालेव, विद्युन्मालेव च भातीत्यनुभवः । अम्बुराशेर्मर्म स्थलांशुपरिवेष इव । नीलो गम्भीरो कान्त्यम्मः कल्लोलो भगवानम्बुराशिः । तत्र खर्णस्थली कान्तिपरिवेषवद्धाति स्वर्णवर्णमम्बरम् । सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य । नीलं नभः । तत्र सन्ध्या रक्तमालेव । १३६ श्रीरङ्गराजस्तवः । अम्बुमुचः शम्पाकदम्बकमिव । नीलमेघे विद्युन्मालेव । अम्बुमुच इति वर्षुकदशापन्नमेघग्रहणम् । तदानीमेव विद्युन्मालावत्त्वसम्भवः । पीताम्बरं पिबति नो मनः । एवं स्थितं पीताम्बरम् । मनः पीताम्बरपातृ इति पीताम्बरं मनःपातृ इति वा स्यात् । अम्बरं पीतं येन तन्मम मनः पिवतीति वा तन्मम मनः कर्म पिवतीति वा । पीताम्बरं पिबतीति पीताम्बरस्य कर्मत्वेऽधिकं स्वारस्यमिव । अम्बरपायि मन्मनः पिबति । ‘आकाशवत्सर्वगतश्च’, इत्यंबर तुल्यबृहद्गात्रस्याच्छादकं वसनं ध्रुवं पीताम्बरसंज्ञां भजेत । मनसा पानवर्णनं खरसम् । ‘लोचनाभ्यां पिबन्निव ’ । रङ्गधुरन्धरस्य । रङ्गधुरन्धरेण प्रधाननटेन बहुविचित्रवेषवर्णादिपरिग्रहः क्रियेत । खर्णकान्त्यावृतनीलसमुद्रमिव, सन्ध्यारक्तनीलनभ इव विद्यन्मालावृत कृष्णमेघमिव चात्मानं विचित्र विचित्रं दर्शयति रङ्गनिर्वाहको नटः ॥ वैभूपण्यां कान्तिराङ्गी निमग्ना विष्वद्रीची कापि सन्मादवृत्तिः । जाने जानुद्वन्द्ववार्ताविवत जातः श्रीमदंगतुंगालयस्य ॥ १२१ ॥ ‘आङ्गी निसर्गनियता त्वयि हन्त कान्तिर्नित्यं तवालमियमेव तथाऽपि चा न्या । वैभूषणी भवति कान्तिरलंतरां सा है पुष्कलैव निखिलाऽपि भवद्विभूतिः ॥ ’ इति श्लोको भाव्यः । आंगी कान्तिः । अवयवेभ्यः प्रवहन्ती शोभा । वैभूषण्याम् । (कान्तौ) आभरणशोभाप्रवाहे । निमग्ना । मज्जन्ती । विष्वद्रीची सर्वत्र व्यापिनी । कान्तिप्रवाहे कान्तिप्रवाहस्य पतने वेगाधिक्यम् । अन्तर्गता ममाङ्गकान्तिः सर्वत्र व्याप्नोति ।श्रीरङ्गराजस्तवः । १३७ कापि सोन्मादवृत्तिः । प्रवाहस्योन्मादो नामावर्तरूपेण कुत्र चिन्निर्गमनम् । जानुद्वन्द्ववार्तावित जातः । जानुद्वन्द्वनान्ना व्यक्तीभवति । प्रवाहावर्तविवर्तरूपपरिणामावेव जानू । विवर्तश्च विचित्र परिणामः । बार्तेति नाममात्रं जान्विति । कान्त्यार्तपरिणाम एवं वस्तुतः । पेक्षिता ॥ । जाने । उत्प्रेक्षे । नेदमाहार्थं, किं तु तत्त्वमेवेति जाने इति वा । रङ्गतुङ्गालयस्य । रङ्गनिवासिनो नटस्य जानुजङ्घादिशोभावश्या श्रीरङ्गेशयजङ्घे श्रीभूम्यामहिर्षकण्टकिते । तत्केलिन लिन मांसलनालद्वयललितमाचरतः ॥ १२२ ॥ इदानीं जङ्घानुभवः । श्रीरङ्गे शयानस्य जङ्के श्रीभूमिभ्यां करकमलैलील्येते । देवकरस्पर्शे कण्टकिते भवतो जङ्घे । कण्टकितकमलनालाविव दृश्येते । श्रीभूम्योलीलारविन्दे इव भगवतः पादकमले । तदरविन्दसम्बन्धिनौ पद्मनालाविव जये । श्रीरङ्गेशयजङ्घे । शयानस्य जङ्घे पत्नीभ्यां संवाह्येयाताम् । रङ्गनटस्य नटनेन जङ्घाश्रान्तिसम्भवः । श्रीभूम्यामहर्ष कण्टकिते । पत्नीकरस्पर्शन सज्जात पुलके कण्ट किते भवतः । अतः कण्टकनालसादृश्यम् । तत्केलिन लिनमांसलनालद्वयललितम् । तयोर्लीलारविन्दे भगवतः पादपद्मे । तयोः पद्मयोर्मित्तपीवरनालयुगमिव जङ्घाद्वितयम् । तललितं तद्विलासम् । आचरतः । वहतः । ललिताचरणं नटजङ्घयोर्युक्तम् ॥ वन्दारुवृन्दारकमौलिमालायुञ्जानचेतः कमलाकरेभ्यः । संक्रान्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै वै च ॥ १२३ ॥ 18 Sr १३८ श्रीरङ्गराजस्तवः । पादाम्भोजानुभवं वन्दारुशब्देनोपक्रमते । तत्र सर्वेषां पराणामपि नमन न्याय्यम् । लक्ष्मीकरस्पर्शेन जङ्घयोः पुलकहर्षावुक्तौ । तत्कर योगेन पादाम्भोजे रागसंक्रान्तिरुच्यते । ‘तद्विप्रासो विपन्यवो जागृवांसः समिन्धते’ ‘विष्णोर्यत्परमं पदम् पादपद्मविषयां तां श्रति योजयामः । ‘विषन्यव’ इत्युक्तमेवोच्यते ‘नुवै’ इति । वन्दारुवृन्दारकमौलिमालायुञ्जानचेतः कमलाकरेभ्यः । संक्रान्तरागाविव । रक्ते पादपद्मे । तयोश्चैभिर्ब्रहुतरो योगः, सततयोगो वा । तेभ्यः संक्रान्तरागे इव रक्ते पादपद्मे । प्रणतसुरकिरीटरत्नरागसंक्रान्तिः । युञ्जानानां भक्तियोगनिष्ठानां भगवत्पादाम्भोजविषय निविडरागः पादाम्भोजे संक्रामति । कमला पद्मा । पद्मात्वेन तस्याः कीर्तनमत्र चारु । कमलायाः सजातीये पादाम्भोजे रक्तिः । तस्याः करौ सरसिजे ताभ्यां रागसंक्रान्तिः ॥ संक्रान्तरागाविव पादपद्मौ । स्वाभाविकरागस्य पादसम्बद्ध किरीटयोगिचेतः पद्माकरेभ्यः संक्रान्तिरुत्प्रेक्ष्यते । युञ्जानानां लक्ष्म्याश्च रागमनु रक्ते भवतः पादपद्मे । रागवद्विषये रागो न्याय्यः । कृते च प्रतिकृतिः कार्या । मनवै । पूर्वोक्तसर्वसम्बद्धत्वेन मनवै । योगिमनोयुक्तत्वेन, लक्ष्मीफरलालितत्वेन च मनवै । न पादाम्भोजमात्रमननम् । सर्वविशिष्टयो । मैननम् । नुवै च । ‘तद्विप्रासो विपन्यवः’ इति सातत्येन स्तवनान्वयित्वे मनोरथकाष्ठा ॥ यद्वन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं ‘यलक्ष्मीकर सौख्यसाक्षिजलजप्रस्पर्धमानार्थ यत् । यद्भक्तेष्वजलस्थलशमपि यद्दत्यप्रसङ्गप्रियं तद्विष्णोः परमं पदं चहतु नः श्रीरङ्गिणों मङ्गलम् ॥ १२३ ॥ 1 श्रीरङ्गराजस्तवः । १३९ ‘नुवै’ इति स्तवनमनोरथ उक्तः । स्तवः प्रस्तूयते । ‘विपन्यवः’ इति विविधं विचित्रं स्तवनम् । स्तुतिश्चोदाहृतश्रुत्युक्तविष्णुपदविषया । उदाहृतश्रुतिरत्नाचार्यबुद्धौ परिवर्तत इति तच्छ्रुतिस्थस्य ‘विष्णोर्यत्परमं पदम्’ इति चरमखण्डस्य ‘तद्विष्णोः परमं पदम्’ इति स्मारणात् स्पष्टीक्रियते । यद्वृन्दावनपण्डितम् । पादाम्भोजं न जडम् । किन्तु पण्डितम् । सर्वज्ञस्य पदं पण्डितम् । वृन्दावनं कृत्स्नमनेन क्रान्तम् । तत्रासदृशं पाण्डित्यमस्य । । दधिरवैर्यत्ताण्डवं शिक्षितम् । पण्डितश्चेत्कुतोऽस्य शिक्षत्याकां क्षा नियता । तत्रोच्यते बहुभ्यः श्रुतमनेन । बहुश्रुतमिदम् । दधिमन्थरवैः शिक्षितं बोधितमिति । खैरेव गुरुभिः शिष्येषु विद्याकलादि संक्रमः । बहुवचनेन गुरुवहुत्वम् । पाण्डित्यं च नर्तने । ‘दध्ना निमन्थमुखरेण निबद्धतालम् -’ इति मध्यमानदधिशब्दरूपतालमनु नर्तनाभ्यासः । यलक्ष्मीकरसौख्यसाक्षि । वृन्दावनसञ्चरणेन, ताण्डवाभ्यासेन श्रान्तं पदं संवाह्यते दयितया लक्ष्म्या सुकुमारतमकराभ्याम् । अनेनात्यन्तमार्दव्यञ्जनं पादाम्भोजस्य । तेन च वृन्दावनचरणानर्हत्वं नर्तनसमकाठिन्यानर्हत्वं च । ‘साक्षी चेताः ’ भगवान्। लक्ष्मीकरसौख्यसाक्षि पादाम्भोजम् । लक्ष्मीकरस्पर्शसुखवेत्त्रिति वा, स्वसंवाहनेन लक्ष्मीकरयोः सञ्जातसुखदृष्टिति वा । ‘कर्माध्यक्षः’ । जलजप्रस्पर्धमानार्ध यत् । सौकुमार्यं व्यञ्जितं पूर्वविशेषणेनेत्युक्तम् । लक्ष्मीः पत्नी । तस्याश्च भूयानभिमानः पक्षपातो नायकपादे । कथं तत्प्रीत्या पादसौकुमार्थनिर्णयः ? यदि तेन न निर्णयः, आनोयतामम्भोजम् । उभयं सन्तोल्यताम् । इदमेव पदं तदतिशयीत । प्रस्पर्धमानेति प्रोपसर्गेण पादस्य जयसूचनमिव । ऋद्धिश्च सौकुमार्यशाभासौगन्ध्यादिमहिमा । ‘तत्पादद्वितयस्य दास्यमपि न प्राप्नोति पंकरुहम्’ इति १४० सामान्यस्त्रीविषये विल्हणः ॥ श्रीरङ्गराजस्तवः । यद्भक्तेष्वजलस्थलज्ञम् । उच्चनीचभेदानभिज्ञम् । सर्वत्र समम् । सर्वसुलभम् । जलजं जल एव रूढं भवेत् । इदं तु जले स्थळे च रूढमूलं भवति । उभयोः स्पर्धायामेतद्विशेषं द्योतयितुं जलजशब्दग्रहण पद्म । पदे च जलस्थलोभयभवत्ववर्णनं च । जलं निम्नप्रदेशे स्यात् । निम्नं गच्छन्त्यापः । स्थलं चोच्चत्वद्योतकम् । पण्डितस्येदमेकमज्ञानं मर्षणीयम् । दृत्यप्रसङ्गप्रियम् । उच्चनीचत्वाज्ञत्वं न केवलमुच्चनीचव्यक्तिषु ; किं तूच्चनीचव्यापारेषु च । दूत्यमतिर्निकृष्टम् । ‘न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः’ अत एव ‘मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ’ इत्युच्यते सर्वज्ञेन पण्डिततमेन हनूमता । दृत्यप्रसङ्गे रुचिः । तदवसरप्रतीक्षा । तद्विष्णोः परमं पदम् । निकृष्टतमव्यापाररूपदृत्यस क्तत्वमुक्तम् । तेनैवास्य परमात्तमत्वरूपपरमत्वमिति व्यज्यते दूत्यप्रीतिवर्णनानन्तरं परमत्वग्रहणेन । विष्णोः पदमुच्चनीचेषु सर्वत्र व्याप्तं भवेत् । नीचेष्वसंयुक्तं चेद्विष्णोः पदं न स्यात् । विष्णोः पदं कृःखवृन्दावनचारि । विष्णोः पदं दूत्यादिसर्व क्रियान्वयि । श्रीरङ्गिणः । विष्णोः श्रीरङ्गिण इति वा ; श्रीरङ्गिणो विष्णोरिति वा । ‘रामाभिधानो हरिरित्युवाच ।’ गोपवेषस्य विष्णोः’ इति । नो मङ्गलं वहतु । जगन्मङ्गलवहत्वं पादस्य । ‘एते हि सर्वलो कस्य योगक्षेमं विधास्यतः’ इति वसिष्ठः पादुकाविषये । तत्र हेतुश्च पादुकयोः पादाभिन्नत्वमेव ‘आर्यपादाविमो ’ । योगक्षेमं वहति भगवान् । मङ्गलं वहति पादः ॥ शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वज च्छती कल्पक शंखचक्रमु कुरैस्तैस्तैश्च रेखामयैः । श्रीरङ्गराजस्तवः । ऐश्वर्येण जयं विविक्रममुखं घुष्यद्भिराम्रेडितं १४१ श्रीरङ्गेयपादपङ्कजयुगं बन्दामहे सुन्दरम् ॥ १२४ ॥ /25 मननं कृतं ‘मनवै’ इति । ‘नुवै’ इति स्तवनं कृतम् । पादयोर्वन्दनं । खलु प्रधानम् । तस्क्रियतेऽत्र । मङ्गलबहनं प्रार्थितम् । वज्रपद्मध्वजादिरेखायोगेन परममाङ्गलिकत्वमुच्यते । दधिरवैः शिक्षणमुक्तम् । इदानीं स्वभूषणरवैर्जयोद्धोषणमुच्यते । ‘तद्विष्णोः परमं पदम्’ इति पादविषयिणी श्रुतिरूपात्ता पूर्वश्लेोके । ‘लोणि पदा विचक्रमे ’ ‘यः पार्थिवानिविममे रजांसि’ इत्यादिपादविजयोद्घोषिकाः श्रुतयः सन्ति । शब्दरूपाः श्र तयः पादभूषणानि भवन्ति । ताभिश्च त्रिविक्रमापदानादिर्विजयोद्धोषणम् । ऐश्वर्येण त्रिविक्रममुखं जयमांम्रेडितं घुप्यद्भिः । त्रिविक्रमयशोविषयर्चामुच्चैरुद्धापकत्वानुभवो ‘डिण्डिमस्तत्र वेद’ इत्याचार्यैरूचे उत्तरशतके । शिजानश्रुतिशिखिनीमणिरवैः । शब्दायमानाः श्रुतय एव शिञ्जानमणिनूपुराणीव । रेखामयैर्वज्रारविन्दध्वजच्छत्री कल्पक शङ्खचक्रमुक्कुरैस्तैस्तैश्च । माङ्गलिकरेखाः सर्वोत्कर्षयोतिकाः । ध्वजच्छलादिकं जयचिह्नम् । सुन्दरं श्रीरङ्गेशय पादपङ्कजयुगम् । अत्र वन्दन काले चरणयुगलस्य ग्रहणम् । तिष्ठतु विजयादिकम् । सौन्दर्यमे कमलमस्मान्वशीकर्तुमिति सुन्दरपदेन व्यज्यते ॥ पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गली चलज्झलितजाह्नवीलहरिवृन्दसन्देहदाः । दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुम प्रवालनखमञ्जरीर्नखरुचीर्विगाहेमहि ॥ १२५ ॥ 126 पादाङ्गल्यः पादनखानि चानुभूयन्ते । ‘नखमणिचन्द्रिकया निरस्ततापे’ इति शुकः । महांस्तवः कृतः । ज्ञानयज्ञः प्रावर्तत । भगवद्विग्रहानुभवप्र १४२ श्रीरङ्गराजस्तवः । तिपादकपूर्वशतकं च समाप्तप्रायम् । ज्ञानयज्ञान्तेऽवभृथः । भगवत्पादाङ्गुलिप्रसृताया गङ्गायास्तन्नख कान्तिभ्यश्चान्यत्र कुत्रा बभृथसम्भवः । यादृशेो यज्ञस्तादृशीयमवगाह्यमाना नदी । चरणयुगवन्दनं कृतम् । तत्फलं च शीतदे ब्रह्मण्यवगाहः । ब्रह्मण्यवगाहश्च सततः स्यात् । न तत्र दिवारात्रिविभागः । सकृद्दिवा भवति । पुनानि भुवनान्यहं बहुमुखीति । त्रिपथगा प्रसिद्धा गङ्गा । अहं दशभ्योऽप्यङ्गुलीभ्यो बहुमुखी प्रसृत्य सर्वान् लोकान् पावयानीति प्रसृतेवेत्युत्प्रेक्ष्यते । चरणचारुकल्पद्रुमप्रवालनखमञ्जरीः । चरणौ कल्पद्रमप्रवा लौ । नखानि तत्र प्रत्यग्रस्तबकाः । नखरुचीः । नखकान्तिप्रवाहान् । विगाहेमहि । अवगाह्य स्नायाम ॥ श्रीरङ्गेन्दोः पद किसलये नीलमञ्जीरमैच्या वन्दे वृन्तप्रणयिमधुपत्रातराजीव जैले नित्याभ्यचनित विधिमुखस्तोमसंशय्यमान हमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ अंगुलीभ्यः प्रवहत्कान्तिप्रवाहा वर्णिता अवभृथखानलाभाय । पादाम्भोजवर्णनेन शत कोपसंहारो न्याय्यः । तदेवास्माकं परमा गतिः । अम्भोजानि सङ्घशः स्युः । पादाम्भोजनिकट अम्भोजान्तराणि निबिडं दृश्यन्त इति कथ्यते । बन्दामहे पादपङ्कजयुगलमित्युक्तम् । नाहमेको वन्दे । सीतारामौ वन्देते । विधिमुखानि नित्यं नमन्तीत्युच्यते । श्रीरंगेन्दोः पद किसलये । वन्दनकाले पूर्णचन्द्रवत्सौम्यत्वं मुखस्य । नीलमञ्जीरमैया । पूर्व शिञ्जानश्रुतिभूषितत्वमुक्तम् । अत्र नीलमणिनूपुर भूषितत्वमुच्यते । तन्मैत्री सम्पाद्यते वर्ण्यमान राजीवजयाय । ससहायेन जयः सुशकः । श्रीरङ्गराजस्तवः । १४३ वृत्तप्रणयिमधुपव्रातराजीव जैले । वृन्ते मधुकरमालाः । तद्विशिष्टस्य राजीवस्य जयो नीलमञ्जीरभूषितत्वेन साध्यते । राजीवस्य प्रणयिमवुपसहायवत्त्त्रे तज्जयाय पदकिसलयस्यापि नीलमञ्जीरमैत्री । नियमेन । जयवत् अजितस्य पदत्वात् । जैत्रं प्रबलशत्रुविजयकाले स्वपक्षस्यैः । सर्वेर्वन्दनं भवति ‘जय विजयीभवेत्युद्घोषपूर्वकम् । नित्याभ्यर्चानतविधिमुखस्तोम संशय्यमानैः । रामसीतासमर्पितहेमाम्भोजानि बन्दमानच तुर्मुखमुखारविन्द स्तामत्वेन संशय्यन्ते । ब्रह्मा नित्याराधको भगवतः । एकस्यैव ब्रह्मणश्चत्वारि मुखानि, वेधसामनेकत्वातेषां मुखस्तोमानि वा स्तोमशब्देन गृह्यन्ते । रामसीतोपनीतैर्हेमाम्भोजैः । ‘मनुकुलमहीपालव्यानम्रमौलि परम्परामणिमकरिकारोचिनीराजितांत्रिसरोरुहः । स्वयमथ विभो वन श्रीरङ्गधामनि मैथिलीरमणवपुषा वाहण्याराधनान्यसिलम्भितः । ’ इत्युत्तरशतके मैथिलीरमणवपुषा स्वेनैवाराधनमुपपाद्यते । तत्पूर्वश्लोके ब्रह्मणा ऽऽराधनमुच्यते । अपरिमितविभवाश्चक्रवर्तिनः स्वर्णपुष्पाणि समर्पयेयुः । ‘आप्रणखात् सर्व एव सुवर्ण:’ इति हिरण्मयस्य पुरुषस्य पादाम्भोजं हेमाम्भोजं स्यात् । तस्मै तदनुरूपस्वर्णाम्भोज समर्पणमुचितम् । ‘सह पलया विशालाक्ष्या -’ इति यद्यपि सहयोगेन सीताया अप्राधान्यं सुच्यत इव ‘तं चेयमसितेक्षणा’ इत्यत्रेव नारायणोपगमने तस्या उत्फुल्लनयनत्वार्थकविशालाक्षित्वविशेषणेन तस्या अपि प्राधान्यं व्यज्यत इवर्षिणा । दम्पत्योः सहाधिकारत्वात् ‘पत्युर्नो यज्ञसंयोगे’ इत्यनया साहित्यस्यावश्यकत्वात् सहशब्दप्रयोगः । नाप्राधान्यसूचनाय । पत्लया एव विशेषण दत्तं विशालाक्ष्येति । न पत्युः । दम्पत्योः सहाधिकार इति समप्राधान्यं दम्पत्योः । ‘नारायणमुपागमत्’ इतिवदुपोपसृष्टे । पनीतशब्दप्रयोगः । अत्र शतकनिगइतिवदुपोपसृष्टेोपनीतशब्दप्रयोगः मने द्वयानुगामित्वम् । अस्मिन् लोके चरणयेोर्द्वित्वग्रहणं पूर्व श्लोकद्वय १४४ श्रीरङ्गराजस्तवः । । गृहीतैकत्वहानेन । वन्दे इति प्रणतिः । रामसीताग्रहणेन ‘नारायणमुपागमत्’ इति नारायणत्वस्मारणमपि द्वयं प्रत्यभिज्ञापयति । इन्दुत्ववर्णनं सौम्यत्वे सति दातृत्वं व्यञ्जयति । निविडनिकटे । निरतिशयप्रसन्नो भगवानस्मिन्नवसरे । निबिडं सङ्घीभूतानि पद्मान्यस्य पादाम्भोजस्य निकट इति पद्मबहुत्वमारावकादरातिशयव्यञ्जकम् । वन्दे । प्रणमामि । अत्र शतकसमाख्या कथं सङ्गच्छेत । शतकाधिकानि नक्षत्रसंख्यानि पद्यानि निबद्धानि । अत्र श्रीरङ्गेन्दुर्वर्णितः तारकेश इन्दुः । शतकसंख्या नक्षत्रसंख्यया समुच्चीयते । इदं सुच्यत इव श्रीरङ्गेन्दुरिति । सुदुर्बोधा व्यङ्गयघना भट्टार्याणामियं स्तुतिः । भावलेशोऽपि चेद्भातः स कटाक्षैकलम्भितः ॥ (155