विस्तारः (द्रष्टुं नोद्यम्)
श्रीपराशर-भट्टार्यः
श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतश् श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥
मूलम्
श्रीपराशर-भट्टार्यः
श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतश् श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥
विश्वास-प्रस्तुतिः
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराड्भोगपर्यङ्कभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गनाथं भजेऽहम् ॥ १ ॥

कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् ।
पश्यन्मानसपश्यतोहररुचः पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २ ॥

कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामलरुचिम् ।
उपासीनः क्रोशन् मधुमथन! नारायण! हरे! मुरारे! गोविन्देत्यनिशमपनेष्यामि दिवसान् ॥ ३ ॥

कदाऽहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने ।
कदा वा तं पुण्ये महति पुलिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ ४ ॥

पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठाम् आविर्मोदस्तिमितशकुनानूदितब्रह्मघोषाम् ।
मार्गेमार्गे पथिकनिवहैरुञ्छ्यमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ५ ॥

न जातु पीतामृतमूर्च्छितानां नाकौकसां नन्दनवाटिकासु ।
रङ्गेश्वर! त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६ ॥

असंनिकृष्टस्य निकृष्टजन्तोः मिथ्यापवादेन करोषि शान्तिम् ।
ततो निकृष्टे मयि संनिकृष्टे कां निष्कृतिं रङ्गपते! करोषि ॥ ७ ॥

श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् ।
श्रीमद्द्वारवतीप्रयागमधुरायोध्यागयाः पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ८ ॥