सर्व-प्रस्तुतिः

प्राचीन-प्रतिवादिभयङ्कराण्णङ्गरार्य-विरचित-व्याख्या।

विश्वास-टिप्पनी

यत्य्-उल्लङ्घनं - चतुर्थे, पञ्चमे …। ततः पराशर-भट्ट-कर्तृत्वे सन्देहः।
असम्भाव्यम् असह्यम् इव यत्य्-उल्लङ्घनम् किञ्च वेङ्कटनाथार्येणोदाहृत एव - न तु पराशरभट्टकृत इति।

व्याख्यायां पराशरभट्टकृतम् इत्य् उक्तम्।
प्राचीन-प्रतिवादिभयङ्कराण्णङ्गरार्य-कृतैव वा सा व्याख्येति तेन सन्देहः।
तत्कृतं चेद् अपि कथं स ज्ञातवान् इति प्रष्टव्यम्।

विस्तारः (द्रष्टुं नोद्यम्) - मङ्लाचरणम्

वेदान्तदेशिककटाक्षविवृद्धबोधं
कान्तोपयन्तृमुनिनः करुणैकपात्रम् ।
वत्सान्ववायम् अनवद्यगुणैर् उपेतं
भक्त्या भजामि परवादिभयङ्करार्यम् ॥

श्रीपराशरभट्टार्यः
श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥

वन्देऽहं घटिकाद्रीशं
श्रीनिधिं करुणानिधिम् ।
वाधूलकुलदैवं तं
सताम् अनवधिं निधिम् ॥

अखिल-चिद्-अचिदीशः श्रीनिवासो दयालुः
स्व-पद-कमल-युग्म-प्रापकः संश्रितानाम् ।
निगम-शिखर-गम्यो नित्यम् अ-व्याज-बन्धुर्
विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥

प्रणम्य देशिकान् सर्वान्
अष्टश्लोक्या यथाश्रुतम् ।
अर्थो वैष्णव-दासेन
बालबोधाय वर्ण्यते ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

अथ परमकारुणिको भगवान् श्रीपराशरभट्टार्यः
सकलचेतनोज्जीवनाय सर्ववेदसारतया स्वरूपोपायपुरुषार्थकतया च सदा मुमुक्षुभिरनुसन्धेयस्य रहस्यत्रयस्य सम्प्रदायपरम्पराप्राप्तमर्थं दर्शयितुकामः स्वरूपज्ञानपूर्वकत्वात् अभीष्टोपायप्रवृत्तेः, स्वरूपप्रतिपादनपरं सकलशास्त्ररुचिपरिगृहीतं श्रीमदष्टाक्षरमन्त्रमादौ विवृणोति चतुर्भिः श्लोकैः । अथ द्वाभ्यां द्वयंमूलमन्त्रविवरणरूपं स्वरूपानुरूपोपायपुरुषार्थप्रतिपादनपरं मन्त्ररत्नं, ततो द्वाभ्यां द्वयविवरणरूपं चरमश्लोकं च ।

तत्र सकलवेदसारसङ्ग्रहः प्रणवः, ‘प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । वाङ्मयं प्रणवस्सर्वे तस्मात्प्रणवमभ्यसेत् ।। ‘ओङ्कारप्रभवा वेदा ओङ्कारप्रभवाः स्वराः । ओङ्कारप्रभवं सर्वं जगत् स्थावरजङ्गमम्।। आद्यं तु त्र्यक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ।।‘ इत्यादिवचनात् । प्रणवविवरणं मन्त्रशेषः; अकारस्य नारायणपदेन, उकारस्य नमसा, मकारस्य नारपदेन च विशदीकरणात् । मूलमन्त्रविवरणं द्वयम् ; तत्र सङ्ग्रहेणोक्तस्या उपायोपेयस्य द्वये विविच्य प्रतिपादनात् । द्वयविवरणं चरमश्लोकः ; उपायोपेयस्वरूपापेक्षितप्रापकान्तरपरित्यागसर्वपापनिवृत्तय उक्तः तत्राभिधानात्। अतस्सर्वसङ्ग्रहं प्रणवमादौ विवृणोति -- अकारार्थो विष्णुरिति ।

मूलमन्त्रः

विश्वास-प्रस्तुतिः

अकारार्थो विष्णुर् जगद्-उदय-रक्षा-प्रलय-कृत्,
मकारार्थो जीवस्, तद्-उपकरणं वैष्णवम् इदम् ।
उकारो, ऽनन्यार्हं नियमयति संबन्धम् अनयोः,
त्रयी-सारस् त्र्य्-आत्मा प्रणव इमम् अर्थं समदिशत् ॥ १ ॥

मूलम्

अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत् मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।
उकारोऽनन्यार्हं नियमयति संबन्धमनयोः त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

जगतां- लोकानाम्, उदयः – उत्पत्तिः, रक्षा - संरक्षणं, प्रलयः - संहारः, तान् करोतीति (जगदुदयरक्षाप्रलयकृत् ) जगदुत्पत्तिस्थितिसंहरकर्तेत्यर्थः । ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति॥’ (तै.भृगु.1-1), ‘विष्णोस्सकाशादुद्भूतं जगत् तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः॥‘ (वि.पु.1-1-31) इत्यादिकमत्र प्रमाणतयानुसन्धेयम् । विष्णुः-विष्लृ-व्याप्तौ इति धातोर्व्युत्पन्नो विष्णुशब्दः व्यापकवस्तुवाची । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः॥’ (तै.नारा.2) ‘सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः। ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥‘(वि.पु.1-2-12) इत्यादिकमत्रानुसन्धेयम् । एतादृशो विष्णुरकारार्थः, अकारवाच्य इत्यर्थः । ‘अव-रक्षण गति हिंसादिषु’ इति धातोर्व्युत्पन्नस्य अकारस्य जगत्सृष्ट्यादिकर्ता विष्णुर्वाच्य इति भावः ।

‘अ इति ब्रह्म’ , ‘अ इति भगवतो नारायणस्य प्रथमाभिधानम्’ (महाभाष्ये), ‘अकारो विष्णुवाचकः’, समस्तशब्दमूलत्वादकारस्य स्वभावतः । समस्तवाच्यमूलत्वाद् ब्रह्मणोऽपि स्वभावतः ॥ वाच्यवाचकसम्बन्धस्तयोरर्थात् प्रतीयते॥ (वामनपुराणम्) इत्यादिकमत्रानुसन्धेयम् ।

जीवः – नित्य-मुक्त-बद्धभेदेन त्रिविधचेतनः। मकारार्थः – मकारवाच्य इत्यर्थः। ‘पञ्चविंशोऽयं पुरुषः, पञ्चविंश आत्मा भवति’ (यजुरष्टकम् 1.2.47), ‘भूतानि च कवर्गेण चवर्गेणेन्द्रियाणि च। टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा ॥ मनः पकारेणैवोक्तं फकारेण त्वहङ्कृतिः । बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा तु स मकारेण पञ्चविंशः प्रकीर्तितः ॥’ (पद्मोत्तरपुरणम् 254-25-27), ‘मकारो जीववाचकः’ इत्यादिकमत्रानुसन्धेयम् । वैष्णवम् – विष्णोर्जातम् । इदम् – आत्मवस्तु ।
तदुपकरणम् - तस्य विष्णोः जातत्वात् तच्छेषभूतमित्यर्थः । ‘सर्वं खल्विदं ब्रह्म,’ तज्जलानिति शान्त उपासीत’(छान्दो3-14-1), ‘मत्तः सर्वमहं सर्वम्’ इत्यादिकं प्रमाणम् । यद्वा ‘तत् उपकरणं’ इति पदच्छेदः । तत् - मकारवाच्यम्, इदं - चेतनजातं, वैष्णवं – विष्णोस्सम्बन्धि, उपकरणं - शेषभूतम्
विष्णोश्शेषभूतमित्यर्थः । अथवा मकारार्थः जीवः, तदुपकरणं – तस्य जीवस्य, उपकरणं शेषभूतम्, इदं शुद्धसत्त्व-मिश्रसत्त्व-सत्त्वशून्यभेदेन त्रिविधमचेतनं च, वैष्णवं – विष्णुसंबन्धि, विष्णोश्शेषभूतमित्यर्थः। इति अकारोपरिस्थितलुप्ततादर्थ्यचतुर्थीप्राहेति शेषः । ‘पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् (तै.नारायणोपनिषत्-11), ‘स्वत्वमात्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम् । उभयोरेष संबन्धो न परोऽभिमतो मम॥‘ (श्रीविष्णुतत्त्वम्), ‘स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ।(विष्णुतत्त्वम्) ‘दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । नान्यथा लक्षणं तेषां बन्धे मोक्षे तथैव च ।‘ (हारीतस्मृतिः) इत्यादिकमत्रानुसन्धेयम् ।

उकारः
‘तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः’ (तै.नारायणोपनिषत् -2) इत्यादिस्थानप्रमाणेन
अवधारणार्थक उकारः,
अनयोः - अकारमकारवाच्ययोः परमात्म-जीवात्मनोः,
सम्बन्धं - -शेषशेषिभावरूपसम्बन्धम्,
अनन्यार्हम् – अन्येषां भगवल्-लक्ष्मी-भागवताचार्य-व्यतिरिक्तानाम्,
अर्हः - योग्यः यथा न भवति तथा, नियमयति - अवधारयति । ‘ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्तु स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ।’ (भारतम्.मोक्षपर्वम्-116) इत्यादिकमत्रानुसन्धेयम्।

एवं पदार्थमुक्त्वा प्रणवस्वरूपकथनपूर्वकं वाक्यार्थमाह त्रयीति । त्रयीसारः, त्रय्याः - ऋग्यजुस्सामरूपवेदत्रयस्य, सारः स्थिरांशः त्रीण्यक्षराणि आत्मा स्वरूपं यस्य सः त्र्यात्मा । अकार-उकार-मकाररूप इत्यर्थः – प्रणवः - ओङ्कारः । ‘भूरिति ऋग्वेदादजायत, भुव इति यजुर्वेदात्, सुव इति सामवेदात्, तानि शुक्राण्यभ्यतपत्, तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्त, अकार उकार मकार इति । तान्येकधा समभवत् तदेतदोमिति ।‘ ‘अकारञ्चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरबृहद्भूर्भुवस्ससुवरितीति च ॥’ (मनुस्मृतिः 2-76) इत्यादिकमत्रानुसन्धेयम् । एतादृशः प्रणवः इमं पूर्वोक्तमर्थं चेतनस्य भगवदनन्यार्हशेषत्वरूपमर्थं, समदिशत् सम्यक् प्रत्यपादयदित्यर्थः । ‘अकारो विष्णुरित्युक्तो मकारो जीववाचकः । तयोस्तु नित्यसंबन्ध उकारेण प्रकीर्तितः ॥’ इत्यादिकमत्रानुसन्धेयम् ।।

नमः

विश्वास-प्रस्तुतिः

मन्त्र-ब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं, गतिर्,
गम्यं शिक्षितम्, ईक्षितेन+++(→अन्वितेन)+++ पुरतः पश्चाद् अपि स्थानतः ।
स्वातन्त्र्यं, निज-रक्षणं, समुचिता वृत्तिश् च नान्योचिता
तस्यैवेति हरेर् विविच्य कथितं, स्वस्यापि नार्हं ततः ॥ २ ॥

मूलम्

मन्त्रब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं गतिः गम्यं शिक्षितमीक्षितेन पुरतः पश्चादपि स्थानतः ।
स्वातन्त्र्यं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता तस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति.) (अवतारिका ) एवं प्रणवं व्याख्यायाथ नमश्शब्दं व्याचष्टेमन्त्रब्रह्मणीति । मन्तारम् - अनुसन्धातारं, त्रायन्ते - रक्षन्तीति मन्त्राः । तेषु ब्रह्म मन्त्रब्रह्म, तस्मिन् मन्त्रब्रह्मणि - मन्त्रश्रेष्ठे, श्रीमदष्टाक्षरे । ‘यथासर्वेषु देवेषु नास्ति नारायणात् परः । तथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परः॥‘ ‘भूत्वोर्ध्वबाहुरद्यात्र सत्यपूर्वं ब्रवीमि वः। हे पुत्रशिष्याः शृणुत नमन्त्रोऽष्टाक्षरात् परः॥’ ‘सर्ववेदान्तसारार्थः संसारार्णवतारकः । गतिरष्टाक्षरोनृणामपुनर्भवकाङ्क्षिणाम्॥’ ‘ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् । कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति॥’ ‘किं तत्र बहुभिर्मन्त्रैः किं तत्रबहुभिर्व्रतैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः॥’ ‘ऋचो यजूंषिसामानि तथैवाथर्वणानि च । सर्वमष्टाक्षरान्तःस्थं यच्चान्यदपि वाङ्मयम्॥’ ‘अष्टाक्षरस्तु प्रणवे अकारे प्रणवः स्थितः॥’ इत्यादिकमनुसन्धेयम् ।

मध्ये - प्रणवनारायणपदयोरन्तराळे भवः मध्यमः, तेन पुरतः अग्रे, ईक्षितेन - अन्वितेन, प्रणवान्वितेन नमसा सखण्डनमसा, पुंसः । चेतनस्य, स्वरूपं - शेषत्वरूपस्वरूपं, शिक्षितं - शोधितं भवति । कथमिति
चेदुच्यते -- ‘ओं नमः’ इति सखण्डनमसः प्रणवान्वये ‘म् आयैव, मः न’ इति योजनायां, जीवः विष्णोरेव शेषभूतः, न स्वात्मनः इत्यर्थबोधनेन स्वशेषत्वनिवृत्त्या स्वरूपं शोधितं भवति । ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा॥’ ‘अनात्मन्यात्मबुद्धिर्या अस्वे स्वमिति या मतिः । ‘अविद्यातरुसंभूतं बीजमेतद्विधा स्थितम् इत्यादिकमत्रानुसन्धेयम् । स्थानतः अस्मिन्मन्त्रे नमः इति पदद्वयं तन्त्रोपात्तम्; तत्र एकम् अखण्डम् उपायवाचि ‘नमश्चक्रुः जनार्दनम्’ इत्युपायानुष्ठानप्रकाशकवाक्ये उपायवाचक शरणपदस्थाने नमश्शब्दप्रयोगात्; अन्यत् पुनः सखण्डम् - स्वार्थत्वनिषेधवाचि; अस्यैव स्थानत्रयान्वयः । एवञ्च सति स्थानतः - स्वस्थाने, ईक्षितेन- अन्वितेन, अखण्डनमोऽन्वितेन, (नमसा) सखण्डनमसा, गतिः- उपायः शिक्षिता । कथमिति चेत् उच्यते ‘नमो नमः रक्षणोपायः-स्वरक्षणे स्वात्मनो न; किन्तु भगवत एवेत्यर्थबोधनेन, स्वरक्षणे स्वान्वयनिवृत्त्या, गतिश्शोधिता भवति। ‘अमृतस्यैष सेतुः’(मुण्डकम् 2-2-5), ‘भोक्ता भोग्यं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’(श्वेताश्वतरम् 1-6) ‘नान्यः पन्था अयनाय विद्यते’,(पुरुषसूक्तम् 17) ‘संसारार्णवमग्नानां विषयाक्रान्तचेतसाम्। विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ॥’(विष्णुधर्मः 1-59) ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥’(गीता 7-14) ‘संसारसागरं घोरमनन्तक्लेशभाजनम् । त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः॥’(जितन्ते 1-4) इत्यादिकमत्रानुसन्धेयम् ।

पश्चात् अन्ते, ईक्षितेन अन्वितेन, काकाक्षिन्यायेन नारायणपदान्वितेन नमसा सखण्डनमसा, गम्यं प्राप्यं, शिक्षितम् । कथमिति चेत्; उच्यते ‘नारायणाय नमः इति सखण्डनमसो नारायणपदान्वये, ‘नारायणाय सर्वशेषिणे श्रीमते विष्णवे एव सकलविधकैङ्कर्याणि करवाणि; मः न - मदर्थं न करवाणि इत्यर्थबोधनेन कैङ्कर्ये स्वार्थत्वनिवृत्त्या, गम्यं शोधितं भवति । ‘ब्रह्मविदाप्नोति परं’,(तै.आ 1) ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति,(तै.आ 1) ‘एतत्साम गायन्नास्ते’(तै.भृगु. 10-5) ‘येन येन धाता गच्छति तेन सह गच्छति’(परमसंहिता) ‘छाया वा सत्वमनुगच्छेत्’(परमसंहिता) । ‘भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यताम् ।अहं सर्वं करिष्यामि जाग्रतस्स्वपतश्च ते॥’(रामा.अयो.32.27) ‘बद्धाञ्जलिपुटा हृष्टा नम इत्येव वादिनः’।(भा.मोक्षपर्व.264.40) इत्यादिकमत्रानुसन्धेयम्। अनेन स्वरूपोपायपुरुषार्थाश्शोधिता इति भावः।

शिक्षणफलमाह - स्वातन्त्र्यमित्यादि । स्वतन्त्रस्य भावः स्वातन्त्र्यम् स्वाधीनत्वम् । तस्य स्वतत्रत्वेन वेदान्तप्रसिद्धस्य। हरेः ‘हञ्-हरणे इतिधातुः । सर्वं स्वार्थतया हरतो विष्णोरेव उचितम् , अन्योचितं न – अन्येषां भगवद्व्यतिरिक्तानाम्, उचितम्-अर्हम् न, अत्र ‘सर्वस्य वशी…. सर्वस्येशानः’ ( बृहदारण्यका 6-4-2), ‘सोक्षरः परमः स्वराट्’ ( तै.नारा.2-26) ‘न तस्येशे कश्चन तस्य नाम महद्यशः’ (तै.नारा.2-10), ‘तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ’ ( श्वेताश्वतरम् 6–7) ‘रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः।ब्रह्म मामाश्रितो राजन् नाहं कञ्चिदुपाश्रितः’ इत्यादिकमत्रानुसन्धेयम् ।

निजञ्च तत् रक्षणञ्च- निजरक्षणम्, चेतनसंरक्षणं इत्यर्थः । (तस्य)सर्वरक्षकत्वेन वेदान्तप्रसिद्धस्य । हरेः - ‘हरिर्हरति पापानि’ इत्युक्तरीत्या स्वाश्रितपापनिवर्तकस्य विष्णोरेव उचितं , अन्योचितं न । ‘येन जातानि जीवन्ति’ (तै.भृगु.1) ‘एष सर्वेश्वरः एष भूताधिपतिः, एष भूतपालः ( भृहदारण्यकम् 6-4-22) ‘लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।

रक्षकस्सर्वसिद्धान्ते वेदान्तेषु च गीयते ॥’ (लक्ष्मीतन्त्रम्) इत्यादिकमत्रानुसन्धेयम्।
समुचिता – सम्यगुचिता - शेषत्वस्वरूपानुगुणा, वृत्तिः व्यक्तचतुर्त्युक्तकैङ्कर्यञ्च, तस्य
सर्वशेषित्वेन वेदान्त-प्रसिद्धस्य । हरेः- सर्वं स्ववशे कुर्वतो विष्णोरेवोचिता; अन्योचितं न । ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’(श्वेताश्वत.6-9), ‘सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत । किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः॥ इत्यादिकमत्रानुसन्धेयम्। इति-इत्थम्, विविच्य - विभज्य, कथितं-प्रोक्तम्; स्थानत्रयान्वित सखण्डनमसा प्रतिपादितमित्यर्थः । प्रधानार्थमाह स्वस्यापीति । ततः-तस्मात् कारणात्; स्वातन्त्र्यादित्रयस्य भगवत एवोचितत्वादित्यर्थः । स्वस्यापि - परमात्मनः, स्वस्य च, नार्हं - नोचितम्; स्वातन्त्र्यादित्रयमुभयसाधारणं न भवतीत्यर्थः । अत्र, ‘अहमपि मम न; भगवत एवाहमस्मि’, ‘याः काश्चन कृतयो मम न भवन्ति, तासु ममता नास्ति, भगवत एव ताः ‘नाहं मम स्वतन्त्रोऽहं नास्मीत्यस्यार्थ उच्यते । न मे देहादिकं वस्तु स शेषः परमात्मनः ॥(भगवच्छास्त्रम्) ‘द्व्यक्षरस्तु भवेन्मृत्युः त्र्यक्षरं ब्रह्मणः पदम् । ममेति द्व्यक्षरो मृत्युः न ममेति च शाश्वतम् ॥ (भारतम् शान्ति. 24-22) इत्यादिकमत्रानुसन्धेयम् । तथा चानन्यार्हशेषत्व-अनन्यशरणत्व अनन्यभोग्यत्वरूपमाकारत्रयं फलितमिति भावः ॥

पूर्णार्थः

विश्वास-प्रस्तुतिः

अ-कारार्थायैव स्वम् अहम् अथ, मह्यं न निवहाः+++(=समूहाः)+++,
नराणां नित्यानाम् अयनम् इति नारायण-पदम् ।
यम् आहास्मै कालं सकलम् अपि सर्वत्र सकलास्व्
अवस्थास्व् आविः स्युर् मम सहज-कैङ्कर्य-विधयः ॥ ३ ॥+++(4)+++

मूलम्

अकारार्थायैव स्वमहमथ मह्यं न निवहाः नराणां नित्यानामयनमिति नारायणपदम् ।
यमाहास्मै कालं सकलमपि सर्वत्र सकलास्ववस्थास्वाविःस्युर्मम सहजकैङ्कर्यविधयः ॥ ३ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) इत्थम् श्लोकद्वयेन प्रणवनमसी व्याख्याय, अथ स्वानुसन्धानेन तदर्थानुवादपूर्वकं नारायणपदार्थमाह – ‘अहम्, अकारार्थायैव - अकारवाच्यस्य विष्णवे एव; स्वम् – शेषभूतः’, इति प्रणवार्थानुवादः । ‘अथ-अनन्तरम्, अहं मह्यं न मम शेषभूतो न भवामि इति नमश्शब्दार्थानुवादः। नारायणपदम् - ‘रिङ्-क्षये इति धातोर्व्युत्पन्नः रशब्दः क्षयिष्णुवाची । राः क्षयिष्णवो न भवन्ति इति नराः-नित्याः। नराणां समूहाः नाराः। ते च ज्ञानानन्दामलत्वादयः, ज्ञानशक्त्यादयः, वात्सल्यसौशील्यादयश्च। दिव्यात्मगुणाः, दिव्यमङ्गलविग्रहः,कान्तिसौकुमार्यादयः,दिव्यमङ्गलविग्रहगुणाः,दिव्यभूषणानि, दिव्यायुधानि, दिव्यमहिष्यः, नित्यसूरयः, छत्रचामरादि-परिचरणसाधनानि, द्वारपालकाः, गणाधिपाः, मुक्ताः, परमाकाशः, मूलप्रकृतिः, बद्धात्मानः, कालः, महदादिविकाराः, अण्डानि, अण्डान्तर्गतदेवादिपदार्थाश्च । अत्र ज्ञानादिकालान्ताः स्वरूपतो नित्याः। महदादयः प्रवाहतो नित्याः । स्वरूपतो नित्यं नाम सत्त्वे सति, उत्पत्तिविनाशात्यन्ताभावत्वम् । प्रवाहतो नित्यं नाम उत्पत्तिविनाशयोगित्वे सत्येव पूर्वनामरूपानन्यथा--भाववत्त्वम् । अयनम् - ‘इण-गतौ’ इत्यस्माद्धातोः उत्पन्नः अयनशब्दः, ईयते इत्ययनमिति कर्मणि व्युत्पत्त्या प्राप्यवाची । ईयते अनेन इति करणव्युत्पत्त्या प्रापकवाची । इयन्त्यस्मिन्नित्ययनम् इत्यधिकरणव्युत्पत्त्या आधारवाची। नाराणामयनं प्राप्यं प्रापकमाधारश्च नारायणः इति तत्पुरुषः। अनेन परत्वं फलितम् । नाराः अयनम् आधारो यस्य सः नारायणः इति बहुव्रीहिः । अनेन अन्तर्यामित्वसौलभ्ये फलिते । ईदृशं नारायणपदं नराणां नित्यानां, निवहाः-समूहाः, अयनम्-प्राप्यम्, प्रापकम्, आधारश्च इति, यम्-विष्णुम्, आह । अत्र बहुव्रीहिसमासे ‘यस्य’ इति शेषपूरणम् । तत्पुरुषसमासे ‘निवहाः’ इत्यत्र – ‘निवहानाम्’ इति विभक्तिपरिणामः कार्यः । ‘अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा’ (तै.आर.3-2), ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ (तै.ना.11), ‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं प्रोतं मनस्सह प्राणैश्च सर्वैः’(मुण्ड.2-2-4), ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥, (गीता.18-61) ‘सर्वस्य चाहं हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनं च (गीता.15-15)प्रोतं सूत्रे मणिगणा इव’ (गीता.7-7), ‘नारस्त्विति सर्वपुंसां समूहः परिकीर्तितः । गतिरालम्बनं तस्य तेन नारायणः स्मृतः’ (पाद्मोत्तरम्), ‘नारो नराणां सङ्घातस्तस्याहमयनं गतिः’ । तेनास्मि मुनिभिर्नित्यं नारायण इतीरितः ॥ नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः। तान्येव चायनं तस्य तेन नारायणः स्मृतः॥‘ आपो नारा , प्रोक्ता आपो वै नरसूनवः । तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥’, ‘ज्ञानादयो गुणा रूपं लक्ष्मीर्नित्यानपायिनी । भूमिनीलादयो देव्या शेषाद्या नित्यसूरयः ॥ तद्धाम परमं कालः पुरुषः प्रकृतिस्तथा । महदादिधरान्तानि सप्त चावरणान्यपि । ब्राह्ममण्डं तदन्तस्था लोकाश्च सचराचराः । एवमण्डान्यनन्तानि तत्सर्वं नारमुच्यते । नाराणामयनं वासः ते च तस्यायनं सदा । परमा च गतिस्तेषां नाराणामात्मनां सदा ॥ अतो नारायणो नाम हेतुभिर्दर्शितः परः।‘ इत्यादिकमत्रानुसन्धेयम् । अस्मै - नारायणाय, सकलं कलं - सर्वेषु कालेषु, अत्यन्तसंयोगे द्वितीया। सर्वत्र - सर्वेषु देशेषु, सकलास्ववस्थासु - स्थितिगमनशयनादिसकलदशास्वपि, मम - स्वरूपज्ञानवतो मे, सहजकैङ्कर्यविधयः - सह जायन्ते इति सहजाः, स्वाभाविकाः. किङ्करस्य कर्माणि - कैङ्कर्याणि; तेषां विधयः – अनुष्ठानानि । अविःस्युः-अविद्याकर्मादिरूपप्रतिबन्धकनिवृत्तौ सत्याम् आविर्भवन्तीत्यर्थः’सर्वावस्थोचिताशेषशेषतैकरतिस्तव। भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व माम्॥’ इत्यादिकमत्रानुसन्धेयम् ॥ ( श्रीरङ्गगद्ये उदाहृतः कश्चित् ऐतिहासिकः श्लोकः ) तथा च प्रणवे शेषत्वम्, नमसि पारतन्त्र्यम्, नारायणपदे कैङ्कर्यं च उक्तमिति भावः ॥

अनुसन्धेयांशाः

विश्वास-प्रस्तुतिः

देहासक्तात्म-बुद्धिर् यदि भवति, +++(तन्-निवारणाय)+++ पदं साधु विद्यात् तृतीयं +++(→मकारं)+++
स्वातन्त्र्यान्धो यदि स्यात् - प्रथमम् +++(→“अ”)+++, इतर-शेषत्व-धीश् चेद् द्वितीयम् +++(→“उ”)+++ ।
आत्म-त्राणोन्मुखश् चेन् “नम” इति च पदं, बान्धवाभास-लोलः
शब्दं नारायणाख्यं, विषय-चपल-धीश् चेच् चतुर्थीं प्रपन्नः ॥ ४ ॥+++(5)+++

मूलम्

देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं
स्वातन्त्र्यान्धो यदि स्यात् प्रथममितरशेषत्वधीश्चेद्द्वितीयम् ।
आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोलः
शब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थीं प्रपन्नः ॥ ४ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) एवं श्लोकत्रयेण मन्त्रार्थान् प्रदर्श्य, अथ प्रपन्नस्य प्रामादिकदेहात्मभ्रमादिदोषप्रसङ्गाय तदनुसन्धानम् आवश्यकमित्याशयेनाह । (देहेति)

प्रपन्नः - शरणागतः, देहे – शरीरे, आसक्ता - लग्ना आत्मेति बुद्धिः यस्य सः, देहासक्तात्मबुद्धिः - देहात्मभ्रमवान्, भवति यदि - स्याच्चेत्, तदा (तृतीयं पदम्) अत्र पदशब्दः तदर्थपरः ‘वेदवित्’ इत्याद्यौ वेदशब्दवत् । तृतीयम् - प्रणवे तृतीयं पदम् । ‘मन-ज्ञाने’, ‘मदि-हर्षे’, ‘मनु-अवबोधने’, ‘मसि-परिमाणे’ इति धातुभ्यो व्युत्पन्नम् । जडत्वा-चेतनत्व-स्थूलत्व- दुःखरूपत्वादि विशिष्ट-देहविलक्षण-ज्ञानानन्दस्वरूपत्व-ज्ञानानन्दगुणकत्वाणुत्वविशिष्टवस्तुप्रतिपादकं मकारम् । साधु - सम्यक् । विद्यात् - जानीयात्; सदा अनुसन्दधीतेत्यर्थः। तथा च, मकारार्थानुसन्धानेन आत्मस्वरूपस्य देहादिविलक्षणत्वप्रतीत्या, देहात्मभ्रमो निवर्तते इति भावः। स्वातन्त्र्यान्धः -स्वातन्त्र्येण स्वाधीनताबुद्ध्या, अन्धः तिरोहितभगवच्छेषत्वस्वरूपः । स्याद्यदि - तदा, प्रथमम् - प्रणवे आद्यं पदम् । ‘अव-रक्षणगतिहिंसादिषु इति धातोर्व्युत्पन्नम् । सर्वकारणत्व-सर्वरक्षकत्व-सर्वसंहारकत्व-लक्ष्मीपतित्व-
सर्वशेषित्व-सर्वकल्याणगुणात्मकत्वविशिष्ट-विष्णुप्रतिपादकं, लुप्ततादर्थ्यचतुर्थीकम्, अकारम् ।(साधु विद्यात्) तथा च अकारार्थानुसन्धानेन, ‘सर्वप्रकारेणापि भगवतः शेषित्वम्, स्वस्य तच्छेषत्वम्’ इति प्रतीत्या,
स्वात्मैकशेषत्वरूप-स्वातन्त्र्यभ्रमो निवर्तत इति भावः ।

इतरशेषत्वधीश्चेत् इतरेषाम् भगवल्लक्ष्मीभागवताचार्यव्यतिरिक्तानाम्, शेषः - इतरशेषः, तस्य भावः तत्त्वम्; तस्मिन् धीः-बुद्धिः यस्य सः, तथोक्तश्चेत्; तदा, द्वितीयम् - प्रणवे द्वितीयम्, अवधारणार्थकम्, अकारान्वितम् उकारम् । साधु विद्यात्, तथा च, उकारार्थानुसन्धानेन, परमात्मजीवात्मनोः शेषशेषिभावरूप- -सम्बन्धस्यानन्यार्ह–तत्वप्रतीत्या, इतरशेषत्वभ्रमो निवर्तत इति भावः ।

किञ्च, आत्मत्राणोन्मुखः – आत्मनः-स्वस्य, त्राणे-रक्षणे, उन्मुखः-उद्युक्तः, साधनान्तरानुष्ठानदृष्टिः स्याच्चेत् । तदा, नम इति पदम् अनन्यशरणत्वप्रतिपादकं सखण्डनमोऽन्वितम् अखण्डनमःपदम्, साधु विद्यात् तथा च नमः-पदार्थानुसन्धानेन, ‘भगवानेव मम रक्षकः, नाहम्’ इति प्रतीत्या, साधनान्तरेभ्यो निवर्तत इति भावः । (बान्धवाभासलोलः) – बन्धव एव बान्धवाः, बान्धवा इव आभासन्ते प्रतीयन्ते इति बान्धवाभासाः, आपद्यरक्षकाः, सम्बन्धि सर्वस्वापहारिणः, शरीरसम्बन्धिनः, तेषु लोलः आसक्तश्चेत् तदा, नारायणाख्यम् नारायण इति आख्या-प्रसिद्धिः यस्य तम्, शब्दम् - तत्पुरुषसमासे कर्मिणि व्युत्पन्नेन अयन पदेन, ‘माता पिता भ्राता निवासश्शरणं सुहृद्गतिर्नारायणः’(सुबाल-6) इत्याद्युक्तरीत्या भगवतो निरुपाधक-सकलविध– -बन्धुत्वप्रभृतिसर्वविधप्राप्यत्वप्रतिपादकं नारायणशब्दम्। साधु विद्यात्, तथा च, नारायणशब्दार्थानुसन्धानेन, ‘मम भगवानेव निरुपाधिकसकलविधबन्धुः, अन्ये सोपाधिका बान्धवाः इति प्रतीत्या देहानुबन्धिसोपाधिक- -बान्धवाभासेषुलौल्यं निवर्तत इति भावः ।

विषयचपलधीश्चेत् - विषयेषु विहितनिषिद्धभेदभिन्नेषु शब्दस्पर्शादिषु, चपला-साभिलाषा, धीः-बुद्धिः, यस्य सः, तथोक्तश्चेत् , तदा, चतुर्थीम् - नारायणपदोपरि स्थिताम्, गुणानुभवजनितप्रीतिकारिताशेषाव-
स्थोचिताशेष-शेषतैकरतिरूपनित्यनिरवद्यनिरतिशयभोग्यभगवत्कैङ्कर्यप्रार्थना-प्रकाशिकाम्, सखण्ड-नमः पदान्विताम्, व्यक्तचतुर्थीम् । साधु विद्यात् तथा च, व्यक्तचतुर्थ्यर्थानुसन्धानेन, ‘तदुक्तं कैङ्कर्यं भगवत एव, न मम’ इति नमसा स्वात्मपरमात्मोभयातिशयाधानयोग्येऽपि कैङ्कर्ये स्वार्थत्वे निराकृते, केवलं
स्वार्थतया अत्यन्तस्वरूपविरुद्धस्य विषयान्तरस्य निवृत्तिः कैमुतिकन्यायसिद्धेति भगवदेकातिशयाधायक- -कैङ्कर्येतरभोगराहित्यलक्षणानन्यभोग्यत्वस्य अर्थात्प्रतीत्या, तदितरसुकलवस्तुजनकपरिणतिविरह दुःखबहुळ-
चञ्चलहेयसकलविषयविमुखो भवतीति भावः । ‘प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः । प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ॥ वदन्ति कला वेदास्सेतिहासपुराणकाः । मुनयश्चमहात्मानो वेदवेदान्तपारगाः॥’(वृद्धहारीतस्मृतिः 8-141) इत्युक्तप्रकारेण सकलवेदशस्त्राणामर्थपञ्चकप्रतिपादकत्वात् तत्सङ्ग्रहे मूलमन्त्रेऽपि ‘प्रणवेन जीवस्वरूपम्, अखण्डनमसा उपायस्वरूपम्, सखण्डनमसि षष्ठ्यन्तमकारेण विरोधिस्वरूपम्, नरायणेन परस्वरूपम्, व्यक्तचतुर्थ्या फलस्वरूपम्’ इत्येवमर्थपञ्चकप्रतिपादनं वेदितव्यम् । ‘पिता च रक्षकश्शेषी भर्ता ज्ञेयो रमापतिः । स्वाम्याधारो ममात्मा च भोक्ता चाद्यमनूदितः॥’(नवविधसम्बन्धाख्यरहस्यग्रन्थः) इत्युक्तप्रकारेण कारणत्ववाचिना अकारेण पितृत्वम्, रक्षकत्ववाचिना अकारेण रक्षकत्वम्, लुप्तचतुर्थ्या अर्थाच्छेषत्वप्रतिव्याख्यात्रययुता व्यक्तचतुर्थ्या फलस्वरूपम् इत्येवमर्थपञ्चकप्रतिपादनं
परस्वरूपम्, सम्बन्धितया शेषित्वम्, अनन्यार्हत्ववाचिना उकारेण भार्यात्वप्रतिसम्बन्धितया भर्तृत्वम्, ज्ञातृत्ववाचिना मकारेण तत्प्रतिसम्बन्धितया ईश्वरज्ञेयत्वम्, नारायणपदे तत्पुरुषसमासेन स्वामित्वम्, आधारत्वञ्च, बहुव्रीहिसमासेन अन्तर्यामित्वरूपमात्मत्वम्, व्यक्तचतुर्थ्या कैङ्कर्यरूपभोगे नमसा स्वात्मनो भोक्तृत्वनिरासेन अर्थात् भोक्तृत्वं भगवत एवोक्तम् – इत्येवं मूलमन्त्रे नवविधसम्बन्धाः, प्रतिपादिता इति वेदितव्यम्, विस्तरस्तु प्राचीननिबन्धनेषु द्रष्टव्यः ॥

द्वयम्

विश्वास-प्रस्तुतिः

नेतृत्वं, नित्य-योगं, समुचित-गुण-जा,तं तनु-ख्यापनं, चो-
पायं, कर्तव्य-भागं त्व् अथ मिथुन-परं प्राप्यम् एवं प्रसिद्धम् ।
स्वामित्वं, प्रार्थनां च प्रबलतर-विरो,धि-प्रहाणं दशैतान्
मन्तारं त्रायते चेत्य् अधिगत-निगमष् षट्-पदो ऽयं द्वि-खण्डः ॥ ५ ॥

मूलम्

नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनं चोपायं कर्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान् मन्तारं त्रायते चेत्यधिगतनिगमष्षट्पदोऽयं द्विखण्डः ॥ ५ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) एवं चतुश्लोक्या मूलमन्त्रं व्याख्याय,
अथ तद्-विवरण-भूतम्,
आचार्य-रुचि-परिगृहीतम्
अनुष्ठान-प्रकाशकं मन्त्ररत्नं
श्लोक-द्वयेन व्याचक्षाणस्
तत्र प्रथमश्लोकेन तस्य पदार्थानाह- नेतृत्वमिति।

‘णीञ्-प्रापणे इति धातुः। नयतीति नेत्री, तस्याः भावः- नेतृत्वम् । पुरुषकारत्वम्। अयं श्रीशब्दार्थः ‘आकिञ्चन्यैकशरणाः केचिद्भाग्याधिकाः पुनः। मत्पादाम्भोरुहद्वन्द्वं प्रपद्य प्रीतमानसाः।। लक्ष्मीं पुरुषकारत्वे वृतवन्तो वरानन।’(पाञ्चरात्रम्) इत्यादिकमत्रानुसन्धेयम् । नित्ययोगम् - नित्यश्चासौ योगश्च -नित्ययोगः; तं नित्ययोगम् - नित्यसंश्लेषम् । अयं मतुप् प्रत्ययार्थः। ‘नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी’(विष्णुपुराणम् 1-8-17), ‘मम सर्वात्मभूतस्य नित्यैवैषाऽनपायिनी इत्यादिकमत्रानुसन्धेयम् । समुचितगुणजातम् - सम्यगुचिताः समुचिताः; आश्रयणोचिताः इत्यर्थः। ते च ते गुणाश्च; तेषां जातम् समूहम्। आश्रयणसौकर्यापादकाश्रितकार्यापादक-वात्सल्य-स्वामित्व-सौशील्य-सौलभ्य- ज्ञान-शक्ति-पूर्ति- प्राप्तिगुणसमूहम् इत्यर्थः। अयं नारायणशब्दार्थः।

तत्र वात्सल्यं - दोषभोग्यत्वम् । स्वामित्वं – स्वव्यतिरिक्तवस्तुषु स्वकीयत्वाभिमानः। सौशील्यम्- महतो मन्दैस्सह नीरन्ध्रेण संशलेष- स्वभावत्वम्। सौलभ्यं - सकलमनुजनयनविषयत्वम्। एते चत्वारो गुणाः
आश्रयणसौकर्यापादकाः। ज्ञानं- चेतनस्य निवर्तनीयानिष्ट-प्रापणीयेष्ट-परिज्ञानोपयोगी, सर्वदा सर्वविषयापरोक्षा वभासः। शक्तिः–नित्यसंसारिणो नित्यसूरिपरिषत्सङ्घटनोपयोग्यघटितघटनासामर्थ्यम्। पूर्तिः अवाप्तसमस्त- -कामत्वम् । ओराप्तिः – निरुपाधिकशेषत्वरूपसम्बन्धः ।‘शेषित्वं नाम स्वशेषभूतसमस्तवस्त्वाहितातिशया- -धायकत्वम् इति, तस्य स्वामित्वाद्भेदः । एते चत्वारो गुणाः आश्रितकार्यापादकाः । तनुख्यापनम् तनोः- दिव्यमङ्गळविग्रहस्य, ख्यापनं- प्रकाशनञ्च। चरणशब्दः तनूपलक्षक इत्यर्थः । अयं चरणशब्दार्थः अवाप्त-एते चत्वारो गुणाः विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तं हि देवमात्मबुद्धिप्रसाद ‘मामेकञ्च श्रिया युक्तं भक्तियुक्तो नरोत्तमः। द्वयेन मन्त्ररत्नेन मत्प्रियेण वाचकः॥’ इत्यादिकमत्रानुसन्धेयम् । कर्तव्यभागं तु-कर्तुं योग्यः कर्तव्यः, स चासौ भागश्च, तम् अध्यवसायात्मकम्, अधिकारिचेतनकर्तव्यांशं च । अयं ‘प्रपद्ये’ इत्यस्यार्थः।

अथ इति - उत्तरखण्डव्याख्यानारम्भे । मिथुनपरं - मिथुनं, परं प्रधानं यस्य, तत् मिथुनपरम्, लक्ष्मी- -नारायणाख्यद्वन्द्वरूपमित्यर्थः। अथ वा, मिथुनं च तत्परं चेति कर्मधारयः; मिथुनं - लक्ष्मीनारायणरूपं, परम् - प्राप्यान्तरादुत्कृष्टमित्यर्थः। एवम् - मिथुनपरत्वेन प्रसिद्धम्। ‘भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यताम् । अहं सर्वं करिष्यामि जाग्रतस्स्वपतश्च ते ॥‘(रामा.अयो. 31-27) इत्यादि प्रमाणसिद्धम् । प्राप्यम् -प्राप्तुं योग्यम्- गम्यम्। अयम् उत्तरखण्डस्थ-श्रीमच्छब्दार्थः । स्वामित्वं - शेषित्वम्। अयं नारायणशब्दार्थः । प्रार्थनां – सर्वदेश-सर्वकाल-सर्वावस्थोचित-सकलविधकैङ्कर्याणि करवाणीत्येवंरूपां कैङ्कर्यप्रार्थनाम् । अयं चतुर्थ्यर्थः । प्रबलतरविरोधिप्रहाणम् – अतिशयेन प्रबलौ प्रबलतरौ, तौ च तौ विरोधिनौ च, प्रबलतरविरोधिनौ । ‘अहं भोक्ता, ममायं भोगः इत्येवंरूपाहङ्कारममकारौ। तयोः प्रहाणम् सवासनानिवृत्तिञ्च। अयं, नमश्शब्दार्थः। अत्र अविद्याकर्मवासनारुचिप्रकृतिसम्बन्धनिवृत्तिरप्यसिद्धा; तया विना उक्ताहङ्कारममकारनिवृत्तेरसम्भवात् ।

एतान् - पूर्वोक्तान्, दश दशसंख्याकान् अर्थान्, मन्तारम् अनुसन्धातारम्, त्रायते च रक्षत्येव इति। षट्पदः - षट् पदानि यस्य स तथोक्तः। अनेन पूर्वखण्डे ‘श्रीमन्नारायण’ इत्येतत्सम्बुद्ध्यन्तं पृथक्पदमिति पक्षोऽपि निरस्तः। तदानीं ‘तव’ इत्यध्याहारप्रसङ्गात् । द्विखण्डः – द्वौ खण्डौ- अंशौ यस्य सः, द्विखण्डः - द्विवाक्यः। अनेन प्रणवं विनापि मन्त्ररत्नस्य वाक्यद्वयात्मकत्वेन द्वयत्वं सूचितम् । अयम् द्वयाख्यो मन्त्रः। अधिगतनिगमः - अधिगतः - प्राप्तः, निगमः - वेदः येन सः अधिगतनिगमः, कठवल्याद्युपनिषत्- -प्रतिपाद्य इत्यर्थः । तथा च श्रूयते कठवल्यां- ‘सत्यं तद्द्वयं सकृदुच्चारो भवति’ इति। एतद्द्वयार्थस्वरूपं श्वेताश्वतरे श्रूयते- ‘यो ब्रह्मणां विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।तं ह देवात्मबुद्धिप्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥’ इति । अत्र पाद्मे ब्रह्माणं प्रति हरिवचनम् –

‘ममेकं च श्रिया युक्तं
भक्तियुक्तो नरोत्तम ।
द्वयेन मन्त्ररत्नेन
मत्प्रियेण भजेत्सदा ॥,
‘अचिरान् मन्त्रप्रसादेन
मल्लोकञ्च स गच्छति ।
दुर्वृत्तो वा सुवृत्तो वा
मूर्खः पण्डित एव वा।’
‘लक्ष्मीशं मां सुरेशेशं
द्वयेन शरणं गतः ।
मल्लोकम् अचिराल्लब्ध्वा
मत्सायुज्यं स गच्छति ॥’,
‘पुरा मन्त्रद्वयं ब्रह्मन्
विष्णुलोके महापुरे।
तस्मिन्नन्तःपुरे लक्ष्म्यै
मया दत्तं सनातनम्।।’,
‘लक्ष्म्या लक्ष्यं लब्धं त्वया चैव मन्त्ररत्नं द्वयं विभो’

इत्यादिवचनशतमत्रानुसन्धेयम् ।

विश्वास-प्रस्तुतिः

ईशानां जगताम् अधीश-दयितां नित्यानपायां श्रियं
संश्रित्याश्रयणोचिताखिल-गुणस्याङ्घ्री हरेर् आश्रये
इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थये
कर्तुं दास्यम् अशेषम् अ-प्रतिहतं नित्यं त्व् अहं निर्ममः ॥ ६ ॥

मूलम्

ईशानां जगतामधीशदयितां नित्यानपायां श्रियं संश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।
इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थये कर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः ॥ ६ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) एवं मन्त्ररत्नस्य पदानुक्त्वा, अथ पद्यानुवादपूर्वकं, वाक्यार्थमाह – ईशानामिति । जगतां - लोकानाम्, ईशानां - नियन्त्रीम्, अधीशदयिताम् - अधिक ईशो नियन्ता, अधीश्वरः सर्वेश्वरः, तस्य,
दयिताम्-वल्लभाम्, अनेन विशेषणद्वयेन, पुरुषकारत्वोपयोगि श्रयमाणचेतने वात्सल्यम्, श्रीयमाणे भगवति वाल्लभ्यञ्च सूचितम् । ‘अस्येशाना जगतो विष्णुपत्नी (नीलासुक्तं), ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ (उत्तरनारायणम्-5),

‘ईश्वरीं सर्वभूतानाम्’ (श्रीसूक्तम्-9),

‘त्वं माता सर्वलोकानां देवदेवो हरिः पिता।
त्वयैतद् विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥’ (विष्णुपुराणम् 1-9-126),

इत्यादिकमत्रानुसन्धेयम् । नित्यानपायाम् अपायः विश्लेषः। न विद्यते अपायो यस्यास्सा अनपाया, नित्यम् अनपाया नित्यानपाया, ताम् । अथवा अपायस्याभावो अनपायः, नित्यमनपायो यस्यास्ताम्, नित्यानपायाम्, नित्यसंश्लिष्टामित्यर्थः । श्रियं-‘श्रिञ्-सेवायाम्, शृ-श्रवणे, शृ-हिंसायाम्, शृ-विस्तारे’ इति धातुभ्यः षोढा व्युत्पन्नः श्रीशब्दः । तत्र ‘श्रिञ्-सेवायाम्’ इति धातोः ‘श्रीयते चेतनैरिति श्रीः इति कर्मणि व्युत्पत्त्या, सापराधचेतनाश्रयणोपयोगि वात्सल्यादिकमुक्तम्। ‘श्रयते भगवन्तमिति श्रीः’ इति कर्तरि व्युत्पत्त्या स्वतन्त्रभगवदावर्जनहेतुभूतवाल्लभ्यादिकमुक्तम् । ‘शू-श्रवणे इति धातोः ‘शृणोत्याश्रितविज्ञापनमिति श्रीः इति कर्तरि व्युत्पत्त्या, स्वाश्रितविज्ञाप्यमानकार्यश्रवणमुक्तम् । ‘श्रावयति विमुखान् हितमिति श्रीः’ इति णिच्प्रत्ययार्थगर्भशृधातोरेव कर्तरि व्युत्पत्त्या, विमुखचेतनानामपि हितोपदेष्टुत्वम् उक्तम् । ‘शृ-हिंसायाम् इति धातोः ‘शृणाति - हिनस्ति, आश्रितदोषानिति श्रीः’ इति कर्तरि व्युत्पत्त्या, आश्रितदोषनिवर्तकत्वमुक्तम् । ‘शृ-विस्तारे’ इति धातोः ‘शृणाति - विस्तारयति, गुणैः आश्रितानिति श्रीः’ इति कर्तरि व्युत्पत्त्या, आश्रितगुणवर्धकत्वम् उक्तम् । एवं षोढा व्युत्पन्नः श्रीशब्दः लक्ष्म्याः प्रथमाभिधानम्। ‘शृणाति निखिलान् दोषान् शृणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यम् श्रयते च परं पदम् ॥’(अहिर्बुध्न्यसंहिता) ‘श्रयन्तीं श्रीयमाणाञ्च शृणतीं शृण्वतीमपि ।’(अहिर्बुध्न्यसंहिता) इत्यादिकमत्रानुसन्धेयम् ।

एतादृशीं श्रियम् - भगवत्प्रधानमहिषीम् । संश्रित्य-सम्यगाश्रित्य, मातृत्वप्रयुक्तवात्सल्याऽतिरेकात् अव्यवधानेन पुरुषकारतया शरणं प्रपद्येत्यर्थः। - व्याख्यात्रययुता आश्रयणोचिताखिलगुणस्य आश्रयणस्य शरणवरणस्य, उचिताः-अनुगुणाः, अखिलाः-समस्ताः, गुणाः वात्सल्यादयो यस्य, तथोक्तस्य । आश्रयण- -सौकर्यापादकाश्रितकार्यापादकवात्सल्य-स्वामित्व-सौशील्य-सौलभ्य-ज्ञान-शक्ति-प्राप्ति-पूर्तिगुणशालिनः। हरेः आश्रितदुरित-निवर्तकस्य भगवतः, अङ्घ्री चरणौ । इष्टोपायतया - इष्टस्य अभीष्टफलस्य, उपायतया- साधनत्वेन । यद्वा, इष्टश्चासावुपायश्च, तस्य भावस्तत्ता; तया सुखरूपसाधनत्वेन । आश्रये - प्रपद्ये, अध्यवस्यामीत्यर्थः । अयं पूर्वखण्डार्थः ।

श्रिया च-लक्ष्म्या च । शरणवरणकाले फुरुषकारभूतया लक्ष्म्या
चेत्यर्थः । सहिताय - संश्लिष्टाय, आत्मनामीश्वरः-आत्मेश्वरः, तस्मै -आत्मेश्वराय, सर्वशेषिणे नारायणाय, अहं तु - स्वीकृतसिद्धोपायस्संसारि- विलक्षणोऽहम् । निर्ममः-‘अहं भोक्ता, ममायं भोगः’ इत्येवंरूपाहङ्कार- -ममकाररहितस्सन् । ‘आत्मात्मीयपदार्थस्था या स्वातन्त्र्यस्वतामतिः । मे नेत्येव समीचीनबुद्ध्या साsत्र निवार्यते ।।’ इत्यादिकमत्रानुसन्धेयम् । न विद्यते शेषं यस्मिन तत्, अशेषम् - सकलविधम्, प्रतिहतं न भतीति-अप्रतिहतम्, निर्विघ्नम्; सर्वदेशसर्वकालोचितमिति यावत् । नित्यम्-सर्वावस्थोचितम्, दास्यम् - दासस्य कर्म - कैङ्कर्यम्, कर्तुम् - आचरितुम्, अर्धये - प्रार्थये, अयमुत्तरखण्डार्थः ।

चरम-श्लोकः

विश्वास-प्रस्तुतिः

मत्-प्राप्त्य्-अर्थतया, मयोक्तम् अखिलं संत्यज्य धर्मं पुनः,
माम् एकं, मद्-अवाप्तये शरणम् इत्य् आर्तो ऽवसायं कुरु
त्वाम् एव व्यवसाय-युक्तम् अखिल-ज्ञानादि-पूर्णो ह्य् अहं
मत्-प्राप्ति-प्रतिबन्धकैर् विरहितं कुर्यां, शुचं मा कृथाः ॥ ७ ॥

मूलम्

मत्प्राप्त्यर्थतया मयोक्तमखिलं संत्यज्य धर्मं पुनः मामेकं मदवाप्तये शरणमित्यार्तोऽवसायं कुरु ।
त्वामेव व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यहं मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) एवं मध्यमरहस्यं मन्त्ररत्नं व्याख्याय, अथ तद्विवरणभूतं शरण्यरुचिपरिगृहीतं चरमश्लोकं व्याचष्टे- मत्प्राप्त्यर्थतयेति । मम प्राप्तिः मत्प्राप्तिः; अर्थः- प्रयोजनं यस्य स तथोक्तः, तस्य भावः तत्ता; तया
मत्प्राप्त्यर्थतया, मत्प्राप्तिसाधनत्वेन । मया - हितोपदेशे प्रवृत्तेन मया, उक्तम् भवन्मानसपरीक्षार्थं पूर्वाध्यायेषु बहुशः प्रतिपादितम्, अखिलं - समस्तम्, धर्म - मोक्षफलसाधनम्, कर्मयोग-ज्ञानयोगाङ्गं भक्तियोगमित्यर्थः । अत्र ‘अखिलम्’ इति सर्वशब्दार्थः। ‘मत्प्राप्त्यर्थतया मयोक्तम् इति धर्मशब्दार्थः। सन्त्यज्य सम्यक् त्यक्त्वा; रुचिः सवासनाभिस्सह अपुनःप्रसङ्गं विहायेत्यर्थः।अयं परित्यज्येत्यस्यार्थः। अत्र ‘मत्प्राप्त्यर्थतया मयोक्तमखिलं धर्मं सन्त्यज्य इति विशिष्टविषयतया प्रतीयमानोऽपि त्यागविधिः, ‘सविशेषणे हि’ इति न्यायेन ‘स्वर्गी ध्वस्तः’ इत्यादिवत् विशेषणभूतभगवत्प्राप्त्युपायत्वाकारत्यागे पर्यवस्यति। कैङ्कर्यरूपतया स्वयं प्रयोजनत्वेन क्रियमाणानां तेषां त्यागायोगात्; अन्यथा सर्वसङ्करप्रसंगात् । अतः कैङ्कर्यत्वेन कर्मादिकं यथाशक्त्यनुष्ठेयम्, न तु साधनत्वेनेति तत्त्वविदामुद्घोषः।

पुनर्मामेकम् - अयमेकशब्दः, ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इत्यादिप्रमाणेन अवधारणार्थकः। ‘प्रति इति शेषः । मामेकं प्रति आश्रयणसौकर्यापादकः वात्सल्य-सौशील्य-स्वामित्व-सौलभ्य-गुणशालिनं मामेवोद्दिश्य । अयं मामेकमिति पदद्वयार्थः। आर्तः साधनान्तराणां स्वरूपविरुद्धत्वदुष्करत्वादिना अत्यन्तमवसन्नस्त्वम् । मदवाप्तये-मत्प्रार्थये । शरणंमिति-अहमेव उपाय इति । अवसायम्-अध्यवसायं कुरु। अत्र ‘शरणं’ इति शरणशब्दार्थः। कुरु इति प्रत्ययार्थः। एवमधिकारिकृत्यप्रतिपादकं पूर्वार्धं व्याख्याय सिद्धोपायभूतशरण्यकृतप्रतिपादकमुत्तरार्धं व्याचष्टे त्वमित्यादिना। एवं-अनेन प्रकारेण । व्यवसाययुक्तम् अध्यवसायविशिष्टम्। त्वाम् अज्ञम् अशक्तम् अप्राप्तं भवन्तम् । अयं ‘त्वा इत्यस्यार्थः। ज्ञानमादिर्येषां ते ज्ञानादयः। अखिलैः ज्ञानादिभिः पूर्णः समग्रो ह्यहम्। आश्रितकार्यापादकज्ञान-शक्ति-पूर्ति-प्राप्ति-गुणशालित्वेन वेदान्त- प्रसिद्धोऽहमित्यर्थः । अयं ‘अहं’ शब्दार्थः। मत्प्राप्तिप्रतिबन्धकैः - ममप्राप्तिः - मत्प्राप्तिः; तस्याः प्रतिबन्धकैः -मदवाप्तिविरोधिभिः। अविद्याकर्मवासना- रुचिप्रकृतिसम्बन्धैः, तदवान्तरभेदैः देहात्माभिमान - -तदनुबन्धिरूप-ममकारस्वातन्त्र्याभिमान-तदनुबन्धिममकारैः सञ्चितानभ्युपगतप्रारब्धपुण्यपापरूप- पूर्वाधैः पुण्यपापरूपप्रामादिकोत्तराघैः, अनादिवासनाकृततृणच्छेदकण्डूयनादिभिः, लोकापवादभीत्या करुणया कालुष्येण च क्रियमाणैः पुण्यपापैश्च । अयं ‘सर्वपापेभ्यः इत्यस्यार्थः। अत्र अविद्या नाम - ज्ञानानुदयान्यथाज्ञान-
-विपरीतज्ञानरूपेण त्रिविधमज्ञानम् । पुण्यपापरूपेण द्विविधं कर्म; अस्य प्रपञ्चोऽनुपदमेव वक्ष्यते । अबुद्धिपूर्वकप्रवृत्तिहेतु-संस्कारविशेषः - वासनाः ।सा च आज्ञानवासना, कर्मवासना, प्रकृतिसम्बन्धवासना चेति त्रिप्रकारा। बुद्धिपूर्वकप्रवृत्तिहेतुसजातीयकर्मारम्भेच्छा रुचिः, सा च विषयभेदाद् बहुप्रकारा । प्रकृतिसम्बन्धः - स्थूलसूक्ष्मरूपाचित्सम्बन्धः; स च देवमनुष्य- देहादिभेदेन बहुविधः । अत्रेदं तत्त्वम् । मुमुक्षोः पापवत् पुण्यस्यापि मोक्षविरोधित्वाविशेषात्, तदपि पापशब्दवाच्यम्। ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मुण्डकोपनिषद् 3-1-2), ‘स आगच्छति विरजां नदीम्।’ (कौषीतिकी 2-4), ‘तत्सुकृतदुष्कृते विधूनते(कौषीतिकी 2-4), ‘यथेषीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छान्दोग्यम् 5-24-3), ‘यथा पुष्करपलाशे आपो न श्लिष्यन्ते, एवमेवंविदि पापकर्म न श्लिष्यते (छान्दोग्यम् 4-14-3), इत्यादिश्रुतेः। एवं पुण्यपापरूपं द्विविधमपि कर्म, पूर्वाघोत्तराघभेदेन द्विविधम्; ज्ञानोत्पत्तेः पूर्वं कृतं पूर्वाघम्; ज्ञानोत्पत्त्यनन्तरं कृतमुत्तराघम् । पूर्वाघञ्च द्विविधम्; सञ्चितप्रारब्धभेदात् । सञ्चितम् प्रबलकर्मान्तरप्रतिबन्धकवशेन फलानुन्मुखं कर्म। प्रारब्धम् – फलप्रदानोन्मुखं कर्म। तच्च द्विविधम्, अभ्युपगत- अनभ्युपगतभेदात् । अभ्युपगतम्- एतद्देहानुभाव्यम्; अनभ्युपगतम्- देहान्तरानुभाव्यं फलप्रदानोन्मुखं । उत्तराघञ्च द्विविधम्; प्रामादिकबुद्धिपूर्वकभेदात् ।

प्रामादिकोत्तराघस्याश्लेषः। बुद्धिपूर्वोत्तराघस्य प्रायश्चित्तेन विनाशः। तदकरणे अनुभवेन विनाशः। एवञ्च सति मुमुक्षोस्साधनान्तरनिष्ठस्य कृत्स्नमपि प्रारब्धम्, अकृतप्रायश्चित्तं बुद्धिपूर्वोत्तराघं च अनुभवैकविनाश्यम् ।विद्यया सञ्चितस्य नाशः । प्रामादिकोत्तराघस्याश्लेषः। तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ सम्पत्स्ये’ (छान्दोग्यम् 6-14-2) इति श्रुतेः। ‘तदधिगमोत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ (ब्रह्मसूत्रम् 4-1-13), ‘अनारब्धकार्ये तु पूर्वे तदवधेः’(ब्रह्मसूत्रम् 4-1-15), ‘इतरस्याप्येवम्- असंश्लेषः पाते तु(ब्रह्मसूत्रम् 4-1-14), ‘भोगेन त्वितरे क्षपयित्वाथ सम्पद्यते((ब्रह्मसूत्रम् 4-1-19), इत्यादिसूत्रकारवचनाच्च ।

दृप्त-प्रपन्नस्य तु अभ्युपगत-प्रारब्धम् ।
अ-कृत-प्रायश्चित्तं बुद्धि-पूर्वोत्तराघञ्च अनुभवैक-विनाश्यम् ।
उपाय-महिमेना सञ्चित-अनभ्युपगत-प्रारब्धयोर् विनाशः,
प्रामादिकोत्तराघस्याश्लेषः।
आर्त-प्रपन्नस्य तु सर्वम् पापं विनाश्यम्, नास्योत्तराघम् अस्ति।

आर्तानाम् आशु-फलदा
सकृद् एव कृता ह्य् असौ ।
दृप्तानाम् अपि जन्तूनां
देहान्तर-निवारिणी ॥,

प्रारब्धेतर-पूर्व-पापम् अखिलं, प्रामादिकञ् चोत्तरं,
न्यासेन क्षपयन्न् अनभ्युपगत-प्रारब्ध-खण्डञ् च नः।
धीपूर्वोत्तर-पाप्मनाम् अजननाज्, जातेऽपि तन्-निष्कृतेः,
कौटिल्ये सति शिक्षया ऽपि अनघयन् क्रोडीकरोति प्रभुः॥ (रहस्यत्रयसारः अधि-18)

इत्यादिकमत्रानुसन्धेयम् ।

विरहितम् एतादृश-प्रतिबन्ध-विनिर्मुक्तम्।
अयं मोक्ष-शब्दार्थः।
कुर्याम् करिष्यामि। अयं णिच्-प्रत्ययः लुड्-अर्थः।
शुचं शोकं, मा कृथाः माकार्षीः। ‘शुचम् इति प्रकृत्यर्थः। ‘कृथाः’ इति प्रत्ययार्थः।
स्वरूप-विरुद्ध-सापाय-साध्योपायान्तराणां त्याग-वचनात्
स्व-रूपानुरूप–निर्-अपाय–सिद्ध-साधन–स्वीकार-वचनाच् च
शोक-निमित्ताभावात्,
शोको न कार्य इति भावः।
प्रतिबन्धक-निवृत्ति-पूर्वक–भगवत्-प्राप्तेः फलत्वेन
अत्र तयोर् उभयोः वक्तव्यत्वेऽपि
‘मामेवैष्यसि’(गीता.18-65) इति पूर्वोदित-फलानुषङ्गात्
प्रतिबन्धक-निवृत्तिर् एव प्राधान्येनोक्तेति वेदितव्यम् ।
अथवा सकलप्रतिबन्धक-निवृत्तौ सत्यां
स्वरूपानुबन्धिनी भगवत्-प्राप्तिः
स्वत एव भवतीत्य् अभिप्रायेण
तन्-निवृत्ति-मात्रम् एव अत्रोक्तम्
इति ज्ञेयम्।

विश्वास-प्रस्तुतिः

निश्चित्य त्वद्-अधीनतां, मयि सदा कर्माद्य्-उपायान् हरे
कर्तुं त्यक्तुम् अपि प्रपत्तुम् अनलं, सीदामि दुःखाकुलः ।
एतज्-ज्ञानम् उपेयुषो मम पुनस् सर्वापराध-क्षयं कर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन् सारथेः ॥ ८ ॥

मूलम्

निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरे कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः ।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं कर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन् सारथेः ॥ ८ ॥

प्रतिवादिभयङ्कराण्णङ्गरार्यः

(प्रति०) अथ शोक-निमित्तम्, तन्-निवृत्ति-प्रकारञ्च दर्शयन्
स्वस्य यावच्-छरीर-पातं निर्भरत्वानुसन्धानम् उपपादयन् निगमयति - निश्चित्येति।

हे हरे - आश्रितदुरितनिवर्तक, मयि सदा - सन्ततम् - सार्वकालिक-मित्यर्थः।त्वयि अधीनः त्वदधीनः; तस्य भावस्तत्ता, तां त्वदायत्त स्वरूपस्थितिप्रवृत्तिकत्वम्; त्वदेकपारतन्त्र्यं इति यावत् निश्चित्य ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ (गीता.18-61), ‘भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥, ‘अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो धार्यते जगत्’॥ (गीता 7-4,5) इत्यादि- पूर्वोक्तरीत्या निर्णीय । कर्म अदि येषां ते - कर्मादयः, ते च ते उपायाश्च, तान् कर्माद्युपायान् कर्मयोग- ज्ञानयोग-भक्तियोगानित्यर्थः। तत्र कर्मयोगो नाम – शास्त्रार्थतत्त्वनिर्णयानन्तरं ज्ञाननिष्पत्तये क्रियमाणं यज्ञदानतपः-प्रभृतिकम् । तेन जितस्त्वान्तस्य परिशुद्धात्मभावना - ज्ञानयोगः। तेन लब्धाधिकारस्य तैलधारावदविच्छिन्नदर्शनसमानाकारप्रीतिरूपापन्नस्मृतिसन्ततिर्भक्तियोगः । कर्मज्ञानाङ्गिकायाः भक्तेरेव उपायत्वेन कर्मज्ञानयोः पृथगुपायत्वाभावेऽपि अत्र सर्वेषां तुल्यवदुपायत्वोक्तिः, चत्वारः पुरुषार्था इतिवत् प्रणाळिकामपेक्ष्य। काममोक्षौ हि पुरुषार्थौ तदुपयोगिनौ । धर्मार्थौ कर्मज्ञानयोगादिसाधनानुष्ठानयोग्यता- -पादकस्नानसन्ध्यावन्दनादिनित्यनैमित्तिकानाम् अवताररहस्यज्ञानपुरुषोत्तमविद्यादिव्यदेशवासनामसङ्कीर्तन- -दीपारोपणमाल्यसमर्पणादीनां च यथासंभवं कर्मज्ञानादावेव अन्तर्भावः । अवताररहस्यज्ञानादीनां मोक्षोपायत्वोक्तिः भक्त्यङ्गतया प्रधानफलेनैव फलवत्त्वाभिप्राया । कर्तुमनलम् - स्वरूपविरुद्धत्वात् दुष्करत्वात्, दुःखबहुळत्वात् सापायत्वात्, स्वतःफलासाधनत्वात्, सापेक्षत्वात्, विलम्ब्यफलप्रदत्वात्, चिरकालसाध्यत्वादनेकत्वाच्च अनुष्ठातुमसमर्थः । त्यक्तुमनलं वर्णाश्रमोचितत्वेन अभिमतफलसाधनत्वेन च शास्त्रचोदितत्वात् त्वयोपदिष्टत्वाच्च प्रत्यवायभीत्या विहातुमसमर्थः । अत्रायं निर्णयः भक्तियोगस्य अङ्गभूतकर्मयोग-ज्ञानयोगादिकरणात् करणं तत्त्यागात् त्यागः सविशेषणे हीति न्यायात्। भोजनपूर्वभाविन्याः क्षुध इव कैङ्कर्यपूर्वभाविन्याः भक्तेस्त्यागायोगात् नित्यनैमित्तिकानां साधनानुष्ठानयोग्यतापादकत्वाकारेण त्यागः भगवदाराधनयोग्यतापादकत्वाकारेण कैङ्कर्यत्वाकारेण चानुष्ठानमवगतमिति । प्रपत्तुमनलम् - स्वरूपानुरूपत्व-सुकरत्व-सुखरूपत्व-निरुपायत्व-सिद्धत्व-स्वतःफलसाधनत्व-निरपेक्षत्व अविलम्बफलप्रदत्वैकत्वादिभिः सुकरोपाये शोकनिवृत्त्यर्थमभिहितेऽपि तदङ्गभूतसर्वधर्मत्यागस्य अशक्यत्वात् आर्त्यभावात् आकिञ्चन्याभावात् महाविश्वासाभावाच्च सर्वधर्मत्यागाङ्गकं प्रपदनं कर्तुमप्यसमर्थः । अहं दुःखाकुलः शोकाकुलः शोकाविष्टस्सन्, सीदामि - कृशीभवामि । एवं शोकनिमित्तमुक्त्वा शोकनिवृत्तिहेतुमाह - एतदित्यादिना । सारथेः वात्सल्यातिरेकात् अर्जुनसारथीभूतस्य ते परमाप्तस्य भवतस्तु, चरमम्-अन्तिमम्, वाक्यम्-वाक्यार्थम् सर्वधर्मान् इत्यादि चरमश्लोकार्थमित्यर्थः । स्मरन् अनुसन्दधानस्सन्, तत एव हेतोः, पुनः एतत्पूर्वोक्तं ज्ञानं पूर्वार्धोक्तभगवदेकोपायत्वाध्यवसायं, उपेयुषः - त्वत्प्रसादात् प्राप्तवतः । मम अज्ञस्य अशक्तस्याप्राप्तस्य मे, सर्वापराधक्षयं - सर्वेषामपराधानाम् अविद्याकर्म- वासनारुचिप्रकृतिसम्बन्धानां तदवान्तरभेदानाम् अहङ्कारममकारादीनां सञ्चितानभ्युपगतप्रारब्धपुण्यपापरूपपूर्वाघानां अनादिवासनाकृत- -तृणच्छेदकण्डूयनादीनां लोकापवादभीत्या करुणया कालुष्येण च कृतानां केषाञ्चित् बुद्धिपूर्वकृतानां केषाञ्चिदबुद्धिपूर्वकृतानां च सर्वेषां प्राप्तिविरोधानाम्, क्षयम् अश्लेषविनाशरूपसवासननिवृत्तिम्। अपराधशब्देन पापानां भगवन्निग्रह-रूपत्वमुक्तम् । ‘यत्त्वत्प्रियं तदिहपुण्यमपुण्यमन्यत् नान्यत्तयोर्भवति लक्षणमत्र जातुम्। धूर्तायितं तव तु यत्किल रासगोष्ट्यां तत्कीर्तनं परमपावनमामनन्ति॥’(अतिमानुषस्तवः-53) इत्यभियुक्तोक्तेः। तन्निवृत्तिश्च त्वत्क्षमयैव भवति। ‘यद्ब्रह्मकल्पनियुतानुभवेऽप्यनाश्यं तत्किल्बिषं सृजति जन्तुरिह क्षणार्धे। एवं सदा सकलजन्मसु सापराधं क्षाम्यस्यहो तदभिसन्धिविराममात्रात्॥(श्रीवैकुण्ठ्स्तवः-61) इत्याचार्यवचनमत्र प्रमाणम् ।

अश्लेषो नाम - उत्पत्स्यमानशक्तिप्रतिबन्धः। विनाशो नाम उत्पन्नशक्तिविनाशः। अश्लिष्टविनष्टयोः उत्तरपूर्वसुकृतयोस्तादृशयोर्दुष्कृतयोश्च शरीरावसाने सुहृद्द्विषत्संक्रमणं श्रूयते । ‘तस्य पुत्रा दायमुपयन्ति
सुहृदस्साधुकृत्याम्, द्विषन्तः पापकृत्याम्-(शाठ्यायनं)। तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति; अप्रिया दुष्कृतम्’(कौषीतिकी) इत्यादि। एतत्प्रपञ्चो भाष्यादौ द्रष्टव्यः।

कर्तासि - करिष्यसि। इति दृढोऽस्मि - अवसादनिवृत्त्या निर्भरो भवामीत्यर्थः। ‘सीदामि’, ‘भवामि इत्याभ्याम्, स्वावलोकनेन अवसादः; भगवद्गुणावलोकनेन दार्ढ्यञ्च अधिकारिणो यावज्जीवं अनुवर्तनीयमिति सूचितम् । ‘अस्मि’ इति वर्तमाननिर्देशेन अध्यवसायस्य चाञ्चल्याभावस्सूचितः। ‘स्मरन्’ इति वर्तमाननिर्देशेन तदर्थानुसन्धानेनैव कालक्षेपः कर्तव्यः इति सूचितः। ‘कर्मज्ञानमुपासनञ्च शरणं व्रजेति चावस्थितान् सन्मार्गानपवर्गसाधनविधौ सद्वारकाद्वारकान् ।
एकद्व्याकृतियोगसम्भृतिपृथग्भावानुभावानिमान् सम्यक्प्रेक्ष्य शरण्यसारथिगिरामन्ते रमन्ते बुधाः ।।’,
(रहस्यत्रयसारः-अधि-9)

‘शाखानामुपरिस्थितेन मनुना मूलेन लब्धात्मकस्सत्ताहेतुसकृज्जपेन सकलं कालं द्वयेन क्षिपन् ।
वेदोत्तसंविहारसारथिदयागुम्भेन विस्रम्भितः सारज्ञो यदि कश्चिदस्ति भुवने नाथस्स यूधस्य नः ।।’
(रहस्यत्रयसारः)

इत्यादिकमत्रानुसन्धेयम् । दुढोऽस्मीति स्वनिष्ठाप्रदर्शनेन प्रबन्धश्च निगमितः।।

इत्थं बालप्रबोधार्थम्
अष्टश्लोक्या यथाश्रुतम् ।
वर्णितोऽर्थो महात्मानः
क्षन्तुम् अर्हथ साहसम्।