[[TODO: परिष्कार्यम्]]
॥ विषयानुक्रमणिका ॥ १. शरीरलक्षणम् स्वदर्शनपरमार्थः शरीरात्मभावः T स्वाभिमतशरीरलक्षणवर्णनेन सांख्यप्रत्यवस्थानम् भोगायतनत्वघटितलक्षणदूषणम् सांख्यलक्षणदूषणम् क्रियाविशेषाश्रयत्वघटितलक्षणदूषणम् सिद्धान्तिसंमतलक्षणोपक्षेपः दलकृत्यञ्च शेषशेषिभावलक्षणविचारः पुटम् १ २ ३ "" ४ ५ ६.७ 5 9 २. अध्ययनविधिः अध्ययनविधेरक्षरराशिग्रहणार्थत्वादिस्वदर्शनस्थितिकथनम अध्ययनविधेर्नियम परत्वासंभव परिहारः अध्ययनस्याचार्यरागप्रयुक्तत्वस्थापनम् प्राभाकरमताचार्यकरणविध्यसद्भावकथनम् संमाननसूत्रस्याकर्त्रभिप्रायार्थरब्धत्वम् आचार्य कस्यालौकिकत्वाभावनिरूपणम् तत्र पूर्वाचार्य ग्रन्थोदाहरणम् अध्ययनस्याभ्पुदयपुरुषार्थजपफलप्रयुक्तत्वाभावः ९ १० ११ १२ उपनयनस्याध्यापनशेषत्वाभावः “} १३ १४ x x x w १५ १६ तत्र पूर्वाचार्यंग्रन्थोदाहरणम् अध्ययविधेरर्थज्ञानार्थत्वाभावः १७ प्राभाकरमते अर्थज्ञानार्थत्वे व्याघातप्रदर्शनम् १८ आचार्यशब्दार्थवर्णनम् अध्यापनविधेः प्रयोज्यव्यापारपरत्वम् १९ २० P पु. }) सिद्धान्त: २१ २२ आचार्यकरणविध्यनुमानायोगः स्वसिद्धान्तेन पूर्वमीमांसाप्रथमाधिकरण पूर्वपक्ष: " “9 अर्थज्ञानार्थत्वाभावेऽपि रागतः प्रवृत्तिकथनम् पूर्वाचार्यप्रन्थोदाहरणम् अर्थज्ञानस्वीकारे शारीर कानारम्भप्रसक्तिवारणम् स्वसंमते आचार्यकरागप्रयुक्तत्वे भाष्योदाहरणम् ३. स्वतः प्रामाण्यम् प्रामाण्यस्य स्वतस्त्वेऽनुमानप्रयेोगः तार्किककृतदूषणम् २३
२४ २५ २६ " तैःप्रामाण्यस्वरूपशोघनेनानुमेयत्वकथनम् मिध्यावादिमते स्वतः प्रामाण्या संभवः भाट्टप्रक्रियाविमर्शः तत्र स्वतःप्रामाव्यग्रहायोगः जन्मायोगः विषयतथात्वरूपतदुक्तप्रामाण्यविकल्पः निश्चायकत्वघटित स्मृतिव्यावृत्तलक्षणदूषणम् प्रामाण्यापवाद प्रकारशोधनम् तार्किकैरेव स्वयंप्रकाशवादि प्राभाकरखण्डनम् तार्किक पूर्वपक्षोपसंहारेण सिद्धान्तारम्भः परमते अनवस्थाप्रसञ्जनम् अतिरिक्तज्ञानग्राह्यत्वसाधनस्य विरुद्धाव्याभिचारिता स्मृतिव्यावृत्तप्रामाण्यनिर्वचनम् स्मृतेरप्रामाण्योपपादनम् पौरुषेयवाक्यानां शब्दविधया प्रामाण्याभावः शब्दार्थ संबन्धस्य स्वाभाविकता वेदनित्यत्वप्रकारः विध्यतिरिक्तस्यापि प्रामाण्यम् २७. २८ २८ " २९ 33 ३० ३१ ३२ ३३ “9 ३४ ३५ ३६ ३८ ३९ ४० ४१ cli पु. स्मृत्यादि प्रामाण्यम् ४२ पौरुषेयवचसां स्वतः प्रामाण्याभावः ४३ ४. वाक्यार्थप्रदीपः वाक्यार्थविप्रतिपत्तिः ४४ क्रियाकार्यस्य वाक्यार्थता ४५ प्राभाकरकृत तदूषणम् ४६ अपूर्व कार्यवाक्यार्थ पक्षः देवताराधनत्वभङ्गश्च अपूर्व कार्यलक्षणम् कामपदस्य नियोज्यपरत्वम्, न कर्तृपरत्वमिति अखण्डब्रह्मवाक्यार्थताविचारः भेदस्य दुर्निरूपता सन्मात्रविषयकप्रत्यक्षस्यापि शुद्धब्रह्माविषयकत्वम् प्रत्यक्षस्य मिध्याविषयकत्वम् अद्वैते वेदः प्रमाणमिति । प्राभाकरेण तद्भङ्गः ४७ ४८ ४९ ५० ५१ ५२ ५३ भेदस्य सुनिरूपता सिद्धव्युत्पत्तिनिरासः प्राभाकरेण प्राभाकरकृताद्वैतश्रुतिनिर्वाह: प्रत्यक्षप्राबल्यन् मिथ्यात्वसाधकदृश्यत्वादिहेतुभङ्गः स्फोटरूपशब्दाद्वैतोपपादनम् स्फोटवाक्यार्थ प्रस्तावः ब्रह्माद्वैतवदेव स्कोटाद्वैतनिरासः वर्णसमुदायादेव बोधः शब्दार्थ संबन्धसिद्धिश्व भाट्टसंमताभिधाभावनावाक्यार्थपक्षः अभिधा - भावना - प्रवर्तनाद्यैक्योपपादनम् इष्टसाधनत्वकार्यत्वादेः लिङर्थत्वायोगः मण्डनमिश्रानुसारेणेष्टसाधनत्वार्थकता दर्शितभाट्टमतभङ्गः कार्यलिङर्थत्वस्थापना ५५ ५८ ६० ६१ ६२ ६४ ६५ ६६ ६७ ६८ . ७० ७२ " ७३ cli धात्वर्थातिरिक्ताख्यातार्थनिरासः एवं सर्वनिरसनेनापूर्वात्मककार्यवाक्यार्थनिगमनम् परब्रह्मवाक्यार्थत्ववादसिद्धान्तः गुरुभट्टवर्णितपश्वेकत्वनयस रणिनिरासः अरुणान्यायपश्वेकत्व नया कृत्यधिकरणविषयविवेकः फलतत्साधनत्वाद्याकारेण ब्रह्मण एव सर्वपदार्थता मुक्तसंसारिफलवैषम्यम् केवल्यस्यामुक्तित्वम् अपूर्वादेः फलदत्वप्रतिक्षेपः निष्कृष्टेतरशब्दानामेव विशिष्टवाचिता पु. ७४ ७५ ७६ ७७ ७८ ७९ ८० अपूर्व कार्यत्वभङ्गः कृत्युद्देयत्व - कृतिप्रधानत्वादिरूपार्थभङ्गः परिपूर्णस्यापि शेषिता अपूर्वस्य फलसाधनत्वाभावः वाक्यशेषात् देवताप्रसादसिद्धिः ८१ ८२ ८३ ८४ ८५ देवताया यागं प्रति प्राधान्यम् तृतीयान्तस्थले देवताप्रीति कलान्यतरसाधनत्वबोधः इष्टसाधनत्वरूपकार्यत्वस्थापनम् प्रवर्तकाप्रवर्तकवाक्यानामविशेषेण सिद्धपरता सिद्धार्थे प्रथमव्युत्पत्तिविस्तरः वेदस्यानित्यार्थसंयोगपरिहारः अनन्यलभ्यशब्दार्थत्वनिरासेन कर्त्रर्थकत्वम् साध्यत्वं विध्यर्थ इति स्थापनम् ८६ ८७ ८८ ८९ ९० ९२ ९३ ९५ अज्ञातज्ञापनं विधिरित्यस्यार्थवर्णनम् ९६ शासनरूपनियोगविध्यर्थत्वनिरासः ९७ कर्तृनियोज्यैक्योक्त्या ग्राभाकरनिरास: ९८ ५. अन्विताभिधानम् अन्वितार्थाभिधायित्वे भाष्यनिर्भर प्रदर्शनम् १०१ अभिहितान्वयवादिभाट्टमतोपक्षेपः १०२eliii प्राथम्यादिति प्राभाकरकारिकाखण्डनम् अन्विताभिधानपदार्थशोधनेन दूषणम् भाट्टदूषणेनान्विताभिघानस्थापनम् शक्तिकल्पनागौरवपरिहारः प्रमाणान्तरसंनिधापितार्थान्वयापादनम् आकांक्षादिसाचिव्यम् आकांक्षास्वरूपश्च संनिधियोग्यतयोः स्वरूपम् न्यायात्मकतर्कस्वरूपशोधनम् अर्थानां प्रामाण्यमिति भाट्टोक्तदूषणम् सिद्धान्ते प्राभाकर वैलक्षण्यम् सिद्धपरेऽपि बोधात् कार्यान्वितबोधनियमभङ्गः ६. शब्दनिरूपणम् पु० १०३ १०४ १०५ 46 १०६ १.०८ १०९ ११० १११ ११२ ११३ तार्किकोक्त शब्दक्षणिकत्वानादरः शब्दनित्यत्वस्य अमरनित्यत्वतुल्यता वैदिकलौकिकशब्दैक्यम् अभिव्यङ्गयत्वायोगवादितार्किक पूर्वपक्ष: विनाशानुपलब्ध्या अविनाशित्वम् व्यञ्जकभेदप्रयुक्तं नानात्वग्रहणमिति ११४ 39 ११५ ११६ ११७ ११८ वर्णावर्णात्मना द्वैविध्यम् वायोरेव व्यञ्जकत्वम्, न ध्वनीनामिति 99 ११९ श्रोत्रस्य नेत्रवत् गत्वैव ग्राहकत्वम् १२० वर्णभेदेन व्यञ्जक भेदकल्पना गकाराद्यैक्यच १२१ शब्दाधिकरणस्य चिरकालस्थायित्वपरता १२२ ७. श्रुतिलिङ्गादिनिरूपणम् श्रुतिलिङ्गयोर्वाक्यात् पार्थक्यनिर्वाह: १२३ अन्विताभिधानवादे प्रकरणविनियोज्यस्य श्रौतत्वशङ्कानिरासः १२४ स्थानस्य विनियोगव्यवस्थापकता प्राभाकराभिमत प्राहकप्रहणस्वीकारः 99 १२५ T cliv पु. १०६ १३० बलाबलविचारः, वेदान्तवाक्येषु तत्प्रदर्शनच प्राप्ताप्राप्तबाधांवेवेचनम् ८. यथार्थख्यातिनिरूपणम् अन्यथाख्यातिपरभाष्यसूक्तीनामन्यथानिर्वाहः विपरीतख्यातिशब्दार्थविकल्पनेन दूषणम् अनिर्वचनीयख्याताविष्टसिद्धिमन्थानुवादः अनिर्वचनीयेऽप्यन्यथाख्यातेर वर्जनीयत्वम् अनिर्वाच्यस्य स्वरूपसादृश्ययोर्निरूपणायोगः १३४ १३५ १३६ ’ ३७ तद्रीत्या आत्मनि सत्त्वाबाध्यत्वायोगः व्यावर्तमानत्वानुवर्तमानत्व दूषणम् १३८ सदसद्व्यावृत्तत्वशोधनम् १३९ इष्टसिध्युक्तनिरसनम् १४० सदसद्भेद प्रतिज्ञावैघट्यम् १४१ मायास्वरूपविकल्पेन दूषणम् १४२ अनिर्वाच्यस्य रजतादिशब्दवाच्यत्वाद्ययोगः १४३ तार्किकेणासत्ख्यातेरपि निरास: १४४ बौद्धपक्षमायावादिपक्षयोरविशेषः १४५ प्राभाकरीयाख्याति पक्षविस्तरः १४६ तार्किकेण तत्खण्डनम् १४८ प्रत्ययत्व हेतुनाऽनुमेययाथार्थ्यांविकल्पेन दूषणम् भेदाप्रहविशिष्टरजतस्मरणस्य दुर्वचत्वम निर्विषयख्यातिभङ्गः सिद्धान्त्युक्तयथार्थख्यातिविषयेऽप्यन्यथाख्यातिः १४९ १५० १५१ तार्किकवादापसंहारः १५२ 29 अवयवसद्भावादन्यत्रान्यज्ञानयाथार्थ्यम् १५३ नेदंरजतमिति व्यवहार निर्वाहः १५४ मरीचिकाजल गगननीलिमघीयाथार्थ्यम् १५५ पीतशङ्खादिप्रत्यययाथार्थ्यम् १५६ अलातदर्पणादिषु घीयाथार्थ्यम् १५७ clv पु. दिङ्मोहेपि याथार्थ्यम् द्विचन्द्रज्ञानेऽपि " स्वाप्नसत्यत्वम् देहात्मग्रहणेऽप्यन्यथाख्यात्यभावोपपादनम् संशयतर्कयोर्यथाध्येम् १५८ १५९ १६० १६३ १६४ ९. उपोद्घातनिर्णयः चतुःसूत्रयुपद्धातत्वे प्रथमद्विकस्य प्राय उपोद्घातत्वापादनम् १६७ जन्माद्यधिकरणादौ अनारम्भशङ्कानुपपत्तिः १६८ युक्तिप्राबल्यं परास्य भाष्यस्वारस्यपरासः १६९ तस्यासांप्रदायिकत्वमे कसूत्रोपोद्धातता च १७१ १०. कालनिरूपणम् जैननिराकरणभाष्ये कालपृथग्द्रव्यत्वनिरास इति तस्य भाष्यस्य काले पृथगनैकान्त्योक्त्ययोगपरत्वखण्डनम् १७२ १७३ विशेषणत्वमात्रकथनाद् द्रव्यत्वायोगः १७४ अंशाहिकृण्डलाधिकरणादावनुक्त्याप्यादित्य संयोगादेरेव कालत्वम् १७५ कालपार्थक्यशास्त्रतत्त्वर्थः १७७ संप्रदाय - वादिसिंहग्रन्थादिग्रहणम् १७९ ११. प्रमाणनिरूपणम् सिद्धान्त्यभिमतप्रमाणलक्षणम् १८१ स्मृतेरप्रामाण्योपपादनम् मीमांसकाद्युक्तलक्षणनिरासः ज्ञाने अर्थपरिच्छिन्नत्वपरिच्छेदकत्वयोः संभवः मीमांसाप्रथमाध्यायेऽनुभूतिप्रामाण्यसाघनोपपादनम् उदयनेोक्त प्रमाणलक्षणयोर्निरासः १८२ १८३ "” १८४ १८५ प्रमाणपाश्ञ्चविध्यस्थापनम् साक्षात्त्वविवेकः सिद्धान्ते निर्विकल्पक सविकल्पकत त्वम् १८६ १८७ १५८ elvi पु. विशिष्टवस्तुस्वरूपनिरूपणम् १८९ द्वंद्वेऽपि विशिष्टत्वस्य व्याकरणादितो वर्णनम् १९० सविकल्पकविभागः १९१ परमात्मज्ञानस्य योगिप्रत्यक्षेऽन्तर्भावः १९२ आश्रयाश्रयिभावस्यापदार्थान्तरत्वम् १९३ प्रमाणस्य तत्त्वातन्त्त्रावेदकभेदस्याद्वैतीष्टस्य निरास: १९४ अनुमाने उपाधिलक्षणलक्ष्यादि १९५ खण्डनकृतोपाधिलक्षणखण्डनखण्डनम् १९७ १९८ अनुमिते गृहीतग्राहितया अप्रामाण्यशंकानिरास: द्वेधा अनुमानत्रैविध्यम्; द्वैविध्यन अवयवत्रैविध्यम् । हेतुहेत्वाभास विवेकश्च भाष्ये व्यतिरेकिसंमति कथनम् वेदापैौरुषेयत्वं काठकादिसमाख्योपपत्तिश्च वेदस्य शास्त्रत्वम् १९९ " २०१ २०३. २०४ लौकिकानामेव वाक्यानामनुमानत्वम् २०५ सिद्धसाध्यपरशास्त्रविभागबहुप्रकारता २०६ साध्यभेदेन भेदवत् अनुबन्धभेदेन भेदः २०८ शब्दान्तराभ्यासादीनामनुबन्धानां शारीर कोदाहरणानि २०९ अर्थाध्याहारसमर्थनम् २१२ अतिदेशविवेचनम् मीमांसकवर्त्मना उपमानप्रमाणस्वीकारः २१४ अर्थापत्तिनिरूपणम् २१६ लिङ्गवैलक्षण्येन संदिग्धस्याप्यत्र कल्पकत्वम् २१७ १२. प्रमेयनिरूपणम् परमात्मरूपविशिष्टवस्त्वैक्यम् ईश्वरस्यानुमानिकत्वनिरास: तत्तत्कारणस्यापि ब्रह्मात्मकत्वात् ब्रह्मैककारणकत्वं सर्वस्य २२० २२१ २२२ तस्य परमपुरुषार्थत्वम् clvii पु. प्रधानमात्र कारणकत्वनिरासः अद्वैतमतेनाखण्डैकार्थपरत्वशङ्का गुणादिश्रुति बलेनाखण्डार्थनिरासः विशिष्ट परत्वानुपपत्तिपरिहारः २२३ २२४ सोऽयमित्यस्य विशिष्टार्थपरत्वायोगवर्णनम् २२५ “} २२६ समानाधिकरणव्यधिकरणवाक्यसाम्यम् लक्षणया अखण्डार्थवाद्येकदेशिमतम् सिद्धान्ते भिन्नप्रवृत्तीतिवाक्याथेवर्णनम् सोयमित्यत्र विरोधं विकल्प्य दूषणम् अद्वैतपक्षत्रय साधारणदूषणोपन्यासः स्वपक्षनिर्दोषत्वम् व्योमातीतवादनिरास: अवताररूपाणामप्यजन्यत्वमाविर्भावमात्रवत्त्वम् लक्ष्म्यादिनित्यसंश्लिष्टता अप्राकृतभोग्योपकरणस्थानादि भक्त्ये कलभ्यत्वम् भक्त्याः कर्माङ्गकत्वप्रकारः जीवस्वरूपम् तस्य देहातिरिक्तत्वम् }} २२७ २२८ २२९ २३० २३१ २३२ "” २३३ 99 २३४ २३५ "” मनः प्राणाद्यन्यत्वम् २३७ २३८ २३९ २३९ वौद्धोक्तबुद्धिसंततिपक्षप्रतिक्षेपः ज्ञान ज्ञातृस्वरूपता आत्मनां नित्यज्ञानवत्त्वम् "” ज्ञानस्वरूपत्वम् ज्ञानस्य कर्मभिरात्रियमाणता धर्मभूतज्ञानस्य विषयैः संयुक्तता आत्मनामणुत्वम् अर्थप्रकाशस्य करणसापेक्षता धर्मभूतज्ञानस्यापि प्रभावत् द्रव्यता जीवात्मनाम सर्वगतत्वम् २४० 99 २४१ २४२ २४३ " २४४ गतिश्रुतेरन्यथा निर्वाहायोगः विभुना विभुज्ञानसंयोगः सर्वगतत्वं तार्किको कविलक्षणम् आत्मतज्ज्ञानयोः प्रकाशवैषम्यम् अणोरपि गुणानां प्रत्यक्षम् अव्यापित्वे यामुनार्यवचननिर्वाह: श्रुति निर्वाह: जीवानां कर्तृत्वम् अंशत्वविवेकः जीवत्रैविध्यम् पुण्यपापयोरीशप्रीत्यप्रीत्यनतिरेकः पुण्यपापयेोरपि पुण्यपापाधीनत्वम् आवृत्तौ मार्गमध्ये जन्माभावः वैघालम्भस्य हिंसात्वशङ्का नित्यकाम्यवैषम्य विवेकः अहिंसात्वसमर्थनम् श्येनाग्नीषोमीय वैषम्यम् clviii पु. २४५ २४६ २४७ 36 २४८ २४९ 3 २५० 99 २५१ २५२ " २५३ स्वप्ने सृष्टिसमर्थनम् सुषुप्तिस्वरूपम् मुक्त नित्यनिरूपणम् परब्रह्मण एव प्राप्यत्वम् श्रियो जीवकोटिनिवेश: जननीत्वाद्युक्तेः स्तुतित्वम् 36 " "" २५५ ज्ञानलक्षणम् अचितो द्वैविध्यम् नित्यविभूतिलक्षणानि द्रव्यस्य गुणातिरेकः सुखदुःखयोर्ज्ञानानतिरेकः शक्केद्रव्यमात्रनिष्ठता संख्याया अपि 27 २५६ २५७ "" २५८ २५९ 29 २६० clix पु. २६० भाष्यस्यान्यपर्यम् सादृश्यस्यापि द्रव्यैकनिष्ठता जातेः संस्थानता तमसः पृथिवीत्वम् कर्मणोऽन्यता प्रन्थसमाप्तिः || शुभमस्तु ॥ २६१ "" २६२ " “"> श्रीः नयद्यमणिः मेघनादारिसूरिकृतः १. शरीरलक्षणनिरूपणम् आस्येन संदर्शयता हयाभा – माकण्ठमासादितपौरुषेण । वाणी मदन्तः परमेण पुंसा संलापमुल्लोलमुरीकरोतु ॥ असूक्ष्मस्थूलचिदचिच्छरीरं ब्रह्मैव कारणं कार्य चेति दर्शनम् । तत्र सांख्या 4 आत्मादेर्ब्रह्मशरीरत्वेऽनुपपत्तिमाविष्कुर्वाणाः प्रत्यवतिष्ठन्ते । तथाहि-
- ह्याङ्ग. A.
- मुपातनोतु M. श्रीः नमसित्वा हयवदनं लक्ष्मणमुन्यादिदेशिकांश्चापि । टिप्पणिरेषा लघ्वी क्रियते विशदाऽधिनयधुमणि ॥ ग्रन्थेऽस्मिन् पश्चिमग्रन्थ मतभेदप्रदर्शनम् । दुर्बोधबोधं चोद्दिश्य टिप्पण्येषा प्रवर्त्यते ॥
- सूक्ष्मेत्यादि । सूक्ष्मचिदचिच्छरीरकं ब्रह्म कारणम् । स्थूलचिद- चिच्छरीरकं ब्रह्म कार्यमिति सिद्धान्त इत्यर्थः ।
- सांख्या इति । शरीरलक्षणम् “चेष्टेन्द्रियार्थाभयः शरीरम्” इति न्यायदर्शने सूत्रकृता निरुक्तम् । अनूदितं च तदनुयायिभिः “चेष्टा भोगेन्द्रियाश्रयः शरीरम्” इति । अत्र लक्षणत्रयं विवक्षितम् । प्रथमं चेष्टाश्रयत्वं प्रयत्नाधीनक्रिया- विशेषसमवायित्वरूपम् । द्वितीयमिन्द्रियाश्रयत्वम् । तृतीयमर्थाश्रयत्वम् । तच्च रूपरसादीन्द्रियार्थाश्रयत्वस्य शरीरेऽसंभवात् तदधीनसुखदुःख भोगद्वारा तदा- श्रयत्वस्यापि भोक्तरि जीव एव संभवात् अन्यादृशं भोगायतनत्वं तदवच्छेदकत्व- रूपमेष्टव्यम् । तदिदं लक्षणत्रयं दुष्टमिति तदेव परिष्कृतं समुदितं सल्लक्षणमिति सांख्यानां मतमिति तद्ग्रन्थदर्शनेन विभाव्य तन्मतं दूषयितुं प्रवर्तितमत्र । २ नयद्युमणिः । आत्मादेर्न शरीरत्वम्, तल्लक्षणविरहात् । यस्य पुण्यादिफलसुखादिभोगसाधन- मिन्द्रियाश्रयः पञ्चवृत्तिप्राणाधीनधारणः 1 पृथिव्यादिभूत संघात विशेषो यो येनैवाधिष्ठितः, तत् तस्य शरीरमिति हि शरीरलक्षणम् भूतसंघातविशेषो येनाधिष्ठित इत्युक्ते, अधिष्ठेयवास्यादेस्तक्षादिशरीरत्वप्रसक्तिः । तन्निरासाय इन्द्रियाश्रय इत्युक्तिः । तद्गोलकेष्वतिव्याप्तिपरिहाराय पञ्चवृत्ति - प्राणाधीनधारण इति पदम् । अन्यशरीरस्यापि तथात्वादन्यप्रेर्यत्वसंभवादन्य- शरीरत्वप्रसक्तौ तत्परिहाराय यस्य पुण्यादीत्यादि । पित्रादिपुण्यार्जितोक्तलक्षण- पुत्रादिशरीराणां पित्रादिशरीरत्वन्युदासाय एवकारः । 2 न च चाक्षुषाचाक्षुषपृथिव्याकाशाद्यारब्धत्वे शरीरस्य वायुवनस्पति - संयोगादिवदचाक्षुषत्वापत्तिरिति वाच्यम्, तस्य कारणपृथिव्यादिद्रव्यावस्था- विशेषत्वात् पृथग्द्रव्यत्वेनारब्धत्वाभावात् । न च उलक्षणशरीरस्य स्थावरशरीरे- ष्वव्याप्तिः ; वेदनधर्मास्फूर्तेस्तेषां शरीरत्वाभावात् । मृग (त) गोविषाणादेर्भूम्यादि- संयोगात् शिखारोपणवत् स्थावराणां प्ररोहः स्वाभाविकः । “पञ्चभूतात्मकं वपुः” इत्यादौ च तादृशस्यैव शरीरत्वस्मरणं । न ह्यात्मादीनामेतल्लक्षणम् । 4 न चान्दयावयवविभोगायतनत्वस्य तल्लक्षणता; निरतिशयानन्द-
- पृथिव्यादिभूतसंघातेति । अनेन देहस्य पाञ्चभौतिकत्वमुक्तम् । तार्किकास्तु तन्न मृष्यन्ति । यदाह कणादः - " प्रत्यक्षाप्रत्यक्षाणां प्रत्यक्षत्वाच्छरीरं पञ्चात्मकं न विद्यते” इति । } संयोगस्या-
- न चेति । संयोगस्य केवलमवस्थारूपत्वात् अप्रत्यक्षता युक्ता । शरीरस्य तु प्रत्यक्षाप्रत्यक्षभूतानेकद्रव्य कार्यत्वेऽपि द्रव्यत्वात् अव्यक्तजन्यव्यक्तविशेषस्येव प्रत्यक्षत्वं घटते । अप्रत्यक्षाने कव्यणुका रब्धस्यापि त्र्यणुकस्य द्यणुकपारस्परिकसंयोगस्येवा- प्रत्यक्षत्वाभाव इष्यते परैः । प्रत्यक्षाप्रत्यक्षवस्तुद्वयोपादानकद्रव्यस्य प्रत्यक्षत्वं तर्हि कैमुत्यसिद्धम् । सर्वत्रानुभव एव हि परमं शरणमिति भावः ।
लक्षणशरीरस्येति । लक्षणस्वरूपस्येत्यर्थः । एव लक्षणविशेषनिर्वचनदलकृत्यप्रदर्शनाभ्यां चेष्टाश्रयत्वादेः पृथक् पृथक् लक्षणत्वमाक्षपादाभिमतं प्रतिक्षिप्तमेव । अथ किंचित् परिकृत्य भोगसाधन- त्वादेर्लक्षणत्ववर्णनमपि दूष्यते । श्रीभाष्ये नविलक्षणत्वाधिकरणे अपीतिसूत्रे भोगसाधनभूतेन्द्रियेति मोगसाधनत्वस्येन्द्रियविशेषणत्वेन निर्देशात् साक्षाद् भोगसाधनत्वस्य लक्षणत्वविवक्षायां दूषणस्यानुक्तत्वं विभाव्य पृथक् तदूषणं थत् विहितम्, तदत्र प्रदर्श्यते । अत्र तु ग्रन्थे, भोगसाधनमिन्द्रियाश्रय इति१. शरीरलक्षणनिरूपणम् ३ परमात्मनो ‘भोगाभावेनासंभावितत्वात् । आत्मनामवयवित्वाभावात् अव्याप्तेश्च । लोकसिद्धशरीरेष्वपि न तल्लक्षणसंभवः, वेश्मादिष्वतिव्याप्तेः । यत्र वर्तमानस्यैव सुखाद्युपभोग इति विशेषणोपादानेऽपि नाश्वासः, उपिशाचादिनाविष्टशरीरस्य तच्छरीरत्वप्रसङ्गात् । न चास्त्विति वाच्यम्, तन्मोक्ष तस्य विशीर्णत्वप्रसङ्गात् । तच्छरीरेष्वपि पिशाचादेर्भोंगो मान्त्रिक दर्शने भीत्यादिलिङ्गात् सिद्धः । 4 ननु प्रयत्नवदात्मसंयोगासमवायिकारणक्रियाश्रयः शरीरनिरपेक्षोऽन्त्या वय- वीत्यस्य तल्लक्षणत्वम् । तत्र प्रयत्नवदात्मेत्यनेनादृष्टवदात्मसंयोगासमवायिकारण- 5 क्रियाधारदहनोर्ध्वज्वलनादीनां निरासः । क्रियाश्रय इति प्रयत्नवदात्मेश्वर- परमाण्वादिसंयोगासमवायिकारण संयोगाश्रयद्वयणुकादिनिरास:’ । शरीरनिरपेक्षेति प्राणाख्यवायोः, अन्त्यावयवीति चरणादीनामपि निरास इति सुस्थं लक्षणमिति चेत् — तन्न । न हि समुदितस्य तल्लक्षणत्वम्, इन्द्रियेष्वतिव्याप्तेः । भोगसाधनत्वं साक्षाद् विशेषणमिष्टमित्यन्यदेतत् । तत्र हस्तपादादेः शरीरत्वापत्ति- परिहारायान्त्यावयवित्वविशेषितं तत् तेषामिष्टम् । यदाहोदयन: किरणावल्याम्- “यदवच्छिन्न आत्मनि भोगस्तदन्त्यावयवि शरीरम्” इति । तद् दूष्यते न चान्त्ये- त्यादिना ।
- भोगाभावेनेति । ब्रह्मण्युपपादनमपि दुष्करमिति भावः । अतस्तलक्षणमादाय चिदचिच्छरीरकत्वस्य
- अवयवित्वाभावादिति । अन्त्यावयवित्वं नामावयव्यनारम्भकत्ववि - शिष्टमवयवित्वम् । अवयवित्वं चावयवसमवेतद्रव्यत्वम् ।
- पिशाचादिनेति । ननु पिशाचस्यैकजीवशरीर इव जीवान्तरशरीरेऽपि सुखादिसंपत्तिदर्शनात् ‘यत्र वर्तमानस्यैव’ इति कथं प्राप्नोतीति चेत्, तर्हि जीवस्यैकैकस्यापि पर: शतशरीरग्राहितया एकैकशरीरेऽपि तदनन्वयादसंभव एवेति ।
- अथ चेष्टाश्रयत्वस्य परिष्कृतस्य दूषणम् — नन्वित्यादिना । असमवायि- कारणेत्यन्तं बहुव्रीहिवृत्तं द्रष्ठव्यम् ।
- क्रियाधारदहनेत्यादि । “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्” इति कणादसूत्रे दहनोर्ध्वज्वलनस्यादृष्टवदात्म- संयोगासमवायिकारणकत्वमुक्तम् ।
- निरास इति । कारणाकारणसंयोगाधीन कार्याकार्यसंयोगाश्रयान्त्यावय- विनिरास इत्यर्थः । शरीरनिरपेक्षेति । नन्वेवंशरीरलक्षणे शरीरप्रवेशे आत्माश्रयः । ४ नयद्यमाणः न च सर्वभोगायतनं शरीरम्, कस्यापि शरीरस्य सर्वभोगायतनत्वादर्शनात् तल्लक्षणस्यासंभावितत्वात् । न च 1 स्वनामाई शरीरम् ; परमात्मशररित्वेन श्रुतानामात्मनां तथात्वानङ्गीकारात् । अतो यस्य पुण्यादीत्युक्तमेव लक्षणं साध्विति — नैतदुपपन्नम् ; यस्य पुण्यादीत्यादेर्दुष्टत्वात् ; कर्मरहितमुक्त परमात्मनो- र्देहेष्वव्याप्तेः । “स एकधा भवति " " हिरण्यश्मश्रुर्हिरण्यकेशः " इत्यादौ तयोः शरीरित्वश्रवणात् । " पुण्यपापे विधूय” " अपहतपाप्मा” “न मां कर्माणि लिम्पन्ति” इत्यादौ तयोः कर्माभावश्च सिद्धः । परशरीरस्य च न भूतसंघातत्वमपि " न भूतसंघसंस्थानो देहोऽस्य परमात्मनः” इत्यादिस्मृतेः । परमात्मशरीरतया श्रूयमाणात्मादीनां पुण्यादि- फलभोगसाधनत्वाभावात् 2 स्थावरशरीराणां पञ्चवृत्तिप्राणाधीनधारणत्व- क्रियाश्रयत्वयोरभावादव्याप्तेश्च । स्थावराणामपि चेतनशरीरत्वम् “आण्डजं जीवजमुद्भिज्जम्” “याति स्थावरताम्” इत्यादिश्रुतिस्मृतिसिद्धम् । चैतन्यास्फूर्तिस्तु देहविशेषसंबन्धनिबन्धना । चैतन्यतारतम्यं च पश्चादौ दृश्यते । शरीरशब्दश्च न गवादिशब्दवत् आकृतिविशेषवाचकः ; अननुवृत्ताकार - कीटपश्वादिषु तद्दर्शनात् ; आत्मादेरपि शरीरत्वश्रवणाञ्च । न : एतच्छरीरपदेन प्रयत्नवदात्मसंयागासमवायिकारण कक्रियाश्रयान्त्यावयवत्ये- तावन्मात्रविवक्षणात् । प्राणरूपावयविनिष्पत्तिस्तु शरीराधीनेति तद्व्युदासः । मित्यर्थः 1 1
- स्वनामाईमिति । शरीरशब्दवाच्यत्वं शरीरशब्दप्रवृत्तिनिमित्त- परैरात्मनः शरीरत्वानङ्गीकारात्परमात्मेत्युक्तिः 1 यदा ‘देवदत्तो गच्छतीत्यादौ देवदत्तादिपदस्य शरीरे प्रयोग उपचारात्’ इति वदता कणाद महर्षिणा देवदत्तादिपदानामात्मवाचित्वं साक्षात् उपचारात्तु शरीर- परत्वमित्यभिप्रेतत्वात् देवदत्तादिशब्दरूपात्मनामार्हत्वं शरीरस्येति तदेव लक्षणमिति पूर्वपक्ष्याशयः । सिद्धान्ते परमात्मशरीरत्वस्य जीवेष्विष्टत्वात् तत्र परमात्मशब्द- प्रयोगस्याप्रसिद्धया नेदं सिद्धान्तिसंमतमपि भवितुमर्हतीत्युपेक्षणीयमिति खण्डयि- तुराशयः । अत्र, ‘परमात्मशरीरत्वेन श्रुतत्वात् आत्मनां भूमानंगीकाराच्च’ इति पा० । तत्तत्त्वं विमृश्यम् ।
- भोगसाधनत्वाभावादिति । लीलारससाधनत्वेऽपि न भोगसाधनत्वम्, नतरां पुण्यादिफलभूतसुखादिभोगसाधनत्वमिति भावः । 3. आकृतिविशेषः संस्थानविशेषः । १. शरीरलक्षणनिरूपणम् ५ अतो ‘नित्यत्वादिवदुपाधित्वाच्च तच्छब्दप्रवृत्तिः 1 अतो यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं तच्छेषतैक- स्वरूपं च, तत् तस्य शरीरमिति लक्षणम् । न च हस्तपादादिष्वतिव्याप्तिः, पृथिव्याद्यवस्थाविशेष हस्तादेरेव शरीरत्वात् । अवस्थाविशेषापन्नकारणस्यैव हि कार्यत्वम् ; तदतिरिक्तवस्त्वन्तरानुपपत्तेः; अवस्थाभेदेनैव व्यवहारान्तरादेरुपपत्तेः । ‘यस्य चेतनस्य यद् द्रव्यं तत् तस्य शरीरम्’ इत्युक्ते अनियम्यगृहादिष्व- तिव्याप्तिः । तन्निवृत्त्यै नियन्तुं शक्यमित्युक्तिः । यथेष्टं प्रवर्तकत्वं नियन्तृत्वम् । तथापि पुरोहितादिभिः परार्थानियम्यस्य राजादेः पुरोहितादिशरीरत्वापत्तिः । तन्निरासाय स्वार्थ इति पदम् । स्वार्थे – स्वप्रयोजनायेत्यर्थः । 3 प्रथमसूत्रभाष्ये “मनुष्यादिशरीराणामप्यात्मैकाश्रयत्व तदेकप्रयोजनत्व” इत्यत्र तत्प्रयोजनत्वोक्तिः । तथाविधस्वार्थनियाम्यगर्भदासादीनां स्वामिशरीरत्वप्रसङ्गात् तन्निरासाय धारयितुमित्युक्तिः 1 शेषतैकस्वरूपमिति परमात्मनः स्वस्वरूपेऽतिव्याप्ति परिहाराय न हि स्वस्वरूपस्य स्वशेषत्वम् । तच्छेषतैकस्वरूपमिति पिशाचाविष्टदेहस्य पिशाचादिशरीरत्वनिरसनाय ; आविष्टदेहस्य पिशाचादिशेषतैकस्वरूपत्वाभावात् । 4 सर्वात्मनेति अयावद्र- व्यभाविष्वनियम्येष्वतीन्द्रियेष्वतिव्याप्तिवारणाय यावद्द्रव्यभावित्वं च संस्थानविशिष्टाकारस्यैव 1 ‘अतश्चेतनविशिष्टदेहाकारपरिणतपृथिव्यादिषु नातिव्याप्तिः । ‘आत्मज्ञाने द्रव्यत्वादियुक्तेऽतिव्याप्तिपरिहाराय आत्मन इत्यल्पाक्षर - 1, नित्यत्वादीति । नित्यत्वं हि ध्वंसाप्रतियोगित्वम् । नाकृतिविशेष इति भावः ।
- न च हस्तेति । अवयवातिरिक्तस्यावयविन आरम्भणाधिकरण- निरस्तत्वात् हस्तपादादिकमपि लक्ष्यमेवेति भाव: अनुपपत्तेरित्यत्र अनुपलब्धेरिति पा० ।
- प्रथमसूत्रभाष्ये । जिज्ञासाधिकरणभाष्ये अथातः शब्दव्याख्यानान्ते । सर्वात्मनेति । अनेन पदेन यावद्द्रव्यभावित्वं विवक्षितम् । तेन यत् द्रव्यं यावत्स्वसत्तं येन नियम्यते म्रियते च तत् द्रव्यं तस्य शरीरमिति सिध्यति । जीवोत्क्रमणानन्तरं तच्छरीरस्य विशीर्णतया तत्सत्तानङ्गीकारात् न लक्षणहानिरिति वक्ष्यते । एवं चेदं पदं कदाचिदेव धायें नियम्ये, अन्यदा अधार्ये अनियम्ये च क्वचिदतिव्याति परिहारायेति भावः । 5
- देहाकारेत्यादि । देहाकारपरिणतेः पूर्व तादृशपरिणतिहानेरूर्ध्व चेत्यर्थः । अतः सर्वात्मनेत्यस्य तादृगवस्थासद्भावं यावदित्यर्थः ।
- आत्मज्ञान इत्यादि । न हि ज्ञानं ज्ञानविशिष्टवेषेणात्मना धार्य नियम्यं चेति भावः । नमणिः पदोपेक्षयाने काक्षरपदोपादानम् । चेतनस्य ; ज्ञानगुणविशिष्टस्येत्यर्थः । तद्विशिष्टाकारेणैव हि शरीरस्य नियाम्यत्वादिः । न हि ज्ञानगुणविशिष्टा- कारेण ज्ञाननियमनादिः । शरीरशब्दस्य पुत्रादिशब्दवत् ससंबन्धिकत्वात् यस्येत्युपादानम् । न च मृतशरीरेऽव्याप्तिः; चेतनवियोगसमय एव तस्य विशीर्यमाणत्वेन शरीरत्वाभावात् । तत्र शरीरशब्दस्तु गौणः । रुग्णशरीरस्यापि नियमनार्हत्वान्न तत्राव्याप्तिः । तदर्हत्वादेव हि तत्र रोगमोक्षोत्तरकालनियमनम् ।
न च परस्य परिपूर्णस्य शरीरसाध्यप्रयोजनाभावात् तदितरस्य न तच्छरीरत्वमिति वाच्यम् ; लीलाप्रयोजनसद्भावात् । न च - द्रव्यपदप्रक्षेपात् क्रियागुणेष्वव्याप्तिः; “यज्ञेषु तिष्ठन्” इत्यादौ तेषामपि शरीरत्वं सिद्धमिति वाच्यम् — तेषां शरीरत्वाभावात् । “यज्ञेषु तिष्ठन्" इत्यादयस्तु यज्ञादि - क्रियाश्रयद्रव्याभिप्रायाः । अत एव हि यज्ञशरीरिणो भगवतो वराहस्य प्राग्वंशाद्य- वयवव्याप्तिः पुराणादौ प्रसिद्धा । क्रियाः स्वद्रव्याश्रयैकस्वभावाः । जातेर्गुणेष्वे- वान्तर्भावान्न तत्राव्याप्तिशङ्का । शक्तिसंख्यासादृश्यानि च गुणेष्वन्तर्भूतानि । द्रव्यनियमनादौ च गुणादेर्नियम्यत्वादिः सिद्धः ! 1 “पञ्चभूतात्मकं वपुः" इत्यादयस्तु विरक्तिजननाय मनुष्यादिशरीर- स्वभावकथनपराः । “अपाणिपादः" इत्यादयस्तु परस्य कर्माधीनशरीराभाव- ख्यापनपराः । अतः परमात्मनः स्वव्यतिरिक्तचेतनाचेतनद्रव्यशरीरकत्वं सिद्धम् । ननु शेषशेषित्वमेव दुर्निरूपम् । अतो न लक्षणस्य सौस्थ्यम् । न च परोद्देश प्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वम् ; तत्प्रतिसंबन्धित्वं शेषित्यमिति सुनिरूपं तदिति वाच्यम् ; कृतेः कृत्यन्तरख्याप्त्यन ईत्वेन कृत्यादिशेषत्वाभावापत्तेः । न चान्येोद्देशप्रवृत्त्यर्हत्वं शेषत्वमिति वाच्यम्; प्रधानस्यापि भृत्योद्देशेन प्रवृत्ति- दर्शनात् तच्छेषत्वापत्तेः । न च प्रधानस्यापि भृत्यपोषण प्रवृत्तिः स्वोद्देशेनैवेति न वैपरीत्यमिति वाच्यम् ; भृत्यस्यापि स्वोद्देशेनैव प्रवृत्तेः समत्वादिति चेत्- 1. गुणेष्वन्तर्भूतानीति । सिद्धान्ते उपसर्जनत्वातिरिक्तं तार्किकपरिभाषितं गुणत्वं नेष्यत इति भावः । १. शरीरलक्षणनिरूपणम् तन्न; परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपम्, स शेषः; परः शेषीति व्याप्तलक्षणसद्भावात् तस्य सुनिरूपत्वात् । फलयागयोरपि शेषशेषित्व फलसिद्धीच्छ्या यागस्योपादीयमानत्वान्नाव्याप्तिः; फलार्थतयैव यतस्तदुपादानम् । न च गुणेष्वव्याप्तिः, तेषामपि पुरुषविशेषणत्वे सत्यतिशयाधानेछयो- पादीयमानत्वात् । परिकरादपि स्वामिन्यतिशयाधानं लोकसिद्धम् । 2 उपादेयता च ज्ञेयता | अनुष्ठानं तत्फलम् । एवं सर्वमपि चेतनजातं परमात्मन्यति - शयाधायकतयैव तज्ज्ञेयमिति तच्छेषमेव । यद्यपि परमात्मनः स्वतः सिद्धातिश- यस्य नाधेयातिशयत्वम्, तथापीश्वरत्वादिज्ञानस्य चिदचिदीशितव्याधी- नत्वेन धीरञ्जकतयोपासनादिषु तयोरुपादीयमानत्वान्न दोषः । विशिष्टत्वज्ञानं हि विशेषणाधीनमेव । लोके छत्रादयोऽपि च्छत्रित्वाद्यतिशयाधानपराः । न च परत्वमेव दुर्निरूपमिति वाच्यम्, फलदातृत्वादिना तस्य सुनिरूपत्वात् । अतः शेषशेषिभावोऽपि सुनिरूप इति सुस्थं शरीरलक्षणमिति । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयद्युमणौ शरीरलक्षणनिरूपणं नाम प्रथमं प्रकरणम् ।
-
व्याप्तलक्षणेति । सर्वलक्ष्यव्यापिलक्षणेत्यर्थः । 1
-
उपादेयता चेति । गुणादेर्हस्तादिनोपादानायोगात् उपादेयत्वमन्याह- शमिह विवक्षितम् । तच्च ज्ञानमेवेति भावः । अत्रेदमवधेयम् — एतल्लक्षणघट- कयोरिच्छाज्ञानयोर्यत्र शेषभूतपुरुषे संभवः, तत्र लक्षणगतिः सुलभा । अचेतनस्य यत्र शेषित्ववत् शेषत्वमपि तत्र, बद्धानां परमात्मशेषत्वविषये च ज्ञानेच्छयो- रुपपादनं परमात्मादिपुरुषान्तरज्ञानेच्छाग्रहणेन कार्यम् । अत्र परगतातिशय एव परमप्रयोजनं यस्य, स परं प्रति शेष इत्यभ्युगम्य प्रधानभूतपरोपकारार्हत्वं शेषत्वमिति निष्कृष्टं लक्षणं ज्ञेयम् । भगवता २. श्रीः अध्ययनविधिनिरूपणम् श्रियः पतिर्हयग्रीवो मृणालस्वच्छविग्रहः । आकल्पं भजतामीशः सर्वतो विजयश्रियम् ॥ मारुतिश्च चिरं जीयात् सीतावल्लभकिंकरः । रामावरजयोगी च नाधार्यश्चात्रिगोत्रवान् ॥ श्रीमद्रामानुजाचार्यसंमतोऽर्थो निरूप्यते । स्वाध्याय विधिवाक्यस्य शास्त्रारम्भप्रसिद्धये ॥ भाष्यकारेण भाष्ये पूर्वोत्तरमीमांसयोरैकशास्त्र्यादिप्रति- पादनावसरे अध्ययनस्य परैरन्यथा निरूपितत्वात् सम्यक् तदर्थः संक्षेपेण
-
अन्यथा निरूपितत्वादिति । प्राभाकरैः स्वाध्यायस्यार्थपरत्व- मुपपादयद्भिः पूर्वपक्ष एवं प्रवर्तित: — यूपाहवनीयादिशब्दवदाचार्यशब्दोऽप्य- लौकिकधर्मविशिष्टवाची । म चाचार्यकरूपोऽलौकिकधर्मः सनियमाध्ययनजन्यः । अध्यापनस्योपनयनमङ्गम् । उपनीतेन चाध्ययने क्रियमाणेऽध्यापनं संपद्यत इत्यध्यापनविधिप्रयुक्तमुपनयनमध्ययनं च । तत्रोपनयनमध्यापनस्याङ्गम् । अध्ययनं तूपकारकमात्रमिति विशेषः ; ‘अध्ययनेनाध्यापनं भावयेत्’ इति विध्यदर्शनेन तदङ्गत्वायोगात् । तर्हि “स्वाध्यायोऽध्येतव्यः" इति स्वाध्यायस्य कर्मत्वश्रवणात् अध्ययनस्य स्वाध्यायं प्रत्यङ्गत्वमस्त्विति चेत् — तन्न; तव्यप्रत्ययेन विधिना अध्ययनस्यापूर्वार्थत्वावगमात् । अतोऽपूर्वार्थाध्ययनाङ्गं स्वाध्यायः । एवं चाध्ययनस्यार्थज्ञानार्थत्वाभावात् स्वाध्यायो नार्थपर इति मीमांसा नारम्भणीयेति । सिद्धान्तस्तु–अध्यापनविधिप्रयुक्तत्वेऽप्यध्ययनस्याध्येतृमाणवकार्थत्वे संभवत्यध्यापक- गताचार्यकरूपबहिरङ्गकार्यार्थत्वायोगात् माणवकार्थत्वे सिद्धे ‘अध्येतव्यः’ इति शब्दबलादपूर्वार्थत्वमिवार्थज्ञानार्थत्वमप्यर्थाद्भवन्न निवार्यमिति स्वाध्यायोऽर्थपर इति । भाट्टैस्तु - आचार्यकं नालौकिकधर्म: । अध्ययनमपि नाध्यापनविधिप्रयुक्तम् । किंतु “स्वाध्यायोऽध्येतव्यः” इति स्वविधिप्रयुक्तम् । तदध्ययनमेवोपनयनाङ्गकम्, उपनयनसंस्कृत माणवककर्तृकत्वात् । स चाध्यनविधिर्नियमविधिरिति वदद्भिः प्राभाकरसरणिपरिहाणेनाध्ययनविधिः स्वर्गार्थं इति पूर्वपक्षं प्रवर्त्य, ‘दृष्टफलसंभवेऽदृष्ट- कल्पनायोगादध्ययनविधिरर्थज्ञानफलक: । अतश्च स्वाध्यायोऽर्थपर’ इति निर्णीतम् । २. अध्ययनविधिनिरूपणम् ९ प्रदर्शितः । स च विवृतोऽस्माभिः नयप्रकाशे । तथापि सुग्रहत्वायात्र प्रकरणे पृथगुच्यते — अध्ययनविधिर्नियमपरः । स च वेदाख्याक्षरराशिग्रहणमात्रपर्य- वसायी । अध्ययनं चाचार्यरागप्रयुक्तम् । तच्च स्वाध्यायसंस्कारः । उपनयनं च माणवकसंस्कारद्वारा अध्ययनाङ्गम् । रागतो मीमांसाप्रवृत्तिरिति च दर्शन- स्थितिः । तथाहि– नियमार्थे विधिर्नैव वैयर्थ्यं नियमे सति । अधीतवेदसाध्यं यत् तदेव फलदं यतः ॥ उपायान्तरसद्भावाद्वेदाप्तेस्तन्निवृत्तितः । नायुक्तं नियमार्थत्वमध्येतव्य इति श्रुतेः ॥ स्वाध्यायशब्दवाच्यत्वाद्विशिष्टाक्षरसंहतेः । तद्वर्णमात्रग्रहणे तद्विधिः पर्यवस्यति ॥ स्वशाखाध्ययनं चापि गुरुरागप्रचोदितम् । प्रतिग्रहो यथा लिप्सोरध्यापन विधिर्यतः || स्वाध्यायकर्मताबुद्धेरध।तिस्तस्य संस्क्रिया । युक्ता संस्कार्यता कास्याज्जपादी विनियोगतः ॥ उपनी तिरधीत्यङ्गं योग्यतापादिका यतः । अध्येतुरन्तरङ्गत्वात् कर्मव्यश्रवणादपि ॥ अङ्गैः षड्भिरधीतत्वादीषदर्थावबोधतः । वेदस्यार्थविचारेऽपि रागादेव प्रवर्तते ॥ भगवता
-
प्रदर्शित इति । भाट्टकृतं प्राभाकरदूषणमङ्गीकृतमेव भाष्यकृता । परं तु अर्थज्ञानार्थ स्वाध्यायाध्ययनविधिरिति यत् प्राभाकराणामिव भाट्टानां निगमनम्, तन्नाङ्गीकृतम् ; “अध्ययनमात्रवतः” इति वदता बादरायणेनाध्ययनविधे- रक्षरराशिग्रहणमात्रार्थताया अङ्गीकृतत्वात् । अतः स्वाध्यायप्राप्त्यर्थमेवाध्ययनम्, स्वाध्यायस्य कर्मत्वावगमात् । तत्राधीतस्य स्वाध्यायस्य नार्थ उपयोगः, सर्वस्य तस्यार्थपरत्वाभावात्, उक्तस्यार्थस्य सर्वस्य सर्वोपयोगित्वाभावाच्चति जपे पारायणे चोपयोग इति मीमांसा नारभ्येति पूर्वपक्षः प्रवर्तनीयः । शब्दानामर्थपरत्वस्वाभाव्यात् तदर्थोपबृंहणार्थमेवाङ्गोपाङ्गभूतस्मृत्यादिप्रवृत्तेश्च स्वाध्यायस्यार्थपरत्वमवर्जनीयमित्यर्थ- निर्णयाय शास्त्रमारम्भणीयमिति सिद्धान्त इत्यभिसंहितमित्यर्थः । अत्रेदमवधेयम्- अध्ययनं स्वविधिप्रयुक्तमिति यदुक्तं भाट्टैः, तदनेन ग्रन्थकर्त्रा नेष्यते । किंत्वाचार्य- रागप्रयुक्तमित्युच्यते । अन्यैस्तु श्रीभाष्यव्याख्यातृभिभीहैरिव स्त्रविधिप्रयुक्तत्वमेवा -’ ध्ययनस्यादृतमिति । 2 १० नयद्यमणिः जपादिविनियोगस्यासंभवान्न प्रयोजनम् । वेदस्यार्थावबोधित्वाद्युक्तो रागो विचारणे ॥ ननु प्रागध्ययनात् विध्यर्थानवगमात् माणवकं प्रत्यध्ययनविधि नियमो- ऽनुपपन्न इति चेत्; तन्न; 1 अवगततद्विध्यर्थमाणवक हितप्रवृत्तपित्रादितस्तनि- यमात् प्रवृत्त्युपपत्तेः; पक्षान्तरेऽप्यस्य चोद्यस्य समत्वाच्च । पुस्तकपाठादिना स्वाध्यायाप्तेः संभावितत्वेन निर्णयसंभवात् तन्निवृत्तिफलको नियमश्चात्रोपपन्नः न च दुःखरूपाध्ययनस्यापुरुषार्थत्वादननुष्ठेयता ; अध्ययनेनैव प्रवृत्तस्वाध्यायस्य पुरुषार्थसाधनजपादिद्वारा पुरुषार्थत्वेनानुष्ठेयत्वात् । 2ननु “अध्येतव्यः” इत्यस्य न नियमपरता, तव्यप्रत्ययादेः स्वतोऽपूर्व- परत्वात् ’ । न च “अवहन्ति” इत्यादिवत् + क्रत्वादिविध्यनुवादकता, तद्विधीनां दूरस्थत्वात् । न च स्वाध्यायस्यार्थावबोधकत्वेन क्रत्वव्यभिचारात् तत्पदोच्चारणे ऋतुविधायकत्वेनानुत्रादोपपत्तिः, स्वाध्याये निरर्थकद्दुमादीनामपि सद्भावात् तद्व्यभिचारादित्यपूर्वपरत्वमेवास्येति चेत् — तन्न, ‘हुमादे: सामान्तर्गतत्वात् तस्य च क्रत्वव्यभिचारात् जपादौ कृत्स्नस्य स्वरूपेणाव्यभिचाराच्च स्वाध्यायपदात् तत्प्रत्यभिज्ञोपपत्तेः I प्रधानापूर्वपरत्वं निराकरिष्यते ।
-
अवगतत द्विध्यर्थेति पित्रादिविशेषणम् ।
-
प्राभाकरपक्षमुपक्षिपति - नन्वध्येतव्य इति । स्वनन्तरमेव
-
अपूर्वपरत्वात् । तन्मते नियोगो विध्यर्थः । नियोगश्चापूर्वमिति तैर्निष्कृष्टम् |
-
क्रत्वादिविध्यनुवादकतेति । “त्रीहीनवहन्ति” इत्यादेर्दर्शपूर्णमास- प्रकरणगतत्वात् प्रधानविध्यनुवाद इति तैरिष्टम् ।
-
“स्वाध्यायोऽध्येतव्यः” इति वाक्यमनारभ्याधीतमपि पर्णतान्यायेन प्रधानविध्यनुवादकं स्यादित्याशङ्क्य परिहरति — न च स्वाध्यायस्येति । अत्र ‘न च स्वाध्यायस्य कर्मबोधकतया कर्माव्यभिचारात् कर्मविध्यनुवादकतेति वाच्यम् ; ‘हुम्’ इत्येवमादिस्तो भाक्षराणां कर्मबोधकत्वव्यभिचारात् ’ इति नयप्रकाशिकोक्तार्थोऽनुसंधेयः ।
-
हुमादेरिति । साम्नां क्रत्वङ्गत्वात् तदन्तर्गत हुमादेरपि तदङ्गत्वसिद्धया स्वाध्यायस्य शब्दस्वरूपेण वा अर्थद्वारा वा ऋत्वादिसंबन्धात् अध्येतव्य इति विधिना क्रतुजनादिसर्वविध्यनुवादसंभवे तत्खण्डनं कथमिति भावः । सिद्धान्ते अध्येतव्य इत्यत्र क्रतुविध्यनुवादः संमतो न वेत्यन्यदेतत् । प्राभाकरयुक्तिखण्डनमात्रेऽत्र तात्पर्यम् । ० अध्ययनविधिनिरूपणम् ११ न च - तर्हि जपादिशेषताऽध्ययनस्य ; शेषट्त्रे च न प्रमाणमिति वाच्यम् ; शेषत्वाभावेऽप्यग्न्यर्थार्जनोपायाधानयाजनादेखि • विद्यार्जनोपायाध्ययनस्यापि जपाद्युपकारकत्वोपपत्तेः । धनाग्निमतामिव विद्यावतामेव हि क्रतावधिकारः । नन्वेवं जपादिप्रयुक्तता अध्ययनस्य ; ऋतुप्रयुक्तता चाधानस्य । तदङ्गीकारे च शूदादेरप्यध्ययनापत्तिः । विधितस्तत्प्रवृत्तौ च पुरुषार्थशूद्राध्ययन- निषेधस्यानवकाशः, विहिताग्नीषोमीयालम्भेन “न हिंस्यात्” इत्यस्येव । शूद्रविषयाध्ययननिषेधस्तु रागतः प्रवृत्तपरत्वेनापि हिंसानिषेधवत् योजयितुं शक्य इति चेत् —न, जपादिविधेस्तत्प्रयोजकत्वाभावात् ; धनादिलिप्स्वध्या- पकरागप्रयुक्तत्वात् । रागप्रयुक्तिसद्भावे विधेर्न प्रयुक्तिगोचरत्वम् । अध्यापनमपि याजनादिवद्धनार्जनोपायतया विहितं शास्त्रेषु । अतः कामात् तेनोपायान्तर- प्रयुक्तिरित्यार्जनोपायतया रागादध्यापनप्रवृत्तौ, " उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शिष्टाचारांश्च शिक्षयेत् ॥ " इति नियमशास्त्रानुरूपमेवाध्यापनं अध्ययनव्यतिरेकेणाध्यापनानुपपत्तेः । प्रयुञ्जानोऽध्ययनं प्रयोजयति; नन्वध्यापनव्यतिरेकेणाध्ययनासिद्धेर्व्यत्यासात् प्रयोजकता किमिति न स्यादिति चेत् —न, अध्ययनस्य दुःखरूपत्वात् स्वतोऽपुरुषार्थत्वेनाप्रयोज- कत्वात् । पुरुषार्थसाधनजपादिद्वाराऽध्ययनप्रयुक्तिस्तु रागाद्विलम्बिता । तत: 2 प्रवृत्तिसंभवे तु न विधौ तत्कल्पनागौरवं च । नन्वध्ययनाक्षिप्तमेवाध्यापनम् । स्वाध्यायप्राप्ताध्ययनस्यैवोपायतया विहितत्वादर्थार्जनोपायतया याजनादेः संभवात् नाध्यापन एव नियमात् प्रवृत्तिरित्य- ध्ययनस्यैव तत्प्रयोजकत्वमिति चेतून; प्रतिग्रहयाजनयोर्दोषबाहुल्यसंभवात् भृतकाध्यापननिषेधात् तत्राप्रवृत्तावप्ययाचितैरपि शिष्यैर्गुरुप्रीत्यर्थ- मर्थप्रदानोपपत्तेः तद्ग्रहणे तद्ग्रहणे च निषेधाभावात् शुश्रूषा लोभाधिक्याच्च
कामादिति । विकल्पादित्यर्थः । 2. ततः प्रवृत्तिसंभवे आचार्यरागत एव प्रवृत्तिसंभवे । १२ नयधुमणि: तत्र प्रवृस्यौत्कट्यात् । " दध्ना जुहोति" “पयसा जुहोति” इति - वदनेकनियमोपपत्तिश्च । तत्र रागप्रवृत्तावेव स्वापेक्षितार्थसिद्धेर्नियमविधि- वोदासीनः 1 | अध्यापकस्य तदुपकारता तु निवायैते । सनियमकाध्यापन एवाध्यापकस्यार्थादिसिद्धिः । एतेनाचार्यकरणविधिप्रयुक्तिपक्षोऽपि प्रत्युक्तः; रागात् तत्प्रयुक्ते- रुक्तत्वात् । न च तद्विधिसद्भावः । न च, " उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ||" इत्यत्र तत्सद्भावः; तस्याचार्यलक्षणकथनमात्रपरत्वात् । न ह्यत्राचार्यत्वस्य भावना । य इति प्रसिद्धवन्निर्देशाच्च न तत्सद्भावधीः । न च विधित्वतात्पर्यावधृतौ “यदाग्नेयो- ऽष्टाकपालः” इत्यादिष्विव यच्छन्दस्य न विधिव्याघातकता; आग्नेयादेः प्रमाणान्तराप्राप्तत्वात् तत्राव्याघातकत्वात् । " अष्टवर्षं ब्राह्मणम्" इत्यादा- वध्यापनं प्राप्तम् । ननु च “उपनयीत" इत्यात्मनेपदश्रवणात् तस्य च “संमाननोत्सञ्जना- चार्यकरण -” इति सूत्रबलादाचार्य करणार्थत्वात् विधिरेवेति चेत् — न, “अकर्त्र- भिप्रायार्थोऽयमारम्भः” इति तत्सूत्रोपोद्घातवृत्तावात्मनेपदस्य कर्त्रतिरिक्तसंस्कार्य- माणवकगामित्वत्रिवक्षया तत्सूत्रेण विहितत्वाभिधानात् । न चोपनेतुरकर्त्रवस्थया तत्फलभागित्वपरा सा वृत्तिरिति वाच्यम् ; तादृशानेकवृत्तीनामपि फलस्य तादृगवस्थायोगित्वपरत्वापत्तेः | ‘माणवकमुदानयते’ इत्यादिभिरुत्सञ्जनादीनामुदा- हरणम् । माणवकगामि ह्यत्क्षेपणक्रियाफलम्, नोत्क्षेप्तृगामि । एवमितरो- दाहरणेष्वपि स्पष्टम् । अकर्त्रभिप्रायार्थोऽयमिति चानेकसूत्रेषु दृश्यते । न च तथेष्यते ।
- नियमविधिश्वोदासीन इति 1 अध्ययननियमविधिर्नाध्ययनं प्रयुङ्क्ते । आचार्यंरागाधीनप्रवृत्त्यैव स्वापेक्षितस्याध्ययनस्य निष्पन्नत्वादित्यर्थः ।
- एवमध्यापकरागप्रयुक्तमप्यध्ययनं न प्राभाकरमत इवाध्यापकापेक्षिता- चार्यकार्थम् ; किंतु माणवकार्थम्, अन्तरङ्गत्वादित्याह – अध्यापकस्येति ।
- तादृशानेकवृत्तीनामपि । फलस्या कर्त्रभिप्रायार्थत्वपराने कवृत्ति- ग्रन्थानामित्यर्थः ।
- अनेकसूत्रेष्विति । अनेकसूत्रवृत्तिग्रन्थेष्वित्यर्थः ।२. अध्ययनविधिनिरूपणम् १३ किंच ‘आचार्यकं कुर्वन्’ इति वर्तमान निर्देशानुपपत्तिश्च । साङ्गाध्या- पनजन्यादपूर्वात् कालान्तर एवाचार्यश्वोत्पत्तिरभिमता गुरुमते । आचार्य- करणस्मृतिस्तूपनयनकर्तृत्वनिमित्ता । किंच अध्यापनाङ्गत्वेनोपनयनमात्रे श्रूयमाण- मात्मनेपदं साङ्गाध्यापनफलार्थत्वेन नान्वययोग्यम्, फलाश्रवणात् । फलकल्पना- यामपि सर्वार्थस्वर्गादेरेव विश्वजिन्न्यायात् कल्पनं युक्तम् ; न त्वङ्गे श्रूयमाण- फलस्य । अध्यापनस्य काम्यद्रव्यादिफलसद्भावात् फलान्तराकाङ्क्षाभावाच्चाथर्जिनो- पायतया स्यादध्यापननिपमः । न चार्थलाभायाचार्यत्वमेवापूर्व दुत्पादयितव्यमिति वाच्यम ; आचार्य- स्वस्य लौकिकत्वेन पूर्वोत्पाद्यत्वाभावात् । उपनयनादिक्रियाकारकत्वमात्रा- दाचार्यादिपदप्रवृत्त्युपपत्तेरदृष्टार्थकत्वकल्पनायां’ प्रमाणाभावाच्च । यौगिकश्चा- चार्यशब्दः । नैयोगिकत्वपक्षे तु योगवृत्तिर्न युज्यते । योगवृत्तिश्च, 2" आशब्दादाप्तिरित्युक्तश्चार्यशब्दश्चरेदिति । आप्तौ चरति यो नित्यमाचार्यः सोऽभिधीयते ॥ " इति स्मरणात् । स्मरणात् ननु ‘वेदाध्ययन समाप्तावाचार्याय वरो देयः’ इति क्रियाननुवृत्तौ कारकत्वाननुवृत्तेराचार्यत्वमलौकिकमेव फलम् ; न तूपनयनादि- क्रियाफलम् । न च भूतपूर्वगल्या पाचकादिवत् तद्व्यवहार इति वाच्यम् ; अध्यापकगतत्वेनेोपलक्षकधर्माप्रत्यक्षत्वादिति विध्यर्हमेव तदिति चेत् — न; पाचकादिष्वपि धर्माप्रत्यक्षत्वस्य समत्वात् । न हि पाचके तदुपलक्षकधर्म- प्रत्यक्षता । पित्रादिष्वप्येवं निषेकादिनिमित्तत्वेन भूतपूर्वगत्यैव पित्रादि- व्यवहारः। तावतैव तत्परशास्त्रप्रवृत्त्युपपत्तिः । किंच आचार्यत्वस्य लौकिकत्वात्, स्वर्गादिवत् सुखत्वाद्याकारेणाप्यज्ञातत्वात्, तज्ज्ञापनया नाध्यापने प्रवृत्त्युपपत्तिः । अतो न विध्यर्हताचार्यत्वस्येति न तत्सद्भावः ।
4 अदृष्टार्थकत्वेति । आचार्यपदस्येति शेषः । 2. आप्तिः शास्त्रार्थसाक्षात्कारः । 3. तदुपलक्षकधर्मेति । भूतपूर्वयद्धर्ममादाय तस्य पुरुषस्योपलक्षणं क्रियते, तस्येत्यर्थः । 4. तज्ज्ञापनयेति 1 न ह्यज्ञातमाचार्यकमुद्देश्यत्वेन शक्यमिति भावः । ज्ञापयितुं १४ तदुक्तम्- नयद्यमाणः “नैतद्युक्तं मतं रागप्रवृत्तौ विधितो न सा । साध्यधीतेर्न चाचार्यत्वं च नैयोगिकं फलम् ॥ किंतु क्रियाफलं तच्च लौकिकैरुपनेतरि । प्रयुज्यते त्वयं शब्द उपनीतिक्रियाफलम् ॥ संमाननादिसूत्रे तत् पाणिनिः प्राह च स्फुटम् । यौगिकत्वेन तच्छब्दं प्राहुश्चाद्यास्तथा स्फुटम् ॥ आशब्दादप्तिरित्युक्तश्चार्यशब्दश्चरेदिति । आप्तौ चरति यो नित्यमाचार्यः सोऽभिधीयते ॥ 1 इति नैयोगिके पक्षे योगवृत्तिस्तु दुर्घटा (दुर्मणा ) । क्रियायां हि समाप्तायां फलं नैयोगिके यतः । अतो विध्यर्हता नास्येत्ययं पक्षो न युक्तिमान् ॥” इति । न चार्थज्ञानरागाद्विधित एवाध्ययनप्रयुक्तिः, हुमादेरर्थाभावादव्या- पकत्वेन कृत्स्नशाखाध्ययनासिद्धेः । अनधीतवेदस्यार्थज्ञानाभावान्न कामनोप- पत्तिश्च । न ह्यनुपलब्धस्येषिविषयता । न वेदादन्यतो वेदार्थस्य चोपलब्धिः । न च ज्ञातवेदार्थपुरुषात् तदर्थज्ञाने तत्कामनेति वाच्यम्, अज्ञातेऽर्थे तत्कामनानुपपत्तेः । न च तज्ज्ञात् सामान्यतो ज्ञातस्य विशेषतो ज्ञानकामनोपपत्तिः । ‘अर्थोऽस्ति’ इत्येतावन्मात्रात् कामनानुपपत्तेः । विशेषतो ज्ञात एव हि कामनया महाप्रयासाध्ययनप्रवृत्तिः । कथं तर्हि रागतोऽर्थज्ञान- प्रवृत्ती राद्धान्त उच्यते ? न हि मीमांसाश्रवणात्पूर्वं विशेषतो वेदार्थज्ञानमिति चेत् —–न, तत्र न्यायरूप सहकार्य भावादर्थानिर्णयेऽपि संशयग्रस्तत्वेनानिय- ततया विशेषत एवार्थज्ञानसद्भावात् । न हि तादृशं सामान्यज्ञानम् । ‘अर्थोऽस्ति’ इत्येतावन्मात्रमेव हि तज्ज्ञानम् ।
- इति नैयोगिक इति । इतिशब्दः प्राहुरिति पूर्वान्वयी । पूर्वश्लोकस्य स्मृतिवाक्यतया तदनुवादोपरतौ इतिः । नैयोगिके पक्षे योगवृत्तिर्न घटत इत्युपरितनेनान्वयः ।
- अध्ययनस्य स्वविधिप्रयुक्तत्वं खण्डयति । तत्र ’ स्वाध्यायोऽध्येतव्यः” इत्यस्यार्थज्ञानार्थमध्ययनविधायकत्वं स्वीकुर्वाणैभी हैः फलरागात् प्रवृत्तिरिति वक्तव्यम् । तन्न घटत इत्याह—न चार्थेति ।
- तदर्थज्ञाने—तस्यार्थोऽस्तीति ज्ञाने । २. अध्ययनविधिनिरूपणम् १५ न च वेदार्थेऽभ्युदयकारकत्वाकारेण पुंवाक्यात् ज्ञाते कामना, कृत्स्नवेद- स्याभ्युदयकारकत्वाभावात् । न हि नित्यादीनां स्वर्गाद्यभ्युदयार्थता । परोक्तिमात्रात् पुरुषार्थतया कामनोदयोऽप्यनुपपन्नः, पुरुषवचसां स्वतः प्रामाण्या- भावात् । ’ प्रमाणोपलब्धौ तु प्रवृत्तिरनुपपन्ना ( रुपपन्ना) । ननु – पुरुषार्थत्वाकारेण वेदार्थं ज्ञाते कामनोपपत्तिः; कृत्स्नवेदस्य पुरुषार्थपरत्वादिति चेत् — न, श्येनादिभागस्यापुरुषार्थपरत्वात् । अथ ज्ञातस्यापि स्वाध्यायेनैव ज्ञानकामनोपपत्तिरिति चेत् —न, स्वाध्यायादन्यतस्तदर्थावगत्यभावात् निवर्त्यभावान्नियमानुपपत्तेः; पुंवाक्याद- र्थनिश्चयो मूलवेदानुमानादेवेति न तावन्मात्रात् । न च ज्ञातस्याप्पर्थस्याध्ययन- गृहीत।देव स्वाध्यायात् ज्ञानकामनोपपत्तिः, कामनाप्रयुक्तत्वे शूद्रादेरप्यापत्तेः । न हि केवलार्थज्ञानमात्रं पुरुषार्थः । किंतु ऋतुसाध्यस्वर्गादिरेव पुरुषार्थः । तथा क्रतुविधिरेव प्रयोजकः । वेदोदिताश्च सर्वेऽर्था नानुष्ठीयन्ते, ब्राह्मणादी- नामश्वमेधादिष्वनधिकारात् । केषांचिदसामर्थ्यादिभिरचिकीर्षितत्वान्नानुष्ठानमिति न कृत्स्नवेदाध्ययन सिद्धिश्च । ततः कृत्स्नाध्ययन- न च—जपफलकामनाप्रयुक्तत्वमध्ययनस्य; सिद्धिरिति वाच्यम्; शूद्रादेरपि प्रसक्तेरित्युक्तत्वात् । अध्ययनवाक्ये न फलं श्रुतमिति स्वविधितः प्रयुक्तिश्चानुपपन्ना । कल्पनायां चार्थज्ञानस्यादृष्टफलत्वा- भावादवघातादिजन्यवैतुष्यादिवत् विषयस्वभावतो योजनान्न कर्तृविशेषणतो- पपत्तिश्च । जपादिविधितः प्रवृत्तावपि फलरागव्यतिरेकेणाध्ययनासिद्धेः, रागप्रवृत्तेः शैघ्रयाच्च गुरुरागप्रयुक्तत्वमेव युक्तमिति न स्वविधिप्रयुक्तत्वम् 3 ; ऋतुविधिप्रयुक्तत्वम् ; नाप्याचार्यकरणविधि प्रयुक्तत्वम् ।
- अनुपपन्नेति । प्रमाणतोऽर्थनिश्चये जाते न च अर्थनिश्चयकामनया प्रवृत्तिर्दुर्वचत्यर्थः । उपपन्नेतिपाठे तु प्रमाणतः संशयग्रस्त विशेषज्ञाने सति कामनया प्रवृत्तिर्भवतीत्यर्थः ।
स्वाध्यायातिरिक्तस्योपायत्वं मा भूत् । प्रकारान्तरगृहीतात् स्वाध्यायादर्थ- ज्ञाने जातेऽप्यध्ययनगृहीतस्वाध्यायादर्थज्ञानकामना भवितुमर्हतीति शङ्कां परिहरति- न च ज्ञातस्यापीति । 3. न स्वविधिप्रयुक्तत्वमिति । तत्त्वटीकादौ तु – “अध्ययने तु वालस्यातप्रेरणादिभिः साफल्यानुमानात् प्रवृत्तिर्युक्ता । अत एव द्रव्यार्जनादिलुब्धा- चार्यरागप्रयुक्तमध्ययनमिति यत् कैश्चिदुक्तम्, तत् स्वविधिप्रयुक्त्यसंभवेऽप्य- ध्यायनविधिप्रयुक्तिस्तावदयुक्तेति स्थापयितुम्” इत्येवमेतदनादरेण स्वविधिप्रयुक्तिरेव १६ नयधुमणिः अध्ययनस्याचार्यकरणविध्यभावादेवेोपनयनस्य तदङ्गतापि निरस्ता । किंतु ‘ब्राह्मणम्’ इति द्वितीयाश्रुत्या माणवकस्यैवोपनयनसाध्यत्वप्रतीतेरध्ययनस्य तस्या- ध्ययनकर्तृगतत्वेनान्तरङ्गत्वात् अध्ययनशेपतैव युक्ता । आचार्यकरणविधिसद्भावाङ्गीकारेऽपि न तद्विशेषणत्वे प्रमाणम् । न च ‘उपनीयाध्यापयेत्’ इति मानम्, तद्वचनस्य स्मृतित्वेन “अष्टवर्षं ब्राह्मणम्” इत्यादिश्रुतेर्विलम्बितत्वात् । किंच माणवकस्य तदासत्तेर्वाऽध्ययन शेषत्वम् । अतस्तद्द्वाराऽध्यापनशेषत्वनिर्वाहोपपत्तिश्चोपनयनस्य । न ह्यशेषभूतं द्वारं दृष्टम् । प्रत्युतासत्तिद्वाराऽध्यापनमेवाध्ययनाङ्गम् । अध्यापकोऽपि ऋत्विग्वत् शुश्रूषादक्षिणादानाद्यानतः ! किंच क्त्वातोऽङ्गता प्रकारान्तरेणापि विलम्बिता । क्वातः समान- कर्तृकत्वम् ; ततः प्रयोगेक्यम् ; ततश्चाङ्गाङ्गित्वम् । तच्च लिङ्गमिति । “ब्राह्मणम्” इति श्रुतिः । अध्ययनाङ्गत्वे तु क्त्वा पूर्वकालतामात्रपरो भवति, " दर्शपूर्णमासाभ्यामिष्ट्रा सोमेन यजेत” इत्यादाविव । एवंच स्मृतिषूपनयनस्य पुरुषसंस्कारान्तरतुल्यन्यायतया पाठश्चाप्युपपन्नः । अध्यापनशेषत्वनिश्चये दैवादध्यापन निवृत्तावध्यापकान्तरेणाध्यापनप्रवृत्तौ पुनरुप- प्रधानावृत्त।वङ्गावृत्तेर्न्याय्यत्वात् । माणवकशेषत्वे तु सर्वार्थत्वादाधानवत् नयनप्रसङ्गश्च ; कर्तृसंस्कारत्वेनाध्यापकभेदादध्ययनभेदेऽपि नावृत्तिः ; तत्संस्कारस्य । तदुक्तम् — “उपनीतेर्न चाङ्गत्वमध्यापनविधिं प्रति । प्रमाणाभावतस्तत्र स्मृतेर्नापि प्रमाणता || उपनेयश्रुतेः शैघ्रयाल्लिङ्गं चान्यद्विलम्बितम् । समानकर्तृताबुद्धिरुपनीयेति हि ल्यपा ॥ समानकर्तृकत्वेन प्रयोगक्यं प्रतीयते । अङ्गाङ्गिता तदैक्ये चेत्युक्ता तस्याः प्रमाणता ॥ स्वीकृता । अकरणे प्रत्यवायमाप्तमुखादाकर्ण्य नित्ये स्वाध्यायाध्ययने प्रवर्तत इत्यपि स्वविधिप्रयुक्तत्वं सुवचम् । एवमधीतस्य स्वाध्यायस्याङ्गाध्ययनबलादर्थ- प्रतीतिकरत्वे सति रागादेव निर्णयार्थ प्रवृत्तिरिति पूर्वमर्थपरत्वाज्ञानेऽपि न दोष इति ।
- माणवकस्यैवेति । माणवकस्य यदुपनयनम्, तत्साध्यत्वेनाध्ययनस्य प्रतीतत्वादित्यर्थः स्यात् । " ब्राह्मणमिति द्वितीयायाः श्रुतत्वात् उपनयनस्याध्ये- तृमाणवकद्वारा अध्ययनशेषत्वप्रतीतेः” इति नयप्रकाशिका । २. अध्ययनविधिनिरूपणम् सुस्पष्टो हि विधिश्चात्र त्वष्टवर्षमिति श्रुतिः । अधीतिशेषतैवात्र कर्तृद्वारा प्रतीयते ॥ अध्येतृगत संस्कारो नाध्यापकसमन्वयी । नाध्यापनोपकारित्वमध्येतुर्नेह (र्न हि ) शेषता ॥ किंचाध्ययनशेषत्वं दक्षिणाद्यानतस्य हि । अध्यापकस्य शेषत्वं क्रताविव महर्त्विजाम् ॥ तस्य चाध्यापनाङ्गत्वे स्यात् प्रयोगोऽपवर्जितः । यथा च सिन्धुदेशादिगमनेन पुनः क्रिया ॥ उपनीतिं पुनस्तत्र निर्विशेषं स्मरन्ति हि । अध्यापनाने संस्कारे चोपनीतौ ल्यपः श्रुतेः ॥ अध्यापकस्य भेदेऽपि खाङ्गोपनयनक्रिया | प्रधानभेद उक्तत्वादङ्गावृत्तेः क्रताविव ॥ " इति । अतोऽध्ययनाङ्गत्वमेवोपनयनस्येति सिद्धम् । १७ अध्ययनविधिश्च वेदाख्याक्षरराशिग्रहणपरः; नार्थज्ञानपरः, तज्ज्ञानस्य स्वाध्यायशब्दवाच्यत्वाभावात् ; साङ्गाध्ययने विषयस्वाभाव्याज्जायमानस्या- विधेयत्वात् । ननु – न ज्ञानस्य विधेयत्वमुच्यते ; किंतु निश्चयात्मकस्य । तत्तु न विषयखभावजम् ; किं तु मीमांसाजम् । तस्य च विधिव्यतिरेकेण प्रवर्तकाभावादू विधिव्यापारस्तत्राङ्गीकरणीय इति चेत्-न, 1 विषयस्वाभाव्यात् पुरुषार्थानामा - भासतोऽवगतौ तन्निर्णये रागादेव प्रवृत्तेः । किंच गुरुमतेऽध्ययनविधेर्न शास्त्रश्रवणप्रयोजकत्वम्, शास्त्र श्रवणस्य न ह्याधानादिवद्वा प्रयाजादिवद्वा शास्त्रश्रवणात् तदपूर्वोपकारः । न ह्यनुपकारकस्य प्रयोज्यत्वम् । तदनुपकारकत्वात् । न चाध्ययनविधिना स्वविधेयत्वसिद्धये स्वाध्यायस्यार्थपरता आकाङ्क्षितेति तदर्थनिर्णयाय शास्त्रप्रयुक्तिरिति वाच्यम्; 2 अर्थपरत्वविहतिनिवृत्तिमात्रादपि
विषयस्वाभाव्यादिति । विषयस्वभावादित्यर्थः । प्रियतद्धिता दाक्षिणात्याः । 2. विहतिनिवृत्तिमात्रादपीति । स्वाध्यायस्यार्थपरत्वाभावे तदन्तर्गतस्या- ध्ययनविधेरप्यर्थपरत्वाभावात् अध्ययनविधानमेव न स्यादिति स्वाध्यायस्यार्थपरत्व- मावश्यकमिति मीमांसकोक्तं न युक्तम् । अध्ययनविधिः स्वसिद्धये ‘स्वाध्यायस्यार्थ - परत्वं नास्तीति न’ इत्येतावदेवाक्षिपेदित्याशयः । 3 १८ नयधुमणिः तद्वाक्यस्यार्थपर्यन्त (ग्रहा र्वपर) त्वसिद्धेस्तदप्रयोजकत्वात् । न हि शास्त्रप्रयुक्त्य- भावे तद्विधिवैयर्थ्यम्, स्वविषयानुष्ठानमात्रादेव तत्सिद्धेः । न च - तदनुष्ठानवचनमर्थज्ञानापेक्षम् ; यतः प्रागध्ययनात् स्वाध्या- यान्तर्गताध्ययनवाक्यविचारश्चानुपपन्न इति । अतोऽननुष्ठानलक्षणाप्रामाण्याभावे च न ततः शास्त्राक्षेपः। किंच आचार्यत्वादिप्रयोजनात् स्वाध्यायस्यान्यपरत्वाभावे स्वपरवाक्यस्यान्तर्गतत्वाविशेषात् स्वपरत्वहान्यापत्तौ तद्विधेः स्वाध्यायस्यार्थ - परत्वविहतिनिवृत्तिमात्रमेवापेक्षितम् । तद्विहतिनिवृत्तौ च शब्दस्वभावादेवार्थ- परता सिद्धा । स्वतः सिध्यतोऽर्थस्य च न विधेयता । रागाच शास्त्रप्रवृत्तिरित्य- क्षरराशिग्रहणव्यतिरेकेण न कचिद्विधिस्पर्शापेक्षा । 2 अध्ययनत्य नार्थज्ञानकरणतोपपन्ना; तस्यापूर्वकरणत्वाभिधानात् । न च—-विषयानुष्ठानेऽर्थज्ञानमर्यजातं स्वीकृतं विधिना ; न तदर्थत्वं तदनुष्ठानस्येति वाच्यम् —-आचार्यत्वस्याप्यध्ययनफलत्वेन स्वीकारापत्तेः । अध्ययनंस्याध्यापनाप- कारकता गम्यते । न चैकस्याध्ययनस्याचार्यमाणत्रक पुरुषद्वयेोपकारकत्वानु- पपत्तेरन्यतरनिर्धारणाय अर्थज्ञानोपकारस्याध्येतृगतत्वेनान्तरङ्गत्वात् माणवको- पकारकत्वाध्यवसाय इति वाच्यम् — अर्थाज्जायमानोपकारस्य युक्त्याद्य नियम्यत्वात् । विधिज्ञापितत्वे हि विरोधः, युगपदुभयोपकारकत्वप्रतिपादनानुपपत्तेः । एकस्यानेकोपकारकत्वं चाधानादौ दृश्यते । आधानादेरुपकारकत्वं चाऽऽर्थमेव ऋतूनाम् । न हि आधानोपकार्यता तेषां शाब्दी । अध्ययनं चाध्यापनोपकारकम्, तद्व्यतिरेकेणाध्यापनासिद्धेः । एवमुभयार्थत्वे च संशयानतिरेकः । आचार्यमाण- वकान्यतरपर्यवसानानिश्चय एव संशयः । न चोभयार्थत्वस्य निश्चितत्वान्न संशय इति वाच्यम् ; माणवकैकार्थत्वात् स्वाध्यायस्यार्थपरतेति सिद्धान्तहानेः ; ‘आचार्यत्वैकपरता’ इति पूर्वपक्षासिद्धेश्च । 1 अध्ययनविंधेरर्थपरत्वाङ्गीकारादेतत् दूषणजातमुक्तम् । न तु वस्तुतस्त- स्परतैव, विषयनियोज्याभावात् । नियोज्यश्रुतावध्ययनकृतिसाध्यत्व कृत्युद्देश्यत्वा- भ्यामेव हि कार्यत्वावगतिः । ते च नियोज्याधीने । तदभावे च कार्यवा- प्रतीतेर्नानुष्टानोपपत्तिः ।
- आचार्यत्वादिप्रयोजनात् । आचार्यत्वसिद्धयादिरूपं प्रयोजनमादाय । स्वपरवाक्यस्येति । स्वाध्यायाध्ययनपरवाक्यस्येत्यर्थः ।
- " अध्येतव्यः" इति वाक्ये अध्ययनस्यार्थज्ञानं प्रत्यपि करणत्वं प्राभाकरोक्तं खण्डयति —— अध्ययनस्येत्यादिना । २. अध्ययन विधिनिरूपणम् १९ न च - अन्यतः प्रयुक्तौ न नियोज्यापेक्षा, अनुष्ठानार्थत्वात्तदपेक्षाया इति वाच्यम् ; अधिकारपरत्वस्याप्यनपेक्षत्वापत्तेः । ‘अध्ययने नियोज्यो नास्ति ! अधिकारी त्रिद्यत’ इति हि वो दर्शनम् । ‘अधिकारापेक्षानुष्ठानाच्चान्यतो लब्धमिति तदाकाङ्क्षावैयर्थ्यम् । (अधिकारापेक्षाया अनुष्ठानार्थत्वात् ; तच्चान्यतो लब्धमिति तदाकांक्षावैयर्थ्यात् ।) ननु – कार्यरूपो विधिरेव हि प्रवृत्तिहेतुः । कार्यं च कृतिप्रयोजनं पुरुषार्थः । कार्यस्य कृतिप्रयोजनता च खावसाने यागादौ पुरुषैश्वर्यहेतुत्वात् ; नान्यथेति विधित्वायाधिकारिपर्यवसानापेक्षा - इति चेत्-न, तत्पर्यवसानापेक्षाया अप्यनुष्ठानार्थत्वात् । यदि नरैश्वर्यहेतुत्वाभावे विधित्वासिद्धिः, तर्हि स्वस्य कृतिसाध्यत्व कृत्युद्देश्यत्वे नाभिकांक्ष्ये । कांक्ष्यते तु प्रेरकत्वम् । विधित्वश्च । न हि प्रेरकत्वानभिज्ञाने प्रवृत्त्युपपत्तिः । कार्यस्य स्वकीयत्वात् साधनेऽपि नैश्वर्यताधीः । “नियोज्यः स च कार्यं यः स्वकीयवेन बुध्यते” इति हि नियोज्यलक्षणम् । युक्तम् । आचार्य- सांदृष्टिकमेव शिष्योपाध्याय- अपिच प्रवृत्तं प्रति निविशमानो अनन्यशास्यो धनायया नन्वनु अतो वेदलोकयोराचार्यशब्दः प्रयुज्यत इति लोकसिद्धार्थाचार्य पदवोध्यं लौकिकमाचार्यत्वम् । आहवनीयादिस्तु आधानपवमानादिकमलौकिक विशेषमभि निविशमानः अलौकिकार्थ इति शब्दस्तूपनयनपूर्वं वेददातर्युपचरितः I पदार्थवत्, नालौकिकम्, आचार्यत्वम् । लौकिकार्थ इति युक्तम् । आचार्यो लोके प्रवर्तत इति किं तद्विधिना । 1 अतः शून्यहृदयैर्व्याहतमेवेदमुक्तमर्थसिद्ध- कर्तव्यतावतोऽध्ययनविधेः प्रयोजकमिति । अध्यापनं हि अध्ययन मन्तरेणानु- पपद्यमानं लौकिकेन रूपेणाध्ययनमात्रं प्रयुञ्ज्यात् । अतोऽन्यपरत्वात् स्वाध्याय- विधेर्नाविवक्षिततया शक्यमपूर्वाध्यापनेनाचार्यत्वं भावयेदिति श्रुतिरनुमातुम् । न अत्र च – 2 क्त्वाश्रुतेराचार्यकभावनासमानकर्तृकमुपनयनमवगम्यते । च प्रयोगक्यादृते समानः कर्ता संभवति ; न च तदङ्गाङ्गि-
- अधिकारापेक्षानुष्ठानाच्चान्यत इति | आचार्यकरूपाधिकार- सापेक्षानुष्ठानकादध्यापनादेवाध्ययनानुष्ठानमपि लब्धमिति अधिकाकाङ्क्षा व्यथेंत्यर्थः पाठान्तरे चार्थः स्पष्टः । '
- क्त्वा श्रुतेरिति । “समानकर्तृकयोः पूर्वकाले” इति स्मरणादिति भावः । २० नयधुमणिः भावात्’ । तच्च केन द्वारेणोपकुर्यादिति चिन्तायाम्, उपनेयासादनमेवे- त्युपनयनस्वभावालोचनाभिज्ञो देवानांप्रिय: 2 | न अनेनाचार्यकं भावयेदिति श्रूयते । किं त्वष्टवर्षमध्यापयेदिति । सत्यम्, प्रयोजकव्यापारगोचरा अपि विधयः प्रयोज्यव्यापारपरा दृष्टाः, यथा " एतयाऽन्नाद्यकामं याजयेत्" इति । किंतु “उपनयीत” इत्याचार्यकरणे नयतेरात्मनेपदमिति उपनयनेनाचार्यक निर्वर्तयेदिति । 3 नैवाचार्यार्थमुपनयनमात्मनेपदादवगम्यते अपितु माणवकार्यादुपनयनादानुषङ्गिकमाचार्य कार्यत्वमभिप्रेत्य नयतेरात्मनेपदविधानम् । आचार्यार्थत्वे तूपनयनस्य कर्तारमेव क्रियाफलमभिप्रेयात् । अतोऽष्टवर्षमिति नायमाचार्यकरणविधिः । अथ मतम् — अनुमास्यामहे वयमाचार्यकरणविधिम् । स्मर्यते हि — / " उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् (वेदमध्यापयेद्विजः ? ) । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ " इति । तस्याः स्मृतेर्मूलभूतः ‘उपनीय वेदाध्यापनेनाचार्यकं भावयेत्’ इति विधिरनुमास्यत इति तन्न, स्मार्तवाक्यसदृशरूपं हि मूलवाक्यमनुमीयते ।…. …..विषयश्चानुमीयते । न चेहोपनयनादिना आचार्यकं कुर्यादिति स्मृतिवचनम् ।
एवम्, ‘अर्थपरत्वाभावान्न मीमांसाप्रवृत्ति:, ’ ’ अर्थज्ञानस्याध्येतृगतत्वे- नान्तरङ्गत्वात् माणवकार्थत्वेन स्वाध्यायस्यार्थपरत्वात् मीमांसाप्रवृत्तिर्विधीयत’ इति प्राभाकराभिमतपूर्वोत्तरपक्षौ चानुपपत्त्युक्त्या निरस्तौ; उपनयनस्या- ध्यापनाङ्गत्वाद्युक्तिरपि । अतोऽध्ययनस्य माणवकाधिकारत्वे, आचार्यरागप्रयुक्तत्वे, स्वाध्याय- संस्कारखे, अध्ययनविधेर्नियमपरत्रे, उपनयनस्याध्ययनाङ्गत्वे, विषयप्रयोजनज्ञाने च सिद्धे विचारस्यावकाशः । उपनयनस्याध्येतृ द्वारा अध्ययनशेषत्वम् “न ब्रह्म व्याहरेत् तावत् स यावन्नोपनीयते” इत्यादिस्मृत्या च सिद्धम् । अस्मद्विचारप्रक्रिया तु — किमध्ययन संस्कृत स्वाध्यायस्य जपपारायणे एव प्रयोजनम्, उतार्थज्ञानमपीति संशयः । अत्र पूर्वः पक्षः न तावदर्थज्ञानम्,
- भावादिति । एतदुपरि, ‘ऋते समानः कर्ता संभवति’ इति अनुषञ्जनीयम् ।
- देवानां प्रिय इति तदालोचनस्यासाङ्गत्यमभिधीयते । 3. सत्यमित्यारभ्य, किंत्वित्यादिनोक्तस्य नैवेत्यादिना दूषणम् । २. अध्ययनविधिनिरूपणम् हुंफडादेरर्थाभावादव्यापकत्वेनार्थज्ञानस्य २१ कृत्स्नशाखाध्ययनासिद्धेः । ढुंफडा- दयो हि सामाङ्गपरिपूरकतया निरर्थका एव प्रयुक्ताः । 1 अनधिकृताश्वमेधाच- चिकीर्षितपुरुषमेधादिविषयार्थज्ञानस्य प्रयोजनाभावाच्च न कृत्स्नाध्ययनम् । अनुष्ठानाय ह्यर्थज्ञानम् । किंतु जपपारायणे एव, तयोश्च कृत्स्नस्वाध्यायव्यापि- त्वात् ततः कृत्स्नसंस्कारसिद्धिश्च । न चार्थज्ञानमपि प्रयोजनम् : उभयोर्व्याहतत्वेनोभयपरत्वानुपपत्तेः । 2जपो हि चातुः स्वर्येण निरर्थकपदोच्चारणमात्रम् । अर्थपरत्वे चानुष्ठेयार्थ- प्रकाशकता स्यात् । स्वाध्यायस्यानुष्ठेयार्थश्च जपपारायणे एव । ते प्रकाशान | यथा “वर्हिर्देवसदनं दामि" इति मन्त्रेण वर्हिर्लवनप्रकाशः, न हि तथा जपपारायणे प्रकाश्येते स्वाध्यायेन । तत्र वन्य एवार्थाः प्रकाश्यन्ते । तात्पर्याभावे प्रतीता- नामपि तेषामभानमेव । जपस्य च जप एव तात्पर्यम्, विनियोगात् । नार्थेषु जपवद् विनियोगः । जप्यानि च निरर्थकानि दृश्यन्ते विषहरणादीनि वाक्यानि । अर्थपरत्वे व न जपपरत्वमिति परस्परव्याहते न भयपरत्वोपपत्तिः । जपपारायणाभ्यामेव कृत्स्नस्वाध्याय संस्कार्यत्वोपपत्तौ न प्रयोजनान्तरकल्पना- काङ्क्षा च । “ वेदमेव जपेन्नित्यम्”, “त्रिः स्वाध्यायं वेदमधीयीत" इत्यादिना जपादौ च विनियुक्तः स्वाध्यायः । स्वाध्यायशब्दार्थश्च स्वशाखा कृत्स्नैव ; नैकदेशः । वाच्यम्, न च साङ्गाध्ययनात् धर्मादिपुरुषार्थप्रतीतेः लिङ्गादर्थेऽपि विनियोग इति तस्य लिङ्गत्वेन जपश्रुतिबाधितत्वात् । एवं स्वाध्यायस्यार्थ- परत्वाभावेऽर्थनिर्णयाय मीमांसाप्रवृत्तिरागो विच्छिन्न इति न मीमांसारम्भ इति । तदाह- " एवं स्थिते विचारोऽत्र न प्रवर्त्या विचारणा । स्वाध्यायस्य जपार्थत्वादर्थतात्पर्यभङ्गतः ॥ न स्वथ न च तात्पर्यं तदभावाद्दुमादिषु । नोभयत्रापि तात्पर्यं द्विपरत्वविरोधतः ॥
- अनधिकृतेति । ब्राह्मणस्याश्वमेधेऽनधिकारात् तद्विध्वर्थशानस्या- नुपयोगात् तद्विधिपरश्रुत्यध्ययनं न स्यादित्यर्थः ।
- जपो हीत्यादिना व्याहतत्वोपपादनम् | २२ नयद्युमणिः विनियुक्ता जपे कात्स्र्न्यान्नार्थज्ञाने भवेच्छ्रुतिः । निरर्थकपदोक्तिर्हि नाविरोधोऽनयोरतः ॥ लिङ्गादर्थप्रतीतिर्या सा जपश्रुतिबाधिता । अतत्परत्वेऽवसिते त्याज्योऽर्थोऽवगतोऽप्यतः ॥ आम्नायार्थविचारे च छिन्नो राग इति स्थितम् ।" इति । राद्धान्तस्तु — अर्थज्ञानमपि प्रयोजनम्, शब्दानामर्थ परस्वस्य स्वाभाविकत्वात् । अन्यथा स्वाभाविकार्थपरत्वहानिः । न च जपपरत्वा- दर्थपरत्वहानिरिष्टेति वाच्यम् ; जपाध्ययनविध्योरपि वेदान्तर्गतत्वेनार्थपरत्वा- भावापत्तावननुष्ठेयतापतेः । चक्रकापाताच्च — “त्रिः स्वाध्यायं वेदमधीयीत " इस्यादिविधेरर्थवत्वे स्वाध्यायो नार्थपरः । ततो वेदान्तर्गतत्वेन जपविधिरपि नार्थपरः अस्यार्थपरत्वाभावे स्वाध्यायोऽर्थवान् । ततस्तदन्तर्गतत्वेन तद्विधिरप्यर्थत्रान् । तस्यार्थपरत्वे च पुनः स्वाध्यायो नार्थपर इति । अतो जपाध्ययनविध्योः स्वसिद्धयर्थं स्वाध्यायस्यार्थपरत्वमाकाङ्क्षितमेव । न च जपस्य निरर्थकपदांच्चारणरूपत्वात् जपार्थपरत्वयोर्वस्तुविरोध इति वाच्यम्, जपो निरर्थकपदोच्चारणरूप इत्यत्र प्रमाणाभावात् । न चार्थपरत्वेऽनुष्ठेयजपस्यैव प्रकाश्यत्वापत्तेः, तस्य च प्रकाश्यत्वाप्रतीतेर्न जपपरत्वेऽर्थपरत्वमिति वाच्यम्; मन्त्राणामनुष्ठेयार्थप्रकाशनस्याव्यापकत्वात् ; दक्षिणाग्न्यन्वाधानकरणत्वेन विवक्षितस्य " मयि देवा द्रविणमायजन्ताम् " इति मन्त्रस्य यथा नानुष्ठेयार्थप्रकाशकत्वम् । न हि तत्रान्वाधानं प्रकाश्यते । अथ देवता परिग्रहपरत्वादन्वाधानस्य तत्प्रकाशको मन्त्र इति— तन्न ; तस्याप्यप्रकाशकत्वात् । न हि तत्र देवतापरिग्रहः प्रकाश्यते । अथ ‘देवा:’ इत्यंशतः कथंचित् तप्रकाशकत्वमिति चेत्, तर्हि तादृक् प्रकाश्यत्वं जपस्यापि संभवति ; जप्यस्वाध्यायान्तर्गतेन “यं यं क्रतुमधीते तेन तेनास्येष्टं भवति” इत्याद्यंशेन जपस्यापि प्रकाश्यमानत्वात् । किंच एतद्वाक्यादेव स्वाध्यायस्यार्थपरता सिद्धा, ऋतुशब्देन ऋतुपरब्राह्मणमन्त्राणां विवक्षितत्वात् । तश्च न क्रियात्मकक्रतोः, अध्येतव्यत्वाभावात् । अध्येतव्यत्वं च शब्दात्मक- वेदस्यैव । न च (तु) केवलशब्दस्य क्रतुशब्दाभिधेयत्वम् ।२. अध्ययनविधिनिरूपणम् २३ किंच, “सौरीं जपेद्वारुणीम्” इत्यादौ जप्यमन्त्राणामपि सूर्याद्यर्थ- परत्वावगतेश्च । सूर्याद्यर्थपरत्वादेव हि सौरीत्याथभिधानम् । एवंच सावित्र्यादीनां जपे तदर्थानुसंधानशास्त्रवैयर्थ्यम् । निरर्थकपदोच्चारणरूपत्वेऽपि जपकालेऽर्था- विवक्षामात्रावगमादप्युपपत्तिः । न हि स्वाभाविकार्यपरत्वं विनैव जपेन भाव्यमिति नियमः, विध्याकाङ्क्षितत्वेनार्थपरत्व स्वीकारात् । न च द्विपरत्व- विरोधोऽपि, प्रसिद्धशेषभावपदार्थस्य हि शेषत्वम्’ । प्रसिद्धशेषभावपदार्थप्रसिद्धिश्च जपविधेरर्थपरत्वे । अन्यथा स्वाध्यायस्य शेषिणोऽविनियुक्तत्वेनाप्रसिद्धिः । न चाध्ययन विधिशेषिस्वाध्यायस्य जपमात्रविनियोगादपि निरूढि- सिद्धेर्नार्थेऽपि विनियोगापेक्षेति वाच्यम्, जपविनियोगसिद्ध्यर्थं वेदैकदेशजपविधे- रर्थपरत्वस्य तावदपेक्षितत्वात् । अध्ययनविधेश्च स्वसिद्धये कृत्स्न स्वाध्याय- स्यार्थपरताप्यपेक्षितैव । अन्यथा वेदान्तर्गतत्वेन स्वपरवाक्यवन्नार्थपरत्वम् । न चार्थपरत्वस्याव्यापकत्वान्न स्वीकार्यतेति वाच्यम्, विध्याकाङ्क्षितत्वेन स्वीकार्यत्वात् । किंच हुंफडादेर्गानांशपरिपूरणतयैवाध्ययनम् ; नार्थपरतया । न च स्वाध्यायस्य न प्रयोजनैक्यसिद्धिरिति वाच्यम्, आधान संस्कृताग्निष्वपि चोद्यस्य समत्वात् । तस्मादविवक्षितावान्तरभेदेन स्वाध्यायसाध्यस्य सर्वस्य प्रयो- जनत्वेन स्वीकारः । अनेकप्रयोजनलाभे चाध्ययनप्रवृत्तिशैघ्रयम् । एवं स्वाध्यायस्यार्थपरता निर्णयान्मीमांसाप्रवृत्तिरागाविच्छेदात् तदारम्भ इति । तदाह-
“राद्धान्तस्तु - प्रवर्त्या सा स्वार्थतात्पर्यनिश्चयात् । स्वाभाविकार्थपरता शब्दानां हीयतेऽन्यथा ॥ न तत् स्याच्चक्रकापातादाम्नायान्तर्गतत्वतः । अतत्परे जपविधौ स्वाध्यायेऽर्थपरे पुनः ॥ तद्विधेरप्यर्थवत्त्वे पुनर्वेदोऽप्यतत्परः । आनर्थक्यं ततः प्राप्तं पुनर्जपविधेरिति ॥ स्वाध्यायस्यार्थपरता संमता तद्विधेरपि । न च वस्तुविरोधोऽस्ति न जपार्थपरत्वयोः ॥ जपानुष्ठानकालेऽर्थविवक्षाभावमात्रतः । उपपत्तेर्न चाव्याप्तेस्तत्परत्वस्य निग्रहः ॥
- पा०. ’ प्रसिद्धशेषभावपदार्थस्य हि शेषत्वं प्रसिद्धशेषभावपदार्थ प्रति । प्रसिद्धिश्व’ २४ नयधुमणिः विधेराकाङ्क्षितत्वेन न नानार्थविरोधिता । किंच वेदस्य यत्साध्यं तस्य सर्वस्य तद्विदा || प्रयोजनतया युक्तमविविच्य परिग्रहात् । यथाहितानामग्नीनां सर्वे यज्ञाः प्रयोजनम् ॥ अतो न रागविच्छेदस्तत्प्रवृत्ताविति स्थितम् || ननु “अथातो धर्मजिज्ञासा” इत्यत्र मीमांसाप्रवृत्तियुक्तेर्निरूपितत्वादत्र पुनरुक्तिः किमर्थेति चेत् — सम्यगर्थाभिधानायेति ब्रूमः । ननु – अर्थज्ञानपर्यन्तत्वे वेदान्तानां कर्मकर्तृजीवपरत्वापातात् तज्ज्ञानस्य च कर्माङ्गत्वापत्तौ न ब्रह्मपरत्वेन विचार इति तदर्थमेव " पुरुषार्थोऽतः " इत्यत्रोक्तन्यायाभिधानमिति – तन्न; भाष्यादौ “पुरुषार्थोऽतः” इत्यस्य शास्त्रारम्भ- परत्वाप्रतीतेः । तत्र हि पुरुषार्थावाप्तिः किं कर्मणः ? उत विद्यातः ? इति निरूपणम् । किंच कर्तृजीवपरत्वेनापि वेदान्तविचारारम्भसिद्धिः । तत्परखेऽपि हि वेदान्तवाक्यार्थनिरूपणं संगच्छते, सर्ववाक्यानां जीवपरत्वासिद्धेः; " पृथगात्मानम्” इत्यादौ च परस्यापि प्रतीयमानत्वात् । जीवात्मनोऽर्थ- वित्तिषु भासमानत्वेन, अर्थपर्यन्तत्वेऽपि वेदान्तैकगम्यता नेष्टा । अध्ययनविधेरर्थ- ज्ञानपर्यन्तत्वादिना कथंचन तत्परत्वापादनेऽपि न मनाक् तदारम्भाक्षेप सिद्धिः । अत एव हि " अध्ययनमात्रवतः " इति सूत्रे अध्ययनविधेरर्थज्ञानपर्यन्त- त्वमभ्युपेत्याप्यङ्गत्वपरिहारोक्तिर्भाष्ये । यद्यर्थज्ञानपर्यन्तत्वेऽनारभः स्यात्, तदा न तथोक्तिः स्यात् । अर्थज्ञानपर्यन्तत्वानारम्भयोश्च न व्याप्तिः । अत एव जीवातिरिक्तपरमात्मपर्यन्तत्वेऽपीति न तस्यारम्भपरिपन्थिता । न चार्थज्ञानपर्यन्तत्वे जीवपरत्वापादनमपि वेदान्तानाम् स्वाध्यायविधेरर्थज्ञानपर्यन्तताऽस्तु ; तथापि श्रुतिस्वारस्यात् परं ब्रह्मैवापात- प्रतीतमस्तु । तत्परत्वेनापि उत्तरमीमांसारम्भे सिद्धार्थे किंच विचारारम्भे को विरोधः ? व्युत्पत्त्यभावादिविषयैव भाष्यादावुक्ति:’; न त्वर्थज्ञानपर्यन्ततया । अतः “अध्ययनमात्रवतः " इति सूत्रोक्तसम्यगर्थ- प्रदर्शनद्वारा शास्त्रारम्भसाधनपरत्वेनै वाध्ययनविधेः पुनर्निरूपणम् । ननु तद्वाक्यार्थ- भाष्ये न पूर्वपक्षराद्धांन्तोक्तिर्दृश्यत इति — तन्न; सिद्धान्तोक्तौ सामर्थ्यात्
- उक्तिरिति । उत्तरमीमांसा रम्भावसरे तद्विषये आक्षेपोक्तिरित्यर्थः । २. अध्ययनविधिनिरूपणम् २५ पूर्वपक्षोन्नयनस्य शक्यत्वादित्यनुक्तत्वात् । वेदस्यार्थपरत्वाभावशङ्कायां ह्यर्थपरता वर्णनीया । अत एव हि वेदान्तसारे " एवं वेदस्यार्थपरखे” इत्युक्तिः । ननु अध्ययनस्याचार्यप्रवृत्तिप्रयुक्तत्वोक्तिर्न भाष्य इति — तन्न; “अष्टवर्ष ब्राह्मणमुपनयीत” इत्यादिभाष्यादेव, “सत्संतानप्रसूत - " इत्यादिभाष्याच्च तत्प्रतीतेः । अचार्यप्रवृत्तिपुरस्कारेण प्रयुक्तिरुक्ता तत्र । अन्यथा तदुक्तिवैयर्थ्यम् । आचार्यप्रवृत्तिश्च न विधित इत्युक्तम् । अतो रागसंभवश्चोक्तः । ननु " अध्ययनेनैव वेदाख्य” इति भाष्यादध्ययनस्य विधिप्रयुक्तताधीः । विधित्वं नाम साध्यत्वम् । तस्यैव प्रेरणत्वात् प्रयोजनत्वमपि युक्तम् । तादृशप्रेरकत्वज्ञापकत्वमेव हि श्रुतेर्विधायकत्वम् । न हि पुरुषवत् प्रेरयति श्रुतिः | अतः स्वविधिप्रयुक्तत्वमेवाभिमतमिति तन्न ; अध्ययनस्य स्वाध्याय- निष्ठत्वेन संस्कारकत्वाभिधानात् स्वतः साध्यत्वाभावात् ; जपादिसाधनत्वात् । जपादिप्रयोजकत्वे तु शूद्रादेरपि प्रयुक्तिरित्युक्तम् । तद्भाष्ये विधिप्रयुक्तिस्त्वनीप्सिताध्ययनसाध्यपरा । स्वाध्यायादीप्सित साध्य- त्वाभिधानात् आचार्यरागप्रवृत्तिरेवाभिमता । श्रीराममिश्राचार्यैरुक्ता च । अतः, “अध्ययनं किंरूपम्" इति ग्रन्थस्याप्ययमेवार्थ: 1 । ( अत्र ग्रन्थपातः ) स्वाध्यायस्य
अयमेवार्थ इत्येतदुपरितनोऽध्ययनविधिप्रकरणभागो लुप्तः । तृतीय- प्रकरणं स्वतः प्रामाण्यनिरूपणपरम् । तस्याप्यादिमो भागो लुप्तः । 4 श्रीः ३. स्वतः प्रामाण्यनिरूपणम् ( अत्र ग्रन्थपातः ) ..व्यभिचारिधर्मत्वादप्रामाण्यवदित्यनुमानात् ….
तत्सिद्धिरिति तन्न ; विकल्पासहत्वात् । एतदनुमानं स्वतः प्रामाणम्, परतो वेति । आद्ये, हेतुरनै- कान्तिकः । द्वितीये त्वनवस्था, तदनुमानप्रामाण्यस्यापि प्रमाणान्तरगम्यत्वात् । / 1 किंतु प्रामाण्यं स्वत एव ; प्रामाण्यं ज्ञानसत्ताप्रतीतिकारणादेव कारणवत् अनुपलभ्यमानकारणत्वे सति सकारणध्वात् ज्ञानवदित्यनुमानात् न च चक्षुरादेरेव ज्ञानकारणध्यात् तप्रामाण्यस्याञ्जनादिकारणजन्यत्वात् हेतुर्विशेषणासिद्ध इति वाच्यम्; चक्षुषोऽञ्जनादिगुणाधानेऽपि भ्रान्ति- ज्ञानजनकत्वदर्शनात् अञ्जनादेरकारणत्वात् । ‘अदृश्यमानगुणकल्पनायां च न प्रमाणम् । अस्मिन् मते स्वशब्द आत्मीयपरः । न च — चक्षुरादेः स्वभावतः प्रामाण्यहेतुत्वेऽप्रामाण्योत्पत्तिरेव न स्यात् ; जायते च ततस्तदिति वाच्यम् ; सहकारिविशेषादेवोभयकारणत्वोपपत्तेः । सहकारी च कारणकोटिप्रविष्ट इति । एतदपि न सहन्ते तार्किकाः । किं प्रामाण्यं सर्वत्रोत्पाद्यम् ? किं वा कचित् ? अथ सर्वत्र ज्ञेयम् ? उत उभयतोऽपीति । न तावदाद्यः ; वेदप्रामाण्यस्य नित्यत्वेनाजन्यत्वात् । न च वेदाख्यकरणजज्ञानमेव प्रमाणम्, न वेद इति वाच्यम्; वेदस्यापौरुषेयत्वेन प्रामाण्यसाधनवैय- र्थ्यात् । अपौरुषेयत्वं च शब्दसंनिवेशविशेषः ३ । वाच्यवाचकसंबन्धे च ज्ञानप्रामाण्यवादिनः करणप्रामाण्यमपीष्टम् । नापि द्वितीयः, प्रामाण्योत्पत्ति- साधनस्याव्यापकत्वात् 4 । नापि तृतीयः ; उत्पत्तिसाधनवैयर्थ्यात् । नापि
- अदृश्येत्यादि । प्रामाण्यं प्रतीत्यादिः 4
- वैयर्थ्यादिति । अपौरुषेयत्वाद् वेदः प्रमाणमिति हि सिद्धान्तिसंमतम् । तच्च न स्याद् वेदस्य करणस्य प्रामाण्यास्वीकारे इति भावः ।
- संनिवेशविशेष इति । न तु ज्ञानधर्म इति भावः ।
अव्यापकत्वादिति । उत्पत्तिरूपं साध्यं पक्षैकदेशे बाधितम् । हेतुश्च भागासिद्ध इति भावः । ३. स्वतः ग्रामाण्यनिरूपणम् २७ चतुर्थः ; पूर्ववदंशेनापि व्याप्त्यसंभात् । अतो ज्ञायमानत्वमेव स्वतः साध्यत्वेनावशिष्टम् । करणस्य प्रामाण्यं नामाव्यभिचारिज्ञानजनकत्वम् । अबाधितव्यवहारहेतुत्वमेव ज्ञानस्य प्रामाण्यम् । तत्किं स्वतः प्रामाण्यं स्वरूपमेव ? उत शक्तिर्वा ? नाथः ; प्रमाण- भूतेन्द्रियस्य स्त्ररूपग्राहक ‘ज्ञान कार्यत्वानुमानादव्यभिचारिज्ञानजनकत्वाप्रतीतेः । मिध्याज्ञान कार्यत्वस्यापि चक्षुराद्यनुमापकत्वात् ततोऽपि प्रामाण्यज्ञानापत्तेश्च’ | नापि शक्तिः; तस्या अतीन्द्रियत्वात् अन्याश्रितत्वात् अनुमानाद्धर्म्यवग- त्युत्तरकालमनुमानान्तरेणानुमेयत्वेनैककारणजन्यत्वाभावात् । एवं च प्रतीति- अकारणादेव कारणवदित्यनुमानवैघट्यम् 1 विशेषणासिद्धिश्व प्रामाण्यं प्रति कारणोपलम्भात् । अनुपलभ्यमानेत्यादि-
ननु तत्रापि प्रमाणानुमापकज्ञानाख्यकार्य देवानुमानमिति - तन्न; कालादिभेदेनैककारणजन्यप्रतीत्य भावस्योकत्वात् । कारणमेव पूर्वं कार्यादनुमीयते । ततस्तच्छक्त्यनुमानं तु पश्चादेव । एवमनुमानेऽपि धूमः प्रत्यक्षः । तस्य वह्निज्ञानजनकता तु ज्ञानकार्यतो वा अन्वयव्यतिरेकाभ्यां वा गृह्यत इति करणतत्प्रामाण्ययोर्नैककारणवेद्यता । एवं शब्दतत्प्रामाण्ययोरपि प्रत्यक्षानुमान- वेद्यत्वेन नैकप्रमाणवेद्यता । न च–न. करणप्रामाण्यमिष्टम् ; अतो नास्मन्मतविरोध इति वाच्यम्; वेदाख्यकरणप्रामाण्यस्याङ्गीकृतत्वात् । ज्ञानप्रामाण्यपक्षेऽपि ज्ञानस्य यत्प्रमाणाद् ग्रहः, न तत्प्रमाणादेव अबाधितव्यवहारहेतुत्वाख्यं प्रामाण्यमपि गृह्यते । किंच मायावादिनो ज्ञानस्य स्वयंप्रकाशत्वं हीष्टम् । तथात्वे कारणान्तरवेद्यत्योक्तिर्वैघट्यम्, स्वशब्दस्यात्मीयवचनतापरित्यागात् । तस्यास्वयं- प्रकाशत्वेऽप्यबाधितव्यवहारहेतुत्वाख्यप्रामाण्यं तु व्यवहाराबाधेन प्रमाणान्तरा- वगतेन गम्यते (कल्प्यते) इति नैकप्रमाणवेद्यता । प्रमाणान्तरेणानुभूतिप्रामाण्य-
- ज्ञानकार्यत्वानुमानादिति । ज्ञानगतकार्यत्वरूपहेतुबलादित्यर्थः । ज्ञान कार्यकत्वरूपहेतुनेति वा । आद्ये ज्ञानं प्रमाणभूतेन्द्रियजन्यं कार्यज्ञानत्वादित्यनु- मानम् | अन्त्ये इन्द्रियमव्यभिचारिज्ञानजनकं ज्ञानकार्यकत्वादिति ।
- ज्ञानापेत्तीरति । मिध्याज्ञानादपि प्रामाण्यानुमान (पत्तेरित्यर्थः । 1
- कारणादेवेति । ज्ञानकारणातिरिक्तकारणकत्वेन, ‘प्रतीतिकारणादेव कारणवत्’ इति पूर्वोक्तं साध्यं दुर्घटमिति भावः । २८ नयद्युमणिः स्वतस्त्वसाधनेऽपि नाप्रामाण्यवैषम्यं च, सर्वप्रमाणानामपि भेदवासनामूल- विषयत्वेन मिथ्यार्यविषयत्वाभिधानात् । सन्मात्रविषयत्वसाधने तु प्रमाण- विषयघटादिवत् सतोऽपि मिथ्यात्वापत्तिः । प्रमाणप्रमेययोः सत्त्वाङ्गीकारे द्वैतसिद्धिरिति न कथंचिदपि स्वतः प्रामाण्यसाधनं मिथ्यावादिनः । ततः स्वमतानुसारतः स्वतोऽप्रामाण्यसाधनमेव युक्तम् ; वास्तवप्रमाणप्रमेययो- रनङ्गीकारात् । व्यावहारिकसत्यपदार्थसिद्धिस्तु परतः प्रामाण्येऽपि, सौगतमतवत् । सौगतैर्हि ज्ञानस्यार्थाव्यभिचारानिश्चयादप्रामाण्यमेव स्वतः; कारणगुणार्थ- क्रियासंवादज्ञानैः प्रामाण्यं तु परत एवेत्युक्तम् । एवंविधप्रामाण्यं च व्याव- हारिकसत्यत्वहेतुः ; न परमार्थसत्यत्व हेतुरिति चोक्तम् । मिथ्यावादिपक्षेऽपि प्रमाणज्ञानानां वस्तुतो मिध्यात्वाभिमानादप्रामाण्यमेव । स्वतः प्रामाण्यं तु भ्रान्त्येति परत एवेति साधनीयम् । अथ तदेव मतमस्माकमपि वस्तुतः ; ततः को दोष इति — उच्यते । कारणगुणज्ञानादेरपि ज्ञानत्वाविशेषात् प्रामाण्य- सिद्धयर्थं गुणज्ञानपरम्परायामनवस्थेति । नन्वस्तु मिथ्यावादिप्रक्रियया न स्वतः प्रामाण्यसिद्धिः, तत्साधन- वैयर्थ्यादिति । भाट्टप्रक्रियायां तु न कश्चिदोषः । तथाहि — तन्मतेऽपि व्याख्यातृविप्रतिपत्त्या यद्यपि प्रक्रियाबाहुल्यम् ; तथाप्येकमतावलम्बात् प्रक्रियान्तराण्युत्सार्योच्यते- इति । 2" आत्मवाची स्वशब्दोऽयं स्वतो भाति प्रमाणता । अर्थस्य च तथाभावः प्रामाण्यमभिधीयते ॥" “तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् | बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते || " उज्ञानस्यार्थप्रकाशोपक्षीणत्वात् स्वगतप्रामाण्यावगत्यनुपपत्तेः । स्वेन स्वाग्रहणे च न स्वगतप्रामाण्यधर्मग्रहः । स्वग्रहे च कर्मकर्तृत्वविरोधः । प्रमाणान्तरेण ग्रहणे चानवस्था ।
- तदेवेति । सौगतोक्तमेवेत्यर्थः । 1
- आत्मवाचीति । अत्र ‘प्रथमवचनं न्यायरत्नमालागतम्’ । द्वितीयं तद्वार्तिककारीयम् ।
- ज्ञानस्य स्वप्रकाशत्ववादिप्राभाकरमतं भान खण्ड्यते ज्ञानस्येति । ३. स्वतः प्रामाण्यनिरूपणम् २९ 1ज्ञानमर्थप्राकट्यान्यथानुपपत्त्या कल्प्यते । तदेतदर्थापत्त्याख्यं प्रमाण- मभिमतम् । तदपि स्वतः प्रमाणत्वेनेष्टम् । तत्रापि स्वतः परतो वेति विकल्पः समः । ज्ञाततया ज्ञानकल्पनायां न तत्प्रामाण्यकल्पनमपि । तथा तत्कल्पनायां च विपर्ययज्ञानेऽपि तत्कल्पनापत्तिः । न च विपर्यये न ज्ञातमिति वाच्यम्, विपर्ययज्ञानाभावापत्तेः । इष्यते च तज्ज्ञातता । व्यतिरिक्तकारणात् तत्कल्पनायां च स्वतः प्रामाण्यम् । स्वीयकरणादेव तत्सिद्धेः स्वतस्त्वमिष्टम् । स्वशब्दस्यात्मवाचित्वं नाचार्यानुमतम्, ज्ञानस्य स्वयंप्रकाशत्वानभ्युपगमात् । अतः स्वतस्त्वं स्त्रीय कारणजन्यत्वमेवेत्येतदनुपपन्नं मीमांसकानाम्, करणप्रामाण्यस्यापीष्टत्वेन करणैकदेशाजन्यत्वादिना दूषणस्य पूर्वमेवोक्तत्वात् । अपरं मतम् — अनधिगततथाभूतार्थनिश्चायकत्वं प्रामाण्यम् । तच्च ज्ञानादेव स्वस्मादुत्पद्यते ; न तु ज्ञायत इति — तदप्यसत् । ज्ञानस्यैव प्रामाण्योत्पादकत्वे ह्यप्रामाण्यस्यापि तत एवोत्पत्तिरित्युक्तं स्यात् । एवमाद्येक- देशिमत निरसन मूहनीयम् । किंतु बुद्धेः प्रामाण्यं स्वस्मादेवावसेयम् । अप्रामाण्यं तु दुष्टकारण- जन्यत्वबाधकज्ञानाभ्यामिति परत एव । स्वविषयतथात्वं हि प्रामाण्यम् । तश्च्च स्वस्मादेवोपगम्यम् । अयमर्थः – तथाभूतार्थज्ञानं हि प्रमाणमुच्यते लोके । अतथाभूतार्थज्ञानं चाप्रमाणम् । ततश्च तथाभूतार्थज्ञानत्वमतथाभूतार्थज्ञानत्वं च प्रामाण्यमप्रामाण्यं चाऽऽयातम् । एवं विषयतथात्वावधारणात्मकं प्रामाण्यमात्मनैव निश्चीयते । तदा न कश्चन कर्मकर्तृत्वविरोधः, तद्विषयतथात्वनिश्चयात्मक- त्वात् प्रामाण्यस्य । यदि ज्ञानस्य स्वतो निश्चयाशक्तिः, ततो निश्चयस्यात्यन्ताभावः स्यात् ; परतो निश्चयेऽनवस्थापातात् । एवंविधस्वतः प्रामाण्यमर्थान्य- थात्वकारणदुष्टत्वज्ञानाभ्यामपोद्यत इति भाट्टैकदेशिमतसंग्रहः । तच्चानुपपन्नम् विकल्पासहत्वात् । विकल्पासहत्वात् । विषयतथात्वं नाम किं विषयधर्मः ? तज्ज्ञानधर्मों वा ? आधे ज्ञानप्रामाण्यासिद्धिः । नापि द्वितीयः ; स्मृतेरपि प्रामाण्यापातात् ; तस्या अपि विषयतथात्वात् ।
- ज्ञानमिति । अत्र ज्ञाततया ज्ञानकल्पने प्रामाण्यमपि गृह्यत इति भाट्टैकदेशिमतं खण्ड्यते ।
- ज्ञातमिति । वस्त्विति शेषः ।
- तद्विषयेति । तस्य ज्ञानस्य विषयेत्यर्थः । तदिति परिचायकमात्रम् | २० नयसुमणि : अथाधिगततयाऽननुसंधीयमानतथाभूतार्थनिश्चायकत्वं प्रामाण्यम्, उत्तु न स्मृताविति – तन्न ; विकल्पासहत्वात् । एवंविधप्रामाण्यं किं स्वस्मादुत्पद्यते, ज्ञायते वेति । आधे, “स्वतो भाति प्रमाणता” इति स्वोक्तिविरोधः । नापि द्वितीयः, ज्ञानस्य स्वग्रहणाननुमतेः । स्वधर्मस्य विकल्पासहत्वात् । किमर्थधर्मः ? आत्मधर्म: ? ज्ञानधर्मो वा ? आथयोर्न ज्ञानप्रामाण्यम् । तृतीये तु पूर्वोक्तज्ञानवत् स्वतो न ज्ञेयत्वम् । प्रमाणान्तराधि. गततयाननुसंधानादीनां पृथक्पदार्थनिष्ठत्वात् नैकधर्मोपपत्तिश्च । अनुसंधानं ह्यात्मनिष्ठम् । तथात्वं चार्थनिष्ठम् । निश्चयजनकत्वं च ज्ञाननिष्ठमिति । न चात्मादित्रयं मिलितं प्रमाणमिष्टम् । तथाङ्गीकोर च विषयस्यापि प्रमाणकोट्यन्तर्भावात् प्रमेयाभावप्रसङ्गः । किंच निश्चायकत्वं नाम किं ज्ञानस्वरूपम् ? तच्छक्तिर्वा : आये, स्मृतिज्ञानादेरपि प्रामाण्यापत्तिः, तस्यापि ज्ञानस्वरूपत्वात् । नापि द्वितीयः, शक्तेरतीन्द्रियत्वेन मानान्तरवेद्यत्वाभिमानात् । अथ तच्छक्तिरेव प्रामाण्यम् ; तच्च ज्ञानकारणैरेवोत्पद्यत इति मतम् —तन्न ; “वतो भातीति” इत्युक्तिविरोधाद् । गत्यन्तराभावात् । एतत्पक्षोऽपि सामग्र्यतिरिक्तानिरूपणादनुपपन्नः । स्वनिरूपितत्वेऽपि शक्तेः शक्यनिष्ठता वाच्या’ । न च संस्कारस्य शक्यता, मिथ्याज्ञानेऽतिप्रसङ्गात् । न चाबाधितव्यवहारस्य शक्यत्वम्, स्मृतेरप्यबाधितव्यवहारहेतुत्वेन प्रामाण्यापातात् । अथ निश्चायकत्वरूपं ज्ञानसायान्यमेव प्रामाण्यम् ; ततश्च तस्यानुत्पाद्यतया स्वतो ज्ञातव्यपक्षः सुस्थ इति - तन्न ; ज्ञानस्य स्वाग्रहणादेव स्वसामान्यग्रहणानुपपत्तेः । प्रमाणान्तराद् ग्रहणे च परतः प्रामाण्यम् । मिथ्याज्ञानमभिमतम् 1 तस्येदमंशेऽबाधितत्वात् किंच भाट्टानां
- वाच्येति । शक्यविषये किल शक्तिर्वक्तव्या । किं तच्छक्यमिति निरूप्यतामित्यर्थः ।
- स्मृतिव्यावृत्ता अनुभूतिगता प्रामाण्यरूपा शक्तिः संस्काराधायकत्वरूपेति पक्षं खण्डयति न चेति ।
- सुस्थ इति । मामान्यस्य जात्याः अनुत्पाद्यत्वेन स्वतो भवतीति पक्षं परित्यज्य स्वतो भातीति पक्ष इष्यत इति प्रश्नाशयः । ३. स्वतः प्रामाण्यनिरूपणम् प्रामाण्यम्; रजतांशे बाधितत्वादप्रामाण्यमिति तत्र रूपसामान्ययोर्विरुद्धयेोरेकत्र समावेशः स्यात् । । नाद्यः ३१ प्रामाण्याप्रामाण्य- बाधकारणदुष्टत्वज्ञानाभ्यां प्रामाण्यमपोद्यत इति किमुच्यते ? बाघकारणदुष्टत्वज्ञान सहितमप्रामाण्यं तदपवादकम् उत बाधादिज्ञाने एवेति । अपवाद्यप्राबल्यात् यत्र तद्विषये न कदाचित् प्रमाणोदयः, उदेत्येव तत्राप्यप्रामाण्यम् । तत्प्रमाणत्वे च ज्ञाने च नापबादकता । न चाज्ञातस्यापवादकत्वम् । तथात्त्रे चोत्पाद्यत्वमेवाङ्गीकृतम् ; न ज्ञेयत्वम् । प्रामाण्यवदप्रामाण्यस्यापि ज्ञेयत्वमेवोचितम् ; न तु वैरूप्यम् । ’ नापि द्वितीयः । प्रमाणस्यैव तदपवादकत्वाङ्गीकारादपोद्यमेवा- प्रामाण्यं स्यात् । तथाच विशेषप्रमाणापाद्य सामान्यस्याप्रामाण्यापातः न च विशेषविषये तदप्रामाण्यमेवेति वाच्यम्, विशेषव्यक्त्यलब्धावकाशत्वेन तदेकविषयत्वात् सामान्यस्य तदितरविषयोपसंहारमात्रत्वात् । न तावता प्रामाण्यम्, प्रामाण्याप्रामाण्ययोरनवस्थापातात् । मिथ्यार्थविषयज्ञानानामेव ह्यप्रामाण्यम् । न हि सामान्यविषयम् । किंच दुष्टकारणजन्यत्वादिज्ञानाभ्यां मिथ्याज्ञानविषयस्यैवापवादः, न प्रामाण्यस्य । ’ नेदम्’ इति हि बाधकधीः । न तु न प्रामाण्यम् इति; प्रामाण्यं तु प्रमाणधर्मिगतमेव । न च — यथार्थविषयत्वमेव प्रामाण्यम् ; विषयापवादे च प्रामाण्यमप्यपोदितमेवेति परतोऽपि प्रामाण्यमिति वाच्यम् — ज्ञानस्य ज्ञातता- कल्प्यत्वाभिधानात् प्रामाण्यस्यापि तथात्वापातात् । न किंच प्रमाणज्ञानेनाप्रामाण्यम्, अप्रामाण्यज्ञानं चापोद्यते i केवलमप्रामाण्यम् । ‘नास्य ज्ञानस्याप्रामाण्यम्’ इत्यपि हि धीः । तच्चाबाधितत्व- सगुणकारणजन्यत्वज्ञानाभ्यामेवेति परत एव प्रामाण्यमिति कृतं विस्तरेण । ननु प्राभाकरप्रक्रियया स्वतः प्रामाण्ये तु न कश्चिद् दोषः | तथाहि — अनुभूतेः स्वयंप्रकाशत्वात्, तस्याश्च स्मृतिव्यतिरिक्तत्वात्, स्मृत्यनुभूत्योश्च यथार्थत्वात्, तद्व्यतिरेकेण ज्ञानस्याकारान्तरानभ्युपगमात् । स्मृतेश्च प्रमाणान्तरपरिच्छिन्नविषयतया सापेक्षत्वेनाप्रामाण्यं परतः ; अनुभूति- प्रामाण्यं च स्वतो ज्ञायत इति ।
- स्यादिति । अतः प्रामाण्यं न जातिरिति भावः । ३२ नयद्यमणिः एतच्च तार्किका न सहन्ते किं प्रामाण्यं नाम ? ज्ञानस्वरूपमेवेति चेत् — न ; स्मृतिज्ञानस्यापि स्वरूपसंवेदनात् प्रामाण्यसंवेदनापत्तेः । न च शक्तिः प्रामाण्यम् ; तस्या अनुमेयत्वेनाप्रत्यक्षत्वाभिधानात् । न चाबाधितत्वं प्रामाण्यम् ; स्मृतिज्ञानस्याप्यबाध्यत्वेन तत्रातिप्रसङ्गात् । G ननु ज्ञानावान्तरजातिः प्रामाण्यम् । तथाचाश्रयस्फूर्ती तदाश्रय- जातिस्फूर्तिरिति—तन्न; रत्नादिषु व्यक्तिग्रहेऽपि तदाश्रिततेजस्त्वजात्यनु- पलब्धेः । न चात्मगुणेषु जातिः सामान्यम्, गुणेषु तदनङ्गीकारात् । न किंच अप्रामाण्यस्यापि ज्ञानावान्तरजातित्वेन स्वतस्त्वप्रसङ्गः । चाप्रामाण्यं प्रमाणान्तराभावरूपम् ; नावान्तरजातिरिति वाच्यम् ; `अभावाननुमतेः । न च प्रामाण्ये प्रतियोगिन्यदृष्टे, अज्ञातानुपलब्धेरेव (केवलज्ञानोपलब्धेरेव ) तदभाव इति वाच्यम् ; प्रतियोगिनो दृश्यत्वानङ्गीकारात् । न हि प्रमाणं दृश्यतयेष्टम् । निक, न चास्तूभयमपि स्वत इति वाच्यम्, अप्रामाण्यस्यापि स्वतो ज्ञातत्वे शुक्तिकारजतादिप्रवृत्त्यनुपपत्तेः । न च सत्यत्वसारूप्यात् प्रवृत्त्युपपत्तिः, तत्समारोपस्यापि मिध्यात्वावधारणात् । तत्रापि सत्यत्वारोपे चानवस्था । न चास्मन्मते न विपर्यय इति न कश्चिद्दोष इति वाच्यम्; ‘इदं रजतम्’ इत्यादिज्ञानस्य प्रामाण्यानङ्गीकारात् । तदङ्गीकारे चाप्रामाण्यं परत इत्युक्तेर्निर्विषयत्वापातात् । ततश्च ज्ञानमात्रस्य प्रमाणत्वेऽनुभूतिरिति प्रमाणविशेषणोक्तिवैयर्थ्याच्च । शुक्तिकारजतज्ञानस्याप्रामाण्ये तस्य स्वतस्त्वे च पूर्वोक्तदोषानिवृत्तिः । न च ‘इदं रजतम्’ इति गृहीतिस्मृत्योर्भेदाग्रहात् प्रवृत्तिः; तयोः प्रामाण्याप्रामाण्ययोः स्वतस्संविवेन 1 भेदग्रहात् । तदसंवेदने च न तयोः स्वतस्त्वम् । एतेन प्राभाकरमतनिरासेनैव अस्मद्राद्धान्तोऽपि निरस्तः; तस्यापि तदविशेषात् । ततः प्रमाणस्वरूपावगमप्रमाणव्यतिरिक्तगुणदेोषात्मकमेयज्ञानाभ्यामेव प्रामाण्याप्रामाण्ययोरवगतिरिति परत एवोभयमपि ।
- स्वतस्संविवेनेति । स्वतः संवेद्यत्वेनेत्यर्थः ।३. स्वतः प्रामाण्यनिरूपणम् ३३ प्रयोगश्च – ‘विमतं प्रामाण्यं 1 प्रमाणव्यतिरिक्तग्राहकविज्ञानातिरिक्त- विज्ञानगम्यम्, निष्कम्पप्रवृत्यङ्गत्वात्, पाचकवह्निव्यक्तिगतपाचकत्ववत्’ इति । न ह्यग्निग्रहात् पाचकत्वशक्तिग्रहः । तच्छक्तिज्ञाने हि पाकार्थिनिष्कम्पप्रवृत्तिः । प्रामाण्यं च प्रत्युत्पन्नकारण सामग्रीजनितस्य सदा सर्वत्राबाध्यत्वम् । न च तस्योत्पाद्यता, 2 प्रध्वंसातिरिक्तस्योत्पाद्यत्वासंभवादिति अत्रोच्यते — एतदसमीचीनमतमेव; प्रामाण्यज्ञानहेतुज्ञानस्यापि प्रमाणत्वेन प्रामाण्यज्ञानापेक्षायामनवस्थापातात् । न ह्यज्ञातप्रामाण्यस्यान्योत्पादकता । अनवस्थापरिहाराय कस्यचित् स्वतस्त्वाङ्गीकारे च न परतः प्रामाण्यम् । न च न स्वज्ञानात् स्वप्रामाण्यज्ञानाद्वा वस्तुव्यवस्था; किं तु अज्ञाततया । ज्ञायमानतयैव व्यवस्थापकत्वे कदाचिदपि न प्रमाणज्ञानम् । ज्ञानोत्पत्तेः प्राक् इन्द्रियतत्प्रामाण्ययोरज्ञायमानत्वादिति वाच्यम्; अज्ञात- प्रामाण्यस्यापि कार्यकारणत्वे परतः प्रामाण्यसाधनवैयर्थ्यात् । अथ चक्षुरादि- संप्रयोगानन्तरं प्रवृत्तिदर्शने, ज्ञातप्रामाण्याः पुरुषाः प्रवर्तन्त इति परीक्षक- र्निरूपणीयमिति तर्हि प्रमाण्यज्ञानादेव प्रवृत्तिः । इन्द्रियादिविशेषाज्ञानेऽपि ज्ञानकार्योत्पादकता । कारणस्य वस्तुत्वेन सामान्यावगतिसंभवश्च । उत्पाद- कता हि कार्य प्रति काममज्ञायमानस्यापि । प्रामाण्यं तु ज्ञाततयैव कारणम् । वस्तुतः शुक्तिकारजतादावपि यथाकथंचित् प्रामाण्याघनिव (धीन एव) प्रवृत्तिः, पक्षप्राप्तप्रामाण्याधीन एव प्रवृत्तेः ।
न च — प्रथमप्रामाण्यज्ञानस्यैव प्रवृत्त्यङ्गता, न परस्येति वाच्यम् ; परस्मादप्रमाणादपि प्रथमप्रामाण्ये ज्ञाते तन्मिथ्यात्वापातात् ’ ।
- प्रमाणेति । प्रमाणज्ञानव्यतिरिक्तं यत् तद्ग्राहकं विज्ञानं, तदतिरिक्तेन विज्ञानेन गम्यमित्यर्थः ।
- प्रध्वंसेत्यादि । प्रध्वंसरूपो ह्यभाव उत्पाद्यः स्यात् । न त्वयमन्वादृशः अबाध्यत्वरूपोऽभाव इत्यर्थः ।
- अधीन एवेति, अधीनत्वं शुक्तिकारजतविशेषणं कथञ्चित् । प्रवृत्त्याश्रय पुरुषविशेषणं वा ।
- मिध्यात्वापातादिति वस्येत्यर्थः । 5 । अतः कथ प्रामाण्यज्ञानाद् वस्तुव्य 4 ३४ नयधुमणिः अतः प्रमाणतया कारणत्वे ज्ञायमानस्यैन कारणत्वं प्रथमज्ञानवदिति तत्त्वम् । तदज्ञाने च न प्रवृत्तिरित्युक्तम् । अतः परमते ऽनवस्थानुमानं च द्रष्टव्यम् । एतेन ग्राहकविज्ञानातिरिक्तविज्ञानगम्यत्वसाधकं निष्कम्पप्रवृत्यङ्गत्वं प्रत्युक्तम् । किंचैकविज्ञानविषयत्वासामर्थ्यप्रयुक्तं दृष्टान्तेऽतिरिक्त विज्ञानगम्यत्वम् । न ह्यग्निग्राहकविज्ञानस्य चाक्षुषस्यातीन्द्रियपाचकत्वशक्तिविषयकता । 9 ननु – पदार्थशक्तेरेव सर्वत्र प्रवृत्त्यङ्गत्वम् न तु पदार्थस्य । ततश्च तस्या एकविज्ञानविषयत्वासामर्थ्यात् साधनव्यापकत्वेन नोपाधितेति —–तन्न; शक्तस्यैव कारकत्वेन शक्तिमात्रस्यैवाकारकतया प्रवृत्त्यनङ्गत्वात् । अग्न्यादयो हि तदुत्पादकतयाऽङ्गम् ; न तु शक्तिः; प्रत्यक्षत्वात् अग्निनेति तत्र कारकविभक्तेः । प्रवृत्तेरुत्साहपरत्वेऽपि न द्रव्याणां ज्ञानद्वारा तदङ्गत्वम् । तथा पाकादिकार्यदर्शनात् अग्न्यादिशक्तिनिश्चयसमय एव तस्याः द्रव्येण पृथक्तयैवानुमीयमानत्वात् ; शक्त इति ज्ञानस्य तदनुमानफलत्वात् ; विशिष्टार्थस्यैव प्रवृत्त्यङ्गत्वात् । यद्यपि शक्तिशक्तयोः पृथग्ज्ञानवेद्यत्वनिबन्धनं वैलक्षण्यम्, तथापि विशिष्टमेव प्रवृत्त्यङ्गम् ; विशिष्टस्यैव तदुत्पादकत्वात् । विशिष्टज्ञानं शक्तिविषयानुमानमूलस्मृति सहकृतचक्षुरादिना, सोऽयमिति सर्वकार्य- विशिष्टप्रत्यभिज्ञाप्रत्यक्षवत् । तत उपाधित्वं सिद्धमेव । दीर्घश्वेतादिगुणविशिष्टवस्त्रार्थिपुरुषस्य दीर्घत्वादिविशिष्ट वस्त्रस्यैकविज्ञान- विषयस्यापि प्रवृत्यङ्गत्वदर्शनादने कान्तता’ । विमतं प्रामाण्यं प्रमाणग्राहकग्राह्यम्, प्रमाणधर्मत्वात्, धूमगतरूपादिवत् ईश्वरप्रामाण्यादिवच्चेत्यनुमानात् विरुद्धाव्यभिचारिता च । करणप्रामाण्यवादिनां धूमोऽपि हि प्रमाणम् । ईश्वरप्रामाण्यश्च धर्मिग्राहकप्रमाणसिद्धतया चाभिमतम् । तथा सर्वज्ञत्वादयोऽपि । यदुक्तं प्रत्युत्पन्नकारणसामग्रीजनितस्य सदा सर्वत्र बाधरहितत्वं प्रामाण्यमिति – तन्न; कस्यापि प्रमाणस्य तादृशबाधरहितस्यास्मदादिभि- अनेकान्ततेति । ग्राहकाविज्ञानातिरिक्तज्ञानगम्यत्वसाधकस्य निकम्प- प्रवृत्त्यङ्गत्वहेतोः उक्तगुणे व्यभिचार इत्यर्थः । ३. स्वतः प्रामाण्यनिरूपणम् ३५ दुर्निरूपत्वात् । प्रमाणान्तरतस्तन्निरूपणे च पूर्वोक्तानवस्था । एवं प्रमाणा- न्तरापेक्षत्वे चाप्रामाण्यम् ’ । ननु स्वतः प्रमाणतापक्षेऽपि दोषोत्सारणाय कारणशुद्धिज्ञानस्या- पेक्षितत्वात् तज्ज्ञानस्यापि कारणशुद्धिज्ञानापेक्षायामनवस्थादौः स्थ्यमिति ; अर्थावच्छिन्नाभावतत्कारणानां स्वतो दोषशङ्काभावात् कारणशुद्धेरनन्विष्य- माणत्वात् । तच्छङ्कायाश्च न कदाचिदप्रामाण्यसिद्धिः, शङ्कानिराकरणात् । ज्ञानस्यापि शङ्काग्रस्तत्वेनानवस्थापातात् । न च जिज्ञासाया उत्पत्तेः शङ्कामूलत्वात् तत्संभव इति वाच्यम्, सर्वत्र जिज्ञासानुदयात् । कचिदेव हि कारणान्तराच्छङ्कोदये जिज्ञासोदयः । अन्यथा न कदाचिद्व्यवहारसिद्धिः । अर्थेन्द्रिय संप्रोगाद्यनन्तरं व्यवहारो लोकेऽनुभूतेर्यथार्थत्वादेव | एतेन बौद्धैरर्थव्यभिचारिस्वभावतयोक्तमप्रामाण्यस्य स्वतस्त्वं निराकृतम् यच्च कारणशुद्धिविज्ञानात्, अर्थक्रियाविज्ञानात्, ज्ञानान्तरसंवादज्ञानाच्च प्रामाण्यं परत एवेति तेनो (तैरु ? )क्तम्, तदपि तार्किकपक्षोक्तानवस्थायास्तत्रापि समत्वान्निरस्तम् । दूषणान्तराणि विस्तरभीत्या विरतानि । अतः स्वत एव प्रामाण्यम् । प्रमाणान्तरसापेक्षत्वे चाप्रामाण्यम् । अनुभूतिर्हि नः प्रमाणम् । प्रामाण्यं च प्रमाणान्तरानपेक्षार्थावच्छिन्नत्वम् । तच्चानुभूतिसत्तयैव प्रकाशते, घटानुभूतिरिति विषय संबन्धतया स्वसत्तयैव स्वाश्रयात्मने स्फुरणात् । स्मृतिज्ञानस्य स्वसत्तयैव स्फुरणेऽपि परवेद्यतोल्लेखितार्थावच्छिन्नत्वेन प्रमाणान्तरापेक्षत्वान्न तत्र व्यभिचारः । अर्थावच्छिन्नता नामार्थ संबन्धित्वम् । संबन्धश्च संयोगः | तत्कृतो ज्ञानस्य द्रव्याद्यसाधारणव्यवहारः । तच्च भाष्य उक्तम् । अनपेक्षत्वं चार्थापेक्षारहितत्वम् । तच्च केवलावस्थानुभूतिरेव, अभावस्य पृथक्पदार्थ- त्यानभ्युपगमात् । न चादृश्ये प्रतियोगिनि केवलावस्थद्रव्यादेरेवाभाव- व्यवहारविषयत्वान्नात्र प्रतियोगिप्रमाणस्य दृश्यत्वमिति वाच्यम् ; प्रमाण- ज्ञानस्यापि दृश्यत्वाङ्गीकारात् । 1 यत्प्रामाण्ये ज्ञानान्तरानपेक्षत्वमुच्यते ; तत्प्रमाणमपि प्रमाणान्तरेण द्रष्टुं योग्यम् । न च दृश्यत्वे स्वयंप्रकाशत्व-
- अप्रामाण्यमिति । स्मृतेरनुभवसापेक्षत्वेनाप्रामाण्यवदिति भावः । ३६ नयद्यमणिः विरोधः; संविद्रूपस्य वा स्वसत्तयैवाश्रयं प्रति प्रकाशमानत्वस्य वा स्वयंप्रकाश- स्वरूपत्वाद् दृश्यश्वेऽपि तयोरन्यतरस्यानपायात् । 1 स्वयंप्रकाश इति तु नास्मन्मतम् । किंतु स्वप्रकाश एवेति । स्वप्रकाशश्च स्फुरणमेव । एवं च न तार्किकोक्तप्रामाण्यविकल्पदूषणानि ; अर्थसंबन्धरूपावस्थाया एव प्रमाणत्वाभिधानात् । अनुभूतित्वं वा प्रामाण्यमस्तु । तच्च ज्ञानावान्तर- जातिः । सा च स्मृतिज्ञानजातितः पृथक्तया लोकत एव सिद्धा । अनुभूतेः स्वसत्तयैव स्फूर्तेः । प्रकाशते च घटमहं जानामीत्यादौ घटादिज्ञानम् । घट इति स्फुरणे घटत्वजातिविशिष्टद्रव्यस्फुरणवत् अनुभूतित्वविशिष्टानुभूति- स्फुरणम् । न च रत्नव्यक्तिप्रहेऽपि सामान्यानुपलब्धिदर्शनान्न व्यक्तिस्फूर्ती सामान्यस्फूर्तिनियम इति वाच्यम् ; तत्रापि रत्नत्व विशिष्टस्फुरणात् । तेजस्त्वाद्यग्रहस्तु पार्थिवाद्यवष्टम्भद्रव्यावयवकृतः । अतो जात्यादिविशिष्टस्य स्फूर्तिः । न चाप्रामाण्यस्यापि ज्ञानावान्तरजातित्वापत्तौ खतस्त्वापत्तिरिति वाच्यम् ; तस्य स्वविषयपरिच्छेदे प्रमाणान्तरसापेक्षत्वात् । तस्य च विषयद्वारत्यात् । सापेक्षत्वस्यैवाप्रामाण्यात् । विषयस्य च साक्षाज्ज्ञानाधर्मत्वा- दस्वतस्त्वात् । स्मृतिरेव 2 ह्यप्रमाणम् । अथवा अप्रामाण्यस्य प्रमाण्याभाव- रूपत्वात् अभावस्य केवलधर्ममात्रत्वाच्च न जात्यन्तरत्वम् | न च धर्मिमात्रस्य स्वतः स्फुरणात् अप्रामाण्यस्यापि स्वतस्त्वापत्तिरिति स्वविषयपरिच्छेदे प्रमाणान्तरसिद्धविषयत्वव्या (ज्ञा )प्यत्वेन वाच्यम् ; पराधीनत्वात् । तस्य 3अप्रामाण्यं परत इति प्रामाण्यकार्यव्यवहारहतुत्वाभावो ज्ञायत इत्यर्थः । ननु स्मृत्यापि व्यवहारो दृश्यते । पूर्वेद्युर्वने फलं प्रत्यक्षतो दृष्ट्टा,
- स्वयंप्रकाश इति । स्वेतराधीनप्रकाशरहित इत्यर्थः ।
- स्मृतिरेवेति । शुक्तौ’ ‘इदं रजतम्’ इति ज्ञानं ह्यप्रमाणम् । तच्च रजतस्मृतिरेवेति भावः ।
- स्मृतौ अयथार्थत्वरूपाप्रामाण्यस्य दुर्वचत्वात् तदनुरोधेन, ‘अप्रामाण्यं परत’ इत्यस्यार्थमाह अप्रमाण्यमित्यादिना । ३. स्वतः प्रामाण्यनिरूपणम् ३७ परेद्युस्तत्स्मरणात् तदाहरणप्रवृत्तेरिति — तन्न; स्मृतिद्वारा पूर्वानुभूतेरेव प्रवृत्तिहेतुत्वदर्शनात् । अप्रामाण्यं व्यवहाराननुकूलत्वं वाऽस्तु; तज्ज्ञानं बाधकादिज्ञानात् । अतः प्रमाणकार्यव्यवहारहेतुत्वादप्रामाण्यम् । एवं प्रत्यक्षादिप्रमाणसिद्धविषयप्रमाणान्तरस्यापि न प्रमाणकार्यमित्य- प्रामाण्यव्यवहारः । न चान्यप्रमितित्वेऽपि कथं न प्रमाणत्वव्यवहार इति वाच्यम् ; प्रमाणस्य हानादिव्यवहारार्थत्वात् व्यवहारस्य प्रमाणान्तरसिद्धेः कृतक(र)त्वात् । ननु संस्कारमात्रजज्ञानव्यतिरिक्तानां कथं प्रमाणताव्यवहारो भाष्ये ? “न सर्वेषां ज्ञानानां प्रमाणानां च" इत्युक्ता, “स्मरणानुमानागमयोगिप्रत्यक्षादिषु ” इति हि भाष्यम् । तत्र ज्ञानानामिति सामान्योक्तौ प्रमाणानां चेति प्रमाणानां पृथगुक्तेः प्रमाणव्यतिरिक्तस्मृतिज्ञानपरो ज्ञानशब्दः स्मृतेः संस्कारमात्रजत्वम्, ‘मत्तः स्मृतिर्ज्ञानमपोहनं ‘च’ इत्यत्रोत- मिति - - तन्न ; व्यवहारहेतुत्वयोग्यत्वेन तथोक्तत्वात् । अनुभूतेनादि- व्यवहारानुकूलता अस्त्येव । अन्यतः सिद्धत्वादौदासीन्यमात्रमित्यविरोधः ।
एतेनानुष्ठानफलाभावेऽप्यप्रमाणतोक्ता 1 अनुष्ठान रूपव्यवहार- फलाभावात् सैवानुवादवाक्यानामपि गतिः अनुवादजज्ञानस्यपि वाक्यजत्वाविशेषात् शास्त्रसिद्धमिदं तु न स्मृति:; असंस्कारमात्रजत्वात् । संस्कारो हि प्रमाणान्तरप्रमितविषय एव धीजननस्वभावः । अनुवादवाक्यं त्वन्यानपेक्षिप्रतीतिजननशक्तमेवेति न तस्य स्मृतितुल्यता । ननु प्रत्यक्षादिज्ञानानां यथार्थत्वेऽपि शास्त्रस्य न यथार्थत्वनिश्चयः । अङ्गुल्यग्रादिवाक्यानामयथार्थत्वनार्थ संस्पर्शस्वभावतया वाक्यात्मकशास्त्रेऽपि तथात्वसन्देहात् । न च नयनादिकरणदोषवशाद् भूयोवयवत्वाल्पावयवस्वादि- निबन्धनशुक्तित्वरजतत्वाग्रहणवत् अविवेकनिबन्धनता; शाब्दे ज्ञाने ज्ञानहेतु शब्दे दोषाभावात् । भ्रमादेस्तु पुरुषगतत्वेन न शब्ददोषत्वम् । पुरुषस्तु शब्दोच्चारणमात्रहेतुरिति न धीहेतुः । शाब्दज्ञानं त्वनपेक्षाच्छन्दादेव । ब्दे च न दोषोपलब्धिः । न चाप्तवाक्येभ्यो व्यवहारोच्छेदः; तत्र कृष्यादि- ३८ नयघुमणि: विव संदेहात् प्रवृत्युपपत्तेः । प्रमाणान्तरादाप्तत्वनिश्चयाद्वा प्रवृत्त्युपपत्तेः । वेदार्थस्य तु पाक्षिकत्वेनापि न सिद्धता; मानान्तरावेद्यत्वात् । वेदे व [क्त्र] नभ्युपगमाच्च न यथावत्प्रवृत्युपपत्तिः । अतः शब्देषु कचिदर्थव्यभिचारित्वदर्श- नाद्वेदवाक्येषु अर्थसंस्पर्शित्वसंदेहान्न प्रामाण्यमिति—— अत्रोच्यते - पौरुषेयवाक्यानि तावन्न स्वतः स्वार्थे प्रमाणम् । किंत्वभिप्रायानुसारित्वेनैव प्रतीतिहेतुत्वाल्लिङ्गरूपेण पश्चात् प्रमाणम् I अतोऽनुमानस्यैव व्यभिचारांशता, न शब्दस्य । अतोऽर्थः संस्पृष्ट एव । अथ पौरुषेयवाक्यानां कथं लिङ्गत्वम् ? कथं वा तेषां व्यभिचारशङ्केति — उच्यते । पौरुषेयवाक्यानां पुरुषाधीनरचनत्वात् पुरुषाणां विधिप्रमादभ्रमाश- क्त्याशयदोषैरनन्वितार्थरचयितृत्वदर्शनात् अयथार्थत्वशङ्का । तत एव न प्रथमतस्तद्वाक्यादर्थनिश्चयः । यदा तु प्रमाणादर्थं ज्ञात्वैव तदर्थविवक्षया प्रमादादिरहितं शब्द उच्चारित इति ज्ञानम्, तदा हि ततस्तदर्थधीः । अयमर्थः—प्रमाणान्तराद्व कुराप्ततामवधार्य तद्वाक्यात् परबोधनाय प्रयुक्तात् ज्ञाननियतात् ज्ञानानुमानम् । ज्ञानं च वाक्यप्रयोगमूलं विशिष्टार्थ- नियतमिति तेन तदर्थनिश्चयो ज्ञानप्रमाणाज्जातः । पश्चात्तु तदर्थों वाक्यार्थतयाऽवगम्यत इत्यनुवादकतया नरवाक्यस्य न वाक्यतया प्रामाण्यम् । मानान्तराद्वक्तुरभिप्रेतार्थनिश्चये हि वाक्यस्य तत्परत्वनिश्चयः । न च – आप्तवाक्यत्वादेवार्थनिश्वयोस्तु ; न मानान्तरादिति वाच्यम् । नरवाक्यानां प्रमाणासिद्धविषयत्वस्यापि दर्शनात् आप्ततावधारणसमय एव प्रमाणान्तर्भावात् । न हि तद्वाक्यादेवाप्तताऽप्यवधृता । यदिदमन्योन्यान्वय- योग्यमियत्, तस्मादाप्ततमेन प्रमाणेन ज्ञात एवार्थ इति ज्ञानाविनाभाव्यर्थो ज्ञात इति तद्वाक्यमनुवाद एव ।
; ननु लैकिकवाक्यस्य लिङ्गत्वेऽपि नाथसंस्पृष्टत्वशङ्क। लिङ्गज्ञानस्य स्यात् 1 स्वभावत्वे सर्वज्ञानानामपि तथात्वापातादिति — तन्न अङ्गल्यग्रादिवाक्यानां लिङ्गाभासत्वात् अन्वितार्थपरत्वनिश्चये सत्येव शङ्कावतारात् । लिङ्गालिङ्गविवेकाशकस्यालिङ्गेऽपि वाक्ये लिङ्गाभासत्वनिबन्धनो लिङ्गव्यवहारः । अतः शास्त्रप्रामाण्यं सिद्धम् । ३. स्वतः प्रामाण्यनिरूपणम् ३९ ननु लोके देवदत्तादिपदेषु संकेतादर्थधीदर्शनात् सर्वशब्दानामपि संकेतादेवार्थबोधजनकत्वम् ; वेदार्थस्य प्रमाणान्तरावगम्यताया अनिष्टत्वात् संकेतश्चाशक्य इति वाच्यवाचकत्वावगतिर्न लोकावगम्येति न वेदार्थनिश्चय- इति न वेदस्यार्थसंस्पर्शित्वरूपं प्रामाण्यम् । न च प्रमाणान्तरगम्यताभ्यपगमे असङ्केतस्यापगमः; प्रमाणान्तरप्रतिपन्नविषयत्वेन मुखान्तरेणाप्रामाण्यादिति– स्वाभाविकमेव इन्द्रियाणां अत्रोच्यते - शब्दानामर्थप्रत्यायकत्वं प्रत्ययविशेषजनकत्ववत् ; वृद्धव्यवहारानिश्चितशक्तिकगवादिशब्देभ्योऽर्थावगतेरदृष्ट- कारणान्तरकल्पनानवकाशात् । वृद्धस्यापि पूर्ववृद्धात्, तस्यापि तत्पूर्वादित्यनादि- परम्परोपपन्ना । एवं निश्चितशक्तेः शब्दस्य नरप्रयुक्तत्वनिबन्धनाशङ्का च नापौरुषेये वेद इति अर्थ: संस्पृष्ट इति नाथसंस्पर्शित्वरूपमप्रामाण्यम् । साङ्केतिकत्वे च साक्षाद्वा परम्परया वा देवदत्तादिपदवत् संकेतो ज्ञायेत । व्यवहाराविच्छेदेऽपि न तज्ज्ञानम् ; ‘वृद्धिरादैच्’ इत्यादिषु तु पाणिनिना व्याकृतत्वात् । एतन्न्यायेन वेदस्यापौरुषयताऽपि सिद्धा । न च संप्रदानाविच्छेदेऽपि कचित् न पौरुषेयत्वसंकेतज्ञानमिति वाध्यम् — पुरुषरचितश्लोकानां पत्रिकादिषु लेखदर्शनाल्लिखितालोकनादपि पाठोपपत्तेः वृद्धसंप्रदायाभावात् । वेदस्य त्वाचार्योच्चारणानूच्चारणेनैवेति न संप्रदायविच्छेद इति । न च अपौरुषयत्वेऽपि न प्रामाण्यम् । लौकिकवैदिकपदानां वैरूप्यदर्शनात् अर्थस्यादृष्टा देवैरूप्यश्रवणाच्च शब्दार्थयोर्भेदे च व्युत्पाद्यत्वा- भावान्न वेदार्थनिश्चय इति न तत्प्रमाणत्वमिति वाच्यम् ; देवास इत्यादिवैदिक-, पदानां देवा इत्यादिपदसारूप्यात् प्रत्यभिज्ञयैक्यप्रतीतेः । ‘वृक्षादिपदार्थस्य हिरण्यवर्णत्वादेश्व (?) वेदैकसमधिगम्यत्वेन विरोधाभावश्च । सर्वशब्दानां वैदिकेनैक्यं च- स्यात् । ’ वेदेन रूपे व्याकरोत् सतासती प्रजापतिः’ । • सर्वेर्षा तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ||’
- वृक्षेति । ‘समाने वृक्षे पुरुषो निममः’, ‘अहं वृक्षस्य रेवेि’त्यादाविति ४०. इत्यादिश्रुतिस्मृत्यवगतम् । नयधुमणिः ननु प्राकृतप्रलये वेदान्तिना ब्रह्मव्यतिरिक्तकृत्स्नप्रलयाङ्गीकारात् व्यवहाराध्ययनयोर्विच्छिन्नत्वादानुपूर्व्याश्रयप्राकृतशब्दानामपि नष्टत्वेनानुपूर्व्या अपि नष्टत्वात् वेदशब्दार्थसंवन्धयोः पौरुषेयत्वसांकेतिकत्वे च बलादायाते अध्यापकव्युत्पादकपरमात्मनः प्रलयकालेऽपि सद्भावात् स्थितत्वात् 1 चतुर्मुखसृष्ट चुत्तरकालं इति — तन्न ; वेदशब्दार्थसंबन्ध योरकृतकत्वस्य तद्वारा तत्संप्रदायः प्रवृत्तः; ‘यो ब्रह्राणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्रुतेः । नन्वेकवृद्धेन शब्दोच्चारणपूर्वकव्यवहाराभावात् चतुर्मुखस्य कथं शब्दव्युत्पत्तिरिति — तन्न, परमात्मनः सर्वशक्तित्वेन नानारूपस्वीकारात् अनेकवृद्धत्वेन व्युत्पादकत्वोपपत्तेः । परमात्मा हितशक्तित्वेन चतुर्मुखस्य वृद्धान्तरनिरपेक्षमेव व्युत्पत्तिर्वाऽस्तु । प्रलयकाले शब्दतदानुपूर्व्या नाशेऽपि न वेदानित्यता । अपुंप्रभवत्वस्यैव नित्यत्वाङ्गीकारात् 1 | 1 ननु अपुम्प्रभवत्वस्यैव नित्यत्वे ’ शब्दानामर्थानां च कृत्स्नविनाशे शब्दार्थव्यक्तीनामानन्त्यात् संबन्धानन्त्ये व्युत्पत्तिराहित्यमिति – तन्नः अर्थानां सामान्याकारेणानन्त्याभावात् ; अत एव शब्द तत्संबन्धानन्त्याभावाच्च शब्दानामनित्यता च स्वाश्रयाकाशस्योत्पत्त्यादिश्रवणात् । आकाशो- त्पत्त्युत्तरकाल आकाशवत् चिरकालस्थायिन एव अकारादिवर्णाः । वर्णा एव ह्येकार्थवशीकारेण पदानि वाक्यं च । एवं स्थायित्वे च न शब्दाधि- करणविरोधोऽपि । शब्दस्य नित्यत्वं सर्वगतत्वं च नेष्टम् । तच्च शब्दस्वरूप- निरूपणे वक्ष्यते । शब्दार्थयोः संश्लेषलक्षणसंबन्धानुपपत्तिस्तु स्फोटनिरासे । । न च हिरण्यगर्भादीनां सृज्यत्वे तत्परवेदशब्दानामनित्यार्थसंयोगित्वेन वेदस्य पौरुषेयता अर्थसिद्धेति वाच्यम् ; सर्वकल्पेष्वपि तत्सद्भावात् प्रवाहानादित्वेनानित्यार्थसंयोगित्वाभावात् । (काठक) कालापकादिसमाख्या च
- नित्यत्वाङ्गीकारात् अपुम्प्रभवत्वमेव नित्यत्वमित्यङ्गीकारात् । 2. नित्यत्वे नित्यत्वरूपत्वे ।
वक्ष्यत इति । न शब्दस्य नित्यत्वं मीमांसकादेवि ; नापि क्षणिकत्वं तार्किकादेरेव । किन्तु सकृदुत्पन्नस्य आकल्पस्थायितेति एतन्मतम् । ३. स्वतः प्रामाण्यनिरूपणम् ४१ ‘तत्प्रदर्शन निमित्तेति न तत्कृतत्वानिमित्ताप्रामाण्यम् । अलौकिकैकस्वरूपार्थेष्वपि प्रसिद्धार्थसमभिव्याहारात् पदशक्त्या वा व्युत्पत्तिसंभवान्न ततोऽप्रामाण्यम् । स्वर्गाद्यर्थेषु प्रसिद्धकमिपदसमभिव्याहाराद्धि व्युत्पत्तिः । स्वर्गशब्दस्य प्रीतिविशेषपरत्वेऽपि तस्यालौकिकत्वात् । शीतोष्णाद्यसंभिन्नार्थस्यैव स्वर्ग- शब्दार्थता । ब्रह्मेत्यादिशब्दास्तु स्वावयवबृहदृंहणशब्दशक्त्यैव निरतिशय- बृहद्वृंहणगुणयोगिपदार्थविशेषव्युत्पत्तियोग्याः । वेदस्या- ननु अर्थवादेषु रुद्ररोदनादिसद्भावप्रमाणसापेक्षतया प्रामाण्यम् ; न चार्थवादस्यैव तत्प्रमाणता; वाक्यभेदापत्तेः । प्रतीयते च तदैक्यम् । ‘शृणोत ग्रावाण’ इत्यदौ प्रत्यक्षविरोधाच्चेति – मैवम् । कर्मणः प्रधानेष्वङ्गेषु चार्थवादैः प्रशस्यत्वबुद्धेरुत्पाद्यत्वात्, तद्बुद्धेश्च गुणसद्भावनिबन्ध- नत्वाद् गुणानां च प्रमाणान्तराप्रतिपन्नत्वेन ज्ञापनीयत्वात् तज्ज्ञापनपुरःसरं प्राशस्त्यादिबुद्धयुत्पादकत्वाद् वाक्यभेदाभावात् । न ह्यसद्भिर्गुणदोषैः प्राशस्त्यनिन्दे । तथात्वे च शाब्दज्ञानस्यायथार्थता । लक्षणादिसमाश्रयणं चागल्या यजमानः प्रस्तर इत्यादौ । ‘शृणोत ग्रावाणः’ इत्यादौं ग्रावाधिदेवतापरत्वेना- विरोधः । तत्तदेवतासद्भावश्च…….. । ननु याञ्जनादिमन्त्राणाम् ‘अष्टका कर्तव्ये ‘त्यादिस्मृति सापेक्षत्वान्न वेदप्रामाण्यमिति – मैवम् । स्मृतीनां विप्रकीर्णशाखामूलत्वेन मूलभूतवेदस्यै- वापेक्षापूरकत्वात् । 4विप्रकीर्णशाखा मूलत्वमेव स्मृतीनाम् । भाष्यं स्वदुष्टमुपपन्नं च । न तूत्सन्नशाखामूलत्वमनुमेयवेदमूलत्वं वा । न ह्युत्सादे हेतुः । अनन्त- चरणाधारत्वेन संप्रदायप्रवृत्तेः । स्मृतिषूक्तानां च वेदे तत्र श्रूयमाणत्वाच्च । तत एव न नित्यानुमेयमूलताऽपि । न च प्रत्यक्षश्रूयमाणव्यतिरिक्तार्थस्मृतीनामुत्सन्नशाखा मूलत्वं नित्यानु- मेयमूलत्वं वेति वाच्यम्; एकमूलत्वकल्पनोपपत्तौ नानामूलत्वकल्पनानुपपत्तेः ।
- प्रदर्शनं प्रवचनमेव ।
- वाक्यभेदेति । तत्तद्वस्तुसद्भाव - तन्मूलप्राशस्त्योभयपरत्वाश्रयणादिति भावः ।
- याञ्जनेति । ‘यां जनाः प्रतिनन्दन्ती ‘ति मन्त्रः स्मृतिप्रामाण्याधि- करणे आकरे द्रष्टव्यः ।
6 विप्रकीर्णेति । उक्तं हि तत्त्वमुक्ताकलापे- ‘शाखोच्छेदस्त्विदानीमिह यदि स मतः सर्वतश्चेदसिद्धिः व्यासागस्त्यप्रधानैर्भवति च मुनिभिर्भूषिताऽद्यापि भूमिः’ इति ॥ ४२ नयधुमणिः न च विप्रकीर्णशाखामूलखे तु न सर्वस्मृतीनामुपयोग इति वाच्यम् । श्रुत्यर्थानां मन्दमतिभिर्दुर्ज्ञेयत्वात् अनुष्ठानक्रमस्यासिद्धस्यापि तथात्वात् तत्प्रकाश- नेनार्थवत्त्वात् । न च, ‘औदुम्बरीं स्पृष्ट्ट्रोद्गायेत्’, ‘औदुम्बरी सर्वा वेष्टयितव्या’ इत्यादि- श्रुतिस्मृत्योः परस्परार्थव्याघातात् तन्निवृत्यर्थ प्रमाणान्तरसापेक्षतेति वाच्यम् ; प्रत्यक्षश्रुत्या स्मृतिविषयापहाराद् विलम्बितस्मृत्यनुमानबाधात् स्मृतेरप्रमाणत्वात् । न च यववराहादिशब्दानामार्यानार्ययोर्दीर्घशूकप्रियङ्गुवायस सूकरादिषु व्युत्पत्तिभेददर्शनात् अर्थे संशयादप्रामाण्यमिति वाच्यम् ; आर्यप्रयोगस्य प्राबल्यात् वाक्यशेषानुगुण्याच्च दीर्घशूकादेरेवार्थत्वनिश्चयात् । ‘पिकमालभेत ’ ‘न चार्यव्युत्पत्त्यभावात् पिकादिष्वर्थाप्रतिपत्तेः इत्येवमादीनां न प्रामाण्यमिति वाच्यम् ; तच्छब्दस्य कोकिलार्थपरत्वेन म्लेच्छप्रयोगादपि निश्चयोपपत्तेः । म्लेच्छानां हि पक्ष्यादिग्रहणोपक्षीणत्वात् संबन्धग्रहणाविच्छेदोपपतिः । एवं प्रथमाध्यायोक्तसंशयव्याघाताप्रतिपत्तिमूलसापेक्षत्वनिसनपरन्याय- कलापमाकृष्य प्रामाण्यं वाच्यम् । ग्रन्थगौरवभयात्तु दिङ्मात्रं प्रदर्शितम् । वेदानां च ब्रह्मपरत्वेनैव प्रामाण्यम् । न कार्यपरत्व इति, वाक्यार्थ- निरूपणे वक्ष्यते । अतः सर्वप्रमाणानां स्वत एव प्रामाण्यम् । ननु वेदार्थसंग्रहे, वेदाः प्रमाणमिति ग्रन्थसन्दर्भेण करणप्रामाण्यमुच्यत इति प्रतीयते; न प्रमितिप्रमाण्यमिति, तन्न; भाष्ये भावरूपाज्ञाननिराकरणे पूर्वत्रे, अन्तर्याम्यधिकरणे, बौद्धनिराकरणे, प्रदेशान्तरे च प्रमितेरेव प्रमाणत्वे- नोक्तत्वात् । ननु वेदार्थसंग्रह ग्रन्थादेवानपेक्षात् स्वकरणोत्पाद्यत्वमेव स्वतस्त्वं प्रमाणत्वं च (त्वस्ये ?) ष्टमिति प्रतीयत इति – तन्न; अकरणाधीनज्ञानमुक्तपरमात्म- प्रत्यक्षाप्रामाण्यप्रसङ्गात् । परमात्मनोऽपि करणा[न ?] धीनरूपसाक्षात्काररूप- प्रत्यक्षतोक्ता अन्तर्याम्यधिकरणे । वेदार्थसंग्रहोक्तिस्तु कारण उपचारात् । ननु भाष्यादौ विषयव्यवहारानुकूल्स्यैव प्रामाण्यतोक्ता, कथमन्य- त्रान्यथोक्तमिति – तन्न; अर्थपरिच्छिन्नत्वस्यैव व्यवहारानुकूलत्वात् व्यवहारानुकूल्यं नाम विषयव्यवहारहेतुत्वम् । तच्च ज्ञानस्य विषयसंबन्धित्वमेव ।
- यववराहाधिकरणार्थमुक्त्वा पिकनेमाधिकरणार्थमाह नचार्येति ।३. स्वतः प्रामाण्यनिरूपणम् ४३ कार्यकल्प्य शक्त्यादिधर्मान्तरस्याप्रत्यक्षत्वात् । प्रत्यक्षता चोच्यते बौद्धनिराकरणे ’ तत्तदर्थव्यवहार योग्यतापादनरूपतया साक्षात्प्रतीयमानस्य’ इत्यादिभाष्ये । । अस्मदीया एव केचित् पौरुषेयवचसामपि स्वतः प्रामाण्यमाहुः । तदनुपपन्नम् ; मन्वादिस्मृतीनामपि वेदार्थसंग्रहादौ विप्रकीर्णशाखामूलत्वेनैवो- पायत्वाभिधानात् । श्री पञ्चरात्रतन्त्रस्य भगवदुक्तत्वेन प्रमाणतोक्ता प्रत्यक्षश्रुत्यविरोधतो वेदमूलत्वेनैव । न हि पौरुयवचसां क्वचिदपि स्वतः- प्रामाण्याभिधानम् । यद्यत्र क्वाप्याप्तोक्तत्वेन प्रामाण्याभिधानम्, तत्तु मूलवेदानु- मानाय । " यथावस्थितपदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य तच्च स्वतः प्रामाण्यन्यायसिद्धम्” इति भाष्यविरुद्धमाप्तोक्तत्वेन प्रामाण्याभिधानम् । तथात्वेन प्रमाण्याभिधाने वैशेषिकादिवदीश्वरोक्तत्वेन वेदप्रामण्याङ्गीकारः स्यात् । न च तद्यक्तम् ; यथावस्थितपदार्थप्रतीत्यनुगुण- स्वाभाव्यादिति यथावस्थितपदार्थस्फुरणानुगुणस्वाभाव्यादित्यर्थः । अतोऽस्मदुक्त- प्रकार एव भाष्यकारानुमनः सुंस्यश्चेति सर्वं निरवद्यम् ॥ च इत्यात्रेयनाथसूरिसूनुना मेघनादारिनाम्ना विरचिते नयद्युमणौ स्वतःप्रामाण्यसिद्धाख्यप्रकरणं समाप्तम् 30 श्रीः ४. वाक्यार्थप्रदीपः जयन्ति गुरवोऽस्माकमपि रामानुजो मुनिः । हनूमांश्चापि लक्ष्मीशस्तुरङ्गवदनो हरिः ॥ वैदिकानामभिमतो वाक्यर्थोऽयं प्रकाश्यते । तत्र विप्रतिपन्नत्वाद्वादिनां संशयोदयात् ॥ अनभिज्ञाततत्त्वानां तन्मोहविनिवृत्तये । क्रियामेव हि वाक्यार्थमाहुः केचित् तथा परे ॥ अपूर्वमेकेऽखण्डैकरसब्रह्मेति वादिनः । स्फोटमेकं वदन्त्यन्ये भावनामपरे जनाः ॥ इष्टस्य साधनं केचिदिष्टमेवेति पण्डिताः । महात्मानस्तु वेदार्थविनिर्णयविशारदाः || समस्तचिदचिद्देहि ब्रह्मैवेति प्रचक्षते । पूर्वे ये पूर्वपक्षास्ते राद्धान्तस्त्वयमुत्तमः । तत्तत्पक्षस्य दुष्टत्वाददुष्टत्वात् परस्य च ॥ तथा हि – लोके व्युत्पत्तितः क्रियैव कार्यतयावगतेति सैव वाक्यार्थः । व्युत्पन्नस्यैव वाक्यस्यार्थावगमकत्वात् 1 व्युत्पत्तेश्च लोकसिद्धत्वात् ; गामानय’ इत्यादिप्रवर्तकवाक्येष्वेव व्युत्पत्तेः; प्रवृत्तेश्च कार्यधीपूर्वकत्वात् ; कार्यस्य च क्रियानतिरेकात् । लोके च, तथा हि—….तद्वाक्यश्रवणानन्तरं मध्यमवृद्धप्रवृत्तिदर्शनाद् व्युत्पित्सुरे - वमनुमिनोति–वृद्धप्रवृत्तिर्बुद्धिपूर्विका, स्वतन्त्रप्रवृत्तित्वात् मदीयस्वतन्त्र- प्रवृत्तिवदिति I तथा - वृद्धचेष्टाहेतुधीः मदीयचेष्टाहेतुधीसमान विषया चेष्टाहेतुधीत्वात्, मदीयतद्धीवदिति । चेष्ट हेतुज्ञानं च चेष्टायाः शब्दानन्तर्यात् शब्दादित्यध्यवसायात् । स्वप्रवृत्तिज्ञानं च मम मानान्तरेणेति च । वृद्धचेष्टा कार्य पूर्विका स्वतन्त्र चेष्टात्वात् मदीयचेष्टावदित्यनुमानात् वाक्यार्थ प्रदीपः ४५ कार्यधियमेव प्रवृत्तिहेतुत्वेनावधारयति तस्यास्तद्धेतुत्वं च व्युत्पत्तेः प्रागवस्थायां स्वस्मिन् दृष्टम् । एवं वाक्यस्य प्रवर्तककार्यज्ञापकत्वात् कार्यमेव प्रधानतोऽर्थ इति अभिधेयत्वं चास्याध्यवस्यति । न च फलस्येष्टस्य वाक्यार्थता; स्वतस्ततोऽसाध्यत्वेनाप्रवर्तकत्वात् । न चेष्टोपायमात्रस्य प्रवर्तकत्वम्; अतीतानागतेष्टोपायधीतोऽपि प्रवृत्त्यापातात् । अत इष्टोपायस्य कार्यताधीरेव प्रवृत्तिहेतुः । कार्यत्वं च कृतिसाध्यत्वं कृत्युद्देश्यत्वं च । अत एवातीतादिव्यावृत्तिसिद्धिः । कृत्यन्वयव्यतिरकानु- विधायित्वेन कृतिसाध्यत्वमनुमानवेद्यम् । कृतेर्मानसप्रत्यक्षत्वेन कृतिप्रयो- जनरूपकृत्युद्देश्यत्वं मानसप्रत्यक्षवेद्यम् । 1 प्रवृत्तिलिङाद्यन्वयव्यतिरेकानुविधायित्वदर्शनात् लिङादीनां कार्यार्थ- त्वात् अन्येषामन्यार्यता चावापोद्धारभेदादवधृता । एवञ्च प्रयत्नकार्यत्वधियोरेकगोचरतालाभश्च । अन्यथा अपूर्वविषया कार्यत्वधीः, प्रयत्नविषयों याग इति विरोधः स्यात् । एवञ्च लिङादीनां पाणिनिना स्मृता धात्वर्थस्य कर्तृव्यापारसाध्यतापरता चोपपन्ना । न चेच्छा प्रवृत्तिहेतुत्वेन लिङादिवाच्येति वाच्यम्; तस्या 2 अधिगतत्वेनाप्रवर्तकत्वात् । च्छाह्यत्पन्ना तद्धेतुः । कार्यं चावगग्यमानम् । अतो लोकसिद्धक्रियाकार्यस्यैव प्रवृत्तिहेतुत्वेन वाक्यार्थत्वम् । • । प्रमाणतयावगतवेदात् ननु क्षणभङ्गिन्यास्तस्या न कालान्तरभाविफलसाधनत्वमिति तन्न । व्युत्पत्यनुसारतो वाक्यस्य तत्प्राधान्ये, तस्याः स्वर्गादिसाधनत्वावगतैा च स्थायित्वरूपधर्ममात्रकल्पनातोऽनुपपत्ति- शान्तेः । न च तस्याः प्रत्यक्षपरिदृश्यमानक्षणभङ्गित्वस्वभावविपरीतस्वभाव- कल्पना न युक्तेति वाच्यम्; फलविनाश्यत्वस्यैव दृश्यमानत्वात्, फलानुत्पत्तौ विनाशानुपपत्तेः । लोके तु फलोत्पत्तेः शैघ्रयात् क्षणिकता । न च तस्या
- प्रवृत्तीति । लिङादिश्रवणे प्रवृत्तिः अन्यदा नेति प्रवृत्तेस्तदनु विधानदर्शनादित्यर्थः ।
- अधिगतत्वेनेति । प्रवृत्तिं प्रति इच्छा हि स्वरूपसती कारणम् । न तु तज्ज्ञानम् । लिङर्थस्तु स एव भवितु मर्हति, यो लिङा. बोध्यमानत्वात् शायमानस्यन्नेव हेतुर्भवति । नयधुमणिः आश्रय विनाशान्न स्थायितेति वाच्यम्; स्थाय्यात्माश्रयत्वात् । परिस्पन्दात्मक- क्रियाया अपि पुरोडाशादिकारणभूतपरमाण्वाश्रयतया स्थाय्याश्रयत्व सिद्धिरिति । अत्रोच्यते- केचिदाहु: 1 - यद्यपीष्टस्य तत्साधनस्य वा प्रवृत्तिं प्रत्यहेतुत्वान्न वाक्यार्थता, क्रियायास्तु तद्धेतुत्वम् – तथापि तस्या न वाक्यार्थता, कालान्तरभाविफलसाधनत्वानुपपत्तेः । यद्यपि फलेन तस्या विनाशः – तथापि कारकावस्थायामेव फलजनकता दृष्टा । स्वर्गादिफलं च न कारकावस्थान्वयीति प्रमाणान्तरविरुद्धत्वेन न तत्स्थायित्वकल्पना । न हि यागादिक्रियाकारक भूतब्राह्मणत्वादिभेददेह्यात्मनि फलान्वयः; किन्तु देहान्तरविशिष्टस्य । विशिष्टदेहान्तरे च न कारकता, परिस्पन्द क्रियाया अपि कार्यभूतपुरोडाशाद्याश्रयदर्शनात् परमाण्वाश्रयकल्पनापि प्रमाणान्तरविरुद्धैव । . न च क्रियानाशेऽपि तच्छक्तेः स्थाय्यात्माश्रयत्वकपना; अन्यशक्ते - रन्याश्रयत्वकल्पनाया आश्रयविनाशेऽपि तदाश्रयवस्तुस्थायित्वकल्पनायाश्च प्रमाणान्तरविरुद्धत्वात् । अतो लिडादि र्न? क्रियायाः कार्यत्वबोधकः । तथात्वे च साध्यस्वर्गविशिष्टनियोज्यान्वयहानिः । न हि देहान्तरभाविसाध्यफलं प्रति क्षणिककर्मणः साधनत्वम् । तदुक्तम् — “लिङादिस्तत्र कार्यं चेत् क्रियामेवावबोधयेत् । समन्वयो नियोज्येन तदानीमेव हीयते ॥ क्रिया हि क्षणिकत्वेन लोकान्तरविभाविन: । स्वर्गादेः साध्यमानस्यासमर्था जननं प्रति ॥ न कार्यत्वेन संबन्धमर्हति क्षणभङ्गतः ॥ " इति । अतो नियोज्यान्वययोग्यम् अपूर्वमेव कार्यं लिङाद्यर्थः । तस्य प्रमाणान्तराविषयत्वादेव न प्रमाणान्तरविरोधोऽपि । नियोज्यश्चावश्यमङ्गीकार्यः; तदभावे प्रवृत्त्यनुपपत्तेः । अतः स्वर्गकामस्य स्वसंबन्धकार्यं प्रति बोध्यतयैवान्वय इति स्वर्गकामादिपदानि नियोज्यान्वयपराण्येव । स्वसंबद्ध कार्यबोद्धा । हि नियोज्यः । तदुक्तम् –, “नियोज्यः स च कार्यं यः स्वकीयत्वेन बुध्यते” इति । नियोज्यश्च नाविशिष्टः किं तु साध्यस्वर्गादिरेव तद्विशेषणम् । काम्येषु स्वर्गादिना कामयोगात्
- क्रियावाक्यर्थपक्षमपूर्ववाक्यार्थवादी प्राभाकरः खण्डयति यथा, तदाह केचिदाहुरित्यादिना । वाक्यार्थप्रदीपः ४७ साध्यत्वधीः । तदुक्तम् — “स्वर्गादिः कामयोगच्च साध्यत्वेनैव गम्यते" इति । साध्यस्वर्गादिविशिष्टश्च स्वकार्यसाधनमेव कार्यतयाऽवैति नान्यत् । तदुक्तम् — " तदेव शक्नुयात् कार्यं बोद्धुं यत् काम्यसाधनम्” इति । न चासाध्यपरस्त्रयादी- नामपि काम्यमानत्वदर्शनात् न काम्यस्य साध्यत्वमिति वाच्यम् — तत्कामिनः तत्साधनत्वेन कस्याप्यनुपदेशात् । यत्कामिनो यद्धि कार्यतयोपदिश्यते, तत् तत्काम्यसाधनम् । न च, ‘परस्त्रीकामः कृच्छ्रं चरे’ दित्यादौ काम्यमानतया परस्त्रिया नियोज्यविशेषणत्वम् ; प्रायश्चित्तप्रकरणत्वेन, तत्कामादिशब्दानां निमित्तपर्यन्तत्वेन निमित्ताधिकारपरत्वात् । अतः क्रियातिरिक्तनियोज्यान्वययोग्यं स्थायिकार्यं विधिवाचिलिङादिवाच्यम् । तदुक्तम् — इति । " तस्मान्नियोज्य संबन्धसमर्थविधिवाचिभिः । कार्य कालान्तरस्थायि क्रियातो भिन्नमुच्यते ॥ " 2 ननु यागादीनां देवताराधनत्वेन तत्प्रसादद्वारा फलसाधनत्वोपपत्तेः न स्थायिकार्यसिद्धिरिति । तन्न; तेषां देवताराधनत्वे प्रमाणाभावात् । यजेः पूजार्थत्वस्मृति: स्मृतित्वेनैव प्रमाणान्तरसापेक्षत्वेनाप्रमाणत्वात् मूलान्तरस्य चानुपलम्भान्न तत्र प्रमाणमिति देवतेोद्देशेन द्रव्यत्यागमात्रात् गौणी । किं च यागस्य देवताराधनत्वे तत्प्रीत्यर्थत्वे तस्या विग्रहसंबन्धो ऽङ्गीकार्यः; तद्राहित्ये चाराधनं प्रति संबन्धित्वाद्यनुपपत्तेः । देहित्वे च प्रत्यक्षविरोधः, दृश्यत्वापत्तेः । परिच्छिन्नानां युगपदनेकयजमानसंनिधि- श्चानुपपन्नः । वेदस्यानित्यार्थसंयोगित्वेनानित्यता च । अर्थवादानां त्मन्यपरत्वे च न तत्र प्रामण्यम् । ननु क्रिया पुरुषसंस्कारहेतुः; तत्संस्कृतस्य च स्वर्गादिभोगयोगोऽस्त्विति । तन्न । तस्याः संस्कारकत्वे प्रमाणाभावात् ।
- परखीकाम इति । यदि परस्त्रियं कामयेत, तदा प्रायश्चित्तमेवं कुर्यादिति वाक्यार्थः । नात्र परस्त्रियाः फलत्वम् ।
- वेदान्तिमत प्राभाकरः खण्डयति न च यागादीनामित्यादिना । 3. तार्किकैकदेश्युक्तं खण्डयति ननु क्रियेति । ४८ नयधुमणिः 1 ननु यागादिक्रियायाः स्वर्गसाधनत्वं तज्जन्यफलसाधनस्थाय्यपूर्वकल्पन- योपपन्नमिति नापूर्ववाचकता लिङादेरिति - तन्न, फलजनकान्यकल्पनया यागादेः फलसाधनत्वासिद्धेः; साधनसाधनस्यातत्साधनत्वात् । ननु काष्ठैः पचतीत्यादौ ज्वालावान्तरव्यापारद्वारा काष्ठादिसाधनत्व- कल्पनावत् अपूर्वस्य ब्यापारतया साधनत्वमस्त्विति तन्न, क्रियावान्तरस्यात्मा- श्रयव्यापारत्वानुपपत्तेः । नन्वाग्नेयादीनामपूर्वसाधनतेष्टा ।
2तदीयप|र्वणहोमजन्योपकारसंबन्धार्थं करणान्तरतो ह्यवान्तरापूर्वस्वीकारः । . क्रिया तु साक्षात्फलासाधकत्वादन्वयायोग्येति शब्दात् न कार्यतया कामिनियोज्यबोध्या । न च तस्याः व्यवहितसाधनत्वम् । नैवान्विताभिधानम् । अपूर्वकल्पनातः पूर्वं व्यवहितत्वेनापि साधनायोग्यत्वात् । अन्वितबोधे हि तदुपपत्यर्थमपूर्वकल्पनेति — तन्न । तत्र साध्यस्वर्गादिविशिष्टेन यो हि यदिच्छति, स तत् करोति फलमुमुपायं वेति नयादव्यवहितसाधनस्यैव कार्यतयाऽवगम्यत्वात् । तस्मादव्यवहितकारणमिति कल्पितमेव साधनमिति कल्पितापूर्वेण न क्रियासाधनत्वनिर्वाह इति अनन्तरितसाधनमपूर्वमेव कामिनियोज्यान्वययोग्यं कार्यं लिङादिवाच्यम् । तच्च कार्यं कृतिसाध्यं कृत्युद्देश्यमित्युक्तम् । कृतिर्नाम प्रयत्नः । स च भव्यं यागादिकमेव विषयीकरोतीति अव्यवहितमेवापूर्वं कृतिसाध्यतया- अतोऽपूर्वकार्यस्यैव विषयनियोज्यान्वितत्वेन प्राधान्यतो वगम्यते । वाक्यार्थत्वम् । तदुक्तम् — इति । “कार्यस्यैव प्रधानत्वाद्वाक्यार्थं चैव (र्यत्वं च ?) घोष्यते । वाक्यं तदेवाभिप्रा(प्रे?)यान्नियोज्यविषयान्वितम् ॥” ननु कार्यस्य फलसाधनत्वे तु न प्राधान्यम्; साध्यशेषत्वात् साधनस्येति–तन्न ; अशनादिदानेन गवाद्युपाकारकस्यापि स्वामिनः तत्साधनस्य गुणत्थाहेतुत्वात् । किं तु स्वार्थमेव भृत्योपकारकः । तथा अपूर्वमपि स्वसिद्धयनुकूलनियोज्यसिद्धयर्थं फलसाधनं नाप्रधानम् । तदुक्तम्
-
भाट्टादिमतं खण्डयति ननु यागादीति ।
नन्वाग्नेयेति कृतां शंकां समाधत्ते तदीयेत्यादिना । इति । ४. वाक्यार्थप्रदीपः “आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत् स्वर्गादिकमपि प्रधानं कार्यमेव नः ||” ४९ 2ननु वाक्यस्य विषयनियोज्यान्वितकार्यपरत्वे नियोज्यस्यापि शाब्दतापत्तिः । न च तद्युक्तम् ; व्युत्पन्नस्य सामर्थ्यादेव बोद्धृतासिद्धेः । तन्न । ममेदं कार्यमित्यार्थतद्धीमत्परत्वात् कामपदस्य । यदा तु व्युत्पन्नोऽपि कामी स्वकार्यतया नावैति, तदा बोधकता स्यात् । यदा चावैति, तदा बोधकता न स्यादिति । अतो न शाब्दति । ननु स्वर्गादि कर्तृविशेषणमस्तु ; कामपद च कर्तृपरमस्तु ; मत्कर्तृकं कार्यमिति बोद्धृतापि तस्येति — तन्न; इष्टस्य नान्यार्थत्वमिति कर्तृविशेषणत्वानुपपत्तेः । कर्तृपरत्वे तु न फलस्य साध्यता ; किंतु समुद्रध्यानादिवत् अङ्गता स्यात् । किश्च कामपदं न कर्तृपरम् ; यागस्यैव कार्यत्वेन कर्त्रन्वयात् यागस्य च फलसाधनत्वानुपपत्तेः स्वर्गादेः साध्यत्वप्रतीति- विरोधात् । नियोज्यपरत्वे तु कार्यप्राधान्यात् यागस्य साधनतयैवान्वयः । कामपदस्य प्रवृत्त्यानुगुण्याद् बोद्धृपरतैव; अन्यथा प्रवृत्त्यनुपपत्तेः । न च मत्कर्तृकं कार्यमिति बोद्धृतया प्रवृत्तिः; ऋत्विक्प्रवृत्यापत्तेः; तेषामपि कर्मसु कर्तृत्वबोधात् । याजमानापेक्षया ननु वाक्यस्य व्युत्पत्त्यनुसाराद्बोध्यपरत्वमेव; न बोद्धृपरत्वमिति — तन्न; स्वर्गकामस्येदं कार्यमिति बोध्यपरत्वात् । ममेदं कार्यमिति धीदर्शनं तु न साक्षाच्छाब्दम् । किंतु शब्दात् कामिनः कार्यमित्यवगतौ आत्मानं तत्कामिनं बुध्यत इति तद्धीः फलितेति शाब्दम् । 1
- कुर्वदिति । स्वर्गादिकं कुर्वदपीत्यन्वयः । यद्यपि कार्यमपूर्वे स्वस्मिन्न विश्राम्यति ; किन्तु स्वसिद्धयनुकूलनियोज्य सिद्ध्यर्थे पश्चात् स्वर्गादिकमुत्पादयति । एवमपि राजवत् तस्य प्राधान्यं न हीयत इत्यर्थः ।
- परमसिद्धान्त्याशयमुद्धाय्य प्राभाकरः प्रतिक्षिपति - नन्वित्यादिना ।
- समुद्रध्यानेति । ‘रथन्तरे प्रस्तूयमाने संमीलयेत् ; बृहति प्रस्तूयमानें समुद्रं मनंसा ध्यायेत्’ इत्युक्तध्यानमिह ग्राह्यम् । वाक्यमिदं मी० 9-2-46 सूत्रादिव्याख्याने द्रष्टव्यम् । 7 ५० नमणिः न च षष्ठयश्रवणात् तदर्थालाभशङ्का; कार्यस्य कृतिसाध्यत्वावगतेः कृतेश्व नराकाङ्क्षायां स्वर्गकामप्रतिपादकसमर्पित सन्निहितयोग्य संबन्धि- पुरुषान्वयबुद्धेः कार्यनियोज्ययोः प्रयोजन प्रयोजनित्वेनामि संबन्धितेति षष्ठयर्थलाभ इति । प्रथमा च प्रातिपदिकार्थानतिरिक्तार्थेति तद्विरोधश्च । अतः स्थायिकार्यस्यैव लिडादिवाच्यत्वे तस्य च क्रियाकार्याव्यभिचारात् क्रियाकार्य लाक्षणिकमेव । 1 कार्यार्थे व्युत्पत्तिलौकिकी । स्थायिकार्यनिर्धारणा तु वेदवाक्य- विमर्शजा ! तदुक्तम् — इति । एवं " व्युत्पत्तिरिह कार्यार्थे व्यवहारानुसारिणी । किंतु निर्धारणामात्रं वेदवाक्यविमर्शजम् ॥ कामाधिकारविचारादपूर्वव्युत्पत्तौ नित्यनैमित्तिक निषेधाधि- कारेष्वपि तस्यैव वाक्यार्थत्वम् अनेकार्थत्वस्यान्याय्यत्वात् । नित्येषु जीवनं नियोज्यविशेषणम् ; नैमित्तिकेषु 2 भेदनादयः ; कलञ्जभक्षण प्रवृत्त्यादयो निषेधेष्विति कृतमतिविस्तरेण । अनन्वखण्डैकरसब्रह्मणः सदात्मकस्यैव वाक्यार्थता युक्ता । तथा हि- सर्वप्रमाणानि परमार्थसदेकविषयाणीति शास्त्रमपि तद्विषयम् । न च घटादि- भेदधियोऽपीन्द्रियान्वयव्यतिरेकित्वेन तद्विषयतापीति; तदन्वयव्यतिरेकयोर्भेद- भ्रमाधिष्ठान ग्रहोपक्षयादन्यथासिद्धेः । अनन्यथासिद्धं हि मानम् । न च तद्धियः कारणदोषाद्यनुपलब्धेर्न भ्रान्तित्वमिति भेदस्य प्रत्यक्षायोग्यत्वात् । ; प्रत्यक्षं हि किं विधायकम् ? व्यवच्छेदकं वा ? उभयं वा ? प्रथमे वस्तुस्वरूपविधिमात्रोपक्षयान भेदसिद्धिः । द्वितीयेऽपि निषेध्यसापेक्षत्वेन प्राप्तिपूर्वकत्वात्, प्राप्तेश्व विध्यपेक्षत्वात्, विधेश्व वस्तुमात्रोपक्षयात् तदसिद्धिः । तृतीयस्तु विकल्प्यः - किं विधिपूर्वको व्यवच्छेदः ? एतद्व्यत्ययो
- नन्वपूर्वाख्यस्य कार्यस्यालौकिकत्वात् कथं तत्र लोकतो व्युत्पत्तिरिति शङ्कायामाह - कार्येति ।
- भेदनादय इति । भिन्नेषु जुहोतीति कपालभेदने होमविधिरवगन्तव्यः । 3. कार्यवाक्यार्थवादी प्रभाकरः अद्वैतमतं खण्डयितुमनुवदति- नन्वित्यादिना । ४. वाक्यार्थप्रदीपः ५१ वा? युगपद्वोभयमिति ? आधे अनवच्छिन्नसन्मात्रविरोधादू व्यवच्छेदासिद्धौ भेदासिद्धिः । द्वितीयेऽपि व्यवच्छेदस्य विधिपूर्वत्वादेव व्यवच्छेदपूर्वखानुपपत्ते- स्तदसिद्धिः । अत एव तृतीयपक्षानुपपत्तेस्तत्सिद्धिर्निरस्ता । न चैकविधायकत्व- मेवान्यव्यवच्छेदकत्वमिति; अन्यवस्तु सिद्धावेकविधायकत्वे ऽन्यव्यवच्छेदकत्व सिद्धिः, एतत्सिद्धौ तत्सिद्धिरितीतरेतराश्रयात् । न च विधायकत्वेऽपि भेदविशिष्टवस्तुविषयत्वमिति ; प्रत्यक्षस्य क्षणिकत्वात् भेदप्रतीतेश्च वस्तुग्रहणतत्स्मरणप्रतियोगिस्मरण सापेक्षत्वेन विलम्बि- तत्वाद् भेदस्य विषयत्वायोग्यतया सन्मात्रस्यैव तद्योग्यत्वाद् । भेदाख्यवस्तुनो दुर्निरूपत्वाच्च न तद्विषयत्वम् । किं भेदो वस्तुस्वरूपम् ! तद्धर्मो वा ? आद्ये वस्तुग्रहे तद्व्यवहारवत् तस्य सर्वतो भेदव्यवहारः स्यात् । भेदस्य स्वरूपत्वादेव न प्रतियोगिज्ञानापेक्षा | स्वरूपत्वे च वस्तुत्राचकशब्दै- भैदवाचकशब्दस्य पर्यायता च 1 शुक्लः पट इत्यादिवत् भिन्नः पट इत्यादिभेदधर्मव्यवहारप्रतीत्यारापत्तिश्च । न च द्वितीयः पक्षोऽस्त्विति वाच्यम् ; धर्मधर्मिणोरपि भेदापेक्षत्वेनानवस्थानात् । अतः सन्मात्रविषयमेव प्रत्यक्षम् | अनुमानादिरपि तन्मूलत्वेन तद्विषय एव । कर्मभागसगुणविद्यापरवेदभागस्यापि तदविशेषात् कर्मादेरनुष्ठेयत्वादिप्रतिपादनमुखेन भ्रान्तिसिद्धानुवादमात्रत्वाद् अखण्डैकरसाद्वितीयब्रह्मपरत्वम् । भेदाभावादेव न विषयभावः । एवं प्रतीतभेदानङ्गीकाराद् अखण्डैकवाक्यार्थताका । तदङ्गीकारेऽपि न तद्वाक्यार्थत्वभङ्गः । तथा हि- यावत्प्रपञ्चप्रतिभासं वेदस्य व्यावहारिकधर्मतया प्रतीयमानस्य निराकर्तुम- शक्यत्वेऽपि शङ्कयमानदोष प्रत्यक्षादेर्व्यावहारिकभेदपदार्थविषयत्वेनापि सावकाश - त्वादनन्यथासिद्धानन्यपरसत्यज्ञानादिवेदान्तवाक्यानामखण्डैकर सब्रह्मै कपरत्वमेत्र । 1 यद्यपि प्रतियोग्यपेक्षो भेदः प्रमाणानवसेयः ; तथापि यावदेकात्मबोधं साक्षिवद्यतया भात्येव । एवं च न भेदस्यात्यन्तापहृत्र इति न स्वव्यवहारोच्छेदः । ।
- ननु कथमयं भेदाङ्गीकारपक्षः ? ज्ञानस्य क्षणिकत्वात् मेदस्य प्रतियोगिग्रहणपूर्वकं सह वा दुर्ग्रहत्वस्योक्तत्वादित्यत्र साक्षिवेद्यतया तदस्तित्वं वक्तुमाह-यद्यपीति । ५२ नयद्यमणिः यद्यपि प्रत्यक्षस्य सन्मात्रविषयत्वमुक्तम्, तथापि तदज्ञानोपाधिकमेव ; 2 वस्तुनो निरस्तनिखिलव्यवहारत्वाद् विषयविषयित्वानुपपत्तेः । न चैतावता भेदस्य वास्तवत्वम् ; प्रत्यक्षस्य पूर्वोक्तविधया विधायकत्वात् । अविद्यातो भेदसिद्धिश्चेति न तत्स्वरूपापलापः । प्रत्यक्षस्य सन्मात्रविषयत्वेऽप्यज्ञानविशिष्ट- वस्तुविषयत्वान्नाज्ञानोपमर्दकत्वमिति न तवैकविषयत्वम् 1 आगमस्तु विरुद्धपदार्थसामानाधिकरण्याभिधानमुखेन समस्तोपाधिविनिर्मुक्तं वस्तु लक्षयत् नान्तरीयकतया तदज्ञानतत्कार्ये निवर्तयतीति सत्यमित्यादिवेदान्तवाक्यानामेवा- द्वितीयवस्तुपरत्वम् । अयमर्थः — एकमेवाद्वितीयं ब्रह्मेत्यादौ सजातीयविजातीयस्वगतनानात्व- निरासेनाखण्डैकरसं ब्रह्मेति प्रतिपाद्यते । एवं च न गुणतोऽपि सद्वितीयत्वम्, अद्वितीयश्रुतिविरोधात् निर्गुणत्वश्रुतिविरोधाच्चेति । वेदान्तानां विरुद्धपदार्थ- सामानाधिकरण्यमुखेनोपाधिविनिर्मुक्तब्रह्मपरत्वम् । एतच्च सामानाधिकरण्य- मुपन्यस्य निरस्यते । यत्तु न सिद्धार्थव्युत्पत्तिरिति — तन्न ; ‘पुत्रस्ते जातः ’ इत्यादिवाक्यश्रवणानन्तरं श्रोतुर्मुखविकासादिलिङ्गात् हर्षमनुमाय स्वज्ञाततत्पु- त्रजन्मन एव तद्धेतुत्वमनुमाय विशेषेण तदर्थबोधकत्वमानन्तर्यादवधार्य पुनरावा- पोद्धाराभ्यां सर्वपदानां व्युत्पित्सोः सिद्धार्थव्युत्पत्तेः । न च सुखप्रसवादिहर्षहेत्वानन्त्यात् न पुत्रजन्मन एव तद्धेतुत्वनिश्चय इति ; गवानयनादिप्रवर्तकवाक्येष्वपि श्रोतुरानुषङ्गिकव्यापारादितस्तदनिर्धारणा- पत्तेः समत्वात् । अथ पदानामावापोद्वापदर्शनात् अर्थविशेष नियमकल्पना, तर्हि सिद्धपरेष्वपि तथा; संभवात् । सा ह्यदृष्टपुत्रजन्मतो हर्षहेत्वन्तरकल्पना- नवकाशाच्च । न च यत्र कापि पारिशेष्यादिना सिद्धपरत्व संभवेऽपि प्रवर्तकवाक्येऽपि 3…. प्यवाद्युत्पत्तेर्न प्राथम्यात् सिद्धपरत्वमिति; इंदं तदादिविज्ञानपूर्वकत्वात् सर्वव्यव- हाराणाम् । तदङ्गीकारे विभागज्ञानपूर्वकशाब्दव्यवहारोच्छेदः । वाच्यवाचकसं- बन्धग्रहे विभागज्ञानमपेक्षितमेव । अतो व्युत्पत्तौ नानुपपत्तिः ।
- तत् ; प्रत्यक्षस्य सन्मात्रविषयम् ।
वस्तुन हात | केवलस्य सत इत्यर्थः । 3. अत्र ग्रन्थपातः ।४. वाक्यार्थप्रदीपः ५३ ननु प्रत्यक्षादेरपि प्रमाणत्वाविशेषान्न मिध्याविषयत्वमिति । न ; तस्या- गमादविशेषासिद्धेः । प्रत्यक्षं हि अर्थेन्द्रियसंप्रयोगजंम् । तत्तु कचिद्विषयदोषा- दन्यथा दृष्टम् । यथा स्थूलस्यापि दूरस्थत्वदोषेणाल्पत्त्रधीः । कचिच्छुक्तिकारजतता- धीर्नयनदोषात् । कचिद् दृष्टिदोषात् रविमण्डलादौ सुषिरादिधीः । अतः संभाव्य- करणदोषं प्रत्यक्षम् । शब्दाख्यकरणस्य तु स्वतो न दोषशङ्का । तच्छङ्कायां तज्जन्यकृत्स्नविज्ञानाप्रामाण्यम् । वेदस्य चापौरुषेयत्वेन न क्वचिद्दोषसंभावनेति वैदिकज्ञानमेवासंभावितदोषम् । तस्मात् प्रत्यक्षादितो वेदस्य बलीयस्त्वम् । न च प्रत्यक्षस्य प्राथम्याद्बलीयस्त्वमिति प्रमाणानां स्वार्थसाधकानां प्राथम्यचारम्यानुपलब्धेः । 1 वेदस्यैव सर्वोत्पत्तिहेतुत्वेन प्राथम्याच्च । न च वेदस्य प्रत्यक्षापेक्षत्वान्न ततो बलीयस्त्वमिति; विकल्पासहत्वात । किमुत्पत्तौ प्रमितौ वा तदपेक्षत्वमिति ? नाद्यः । शुक्तिकारजतादि- धिय इन्द्रियदोषानुमानहेतुत्वेऽप्यनुमानस्यैव तत्र प्राबल्यं दृष्टम् । नापि द्वितीयः सर्वप्रमाणानामपि प्रामाण्येन प्रमितावन्यानपेक्षत्वात् । ; न चाद्वितीयश्रुतेः स्तुतिपरत्वेनापि सावकाशत्वात् प्रत्यक्षस्य च निरवकाशत्वात् प्राबल्यमिति ; तच्छ्रुतेरेव तत्त्वावेदकत्वेनानन्यपरतया निरवका- शत्यात्; तदनङ्गीकारे चाप्रामाण्यात् । प्रत्यक्षादेस्तु तत्वावेदकत्वेऽपि देहात्मावगतिवल्लौकिकादिव्यवहारोपपत्तेर्नात्यन्तानवकाशता । न च कर्मज्ञानपरश्रुत्योः परस्परविरुद्ध विषयत्वेन व्याहतेः प्रत्यक्षस्य च तदभावाद्बलीयस्त्वमिति; कर्मपरश्रुतेद्वैतसत्यत्वपरत्वाभावात् ; इदमिष्टस्य साधनमिति साध्यसाधनमात्रपरत्वात् । भेदस्य तु लोकसिद्धस्यानुवाद- मात्रम् ; भेदश्च न वास्तव इयुक्तम् । एतेन सगुणशास्त्रस्यापि विरोधः परिहृतः । अतो द्वैताद्वैतविज्ञानयोस्तत्त्वातत्त्वपरत्वेन वेदप्रामाण्यादद्वैतं सिद्धम् | न चाद्वैतविज्ञानस्य बाधितत्वेनातत्परत्वमिति; अद्वैतश्रुत्यन्यथानुपपत्तेः । द्वैतप्रपञ्चस्य विज्ञातस्य मिथ्यात्वादन्यपरा नाद्वैतश्रुतिरित्युक्तम् । तच्च — “एक- मेवाद्वितीयम्” “ऐतदात्म्यम्" इत्युपक्रमोपसंहारयोरैक्यात्, ऐतदात्म्यमिति पुनः
- वेदस्यैवेति । “वेदशब्देभ्य एवादौ देवादीनां चकार सः” इति स्मृतेः । सूत्रञ्च, “शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्” इति । १५४ नयधुमणिः पुनरभ्यासात् प्रमाणान्तरानवगतैकात्म्यप्रतिपादनात्, “तस्य तावदेव चिरम् " " इत्यादिनैक्यज्ञानस्य मोक्षफलश्रवणात् " येनाश्रुतं श्रुतम्” इत्यादिना अर्थवादस्यो. पपन्नत्वात्, मृदादिदृष्टान्तयुक्तिभिरेकाथोपपादनाच्चाद्वैतश्रुतेः षड़िधलिङ्गकत्वेन तत्परत्वनिश्चयात् । तदुक्तम् — इति । “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिश्चये ॥” तस्मात् अद्वैतश्रुतिः परमार्थविषया; द्वैतप्रातिभासस्तु काल्पनिकद्वैत विषय इति । एवं चाद्वैतज्ञानाद् द्वैतप्रपञ्चवाधादबाधितत्वमसिद्धम् । विमतिविषयः प्रपश्ची मिथ्या, दृश्यत्वात् शुक्तिरूप्यवदित्यनुमानाच्च तन्मिथ्यात्वसिद्धिरित्यलमति- विस्तरेण । 1 अत्रोच्यते —— प्रत्यक्षचिदचिद्विषयत्वेनाभिमतं सत्त्वं किं ब्रह्मसत्ताख्यम् ? सामान्यं वा ? नाद्यः । ब्रह्मणः “न चक्षुषा गृह्यते” इत्यादिना प्रमाणान्तरा- विषयत्वप्रतीतेर्विरोधात् । दृश्यत्वाङ्गीकारश्च त्वद्दर्शनविरुद्धः । तदङ्गीकारे च तव मुक्तौ दृश्यत्वेन मिथ्यात्वापातः । नापि द्वितीयः । सर्षपमहीधरादिषु अनुवृत्तैकप्रतीतेर्दुर्लभत्वात् तत्सामान्यासिद्धेः तदङ्गीकारेऽपि तस्य सामान्यत्वेन व्यक्तिनिवृत्तावग्रहणात् । तस्य च व्यक्तिपर्यन्तत्वात् सामान्यमात्रग्रहणमनुपपन्नम् । तत्संभवे च व्यक्तिविधुरप्रदेशेऽपि ग्रहणापत्तिः । सामान्यस्य 2 सर्वगतत्वनित्यत्वयोरङ्गीकारात् । तस्यैव ग्राह्यत्वेऽपि न ब्रह्माद्वैत- सिद्धिः तयोर्भिन्नत्वात् । न च सामान्यस्य ब्रह्मत्वम् ; ब्रह्मणः सर्वभ्रमाधिष्ठानज्ञप्त्यानन्द- स्वभावाभिधानात्, इतरस्य चान्याश्रयत्वादचेतनत्वात्, अनानन्दस्वभावत्वाच्च विरुद्धस्वभावत्वात् । न च सत्तैव ब्रह्म; तस्याश्चान्याश्रितत्वभ्रान्तिरिति १ विकल्पासहत्वात् । किं दृष्टृभ्रान्त्या वा ? सङ्क्रान्त्या वेति । नाद्यः ।
- एवमद्वैतपक्षो विस्तरेणानूदितः । अथ प्राभाकरस्तं खण्डयति- अत्रोच्यत इति ।
- सर्वगतेति । नित्यमेकमनेकानुगतं सामान्यम् । न चैकप्रदेशस्थिते एकस्मिन् गवि स्थितं गोत्वं प्रदेशान्तरस्थेऽन्यस्मिन् गवि वर्तितुमर्हति, यदि मध्यदेशे तत् अनवस्थितं स्यात् । एवमपि मध्यदेशे अयं गौरिति न धीः, गोव्यक्तेरेव तढ्यञ्चकत्वादिति ह्यङ्गीकृतमिति भावः । ४. वाक्यार्थप्रदीपः ५५ सव्यतिरिक्तद्रष्ट्रङ्गीकारे नाद्वैतसिद्धिः । नापि द्वितीयः; तस्य द्रष्टृत्वादि- विरहात् भ्रान्त्यनुपपत्तेः । न च तस्यैव भ्रान्त्या द्रष्टृत्वमिति ; द्रष्टृत्वसिद्धौ भ्रान्तिसिद्धिः; एतत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रयणात् । न च कार्यकारणभावेनानादित्वान्न विरोध भ्रान्त्या द्रष्टृत्वस्यायथार्थत्वसिद्धावेवैतत्परिहारत्वात् । न चाद्वैत- श्रुत्यन्यथानुपपत्या तत्कल्पनमिति; अन्यथोपपत्तेर्वक्ष्यमाणत्वात् । इति; किंच सत एव विषयत्वेऽर्थभेदनिमित्तप्रवृत्तिवैकल्यम्; सर्वप्रमाणानां गृहीतग्राहित्वं च । ततो वेदान्तानामनुवादलक्षणमप्रामाण्यं स्यात् । अतो भेदप्रतीतेरिन्द्रियान्वयव्यतिरेकानुविधायित्वेन भेदोऽनन्यथासिद्धः । सच्छब्दप्रवृत्तिनिमित्तं तु सर्वत्र प्रमाणग्राह्यत्वेोपाधिः । न च प्रत्यक्षस्य विधायकत्वेन न भेदविषयत्वमिति; विकल्पासहत्वात् । किं विधायकत्वं प्रवर्तकत्वं बोधकत्वं वेति । नाद्यः ; ग्राह्यस्त्रेनाभिमतसत्तायाः प्रवर्तकत्वानुपपत्तेः ; घटपटादिभेदधिय एव प्रवर्तकत्वात् ; सत्तायाः सर्वत्र सुलभत्वादकार्यकरत्वाच्च । न हि तया जलाहरणादि । नापि द्वितीयः । प्रत्यक्षस्यं बोधस्वरूपत्त्रेन बोधकत्वानापत्तेः । अथ विषयस्फुरणकरत्वाद्बोध कारणत्वमिति; न; यथास्फुरणं हि विषययोगि कार्यम् । स्फुरति चेदमित्यमिति, न तु सन्मात्रम् | तदङ्गीकारेऽपि न च ज्ञानकरणमेव प्रत्यक्षमिष्टम् भेदबोधकत्वे तु न विरोधः । न च सद्वस्तुस्वरूपापक्षयान्न भेदविषयते ति; घटादिवस्तुव्यतिरिक्तस्य सदाख्यस्य वस्तुनो दुर्निरूपत्वस्योक्तत्वात् । सुनिरूपत्वेऽपि रूपरूपैकार्थसमवेतवस्तुविषयत्वाच्चक्षुरादेः, त्वदभिमतसत ब रूपैकार्थसमवेतत्वादिविरहाद्विषयत्वमनुपपन्नम् 1 तत्समवेतत्वाङ्गीकारे व रूपरूपितत्समवेन सत्प्रतीतिजनकतया न सन्मात्रप्रतीतिः । न च वस्तुतः समवेत- स्वेऽपि सन्मात्रस्यैव विषयत्वमिति, समवेतविषयस्याश्रयिपर्यन्तत्वात् । आश्रयनिष्ठ- तयैव हि घटादिसामान्यप्रतीतिः । धीहि ‘घटः पटः’ इति । न तु ‘सत् सत्’ इति । न च घटोऽस्ति, पटोऽस्तीत्यादौ सतोऽनुवर्तमानतया घटादेर्नि- वर्तमानतया चानुवर्तमानतयैव परामार्थ्यम्; न तु रजौ व्यावर्त-
- “आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः” इति मण्डनवचन- मत्रानुसं धेयम् । ५६ नयधुमणिः मानसंर्पाम्बुधारावद् व्यावर्तमान घटादेरिति; व्यावर्तमानत्वस्य मिथ्यात्वाप्रयोजक- त्वात् । किंतु मिध्यात्वं देशकालादिप्रतिपन्नेोपाधावेव बाधाव्यवहारस्य । किंच सत्यज्ञानादिपदैरेकस्य ब्रह्मणो व्यावर्तमानत्वमस्ति वा? न वा ? आधे घटपटादिवद् ब्रह्मणो मिध्यात्वम् । द्वितीये तु नातत्त्वेभ्यो व्यावृति: ; अपसिद्धान्तश्च । न च ब्रह्मणो व्यावर्तमानत्वेऽपि सर्वत्रानुवृत्तेर्न मिध्यात्वमिति । जलादीनामप्यतत्त्वेन व्यावर्तमानत्वेऽप्यनुवर्तमानत्वात् पारमार्थ्यापत्तेः सत्सदितिवद् ब्रह्मव्यतिरिक्तेषु असदसदित्यनुवर्तनीयत्वात् । पक्षे असत्वादेव हि सर्वस्य व्यावृत्तिः । अथासदित्यनुवर्तमानत्वेऽप्यतत्त्वेन तेषां मिध्यात्वमिति । तर्ह्यतत्त्वस्यैव मिथ्यात्वप्रयोजकत्वमुक्तम् ; न तु व्यावर्तमानत्वस्य । तखं च प्रतिपन्नोपाधौ बाधार्हव्यवहारत्वम् । न तु स्वरूपस्य ज्ञानस्य वा बाध्यत्वम् ; शुक्तिकायां रजतस्य सत्त्वात् 2 | न च विधिव्यापारं प्रत्यक्षमित्येवास्मदभिमतम्, न तु विधायकमिति; विकल्पासहत्वात् । किं विधेर्व्यापारवयापारो यस्येति, विधिरूपो व्यापारो यस्येति वेति ? आद्ये न पूर्वोक्तदोषान्मुक्तिः । विधेर्व्यापारस्याज्ञातज्ञापनाप्रवृत्त- प्रवर्तनात्मकत्वात् । नापि द्वितीयः, अज्ञातज्ञापनत्वादिव्यतिरेकेण विधेः रूपा- न्तराप्रसिद्धेः । अथेदंतया प्रकाशनं विधिः ; ‘अयमस्माद्भिन्नः’ इति व्यावर्त- मानतया प्रकाशनं व्यवच्छेद इति । न हि तर्हि भेदाविषयत्वम् ; घटादावि- दंतया विहितत्वात् । व्यवच्छेदश्चार्थसिद्धः ६ घट इति प्रतीतौ पटादि- ब्यवच्छेदसिद्धेः । अत एव हि तेन जलाहरणादिविशेषक्रिया । विशेषव्यव- च्छेदापेक्षायां तु प्रतियोगिविशेषापेक्षा । अन्यदा तु पटादिप्रतीतावपि विशेषेण व्यवच्छेदोऽप्यर्थसिद्ध एव । विधायकत्वेऽपि सर्वप्रमाणानां सावधारण- त्वस्यार्थसिद्धत्वात् । यदि इदंतया प्रतिभासे व्यवच्छेदो नार्थसिद्धः, तदा तदर्थिनः तदातनप्रवृत्तिर्न स्यात् ।
- अतत्त्वेन ; अतत्त्वतया ।
- सत्त्वादिति । इदं च सिद्धान्ते पञ्चीकरणादिना रजतांशस्थित्यभ्यु- पगमात् । अत एव ज्ञानस्य स्थितविषयकस्य बाघसंभवः । व्यवहारबाधमात्रं हीष्यते । प्राभाकरमतेऽपि सर्वे ज्ञानं यथार्थमिति न ज्ञानबाधः । ४. वाक्यार्थप्रदीपः ५७ न चान्यवस्त्वसिद्धेर्न व्यवच्छेद इति ; विलक्षणप्रत्यक्षादिबुद्धेरेवान्य- वस्तुसिद्धेः । विलक्षणा एव हि घटपटादिधियः । यदि तद्धियां मिथ्याविषयत्वम्, तदा सद्बुद्धेरपि मिथ्याविषयत्वं वक्तुं शक्यम् । न च निरधिष्ठानभ्रमो न संभवति ; त्वत्पक्षे दुष्टत्वादिविरहे भ्रान्त्युपपत्यादि- वच्छून्यपक्षस्यापि युक्तत्वात् । किंच स्वदुक्तयुक्तिप्रमाण बुद्धीनामस्मदुक्तयुक्तिभ्यो वैलक्षण्यमस्ति वा, न वा ? अस्ति चेत् विलक्षणार्थसिद्धिः; बुद्धीनां निराकारत्वाङ्गीकारात् । अर्थेनैव विशेषो यतः । द्वितीये तु युक्त्यादिप्रवृत्तिवैफल्यम् । अतो विधायकत्वेऽपि तानि भेदविषयाण्येव । न च भेदस्य वस्तुस्वरूपत्वात् प्रत्यक्षस्य क्षणिकत्वेऽपि वस्तुग्रहानु- पपत्तिः; जात्यादेः क्षणिकग्राह्यत्वात् तद्धियोऽपर्यवसानादेव व्यक्तेरपि विषयत्वम् । विलम्बस्तु प्रतियोगिविशेषापेक्षयेत्युक्तम् । घट इति व्यवहारे सर्वस्माद्भेदव्यवहारः सिद्ध एव । प्रतियोगिव्यपेक्षया च, अयमस्माद्भिन्न इति व्यवहारोऽपि युक्तः । न च वस्तुस्वरूपस्यैव भेदत्वे न प्रतियोग्यपेक्षेति; अयमस्माद्भिन्न इति प्रतीतिव्यवहारस्वभावादेव तत्सिद्धेः । घटादिभेदमात्र- प्रतीतेर्न प्रतियोग्यपेक्षापि । न च भेदस्य स्वरूपत्वे घटादिपर्यायतेति; अद्वैतपक्षेऽपि समत्वात् । किमभेदो ब्रह्मणः स्वरूपम् ? धर्मों वा ? आधे येन केनापि ब्रह्मप्रतीतौ तद्व्यवहारवत् सर्वस्मादभेदव्यवहारापत्तिः । अभेदस्य स्वरूपत्वादेव न प्रतियोग्यपेक्षापि । केनचित् कस्यचिदभेदस्य साध्यत्वे प्रतियोग्यपेक्षास्त्येव । ब्रह्मपर्यायता चाद्वितीयपक्षस्य । तदा चाद्वितीयं ब्रह्मेति पदद्वयवैयर्थ्यम् । नापि द्वितीयः; अद्वैतासिद्धेः । न चावास्तवस्तद्धर्म इति ; भेदस्यैव वास्तवत्वापत्तेः । अस्माकं तु पर्यांयत्वेऽपि सर्वपदार्थसाधारणत्वेनाविशेषकत्वात् पृथिव्यादेर्द्रव्यादिसंज्ञावत् । अत एव हि पृथिवी द्रव्यमितिवद् घटो भिन्न इति व्यवहारः । भिन्न इति व्यवहारस्तु भेदनिर्वर्तकपृथक्त्वादिधर्मयोगित्वेन । अद्वैतपक्षे तु ब्रह्मणो धर्मान- ङ्गीकारान्न कथंचिदप्युपपत्तिः । अद्वितीयादिशब्दानां सद्वितीयत्वादि- निषेधद्वारा ब्रह्मपरत्वान्निषेधस्य निषेध्यापेक्षत्वात् स्वरूपनिषेधस्य चायुक्तत्वा- दनङ्गीकृतत्वाच्च कचिन्निषेधे ब्रह्मव्यतिरिक्त कृत्स्नप्रपञ्चापलापोऽसिद्धः । 8 ५८ नयद्युमणि: “यश्व कार्यवाक्यार्थवाद्युक्तार्थाक्षेपः - विधातृ प्रत्यक्षं रूपं रूपतया रसं रसतया विधत्ते ; न पुनः सर्वमेकतयेति । तदयुक्तम् । तत्किं विधायकं व्यवच्छेदकमिति विप्रतिपत्तौ ‘रूपं रूपतया विधत्ते’ इत्युपन्यासः प्रकृतानुपयो- गादनर्थ इति — तन्न ; विधायकत्वाङ्गीकारेण भेदस्य विषयत्वसाधनात् प्रकृतोपयोगात् । सन्मात्रविषयत्वसाधनमेव हि प्रक्रान्तम् । रसरूपादयो हि विशेषा एव । रसत्वेन भाने भेदविषयत्वं साधितमेव । सर्वस्यैकस्वरूपत्वा- भानोक्त्या चाद्वैतभक्तो निराकृतः । स्वर्गकामादिवाक्यानां नियोज्यविषयान्वितकार्यपरत्वेन तत्तत्कार्यस्य च स्वरूपानुष्ठेययागादिसाध्यदुरनुष्ठानत्वबाधनमुखेन न ब्रह्मपरता । न च तद्वाक्येषु दुरनुष्ठानत्वप्रतीतिः । श्रुतेरपि कार्यैकपरत्वान्न सिद्धब्रह्मणि प्रामाण्यं च च । न च पुत्रजन्मादिवाक्येषु सिद्धार्थव्युत्पत्तिः । मुखविकासादे ईर्षहेतोः पुत्रजन्म- वाक्यानन्तर्येऽपि सुखप्रसवादेरपि व्युत्पित्सु दृष्टत्वेनानुपपत्तेः । सुखप्रसवादि - हर्षहेतुस्त्वनेकः कॢप्तः 1 अतो नाद्या व्युत्पत्तिः सिद्धार्थ इति । प्रसिद्धार्थसमभिव्याहारेष्वपि व्युत्पत्तिपूर्विकैवेति न सिद्धपरता शब्दस्य । अतः कार्यपरत्वानङ्गीकारे श्रुतेरनत्रबोधकतैव । न च शाब्दव्युत्पत्तेरिदंतादिविज्ञानपूर्वकत्वात् सिद्धपरतैवेति ; विकल्पा- सहत्वात् — इदंतादिविज्ञानं शाब्दम्, उत अन्यजमिति । आद्ये तद्विज्ञानस्य शब्दजत्वाविशेषादिदंतादिविज्ञान पूर्वकत्वे चानवस्थापातः 1 न च केवलेदंतादिपरत्वेनान्यनिरपेक्षं शाब्दव्युत्पत्तिः; लिङ्गाभावेन व्युत्पत्यसंभवात् । न हि घटमात्रे व्युत्पत्तिः ; चेष्टादिलिङ्गतोऽन्वित एव व्युत्पत्तिः । द्वितीये तु शास्त्रार्थत्वेनाननुभूतः प्रमाणान्तरप्रतिपन्नेदमाद्यर्थो न शाब्दः स्यात् । न हि प्रथमं प्रमाणान्तरतः प्रतिपन्नमित्येतावता शाब्दता । किंच अनेकपदात्मकशास्त्रस्यानेकपदार्थान्वित एव प्रमाणान्नाद्वैतसिद्धिः । न च ‘नेति नेति’ इति सर्ववस्तुनिषेधादद्वैतमिति । मूर्तमूर्ततया प्रतिपादितमात्रार्थत्वात् तस्य । अस्तीतिवन्नास्तिपदान्वययोग्यत्वान्निषेधे च नात्यन्तनिषेध इत्युक्तम् । प्रपञ्चः सत्यतया प्रत्यक्षतः प्रतीयते । शत्वात् न च प्रत्यक्षादेर्विषयादिदोषदुष्टत्वे सावकाशत्वान्निर्दोषाद्वैतश्रुतेर्निखका - प्राबल्यमिति; अद्वैतश्रुतेरपि श्रावणप्रत्यक्षत्वात् तस्य च ४. वाक्यार्थ प्रदीपः ५९ विषयादिदोषदुष्टत्व संभावनायास्त्वयैवोक्तत्वात् मिध्यात्वापातात् । वेदप्रमेयत्वेनाभिमताद्वैतस्यापि न च वेदाख्यकरणस्य स्वतो न दोष इति नाप्रामाण्यमिति ; प्रत्यक्षादेरपि समत्वात् । न च शुक्तिकारजतादौ व्यभिचारो दृष्ट इति सर्वप्रत्यक्षादौ तच्छङ्केति; वेदेऽपि तदविशेषात् अङ्गुल्यग्रादिवाक्यवद्वेद- वाक्येऽपि व्यभिचारशङ्कासाम्याच्च । न चापैरुिषेये वेदे न दोषशङ्केति; अपौरुषेय- स्याकृतकात्मकत्वाद् ब्रह्मणश्चापि तथात्वाद् दोषमूलभ्रान्त्यभावापत्तेः । वेदस्य च निर्दोषत्ववास्तवत्वाङ्गीकारे च न ब्रह्माद्वैतम् । यच्चाद्वैतस्य बाधकप्रत्ययाभावात् न मिध्यात्वमित्युक्तम्, तन्न; तदभावस्यासिद्धत्वात् । न हि सिद्धं तज्ज्ञानमबाधितमिति । शून्यवाक्यं च बाधकमिति । अत एव शून्यवाक्यवद्वेदवाक्यास्यापि दोषमूल- त्वमङ्गीकृतम् । न चाद्वैतश्रुतेः सर्वनिषेधत्वेन परत्वात् प्राबल्यमिति; सर्वनिषेधस्य “लब्धरूपे कचित्किचित्तादृगेव निषिध्यते” इति चदता’ त्वयैव परित्यक्तत्वात् । न च निषेधकत्वेन परत्वात् प्राबल्यमिति ; ‘न हिंस्यात् ’ इति शास्त्रस्य निषेधत्वेऽपि वैधालम्भाबाधकत्वात् । न च हिंसानिषेधालम्भविध्योः स्मृतिश्रुतित्वान्न बाध्यबाधकत्वमिति; “ब्राह्मणाय नापगुरेत्” इत्यनेन ‘ब्राह्मणमालभेत’ इत्यस्य बाध्यत्वापत्तेः । तच्छास्त्रयोः 2 सामान्यविशेषविषयत्वेन बाध्यबाधकत्वम् ; अत्र तु भेदनिषेधो विशेषविषय इति प्राबल्यमिति तु न; प्रत्यक्षादेर्वेदस्य विशेषविषयत्वात् । प्रत्यक्षादि च रूपादिविशेषविषयम् । वेदोऽपि चाग्निहोत्रादिकार्यविशेष- बिषयः ।
- शून्येति । सर्वे शून्यमिति बौद्धवाक्यमित्यर्थः ।
- सामान्येति । सामान्यस्य निषेधः ; विशेषस्य विधिरिति वैलक्षण्यान बाध्यबाधकभावः । अत्र तु भेदनिषेधो भेदाख्यविशेषविषयः ; न तु सामान्यविषय इति भावः ।
- प्रत्यक्षविषय विशेषवेदप्रतिपाद्यविशेषरूपतत्तदपेक्षया मेदनिषेधः सामान्य- विषय इति तुल्यम् । तत्तद्विहितविशेषातिरिक्तपरत्वसंभवान्निषेधस्येति भावः । ६० नयधुमणिः न च - अपगोरणनिषेधस्य पुरुषार्थत्वात् आलमेतेत्यस्य क्रत्वर्थत्वान्न विरोधः ; प्रत्यक्षादेः प्रपश्चभेदविषयत्वादद्वैतश्रुते स्तन्निषेधपरत्वाश्च विरोध इति; अद्वैतश्रुतेर्ब्रह्मपरत्वात् घटादिविषयत्वात् प्रत्यक्षस्येति नैकविषयत्वमिति विरोधाभावात् । एकमेवाद्वितीयं ब्रह्मे ब्रह्मपरैव श्रुतिः । न च “नेह नानास्ति” इत्यादिभिरेकविषयत्वं प्रत्यक्षादेरिति ; तर्हि समबलयेोरेकविषयत्वेन नानात्व- निषधवत् " नित्यानाम्” इति नानात्वश्रुतेर्विकल्पापत्तिः । न च न तत्त्वे विकल्प इति ; प्रमाणाधीनत्वात् प्रमेयसिद्धस्तत्प्रतिपन्नस्य ग्रहणाग्रहण- वद्विरुद्धस्यापि स्वीकार्यत्वात् । न चानुष्ठानस्य विकल्पो युक्तः, न तत्त्वस्येति । अनुष्ठाने विकल्पे विशेषत्वे’ समुच्चयादुभयमपीह कार्यशेषः । अत्रापि परमार्थत ऐक्यं भेदश्चास्तु । सत्वाकारेणैक्यं घटाद्याकारेण च भेद इति न किञ्चिद्धीनम् । न च तत्त्वे द्वैरूप्यं न युगपद् दृश्यत इत्यन्यतर- बाघ इति; तर्हि प्रत्यक्षादिविरोधे ग्रावप्लवनादिवाक्यवद् वेदस्यार्था- नवबोधकत्वादद्वैतश्रुतेरेव बाध्यत्वम् । अतः प्रत्यक्षप्राह्यव्याप्तिकानुमानतोऽनेकपदार्थविशिष्ट कार्यपरत्वव्युत्पत्स्यनु- सारतो भेदस्यैव वेदार्थत्वात् तदविरोधेनाद्वैतश्रुतरर्थवर्णनोचिता । । ; सा चैकत्वश्रुतिरेकस्मिन् देहे एक एवात्मेत्येवंपपरा | नानात्वनिषेध - श्रुतिरात्मनोऽनेकदेहपरिग्रहेऽप्येक एवात्मेत्येवमर्थपरा । “नेति नेति” इति श्रुतिर्देहादेरात्मत्वनिषेधपरा । " विज्ञानघनः” इत्यादयो जीवस्य पृथिव्यादितो भेदज्ञानाय चिच्छक्तियोगप्रतिपादनपराः तस्यागन्तुकचैतन्यस्वभावत्वात् ; तच्च सुषुप्त्यादौ ज्ञानानुपलब्धेः । आनन्दगुणवादश्रुतयः स्वाभाविकदुःखा- भावपराः । निर्गुणत्वश्रुतयश्च बुद्धयादिनवगुणाभावपराः । / " सर्व खल्विदम् " इत्याद्याश्वतरेतरापृथक्सिद्धत्वार्थत्वपराः 1 एक विज्ञानेन सर्वविज्ञानश्रुतिरात्मज्ञानस्य परमपुरुषार्थमोक्षपरत्वात् तद्व्यतिरिक्त सर्वज्ञानानां कृतार्थत्रपरा । एवं यज्ञादिकृदात्मस्वरूपप्रतिपादनपरा वेदान्ताः ।
- ग्रहणाग्रहणेति । अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति इति विधिनिषेधयोः समानविषयत्वेन विकल्पस्वीकारादिति भावः ।
- विशेषत्व इति । एकस्मिन् प्रयोगे द्वयोर्ग्रहणस्य विकल्पस्थलेऽ- भावेऽपि, प्रयोगविशेषे एकत्र तत्, अन्यत्र तदभाव इति विशेषस्थितेः सामान्यतः कर्मणि ग्रहणाग्रहणसच्चय इति हि सुवचमिति भावः । ४. वाक्यार्थप्रदीपः ६१ यच्च – यत् प्रकाशते तत् प्रकाशदिभिन्नम्, प्रकाशात्मकं च ब्रह्मैवेति सर्व ब्रह्मात्मकमित्यद्वैतसिद्धिरित्युक्तम् — तन्न; नानाभूतपदार्थात्मकतयैव प्रकाशमान- स्वात् ; प्रकाशप्रकाश्ययोरभेदेऽपि प्रकाशनानात्वादद्वैतासिद्धेः । प्रकाश- प्रकाश्ययोरपि नैक्यम् ; ज्ञानतया विषयतया च विवेकात् । न चानाद्यध्यासान्नानात्वभानस्य मिथ्यात्वमिति; विकल्पासहत्वात् । नानात्वस्य आविद्यत्वम् ? भानस्य वा ? विशेषस्य वा ? नाद्यः ; प्रतिपन्नोपाधाव- बाधात् । नापि द्वितीय: ; अनङ्गीकारात् । एतेन तृतीयोऽपि निरस्तः । किंच अध्यस्यमानपदार्थसदृशोऽर्थोऽध्यासात् पूर्वं ब्रह्मणो दृष्टो वा ? न वा ? आद्ये अपसिद्धान्तः । द्वितीये त्वसतोऽदृष्टस्याध्यासोऽनुपपन्नः, अदर्शनात् । अनादित्वकल्पनापि दृश्यमानभ्रान्तिपरिकरविरुद्धार्थकल्पनाया अनुपपन्नत्वाद् दुष्टा । मिथ्यावादिना तु ब्रह्मव्यतिरिक्तं न किंचिदप्यङ्गीकृतम् । यत्तु सर्वप्रमाणानां स्वार्थप्रमापकत्वे तु न प्राथम्यचारम्यमिति । " शृणोत ग्रावाणः” इत्यादिना ग्राव्णां श्रवणसामर्थ्यप्रतीतेः प्रत्यक्षात्तदप्रतीतेः प्रतीतिविरोधेऽपि बाध्यबाधकत्वाभावापत्तेः । गौणार्थवर्णनं तु प्रत्यक्षस्य प्राथम्या- ज्ज्यैष्ठथेन । व्युत्पत्तिद्वारापि प्रत्यक्षसापेक्षा श्रुतिरिति प्रत्यक्षं बलीयः । प्रत्यक्षाश्रिता च श्रुतिः प्रमाणमिति सापेक्षा । उत्पत्तौ यदपेक्षा भवति न पुनरेतद्वाधते ; स्वहानिप्रसङ्गात् । न च शुक्तिकारजतादिप्रतिभासस्येन्द्रियदोषानुमानहेतुत्वेऽपि तदनु- मानबाध्यत्वं दृश्यत इति ; नेदं रजतमिति बाधधिय एव तद्दोषानुमापकत्वेन मूलत्वात् । न हि तत्र रजतप्रतिभासस्तद्दोषानुमानहेतुः । तन्न ; यच्च वेदस्यैव सर्वजगत्प्रभवहेतुत्वेन नित्यत्वात् तत्प्राथम्यमिति, इदानीमिव जगत्प्रवृत्तेरत्यन्तोच्छेदाभावात् । युगपत्सृष्टिप्रलयाभावे वेदस्यातद्धेतुत्वेनाप्राथम्यात् । प्रत्यक्षादेरप्यनादित्वादविशेषाच्च । युगपत्सृष्टया दि- श्रुतिस्त्वात्मज्ञानस्तुतिपरा । यच्च प्रत्यक्षादिश्रुतिरतस्त्रावेदकत्वेन प्रातीतिकलौकिकवैदिकव्यवहाराङ्ग- मात्रमिति — तन्न; सर्वश्रुतीनामपि तथात्वापत्तेः ; अद्वैतश्रुतेरपि कर्माङ्ग- श्रुतिवत् श्रुतित्वाविशेषात् प्रमाणत्वाविशेषाच्च एवं च नाद्वैत- श्रुतेरन्यथानुपपत्तिः । ६२ नयद्युमणिः अतः प्रत्यक्षादिप्रमाणप्रतिपन्नार्थानामपि यथार्थता । विरोधे च प्रत्यक्षादेर्बलीयस्त्वम् ; अव्यवहितत्वात् । लिङ्गादिव्यवहितमनुमानादि । अतः श्रुतिलिङ्गादिवत् पूर्वप्राबल्यात् तदविरोधेनार्थवर्णना । न च भेदश्रुतीनां साध्यसाधनमात्रोपक्षयात् लेाकसिद्धो भेदोऽनूयत इति; स्वर्गादिभेदानामलौकिकत्वेनानुवादानुपपत्तेः ; प्रत्यक्षादिर्विधायक इति स्वमतविरोधाच्च । एवं सर्वैश्रुतीनां कार्यैकार्थपरत्वान्नार्थभेदाच्च शास्रद्वैविध्यम् | सर्वविज्ञानानां च याथार्थ्यमिति ख्यातिनिरूपण उक्तम् । यच्च दृश्यत्वात् प्रपञ्चमिथ्यात्वमिति, तन्न विकल्पासहत्वात् । किं दृश्यत्वं प्रमाणगम्यत्वम् ? किं वा जडत्वम् ? उत कार्यत्वम् ? अनिर्वचनीयत्वं वा ? आद्ये ब्रह्मणोऽपि मिथ्यात्वं स्यात् । ब्रह्म हि जीवात्मैव । तस्याप्यर्थत्रित्तिषु भासमानत्वेन प्रत्यक्षत्वात्, वेदान्तगम्यत्वाच्च । न च वेदान्तानामतद्व्यावृत्या प्रामाण्यम्, न तु ब्रह्म स्वरूपेण तत्प्रमेयमिति; प्रमाणान्तरानवगम्यत्वाभिमानाद्ब्रह्मणः । केनचिद्वाक्येन प्रतिपाद्य तद्व्यावृत्ते - र्वाच्यत्वात् प्रमेयत्वसिद्धेः । न च स्वयंप्रकाशत्वान्न प्रमाणगम्यत्वापेक्षमिति; वेदान्तानामतत्परवा- पातात् । ब्रह्मणो जगत्प्रतिभासमानत्वरूपभ्रान्त्यभावापाताच्च । न हि स्वयं- प्रकाशमानत्वे भ्रान्त्युपपत्तिः । न तु शुक्तिप्रकाशे रजतभ्रमः । न चातद्व्यावृत्त्या प्रामाण्योपपत्तिः ; अव्युत्पत्तेः । न च रज्जुगतसर्पत्वधिया धावतः कस्यचित् पुरुषस्य नायं सर्पों रज्जुरेवेत्याप्तवाक्यश्रवणानन्तरं स्थित्यादिभिर्भीतिनिवृत्ति- हेतुसर्पेतरत्वबोधनायायं शब्दः प्रवृत्त इति व्युत्पित्सोर्व्युत्पत्तिः सुशकेति ; भीतिनिवृत्तिहेतुनिश्चेष्टत्वादेरपि दृष्टत्वेन कुप्तत्वात् सर्पेतरत्वज्ञानस्य शाब्दत्व- कल्पनानुपपत्तेः । स्वयंप्रकाशत्वेऽपि तदुद्दिश्य बृहत्त्वादयो वाच्या इति दृश्यत्वाद् ब्रह्मणोऽपि मिथ्यात्वापातात् ।
- गम्यत्वापेक्षमिति । दृश्यत्वं न प्रमाणगम्यत्वनिबन्धनमित्यर्थः । प्रमाणगम्यत्वमिति वा पाठ्यम् ।
- निश्चेष्टत्वादेरपीति । निश्येष्टमिदम्, निर्विषमिदमिति बोधे सति सर्प इति ज्ञानेऽपि भीत्यभावदर्शनादिति भावः ।४. वाक्यार्थ प्रदीपः ६३ किंच पृथिव्यादिप्रपञ्चस्याबाधित प्रत्यक्षसिद्धत्वाद्धेतुः कालात्ययापदिष्टः । न चोष्णजलवत् देहात्मभानस्याबाधित प्रत्यक्षसिद्धत्वेऽपि भ्रान्तित्वं दृश्यत इति । तदौण्यस्याग्निसंयोगान्वयव्यतिरेकानुविधायित्वात् । देहस्य चापचयादि- युक्तत्वेन प्रतिदिनं कार्यान्तरत्वेनान्यत्वात् तस्यात्मत्ये पूर्वदिनाद्यनु- भूतस्मृत्यनुपपत्तेरिति यौक्तिकबाधात् । प्रपञ्चप्रतीतेस्तु न किंचि- दप्यौपाधिकत्वशङ्का ; प्रतिपन्नोपाधावबाध्यत्वात् । ननु बाधयोग्यत्वमेव बाध्यत्वम्, तत् पृथिव्यादावप्यस्तीति – तन्न; तद्योग्यत्वानवगमात् । न च तद्योग्यत्वमेवानुमानात् सिध्यतीति : मिथ्यात्वस्यैव साध्यत्वाभिमानात् । न च मिथ्यात्वे बांध्यत्वं स्वतः सिध्यतीति G बाध्यत्वादेव तत्सिद्धेः । अतो दृश्यत्वमप्रयोजकं मिध्यात्वे । बाध्यत्वं च प्रतिपन्नोपाधौ व्यवहारस्यैवेत्युक्तम् 1 अतो दृश्यत्व मिथ्यात्वयोर्न वादिसंप्रतिपत्तिरिति दृष्टान्तः साधनविकलः । रजतज्ञानस्य पूर्वानुभूतरजत- विषयत्वेन स्मृतित्वात् तस्य च सत्यत्वात् साध्यविकलश्च दृष्टान्तः । पृथिव्यादि - प्रपञ्चः सत्यः दृश्यत्वादात्मवदिति प्रकरणसमश्च । न च दृश्यत्यमात्मनोऽसिद्धमिति ; प्रवृत्तिविशेषेण ज्ञानानुमानद्वारा तत्समवायिन आत्मनोऽनुमेयत्वात् । 1अर्थवित्तिषु भासमानत्वेन प्रत्यक्षत्वात् । अहं जानामीत्यादौ स्फुरत्येवात्माहमिति । अतः प्रमाणगम्यत्वरूप दृश्यत्वानुमानं न प्रपञ्चस्यासत्यत्वे । एवं जडत्वकार्यत्वपक्षात्रपि ; बाध्यत्वस्यैव मिथ्यात्व प्रयोजकत्वात् । 2 तान्यपि च मिथ्यात्वेनाभिमतानि । जडत्वाभिमानस्यास्य प्रपञ्चान्तर्गतत्वान्मिथ्यात्वापत्तौ जगतः सत्यतापातः । अतिव्याप्य्यादेर्दोषाभावापत्तौ सर्वत्र तस्य दोषाभाव- प्रसङ्गाच्च । प्रपञ्चत्वाकारेणानुमानस्य स्वविषयत्वमप्यस्त्येव । प्रपञ्चत्वेऽपि मिथ्यात्वासाधनत्वेऽनैकान्त्यम् । न चानुमानान्तरेण तदनुमानस्य मिथ्यात्वान्न दोष इति; अनुमाना- न्तरात् पूर्वानुमानानैकान्त्यापरिहारात् । तत्परिहार सिद्धावप्यनवस्था ; तदनु- मानस्यापि स्वव्यतिरिक्तानुमानमिथ्यात्वसाधनपरत्वात् । तस्य मिथ्यात्वानुमान-
- अर्थवित्तिष्विति । ‘घटमहं जानामि’ इत्येवमाकारिकाः खल्वर्थवित्तयः प्राभाकरमते सिद्धान्ते चेति भावः ।
- तान्यपीति । जडत्वकार्यत्वादीन्यपीत्यर्थः । ६४ नयद्यमणिः साधनान्तरापेक्षत्वात् । प्रथमानुमानेनैवानुमानान्तराणामपि मिध्यात्वसिद्धेः तेषां प्रथमानुमानमिथ्यात्वासाधकत्वाच्च । जगत: न चानुमानव्यतिरिक्तप्रपञ्च एव पक्षत्वेनाभिमत इति । अनुमानानां सत्यत्वे नाद्वैतसिद्धिः । अनुमानान्तरात् तन्मिथ्यात्वसाधने च पूर्वोक्ता अनवस्था । बुभुत्सापूर्वकत्वादनुमानप्रवृत्तेर्नीनवस्थति चेत् —न ; सर्व मिथ्यात्व व्युत्पित्सोस्तदव- स्थितौ बुभुत्साया एवानवस्थितेः । अतो जडत्वहेतोः स्वमिथ्यात्वसाधकत्वे सत्यत्वम् ; तदसाधकत्वेऽनैकान्त्यम् ; अनुमानान्तरात्तत्साधने चानवस्थेत्येतैर्देाषैर्गृहीतं मिथ्यात्वसाधकं दृश्यत्वानुमानं न स्पन्दितुं क्षमम् । कार्यत्वहेतुश्च प्रपश्चान्तर्गत काशकालदिशाममूर्त सर्वगतद्रव्यत्वेनात्मव- न्नित्यत्वाद्भागासिद्धः । आकाशादेरुत्पत्तिश्रुतिश्च मुख्यार्थासंभवादात्मस्तुतिपरा । अनिर्वचनीयत्वस्य स्वरूपेणासिद्धत्वात् तत्पक्षोऽपि निरस्तः । अतः साध्यसाधनविकलो दृष्टान्तः । न च ख्यातिभ्रान्तिबाधानामन्यथानुपपत्त्या शुक्तिकारजतादेरनिर्वचयी- यत्वं साध्यत इति; तेषामन्यथोपपत्तेः ख्यातिप्रकरण उक्तत्वात् । किं चानिर्वचनीयमिध्यात्वयोरेकार्थत्वात् साध्याविशिष्टता च । प्रतीयमानत्वपूर्वक- बाध्यत्वमेव हि मिथ्यात्वमभिमतम् | अनिर्वचनीयत्वमपि तदेव । दूषणान्तराणि तु भाष्ये द्रष्टव्यानि । अतो नाखण्डार्थपरता कस्यापि वाक्यस्येति कृत्स्नो वेद: कार्यपर एवेति । 1 ननु स्फोट एव वाक्यार्थो युक्तः । वाक्यपरिगम्यो हि वाक्यार्थः । वाक्यं च न तद्बोधकम् । न च श्रोत्रग्राह्यवर्णात्मकपदानां वाक्यत्वादर्थज्ञानहेतुत्वम् ; वर्णतदर्थयोर्भिन्नदेशस्थत्वेनासंबन्धात् । न ह्यर्थासंबद्धानां तज्ज्ञापकत्वम् । चक्षुरादयोऽपि रूपादिसंबद्धा एव तज्ज्ञापकाः । अतस्तादात्म्यमेव वाक्य- तदर्थयोः । शब्दश्च वर्णातिरिक्तः; वर्णानामतिरिक्तार्थज्ञानहेतुत्वानुपपत्तेः । वर्णानां हि संबन्ध विशेषविशिष्टानां पदवाक्यव्यपदेश्यानामर्थप्रत्यायकत्वं वाच्यम् । तषां न संबन्धोपपत्तिः; उच्चारणक्रमानुसारित्वेन वर्णाभिव्यक्तेः क्षणिकत्वात् ।
निरस्तो निर्विशेषब्रह्माद्वैतिसंमतोऽखण्डवाक्यार्थपक्षः । अथ भर्तृहर्याद्य- भिप्रेतः शब्दाद्वैतपक्षोऽपि निरस्य इति तमनुवदति - ननु स्फोट इत्यादिनः । ४. वाक्यार्थप्रदीपः . ६५ न च वर्णधियामपि तथात्वात् संबन्धोपपत्तिः । तत्स्मृतीनामप्यनुभूति- समानत्वान्न साहित्यम् । न च संस्कारसाहित्यादेका वर्णेषु स्मृतिरित्युपपत्तिः ; व्युत्क्रमोच्चरितेष्वप्येकस्मृत्यापत्ते: 2 ; स्मृतानामेवार्थधहेतुत्वेनोच्चारणक्रमानुप- योगात् । अतः स्फोट एव भ्रान्त्या प्रकृतिप्रत्ययादिविभागेनार्यतया च नानात्वेन विवर्तते । ननु श्रोत्रग्राह्यत्वाद्वर्णानामेव शब्दता; अर्थानां च भेदेन वाच्यता च लोकसिद्धेति – न ; लोकसिद्धेः भ्रान्त्यान्यथोपपत्तेरुक्तत्वात् । गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमिति युगपदेकाभिधाननिर्देशात् सर्वस्यापि शब्दात्मकत्व- स्यैव लोकसिद्धत्वाच्च । न भिन्नानामर्थानामक्षरादिशब्दवाच्यानां युगपन्निर्देश्य- त्वम् । अतो लोकतोऽपि शब्दाद्वैतसिद्धिः । “एकमेवाद्वितीयम्” इति वेदान्ततोऽपि तत्सिद्धिः । अतः स्फोटाख्यः शब्दः स्वयंप्रकाशः । स एकोऽपि श्रोत्राद्युपाधिभेदात् मणिकृपाणदर्पणाद्युपाधिवशादेकस्यापि मुखस्य नानात्वप्रतीतिवद्भेदेन प्रतीयते । ननु श्रोत्रादिभेदः कथमिति ? तद्भेदः शब्दधीभेदधिया सिद्ध इति ब्रूमः । ननु तर्हि श्रोत्राद्युपाधिभेदात् शब्दधीभेदः एतत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रय इति ; एवमादिदोषस्याविद्यानुगुणत्वात् । ; ननु स्फोटाभिव्यक्तिरेकेन वर्णेन वा? अनेकैर्वा ? आधे, एकेनैव स्फोटस्याभि- व्यक्तत्वाद्वर्णान्तरवैयर्थ्यम् । न च भागशोऽभिव्यक्तिः, निर्भागत्वात् स्फोटस्येति दुर्घटत्वमिति 1 न; दुर्घटत्वस्यवाविद्या भूषणत्वात् । 64 दुर्घटत्वमविद्याया भूषणं न तु दूषणम्" इति । तदुक्तम् - शब्दः शब्द इत्येकप्रतीतिप्रयोगाभ्यां च तदद्वैतसिद्धिः । वेदप्रमाणादि- भेदव्यवहारोऽपरमार्थः । स्फोट एक एव परमार्थतस्तत्त्वमिति संक्षेप इति । 1
- तथात्वादिति । क्षणिकत्वादित्यर्थः ।
1 तथाच नदी दीन इत्यादौ समानवोधापत्तिरिति भावः । दुष्टत्वमविद्याया भूषणं न तु दूषणमिति भावः । 4. “ कथंचिद् घटमानत्वेऽविद्यात्वं दुर्घटं भवेत् । " इत्युत्तरार्धम् । इष्टसिद्धिस्थमिदं वचनम् । 6 ६६ नयधुमणिः एतदप्यनुपपन्नम् ; अखण्डवाक्यार्थसमत्वात् स्फोटवाक्यार्थस्यापि तन्नि- रासेनैव निरस्तत्वात् । एकेनैव पदेन स्फोटस्याभिव्यक्तत्वात् तस्य चैकत्वात् सर्वार्थाविभागाच्च सर्वेषां सर्वज्ञत्वापत्तिश्च । ‘क्षुरमोदकादिशब्दोच्चारणे मुखपाटन- पूरणाद्यापत्तिश्च ; अर्थतादात्म्याभिधानात् । श्रोत्रग्राह्यवर्णातिरिक्तशब्दसद्भावे च न प्रमाणम् । न च श्रोत्रग्राह्यस्यैव शब्दत्वे शब्दत्वसत्त्वजात्योरपि श्रोत्रग्राह्यत्वात् शब्दत्यप्रसङ्ग इति ; शब्दत्व संखजात्योर्दुर्निरूपत्वेनाभावात् । व्यक्तिग्रहणपूर्वकं पूर्वाकारावमर्श एव हि जातिसिद्धिः । न हि सर्षपमहीधरादिषु एकाकारावमर्शो गवादिष्विव । 2 शब्दप्रयोगस्तु प्रमाणग्राह्यत्वोपाधिकः । तथा ककारखकारादि- वर्णेष्वपि न पूर्वाकारावमर्शः । शब्दशब्दप्रवृत्तिस्तु श्रोत्रग्राह्यत्वोपधिकः ; वर्णोच्चारणान्वयव्यतिरेकानुविधायित्वाच्च शब्दप्रयोगप्रतीत्योः । वर्णानां च नानात्वाच्छब्दैक्यमसिद्धम् । न च शब्दार्थज्ञानानां युगपदेकाभिधाननिर्देशात् शब्दाद्वैतसिद्धिः, तेषामबाधितप्रत्यक्षेण भेदस्यैव सिद्धत्वात् । अर्थज्ञानयोः गौरिति शब्दाननु- विद्धत्वाच्च न शब्दत्वम् 4 । गौरित्यर्थ इत्युक्तम् ; न तु गोशब्दोऽर्थ इति । तयोरपि शब्दत्वे च अर्थज्ञानोक्तिवैयर्थ्यम् । गोशब्दस्यार्थपरत्वेन शब्द- परत्वाभावाच्च । अत एव हि गामानयेत्युक्तौ गवार्थानयनम् । युगपदेकाभिधा- ननिर्देशमात्रादैक्ये च यमकादौ गवादिशब्दानामिन्द्रियपृथिव्याद्यनेकार्थपरत्वेन निर्देशादिन्द्रियादरैक्यापत्तिश्च । अन्योन्याश्रयादिदोषस्याविद्यानुगुणत्वोक्तिरपि न ; उपपत्यनुपपत्त्योः सर्वत्रानिरूपणीयत्वापत्तेः । ततश्च, वर्णानां क्रमेणार्थप्रत्यायकत्वं युगपद्वे- त्यादिविकल्पतो दूषणोक्त्यादिवैयर्थ्यम् । न च वर्णानामनेकत्वात् युगपदेकोऽयं
- क्षुरेति । तदुक्तं न्यायदर्शने – “ पूरण प्रदाहपाटनानुपलब्धेश्च" इति । मोदकशब्दोच्चारणमात्रेण न मुखं मोदकेन पूर्यते; अग्निरित्युक्त्या न दह्यते; क्षुरेति शब्दप्रयोगे च न पाट्यत इति तदर्थः ।
- शब्दप्रयोगस्त्विति । सदिति शब्दप्रयोग स्त्वित्यर्थः I 1
- ग्राह्यत्वोपाधिक इति । सत्च्वं नाम प्रमाणसंबन्ध इत्यङ्गीकारादिति भावः । 4. “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते ||” इति तु स्वसंकेतकल्पनाविजृम्भितमिति हृदयम् | ४. वाक्यार्थप्रदीपः ६७ शब्द इति व्यवहारोऽनुपपन्न इति; एकार्थतोपधित एव व्यवहारोपपत्तेः । एकार्थतोपाधित एकवाक्यत्वव्यवहारोऽपि । एवं शब्दाद्वैते प्रमाणशून्यतया निरस्ते 1 अर्थज्ञान कार्यादनेकवर्णानु- भवजनितसंस्कारैः संभूय तेष्वेका स्मृतिर्जन्यत इति कल्प्यम् | धर्म्यन्तरकल्पनायां तु गौरवम् । व्युत्क्रमोच्चरितेषु विच्छेदोच्चरितेषु चार्थज्ञानादर्शनात् संस्काराणां न± संभूयैकस्मृतिजनकत्वम् । अतः कार्यदर्शनानुगुणमेव क्रमविशेषोश्चरितवर्णानु- भवजनितसंस्कारैरेव संभूयैकस्मृतेर्जन्यता कल्प्या, कार्यकल्प्यत्वात् कारणस्य । अतः संस्कारैरेकस्मृत्यारूढानां वर्णानामर्थ प्रत्यायकत्वेनान्यथोपपत्तेर्न स्फोटसिद्धिः । किंच स्फोटाभिव्यक्तावपि वर्णशब्दत्वादिपक्षेोक्तदूषणानि समानि । किं वर्णाः प्रत्येकं स्फोटाभिव्यञ्जकाः ? उत संभूय ? इत्यादिविकल्पदूषणानां वक्तुं शक्यत्वात् । यत्तु शब्दार्थयोर्न संबन्धः, भिन्नदेशत्वादित्युक्तम् ; तन्न ; वाच्य- वाचकभावाख्यसंबन्धाङ्गीकारात् । स च लोके प्रसिद्धः । न साङ्केतिकः; सङ्केतयितृपुरुषाज्ञानात् । न च स तादात्म्यरूपः; शब्दार्थयोः पृथगुपलम्भात् । न संयोगः; योग्यत्वे सत्यनुपलम्भात् । न च समवायः; भिन्नदेशत्वात् । अती- तानागतविषयत्वाच्च शब्दानां न सयोगादिसंभवः । अतः परिशेषात् संबन्धान्तरं कल्प्यते । स च संबन्धो नित्यः ; अनुत्पाद्यत्वात् । तज्ज्ञानं चानादि । तज्ज्ञानं च वृद्धादिव्यवहारव्युत्पत्या । अत एवाव्युत्पन्नस्य न शब्दश्रवणमात्रात् संबन्धावगम इत्यलमतिविस्तरेण । अनन्वभिधाख्यभावनाया एव वाक्यार्थत्वं युक्तम् ; तस्या एव लिङा- दिवाच्यत्वात् । सर्वशब्दानां ह्यर्थप्रतीत्युन्नेयोऽभिघाभिधेयो व्यापारोऽस्ति । स तु लिङादिव्यापारः पुरुषप्रवृत्तिफलकत्वाद् भावनेति प्रवर्तनेति चोच्यते । न च शब्दस्य गुणत्वान्न व्यापारः; द्रव्यत्वेऽपि विभुत्वान्न स इति — अरुणादिगुणानां द्रव्यपरिच्छेदादिव्यापारदर्शनात् ; विभुस्वरूपात्मनां ज्ञानादिव्यापारदर्शनाच्च । परिस्पन्दस्तु शब्दत्य नेष्टः । तद्व्यापारश्च स्वज्ञानम् ; एतद्योगिन एव शब्दस्यार्थप्रत्यायकत्वात् । यदागन्तुकधर्मयोगात् करणस्य कार्यकरत्वम्,
- अर्थज्ञानकार्यादिति । अर्थज्ञानरूपकार्यान्यथानुपपत्त्येत्यर्थः ।
- नेति । न केवलवर्णसमुदायस्मरणमर्थज्ञानहेतुः; किंतु विलक्षणानुपूर्वी- विशिष्टवर्णस्मरणमेवेति न दोष इति गमनिकाप्यनुसंधेया ।
- पार्थसारथिमिश्रदर्शितं भाट्टमतं खण्डयितुमनुवदति-नन्वित्यादिना । ६८ नयद्यमणिः स धर्मस्तद्व्यापारतया वाच्यः, यथा पाके काष्ठानां ज्वाला । अतो नाव्या- पारता युक्ता । ननु न ज्ञानस्य’ शब्दाभिधानात्मकव्यापारत्वसंभवः, ज्ञानकर्मभूतस्यैव शब्दस्याभिधानवृत्तिहेतुत्वस्यैवाङ्गीकार्यत्वेन 2 कर्मत्वकर्तृत्वविरोधादिति — तन्न ; परश्वादीनामेकक्रियायामेव कर्मत्वकरणत्वदर्शनात् । परशुरुद्यमननिपातनयोः कर्मीभूतः । तयोरेव द्वैधीभावफलावच्छेदात् छिदिधातुवाच्ययोः करणं च । एवं शब्दविषयस्याप्यर्थप्रतीतिफलावच्छेदादभिधापदवाच्यस्यार्थ एव कर्म । ज्ञानस्य शब्दस्तु ‘फलान्तरार्थप्रवृत्तव्यापारव्याप्यतया तस्यामवस्थायां करणम् — शब्देनार्थ - मभिदधातीति । स्वातन्त्र्यविवक्षायां तु कर्ता — शब्दोऽर्थमभिदधातीति | एतन्न्यायादेवार्थकर्मकस्याप्यभिधाव्यापारस्य पुरुषप्रवृत्तिभवन’ फलावच्छे- दादू भावनापदवाच्यस्य पुरुष प्रवृत्तिफलावच्छेदात् प्रवर्तनाभिधानस्य प्रवर्तकत्वं तत्कर्मत्वं च युक्तम् । एवमेक एव व्यापारः फलभेदनिरूप्यमाणः तत्तत्कर्मभेद- भाग्भवति । यदा तु फलानपेक्षस्वरूपेण निरूप्यते, अकर्मकोऽपि तदा भवति; यथा— चलतीति । नन्वभिधाव्यापारस्य न पुरुषप्रवर्तकत्वं लिङभिधेयत्वं च; अभिधामात्रा- वर्गमादप्रवृत्तेः । इष्टसाधनताधीना हि प्रवृत्तिः । न चैषा प्रतीतिलक्षण- फलोन्नेया शब्दान्तराभिधावत् अभिधेयेति अस्य चोद्यस्येत्थं केषांचित् परिहारप्रकारः - लिङादीनां श्रवणानन्तरं प्रवर्तनाप्रतीतेन तत्परत्व चोद्यम्; कुर्वीतेत्यादिश्राविणां लौकिकानां ‘मामयं
- ज्ञानस्येति । शब्दं जानामीत्याकारकस्य शब्दकर्मकस्य ज्ञानस्य । 2. कर्मत्वेति । इदं करणत्वस्याप्युपलक्षणम् । अभिधानं हि शब्दोऽर्थमभिदधातीति प्रयोगानुरोधाच्छन्दकर्तृकं वा स्यात्, शब्देना- र्थमभिधत्त इति शब्दकरणकं वा । व्यक्तमिदं न्यायरत्नमालायां विधिनिर्णये । तत्रत्यार्थानुवादित्वादस्य ग्रन्थस्य तथैव करणत्वस्य वक्ष्यमाणत्वाच्च तद्ग्रहणं युक्तम् ।
- फलान्तरम् | अर्थप्रतीतिः ।
- भवन फलेति । पुरुषप्रवृत्ति भावयतीति प्रयोगमनुरुध्येदम् ।
- प्रवृत्तिफलेति । पुरुषं प्रवर्तयतीति प्रयोग इह भाव्यः ।
न चैषेति । अभिधा हि नाम पदशक्तिः । सा घटादिपदे घाटादिरूपार्थ- प्रतीतिबलादुन्नीयते ; न घटादिपदस्य तद्गतशक्तिरर्थो भवतीति । ४. वाक्यार्थप्रदीपः ६९ प्रवर्तयति’ इति व्यवहाराच्च । कुर्वित्यादिशब्दानन्तर प्रवर्तनाप्रत्ययस्य च न कारणान्तरम् । न च कार्यधियस्तत्कारणत्वम् ; ‘गामानय’ इति वैरिणोक्ते लिडादि- श्रवणादपि कार्यबुद्धयनुदयात् ; प्रवर्तनाबुद्ध्युदयाच्च । किंच शाब्दिकानां प्रवर्तनाद्यर्थेषु लिङादिस्मरणात् 1 तदर्थता । न च वक्तृणां ज्यायसां कनीयः प्रवृत्त्यसपेक्षया शब्दप्रयोगात् कार्यस्यैव प्रैषादिव्यपदेशभाक्त्वम् ; लोके तथात्वाव्युत्पत्तेः । लोके प्रयोजकव्यापार • विशेषे हि प्रैषादिव्युत्पत्तिः । 2 नीचादिवक्तृके कुर्वित्यादौ ‘खामी मामकार्ये प्रेषयति’ इति प्रतीतिश्च दृश्यते । तदुक्तम् — इति । “शब्दानन्तरसंवित्तेरन्यस्मात्तदलाभतः । स्मरणाच्च लिडादीनामभिधेया प्रवर्तना || " तर्हि लिङादीनां प्रवर्तनाविषया व्युत्पत्तिः कथमिति चेत् ; उच्यते— व्युत्पत्तिनिरूप्यानन्यथासिद्धप्रत्ययादेव व्युत्पत्तेरपि सिद्धत्वेन तत्प्रकारनिर्णयानु- पयोगात् । एवं हि शब्देष्वपि बाल्यकृतव्युत्पत्तिप्रकारस्य प्रयोगकाले प्रायेण व्यव- हर्तॄणां विस्मृतिः । तत्प्रकारनिर्णयस्तु परीक्षकव्यापारः । स तु नार्थावगत्युपयोगी । यदि तत्प्रकारोऽपि निर्णेयः, तर्ह्यच्यते – यस्य शब्दस्य यस्मिन्नर्थे बहुशः प्रयोगो लौकिकानाम्, तस्य शब्दस्य श्रवणेऽर्थस्मृतिर्जायते । एवं स्मृताश्चार्था : 3. ……. किं तस्याः प्रवृत्तिभावनात्वमिति । तन्नः एकस्या एव क्रियाया 4नानाभाव्यावच्छेदान्नानाभावनाव्यपदेश्यत्वस्योक्तत्वात् '
- स्मरणादिति । “विधिनिमन्त्रणामन्त्रण - " इत्यादिसूत्र इति भावः । । तत्र ‘विधिर्नाम प्रेरणम् ; भृत्यादेर्निकृष्टस्य प्रवर्तनम् ’ इति च तद्व्याख्यातारः । ;
- नीचेत्यादि । अकार्येऽप्यर्थे नीचानां स्वामिनां लिङादिप्रयोगो दृश्यते । यथा - ’ यद्यप्येतत् ते निषिद्धत्वात् अकार्यमेव, अथापि मत्कृते कुरुष्व’ इति न्यायरत्नमालावचनमत्र भाव्यम् ।
- अत्र ग्रन्थपातो मातृकाकोशयोः ।
- नानाभाव्येत्यादि । भाव्यं फलम् । एक एव व्यापार: ‘शब्दं जानाति, शब्दोऽर्थमभिदधाति शब्दः पुरुषप्रवृत्तिं भावयति, शब्दः पुरुषं प्रवर्तयति’ इति विभिन्नक्रियैव व्यवह्वियते केवलं फलरूपमुखभेद्रादिति प्रागुक्तमित्यर्थः । ७० नयद्यमणिः इष्टसाधनत्वस्यैव लिङाद्यवाच्यता च – ‘यागानुरक्तो । व्यापार इष्ट- साधनम्’ ‘ज्योतिष्टोमेन यजेत’ इत्यनयोः शब्दयोरेकार्थप्रतीत्यजनकत्वात् ; ‘सन्ध्यामुपासीत, अभ्युदयो भविता’ इत्यादाविष्टसाधनत्ववाचकलिडादिशब्द- योरेकवाक्ये सहप्रयोगात् ; पर्यायशब्दानां च सहाप्रयोगात् । शब्दार्थनिश्चयस्य लोकव्युत्पत्यधीनत्वाल्लिडादीनां नेष्टसाधनतावाचिता । अतो भावनाभिधायित्वमेव । 1 ननु कार्यवाचित्वमेव लिङादीनाम् ; कार्यधीतः प्रवृत्तेरिति — तन्नः कार्यत्वस्यानिरूप्यत्वात् । न च कृत्युद्देश्यत्वं कार्यत्वम् ; ‘सर्ववस्तूनां कृत्युद्देश्यत्वस्याविशिष्टत्वेन कार्यत्वापत्तेः । ननु कृत्यर्हता कार्यतेति – तन्न ; अस्य पक्षस्येष्टसाधनतानतिरेकात् । तथा हि–दुःखरूपक्रियादेरिष्टत्वाभावादिष्टसाधनत्वेनैव कृत्यर्हतया प्रवृत्तिहेतु- त्वम् । तदुक्तम्— “कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधी : " । “पुंसां नेष्ठाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः " । इति । अतो नेष्टसाधनतातिरेकित्वं कार्यत्वस्येति नायमतिरिक्तः पक्षः । नन्विष्टसाधनत्वरूपेण न शब्दवाच्यता । किंतु शब्दैः सुख- दुःखपरिहारसाधनसाधारणरूपं कृत्यर्हतारूपेणाभिधीयते । तदभिधाने च क्रियायाः सुखत्याद्यभावात् पारिशेष्यात् तदुपायत्वनिश्चय इत्येतदेवाचार्य - मतमिमि । तन्न । उभावनेत्यादिग्रन्थाननुगुणत्वात् । ‘सन्ध्यामुपास्स्व, तेन तत् कार्यम्’ इति कार्यविधिशब्दयोगाच्च । अतः कृत्यर्हताविधी भिन्नार्थौ । ;
- सर्ववस्तूनामिति । यो हि मोहात् प्रथमं सर्पायाङ्गुलिदानमुद्दिश्य प्रव- र्तते ; पश्चादनर्थत्वावगमे सति ‘अनर्थमेवोद्दिश्य मोहात् प्रवृत्तोऽस्मि’ इत्यवगच्छति, तत्रापि तस्याङगुलिदाने कृत्युद्देश्यत्वस्याक्षतत्वात् कार्यत्वमबाध्यम् । न च तज्ज्ञानमात्रेण तदा तत्र प्रवृत्तिरस्तीत्युक्तं व्यायरत्नमालायाम् । उक्तं च तत्रैवान्यत्र, ‘कार्यमिति यदि कृतिं प्रति उद्देश्यमभिधीयते, ततस्तादृशी कार्यता सर्ववस्तूनामविशिष्टेति न तदवगतिः प्रवृतिहेतु:’ इति ।
- आचार्येति । कुमारिलभट्ट इहाचार्यः ।
- भावनेत्यादिग्रन्थेति । ‘भावनावचनस्तावत् तां स्मारयति लोकवत् ’ इत्यादिग्रन्थेत्यर्थः ।
- योगादिति । सहप्रयोगादित्यर्थः । ४. वाक्यार्थप्रदीपः ७१ विधिश्चाभिधा भावनेत्युक्तम् । इष्टसाधनत्वस्य प्रवर्तकत्वेऽपि न शब्दवाच्यते- त्युक्तम् । अतो व्युत्पित्सुः प्रयोज्यवृद्धप्रवृत्त्युपलब्ध्या, तद्धेतुत्वेनेष्ट- साधनत्वावगतिं शाब्दीमवसाय, पूर्वोक्तेन न्यायेन शब्दस्य साक्षात् तद्धेतुत्वा- संभवात् अनभिहितेन फलसाधनत्वकल्पनाया अशक्यत्वात् शक्त्या तदभिधायिना लिङा निश्चिनोति । अतः सर्वव्यापारस्यार्थप्रतीत्यैव कल्पितस्य प्रवर्तना- रूपेणाभिधानं लिङादीनां कल्प्यते । प्रवृत्तिफलत्वं च प्रवर्तनारूपम् । तदेवंरूपाम् ’ अर्थप्रतीत्या कल्प्या’ इत्यनन्यलभ्यत्वादभिधानान्तरविलक्षणशक्ति लिङः कल्पयति । एवं विध्यवरुद्धा च भावना पुरुषार्थफलतया निश्चीयते अपुरुषार्थफलव्यापारस्य प्रवर्तनात्मकविध्यन्वयासंभवात् । न हि प्रेक्षापूर्वकारिणां निष्फले प्रवृत्तिः । अतो लिङादीनामभिधाव्यापारस्यैव प्रवर्तना रूपेणाभिधे- यत्वात् तद्वलादेव फलसाधनताबोधकत्वम् । स्वर्गकामादिशब्दाश्च नियोज्यसमर्पकाः । ; न यद्यप्यस्मिन् 1 पक्षे विधेयक्रियाविषयं कर्तुत्वम्, विधिविषयं नियोज्य- त्वमिति भेदः; तथापि न तत्परता कामशब्दस्य ; अप्राप्तविषयत्वात् शास्त्राणाम् ; अस्मिन् मतेऽपि हि कश्चिन्नियोज्योऽस्ति । स तु विध्यन्वयव्यापारशेषी, अनुष्ठानसमर्थश्च ; अस्वार्थ व्यापारस्याशक्तस्याप्रेर्यत्वात् । स एव च शेषी, यदभिलषितसाधनो व्यापार इत्येवं कामशब्दव्यतिरेकेणार्थेऽवगते फलविशेषा- नवगतौ च फलविशेषपरतैव कामशब्दानाम् | तदेवं प्रवर्तनारूप- विध्यभिधायी लिङादिः । अर्थाद्विधेयस्य कर्तव्यता फलसाधनता च बोध्यत इत्यभिप्रायाः “कर्तव्यतावचनः प्रत्ययः " " श्रेयः साधनता ह्येषाम् " इत्यादयः । न च शब्दस्य स्वव्यापाराभिधायकत्वे स्वरूपाभिधानप्रसङ्गः, 2स्ववाच्यविशेषणानभिधाने तद्विशेषणविशिष्टस्य व्यापारस्यानभिधेयत्वादिति वाच्यम् ; प्रत्यक्षावगतशब्दस्वरूपविशिष्टाभिधाव्यापाराभिधानात् 1 अतो लिङदिव्यापारात्मक भावनाया एव वाक्यार्थत्वेन लिडादिवाच्यता ; न त्वपूर्वी विध्यर्थ इति ।
- अस्मिन् इति । कार्यवाक्यार्थवादिप्राभाकरपक्षे कर्तृत्वनियो- ज्यत्वयोरभेदापादनं न्यायरत्नमालाकृदिष्टम् । तद्वैलक्षण्यमिह तेनोक्तम् ।
- स्ववाच्यविशेषणेति । स्वात्मकं यत् अभिधारूपवाच्यविशेषणम् : तदित्यर्थः । ७२ नयधुमणिः 1 अथवा न्यायविदां त्विष्टसाधनत्वमेव मतम् । न च ‘यजेत’ इत्यादौ नेष्टसाधनत्वावगतिरिति वाच्यम्; तस्य प्रवर्तनारूपेण शब्दाभिधेयत्वात् । प्रवृत्तिहेतुर्धर्मः प्रवर्तना । स चापौरुषेयवेदे प्रैषाद्यभावात् पारिशेष्यादिष्टाभ्यु- पायतैवेति निश्चीयते । तेनाभिधाव्यापारप्रवर्तनावत् प्रतर्तनारूपेणेष्टसाधनतां लिडादिरभिधत्ते । यथाह - इति । “पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥” अतो योऽवगम्यमानतया प्रवृत्तिहेतु:, स शब्दाभिधेय इति प्रवर्तना- सामान्यं शब्दार्थः । “अभिधाभावनाम्” इस्यस्य च अभिधीयते इत्यभिधा- प्रवर्तना । सैव च पुरुषप्रवृत्तिं भावयतीति भावनेति तामाहुरित्यर्थः । अथवा शब्दकर्तृकं प्रवर्तन । रूपेष्टसाधनत्वाभिधानमेव शब्दभावना | तस्याः स्वर्गस्थानीया पुरुषप्रवृत्तिर्भाव्या । इष्टसाधनत्वरूपविधिज्ञांनं तु यागादिवत् करणम्, तस्य परार्थप्रवृत्तशब्दव्यापारजन्यत्वात् 2 | अर्थवादजन्य- प्राशस्त्यज्ञानं प्रयाजादिवदितिकर्तव्यतेति कृतं विस्तरेण । ३ एतदप्ययुक्तम् ; लिङादिज्ञानस्य तद्व्यापारत्वे प्रमाणाभावात् । न च तस्य ज्ञानयोगिनोऽर्थप्रत्यायकत्वदर्शनमेव प्रमाणमिति वाच्यम्; विकल्पा- सहत्वात् । किं तज्ज्ञानं नाम तच्छन्दमात्रविषयम् ? व्युत्पन्नतच्छब्दविषयं वा ? नाद्यः, अव्युत्पन्नतद्विषयज्ञानस्य पुरुषप्रवृत्तिफलाभावात् भावनात्वासिद्धेः । नापि द्वितीयः, तज्ज्ञानेऽपि कार्यत्वाबोधे तस्य पुरुषप्रवृत्तिफलानवच्छेदात् । न च लिङादिग्रहणानन्तरं प्रवर्तनाप्रतीतेस्तत्परत्वमिति वाच्यम्; विकल्पा- सहत्वात् । किं प्रवर्तना नाम लिडादिव्यापाररूपं तज्ज्ञानम् ? प्रवृत्तिर्वा ? नाद्यः, तज्ज्ञानस्य लिङादिव्याणरत्व प्रवर्तनात्वयोरव्युत्पत्तेः । नापि द्वितीयः, अनङ्गीकारात् । अथ शब्दप्रवर्तकत्वं प्रवर्तनात्वमिति चेत्, तन्न; शब्दस्य गुणत्वेन प्रवर्तकत्त्ररूपव्यापारासंभवात् । शब्दो - ह्याकाशगुणः । अगुणत्वे
- मण्डनमिश्रदर्शितं भाट्टमतमाह — अथवेति ।
- जन्यत्वादिति । करणत्वं हि भावनाभाव्यनिष्पादकत्वम् । भाव्यार्थ- भावनाजन्यत्वमित्यपि तदेवोच्यते । यागस्य स्वर्गार्थप्रवृतिरूपभावनाजन्यत्वात् करण- त्ववत् प्रवृत्तिरूपभाव्यार्थशब्दव्यापारात्मकभावनाजन्यत्वाद् विधिज्ञांनं करणमिति भावः । 3 एवं भाट्टमतमनूद्य खण्डयितुमारभते - एतद्पीति ।४. वाक्यार्थप्रदीपः ७३ श्रोत्रात्मकाकाशस्य शब्दप्राप्ति ‘रनुपपन्ना । संयोगसमवाययोरन्यतरा हि प्राप्तिः । ±संयोगस्यान्यतर कर्मजत्वोभयकर्मजत्व संयोगजत्वानामन्यतमस्याङ्गीकार्य- त्वात् शब्दस्य नभसा सह तदसंभवात् पारिशेष्यात् समवाय एवाङ्गीकार्यः । एवं च न तस्य व्यापारः, द्रव्याश्रितत्वाद्व्यापारस्य । शब्दोऽभिदधातीति प्रयोगस्तु शङ्कुला छिनत्तीतिवदौपचारिकः । कुर्वित्यादौ लौकिकप्रवर्तकव्यव- हारस्तु कार्यबुद्ध्युत्पादकतयैव । न च वैरिवाक्येषु कार्यपरलिडादिश्रवणेऽपि न कार्यताबोध इति वाच्यम् ; व्युत्पत्तिसिद्धकार्यपरत्वस्याव्याघातात् । तद्वाक्येषु तु कार्ये स्वसंबन्धितान- वबोध एव । तद्वाक्येषु न प्रवर्तनापि, पुरुषप्रवृत्त्यनुदयात् । पुरुषप्रवृत्ति- फलिका हि प्रवर्तनोक्ता । न च प्रवर्तनाभेदेषु लिङादीनां शब्दस्मृतिः, तत्र तदप्रतीतेः । विध्यादौ हि सा । विधिश्च पुरुषप्रवर्तकं कार्यत्वमेव । निमन्त्रणादयोऽपि तद्भेदा एव । तदुक्तम् — इति । “कार्यमेव च वक्तॄणां ज्यायः समकनीयसाम् । प्रवर्त्यपेक्षया भेदात् प्रैषादिव्यपदेशभाक् ॥” अतः प्रैषादिरपि कार्यभेदः, कार्यस्यैव सर्वत्र प्रवृत्तिकारणत्वात् । तदुक्तम् — इति । " कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् । प्रवृत्त्यव्यभिचारित्वाल्लिडाद्यर्थोऽवसीयते ॥” यत्तु प्रयोजकव्यापारविशेषे प्रैषादिव्युत्पत्तिरिति — तन्न; प्रयोजकार्थस्य विकल्पासहत्वात् । स किं पुरुषः ? लिडादिर्वेति । नाद्यः सर्ववक्तृणां लिङाद्युच्चारणप्रवृत्यपक्षयैव न स्वत इति कार्यपरतैव ; लिङाद्युच्चारणेनैव प्रवृत्तेः । न द्वितीयः, तस्य पुरुषप्रवृत्त्यपेक्षयैव, न स्वत इति । अतः कार्यपरतैव । - यत्तक्तं व्युत्पत्तिर्न निरूप्येति, तन्न; वाक्यार्थनिश्चयार्थं परीक्षकै- र्निरूप्यत्वात् । व्यवहारस्तु गौण्यादिभिरपीति न ततो वाक्यार्थनिश्चयः ।
प्राप्तिरिति । संनिकर्ष इत्यर्थः । संयोगस्येति । तथा च कणादसूत्रम् — “अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः” इति । 10 ७४ नयद्यमणि: यत्तु बहुशः प्रयोगादर्थपरत्वव्युत्पत्तिरिति — तन्न; व्युत्पत्तेर्व्युत्पत्ति - पूर्वकत्वान्न प्राथम्यमिति न तस्य प्राधान्यम् । सहप्रयोगो नाम अर्थस्याङ्गुल्या निर्देशपूर्वकं तद्वाचकशब्दप्रयोगः । तस्य पदार्थस्य प्रत्यक्षत्वेऽपि अङ्गुल्या निर्देशपूर्वकं तत्प्रयोगः किंपर इति न निश्चयः; तत्र कारणाभावात् । आनयेत्यादिशब्दानन्तरमानयनादिप्रवृत्तौ तु नान्यपरताशङ्का । न च प्रयोजकव्यापारेण सह लिङादेर्दर्शनाद् व्युत्पत्तिरिति ; तद्व्यापारस्य प्रवृत्त्यर्थत्वावधारणे कार्यपरत्वेनैव तत्प्रयोगव्युत्पत्तेः । न च मात्रादिप्रवृत्त्यभिसंधिपूर्वकस्व करोद्यमनाद्यनन्तरं स्वापेक्षितार्थमात्रादिप्रवृत्ति- दर्शनात् प्रयोजकव्यापारे प्रयोज्यप्रवृत्त्यभिसंधिधीरिति ; बालस्य स्वकरोद्यमनादे- मतृप्रवृत्त्यभिसंधिपूर्वकत्वेऽपि प्रवृत्त्यर्थस्यात्, प्रवृत्तेश्च कार्यधीमूलकत्वस्य स्वस्मिन् दृष्टत्वात्, तद्धीजननार्थत्वान्मातृप्रवृत्तिरपि पुत्रपोषणादिकार्यधीत एव ; न तु प्रवृत्तिफललिङादिव्यापारज्ञानात् । यत्तु सर्वाख्यातानां भावनापरत्वाभिधानम्; तदपि न ; अव्युत्पत्तेः । ननु सर्वाख्यातानां करोति सामानाधिकरण्याद् भावनापरत्वम् । प्रयोजकव्यापारो हि भावना । सैव कृतिः; भाव्यस्य कृतिकर्मत्वेन क्रियमाणत्वात् । ‘किं करोति ?’ ‘पचति’ इति हि प्रश्नोत्तरे । एवं भूतभविष्यद्विषयप्रश्न । दिर्द्रष्टव्य इति करोत्यर्थः सर्वाख्याताभिधेय इति – तन्न ; ‘अनवगतधातुवाच्यव्यापार- विशेषेण तद्विशेषस्यैव पृच्छयमानत्वात् । अतो न सामान्यविषयः प्रश्नः । ततश्चाख्यातानां न धात्वर्थातिरिक्तकरोत्यर्थोऽर्थः । धात्वर्थव्यापारविशेषविषयत्वेनापि प्रश्नाद्युपपत्तौ न तदतिरिक्तकरोत्यर्थता कल्पना । 1 किंच ‘रथः किं करोति ?’ ‘गच्छति’ इति प्रयत्नरहितेष्वपि प्रश्ना- दिदर्शनात् न धात्वर्थव्यापारातिरिक्तार्थविशेषविषयत्वम् । धात्वर्थव्यापार- विषयत्वे तु सर्वत्रोपपत्तिः । न च रथादावपि संयोगविभागौ धात्वर्थः, परिस्पन्दस्तु प्रत्ययार्थ इति धात्वर्थातिरिक्तार्थतेति — परिस्पन्दस्यैव गमि- वाच्यत्वात् । श्येनसंयुक्ते विभक्ते वा स्थाणावप्रयोगात् । ततो न केवलसंयोगो विभागो वा तदर्थः । न चोभययुक्ते प्रयोगः; श्येनोत्पातनिपातवत्स्थाणौ प्रयोगापातात् ।
- अनवगतेत्यादि बहुव्रीहिवृत्तम् ।
- अप्रयोगातिति । स्थाणुर्गच्छतीत्यप्रयोगादित्यर्थः । ४. वाक्यार्थप्रदीपः ७५ न चकक्रियाक्षणजन्यसंयोगविभागयोर्गमिवाच्यता, क्रियाया उपाधि- कोट्यनुप्रवेशे गौरवापत्तेस्तस्या एव शब्दवाच्यत्वस्यैव युक्तत्वात् । कर्त्रादिसंख्यामात्रवाचितया आख्यातविभक्तिप्रयोगोपपत्तौ नाधिकवाच्यार्थता- कल्पना | ‘पाकं करोति देवदत्तः’ इत्यादिषु तावत् पचेः पाकवाचित्वात् करोतेस्तदनुगुणप्रयत्नादिवाचित्वादाख्यातस्य कर्तृसंख्यादिमात्रवाचितेति सर्वत्रापि तत्परता । न च ‘ओदनं पचति’ इत्यादौ पाकातिरिक्तप्रयत्नवाचिता आख्यातस्य दृश्यत इति । तत्र व्युत्पत्तिसिद्धत्वात् प्रकृत्यर्थापक्षेपणादिप्रयत्नप्रती- त्यापत्तौ न भावनावाचकता च । न नन्वपूर्ववाचिनामपि तिङां प्रयत्नवाचिता ’ आख्यातत्वनेष्टेति तन्निषेधोपपत्तिरितेिं—तन्न ; लिङादीनामेव कार्याभिधानार्थं कृत्यभिधायिता । कृतिसाध्यतयैव कार्याभिधायिता । कृत्यभिधाने च न तदभिधायित्वम् । अतो न सर्वाख्यातानां कृत्यभिधायितेति । यत्तु सर्ववस्तूनां कृत्युद्देश्यत्वाविशेषात् न कृत्युद्देश्यता कार्यतेति — तन्न ; स्वतःसिद्धवस्तूनां कृत्युद्देश्यत्वाभावात् ।
यत्तु अकार्येऽपि कार्यपरलिङादिप्रयोगान्न तत्परता लिङादीनामिति - तन्न ; अनुपपत्त्या तत्र लाक्षणिकत्वात् । यत्विष्टसाधनत्वधियः प्रवर्तकत्वम् ; भावनाया वाक्यार्थत्वमिति तद्विरुद्धम् । प्रवर्तकस्यैव वाक्यार्थत्वम् । न चेष्टसाधनं वाक्यार्थ इत्युक्तम् । यत्तु स्वर्गकामपदानां न नियोज्यविशेषसमर्पकता ; नियोज्यत्वादेरर्थ- सिद्धत्वात् ; अतः फलविशेषपरतेति – तन्न ; स्वसंबन्धि कार्यविशेषाबोधे पुरुषस्यानियोज्यत्वात् ; कार्यविशेषस्य च फलादिविशेषाधीनत्वाद् । विषय- नियोज्यविशोषायत्तैव हि कार्यताधीः । । किंच शब्दगतव्यापारस्य शब्दानभिधानादनभिधेयत्वम् तदभिधाने च स्वाभिधानप्रसङ्गः । न च प्रत्यक्षावगम्यशब्द विशिष्टाभिधानात् न दोष इति; प्रत्यक्षत्वेऽपि स्वाभिधेयत्वानपायात् ।
- आख्यातत्वेनेति । तिविभक्तेः लिङ्त्वादिरूपेणापूर्वार्थकत्वम् : आख्यातत्त्ररूपसाधारणरूपेण प्रयत्नार्थकत्वमिति भावः । ७६ नयधुमणिः नन्विष्टसाधनत्वस्यैव लिङादिवाच्यताव्यापारकत्वाद्विधित्वमिति – तन्न ; अतीतेष्टसाधनत्वधियोऽपि प्रवर्तकत्वापातादित्युक्तत्वात् । न च शब्दकर्तृकप्रवर्तनारूपेष्टसाधनत्वाभिधानमेव शब्दभावनेत्यनादि- व्युत्पत्तिरिति इष्टसाधनत्वधियः प्रवर्तनात्वापातात् पूर्वोक्तदोषानिर्मुक्तः । इष्टसाधनस्य कार्यताधियः प्रवर्तकत्वेन प्रवर्तनायां त्वस्मत्पक्षे पातः । शब्दस्याचेतनत्वात् कर्तृत्वं चानुपपन्नम् । शब्दस्य पुरुषप्रवृत्तिकरणखे तु न ज्ञानकरणत्वम् ’ शब्दकृताभिधानं च न शब्दाभिधेयम्; अन्यस्यैवाभिधेयत्वादिति कार्यस्यैव प्रवर्तकत्वात् तदेव वाक्यार्थः । अतो न सिद्धवस्तुविषयत्वेन वेदान्तवाक्यविचारारम्भ इति । 1 अत्रोच्यते — लौकिकवैदिकवाक्यानामविशेषेण परब्रह्मैवार्थः, तस्यैव सर्वपदवाच्यत्वात् । पदान्येव हि वाक्यम् । सर्वपदवाच्यता च ब्रह्मव्यति- रिक्तकृत्स्नचिदचिद्वस्तूनां तच्छरीरत्वेन तत्प्रकारत्वात्; प्रकारवाचकशब्दानां च प्रकारविशिष्टार्थपरत्वात् । गवादिशब्दै 2 दिशेषत्वधर्वाच्या । “निरूढकार्यशेषित्वे ह्यनिरूढस्य शेषता” इति स्वोक्तेः । निरूढैौ च न प्रमाणम् 1 जात्यादिविशिष्टव्यक्तेर्वाच्यत्वे च प्रतीत्यङ्गत्वनिर्वाहयोरैकरूप्यम् | अन्यथा व्यक्तेराकृतिद्वारा प्रतीतिः । आकृतेर्व्यक्तिद्वाराङ्गत्वमिति वैरूप्यम् । संस्थानस्यैव जातित्वेन तस्य च वस्तुधर्मत्वाद्वस्तुनोऽवच्छेदकतयैवाङ्गत्वम्, न स्वरूपतः । तथापि अनुष्ठानो- पक्रमवेलायां विशिष्टाकार एवोपक्रमात् कथंचिदङ्गत्वनिर्वाहो विशिष्टस्य । आकृतिमात्रार्थवादिनोऽप्येवमेव ; नान्या गतिः । न च विशिष्टव्यक्त्यानन्त्यात् गत्युपपत्तिरिति ; पक्षान्तरेऽप्यनुपपत्तेः समत्वात् ; तस्मिन्नपि पक्षे व्यक्त्यानन्त्यात् । यदि जात्यादिमत्तया व्युत्पत्ति- सौकर्यं तत्पक्षे, तर्ह्यस्मत्पक्षेऽपि जात्यादिविशिष्टत्वाकारेण व्युत्पत्ति- सौकर्यमिति समः समाधिः । यत्तु प्रत्यभिज्ञायामेकधीवेद्यत्वेऽपि शक्तिव्यवस्थादर्शनादे कधीवेद्यत्वं न विशिष्टवाच्यतायाः प्रयोजकमित्युक्तम् —– तन्न ; ‘सोऽयम्’ इत्यंशद्वयप्रतीतेर्व्य-
- एवमद्वैतिशाब्दिक कौमारिलमतखण्डनेन प्राभाकरेण स्वसंमते कार्यवाक्यार्थे स्थापिते सिद्धान्ती तस्यापि खण्डनेन ब्रह्मवाक्यार्थपक्षं स्थापयितु- मारभते — अत्रोच्यत इति ।
अत्र मातृकाकोशयोर्ग्रन्यपातः । ४. वाक्यार्थ प्रदीपः ७७ वस्थोपपत्तिः प्रत्यभिज्ञायाम् । गवादिशब्देभ्यस्तु न तथेति वैषम्याद कृत्यादि- विशिष्टमेव शब्दार्थः । किंच “पशुना यजेत” इत्यादौ पशुत्वैकत्वपुंस्त्वकरणत्वधर्मवि- शिष्टव्यक्तेर्यागसंबन्धादेकेनैव पदेन गुणविशिष्टव्यक्तिधीः; न तु वाक्यात् कारकतया । यत्तु करणीभूत पशुं संबन्धस्य द्वारत्वेनैव कल्पितत्वादाभिधानिकपशुसंबन्ध- मुल्लङ्घ्य ग्राहकान्यथानुपपत्त्या ग्राहकीयपशुस्थता एकत्वस्य कल्प्यत इत्युक्तम्- तन्न; एकत्वादेः पृथग्ग्राहकाग्रहणात् । किंतु तद्विशिष्टपशोरेव शब्दाभिहितस्य ग्राहकग्रहणम् । अतो न गुरूक्तविधया पश्येकत्वनयः । नापि भाट्टविधया । तथा हि- समानप्रत्ययोपात्तेन प्रातिपदिकार्थादपि संनिहिताकारेण प्रधानभूतेन च कारकेणावरुद्धमेकत्वं प्रातिपदिकार्थमनादृत्य क्रियाङ्गमवगम्यमानं वाक्यसमर्पितेन क्रियाविशेषसंबन्धेन पश्चादरुणान्यायेनैव पशुविशेषत्वमर्थादिति हि तन्नयप्रक्रिया | कारकत्वैकत्वयोः पश्वर्थगुणत्वे- नान्योन्य संबद्धता हि स्पष्टा । तयोः 1 परस्परसंबन्धश्च शब्दादेव प्रतीत इति नैकत्वस्यार्थात् पश्चिमत्वम् । · कथं तर्हि स नय इति चेत्; उच्यते - एकत्वस्य पशुगुणत्वेन श्रवणाद् यज्ञानन्वयान्न यज्ञाङ्गत्वमिति पूर्वपक्षे, ससंख्यस्यैव पशोः सविभक्तिकपदाभिधेयस्य वाक्याद् यज्ञान्वयप्रतीतेर्यज्ञाङ्गत्वमिति राद्धान्तः । एवं तस्य पशुगुणत्वस्याप्यविरोधः । न्यायफलं तु द्वित्वादावेकसंख्याव्यतिरेकेण पशूपादानसिद्धेः पूर्वपक्ष संख्यानादरेणापि यागसिद्धि: ; ससंख्यद्रव्यादेव । राद्धान्ते 2 अरुणान्यायेन तु प्रकृत्यभिहित गुणस्यार्थद्वयविधानशङ्कया क्रिया- नन्वयशङ्काया निरासः । पश्येकत्वनये तु विभक्त्या पशुगुणत्वेनाभिहितत्व-
- तयोः । प्रातिपदिकार्थपशुविभक्त्यर्थैकत्वयोः ।
- एवं गुरुभाट्टमतयोः पश्वेकत्वनयनिरूपणसरणि निरस्य स्वमतेन तां प्रदर्श्य, विशिष्टार्थाभिधानपरत्वस्थापनाविशेषात् अधिकरणत्रयं पिष्टपेषकमिति शङ्कापरिहाराय अर्थविवेकं दर्शयति- अरुणेत्यादिना । ७८ नयधुमणिः शङ्कया गुणस्य क्रियानन्वयशङ्काया निरासः । आकृत्यधिकरणे तु सर्वशब्दा- नामाकृत्याश्रयद्रव्याभिधानसमर्थनम् । तन्नये । आकृतेः शाब्दप्रतीतिष्वनु- यायित्वेऽपि तस्या वस्तुसंस्थानतया द्रव्यत्वाभावात् प्रोक्षणाद्यनन्वयात् शब्दा- वाच्यत्वप्रतीतेः, व्यक्तेश्च प्रोक्षणाद्यन्वयेऽप्यानन्त्याद् व्युत्पत्त्यनुपपत्तेस्तद्वाच्यत्व- प्रतीतेः वाच्यार्थसंदेहादप्रामाण्यं वेदस्येति पूर्वपक्षे – व्यक्तीनामानन्त्ये ऽप्या- कृतिविशिष्टत्वाकारेणानन्त्याभावाद्युपपत्तेः विशिष्टस्यैव शब्दवाच्यत्वे च कार्य- प्रतीत्यन्वययेारविरोधाद् गवादिशब्दा गोत्वादिविशिष्टार्थवाचका इति राद्धान्त इति । जातिगुणकर्मादिशब्दास्तु निष्कृष्टार्थवाचकाः । एवं च “गुणे शुक्कादयः पुंसि गुणिलिङ्गास्तु तद्वति” इति लौकिकप्रतीतिरप्युपपन्ना । एवं विशिष्टस्यैव वाक्यार्थत्वे सर्वचिदचिह्नस्तूनां ब्रह्मविशेषणत्वेन तद्विशिष्टं ब्रह्मैव सर्वशब्दानामर्थः । सर्वशरीरित्वं च " यस्यात्माशरीरम्” इत्यादौ । शरीरं च शरीरिणो विशेषणमिति लोकवेदप्रयोगसिद्धम् । विश्वस्य परमात्मशरीरत्वोपपत्तिश्च शरीरलक्षणप्रकरणे । एवं चिदचिद्विशिष्टब्रह्मण एव सर्वशब्दार्थत्वे “सर्वे वेदा यत्रैकं भवन्ति” “वचसां वाच्यमुत्तमम्” ‘वेदैश्च सर्वैरहमेव वेद्यः” इत्यादयोऽप्युपपन्नाः । एवं ब्रह्मणः सर्वशब्द- वाच्यत्वेऽपि सर्वेषां वेदान्तश्रवण सहकारिविरहान्न तथात्वधीः । ननु तत्तद्वस्तुविशिष्टब्रह्मणः पदार्थत्वेऽपि कथं तस्यैव वाक्यार्थत्वम् ? विशेषणानामपि पदवाच्यत्वादिति चेत् — तन्न ; विशेष्यस्य प्राधान्यात् । क्रियादिवाक्यार्थवादिपक्षेऽप्यस्य चोद्यस्य समत्वाच्च । तत्तत्पदार्थविशिष्ट क्रियादिरेव हि वाक्यार्थः । क्रियादेर्विशिष्टता तु वाक्यगम्या । ब्रह्मणो विशिष्टता पदवाक्यगम्येति विशेषः । ननु ब्रह्मण एव वाक्यपरिसमाप्तिः स्यात् ; सर्वपदवाच्यत्वे प्राधान्ये च प्रतिप्रातिपदिकं ततश्च सर्वपदार्थानां प्राधान्यापत्तौ धर्मादिष्वङ्ग- प्राधान्याविवेके चोदितस्य कस्यचित् पदार्थस्यानुपसंहारेऽपि कर्मावृत्तिप्रसङ्ग
तन्नय इति । तस्मिन्नधिकरण इत्यर्थः । 2. शरीरलक्षणप्रकरण इति । एतद्ग्रन्थप्रथमप्रकरणमेतत् । ४. वाक्यार्थप्रदीपः ७९ इति चेत् — तन्न ; 1 फलतत्साधनत्वाद्याकारेण ब्रह्मण एव सर्वपदवाच्यत्वेऽपि विशेषतः प्राधान्योपपत्तेः, इतरेषामङ्गत्वोपपत्तेः । अग्न्यादिविशेषणनानात्वेन विशिष्टत्वाकारस्य नानात्वात् सर्वपदवाच्यत्वेऽपि पदानामपर्यायता च सर्ववेदानां ब्रह्मप्राधान्यात् महावाक्याकारेणैकशास्त्र्यं च । 2 तत्तत्साध्यस्वर्गा- दिभेदात् अभिधानान्तराभ्याससंख्यागुणप्रकरणान्तरनामानुबन्ध भेदैरवान्तरशास्त्र- भेदश्च । । ननु फलदात्रग्न्याद्याकारेण प्रयाजाद्यपेक्षया प्राधान्येऽपि स्वर्गादिफलं प्रति साधनत्वेनाप्राधान्यमिति न ब्रह्मणो वाक्यार्थत्वमिति – तन्न; स्वर्गादि- विशिष्टब्रह्मण एव फलत्वेनाप्राधान्याभावात् । " ननु फलार्थिभिः सर्वैरपि ब्रह्मण एव प्राप्यत्वान्न मुक्तसंसारि- वैषम्यमिति – तन्न ; : ऐहिकस्वर्गादिफलार्थिनां कृत्स्नस्य प्रकारत्वाज्ञानात्, तज्ज्ञानेऽप्युपासनात्मकज्ञानाद्यभावात् विरोधिनिरासे च तेषां साक्षात्कारे ब्रह्मणो देशविशेषे ब्रह्मण एव प्राप्तेः । विरोधिनिरास एव ह्यस्य साक्षात्कारेण पदविशेषविशिष्टब्रह्म प्राप्यम् । सैव हि मुक्तिः । अन्यदा स्वर्गादितत्तद्वस्तुविशिष्टमेव प्राप्यम् । तत्प्राप्तावप्यचिन्मात्र भोग एव तेषां एव तेषां तात्पर्यम् । अज्ञानात् तावन्मात्रविशिष्टतापि न ज्ञायत इति मुक्तसंसारिवैषम्यम् । केवलचिदुपासने तत्प्राप्तिफले च एतन्न्यायेनैव निर्वाहः । वस्तुतो न कैवल्यस्य मोक्षत्वम् । भगवत्प्राप्तिरेकान्तात्यन्तिकी मता” इत्यादौ " भेषजं
भगवत्प्राप्तेरेव
- तन्नेति । अयं भावः — एकैकमपि पदं लोकप्रसिद्धतत्तदर्थविशिष्ट- ब्रह्मयपरम् । अतः पदार्थों वाक्यार्थश्च ब्रह्मेव । तर्हि सर्वेषामपि प्रकृतिप्रत्ययादि- शब्दानामभेदान्वयपरत्वमेव स्यादिति चेत् ; स्यान्नाम । भेदान्वयबोधादिनियमकल्पना च पश्चिमविशेषणान्वयविक्षयास्तु । तत्र तार्किकशाब्दिकमीमांसकाद्याभिमतेषु बोधप्रकारेषु यत् उपपन्नतमम्, तत् पश्चिमबोधरूपमिष्यते । तत्र यन्मुख्य- विशेषणमिष्यते, तस्य सर्वस्य वस्तुतो ब्रह्मप्रकारत्वात् ब्रह्ममुख्यविशेष्यकत्वमक्षतम् । यदा तु लोके निष्कर्षविवक्षया प्रयोगः, तदा पदानां लाक्षणिकत्वान्न मुख्य- मभिधायकत्वम् । ग्रन्थकारमते वेदस्यैव शब्दविधया प्रामाण्यम् । लौकिकवाक्यं त्वनुवादमात्रम् | वेदे च सर्वथा ब्रह्ममुख्य विशेष्यकवोधस्य न क्षतिः ।
- तत्तदिति । विनियोगपृथक्त्वमिदम् ‘एकस्य तूभयत्वे संयोगपृथक्त्वम्” इत्यादिषु दर्शितम् ।
- अभिधानान्तरं शब्दान्तरम् । एतानि च शब्दान्तरादीनि भेदक- प्रमाणानि पूर्वमीमांसायां द्वितीयेऽयाये व्युत्पादितानि । ८० नयद्युमणिः मुक्तित्वाभिधानात् । अत एव ‘नार्चिरादिगतिस्तन्निष्ठस्य, “स एनान् ब्रह्म गमयति" इति तस्या भगवद्गमयितृत्वश्रवणात् । एवं सर्वप्राप्यप्रापकवस्तूनां भगवदात्मकत्वाद् भगवतः “पुरुष एवेदं सर्वम्” इत्यादौ तत्तत्पदार्थ सामानाधिकरण्यनिर्देशः, “येनाश्रुतं श्रुतम् " इत्यादौ भगवज्ज्ञानेन कृत्स्नविज्ञानप्रतिज्ञा, " स वा एष महानज आत्मा अन्नादो वसुदानः" “सकलफलप्रदो हि विष्णुः” इत्यादौ सर्वफलप्रदत्वस्य श्रवणम्, “ये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥" ‘निष्पन्नेन जपत्येनं. . जपन्नसौ ।’ …….. इत्यादौ सर्वकर्मसमाराध्यत्वादिनिर्देशाश्चोपपन्नाः । अपूर्वादेस्तु फलदातृत्वमचेतनत्वादनुपपन्नम् । अग्न्यादिचेतनानां च परमात्मविशिष्टानामेव फलदातृत्वम् ; सर्वेषां तदन्तरात्मकत्वतन्नियाम्यत्व- तच्छेषत्वानाम् “यः पृथिव्यां तिष्ठन्" इत्यादौ श्रवणात् । अतः सर्वान्तरात्मभूतं ब्रह्मैव तत्तद्वस्तुविशिष्टं शब्दार्थः । मनुष्यादिपिण्डवाचक ब्राह्मणादिशब्दैः तत्तत्प्रकारविशिष्टात्मा यथाभिधीयते, तद्वत् । तच्च लोकवेदप्रसिद्धम् |
ननु गवादिशब्दानां पूर्वमेव प्रकारमात्रवाचित्वनिश्वये कथं तद्वि- शिष्टार्थपरत्वनिश्चय इति – तन्न; ‘गौर्जातिः’ ‘शुक्को गुणः’ इत्यादौ गवादि- शब्दानां पूर्वमेव निष्कर्षाज्जात्यादिपरत्वनिश्चये ऽप्यनिष्कृष्ट प्रयोगे विशिष्टार्थपरत्वोपपत्तेः । अथ तर्हि सर्वशब्दानां न विशिष्टार्थपरतेति- न; तन्निर्देशस्य निष्कृष्टेतरशब्दविषयत्वात् ; आकृतिमात्रवाचकशब्देऽप्यस्य चोद्यस्य समत्वाच्च ; व्यक्त्याकाशादिशब्दानामाकृत्यादिवाचित्वानभ्युपगमात् । नन्वपर्यवसानवृत्तिपक्ष’ एव भाष्यकाराभिमतः । यथोक्तं भाष्यादौ “तस्माद् ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य तच्छरीरत्वेनैव वस्तुत्वात्, तस्य
- नार्चिरादीति । केवलकैवल्यकामस्य नार्चिरादिगतिरित्याशयः । गीताभाष्ये कैवल्यार्थिनोऽर्चिरादिगतिवर्णनं पञ्चाग्निविद्यानिष्ठकैवल्यार्थिविषयम् । कैवल्याख्यावान्तरफलपूर्वकपरब्रह्मप्रासि रूपमुख्य- केवलकैवल्यकामः, न स मोक्ष कामत्वादिति द्रष्टव्यम् । ४. वाक्यार्थ प्रदीपः ८१ प्रतिपादकोऽपि शब्दस्तत्पर्यन्तमेव स्वार्थमभिदधाति” इति । तथा " एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतुः । अतो गवादिशब्दवत् देवमनुष्यादिशब्दा अध्यात्मपर्यन्ताः । एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मात्मकतया तत्प्रकारत्वात् जीवात्मवाचिनः शब्दाः परमात्मपर्यन्ताः " इत्यादि । तन्न; उदाहृतभाष्ये अपर्यवसान वृत्त्युक्त्यप्रतीतेः ; प्रत्युत भाष्यान्तरेषु विशिष्टार्थाभिधानप्रतीतेश्च । तथा हि- “अतः सर्वशब्दानां लोकव्युत्पत्यवगततत्तत्पदार्थविशिष्टब्रह्माभिधायित्वं सिद्धम्” इति । तथा “शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यम् । प्रकृतिप्रत्यययो- रर्थभेदेन पदस्यैत्र विशिष्टार्थप्रतिपादनमवर्जनीयम्” इत्यादि । आनन्दमयाधि- करणे च “नीलादिपदानां नैल्यादिविशिष्ट एवार्थो व्युत्पत्तिसिद्धः पदान्तरार्थसंसृष्टोऽभिधीयते” इत्यादि । " यद्यप्यरुणयेति पदमाकृतेखि गुणस्य द्रव्यप्रकारतैकस्वभावत्वाद् द्रव्यपर्यन्तमेवाभिदधाति" 1 … …. 2 न तावदाद्यः, घटादावतिव्याप्तेः । इष्टयज्ञादिसिद्धौ कृत्युत्पत्तिः । न च तदिष्टम् ; तस्य कार्यफलत्वाभिमानात् । द्वितीयादिषु गमनादिसाध्य- ग्रामादावतिव्याप्तिः । स्वर्गादावप्येतत् तुल्यम् । न च कार्यविवृद्धिरेव स्वर्ग इति न तत्तैौल्यमिति; विकल्पासहत्वात् । कार्यविवृद्धौ किं तस्य समवायिकारणत्वम् ? निमित्तकारणत्वं वा । नाद्यः ? स्वर्गस्य देशविशेषत्वे वा सुखविशेषत्वे वा गुणत्वेनाभिमतापूर्वस्य समवायिकारणत्वानुपपत्तेः । नापि द्वितीयः; तत्र कार्यातिरिक्तेऽतिव्याप्तेः । निमित्तकारणानां फलत्वेन विध्यदर्शनाश्च । किंच कृत्युद्देश्यपदं व्यर्थम् ; कृतिसाध्यपदेनैव चरितार्थत्वात् । कृतिकर्मत्वं हि कृत्युद्देश्यत्वमुक्तम् । कर्मत्वं च साध्यत्वमभिमतम् ; कर्तुः क्रियया आप्तुमिष्टमिति कर्मत्वस्य साध्यत्ववचनात् । आप्तुमिति पदं साध्यमात्रोपलक्षणम् । अत एव हि ‘घटं करोति’ इत्यादौ साध्यमात्रे द्वितीया ।
- यद्यपीत्यादिः अभिदधातीत्यन्तो भाष्यग्रन्थः पूर्ववत् विशिष्ट- वाचित्वे प्रमाणतयेोपन्यस्तः । एतदुरि बहुग्रन्थपातः ।
- कार्यवाक्यार्थवादनिराकरणप्रवृत्तेन कार्यत्वं कृतिसाध्यत्वमित्यादिक- मिह खण्ड्यते । तदिहापि उपक्रमगन्थभ्रंशः ।
- आप्तुमिति पददृष्टया प्राप्यत्वमेव कर्मत्वमिति घटं करोतीत्यादौ निर्वर्त्यादिकर्मणोऽसंग्रहापत्तेरित्यर्थः । 11 न मन्तव्यम्, ८२ नयधुमणि: न चावघाते स्वेदादेः कृतिसाध्यत्वेऽपि कृत्युद्देश्यत्वाभावात् पदद्वयार्थ - वत्तेति ; कृत्युद्देश्यपदस्य कृतिकर्मत्वाभिधानात् साध्यपदवैयर्थ्यात् । कर्मत्वस्यैव हि ‘चतुर्विधसाध्यत्वमुक्तं वैयाकरणैः । न चोद्देश्यपद मीप्सितार्थपरमिति ; 2 कर्मत्वार्थस्योक्तिवैयर्थ्यात् । आप्तुमिष्टतमत्वं हीप्सिततमत्वम् । इच्छा च न कृतेरिति । कर्तुः कृत्याप्नुमिष्टतमत्वं कृत्युद्देश्यत्वमिति चेत्; तर्हि कृतिसाध्य- पदवैयर्थ्यम्, कृत्युद्देश्यपदादेव साध्यत्वलाभात् । अपूर्वस्येप्सिततमत्वं च नास्ति । फलस्यैव ह्यद्देश्यत्वम् । ननु कृतिं प्रति प्रधानत्वं कृत्युद्देश्यत्वम् । तेन कृत्यप्रधान स्वेदनिवृत्तिः; पराभिमतस्वर्गमण्डलीकरणादेः कृत्युद्देश्यत्वात् साध्यपदमिति पदद्वयार्थवत्तेति — तन्न; कृत्युद्देश्यत्त्रस्यैव कृनिप्रधानत्वात् । तस्य चेप्सिततमसाध्यत्वात्, सुखस्यैव च तत्त्रात् तदतिरिक्तकार्यतासिद्धेः साध्यपदवैयर्थ्यम् । सुखसाधने तु तत्साधनत्वादेव तत्त्वारोपेणेप्सित साध्यत्वारोपमात्रम् ; न वस्तुत: ।
- चतुर्विधेति । यथाहु:- " निर्वर्त्य च विकार्ये च प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्थान्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ यदसजायते सद्वा जन्मना यत् प्रकाश्यते । तन्निर्वर्त्य विकार्ये तु द्वेधा कर्म व्यवस्थितम् ॥ प्रकृत्युच्छेदसंभूतं किंचित् काष्ठादिभस्मवत् । किंचिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत् प्राप्यमिति कथ्यते ॥” इति । अयं भावः — ईप्सिततमम् अन्यच्चेति द्विधा कर्म । तत्राद्यं त्रिधा, निर्वर्त्यादिभेदात् । अन्त्यं चतुर्धा । आहत्य सप्तविधम् । घटं करोतीत्याद्यम् । काष्ठं भस्म करोति, सुवर्णे कुण्डलं करोति इति द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुङ्क्त इति द्वेष्यम् । गां दोग्धीति संज्ञान्तरानाख्यातम् । क्रूरममिक्रुध्यतीत्यन्यपूर्वकमिति । उत्पत्त्यातिविकृतिसंस्कृतिभेदात् चातुर्विध्यं मांमांसकाद्युक्तमप्यनुसंधयम् ।
- कर्मत्वार्थत्वोक्तीति । उद्देश्यत्वं कर्मत्वमित्यर्थवर्णनं व्यर्थमित्यर्थः ।४. वाक्यार्थप्रदीपः ८३ न च कार्य सुखम् ; तस्य सुखवर्धकत्वेन पृथक्तया आत्मगुणत्वाभिमानात् । न च सुखवदपूर्वस्यापीष्टत्वम्, सुखानतिरिक्तत्वप्रसङ्गात् । न हि सुखातिरिक्तस्य वास्तत्रेष्टत्वम् । इष्टत्वेन वाक्यार्थत्वे तु न कार्यवाक्यार्थता । स्वर्गादिसाधनाय चापूर्वस्वीकार इति न तस्येष्टत्वम् । अत इष्टातिरिक्तत्वे सति तेन रूपेण वा आकारान्तरेण वा साध्यत्वमिष्टसाधनत्वम् ; तद्धीत एव प्रवृत्तिरिति बालस्यैव तथा व्याप्तिग्रहः । कुठारादेः स्वतोऽसाध्यत्वेऽपि करणत्ववेलायां व्यापार- व्याप्यतया आकारान्तरेण साध्यता इष्टा ; गवादेरानयनादिक्रियायास्तु स्वरूपेणेति साधनस्य साध्यता । तच्च वालेन स्तन्यपानतत्करणेषु व्युत्पन्नम् । स्तन्यस्येष्टत्वे तत्साधने प्रवृत्तिः; अन्यदा नेतीति च । इष्टसाधनत्वे च नानन्यर्थतया वाक्यार्थत्वधीः । न च साधनत्वमनन्यार्थत्वम् ; स्वामिनो गर्भदासपोषणसाधनेऽप्यनन्यो- पकारकर्तुः शेषत्वात् ; शेत्रित्वस्य चोपकारार्हत्वमात्राभिमानात् स्वामिनोऽपि तदविशेषात् । न च गर्भदासस्य स्वाम्यर्थत्वेनैव स्वामिना तत्पोषणमिति ; गर्भदासस्यापि स्वपोपणार्थत्वेनैव स्वामिकर्मकरत्वेनैवशेषत्वापातात् अदृष्टशेषत्वलक्षणं तु चोदनाप्रतीतिः । फलदातृत्वेन देवताशेषिता । द्वयोः न चैकस्य वाच्योभयशेषित्वप्रतिपादन सामर्थ्यम् ; प्रधानयोर्गुणयोरिवानन्वयात् । अर्थान्तरान्वितस्वार्थाभिधायीनि हि वाक्ये पदानीति चेत् — तन्न ; स्वसमाराधनार्थत्वेन देवतायास्तदुपयोग्यन्नादि- दातृत्वेन शेषित्वात् कर्तुरन्यप्रतीतिलभ्यफलत्वेन शेषत्वाच्च । स्वर्गादेः स्वसमाराधनानुपयोगिफलत्वेन देवताशेषत्वानुगुणफलत्वान्न देवताशेषित्वहानिः । “यथा पशुरेवं स देवानाम्” इति स्वर्गादिभोक्तुः पशुसमानसंस्तवेन देवता- शेषित्त्रश्रुतेः । तर्हि पशुमतः शेषः । तच्च भाष्य उक्तम् — “स्वाराधनोपयोगि- फलद. तृदेवताशेषिवं च” इति “देवान् भावयतानेन” इति श्लोकभाष्ये । समाराधनकर्तुर्देवतां प्रति शेत्रत्वं लोकप्रतीतिसिद्धं च । अतः समाराध्यफलेशि- वृदेवताप्राधान्यं सिद्धम् ।
ननु परिपूर्णस्य परस्य स्वसमाराधनप्रयोजनत्वेन न फलदातृत्वमिति - तन्न; तस्यापि लीलया तत्प्रयोजनत्वात् । स्वशेषप्राणिवृद्धेरपि स्वार्थत्वाच्च । सर्वप्राणिनां परमात्मानं प्रति स्वार्थत्वेन प्रवृत्तावपि परस्य शेषित्वमेव, परस्य 1. न च कार्य सुखमिति । अपूर्वस्य सुखत्वं नेत्यर्थः । ८४ नयद्यमाण: सर्वाधिपत्यश्रुतेः । अपूर्वस्य तु न फलसाधनत्वे प्रमाणम् । साधनं त्वेऽपि फलशेषतैवेत्युक्तम् । अव्यवधानात् फलहेतुः साधनम् ; व्यवधानाद्धेतुः करणमिति करणत्वसाधनत्वयोर्भेदेऽपि तस्य न शेषिता ; विकल्पासहत्वात् । साध्यतेऽनेनेति हि साधनम् । किमनेनेति कर्ता विवक्षितः ! करणं वा ? नाथः ; अपूर्वस्य कर्तृत्वायोगात् । तच्च पुरुषार्थफलहेतुत्वाभिमानात् । फलभागेव हि कर्ता । अपूर्वं च न फलभाक् । ‘शङ्कुला छिनत्ति’ इतिवत् कर्तृत्वारोपेऽपि तस्य न तावत् कर्तृत्वम् । प्रयत्नाद्याश्रयत्वं हि कर्तृत्वलक्षणम् | तत्तु न शङ्कुलादेरपि । इतरकारकाप्रयोज्यत्वम्, इतरकारकप्रयो क्तृत्वमिति लक्षणेऽपि नापूर्वस्य तत् । द्वितीयपक्षे तु न तस्य प्राधान्यम् । । । 1 किंचाव्यवहितसाधनत्वं च करणस्यैव । " साधकतमं करणम्” इति हि तल्लक्षणम् । अव्यवधानमेव हि तमत्रर्थः । अत एव हि द्वैधीभाव• फलानन्तरितसाधन कुठारादेः करणत्वम् । 23 यवहितानामपि करणत्वं नास्माभि- र्निराक्रियते ; कृष्या अन्नसिद्धिरिति व्यवहितेऽपि प्रयोगदर्शनात् । अतो नाव्यवहितस्य साधनत्वं च । एवं चापूर्वसिद्धावपि न करणत्वातिरिक्तता । व्यवहितस्यापि साधनत्व प्रदर्शनेन ‘अनन्तरितसाधनमेव कार्यं स्वर्गकाम्य- वगच्छति’ इति मतं निरस्तम् । न च स्वर्गकामित्वरूपेण स्वर्गेपायत्वानर्हक्षणिक क्रियारूपयागादेर्न कार्यतया बोधार्हतेति ; देवताप्रसादादिद्वारा तदर्हत्वेन कार्यताबोधार्हत्वात् तस्य । नाव्यवहितस्यैव कार्यतेति प्रमाणम् ; अन्नफलेनात्यन्तव्यवहितकृष्या - देरपि कार्यतावगतेः । ‘गामानय’ इत्यादौ लिङादिरपि क्रियाकार्यता परतयैव व्युत्पन्न इति तदेव कार्यम् । अनुपपत्ते। ह्यर्थान्तरकल्पना । क्रियायाः कर्तृव्यापारसाध्यतैव हि कार्यता । तच्चानादिप्रयोगमूलपाणिनिस्मृतिसिद्धम् । 1. ज्ञानचिकीर्षाप्रयत्नाश्रायत्वरूपं कर्तृत्वमपूर्वे सर्वथैवासंभावितमित्युक्त्वा तस्य करणत्वमेवोपपन्नतममित्याह — किंचेति । 2. तर्हि यागस्य व्यवहितत्वान्न करणत्वं स्यादित्यत्राह — व्यवहितानामिति । 3. पाणिनिस्मृतिसिद्धमिति । यथाहु:- इति । " यावत् सिद्धमसिद्धं वा साध्यत्वेनामिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ " ४. वाक्यार्थप्रदीपः ८५ न च तत्स्मृतौ लिङादेः स्थास्य पूर्वपरत्वोक्तिः । छन्दोविषयेऽर्थभेदे तत्परत्वेन साधुता स्मर्यत एव तत्र । देवताप्रसादात् फलसिद्धिस्तु " तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति" " स एवैनं भूतिं गमयति" इत्यादि- भिस्तत्तद्वाक्यशेषादिभिरेवावगम्यते । वाक्यगतैः व्युत्पन्नैः पदैः वाक्यार्थापूर्तौ ह्याकाङ्क्षितयोग्यार्थान्तरकल्पना । विध्युद्देशमात्रावगतार्थसंदेहे वाक्यशेषाना- दरेणार्थान्तरकल्पनायां हि “संदिग्धे तु वाक्यशेषात्” इति न्यायोच्छेदः । तत्र " अक्ताः शर्करा उपदधाति” इति विध्युद्देशेन द्रव्यविशेषास्फूर्ती संदेहे “तेजो वै घृतम्” इति वाक्यशेषात् तन्निरासोक्तिः । देवताविशेषधीश्च तत्तत्स्वरूपैश्वर्यत्वादिपरैः, “वज्रहस्तः पुरन्दरः” इत्यादिमन्त्रार्थवादैरेव सिद्धा । विध्यपेक्षितं च देवतास्वरूपादिज्ञानमिति न तदनादरः । अत एव स्वर्गादि- स्थाय्यर्थस्वीकारो भवताम् । देवतायाश्च स्थायित्वान्न कालान्तरभाविफलसि- यनुपपत्तिः । " स एवैनम्” इति देवताया अव्यवहितफलसाधनत्वाव- धारणात् नापूर्वस्य फलसाधनता । ननु यागादेर्देवताराधनत्वे किं प्रमाणमिति चेत् ; अनादिवृद्ध- प्रयोगमूला “यज देवपूजायाम्" इत्यादिस्मृतिरिति ब्रूमः । न चापूर्वस्यैव प्राधान्यात् देवतोद्देशेन द्रव्यत्यागमात्रं याग इति सा गौणीति; लिङादिवाच्यतया त्वदभिमतकार्यस्यैवासिद्धेः । किंच “संवत्सरमिन्द्रं यजेत” “विष्णुं यजति” इत्यादिस्मृतिरेव तत्समाराधनत्वे प्रमाणम् | ‘संवत्सरमिन्द्रं पूजयेत्’ ‘विष्णुं पूजयेत्’ इति हि तदर्थः । पूजा च पूज्यप्रधाना लोकेऽवगता क्रिया । ईप्सिततमपरद्वितीया- श्रवणाच्च तत्प्राधान्यम् । “वायुमेव स्वेन भागधेयेनोपधावति" इत्यादी च तत्प्राधान्यम् । न चार्थवादानामन्यपरत्वान्न तत्परत्वमिति; अन्यपरत्वहेत्वभावात् । न च कार्यप्राधान्यविधिरेवातत्परत्वे हेतुरिति ; कार्यसिद्धौ तत्प्राधान्ये चार्थवादान्यपरत्वम्; एतत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयात् । न चार्थवादत्वमात्रमतत्परत्वे हेतुः ; अपगोरणशतयातनार्थवादानां तत्परत्वाङ्गीकारात् । मुख्यार्थासंभवे तु लक्षणादिस्वीकारो न मन्त्रादिष्वेव ; “दर्शपूर्णमासाभ्याम्” इत्यादिविध्युद्देशेष्वपि तत्स्वीकारात् । दर्शपूर्णमासपदस्य हि कर्मणि लक्षणेष्टा । ८६ नयधुमणिः ‘आग्नेयम्’ ‘वायव्यम्’ इत्यादौ देवतायां तद्धितश्रवणाञ्च देवताप्राधान्यम् । “सास्य देवता” इति हि स्मृतिः । न च द्रव्यं प्रति तस्या अप्राधान्यधीः ; यागं प्रत्यनीप्सितत्वेनापि क्रियाकर्मणो द्रव्यस्यापि प्राधान्ये, क्रियां प्रति प्राधान्यस्याप्रसिद्धत्वात् । न हि क्रियेोद्देश्यायास्तस्यास्तच्छेषतेोपपन्ना । “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् " इत्यादी देवतायां चतुर्थीश्रवणाच्च तत्प्राधान्यम् । चतुर्थी च प्रधानार्थ एवेति स्मृत्यादिसिद्धम् । स्वसंबन्धाच्च तस्याः प्राधान्यम् | " स्वाहा देवहविर्दाने " इति च स्मृतिः । न च योगेन प्रयोजनं, न देवतयेति देवताया अप्राधान्यमिति ६ देवतया फलसिद्धिप्रयोजनात् । क्रियायास्तु तदाराधनस्येनैवार्थवत्त्वाच्च । तस्या अपूर्वोत्पादकतया अर्थवत्तायां तु न प्रमाणम् । तस्य अतः श्रुतिस्मृतिभिर्लोकतश्च देवताया यागं प्रति प्राधान्यं सिद्धम् । ननु " दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यादी करणविभक्त्या तत्पदस्य कथमन्वय: ? न च यागसाधनद्रव्यादिपरता तस्य नामधेयपादे नामधेयत्वसाधनात् । नाम च नामिसामानाधिकरण्येनान्वयीति समा नामिनोऽपि कर्मकरणता । एवं च दर्शपूर्णमासाभ्यां यागाभ्यामिति सिद्धं भवति । एवंविधाद्वस्तुनः राद्धान्ते क्रियायाः कर्तृव्यापारसाध्यत्वस्य लिङादिवाच्यत्वाभिमानात्, साध्यान्तरान्वये हि करणत्वोपपत्तिः अपूर्वस्य तु साध्यत्वात् पक्षान्तरेण करणत्वेनान्वयोपपत्तिः दर्शपूर्णमासाख्ययागाम्यामपूर्वं भावयेदिति हि तस्यार्थः । एवं करणत्वान्वयार्थम- पूर्ववाक्यार्थतैव युक्तेति — तन्न ; अपूर्वसिद्धेरेव तत्कारणत्वानुपपत्तेः ; प्रथममेवा- पूर्वकारणत्वस्यानिष्टत्वाच्च । फलं प्रति करणीभूतस्यापूर्वं प्रति विषयीभूतस्य पश्चादेव लभ्या अपूर्वकरणतेष्टा । बोद्धवस्थायामेव ह्यपूर्वप्रतीतिः । तदवस्थायां च यागादेर्विषयत्वमेव, न तत्करणत्वमिति भवत्पक्षेऽपि न करणत्वान्वयः ; पश्चाद्भात्रित्वात् तदन्वयस्य । तदुक्तम् — इति । " कृतितत्साध्यमध्यस्थो यागादिर्विषयो मतः । कार्ये संघट्टिताकारे करणत्वेन संगतः ||"
- प्रधानार्थ इति । उद्देश्यश्चतुर्थ्यर्थः । उद्देश्यत्वं च शेषित्वमिति वैयाकरणसिद्धान्तः । शेषित्वं च प्राधान्यमेव । ४. वाक्यार्थप्रदीपः ८७ तस्य पश्चाद्भाविफलकरणत्वेनान्वयित्वमस्मत्पक्षेऽप्युपपन्नम् । यागादेः फलकरणत्वं च देवताप्रीतिद्वारास्त्येव । देवताप्रीतिकरणत्वाच्च करणत्वेना- न्वयोपपत्तिः 1 एवंच तृतीयान्तनामयुक्तश्रुतौ दर्शपूर्णमासयागाभ्यां देवताप्रीति फलं वा साधयेदिति वाक्यार्थः । " इन्द्रं यजति" “अग्निहोत्रं जुहोति” इत्यादौ तु तत्तत्कर्मणामेव साध्यत्वमिति तत्परत्वमेव लिङादीनाम् । तत्राप्यार्थं करणत्वमस्त्येव । स्वर्गकामोऽग्निहोत्रमिति हि श्रुतम् । स्वर्गकामस्य नातत्साधने प्रयुक्तिरिति तस्या आर्थकरणता । तञ्च्चोक्तं वेदार्थसंग्रहे ““भोक्तुकामो देवदत्तगृहं गच्छेत्” इत्यादौ । ननु भाष्यादौ लिङादे: क्रियायाः कर्तृव्यापारसाध्यत्वमेवार्थ इत्युक्तम्, न तु देवताप्रीतिफलयेोरिति - सत्यम् ; लिङादीनां कर्तृवाचित्वात् कर्तृवाचिनां च कर्तृव्यापारसाध्यपरत्वेनान्वयात् तस्य च क्रियाया एव प्रायिकत्वेन संभवात् तत्परं भाष्यादि । न तु देवताप्रीतिफलयोरव्यापारसाध्य- त्वाभिप्रायम् । अत एव हि वेदार्थसंग्रहे फलकरणत्वस्य श्रीतत्वात् 2 औ पादानिकत्वनिरासः । किं च स्वतः कृतिसाध्यत्वं च क्रियाया एवेति लिङदिस्तत्परत्वोक्तिः । व्यवहितसाध्ये हि देवताप्रीतिफले । विध्युद्देशफल- वाक्यानि 3,
- भोक्तुकाम इति । “यथा ’ भोक्तुकामो देवदत्तगृहं गच्छेत् ’ इत्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणादेव प्रागज्ञातमपि भोजन- साधनत्वं देवदत्तगृहगमनस्यावगम्यते, एवमत्रापि भवति” इति वेदार्थसं- ग्रहवाक्यमत्रावगन्तव्यम् ।
- औपादानिकत्वनिरास । इति “कामिनः कर्तव्यतया कर्म विधाय कर्मणो देवताराधनरूपतां फलसिद्धिं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति " वायव्यं श्वेतमालमेत भूतिकामो वायुर्वे क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति” इत्यादीनि । नात्र फलसिद्धयनुपपत्तिः काचिदपि दृश्यत इति फलसाधनत्वावगतिः औपादानिकीत्यपि न संगच्छते " इति वेदार्थ- संग्रद्द्वाक्यमत्रावगन्तव्यम् । उपादानं नाम विध्याक्षेपः । कर्मणः फलसाधनत्वप्रकारो देवताप्रीतिद्वारेति वाक्यत एव स्पष्टम् । अतोऽन्यथानुपपत्तिप्रमाणकम पूर्वे परिगृह्य साधनत्वप्रकारवर्णनमयुक्तमित्यर्थः । अत्र देवताप्रीतिफलयोरपि व्यापार- साध्यत्वमुक्तप्रायमित्याशयः ।
- अत्र ग्रन्थपातः । । ८८ नयद्युमणि: 1दिदं भवद्भिः । न च स्वसिद्धय एव तस्य स्वर्गसाधनत्वमिति न प्राधान्यहानिरिति ; नियोज्यान्वयात् पूर्वं कार्याप्रतीतेस्तथा वक्तुमयुक्तत्वात् । क्रियाया नियोज्या- न्वयायोग्यत्वत एव हि स्थाय्यपूर्व साध्याभिधानम् । ततः प्रवर्तकवाक्येष्वेव सिद्धार्थपरताव्युत्पत्तिः । साध्यतैव कार्यतेष्टसाधनस्य । तच्च सिद्धरूपम् । स्तन्यतत्साधनपानक्रिययोर्वालेन सिद्धपरत्व’ एव व्याप्तिर्गृहीता । ननु स्तन्यस्यापि साध्यसुखार्थत्वेन साध्यपरतया व्याप्तिग्रह इति- तन्न; तत्सुखस्याप्यपि स्वार्थत्वावगतेः सिद्धार्थपरतावधारणात् । किंच स्तन्य- तत्सुखयोः फलत्वाभिमतेश्च न कार्यतेति न कार्यपरतया व्युत्पत्तिः । अतो ‘गामानय’ इत्यादिश्रवणसमनन्तरमध्यमवृद्धप्रवृत्तिदृशो बालस्यैवं धीरुदेति— इष्टसाधनत्वधीपूर्विकेयं प्रवृत्तिः, बुद्धिपूर्वप्रवृत्तित्वात् ; मत्प्रवृत्तिवदिति । इत्या- द्यनुमानं कार्यवाक्यार्थपक्ष इवेोन्नेयम् । इष्टसाधनस्यैव कार्यता । वेदार्थसंग्रहादा “गवानयनादिक्रियाया व्युत्पत्तिकाले दुःखरूपतयेष्टविशेषसाधनतयैव कार्यता” इत्यादिग्रन्थे । कार्यता च न साध्यतातिरिक्तेति वेदार्थसंग्रहादावेव स्पष्टम् । ननु " कार्यार्थ एव व्युत्पत्तिरिति निर्बन्धो निर्निबन्धनः” इत्यादि- भाष्यकारोक्तेः कार्यार्थेऽपि व्युत्पत्तिरभ्युपगतेति चेत् — सत्यम्; पराभि-
- दिदं भवद्भिरिति । अत्र ग्रन्थपातो मातृकाकोशयोः । अत्रलिङो ऽपूर्वा- त्मककार्यपरत्वं प्राभाकराभिमतं परास्यत इति ज्ञायते । अनेनैव ग्रन्थकर्त्रा नयप्रका- शिकायाम् — ‘वस्तुतो न कार्यस्य वाक्यार्थत्वमुचितम्, गामानयेत्यादिप्रवर्तकवाक्येष्वपि कार्यार्थव्युत्पत्तेरव्युत्पन्नत्वात् । तच्च कार्यवाक्यार्थवाद्यभिमतकार्यत्वस्य दुर्निरूपत्वात्: इत्यारभ्य ‘समभिव्याहृतस्वर्गकामपदार्थस्य नियोज्यस्य नास्वर्गसाधने क्षणिके क्रियारूपकार्ये कार्यत्वधीरिति हि क्रियातिरिक्तता साध्यते । अतः स्वर्गकामपद- संबन्धयोग्यस्यैवापेक्षितत्वात् तस्य साधनत्वेनैवान्वयः । अतो नियोगस्य स्वतः प्रयोजनरूपता दुर्मणा । अतः कार्यार्थवाद्यभिमतकार्यत्वस्य दुर्निरूपत्वात् शब्दानां कार्यपरत्वेनाद्यव्युत्पत्त्यभावात् सिद्धपरतयापि व्युत्पत्तिसंभवात् सिद्धवस्तुबोधकत्वेने - ष्टसाधनत्वस्यैव वेदार्थत्वम्’ इत्युक्तमन्त्रानुसंधेयम् ।
- सिद्धपरत्व इति । कर्तृव्यापारसाध्यत्वेष्टसाधनत्वरूपासिद्धार्थपरत्वो- पयोगिनी व्याप्तिः बालेन स्तन्यपानक्रियानुभवेन गृहीतेति विवक्षितोऽर्थः ।
अस्वार्थत्वावगतेरिति । न हि सुखं स्वार्थ भवति ; अपितु तदाश्रय- पुरुषार्थमिति सिद्धपरतयैव किं न व्याप्तिग्रह इति भावः । ४. वाक्यार्थप्रदीपः ८९ मतप्रक्रियायामपि वेदार्थविचारसिद्धिरिति वक्तुं तथोक्तत्वात् । अत एव हि “अपि च कार्यार्थ एव व्युत्पत्ति” इत्यादिग्रन्थजातम् । अथवा कार्यार्थ एवेति ग्रन्थ इष्टसाधनपरतयैव व्युत्पत्तिरित्येवं निरासपरः, तस्यैव कार्यत्वसाध- नात् । स्वर्गदाष्टसाधकतत्कर्तृदेवताव्यतिरिक्तानामिष्टसाधन शेषत्वात् कार्यार्थ इत्युक्तिरप्युपपन्ना । एवं प्रवर्तकवाक्यव्युत्पत्तावपि सिद्धार्थपरत्वाद् देवताप्राधान्यं सिद्धम् । अप्रवर्तकपदवाक्येष्वपि सिद्धार्थपरतया व्युत्पत्तिरस्ति । तथाहि - अव्युत्पन्न - बालसहितोऽन्धो वृद्धो वा कचिद् गृहे प्रविष्टः स्वपार्थ्यादौ कुत्रचिद् दण्डं निधायोपविष्टे, अन्यपरे च तस्मिन् तत्पार्श्ववर्तिना केनचित् हितैषिणा तदविज्ञातं तत्पश्चाद्देशादौ तद्दण्डे निहिते, ‘किमन्येनापहृतो दण्डः’ इति स्वहस्तस्पर्शदिनान्विष्य चादृष्टे तस्मिन् पार्श्ववर्तिनं कंचित् प्रति किं दण्डो दृष्टो देवदत्त ?’ इति वृद्धेनोक्ते, वृद्धचेष्टाभिज्ञेन बालेनापि ‘अयं दण्डायं प्रेषितः किं करिष्यति?’ इत्युन्मुखेन 2 अवगम्यमानेनान्येन च तत्रस्थेनैव ‘पश्चाद्देश एव दण्डो निहित:’ इति प्रत्युक्ते, वृद्धे च दण्डदृशि निवृत्ततदन्वेषणे, ‘वृद्ध इदानीं दृष्ट (ण्डः, निवृत्ततदन्वेषणव्यापारत्वात् मातृदर्शनप्रवृत्तस्तद्ददर्शनेऽहमिव ’ इति वृद्धस्य तद्दर्शनमनुमाय ‘वृद्धस्य दण्डदर्शनं च न प्रत्यक्षेणः पूर्वं तत्सद्भावेऽपि तस्यादर्शनात् । शब्दानन्तर्यात् तत् शब्दकरणकमेव । मम तु मातृदर्शनं मानान्तरात्’ इति बालोऽनन्तरं निश्चिनोति । दण्डदिदृक्षोश्च वृद्धस्य तद्दर्शनं वृद्धान्तरेरितशब्दकारणकम्, तदानन्तर्यात् चक्षुः संप्रयोगानन्तर्यान्मात्रादि- दर्शनस्य चक्षुःकारणकत्ववत्’ इति तज्ज्ञानस्य शाब्दत्वानुमानबलेनापि । मातृदर्शनस्य चाक्षुषता तदन्वयव्यतिरेकाभ्यामवधृता । शब्दार्थज्ञानं च तयोः संबन्धनिबन्धनम्, करणजज्ञानत्वात् चाक्षुषघटादिज्ञानवदिति तत्संबन्धवित् बालः, ‘प्रथमश्रवणवेलायामेव शब्दस्य नार्थप्रत्यायकत्वं किमिति, यथा वृद्धस्य?’ इत्यालोच्य, ‘चक्षुरादेरालोकादिसापेक्षत्वं यथा, तद्वदस्याप्यपेक्षणीयं किंचिदस्ति’ इति परिकल्पयति । तच्च संबन्धग्रहणाख्यव्युत्पत्तिरेवेति पश्चान्निश्चिनोति । ;
- भाष्यादिग्रन्थानुक्तं सिद्धार्थव्युत्पत्तिप्रकारं स्वयं कंचिदाह- तथाहीत्यादिना ।
- अवगम्पमानेनेति । उन्मुखेन बालेनावलोक्यमानेन पुरुषान्त- रेणेत्यर्थः । 12 ९० नयद्यमणिः ननु शब्दादेव वृद्धस्य दण्डदर्शनमिति न बालनिश्चयः, किंतु प्रमाणान्तरेणापि तद्दर्शनधियेति - तन्न; प्रवृत्तिहेतुकार्यज्ञानस्यापि प्रमाणान्तर- संभवधिया शब्दकारणत्वानिश्चयसाम्यात् । अथ दृष्टहेतौ न हेत्वन्तरकल्पनेति ; तर्ह्यस्मत्पक्षेऽपि तत् समानम् । कार्यधियः प्रवृत्तिहेतुत्ववत् इष्टावाप्तेरपि निवृत्तिहेतुत्वमस्यादि सर्वमुन्नेयम् । किंच प्रमाणान्तरेणापि सिद्धार्थव्युत्पत्युपपत्तिः । तथाहि- मात्रादिभिरङ्गुल्यादिभिस्तत्तत्पदार्थनिर्देशपूर्वकं ‘तव तातोऽयमास्ते । तं पश्य । तातममुमालोकय । तातमागतमीक्षस्व’ इत्येवं तातादिशब्दानुवृत्या पदान्तरावा- पोद्धाराभ्यां च तत्तत्पदार्थनिर्देशेषु शनैर्बालस्य तातादिसिद्धार्थपरता- धीरुदेति । अङ्गुल्या तत्तत्पदार्थनिर्देशपूर्वकं बहुरास्तत्तच्छब्दप्रयोगादव्यभिचार्य- नुभवो जायते । तत एत्र च पटुनरसंस्कारः । शब्दोऽर्थप्रमाकरणं तदानन्तर्यात् संप्रयुक्तचक्षुर्वदिति बोधकत्वशक्त्यनुमा । किंच अङ्गुल्या पदार्थनिर्देशपूर्वकं बहुशः प्रयुज्यमानशब्दस्यैष महिमा, यद्वालस्य स्वार्थप्रत्यायकत्वम् । एवंविधसामर्थ्य कल्पना चार्थधीदर्शनात् । कार्यादेव हि सर्वत्र कारणकल्पना | बहुशः ‘प्रयोगापेक्षा च सामान्यतो यावद्बोधकत्वा- ववारणं कतिपयशब्देष्वेव ; न सर्वशब्देषु । तदवचारणैश्वापूत्रार्थदर्शने ‘" किमेतदम्ब ?’ इति पृच्छति । ‘कोऽस्य वाचक:’ इति तत्प्रश्नाभिनायज्ञः तद्वाचकं शब्दं प्रयुङ्क्ते । तथा अपूर्वशब्दश्रवणेऽप्यर्थप्रश्ने ‘अस्यार्थ एष:’ इति वदति । तथा बालहितैषी वृद्धः ‘अस्य शब्दस्यायमर्थ:’ इति च व्युत्पादयति । एतत् सर्वं लोके दृश्यत एव । न चैवंप्रकारेण व्युत्पत्तिः कार्यव्युत्पत्तिपूर्विकेति ; तत्र प्रमाणाभावात् । । कार्यार्थे व्युत्पत्तिः सिद्धार्थव्युत्पत्तिपूर्वकेत्यपि वक्तुं शक्यत्वाच्च । अतः सिद्धार्थ एवाद्या व्युत्पत्तिः । ’ शब्दोऽर्थसंबद्धः, स्वग्रहत्वमात्रेण तत्प्रतीतिहेतुत्वात्, अन्यवत्’ इति । ‘तत्संबन्धो न संयोगः, शब्दस्य गुणत्वात् । नाप्याश्रयाश्रयिभाव ; वाच्यद्रव्यानाश्रितत्वात्’ इति प्रायेण वाच्यवाचकरूपं संबन्धान्तरमेवेति च कल्पयति । ‘न च तस्य सांकेतिकत्वम् स्वतो वा परम्परया वा संकेतयितृपुरुषा- ज्ञानात्’ इत्यादिना तस्योत्पत्तिकत्वमेवेति च ।
- किमेतदम्बेति । अगुल्या निर्दिश्य कतिपयशब्दार्थशिक्षाबलेन, ‘यावदर्थे वै नामधेयशब्दाः, तैरर्थप्रत्ययः’ इत्युक्तरीतिं बालो यदा पराम्रटुं पारयति, तदर अपूर्वार्थदर्शने नामधेयजिज्ञासया, हे अम्ब, किमेतदिति पृच्छतीत्यर्थः । ४. वाक्यार्थप्रदीपः ९१ ननु प्रायेण लोके द्रविडादिभाषास्त्रेव बालानां व्युत्पत्तिदर्शनात् तासां चार्थसंबन्धस्य संकेतमूलत्वात् नौत्पत्तिकसंबन्धव्युत्पत्तिराद्येति — संकेताविभागेन वाच्यवाचकयोः संबन्धमात्रस्य व्युत्पाद्यमानत्वात् । देववाणीषु व्युत्पत्तौ न्यायपाटवे च सति हि तद्विभागः । तन्न ; 1 अथवा द्रविडादिभाषाणामपि वृद्धपरम्परयैव तत्तत्पदार्थपरत्वेन प्रयुज्यमानत्वात् तत्संबन्धस्याप्यौत्पत्तिकतास्तु । तत्साधुपदत्वव्यवस्थापनाय पाणिन्यादिसूत्रवदगस्त्यादिसूत्राणि सन्तु । गाव्यादिशब्दवत् तत्राप्यपभ्रंशप्रयोगः सादिरस्तु । पुरुषादिव्यक्तिपरत्वेन सांकेतिकदेवदत्तादिशब्दवत् तद्भाषानुरूपं संकेतनामानि सन्तु । तथापि सर्वशब्दानां न संकेतमूलः संबन्धः । किंतु केषांचिदेव । अन्येषां त्वाकृत्यादिविशिष्टार्थत्राचित्वेनोत्पत्तिकत्वोपपत्तेः ‘पशु’ ‘ओ’ ‘आम्’ इत्यादिषु तद्भाषाशब्देषु दैववाण्यैक्यदर्शन | चौत्पत्तिकत्र्युत्पत्त्यु - पपत्तिः । एवं निश्चये मात्रादिभिरेवंविध संबन्धज्ञापनायैव पदार्थनिर्देशपूर्वक- शब्दप्रयोग इति च निश्चिनोति । 1 — एतेन 2शङ्के इत्यदिपदमात्रव्युत्पत्तिरुपपादिता । पदमात्रेऽपि व्युत्पत्त्यम्यु- पगमो भाष्ये – “एवं किल वाला:" इत्यादिग्रन्ये ; वेदार्थसंग्रहे च- - “यथा बालः तातोऽयम्” इत्यादिग्रन्थे च । एवंविधा लोकसिद्ध व्युत्पत्तिर्लध्वी च ; एक वृद्धादेव तत्सिद्धेः । कार्यव्युत्पत्तौ तु वृद्धद्वयापेक्षेति गुर्वीं । नन्वत्रापि पदे वाक्ये च व्युत्पत्तिरिति गौरवमिति - तन्न ; उभयथापि ’ दृश्यमानत्वात् । न हि दृष्टेऽनुपपन्न नाम । वृद्धद्वयादेव व्युत्पत्तिरिति निबन्धने तु यत्र काप्येकवृद्धमात्रेण सह वसतो बालकस्य शाब्दव्युत्पत्त्यभावप्रसङ्गः । स्वदेश- भ्रंशान्मातापित्रोरन्यतरमात्रस्य कीकटादिदेशवासोऽप्युपपद्यत एव । बालस्य तत्तद्देशवासेऽपि स्वभाषामात्रव्युत्पत्तिर्दृश्यते । अतः कार्यार्थ एव व्युत्पत्ति-
- अथवेत्यन्वारुह्य वादः | वास्तवस्तु पक्षः पूर्वोक्त एव । 2. शङ्क इति । “मन्यशङ्कध्रुवंप्रायोनूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते तद्वदिवशब्दोऽपि तादृशः ||” इत्यालंकारिकसमयसंकेतितः शङ्कुशब्द उत्प्रेक्षाव्यञ्जक इति भावः ।
- गुर्वीति । लोकसिद्धव्युत्पत्तिरिति विशेष्यमनुपञ्जनीयम् ।
उभयथापीति । पदे वाक्ये चेत्यर्थः । ९२ नयधुमणिः रिति निर्बन्धो निर्मूलः । कार्यार्थे व्युत्पत्तावपि क्रियाकार्य एव, तदतिरिक्तकार्यस्य दुर्निरूपत्वादित्युक्तम् । क्रियाकार्यव्युत्पत्तावपि न सिद्धार्थपरत्वहानिरित्युक्तम् । अतो न वेदवाक्यानां परब्रह्मपरत्वे काचिद्धानिः । आग्नेयादिवाक्याना- मप्यग्न्यादिविशिष्ट परमात्मपरत्वप्रसाधनात् अग्न्यादिमात्रपरत्वप्रयोगो गौणः, ‘अग्निर्माणवकः’ इत्यादाविव । सिद्धार्थव्युत्पत्तिसाधनात् मन्त्रार्थवादानामपि स्वार्थपरता । न चैवं वाक्यभेदः ; कर्मादिविध्यपेक्षित देवता द्यैश्वर्यप्रतिपादनादेकवाक्यत्वोपपत्तेः ।
ननु देवताया विग्रहादिमत्वे वेदस्यानित्यार्थसंयोगादनित्यतेति - तन्न ; घटादिशब्दवदिन्द्राद्याकृतिविशिष्टार्थवाचित्वेनानित्यार्थसंयोगित्वाभावात् । न च विग्रहवत्वे बहुत्र यज्ञसंनिध्यनुपपत्तिः; वाक्यशेषादिषु श्रूयमाणाणिमाद्यै- श्वर्यसद्भावात् । शास्त्रसिद्धत्वात् हविरादानस्यापि नानुपपत्तिः । न च देवतोद्देशेन भूम्यादिषु त्यक्तहावेषोऽक्षयत्वदर्शनात् । नादानमिति ; रसभोजित्व श्रवणात् तदुपपत्तेः । ‘यावदेका देवता कामयते तावदाहुतिः प्रथते’ इत्यङ्गुष्ठमात्र- हविषोऽपि यावद्देवताकामं प्रथनश्रवणात् तृप्तिहेतुत्वम् । प्रीतिवरप्रदाने च स्पष्टे श्रूयते । ननु महाप्रलये यथाश्रुति कृत्स्ननाशाङ्गीकारे शब्दात्मकवेदस्यापि नाशोऽङ्गीकार्यः । शब्दो ह्याकाशगुणः । आकाशश्च कार्यः । अतो न वेदानादिनित्यता ; न च शब्दार्थ संबन्धौत्पत्तिकता च । किंच पूर्वकाण्डे शब्दानां सर्वगतत्वनित्यत्वे प्रसाधिते । तद्विरोधश्च । अतो वेदनित्यत्वाङ्गीकारे न युगपत्प्रलयोऽङ्गीकार्य इति चेत् — तन्न ; शब्दानुपूर्वीविशेषस्यैत्र वेदत्वात् तस्य चापुं प्रभवस्यैव नित्यत्वात् । शब्दानां प्रलयोत्पत्तावपि तदविशेषात् । तत्कालेऽपि परमगुरोः परमात्मनः स्थितत्वान्न संप्रदायविच्छेदोऽपि शब्दार्थसबन्धौत्पत्तिकत्वं तु शब्दार्थयोर्नाशेऽपि न विरुद्धम् ; तस्याप्यपुं प्रभव- रूपत्वात् । यथा यागादिक्रियाया अनित्यत्वेऽपि तद्वाचकशब्दसंबन्धनित्य- त्वम् एवमत्रपि । व्युत्पादकपरमाचार्य परमात्मस्थितेर्न व्युत्पत्तिविच्छेदश्च । शब्दनित्यत्वादिसाधनं तु चिरस्थायित्वादिपरमिति वक्ष्यते ।
- अक्षयत्वदर्शनादिति । देवतया भुक्तत्व हि क्षयः स्यात् । अक्षीण तु तत् लक्ष्यत इति भावः ।
- वक्ष्यत इति । शब्दनिरूपणप्रकरणे इति शेषः ।४. वाक्यार्थप्रदीपः ९३ एवं यागादीष्टसाधनस्यैव कार्यत्वे देवताप्राधान्यादौ च न काचिदनुप- पत्तिः । इष्टसाधनक्रियाया एव कार्यत्वे च तत्र कर्तुरेवान्वयः । एवं चालौकिक- प्रयोगसारूप्यं लौकिकस्य प्रयोगस्य । कर्ता च लिडादिवाच्यः ; “लः कर्मणि च” “कर्तरि शप्” इत्यादिस्मृतेः । ननु न कर्तुर्वाच्यता ; कृत्याक्षिप्तत्वात्तस्य । अनन्यलभ्य एव हि बाच्यः। तत्संख्याभेदस्तु नान्यतो लभ्य इति तत्परो लिङादिः । 2 चकारात् कर्तरि ’ इत्यादिस्मृतिरपि तत्परेति वस्तुवलवादी । शब्दबलवादी तु संख्याया अनन्यतो लभ्यत्वाल्लिङादिस्तत्परा | स्मृतिरपि तत्परेत्याह । तस्या वाच्यत्वे कर्तृगतत्वमुपा- धिमात्रम् ; न तु वाच्यम् । कर्तुर्न हि वाच्यतेति चेत् — तन्न ; कृतेरपि क्रियाक्षिप्तत्वेन लिङाद्यवाच्यत्वापातात् । न हि कृतिव्यतिरेकेण क्रियोत्पत्तिः ; संख्याया अपि क्रियाक्षिप्तत्वादवाच्यतापत्तिश्च । न ननु अकारकस्य न क्रियाक्षेपः । सा च न कारकम् । कारकोपादाने च तदपेक्षेति–तन्न ; विशिष्टस्यैव कारकत्वाद्विशेषणस्यापि तदन्तर्भावात् । किंच कारकस्यापि संख्याव्यतिरेकेण कारकत्वासिद्धेस्तदाक्षेप इति वाच्यता ; केनाप्यन्यतो लाभात् । न ह्याक्षेपकनियमः 1 अन्यतो लभ्यत्वमेव ह्यवाच्यत्वे युक्तिः । एवं शौक्लयादिगुणानामप्यन्या- क्षिप्तत्वेन न वाच्यता । एवं गोत्वादीनामपि । संख्याभेदगुणविशेषजाति- विशेषविधयस्तु नियमार्थाः प्रसज्येरन् । एवंच आकृत्यधिकरणे जात्यांदि- वाच्यतासाधनं व्यर्थम् । स्वर्गादिफलत्वं च नियोज्यविशेषणत्वेनान्वितं न फलतयेति साध्यतद्विशेषणफलाक्षिप्तमपूर्वमपीति तस्यापि न वाच्यता 1 साध्यस्वर्गाद्यर्थमेव ह्यपूर्वम् । विषयनियोज्यौ तु न वाच्यावित्युक्तम् । अकरणत्वादिवत् । क्रियाकार्यं तु न वाच्यम् ; लाक्षणिकत्वाभिमानात् । विवक्षन्
- “लः कर्मणि” इति सूत्रे कर्तृपदाश्रवणात् कथं कर्त्रर्थकत्वमित्याशङ्कायां तत्रत्यचकारविवक्षितत्वं तस्येति कर्तृपदघटितं पूर्वसूत्रमुपादत्ते ‘कर्तरि शप्’ इति ।
- चकरादित्यादि । “लः कर्मणि च " इति पाणिनिसूत्रे “चकारात् कर्तरि” इति तद्वयाख्यारून भाष्यादिस्मृतिरित्यर्थः । तत्परेति । कृार्तपरेत्यर्थः । कर्तृगतसंख्यापरेति वा ।
- करणत्वादिवदिति । क्रियया कारकाणामाक्षेपसंभवादिति भावः । ९४ नयद्यमणिः “ब्रीहिभिर्यर्जते” इत्यादौ जातेरेव करणत्वाभिमानात् तस्य चावाच्यत्वात् मुखान्तरेणापि जात्याद्यवाच्यतापत्तेश्च । एवमनन्यलभ्यस्य वाच्यतावादिनां मते लोके वेदे वा न कस्यापि वाच्यत्वसंभवः । वाच्यार्थत्वसंभवे हि लाक्षणिकादिसिद्धिः । अतो नानन्यलभ्यः शब्दार्थः । किंतु शब्दात् यत् व्युत्पत्ताववगम्यते तत् सर्वं तदर्थः । कृप्तशब्दै कार्यैकदेशत्यात् निर्वाहस्तु गौणः । विधेयं तु काममनन्यलभ्यं भवतु । अन्यतो लभ्यस्यापि न वाच्यत्वहानि: 3 देहानामेवमनूद्यत्वात् । अतः कर्ता वाच्यः । तद्विशेषणं च स्वर्गादिः । न च कर्तुः क्रियाविशेषणत्वात् तद्विशेषणस्यापि तच्छेषता ; सा चानुपपन्ना, साध्येष्टत्वादिति – न ; कर्तुः क्रियाविशेषणत्वाभावत्वस्योक्तत्वात् । किंच नियोज्यविशेषणत्वेऽपि कार्यशेषत्वापत्तिः समा । न हि बोद्धा कार्य प्रति प्रधानम् । किंच बोद्धुरार्थत्वेन न शब्दवाच्यता । न हि स्वर्गकामादिपदस्य कार्यतया बोद्धृपरता, अतत्प्रतीतेः । न चार्थतया वोद्धुशाब्दत्वम्, बोद्धृरभावे कर्तुरभावादिति ; काण्डाद्यभावे व्रीह्याद्यभावात् व्रीहिशब्दस्य काण्डादि- परत्वापातात् । आर्थस्य च न चोदनार्थतयान्वयः । 4 विषयोऽपि न शब्दवाच्यः ; यजेतेत्यादौ यागस्यापूर्वविषयत्वाप्रतीतेः । विषयस्य वाच्यत्वस्वीकारे ‘धनार्थी राजगृहं गच्छेत्’ इत्यादावपि विषयत्वधीः स्यात् । न च तदस्ति । एतेनेदं निरस्तम् ; ननु – “वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम्” इति । “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना” इत्यत्र भाष्ये बोधबोध्यवे दूधृयुक्तो ज्योतिष्टोमादिकर्मविधिरिति
- तस्य । करणत्वस्य ।
- नेति । अनन्यलभ्यः शब्दार्थ इति न्यायो नेत्यथेः । वदद्भिर्भाव्यकारैः
- देहानामिति । कर्तृविशेषपणभूतो देहो न वाच्यः, अन्यतो लभ्यश्चेत्यर्थः ।
- नियोज्यविषयान्वितं वाक्यवेद्यामित्यत्र नियोज्यस्य वाच्यत्वं प्रतिक्षिप्य विषयस्य वाच्यत्वं प्रतिक्षिपति - विषयोऽपीति । विषयत्वेन रूपेण विषयो न वाक्यात् प्रतीयत इत्यर्थः । ४. वाक्यार्थप्रदीपः ९५ बोद्धुश्चोदनार्थतोक्तेति — तन्न ; तस्य ज्ञानवदार्थबोद्धृपरत्वात् । न हि ज्ञानं चोदनार्थः ; अतः ‘मत्कर्तृकं कार्यम्’ इत्यार्थमेव बोद्धृत्वम् । न चत्र्विजां तर्हि ’ मत्कर्तृकं कार्यम्’ इति बोद्धृता ; दक्षिणापरिक्रीतत्वेन तेषामन्यार्थत्वात् । अतः “स्वर्गकामो यजेत” इत्यादौ न नियोज्यविषयान्वितकार्यताधीः; किंतु देवत!राधनात्मकतया यागस्य कर्तृव्यापारसाध्यत्वधीरेव । अथ को लिडादिवाच्यः ? " विधिनिमन्त्रण" इत्यादौ विध्याद्यर्थेषु हि लिङादिस्मृतिरिति ; उच्यते — इष्टतत्साधनयोरन्यतरस्य पुरुषव्यापारसाध्यत्वमेव हि विधिरिति । विधिः प्रेरणेति हि शाब्दाः | प्रेरणा च प्रवर्तकत्वम् । तच्च पुरुष- विशेषं प्रति साध्यस्यैवेति तदेव विधिरूपोऽर्थः । साध्यत्वावगतौ हि पुरुषः प्रेर्यत एव । तदुक्तं वेदार्थसंग्रहे - “इच्छाविषयतया प्रतीतस्य स्वयत्नोत्पत्तिमन्तरेणा- सिद्धिरेव प्रेरकत्वम् । तत एव प्रवृत्तेः” इत्यादिना । तत्रेच्छाविषयतयेत्युक्ति- रिष्टसाधनस्यापि प्रदर्शनार्थी; तस्यापि साध्यत्वाविशेषात् । अत एव हि तत्र “यज देवपूजायामिति देवताराधन भूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां लिङादयोऽभिदधति” इत्युक्तिः । अतः प्राप्ताप्राप्त विवेकेन साध्यत्वमेव लिङादिवाच्यो विधिः । तदाश्रयो यागादिस्तु विधेयः । अस्मिन्मते भावार्थस्यैत्र विधेयत्वमिति न निर्बन्धः; दध्यादीनामपि होमसाधनत्वाकारेण साध्यत्वाद्विधेयत्वोपपत्तेः । गुणानुरक्तभावार्थस्य विधेयत्वं तु हेयम् ; होमादिभावार्थस्य प्राप्तत्वात् । भावार्थस्यैव विधेयत्वे च सर्वत्र श्रुतिविधेयतव स्यात्; लिङाद्याश्रयतया कृप्तस्यैव सर्वत्र विधेयत्वात् । तथाच न2 वाक्यादिविधेयम् । I. प्रवर्तकत्वमिति । प्रवर्तनत्यर्थः । अयं मावः - विधिनिमन्त्रणेति सूत्रे विध्यादीनां चतुर्णां प्रवर्तनामुखभेदेन ग्रहणं कृतम् । अतश्चतुष्टयसाधारण्येन प्रवर्तनैव लिङर्थः । यथाहुः— “अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ विधातव्यः किं भेदस्य विवक्षया ॥ " इति । यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वम्, सैव प्रवर्तना । स च विषयः इष्टसाधनतैवेति सैव विध्यर्थ इति भावः ।
न वाक्यादति । श्रुत्यर्थविधानं क्वचित्, कचिच्च वाक्यार्थविधान- मिति मीमांसकेष्टं न सिध्येदिति भावः । ९६ नयधुमणिः किंच दध्यादि च वाक्यविधेयम् । जुहोतिसमभिव्याहारात् तस्य साध्यत्वावगतेः । न हि दघ्नेति पदमात्रात् साध्यत्वावगतिः । सिद्धरूपस्यापि दध्यादेः परिस्पन्दात्मकतया साध्यता, होमान्वितदधिसाधनत्वादेरपि वाक्यार्थ- तेति न क्रियादेरेव वाक्यार्थता । अन्यान्वितस्वार्थाभिधायित्वं वाक्यानामिति च वक्ष्यते’ । अतः साध्यत्वमेव सर्वत्र विध्यर्थः । नन्वज्ञातज्ञापनं विधिरिति व्यवहारो भाष्यादैा । शक्तिश्च ज्ञापनमिति - तन्न ; विधिवाचकत्वेन शब्दे तन्निर्देशस्य लाक्षणिकत्वात् । अथवा यत् अज्ञातं तदेव ज्ञाप्यत इत्यज्ञातज्ञापनम् । तस्मात् तदर्थात् तस्य तज्ज्ञेयतैव सिध्यतीत्यर्थः । 4अज्ञाते हि ज्ञानविषयत्वयोग्ये ज्ञेयत्वबुभुत्सेति ज्ञानकर्मत्याकारेण साध्यतेति प्रेरकत्वमिति तस्य विधित्वोपपत्तिः । किंच शब्दगतज्ञापनरूपशक्तेश्च न शब्दवाच्यतेति न विधित्वोपपत्तिः । शब्दधीतद्वाचकशक्तिभ्यामन्य एव ‘यजेत ंइत्यदिशब्दवाच्यः । कर्तृवाचकलिङादिप्रत्ययस्य ‘तद्वाचकत्वं च यागादि- प्रकृत्यर्थस्य तद्वयापारसंबन्धप्रकारवाचित्वद्वारा । तदुक्तं वेदार्थसंग्रहे — “कर्तृ- वाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः " इत्ययादिना । 7 अथवा लिङादिपदरहितवाक्येषु अर्थस्य तथा ज्ञाप्यमानत्वात् तत्र च विधिवाचकप्रत्ययाभावात् तत्पदयुक्तवाक्येषु विधिवाक्यत्वेन विधि- व्यवहारदर्शनादन्यत्रापि तद्व्यवहारो लक्षणयैवास्तु |
- वक्ष्यत इति । अन्विताभिधानप्रकरण इति शेषः ।
विधिरितीति । अज्ञातज्ञापनं विधिरिति व्यवहारात् अभिधैव भावना विधिरिति न्यायरत्नमालाकृतः पार्थसारथिमिश्रस्य पक्षो भाष्यसंमत इति शङ्कितु- राशयः । तस्मादिति । अज्ञातज्ञापनपदस्यैवमर्थकत्वात् अज्ञातं यत् ज्ञाप्यं स 3. विधिरित्येव सिध्यतीत्यर्थः । 4. अज्ञातं सर्वे कथं विधिः स्यात्, प्रेरकत्वस्यैव विधित्वादित्याशङ्कय अज्ञाते सर्वत्र प्रेरकत्वं केनचिद्रूपेणोपपादयति-अज्ञाते हीति । ज्ञानविषयभावार्हेऽस्य जिज्ञासा जायते । ज्ञानकर्मत्वा च तद् ज्ञानकर्मतया बुभुत्सामान्यं भवति । यच्च साध्यं तत् स्वर्गादि लोके प्रेरकं प्रयोजकमिति व्यवह्रियते । अतोऽज्ञातस्य सर्वस्य विधित्वमित्याशयः । 5. तद्वाचकत्वम् । विधिवाचकत्वम् । 6. तद्वयापारेति । कर्तृव्यापारेत्यर्थः । 7. प्रवर्तकवाक्यापेक्षयान्यत्नाज्ञातज्ञापकवाक्येषु विधिव्यवहारो लक्षणयैव । ततो न तत्र विधिशब्दमुख्यार्थसमन्वयश्चिन्तनीय इति पक्षान्तरमाह — अथवेति ।
४. वाक्यार्थप्रदीपः ९७ ‘ननु श्रीगीताभाष्ये “यः शस्त्रविधिमुत्सृज्य” इत्यत्र “शास्त्रं वेदः, विधिरनुशासनम् " इत्यनुशासनस्य विधित्वमुक्तम् । तथा भाष्येऽपि सांख्य- पक्षनिराकरणाधिकरणे च “स्वशासनावबोधि शास्त्रं च प्रदर्श्य” इति शास्त्रस्य शासनात्रत्रोधित्वमुच्यते । अतः शासनं नियोगः प्रेरणेति पर्याया इति पुरुषगतधर्म एव विध्यर्थत्वेनाभिप्रेत इति चेत् — तन्न ; " तत्रेष्टसुख दिना पुरुषेण स्वप्रयत्नादृते यदि तदसिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्रवर्तते” इत्यारभ्य “इच्छाविषयस्य प्रेरकत्वं च प्रयत्नाधीनसिद्धिकत्वमेव ; तत एव प्रवृत्तेः । तथा विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासन सिद्धमेव लिङादेर्वाच्यम्” इत्यन्त- भाष्यविरोधात् पूर्वोदाहृतवेदार्थसंग्रह विरोधाच्च । तत्र हि कर्तृव्यापार- साध्यत्वमेव लिङादिवाच्यमिति कण्ठांतम् । “य: शास्त्रविधिम्” इत्येतच्छ्लोकभाष्ये तु विधिशब्देन विधायक- शास्त्रमभिमतम् । अत एव हि “वेदाख्यं मदनुशासनमुत्सृज्य” इत्युक्तिः । न हि वेदः पुरुषधर्मः । भाष्ये तु शासनशब्दः कर्मादिकर्तव्यतापर उक्तः । अत एव हि तत्रैव भाष्ये—“एतानि कर्माणि समीचीनानि ; एतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय” इत्याद्युक्त्वा “स्वशासनावबांधि शास्त्रम्” इत्युक्तिः । शासनमपि वस्तुतः परस्य हितार्थकर्तव्यताज्ञापनमेव । ज्ञापनं च ज्ञाप्यनिष्ठमिति ज्ञाप्यं कर्तव्यमेव प्रेरकम् । न हि कर्तव्यत्वानवगतौ शासनमात्रात् स्वतन्त्र पुरुषप्रवृत्तिः । शासनमात्रात् प्रवृत्त्युक्तिस्त्वौपचारिकी । वेदस्य परमात्म- शासनत्वं तु परमहितैषिपरमात्महृदयनिहितार्थावबोधित्वात् । न च तथात्वे वेदस्यानित्यतापि ; सर्वदा तदर्थैकरूप्यात् । अतो ज्ञाप्यसाध्यार्थिपुरुषापेक्षयैव प्रैषादिव्यवहारः । एनेन न्यायकलापेनैतदपि निरस्तम् – “आप्तस्य हितकामस्य नियोगो विधिः प्रवर्तना” इति यदस्मदीयैकदेशिभिरुक्तम् । तत्पक्षो भाष्यादिविरुद्धश्च ।
- आप्ताभिप्रायो विधिरिति उदयनपक्षो भाष्यसंमत इति शङ्कते - नन्विति । 13 ९८ नयद्यमणिः ‘कर्तृवाच्यत्वसाधनप्रसङ्गात् विध्यर्थोऽपि निर्णीतः । अधिकार्यपि न कर्त्रतिरिक्तः ; तस्यैव कर्मेश्वरत्वसाधनात् । कर्मैश्वर्यमेव हि परेषामधिकार इष्टः । स तु पृथक्त्वेनेष्टश्च । अधिकारित्वं स्वामित्वम् । कर्तृत्वं तु क्रियाशेषत्वमिति विरोधीति । कर्तुः शेषत्वनिरासात् तत् निरस्तम् । अतः षष्ठाध्यायोऽपि कर्तृनिरूपणपरः । नियोज्योऽपि स एव ; तस्यैव फलभाक्त्वेन नियुज्यमानत्वात् ; " शास्रफलं प्रयोक्तरि " इति न्यायात् । नियोज्यतापि भाष्यकाराङ्गीकृता । यत एवमुक्तं श्रीगीताष्टाद- शाध्याये - " नन्वेवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवति" इति । तस्य स्वर्गकामादिपदसमर्प्यता तु नेष्टा । किंतु आर्थ एव । यत एवमुक्तं वेदार्थसंग्रहे—“स्वर्गकामो यजेत" इत्यादिषु लकारवाच्यकर्तृविशेषण- समर्पणपराणां स्वर्गकामादिपदानां नियोज्यसमर्पणपरत्वं शब्दानुशासनविरुद्ध- त्वेनावगम्यते” इति । आर्थों नियोज्योऽपि न कार्यबोद्धा । किंतु स्वेष्टसाधनस्य स्वकर्तृकत्व- बोद्धा । तथात्वावगतौ हि नियोज्यते पुरुषः । प्रेर्यत्वमेव हि नियोज्यत्वम् । आर्थता च साङ्गाध्ययनादीषदर्थावबोधे रागान्मीमांसाप्रवृत्तौ च निर्णीतवेदार्थपुरुषस्याविधितः सिद्धत्वात् । विषयस्वभावादेवार्थज्ञानसिद्धिः । रागान्मीमांसाप्रवृत्तिश्च भाष्योक्ता । तस्य अतो नियोज्यत्वावस्थायाः कर्तृत्वातिरिक्तत्वेऽपि नियोज्योऽर्थसिद्ध इत्यलमतिविस्तरेण । अतः कर्तृकरणादिसर्ववस्तूनां ब्रह्मविशेषणत्वेन तद्वाचकसर्वशब्दानां तत्तद्विशेषणविशिष्टपरमात्मवाचित्वात् परब्रह्मभूतः परमात्मा नारायण एव सर्वपदवाक्यानामर्थ इत्ययमेवार्थोऽनवाप्त प्रतिपक्षाद्यवस्थः सुस्थः प्रकाशते सर्वत्रेति सर्वं निरवद्यम् |
- कर्तृवाच्यत्वेति । कर्तुलिङादिवाच्यत्वेत्यर्थः । ४. वाक्यार्थप्रदीपः मीमांसाख्यमहावह्नेः प्रदीपोऽयं प्ररोपितः । अज्ञानतमसा छन्नदृष्टीनामर्थसिद्धये ॥ स्वहस्तावाप्तवाक्यार्थप्रदीपस्य मनीषिणः । उपायोपेय संसिद्धौ न क्लेशो न च वि (नि) ग्रह : ’ ॥ इति श्रीमदात्रेयनाथसूरिसूनुमेघनादारि सूरिविरचिते नयद्युमणौ वाक्यार्थप्रदीपाख्यं प्रकरणम् । ९९
- विग्रहः । विपरीतग्रहः ; विमतिरिति यावत् । प्रदीपाभावे विपरीत- ग्रहो भवेत् ; न त्वस्मिन् सतीति प्रकृतानुकूलं व्याख्येयम् । निग्रह इति पाठकल्पने तु परैः पराजयो नेत्यर्थः स्षष्ठ एव । ५. अन्विताभिधाननिरूपणम् 1 अन्वितार्थाभिधायित्वमूरीकृत्य प्रसाधितम् । ±परब्रह्माभिधेयत्वं वाक्यानां तत् प्रसाध्यते ॥ अर्थान्तरसंसृष्टस्वार्थाभिधायीनि पदानीति हि दर्शनम् । अत एवमुक्तं वेदार्थसंग्रहे - " एवमेव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषाणां
- अन्वितेत्यादि । इदमत्रावधेयम् - वाक्यार्थ प्रतीतिविषये मीमांसकानां मतद्वयमस्ति - अन्विताभिधानम्, अभिहितान्वयश्चेति । तत्र प्रथमपक्षः प्राभाकराणाम् । द्वितीयो भाट्टानाम् । प्रथमस्वरूपनिरूपणं यथा प्रकरणपञ्चिकायाम् — “पदजातं श्रुतं सर्व स्मारितानन्वितार्थकम् | नयसंपादितव्यक्ति पश्चाद् वाक्यार्थबाधकम् ||” । अयं भावः - प्रथमतो इति । श्रुतं पदजातं वाक्यार्थबोधकमित्यन्वयः वाक्यश्रवणकाले पदानि श्रूयन्ते । तानि च पूर्वमेवार्थविशेषेषु व्युत्पन्नानि अत्र वाक्ये श्रूयमाणानि एकसबन्धिज्ञानमपरसबन्धिस्मारकमिति न्यायात् तानेवार्थविशेषान् स्मारयन्ति । एवं पृथक् स्मृतेष्वर्थेषु आकाङ्क्षादिभिः परस्परमन्वये संपादनीये श्रुतिलिङ्गादिभिर्न्यायैरङ्गाङ्गिभावनिर्णयो भवति । ततो नानाविशेषणविशिष्टप्रधानै- कार्थप्रतीतिः । स एव च वाक्यार्थः । स च पदशक्त्यैव जन्यते । अतः ‘पदजन्य पदार्थों- पस्थितिः शाब्दबोधे हेतु:’ इति व्युत्पत्तिभङ्गोऽपि न । प्रथमजात विशकलितार्थप्रतीतेः स्मरणरूपत्वात् न तत्र पदशक्तिः । अत एकैव पदशक्तियग्येतरान्वितं स्वार्थमभि- दधातीति न शक्तिद्वयकल्पनमपि ।
स्वार्थी अभिहितान्वयपक्षस्तु – प्रथमं श्रुतैः पदैः परस्परानन्विताः अभिधानशक्त्या बोध्यन्ते । एवमभिहितानां पदार्थानां पदार्थानां योग्यतादिवशात् परस्परमन्वये नानापदार्थसंसर्गात्मको वाक्यार्थः प्रथमावगतैः पदार्थैरेव बाध्यत इति । अत्र पक्षे पदानां शक्तिरेका ; पदार्थानां संसर्गरूपवाक्यार्थबोधनशक्तिरपरा ; पदानामेव पदार्थेषु संसर्गबोधनशक्तिजनकशक्तिरन्येति शक्तत्रयकल्पनमापततीति गौरवमाविष्कुर्वन्ति अन्विताभिधानवादिनः । अनयोश्च पक्षयोः प्रथम एव श्रीभाष्यादिग्रन्थारूढ इति निरूप्य तमेवाद्रियतेऽयं ग्रन्थकारः । एतद्विसारस्तु न्यायपरिशुद्धिसर्वा सिध्द्योरवगन्तव्य इति । 2. परप्रह्माभिधेयेत्यत्र बहुब्रीहिः । अभिधायित्वमिति पाठश्चेत् न क्लेशो भवेत् । ५. अम्विताभिधाननिरूपणम् १०१ च यथावस्थितसंसर्गविशेषवाचित्वं च जानाति” इति । संघातः संबन्धः; स एव विशेषो येषां पदानां तानि वाक्यानि । संबन्धविशिष्टानि पदानि वाक्यानीत्यर्थः । तेषाम् । यथावस्थितः संसर्गे विशेषः येषां पदार्थनां ते यथावस्थित संसर्गविशेषाः तद्वाचित्वम् ; अर्थान्तरसंसृष्टपदार्थ- वाचित्वमित्यर्थः । अत एव ह्यत्तरत्र “समभिव्याहृतपदान्तरवाच्यान्वययोग्य- मेवे-रपदप्रतिपाद्यमित्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमनन्तरमेव प्रती- यते” इत्युक्तिः । अतः संसर्गरूपोऽन्वयो न वाक्यार्थोऽभिमतः । अनुपपन्नश्च, अन्वितस्यैव पदात्मकवाक्यप्रतिपाद्यत्वात् । वाचकत्वेऽप्येतदविशिष्टम् । अन्वितवाचकतैव हि वाक्यव्यापारः । एतेनानन्दमयाधिकरणे “सर्वेष्वेव वाक्येषु पदानां व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रं प्रत्याय्यम् " इति भाष्यमपि व्याख्यातम् । अत एव ह्यत्तरग्रन्थे “तत्र समानाधिकरणवृत्तानामपि नीलादिपदानां नैल्यादिविशिष्ट एवार्थो व्युत्पत्तिसिद्धः पदान्तरार्थतंसृष्टोऽभिधीयते” इत्युक्तिः । 6 अथवा वाक्यानामन्वितपदार्थाभिधायित्वेऽप्यर्थानां पदमात्रावगम्यत्वात् अन्वयस्यैत्रावशिष्टत्वात् तस्यैवार्थाद्वाक्यात् सेत्स्यस्वात् “संसर्गविशेषवाचित्वम् " इत्याद्युक्तिः । वाक्यमध्येकार्थवशीकारलञ्धकसंघातरूपधर्मकाणि पदान्येव । अन्यथा तत्संघातरूपधर्मस्य वाक्यत्वे वाक्यस्य शब्दता न स्यात् । अर्थगतसंघातं- रूपधर्मस्यार्थत्वे च न शब्दता । न हि शब्दगतो धर्मः शब्दः । अत एवमुक्तं भाष्ये प्रथमसूत्रे स्फोटनिराकरणे “गकारादिबोधकस्यैव श्रोत्रग्राह्यत्वेन शब्दत्वात्” इति । वर्णा एव शब्दाः । तेषां पदत्वव्यवहारस्त्वेकार्थ- वशीकारादेव । अत ‘एत्रमुदाहृतभाष्यादिभिरन्वितस्वार्थाभिधायित्वमेवाभिमतम् ; नैल्यादि- विशिष्ट एवार्थः पदान्तरसंसृष्टोऽभिधीयत इति द्रव्यस्य याक्यार्थत्वाभि- मानात् 1 अन्यथा तादृशान्वितक्रियाभिधेयत्वोक्तिः स्यात् । एव हि तत्रैव “नीलमुत्पलमानय’ इत्युक्ते नीलिमादिविशिष्टमेवानी- यते” इति द्रव्यप्राधान्यनिर्देशः । नीलमिति कर्मान्तरतया निर्दिष्टस्य क्रियेप्सितस्य क्रियाशेषत्वोपपत्तिश्च । तथोत्तरत्रापि “यथा च विन्ध्याटव्यां
- कार्ये वा क्रिया वा सर्वत्र वाक्यार्थ इति न द्रव्यादेरपि वाक्यार्थ स्वमिष्टमित्याह - एवमिति । १०२ नयद्यमणिः मदमुदितो मातङ्गगणस्तिष्ठतीति पदद्वयावगत विशेषणविशिष्ट एवार्थः प्रतीयते” इति ग्रन्थे विन्ध्याटव्यादि संबन्धिमातङ्गगणार्थपरत्वमुक्तमिति प्रतीयते । अत एव ह्यत्तरग्रन्थे “तत्तद्विशेषणविशिष्टमेव ब्रह्म प्रतिपत्तव्यम् " इति ब्रह्मपरत्वाभिधानम् । ‘स्वर्गकामोऽग्निहोत्रं जुहुयात्’ इत्यादौ क्रियाप्राधान्य- मुक्तम्, धात्वर्थस्यैव साध्यत्वाभिधानात् । यागादेः कर्तृफलार्थत्वतो न क्रियाप्राधान्यहानिस्तत्र । अतो द्रव्यगुणकर्मस्वन्यतमार्थान्वित स्वार्थाभिधायि- त्वमेव वाक्यानामिष्टं भाष्यकारस्य । स्फोटस्य तु न वाक्यत्वमिति वाक्यार्थप्रकरण उक्तं वाक्यार्थप्रदीपे । अतो न ततो बोधः । वाक्यशेषादिना देवताप्राधान्यं वेद सर्वत्र शास्त्रे वाऽस्तु । लोके तु गवानयनं कार्यमित्यादौ गवान्वितक्रिया वाक्यार्थः 1 बौद्धाभिमत र विज्ञानादिवाक्यं तु लोकाप्रसिद्धमिति न तदुपन्यासः । अतो वर्णानामेव वाक्यत्वं सर्ववैदिकानामिष्टम् । अतः तदङ्गीकारेणान्विताभिधानमेव साध्यते । भाट्टास्तु तत्र परिपन्थिनः । प्राभाकरा अप्यर्थान्तरान्विताभिधानपरिपन्थिनः । अतः पूर्वकाण्ड उक्तमिति पुनरुक्तिरप्रसक्तेति पृथक्साधनार्थवत्ता । तथाहि — पदैरभिहिता अर्थ वाक्यार्थं प्रातिपादयन्ति । न तु पदान्यर्थान्तरान्वितस्वार्थाभिधायीनि ; अन्वयेऽन्वितपदार्थे चाभिधान- शक्तिद्वयकल्पना गौरवात् । न चान्वित एव शक्तिः; न पृथगन्वय इति ; विशिष्टादर्थाद्वि- शेषणस्यार्थान्तरत्वाद्विशेषानुपपत्तेः; पदार्थानां सर्वावस्थानां स्वरूपस्य समत्वात् अन्वितत्वस्य च तदवस्थाविशेषत्वादाक्षेपलभ्यत्वात् पदार्थानामेव वाक्यार्थबुद्ध चुत्पादकत्वोपपत्तेः ।
- स्वार्थेत्यारभ्य गवान्वितेत्यन्तो भागः A. कोशे न दृश्यते ।
- देवताप्राधान्यमिति । यागापेक्षया देवतायाः प्राधान्यम्, इष्टसाधनस्य प्रधानार्थत्वम्, इष्टसाधनत्वेन ब्रह्मण एव वाक्यार्थत्वं च प्राक् वर्णितं स्मारितमिव । शास्त्रे इति स्मृतिग्रहणम् ।
- विज्ञानेति । ज्ञानातिरिक्तपदार्थानङ्गीकारात् वाक्यर्थश्च विज्ञानमेवति तन्मतम् । तत्त्वबिन्दुग्रन्थेऽपि स्पष्टमेतत् ।
शक्तिरित्यर्थः । पृथगिति । अन्वयमात्रे शक्तौ विशेषावगमो न स्यादिति न तन्मात्रे५. अन्विताभिधाननिरूपणम् १०३ नन्वेवं तर्हि ‘गामानय’ इत्यादौ गवांनयनस्य नान्चयनियमः ; क्रियायाः कारकमात्राकाङ्क्षित्वात् अश्वादेरप्याक्षेपसंभवात् । कारकस्यापि क्रियामात्रा- काङ्क्षित्वाद् वन्धनक्रियान्वयस्यापि संभवादिति - तन्न ; पक्षान्तरेऽप्येतद्दोष- साम्यात् । ‘गामानय’ इत्युक्ते प्रमाणान्तरेण संनिहितान्वयवादिनापि योग्यान्वि- ताभिधान संभवात् । न च तथात्वे प्रतीयमानैकवाक्यत्वहानिरिति ; अभिहितान्वयपक्षेऽप्यश्वान्वये तद्धानेः समत्वात् । यद्यपि क्रियायाः कारकम- पेक्ष्यं सामान्यतः, कारकस्य च क्रिया अपेक्ष्या; तथापि प्रतिपादकपदद्वयस्यैकवि- शिष्टार्थप्रतिपत्तिपरत्वलक्षणैकवाक्यत्वप्रतीत्यविरोधात् श्रुतार्थयोरेव परस्परनि- यमः । अतो न पदार्थ सामर्थ्य मात्रादन्वितत्वधीरिति नातिप्रसङ्गः । अतो गवादिपदसमर्पितगवाद्यर्थाः स्वभावादेव येन केनचिदन्वितस्वात्मप्रतिपादकाः । किंच कथंचित् पक्षद्वयेऽपि दोषसाम्यापादनेऽप्यभिहितान्त्रय एव युक्तः । पक्षान्तरेऽपि हि पदार्थस्वरूपावगतिरभ्युपेया; अन्यथा संनिधेर्दुर्लभत्वात् । ततश्च पदार्थप्रतीत्युत्तरकालमेव वाक्यार्थावगतिरिति वाक्यार्थधियोऽर्थावग- त्यानन्तर्यात् तत्कारणत्वमेव युक्तम् । न च पदार्थावगत्युत्तरकालमपि पदानुसंधानानुवृत्तिरिति ; तत्र प्रमाणाभावात्; दीर्घतमवाक्येषु तदनुसंधाना- शक्तेश्च । तत्सद्भावेऽपि पदार्थावगतिमात्राद्वाक्यार्थधीरित्येतत् सार्वजनीनम् । यत्तु परैः पदानां प्राथम्यादन्विताभिधानमित्युक्तम्, तत् पदार्थानामेव प्राथम्यसाधनाद्विपरीतसाधनत्वान्निरस्तम् 1 अभिधातृत्वं तु पदार्थद्वौरव, न स्वत इति पदार्थानामसिद्धम् । न च तात्पर्योपगमादन्विताभिधानशक्त्यभ्युपगमः ; ‘काष्ठैः पचति’ इत्यादौ काष्ठादे| दिव्यवधानादपि पाकसाधनत्वस्येष्टत्वात् । व्यवधाननिश्चयात् पदार्थानुसन्धानानन्तरितवाक्यार्थे साक्षात्पदार्थसाधनत्वात् तेषां तद्द्वारेणैव साधनत्वादव्यवहितमेव साधनत्वम् । अतः “प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि । पदानामेव सा शक्तिः परमभ्युपगम्यताम् ॥”
- यत्तु इत्यादिना “प्राथम्यादभिघातृत्वात् तात्यर्योपगमादपि । पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ” इति प्राभाकरकारिकोक्तं क्रमेण दूषयति । वक्ष्यति चैतत् । १०४ इति परोक्तं हेतुत्रयमप्यनुपपन्नम् । नयधुमणि: नन्वेवं पदानां नाभिधायकत्वम्, पदार्थस्वरूपावगतेः स्मरणादवि- शिष्टत्वादिति — तन्न ; शब्दानन्तरमर्थप्रत्ययदर्शनात् प्रत्यायकत्वस्यैव कल्प्यत्वात् । न च शब्दाद्बोधः, ततोऽर्थसिद्धिरिति ; प्रमाणाभावात् । किंच न ह्यभिधानत एवान्विनधीः । किं तर्हि ? गङ्गाघोषादौ लाक्षणिकतीरादेर्घोषाद्यन्वितत्वधीः । न हि तीरादिर्गङ्गाशब्दाभिधेयः । प्रागेवान्वितः । ननु गङ्गाशब्दस्य स्वार्थसंबन्धितीरादिस्मारकत्वात् तत्स्मारितार्थान्वितं घोषशब्दः स्वार्थमाहेति — तन्न ; गङ्गाघोषादिवाक्येषु सर्वपदानां लक्षणावृत्त- त्वादन्त्रिताभिधानप्रतीत्यभावापातात् । प्राभाकरा हि लिङादीनां कार्य मेवाभिधेयम्; अन्यपदानां तदन्वितोऽर्थ इत्याहुः । न हि गङ्गाघोषादिवः क्येषु कार्य तदन्वितो वार्थः । अन्वितधस्तु तेषामप्येव वास्तु ; साधुपदस्मारितार्थान्व- यनियमो वेति सर्वत्र तथैवास्तु | पदार्थानामन्वये चाकाङ्क्षा योग्यतैकवाक्यत्वानि सहकारीणि सन्तु । किंच किं सामान्येनान्विताभिधानम् ? उत विशेषेणेति । न तावदाद्यः; अर्थशक्त्यादितस्तत्संभवात् । अनन्यथासिद्धौ हि कल्पना | सामान्यतोऽभिधाने विशिष्टबुद्धयनुदयप्रसङ्गश्च । न हि सामान्यः न्विताभिधानस्य विशेषे शक्तिः । पदार्थानां ह्यन्वयोऽभ्युपेतः । नापि द्वितीयः ; विशेषानन्त्यात् प्रतियोगं प्रतिपदं च शक्तिकल्पनापत्तेः; संबन्धग्रहणाशक्तौ शाब्दव्यवहारोच्छेदप्रङ्गाच्च । किंच किं पदान्तरेणान्विततयोक्तेनार्थविशेषेणान्वितः स्त्रार्थे वाध्यः पदान्तरेण ? उत नेति? न तावदाद्यः; अन्योन्याश्रयणात् । नापि द्वितीयः; पदान्तरवैयर्थ्यात् । अन्यपदानुक्तार्थेनाप्यन्त्रितस्वार्थाभिधाने किं पदान्तरेण ? किंच आन्वितपदार्थाभिधानमत्र शक्त्यैवेति पक्षान्तरे गौरवम् । तथाहि —पदानामर्थस्वरूपे शक्तिकल्पनमुभयोः साधारणम् । अभिहितान्वयपक्षे तु पदार्थानामन्त्रित प्रतिपादकत्वं कुतमेव । नियममात्रं त्वेकवाक्यतया कल्प्यम् । तत्तु लघीथः । पदानां स्वत्यन्तमक्लुप्तमेव सामर्थ्यमन्त्रिते । तत् कल्प्यम् । स्वरूपकॢप्तिश्च गुर्वी नियमकल्पनादिति ।
- प्रागेवेति । अभिधानस्यैवाभावे नतरामन्वितत्वाभिधानमित्यर्थः । ५. अन्विताभिधाननिरूपणम् १०५ ‘तदेतदनुपपन्नम् । ‘गामानय’ इत्यदिवाक्येषु बॉलरर्थान्तरान्वितस्वार्थ- एव पदानां व्युत्पाद्यमानत्वान्नाक्लृप्तमेत्रान्वित प्रत्यायकत्वम् । यच्चांक्तम् — “क्लृप्तमन्वित सामर्थ्यं पदार्थानां स्वभावतः । एकवाक्यतया तत्र कल्प्यं नियममात्रकम् ॥” | इति ; तच्च गरीयः । वाक्यार्थग्रहणे हि पदार्थानामपृथग्ग्रहणम् | बालो हि मध्यमवृद्धप्रवृत्तिलिङ्गेन गवानयनादिवाक्यश्रवणसमनन्तरं तस्येष्टसाधनत्व- धियमनुमाय तस्याः शब्दानन्तर्यात् कारणत्वमात्रं प्रथममनुमिनोतीत्यविशेषण प्रथमं समुदितार्थमेव शब्दार्थतयावगच्छति । अनच ‘गां बधान’ इत्यादौ बन्धनाद्यन्वितगवाद्यर्थप्रतीतेरावापो- द्धाराभ्यामन्विनार्थमेवावैति । तथा ‘देवदत्त, अनेन मार्गेणावसर; आगच्छ’ इत्यादावर्थान्तरान्विनक्रियावगतिः । एवम् ’ देवदत्तस्य स्थिति: ’ ‘राजात्रास्ते’ ‘पितरं पश्य’ इत्यादौ सिद्धार्थपरेष्वप्रवृत्तिपरेषु च व्युत्पत्तिः । न चान्वयेऽन्विते च शक्तिकल्पनागौरवम् ; अन्वित एव शक्ते- रन्यत्राकल्पनात् । न ह्यानयनादिसाध्यगवाद्यत्रगतौ साध्यसाधन व पान्ययस्य पृथक् प्रत्ययः ; तस्यापि विशिष्टप्रतीत्यन्तर्भावात् । अन्यथा अन्वयरूपविशेषणस्य पृथक्प्रयाय्यत्वे 2 यदाग्नेयादिवाक्यानां विशिष्टार्थपरतया न वाक्यभेदपरिहारः स्यात् ; विशेषणविशेष्यसंबन्धानामपि पृथक्प्रत्याय्यत्वात् । किंच शब्दव्यतिरेकेण प्रत्यक्षेणैवानयनसाध्यगत्राद्यर्थग्रहतः साध्य- साधनत्वग्रहे प्रत्यक्षस्य पृथक् शक्तिरस्ति ? न वा ? आधे स्वानुभवविरोधः । द्वितीयस्त्वस्मत्सिद्धान्तानुकूलः । अतः शब्देऽपि प्रत्यक्षवदेव शक्तिकल्पना ; ‘देवदत्त, गामानय’ इत्यादौ शब्दानन्तरं देवदत्तकर्तृक क्रियासाध्यगयादेर्दर्शनादे- तदर्थप्रतिपादकत्वानुमानात् शब्दानाम् । न च पदमात्रप्रतिपादितपदार्थानां
- एवं विस्तरेण तदेतदित्यादिना । भाट्टसमतमभिहितान्ययपक्ष मनूद्य खण्डपति-
- यदाप्रग्रेति । “यदाग्नेये ऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो मवति” इति देवताद्यनेकविधानाद् वाक्यभेद इत्याशङ्क्य " तद्गुणास्तु विधीयेरन् अविभागाद् विधानार्थे, न चेदन्येन शिष्टाः” इति सूत्रेण सर्वावशिष्टक्रिया रूपैकार्थ- विधानान्न वाक्यभेद इत्युक्तम् । अन्वितानभिधाने विशकलितविधानात् पूर्वपक्षो दुष्परिहर इत्याशयः । 14 १०६ नयधुमणिः विशेषरूपान्वितत्वस्याक्षेपलभ्यत्वात् नान्वयविशिष्टेऽपि शक्तिकल्पना, गौरवादिति; पदार्थानामेवान्वये वाक्यार्थबोधकत्वे च पदाभिहितानामेवान्वयानुपपत्तेः । प्रमाणान्तरसंनिहितस्याश्वादेरप्यानयनान्वय संभवात् ; वाक्यार्थस्याशाब्दत्वापाताच्च । आकाङ्क्षादावपि न विशेषः । ननु प्रमाणान्तरसंनिहिताश्वाद्यन्विताभिधान संभवः पक्षान्तरेऽपीति- न; तथात्वेनाव्युत्पत्तेः । शब्दसमर्पितार्थान्विताभिधानोपपत्तौ प्रमाणान्तर- समार्पितान्त्रिताभिधानस्यानाकाङ्क्षितत्वाच्च । अभिधानाभिधेयापर्यवसाने त्वाका ह्नितं योग्यं संनिधाप्यान्वितमभिधत्तं । एवं दहराक्षिविद्यादौ सकलेतरव्यावर्तक- सत्यज्ञानादिगुणानुपदेशाद् ब्रह्मणोऽभिधेयपूर्तावनुपपत्ती’ आकाङ्क्षायामानन्द- मयादिविद्योदितसन्यज्ञानादिगुणजातं संनिधाप्य तदन्वितं ब्रह्मोपास्यतयाभिधीयत इति भाष्यादौ प्रसाधनात् अभिधेयापर्यवमानादन्यतः संनिधानमिष्टम् | अध्याहारादिदर्शनाच्च । सौर्यादौ कर्मतन्त्रेषु सूर्यादिपदोहात् अभिधानापर्यवसान- मपीष्टम ; पक्षान्तरे तु पदेषु निवृत्तव्यापारेण्यर्थानां येन केनाप्यन्वितबोधकत्व- मिति प्रसङ्गापरिहारः । अथ पदाभिहितानामेवार्थानामपूर्ती योग्याकाङ्क्षित संनिहितार्थान्तरान्त्रयो लोकव्युत्पत्तित इति न दोषवैषम्यमिति; तर्हि पदेष्वर्थगतशक्त्याधान- शक्तिकल्पनाधिक्यम् ; व्युत्पत्तितः पदाभिहितानामेवान्वयसामर्थ्याङ्गीकारात् । अर्थानामेवान्वयस्वभावत्वे तु न पदाभिहितत्वापेक्षा । एतेन पदद्वयस्यैक- विशिष्टार्यप्रतिपत्तिलक्षणैकप्रतीत्यविरोधाय श्रुतार्थयोरेव नियम इत्युक्तं निरस्तम् ; पदार्थानामन्वितबोधकत्वस्य पदावान्तरव्यापारत्वेऽपि पूर्वोक्तशक्ति- कल्पनागौरवात् । पदार्थेऽप्यन्वितबोधकत्वशक्तिकल्पना चाधिका । न च गवादिपदार्थानामन्वितवोधकत्वमिति न तत्कल्पनेति ; ‘दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललम्’ इत्यादिपदसमर्पितार्थानामन्वयबोध- कत्वा गतात् । न च तत्र पक्षान्तरेऽप्यन्विताभिधानं किमिति न स्यादिति ; तत्र पदानां पदार्थमान्त्रनिर्देशपरत्वेन प्रकरणेनान्विततयाऽनभिधानात् । पक्षान्तरे तु पदप्रतिपादितार्थानामन्वय स्वभावत्वमुक्तमित्यन्वयोऽवश्यम्भावी । न चायोग्य- त्वादनन्वय इति ; स्वाभाविकत्वेऽप्ययोग्यत्वापातात् । अनन्वये च स्वभावहानि- योग्यत्वादिरपि स्वाभाविकत्वेऽपि सहकारीत्या- प्रसङ्गः | अथ
- पूर्तावनुपपत्तौ । पूर्तिविषयेऽनुपपत्तौ सत्याम् । ५. अन्विताभिधाननिरूपणम् १०७ काङ्क्षितयोग्याभिहितपदार्थान्वय इति ; पदाभिहित घोषरूप योग्यार्थ लक्षिततीराद्य- नन्वयप्रसङ्गात् । अतोऽर्थेष्वपि बोधकत्वशक्तिकल्पनाधिक्यम् । ननु पदानामन्वित एव शक्तिग्रहाभिधानात् ‘दश दाडिमा’ने ’ इत्यादिपदानां न केवलार्थपरत्वमिति – तन्न ; पदानां पृथक्पदार्थेष्वपि व्युत्पत्स्यभ्युपगमात् । न हि प्राभाकरणामिव वाक्येष्वेव व्युत्पत्यभ्युपगमोs- स्माकम् । ‘अस्य शब्दस्यायमर्थः’ इत्यादौ च व्युत्पत्तिर्हि पदेषु पृथग् दृश्यते । ‘कोऽस्य वाचकः ? अस्यायं वाचकः’ इत्यादिप्रश्नोत्तराभ्यां च । एवं दृष्टे च, पदे वाक्ये च व्युत्पत्तिगौरवमिति न चोद्यम् । पदानामन्वितार्थ- बोधकत्वैकनियमे ‘कोऽयम् ? राजा’ ‘स्फ्यश्च कपालानि च’ इत्यादिलौकिक- वैदिकप्रयोगाणामानर्थक्यम् । न ‘कोऽयम् ? राजा’ इत्यादिप्रश्नोत्तरपदानां क्रियाकारकाद्यन्वित- पदार्थबोधकत्वम् । तथा स्फ्यश्चेत्यादीनां पदार्थस्वरूपोत्पत्तिपराणामपि । अतः पदार्थमात्रस्य बोध्यत्वाभिमतौ पदप्रयोगः, अन्वितार्थस्य बोध्यत्वाभिमतौ वाक्यप्रयोग इत्युभयथापि व्युत्पत्तिर्लोक सिद्धा । वाक्ये तु पदानामन्वित एव तात्पर्यम् ; न केवले । पदश्रवणात् पदार्थमात्रप्रतीतिस्तु स्मृतिरूपा ; केवलप्रयोगे पदार्थानामनुभूतत्वात् । तदेवं पदानि श्रुतानि स्मारितानन्वित- स्वार्थानि आकाङ्क्षायोग्यत्वादिप्रतिपादितन्यायकलापैः समुपेतवचनव्यक्तिकानि पश्चाद्वाक्यार्थबोधकानि । तदुक्तं न्यायज्ञैः- इति ।
" पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ||” किंच अपूर्ववाक्यार्थवादिमते केवलपदार्थस्मृतिरनुपपन्ना, अन्वितपदार्थ एव व्युत्पत्तेः केवलपदार्थस्याननुभूतत्वात् । न चान्वितान्तर्गतत्वात् केवलस्वरूपस्यापि स्मृत्यर्हतेति ; 1 अन्वयरूप संबन्धस्य व्यतिरेकेण कदाचि- दप्यनुपलब्धेः । अतः केवलपदार्थस्मार्यत्वसिद्वयर्थं पदार्थानां तत्परता अभ्युपेया । तत्परत्वाभावे च तदर्थ स्मृत्यनुपपत्तौ नाभिमतार्थान्तरान्वितबोध कत्वोपपत्तिः । 1
- अन्वयति तत्र तत्र वाक्यप्रयोगेऽनुभूतस्य तत्तत्संबन्धविशेषस्य मिथो व्यतिरेकसंभवेऽपि सामान्यतोऽन्वयस्यैव शक्यकोटिप्रवेशस्य शक्त्यानन्त्यपरि- हाराय स्वीकार्यत्वात् तदुपस्थितेरवर्जनीयत्वाच्च नानन्वितार्थस्मरणं प्राभाकरभते स्यादिति तत्कारिका तेषामनुपपन्नति भावः । १०८ नयद्यमणिः पदानां वाक्यान्तरान्विताकारवदर्थस्मारकत्वानुपपत्तौ तदाकारवदर्थान्तरान्वित- स्वार्थाभिधायित्व प्रसङ्गात् । एवं तत्तद्वाक्येष्वपि प्रतियोगिसंबन्धित्वमेव स्मार्यमिति स्मृत्यनुपपत्तौ नान्योन्याश्रयपरिहारस्तन्मते । केवलपदार्थव्युत्यत्तौ तु वाक्पस्य प्रधानतयान्वितैकार्थत्वेऽपि तस्मिन् पदैः पदार्थानां स्मृत्यर्हतास्त्येव । स्मृतेषु न्यायापादितवचनव्यक्ति तदर्थवादिषु पदेषु तेषां वाक्यार्थबोधकत्वे तु नान्योन्याश्रयता । अन्वितबोधकत्वे चाकाङ्क्षादय: सहकारिणः । आकाङ्क्षा च बोद्धुः प्रतियेगिषु जिज्ञासा । सा चाभिधानाभिधेयापर्यवसानमूला । तदुक्तं नयज्ञैः “अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा । प्रतियोगिषु जिज्ञासा या साकाङ्क्षेति गीयते ॥” इति । ‘देवदत्त, दण्डेन गामानय’ इत्यादौ यद्यपि दण्डपदव्यतिरेकेण वाक्यपूर्तिः, तथापि श्रुनदण्डपदानर्थक्यपरिहाराय वाक्यप्रधानार्थस्य गोस्तद्विषयाकाङ्क्षा | यद्यपि पदार्थानामेत्र वाक्यार्थत्त्रम्, तथापि प्रधान- गुणभावेनैकार्थपरं वाक्यम् ; प्रधानार्थत्वाद् गुणानाम् । तदुक्तम्- “भूयांसो यद्यपि स्वार्थाः पदानां तत् पृथक् पृथक् । प्रयोजनतया त्वेकं वाक्यार्थं संप्रचक्षते ॥ तत्प्रतीत्येक कार्यत्वाद्वाक्यमध्येकमुच्यते । प्रतिपत्तिर्गुणानां हि प्रधानकप्रयोजना ||” इति । तदेवं प्रधानार्थत्वात् सर्वस्याकाङ्क्षापि तन्निमित्तैव । एवंविधा- काङ्क्षापि पदे विभज्यमाने । आकाङ्क्षाभावे तु नान्वयः । सापि प्रतियोगिषु कारणसंनिपातात् क्रमात् । यथा - ‘ब्रह्म विजिज्ञासस्व’ इति ब्रह्मणो ज्ञेयत्वाभिधाने ‘तत् किंलक्षणकम् ?’ इत्याकाङ्क्षायाम्, जगन्नन्मादिकारणतया लक्षिते, सकलेनरत्र्यावृत्तत्वेन तत्स्वरूपाचगतिजिज्ञासायां सत्यज्ञानादिभिस्तत्स्त्ररूपशोधने, प्राप्यत्वावगतौ, ‘केन तत् प्राप्यते ?’ इत्याकाङ्क्षायाम्, वेदनाद्यपरपर्यायध्यान- प्राप्यत्वावगतौ, ध्यानस्वरूपावगतिजिज्ञासायां’ दर्शन समानाकारमा फलमसकृदावृत्तं ब्रह्मत्रित्रयस्मृतिसन्तानरूपमिति तदवगनौ, ‘कथं तज्जन्यते ?’ इत्याकाङ्क्षायाम्,
- जिज्ञासायामिति । आकाङ्क्षायामित्यर्थः ; अवगतिशब्दस्य पृथक् प्रयोगात् । ५. अन्विताभिधाननिरूपणम् १०९ अनभिसंहितस्वर्गाद्युचितकर्मात्मज्ञानादिपरिकर्मित मनोजन्यमित्युक्ते, तत्सिद्धौ ‘तस्य कथं प्रापकत्वम् ?’ इति जिज्ञासायाम्, ब्रह्मप्रीत्यापादनद्वारेति ब्रह्मण एवोपायत्वाभि- धाने, ‘कुत्र तस्य प्राप्यत्वम् ?’ इत्याकाङ्क्षायाम्, अर्चिरादिगत्या देशविशेषे इति तदवगनौ, ‘तत्र तत्प्राप्य किं करिष्यति?’ इत्याकाङ्क्षायां, सर्वप्रकारभोग्यं तद्ब्रह्मानुभवतीति जिज्ञासाक्रमेण सर्वे वेदभागः सर्वार्थान्वितं ब्रह्म हेति । तथा लौकिकवैदिक सर्वावान्तरवाक्यानामप्येवं जिज्ञासाक्रमेणान्विताभिधानं द्रष्टव्यम् । तदुक्तं नीतिज्ञैः इति । “जिज्ञासा जायते बोद्धुः संबन्धिषु यथा यथा । तथा तथैव शब्दानामन्वितार्थाभिधायिता || " संनिधिर्नाम पदार्थस्य बुद्धौ विपरिवृत्तिः । तस्यास्तु शब्दजन्यतैवेति . न निर्बन्धः ; अध्याहृतार्थनाप्यन्त्रयदर्शनात् । अध्याहारोऽपि न शब्दस्य ; अर्थस्यैवोपपादकत्वेन तस्यानाकाङ्क्षितत्वात् । सोऽपि संनिधापकसामग्रीक्रमात् क्रमभावी । अन्वितवोधोऽपि तदनुरोधादेव । तदुक्तम्- इति । 1
" सहसैव न सर्वेषां संनिधिः प्रतियोगिनाम् । तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥” योग्यता नाम संबन्धार्हत्यम् । तदवगतिश्च प्रत्यक्षात् । यद्यपि वेदार्थस्य न प्रत्यक्ष योग्यत्वम् ; तथापि सामान्येन लोके योग्यत्वावधारणात् तदपि । तदवधारणं समभिव्याहाराच्च । समभिव्याहारादपि लोके व्युत्पत्तिः । यथा ‘उत्फुल्लोऽयं तामरसस्तिष्ठति’ इत्यादावव्युत्पन्नतामरसार्थस्यापि पूर्वपश्चाद्योगितया पङ्कजपरत्वावधारणं तामरसशब्दस्य । वाक्यार्थावधारणोपयोगिन्यायस्वरूपं तदुपकारकत्वं च दृश्यते । न्यायो’ नाम तर्कः । तर्कों विचारो विमर्श ऊहो मीमांसा च पर्यायाः । स चानुभूतिविशेषः; न तु स्मृतिः, तस्याः संस्कारमात्र- जत्वात् । ज्ञानस्य प्रमाणार्हता विषयजत्वात् । स तु विषयः पूर्वं नानुभूत 1. आकाङ्क्षासंनिधियोप्यत्वादिप्रतिपादितन्याय संपादितव्यक्तिकत्वस्य न्याय- शकारिकाविवक्षितस्य विवरणे प्रवृत्तः आकाङ्क्षादिनिरूप्य न्यायं निरूपयति- न्याय इति । ११० नयद्यमणिः इत्यनुभूतित्वमेव । ज्ञानस्य तु स्मृतित्वानुभूतित्वव्यतिरेकेण विधान्तरत्वं नेष्टम् । श्रीगीतापञ्चदशाध्याये उक्त ऊहः – “ऊहनमूहः । ऊहो नाम, इदं प्रमाणमि- त्थमेव प्रवर्तितुमर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं सामर्थ्यादिनिरूपणजन्यं प्रमानुग्राहकं ज्ञानम्” इति । प्रमाणप्रवृत्यर्हत्वं नाम अर्थविशेषप्रतिपादन- सामर्थ्यम् । तदेवोहज्ञानस्य विषयः साक्षात् परम्परया वा । ज्ञानं तन्निश्चयः, “ज्ञानं वस्तुनिश्चयः” इति तत्रैवोक्तत्वात् । जगत्कारणवस्तुप्रतिपादनार्हम्, अत एव हि ‘न विलक्षणत्वात्’ इत्यधिकरणमाष्ये “तर्को नामार्थस्वभाव- विषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्य- तारूपमूहापरपर्यायं ज्ञानम् । तदपेक्षा च सर्वेषां प्रमाणानां समाना । शास्त्रस्य तु विशेषेणाकाङ्क्षासंनिधियोग्यताज्ञानाधीनप्रमाणभावस्य सर्वत्रैव तर्कानु- ग्रहापेक्षा” इति भाषितम् । जगत्कारणतया प्रतिपाद्यवस्तुन ईक्षणनिरूपणात् श्रुतेः परमात्मकारणत्त्रपरत्वार्हता निश्चयः 1 तद्विरुद्धस्वभावत्वनिरूपणात् प्रधानपरत्वनिरासश्चार्थस्वरूपनिरूपणतर्कस्योदाहरणम् । जन्मादिवाक्यं न तस्यानुमानसिद्धत्वादिति सामग्रीविषयः पूर्वन्यायः । अन्येऽपि तर्कविषयाः प्रमाणान्तरासिद्धत्वादयः । प्रमाणान्तरसिद्धत्वं हि श्रुतिप्रामाण्यविघातसामग्री । तद्विषयानुमानस्य दुष्टत्वात् न प्रमाणान्तर- सिद्धतेति राद्धान्तोऽपि तद्विषय एव । आकाङ्क्षादिसद्भावनिरूपणमपि सामग्रीनिरूपणमेव । आकाङ्क्षादयोऽपि सामग्रीकोटिनिविष्टा इति पूर्वोदाहृत- भाष्य एव स्पष्टम् । अक्ष्यादिविधासु ब्रह्मणः सकलेतरवस्तुव्यावर्तनस्या- पेक्षितत्वात् सत्यज्ञानाद्याकाङ्क्षितमिति आकाङ्क्षादिसामग्रीनिरूपणोदाहरणम् । अक्ष्यादिवियापरं वाक्यमानन्दमयादिविद्यासूदित सत्यज्ञानादियुक्ततया ब्रह्म- प्रतिपादनार्हम्, तस्यास्तदाकाङ्क्षित्वात् । तदर्थसंगत्याद्याकाङ्क्षास्ति तद्विद्यासु, ब्रह्मणः सकलेतरव्यावृत्तत्वेन ध्येयत्वात् व्यावृत्तेश्च सत्यत्वाद्यधीनत्वादिति सामग्रीनिरूपणाधीन तर्कस्योदाहरणम् । एवं सर्वत्रोह्यम् । एवं प्रसङ्गादाकाङ्क्षादयोऽपि निरूपिताः । एतत् सर्वमभिहितान्वय- पक्षेऽप्यविशिष्टम् । पदार्थानामन्वयबोधकत्व शक्त्यादिकल्पना त्वधिका ।
-
सामर्थ्यादीति 1 गीताभाप्ये सम्प्रति दृश्यमानः पाठः सामग्र्यादीति ।
-
सामर्थ्यादिनिरूपणजन्यम् । प्रमाणतद्विषयीभूतार्थयोः सामर्थ्यादि- निरूपणजन्यम् | आदिशब्दश्च प्रमाणप्रमेयसामग्र्यभिप्रायः । . ५. अन्विताभिधाननिरूपणम् १११ श्वेतिमाश्वत्वगन्तृत्वैः प्रत्येकं प्रमाणान्तरसिद्धैरन्योन्यान्वयदर्शनात् पदार्थानामन्वयशक्तिः क्लृप्तैव । तदुक्तम् — " पश्यतः श्वेतिमारूपं हेषाशब्दं च शृण्वतः । खुरनिप्पेषशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ " इति । श्वेतमरूपं वेतिमानवधारितगुणिविशेषं प्रत्यक्षेण पश्यत इत्यर्थः । हेषाशब्दादश्वत्वानुमा । खुरशब्दात् गन्तृत्वानुमा । एवमनुमानसिद्धार्थैरेव श्वेतोऽश्वो धावतीत्यपि धीरिति — तन्न ; हेषाखुरशब्दाभ्यामश्वत्व गन्तृत्वयोरनु- मानसमय एव हेषाखुरशब्दाश्रयपुरोवर्तिद्रव्यगतत्वेनान्विततयैवान्वीयमानत्वाद- नन्वयार्थनिमित्तत्वाभावात् । यत्र लिङ्गम्, तत्रैव हि लिङ्गिधीः । हेषाखुरशब्दो- द्भवमुनिश्चयेऽपि नाश्वगन्तृत्वाश्रयनिश्चयः । पारिशेष्यादश्वत्वनिश्चयोऽ- व्यर्थापत्यैव । अर्थजान्वयधीः । किंच नार्थानामन्वयबोधकतोपपन्ना । प्रमाणषट्कव्यतिरिक्तप्रमाणा- नभ्युपगमात् । तु न च पदार्थप्रमाणता लोकसिद्धा । प्रमाणान्तरगम्यत्वे नार्थगम्यता | अर्थेषु शक्तिः कल्प्या । शब्दानां मुख्यत्वात् तत्रैव तत्कल्पनम् । न तु शब्देपश्चाद्भाव्यर्थेषु । पदेषु शक्तिश्चोभयाभ्युपेया । अन्वयरूपधर्म एव त्वाधिक्यम् । धर्मिकल्पनातो धर्मकल्पना तु लध्धी । 1 एतेन वाक्यार्थधियोऽर्थानन्तर्यन्न प्राथम्यं पदानामित्युक्तं निरस्तम् ; पदानां साक्षादभिघातृत्वमसिद्धमिति च । वाक्यार्थधीरुभयसाधारणी ।
-
वत मारूपमिति पाठ्यमिति आरूपमित्यस्य ईषदभिव्यक्तस्वरूपमित्येवं- रूपोऽर्थ इति च श्लोकवार्तिकन्यायरत्नाकरदर्शिनां सुगमम् । परं त्विदमत्रावधेयम्- श्वेतिमारूपमित्येव मातृकयोः, सर्वत्र श्लोकवर्तिककोशेषु ग्रन्थान्तरेषु च पाठो दृश्यते । श्वेतिमशब्दस्य नियत पुंलिङ्गत्वमभिसंधाय न्यायरत्नाकरे श्वेतमारूपमिति पठित्वा आङ ईषदर्थत्वमवलम्ब्य व्याख्यातम् । परं तु " लिङ्गमशिष्यं लोकाश्रयत्वात् " इति व्याकरणस्मृतिं प्रमाणीकृत्य श्वेतिमेति नपुसकलिङ्गे रूपमाहत्य श्वेतिमरूपम- निर्धारितगुणिविशेषं पश्यत इति, श्वेतिमेति स्त्रीलिङ्गे डाबन्तं रूपमादाय श्वेतिमाख्यं रूपं पश्यत इति वार्थवर्णनमपि शक्यमिव भाति । इति स्थितस्य गतिश्चिन्तनीया । प्रमाणपरतन्त्राः सुधियेऽत्र प्रमाणम् । ११२ नयद्यमणिः तत्कारणमत्र किं प्रथमप्रतिपन्नपदानि ? उत परं प्रतिपन्ना अर्थाः ? इति संशये प्राथम्यस्यैव प्राबल्यम् । अन्यथोपक्रमन्यायभङ्गः | अर्थानां तत्प्रतीतिजनकत्वं चासिद्धम् । एवं पदानामेव साक्षादभिधातृत्वोपपत्तौ न पारम्पर्याद्युचितम् । ; यच्चोक्तं पदतिरोधानेऽर्थतस्तद्धी रिति–तदपि न, अनेकवर्णात्मकपदेषु सर्वपूर्ववर्णतिरोधाने ऽन्त्यवर्णानन्तरमर्थप्रतीतेरन्त्यवर्णस्यैवार्थधी हेतुत्वप्रसङ्गात् तथा वाक्यार्थधियोऽपि वाक्यान्तपदार्थस्यैव हेतुतेति अन्याहेतुत्वप्रसङ्गाच्च । न च तदिष्टम् ; पदानामभिधातृत्वं वाक्यार्थं प्रति साक्षाद्वा परम्परया वोभयाम्यु- पतम् । अतः पदानामभिधातृत्वयुक्तिः सुस्था । तात्पर्योपगमादि च । तात्पर्योपगमो नाम पदानां वाक्यार्थपरत्वम् । तत्परैरभ्युपगतमिति प्रदर्शितम् । नत्तु पदानां न प्रमितिहेतुत्वम् ; किं तु स्मारकत्वमेवेति भाट्टमतम् ; यथोक्तम् — “पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते” इति । पदाभिधानशक्तिव्यतिरिक्तशक्तिद्वयकल्पना- गौरवात् । अस्मत्पक्षे तु वर्णानां युगपत् स्मृतिस्थत्वाद्युपपत्तिर्वाक्यार्थप्रदीप उक्ता । सापि पक्षान्तरेऽपि समा । तदप्यसत् ; तत्पक्षेऽपि यत्तु लौकिकसर्ववाक्यानां लक्षणावृत्तित्वादन्वयधीः, नाभिधानत इत्युक्तम्—तत्तु प्राभाकरदूषणमेव ; न त्वस्मन्मतस्य; लौकिक सर्ववाक्यानामपि ब्रह्मपरत्वेन मुख्यवृत्तत्वात् । तत्र कस्यचिद्वाक्यार्थस्य वाक्यार्थान्वयानुपपत्तौ तु तत्संबन्धिनोपलक्षितस्यान्वयोऽपि युक्त इत्युक्तम् । तदुक्तम्— इति । “वाच्यस्यार्थस्य वाक्यार्थे संबन्धानुपपत्तितः । तत्संबन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते ॥" यत्तु यत्र निन्दा तत्र संख्याया अभिधानात् न सर्वलक्षणेति प्राभाकररुक्तम्, तच्चासत्, इतरपदवत् तेषामप्यपूर्वानन्वयस्य समत्वा लौकिकेषु । यत्तु तैः सिद्धार्थपरवाक्येष्वभिप्रायादर्थधीरित्युक्तम्- तश्चासत्; प्रवृत्तिपरवाक्येष्वपि तथात्वापातात् । न च कार्यधियः प्रवृत्यव्यभिचारात् तत्र न तथात्वमिति ; इष्टसाधनत्वधीत एव प्रवृत्तेरुक्तत्वात् । यत्तु न सामान्येनान्विताभिधानम्, अर्थशक्त्यापि तत्सिद्धेरित्यभिहि- ताम्बयवादिनो कम्—तन्न; कल्पना गौरवादेवार्थशक्तिनिरासात् ।५. अन्विताभिधाननिरूपणम् ११३ न चानन्त्याद्विशेषान्वितव्युत्पत्त्यशक्तेराकाङ्क्षायोग्यतासंनिधिसहकारिण- स्तदभावात् पदेष्वपि पृथग्व्युत्पत्तिरस्तीत्युक्तम् । तद्व्युत्पत्तौ चाकाङ्क्षादि- वशात् वाक्यव्युत्पत्त्यनुसारेण तद्विशेषपर्यवसाने हि नानन्त्यम् । सामान्या- न्विताभिधानेऽपि सामान्यस्य स्वाश्रयपर्यन्तस्यैव वाध्यत्वात् विशेषपर्यवसाना- नानुपपत्तिः । विशेषान्वयादिचोद्यपरिहारौ पक्षान्तरेऽपि तुल्यौ । यत्तु प्राभाकरैः कार्यान्वितस्वार्थाभिधायित्वमेवेत्युक्तम्, तत् तदभि- मतकार्यस्य दुर्निरूपत्वसाधनात् परब्रह्मान्वितत्वसाधनाच्च निरस्तम् । यत्तु तैरर्थान्तरान्विताभिधाने गौरवमुक्तम्, तदुभयथापि दुष्टत्वान्निरस्तम् । कल्पनायां हि गौरवं दोषः | कार्यविशेषान्वेषणायां च बुद्धिव्यापाराधिक्यात् गौरवम् । कार्यं च नेष्टसाधनातिरिक्तमित्युक्तम् । अतोऽर्थान्तरान्वितस्वार्थाभिधायीन्येव पदानि । तानि च ब्रह्मपराण्ये - वेत्युक्तं वाक्यार्थप्रदीप इति सर्वं सुस्थम् । इत्येव पूर्वकाण्डस्थसमीरितनयोक्तिषु । त्याज्योपादेयभेदेन सम्यगर्थसमीरणात् ॥ अर्थान्तराभिधानाच्च मतान्तरनिरासतः । अर्थान्तरान्वितस्वार्थं पदान्याहुरितीरितम् ॥ इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयद्युमणौ अन्विताभिधानप्रकरणम् । 15 ६. शब्द निरूपणम् रामानुजमुनेर्भावो गम्भीरोऽयं प्रकाश्यते । श्रावणानां तु शाब्दानां स्थायित्वविषयोऽधुना ॥ यद्यपि कार्यात्मकाकाशगुणस्य कार्यता श्रुतित एव सिद्धा; तथापि तार्किकाणामिव न क्षणिकत्वमिष्टम् । यत एवमुक्तं देवताधिकरणभाष्ये - " प्राकृत- प्रलये तु स्रष्ठुः प्रजापतेर्भूताद्यहंकारपरिणामशब्दस्य च विनष्टत्वात् कथं प्रजापतेः शब्दपूर्विका सृष्टिरुपपद्यते ? कथंतरां विनष्टस्य वेदस्य नित्यत्वम् ? " इति । अतः प्राकृतप्रलयावधि शब्दस्य स्थायितेष्टा, तावत् स्वाश्रयाकाशाविनाशात् । अत एव ह्याकाशस्य " न वियदश्रुतेः" इति चिरकालस्थायित्वाभिधानम् । तामसाहंकारपरिणतत्वोक्तिः स्वाश्रयाकाशपरिणामादौपचारिकी । शब्दस्य द्रव्यस्यैव हि कार्यत्वेन परिणाम भाक्त्वम्; न तु गुणानाम् | शब्दस्य गुणत्वं च भाष्यादौ स्पष्टम् । अतो यावद्देशव्यापी भवत्याकाशः, तावदाकाशसर्व देशव्यापी शब्दोऽपि वर्तते चिरकालस्थायीति च दर्शनम् । एवंच पूर्वकाण्डोक्तस्य ’ नित्यत्वादेरप्यविरोधः; ±अमरनित्यत्ववत् तस्य चिरकालस्थायिपरत्वेनाप्युपपत्तेः । बहुदेशवर्तित्वादाकाशस्य तद्वर्तित्वेन तद्गुणत्वाद सर्वगतत्वनिरासोऽप्युपपन्नः । एवं कथंचिन्नयनं तु शब्दाश्रयाकाशादेः परिच्छिन्नत्वात् । लौकिका अपि शब्दा वैदिका एव । तच्च वेदार्थसंग्रहादौ स्पष्टमुप- पादितम् । ननु तत्रैव “परमपुरुषवत् तत्स्वरूपतदाराधनतत्फलज्ञापक- वेदाख्यशब्दजातं नित्यमेव” इति ग्रन्थात् वैदिकशब्दानां स्वतो नित्यत्वाभिमतिः प्रतीयते ; न तु चिरकालस्थायित्वमिति - तन्न ; पूर्वोदाहृतभाष्यविरोधात्; “प्राकृतप्रलये तु चतुर्मखत्रेदाख्यशब्दादौ विनष्टे” इत्यादिसारोक्तिविरोधाच्च ।
-
पूर्वकाण्डोक्तस्येति । शब्दनित्यत्वाधिकरण इति भावः । यदाद्दुः- “वर्णात्मिकाश्च ये शब्दाः नित्याः सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥ " इति । अत्र हि भारैः शब्दानां नित्यत्वं विभुत्वं द्रव्यत्वं चाभिप्रेतम् ।
-
अमरेति । “अपाम सोमममृता अभूम” इत्याद्युक्तेरिति भावः । ६. शब्दनिरूपणम् ११५ नित्यत्ववचनं त्वानुपूर्वी विशिष्टत्वाकारेण वेदाख्यशब्दराशेरपुं प्रभवत्वपरम् । अत एव हि दीपसारयोः “वेदांश्च पूर्वानुपूर्वी विशिष्टान् आविष्कृत्य” इत्याविष्कारमात्रोक्तिः । अतो न वैदिकलौकिकशब्दानां नानात्वमभिमतम् । नानाखे च वैदिकानां व्युत्पत्त्यभावादबोधकता । शब्दार्थसंबन्धोत्पत्तिकता च वेदार्थसंग्रहे अविशेषेणोक्ता । तदौत्पत्तिकत्वसिद्धयर्थमेव हि शब्दस्य स्थायित्योक्तिर्भाष्यादौ । स्थायित्वाभावे तु प्रतिक्षणं शब्दानां भिन्नत्वात् नात्पत्तिकतासिद्धिः । ननु औत्पत्तिकत्वस्य चक्षुरादेर्दष्टृत्व शक्तिवत् स्वाभाविकत्वरूपत्वा- दनित्यत्वेऽपि तस्योपपत्तिरिति - तन्न ; शब्दस्य ज्ञाततया कारणत्वात् तद्धेतुव्युत्पत्यनुपपत्तेस्तस्यासत्कल्पत्वात् । न हि प्रतिक्षणं भिन्नेषु व्युत्पत्युपपत्तिः । ननु घटत्वादिजातिवत् शब्दत्वजात्यङ्गीकारेण तदौत्पत्तिकत्वोप- पत्तिरिति — तन्न ; संस्थानस्यैव जातित्वाङ्गीकारात् । तस्य च द्रव्यमात्रनिष्ठत्वात् गुणेषु जात्यनभ्युपगमात् । अतः शब्दस्य क्षणिकत्वे नौम्पत्तिकतेति तत्सिद्धयर्थं क्षणिकत्वादि निराकरणीयम् । अतः शब्दस्थायित्वादिसाधनमर्थवत् । शब्दाधि- करणे पूर्वकाण्डे तत्सिद्धावपि तद्व्याख्यातृभिरन्यथा तत् व्याख्यातमिति पृथक्प्रवृत्तिरप्यर्थवती । तदधिकरणयाथार्थ्य तु भाष्यकारेण पूर्वेदाहृतभाष्यादौ द्योतितम् । एवंविधशब्दस्थायित्वादौ तार्किकाः प्रत्यवतिष्ठन्ते । तथाहि — शब्दानित्यत्वस्य प्रत्यक्षसिद्धत्वात् सोऽनित्य एव । अनित्यता हि स्वरूपप्रच्युतिः, तदुपलक्षितसत्तान्वयो वा ; उभयथापि घटाद्यनित्यत्ववत् तदिन्द्रियप्रमाणसिद्धा तस्य प्रत्यक्षादनित्यता । कार्यत्वप्रत्यक्षाञ्च्चानित्यता । कार्यत्वं हि कारणाधी- नत्वम् । तस्य च ताल्वादिकारणानुविधायित्वं प्रत्यक्षम् ; घटादेर्दण्डाद्यन्वय- व्यतिरेकानुविधायित्ववत् । न च ताल्वादेरभिव्यञ्जकत्वमेवेति ; दण्डादेरपि तथात्वापातात् । कारणसामग्री ह्येषा यत्सद्भावे पदार्थोपलम्भो नियतः । अत्र च ताल्वादिव्यापारे वर्णविशेषोपलम्भो नियतः । अभिव्यञ्जकसामग्री ह्येषा यत्सद्भावेऽपि पदार्थ -
-
तदिन्द्रियेति । शब्दस्य वर्णात्मकस्य ग्राहकमिन्द्रियं श्रोत्रम् ; न तु नादमात्रग्राहकमिति तद्विषये इन्द्रियं प्रमाणमित्यस्य सिद्धावित्यर्थः । ११६ नयद्यमणिः विशेषोपलम्भो न नियतः ; यथा ह्यालोकादिसद्भावेऽपि घटादिविशेषोपलम्भो न नियतः । अतस्ताल्त्रादेरभिव्यञ्जकवैधर्म्यान्नाभिव्यञ्जकता । किंच किमभिव्यक्तिः शब्दानाम् ? उत श्रोत्रस्य ? नाद्यः; ‘सर्वशब्दानामे- केन्द्रियग्राह्यत्वादेकदेशस्थत्वाच्च तालवाद्येकव्यापार युगपत् सर्वशब्दोपलब्धि- प्रसङ्गात् । न द्वितीयः ; श्रोत्रस्याभिव्यक्तिसंस्कृतत्वात् सर्वशब्दोपलब्धेर- निवार्यत्वात् । शब्दानामसंनिहितदेशस्थत्वे तु श्रोत्रात्मकाकाशस्य गत्यशक्तेर्न ग्रहणशक्तिः । इति संग्रहः । “अभिव्यञ्जकवैधर्म्यादभिव्यक्तेरसंभवे । प्रयत्नानन्तरं दृष्टेरभिधानं प्रयत्नजम् ॥ सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं चक्षुः पटं न हि न पश्यति ॥" ‘विमतः शब्दो जायते, महाभूतासाधारणगुणत्वात् गन्धादिवत् ’ इत्यनुमानाच्च शब्दानां कार्यता । ततश्चानित्यता । अनित्यत्वेऽपि न चिरस्थायिता ; किं तु क्षणिकत्वमेव ; 2 व्यापारानतक्षण- व्यतिरिक्तक्षणेष्वनुपलब्धेरिति संक्षेपः । अत्रोच्यते—तस्य न पराभिमतानित्यत्वम्, तदनित्यत्वप्रत्यक्षासिद्धेः । न हि घटादिविनाशित्ववत् तस्यैन्द्रियकता, विकल्पासहत्वात् । किं तद्विनाशस्य प्रत्यक्षत्वम् ? शब्दानुपलब्धिवी ? नाद्यः; तत्स्वरूपप्रच्युतेः प्रत्यक्षतोऽनुपलब्धेः । द्वितीये तु तदनुपलब्धिमात्रान्न विनाशसिद्धिः; तत्प्रत्यक्षता वा । अनुपल- ब्धिर्नामोपलब्ध्यभावः ; न च तदभावस्य विनाशरूपता । न हि बधिरस्य शब्दोच्चारणसमये तदनुपलब्धिरिति तस्य विनाशः; अनुपलब्धिमात्रादभावसत्वे, अन्धकारस्थघटादेरप्यभावापत्तिः ।
-
सर्वेति । एकेन्द्रियग्राह्याणामेकप्रदेशस्थितानां हि घटपटादीनां युगपदुपल- विधरानुभविकी सति दीपादिप्रसरे । तथैवेहापि स्यात् ; शब्दनां श्रोत्रैकग्राह्यत्वात् आकाशरूपस्य देशस्य चैकत्वादिति भावः ।
-
व्यापारानतक्षणेति । व्यापारं प्रति आनतो यः क्षणंः तस्मादित्यर्थः । ताल्वादिव्यापारासन्नकतिपयक्षणेति यावत् । ६. शब्दनिरूपणम् ११७ न च तत्प्रध्वंसाभावग्रह इति तद्विनाशप्रत्यक्षतेति ; विकल्पासहत्वात् । किं प्रध्वंसग्रहस्य विनाशप्रत्यक्षस्य च मिथो भेदः ? ऐक्यं वा ? आधे प्रध्वं- सप्रत्यक्षेऽपि विनाशप्रत्यक्षासिद्धिः । अतस्तत्प्रध्वंसाभावविनाशयोनैक्यम्, तयो- भिन्नत्वादिति द्वितीयोऽपि निरस्तः । विनाशो नामोत्पन्नकार्यस्य पाश्चात्याभाव- हेतुः क्रिया । एवमपि प्रत्यक्षता; न च “णश अदर्शने” इत्यभावस्यैव इत्यभावस्यैव धातुवच्यतेति । क्रियावचनत्वाद्धि धातुता । न ह्यभावः क्रिया । अतस्तत्साधनवाची तद्धातुः । कामं भवतां विनाशप्रध्वंसावेकार्थौ ; न शब्दप्रध्वंसो- पलब्धिः, घटादिप्रध्वंसोपलब्धिवत् पाकजपार्थिवरूपादिप्रध्वंसोपलब्धिवद्वा । योग्यानुपलब्ध्या विनाशकल्पनायां त्वनित्यत्वस्य न अर्थापत्तिकल्प्यत्वात् । ’ उपलब्धियोग्यापादकतायास्तु नानित्यत्वप्रत्यक्षो- पयोगिता ; किंतु तदभावकल्पनायाम् 2 | घटादेस्तु मुद्गराभिघातकपाला- दिदर्शनात् न प्रध्वंसे विप्रतिपत्तिः । तत्रापि देशविशेषादर्शनमात्रात् न नाशप्रत्यक्षता | योग्यत्वादिना त्वसद्भावः कल्प्य एवेति योग्यानुपलब्धिमात्रात् न प्रध्वंसप्रत्यक्षता । न च तत्कल्पनायामपि शब्दस्य न स्थायितेति ; प्रत्यभिज्ञाप्रत्यक्षादेव तत्सिद्धेः । ततस्तत्स्थायित्वे चानुपलब्धिरन्यथाप्युपपन्नेति न विनाशकल्पना । न च गकारादिप्रत्यभिज्ञायाः तत्सामान्यविषयत्वादन्यथासिद्धत्वादि ; सामान्यस्य प्रमाणशून्यत्वादसिद्धेः । न च गकारादिष्वनुवृत्तधीतस्तत्सिद्धिरिति ; गकारस्यैकत्वेनानेकव्यक्त्यभावात् । यत्र हि व्यक्तिभेदपुरः सर्यभेदधीः, तत्र हि सामान्यम् ।
-
उपलब्धियोग्यापादकताया इति । उपलब्धियोग्यपदार्थविषये या आपादकता ‘यदि स्यात् उपलभ्येत’ इति स्यादित्युक्तसद्भावनिष्ठा, इत्यर्थः ।
कल्पनायामिति । उपयोगितेति शेषः । तस्या 3. देशविशेषादर्शनमात्रादिति । देशविशेषे अदर्शनमात्रादित्यर्थः । 4. तत्कल्पनायामपीति । न विनाशस्य प्रत्यक्षम् ; किंतु अर्थापत्त्या कल्पनेति पक्षेऽपीत्यर्थः । 5. व्यक्तिभेदेत्यादि । तदुक्तम् — “तदेवौषधमित्यादौ सजातीयेऽपि दर्शनातु” इति । ११८ नयधुमणिः न च नानादिक्कालवक्तृभेदे गव्यक्तिभेदधीत्वैक्यधीश्चेति ; अभिव्यञ्ज- कसामग्रीभेदात् तन्नानात्वधियोऽन्यथासिद्धत्वात् । संस्थानमेव गोत्वादिजातिः । संस्थानं च द्रव्यगुणः, न गुणगतम् । शब्दस्यान्यविशेषणत्वैकस्वभावत्वात् जात्यादेखि नाकारान्तरापेक्षा च । जात्यादेर्हि स्वाश्रयस्य पदार्थान्तरतो व्यावर्तकत्वेनैव स्वेनैव स्वव्यावर्तकतापि सिद्धा । गुणेषु न जातिरिति प्रमेयनिरूपणे वक्ष्यते । भिन्नवक्तृसमुत्थनानाभूतपरस्परानपेक्षाभिव्यञ्जकपवनै- रभिव्यक्तिभेदे सामग्रीभेदात् गादेर्नानात्वोपलब्धिः, तिमिरव्यवधानसामग्री- भेदान्नेत्रप्रवृत्तिभेदे चन्द्रानेकत्वग्रहवत् । तदुक्तम् — “अभिव्यञ्जकनानात्वाच्छब्दो नानेव लक्ष्यते । नेत्रप्रवृत्तिभेदेन चन्द्रस्तै मिरिकैरिव ॥" इति । किंच तस्य क्षणिकत्ववादिभिरपि नानादेशत्वधीर्भ्रान्तिरित्यङ्गीकार्या’; श्रोत्रदेश एवोपलभ्यमानशब्दोत्पत्त्यङ्गीकारात् । न च श्रोत्रस्य गत्या तद्ग्रहोपपत्तिः ; आकशस्य श्रोत्रत्वाङ्गीकारात् । वायोः प्रातिकूल्यानु- कूल्ययोर्विशेषविरहेण दूरस्थ शब्दोपलब्ध्यापातात् ; उभयत्रापि श्रोत्रगमना- संभवात् । अप्राप्य तु न तद्ग्रहः; वातप्रातिकूल्यादावुपलब्धितौल्यापातात् । अतस्तत्पक्षेऽपि नानादेशत्वमेव । तदुक्तम् — “नानादेशोपलम्भे च सर्वेषां भ्रान्तिसंमतिः । कर्णच्छिद्रगतस्यैव शब्दस्य ग्रहणं यतः || ” इति ! अस्मत्पक्षे तु नभो न श्रोत्रम्; सर्वेन्द्रियाणामाहंकारिकत्वश्रुतेः । तच्च प्रमेयनिरूपणे उपपादयिष्यते । अतः शब्दाभिव्यक्ति: श्रोत्र एवेति न नियमः, अन्यत्राप्याकाशे लभ्यात् संपर्कात् । पृथिव्यादेरपि तस्य गुणत्वाच्च सर्वत्रोपलब्धियोग्यता । अतो यत्र शब्दाभिव्यञ्जकवायुविशेषसद्भावः, तत्रैव समभिव्यक्तिः । शब्दश्च वर्णावर्णात्मकभेदात् द्विविधः । अकारादिर्वर्णात्मकः । ध्वन्या- द्यपरपर्यायोऽन्यः । तत्रावर्णात्मकस्याभिघातजवायुमात्रमभिव्यञ्जकम् । वर्णात्म- कानां तु ताल्वादिस्थान विशेषजो वायुविशेषो ध्वनिविशेषसहितानामेवाभि- व्यञ्जकः । अवर्णात्मकोऽपि प्रत्यभिज्ञयैक एव । न च वायोरेव ध्वनित्वम्, ‘शब्दपर्यायत्वप्रसिद्धेः । तद्भूयस्त्वादिस्तु अभिव्यञ्जकवायुभूयस्त्वादिनिबन्धनः ।
- भ्रान्तिरित्यङ्गीकार्या । भ्रान्तित्वेनाङ्गीकार्येत्यर्थः । 2. शब्दपर्यायत्वेति । ध्वनेरित्यादिः । ननु ६. शब्दनिरूपणम् ११९ " वेणुरन्ध्रविमेदेन भेदः षड्जादिसंज्ञकः । अभेदव्यापिनो वायोः” इति वायोरेव नादत्वमुक्तमिति - तन्न; वायोरश्रावणत्वात् । नादाभि- व्यञ्जकत्रायैौ षड्जादिव्यवहार औपचारिकः । पार्थिवाद्युपष्टब्धाकाशसौक्ष्म्यादि- नापि ध्वनि सौक्ष्म्यादिः । अतो ध्वनीनां नाभिव्यञ्जकत्वम् । किंतु वायोरेव । अत एव हि “वायुनरुत्थित उरसि विस्तीर्णः कण्ठे विपरिवृत्तो मूर्धानमाहत्य परावृत्तो वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति” इति शबरोक्तिः । अतः शब्दस्य वर्णात्मकस्य न ध्वन्यनित्यत्वसाम्यापादनदूषणानि । न च ध्वनीनामनित्यत्वोपपत्तिः; वर्णसमानाश्रयादिभ्यः । अतो राद्धान्तैकदेशिनां नादानित्यत्वाभ्युपगमो भयत एव । ननु अभिव्यञ्जकवायोः प्रथमसंयोगदेश एव शब्दाभिव्यक्तौ शब्द श्रोत्रयोर्गत्यभावात् कथं तद्ग्रहणमिति । उच्यते — श्रोत्रस्याणुपरिमित- द्रव्यत्वेन गत्युपपत्तिरिति । न च तथात्वे वायुप्रातिकूल्यादौ शब्दोपलब्ध्य- विशेषापातः; कार्यकल्प्यत्वात् कारणसामग्रया यथेोपलब्धि प्रातिकूल्यादेः सामग्रीत्वेन कल्प्यत्वात् । श्रोत्रदेश एव शब्दाभिव्यक्तिपक्षेऽपि तारतम्यादेः सामग्रीभेदः कल्प्य एव । न ह्येकरूपाभिव्यक्तिः समीपदूरदेशे । शब्दस्य समीपे हि स्फुटोपलब्धिः । दूरे त्वस्फुटा । तत्र वायुवेगोऽनादिः कल्प्यः । अनुकूलवात- स्यात्यन्तप्राबल्येऽपि न शब्दोपलब्धिः । तथा प्रतिकूलवाताल्पत्वे दूरस्थोऽपि श्रूयत इति न तस्यानुकूल्यादिमात्रस्य तदुपलब्ध्यादिहेतुत्वम् । अतः श्रोत्रस्य स्वाश्रय देशाभिव्यक्तशब्ददेशयेोरन्तराले स्वग्राह्यविरोधिशब्दान्तराभावे तद्ग्रहणसामर्थ्यमिति, प्रबल शब्द हेतौ श्रोत्रस्य तदुपपादकसामर्थ्यमिति च कल्प्यम् । एतत् पक्षान्तरेऽपि समम् । एवमभिव्यञ्जकदेशस्थत्वप्रतीतेरबाधो लाभः । अन्यथा भ्रान्तित्वपरिकल्पनया तद्बाधः कल्प्यः । अभिव्मञ्जकदेशस्थैव हि शब्दप्रतीतिः । न च तस्याः प्रतिपन्नोपाधौ बाध इति न भ्रान्तिता । श्रोत्रदेश एव तदभिव्यञ्जक सिद्धौ तद्भ्रान्तिसिद्धिः । न हि तत्र प्रमाणम् ।
- भयत एवेति । आप्लुत्य भल्लूकवदापतद्भयः प्रतिवादिभ्यो भीत्यैवेत्यर्थः ।
- स्वाश्रयेति । स्वाभयदेशस्य अभिव्यक्तयन्द्रदेशस्य चेत्यर्थः । १२० नयद्युमणिः अन्यदेशस्थशब्दप्रतीतेर्भ्रान्तित्वसिद्धौ श्रोत्रदेश एव तदभिव्यक्तिसिद्धिः, एतत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रयणं च । न त्वाकाशस्य श्रोत्रतेत्युक्तम् । I अतः श्रवणेनापि नेत्रवत् गत्वैव ग्रहः । नेत्रस्य रूपपरिग्रहेऽवकाशा- लोकादिः सहकारी । श्रोत्रस्यापि गत्यवकाशानुकूलवातादिः । न हि निश्छिद्र- पिहितकवाटपदान्तरवस्थितैर्बाह्यशब्दः सामीप्येऽपि श्रूयते । तदन्तर्गत्यवकाशे दूरस्थोऽपि श्रूयते । श्रोत्रदेशे तदभिव्यक्त्युत्पत्तिक्षययोरप्यवकाशादिः सहकारीष्ट एव । किंच कौष्ठघादिवायोः कर्णनेमिभागस्पर्शानुपलब्धेश्च न श्रोत्रदेशे तदभिव्यक्तिः । वायोः स्पर्शनत्वेऽनुमेयत्वे वा तन्नेमिस्पर्शात् तत्प्रतीतिः स्यात् । न हि तत्सूक्ष्मत्वादनुपलब्धिरिति ; भेर्याद्यभिघातजवातप्राबल्येऽपि तदनुपलब्धेः साम्यात् । चक्षुषा स्थूलरूपिद्रव्यस्य दूरादल्पतया ग्रहणवत् शब्दस्यापि दूरान्मन्दतया ग्रहणमप्युपपन्नम् । ननु श्रोत्रस्याणुत्वेन गत्वैव तद्ग्रहे त्वगिन्द्रियादेरपि गत्वैव स्वोपलब्धिः स्यादिति—मैवम् ; पक्षान्तरेऽपि त्वगिन्द्रियादेर्मध्यमपरिमाणत्वाभिमानाच्चक्षुर्वद्गत्वैव ग्रहणापत्तिसाम्यात् । अतो यथेोपलम्भमेव कारणकल्पना । अतस्तत्तया 2 गकारादेरैक्ये हि अभिव्यञ्जकाभावादेवायोग्यतयानुपलब्धिः । अभिव्यक्तिश्च शब्दानामेव । अभिव्यञ्जकवायो: गत्वरत्वादेवाभिव्यक्त्यस्थैर्ये शब्दस्फूर्त्यस्थैर्यम् ; मेघतिमिरान्धकारितोल्कामार्गभिव्यज्यमान पदार्थस्फूर्त्यस्थैर्यवत् । प्रयत्नजानामपि खननादीनां जलाभिव्यञ्जकत्ववत् ताल्यादिजानामभिव्यञ्जकताप्युपपन्ना । अतस्तत्र तेषामभिव्यञ्जकतैव 1 न च शुक्तिकारजतादिवद्भेदाग्रहात् भ्रान्तिरिति ; गकारादेर्व्यक्त्यैक्यस्योक्तत्वात् । उच्चैः स्वरादिरप्यभिव्यञ्जक- वायुप्राबल्यदैर्ध्यादिकृत औपचारिक एव । अतो गत्वादेः श्रावणत्वाद्यौपाधि - कत्वाद्युक्तिरनुकोपालम्भः; उपाधेरपि भेदनिर्वाह्यत्वात् ; शब्दस्योपाधिकत्वमिष्टमेव । यत्तु तस्य श्रोत्रग्राह्यत्वौपाधिकत्वे गोत्वादेरपि सास्नादिनोपाधिकत्वप्रसङ्ग इत्युक्तम् ; न तदिष्टमस्मत्पक्षे । तच्च प्रमेयनिरूपणे वक्ष्यते ।
- अनुमेयत्वे वेति । श्रोत्रदेश एव शब्दग्रहणपक्षे तद्धेतोर्वायोरपि कर्णदेश- प्राप्तेर्वक्तव्यत्वात् तत्स्पर्श उपलभ्येत । वायोः स्पार्शनत्वे सोऽप्युपलभ्येत । स्पर्शग्रहणेन वायोरनुमेयत्वेऽपि वायुस्पर्शोपलब्धिर्हि न व्याहन्येतेति भावः ।
- तत्तयेति । ‘सोऽयं गकारः’ इति प्रत्यभिज्ञाविषयतयेत्यर्थः । ६. शब्दनिरूपणम् १२१ अतो गकारादेरेकत्वधीरनन्यथासिद्धेति स्थायित्वानुमानादिसिद्धौ समानदेशै केन्द्रियग्राह्यत्वेऽपि युगपत्सर्ववर्णोपलब्धिकार्यादर्शनादभिव्यञ्जकभेद- कल्पनाप्युपपन्ना । किंच घटादेरे केन्द्रियग्राह्यस्य नैकाभिव्यञ्जकता । ‘अभिव्यङ्ग्यत्वप्रयोजक- रूपिद्रव्यत्वरूपत्वाभ्यामेकाभिव्यङ्गयत्वप्रयुक्तत्वस्य शङ्क्यमानत्वात् । उपाधि- शङ्कायामपि नानुमा । किंच एकेन्द्रियग्राह्यघटादेः सर्वस्यालोकाभिव्यक्तिदर्शनात् ताल्वादिजवायु- विशेषत्यापि सर्ववर्णाभिव्यञ्जकत्वमनुमाय पारिशेष्यात् तदुत्पत्त्यनुमा । अतः अनुमानपुरःसरमनुमानं दुर्बलम्, प्रत्यभिज्ञापूर्वकमभिव्यञ्जकान्तरसाम्यबाधात् । नियतविषयत्वेनाभिव्यञ्जकभेदानुमानं तु प्रबलम् ; प्रत्यक्षपूर्वकत्वादेतदनुमानस्य । अतो नाभिव्यञ्जकत्रैधर्म्यमात्रात् कारणता । आलोकादेः खननादेर्वैधर्म्या- नाभिव्यञ्जकता च स्यात् । किंच एकेन्द्रियग्र हैकदेशस्थानामप्यञ्जनाद्यभिव्यञ्जकभेदनियतो ग्रहणभेद इति दृश्यते स्थलगुप्तनिधानादौ । योग्यत्वादेव हि तस्य मनुष्यदृश्यत्वम् । योगिनामपि द्व्यणुकादिद्रष्टृत्वशक्तिरभ्युपगता । सापि सहकार्यभि- व्यञ्जकवैधर्म्यदेव | तथा न चै केन्द्रियग्राह्यत्वे तु नाभिव्यञ्जकवैधर्म्यमिति ; पटलाद्यर्दितानामञ्जन- विशेषानक्तनयनावस्थायां पदार्थविशेषादर्शनात् तदक्तावस्थायां तद्दर्शनात्तद्वै- धर्म्यसिद्धः । अतो न सर्वाभिव्यञ्जकसारूप्यम् । यत्तु सामग्रीसमवधाने कार्यत्वे पदार्थोपलब्धिनियतिः, नाभिव्यङ्ग्यत्व इत्युक्तम् ; तत्तु अभिव्यङ्गयस्थायित्वे गगनादिवत् अभिव्यञ्जकसमवधाने खननादिवत्तदभिव्यक्तिः । यतः प्रत्युक्तः कूपाकाशादेहन करणाद्यभिव्यङ्ग्यत्व-
- अभिव्यङ्गयत्वेति । समानदेशस्थवस्तुगत मेकेन्द्रियग्राह्यत्वं किमेका- भिव्यञ्जकत्वे प्रयोजकम् ? किं वा तद्गतं रूपिद्रव्यत्वम् ? तद्द्रव्यगुणगतं रूपत्वं वेति प्रयोजकान्तरशङ्कायामेकेन्द्रियग्राह्यत्वस्य नैकाभिव्यङ्ग्यत्वमाधकतेति भावः । शास्त्रदीपिकायां तु अन्यदुक्तम् - “दृष्टा च समानेन्द्रियग्राह्याणामप्यभिव्यञ्जकव्यवस्था । सावित्रं हि तेजो घटादीनामेवाभिव्यञ्जकम् ; न नक्षत्राणाम् । निम्बत्वक् चन्दन- गन्धस्यैवाभिव्यञ्जिका ; न गन्धान्तराणाम् । तस्माददोषः” इति । अन्यच्चायमेव ग्रन्थकारोऽनन्तरं दर्शयिष्यति । 16 १२२ नयधुमणिः व्यभिचारोऽभिव्यञ्जकसमवधाने । किंच पदार्थदर्शना नियतिस्तु तत्तत्पदार्थस्वभाव- कृता ; न त्वभिव्यञ्जकस्वभावकृता । अतः ‘अभिव्यञ्जकवैधर्म्यात्’ इत्यादयो हेत्वाभासा एव । यत्तु तागसमहाभूतासाधारणगुणत्वाद्गन्धवदित्यनुमानम्, तत् सिद्ध- साधनम् ; शब्दस्याश्रयविनाश | द्विनाशाभ्युपगतेः । तदनुमानान्न क्षणिकता । प्रत्युत गन्धादिवदक्षणिकतैव । अयोग्यतयाप्यनुपलब्ध्युपपत्तेः न तावन्मात्रादपि क्षणिकता । “वाचा विरूपनित्यया” इत्यादिश्रुत्या च तत्स्थायिता । तत्र नित्यत्ववचनमपि “तन्मात्राणि भूतादै लीयन्ते” इत्यादौ तल्लयादेः श्रवणाच्चिर- कालस्थायित्त्रपरमेव । न त्वनाद्यन्तवन्नित्यत्वपरम् । एवंच न शब्दाधिकरण- विरोधोऽपि । तत्सूत्राण्यप्येतदनुगुणं योजनीयानीति शब्दस्थायित्वादिः सिद्धः । अन्यत्त विस्तरभयात् नोक्तमिति । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयद्युमणौ शब्दनिरूपणप्रकरणम् ।७. श्रुतिलिङ्गादिनिरूपणम् श्रुत्यादीनां स्वरूपस्य तद्बलाबलयोरपि । तन्त्रानभिज्ञचे|धाय विवेकः क्रियते स्फुठम् ॥ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्या विनियोजिकाः पदार्थस्वरूपज्ञापि- काश्च ; एतत्प्रनाणव्यतिरेकेण पदार्थस्वरूपज्ञापकाभावात् । यद्यपि श्रुतिरेव सर्वत्र प्रमाणम् ; तथापि श्रुतित्वाद्यवस्थायुक्ताया एव प्रमाणता । तत्र श्रुतिर्नाम द्वितीयान्तादिपद श्रवणम् । “ऐन्द्रया गार्हपत्यम्" इत्यादि तदुदाहरणम् । लिङ्गं च पदानामभिधानसामर्थ्यम् । " कदाचन स्तरीरसि नेन्द्र सश्चसि " इति तदुदाहरणम् । वाक्यं चान्योन्यान्वितत्वेनैकार्थाभिधायीनि पदानि । “द्वादशोपसत्ताहीनस्य" इति तदुदाहरणम् । इतिकर्तव्यतार्थप्रधानं प्रकरणम् । “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इति तदुदाहरणम् । स्थानं नाम संनिधिः क्रम इति च पर्यायः । तस्य च पाठसंनिधिःचेनोदाहरणं प्रसिद्धम् । आख्या चाध्वर्यवमित्यादिः । ‘ननु न पदान्तरनिरपेक्षा गार्हपत्यमित्यादिश्रुतिर्विनियोक्त्री । न चेन्द्रपदा • भिधानसामर्थ्यमात्रादिन्द्राभिधानम्, अन्वितस्यैव वाक्यस्याभिधायकत्वात् । अतः श्रुतिलिङ्गे न वाक्यात् पृथक् प्रमाणमिति – मैवम्; अन्वयव्यतिरेकाभ्यां गार्हपत्यमित्यस्यैव विनियोजकत्वात् । पदान्तराणां च गार्हपत्यपरत्वेऽप्य- विरोधात् तत्परतासिद्धिः ।
ननु यद्यपि गार्हपत्यपदशक्त्यैव गार्हपत्यप्रतीतिः, यथैवेन्द्रपदशक्त्यैवेन्द्र- प्रतीतिः; तथापि कथं गार्हपत्यपदस्य श्रुतित्वम्, अन्यस्य लिङ्गत्वमिति- मैवम् ; उपस्थानप्रति संबन्धिगार्हपत्यस्य पदमात्रेणागमकत्वात् " कदाचन स्तरी रसि नेन्द्र सश्चसि" इत्यत्रेन्द्रशब्दश्रवणात् तत्समभिव्याहृतपदकदम्बकाद्वा इन्द्रोपस्थानं प्रतीयते । केवलं त्विन्द्राभिधानसामर्थ्यमिन्द्रपदस्य । तत्सामर्थ्य-
- नन्वित्यादि । अयमर्थः — श्रुत्युदाहरणे गार्हपत्यमिति पदमात्रं न प्रमाणम् | “कदाचन स्तरोरसि नेन्द्र” इति लिङ्गोदाहरणे सामर्घ्यमात्रं न प्रमाणम् । किंतु वाक्यमेव । शाब्दबोधस्यान्वितार्थविषयकत्यात् वाक्याभावे तदयोगात् । अतः श्रुतिलिङ्गयोर्वाक्यापेक्षया पार्थक्यं कथमिति । १२४ नयद्यमणिः मात्रादिन्द्रोपस्थानपरता शब्दस्य । तदेकवाक्यतयेतरपदानामपि ऐन्द्रेऽनुविद्ध एव द्वितीयान्तगार्हपत्यश्रुत्या विनियोगः । । ननु कः प्रकरणविनियोज्यः पदार्थः फलवत्संनिधावफलं तदङ्गमिति न्यायात् स्वर्गफलप्रयाजाद्यन्वितं दर्शपूर्णमासप्रधानमभिधीयत इति श्रौतमेव शेषत्वं प्रयाजानामिति यतः । श्रुत्याद्य विनियुक्तपदार्थशेषत्व एव हि प्रकरणं प्रमाणम् । किंच अन्यपदार्थान्वितस्वार्थाभिधायिनः शब्दा व्युत्पन्नाः । प्रकरणप्रमाणेन विनियोगे हि प्रयाजादिवाक्यार्थानां दर्शपूर्णमासादिवाक्यार्थे- नान्वयो वाच्यः प्रकरणे प्रमाणे । अन्यदा त्वशाब्दं प्रकरणविनियोज्यं स्यात् ; वाक्यार्थानां परस्परान्वयाव्युत्पत्तेः । न च ‘फलाफलनयात् करणेतिकर्तव्यतात्या- विभागेनान्वयप्रतीतिः; इतिकर्तव्यतयैवान्वयात् श्रौतत्बोपपत्तेः । न ह्यनिर्धारि- तविशेषस्यैदमयैनान्वयसंभवः । अतो न प्रकरणविनियोज्यसद्भाव इति न प्रकरणं नाम प्रमाणमिति - तन्न ; फलवदफलनयेन फलवद्दर्शपूर्णमासवाक्येषु विधायकः प्रयाजादेश्च करणेतिकर्तव्यतात्वाविभागेन ।ग्नेयप्रया- जाद्यन्वितस्त्रार्थपर इति, तदवस्थायामवान्तरवाक्यार्थतां हित्वा तात्पर्यानुगुणं पदार्थतयानीतैः प्रयाजादिभिः प्रधानान्वयात् । करणेतिकर्तव्यतात्वेनान्वये च वाक्यार्थयोरन्वयापत्तेरैदमर्थ्य मात्रेणान्वयात् । करणस्येतिकर्तव्यतारूप- विशेषान्वयस्य प्रकरणप्रमाणगम्यत्वात् । ऐदमर्थ्यलक्षणो यः सामान्यसंबन्धः शाब्दः, तदाक्षिप्तत्वात् करणेतिकर्तव्यतालक्षणसंबन्धस्यापि शाब्दता सिद्धा; प्रतीतसामान्यान्वयस्य विशेषान्वयमात्रापादकत्वात् प्रकरणप्रामाण्यस्य । लोके 26 आरोग्यार्थी भेषजं पिबेत्, अश्विनौ नमस्कृर्यात्’ इत्यादौ प्रकरणविनियो- ज्येऽशाब्दत्वं प्रतीयत इति न शाब्दत्वं तस्य । शब्दः आग्नेयादेः नन्वैदमर्थमात्रस्यैव शाब्दत्वात् स्थानस्याशाब्दत्वान्न तस्य विनियोजकत्व- मिति न स्थानं नाम प्रमाणमिति - तन्न ; प्रतीयमानै दमर्थ्य व्यवस्थापरत्वात् स्थानप्रमाणस्य शाब्दत्वोपपत्तेः । “दब्धिरस्यदब्धो भूयासम्” इति मन्त्र उपां- शुयाजमन्वधीत उदाहरणम् । प्रकरणाविशेषात् स सर्वप्रधानार्थ इत्याशङ्क्य, असीति मध्यमपुरुषस्य संनिध्यपेक्षत्वादुपांशुयाजस्य संनिधानात् प्रकरणाविरोधाच्च तच्छेषः । अन्यथा त्वनियमेनानेकप्रधानान्वये मन्त्रस्य विकल्पेनान्वयो दुष्परिहर
फलाफलनयादिति । फलवत्संनिधौ अफलं तदङ्गमिति नयादित्यर्थः । 2. आरोग्यार्थीति वाक्यमारोग्यफलोद्देशेन भेषजपानविधायकम् । प्रकरणात् तदितिकर्तव्यतात्वेनावगम्यते अश्विनमस्कार इति भावः । श्रुतिलिङ्गादिनिरूपणम् १२५ इत्युक्तम् । नन्वाध्वर्य्यवादिसमाख्याया न प्रमाणता; तस्या लौकिकत्वात् लौकि- कवाक्यवत् प्रमाणान्तरसापेक्षत्वात् प्रमाणान्तरस्य चाभावादिति – तन्न ; तदाख्याया लौकिकत्वेऽप्यपौरुषेयत्वेनानादित्वात् प्रमाणान्तरापेक्षाभावाद्विनियोज- कत्वोपपत्तेः । एतेन वेदान्तेऽपि श्रुत्यादिरूपं व्याख्यातम् । ननु ‘ग्राहकव्युत्पत्तिः किं भाष्यकाराभिप्रेतेति ? ओमिति ब्रूमः । गुणोपसंहारपादे पुरुषविद्यायां फलवदफलोपयोगदर्शनात् फलवदफलन्याय एव ग्राहकव्युत्पत्तिः, तन्न्यायव्यतिरेकेणादर्शनात् ; तत्रैव प्रमाणोपयोगाच्च । 2" ब्रह्म गमयति" इति द्वितीयाश्रुतिः परब्रह्मपरत्वे उदाहरणम् । कार्यचतुर्मुखपरत्ये गत्युपपत्तिरूपलिङ्गम् । तथा " तदैक्षत" इत्यादीति लिङ्गानि प्रसिद्धानि । 3" नारायण परो ज्योतिः" इत्यादि वाक्यम् “दहं विपाप्मम्” इत्यदि - विद्योपास्यविशेषनिर्धारणार्थमिति प्रकरणम् । काण्वमाध्यन्दिनयोः “यः पृथिव्यां तिष्ठन् " " यः सर्वेषु तिष्ठन्" इत्यादिना श्रूयमाणयोः पर्याययो: “य आत्मनि तिष्ठन्" इत्यादिस्थाने श्रूयमाणम् “थो विज्ञाने तिष्ठन् ” इत्यादि क्रमस्योदाहरणम् । पुरुषविद्येत्याख्या ।
- ग्राहक व्युत्पत्तिरिति । अत्रेदं बोध्यम् — प्राभाकरैः ग्राहकग्रहणमिति श्रुत्याद्यतिरिक्तं किंचित् स्वीकृतम् । तन्मते आरादुपकारकेषु प्रयाजादिष्वेव प्रकरण- व्यापारः । संनिपातिनां ग्राहकग्रहणाख्येन प्रमाणेनापूर्वार्थत्वम् । ग्राहकग्रहणं नाम अवघातादीनां प्रधानापूर्वेण प्रयोजनप्रयोजनिभावेनान्विताभिधानमेव । यद्यपि ग्राहकस्यापूर्वस्यावघातादिना न साक्षादुत्पादनम्, अथापि अवघातादीनां श्रुतिलिङ्ग- वाक्यैः व्रीह्याद्यर्थत्वे स्ववाक्यत एव ज्ञायमाने तादृशव्रीह्यादीनां प्रधानापूर्वेण ग्रहणात् व्रीह्यादिद्वारा ग्राहकार्थत्वावसायः । इदमेवाभिप्रेत्यावघातादेरौपादानिकं क्रत्वर्थत्व- मित्यपि तैरुच्यते । इदं च ग्राहकग्रहणं सप्तमाद्ये निरूपितमिति तेषामाशयः । अयं तु ग्रन्थकारः प्रकरणवशात् प्रयाजादेरप्यन्विताभिधानविषयत्वात् भाट्टवत् प्रकरणाति- रिक्तं तदस्वीकुर्वन्नेव फलवन्न्यायं सामान्यत आहेति ।
- वेदान्ते श्रुतिलिङ्गदिसर्वोदाहरणस्थलप्रदर्शनं ब्रह्मेत्यादिना ।
- " नारायण परो ज्योतिः” इति वाक्योदाहरणम् । “यदतः परो दिवो ज्योतिः" इत्याद्युक्तो नारायण इति तद्वाक्यगम्यम् । एतद्घटितनारायणानुवाकस्य “दहं विपाप्मम्” इत्युक्तदहरविद्योपास्यनिर्धारणार्थत्वत्पूर्वपक्षे प्रकरणोदाहरणत्वम् । पूर्वपक्षदर्शितमप्युदाहर्तुमिष्टमिति कार्यचतुर्मुखेत्यादिपूर्ववाक्यत एव सुज्ञानम् । १२६ ननु नयद्यमणिः श्रुत्यादिषु च पूर्वं पूर्वं बलवत्; इतरद् दुर्बलम् । लिङ्गात् कथं श्रुतिबलीयस्त्वम् ? प्रधानसंनिध्यधीनत्वात् प्रधानगृहीतयोः श्रुतिलिङ्गशेषत्वयोः समत्वादिति । उच्यते— गार्हपत्यमिति द्वितीयान्तपदेन मन्त्रस्य गार्हपत्यशेषत्वस्य शीघ्रत्वात् । उपतिष्ठते ; अभिदध्यादित्यर्थः । गार्हपत्यस्य मन्त्राभिधेयता हि गार्हपत्यमिति द्वितीयान्तपद- श्रवणमात्रात् प्रतीयते । इन्द्रमभिदध्यादिति नेन्द्रपदमात्रात् ; न च पदान्तरैः । इन्द्रपदाभिधानसामर्थ्यात् तदुपस्थानपरता कल्प्या । अतो लिङ्गस्य विप्रकृष्टता । ननु विप्रकृष्टत्वेऽपि गार्हपत्योपस्थानश्रुत्या एकशेषत्वेऽपि लिङ्गादिन्द्रो. पस्थानशेषत्वमप्यस्तु । न तु लिङ्गस्य बाधः ; विरोधाभावात् । न च गार्हपत्योपस्थाने मन्त्रस्य गौणार्थता, इन्द्रोपस्थाने मुख्यार्थतेति विरोध इति वाच्यम् ; एकप्र- करणेऽप्युभयप्रमाणत उभयत्र विनियोगात् ; मन्त्रोच्चारणावृत्त्या गौणमुख्यार्थस्या- विरोधात् । इन्द्रस्य देवतात्वेन प्रकाशश्वापेक्षितः । न च श्रुतिविरोधे स्मृतेर्वेदानुमानबाधवल्लिङ्गबाध इति वाच्यम्; लिङ्गस्यापि प्रत्यक्षवेदभेदत्वेन स्मृतिसाम्यादुभयत्र विनियोग इति चेत् — तन्न; श्रुत्या 2 द्वारशेषत्वसिद्धेः प्रधानगृहीतत्वमन्त्राम्नानयोश्चरितार्थत्वात् लिङ्गेन ग्राहकसंबन्धाधीनेन स्फुटं द्वारसमर्पणाक्षेपेणेतिकर्तव्यताकाङ्क्षिप्रकरण सव्यपेक्षेण विलम्बितेनाप्यविनियो- ज्यत्वात् । न हि विनियोजकलक्षणप्रकरणनिरपेक्षलिङ्गस्य विनियोजकत्वम् ; प्रधानस्येतिकर्तव्यतात्वाकाङ्क्षाभावे विनियोजकत्वाभावात् । ग्राहकमन्त्रान्नानयो- रानर्थक्ये हि विनियोगाकाङ्क्षा । न हि सा आकाङ्क्षाश्रुत्या विनियोगे । एवंच मन्त्रत्य न प्रयोगावृत्तिकल्पना, गौणकल्पमुख्यार्थता कॢप्तिः । एतेन “ब्रह्म गमयति” इत्यादिश्रुतेः ब्रह्मणः प्राप्यस्य सर्वगतत्वेन तत्प्राप्तिविरोधिगमनानुपपत्तिरूपाल्लिङ्गात् चतुर्मुखप्राप्तिप्रमापकात् प्राबल्यमुक्तम् । निःसंशयम् “अमानवः स एनान् ब्रह्म गमयति" इति नपुंसकलिङ्ग द्वितीयान्तपदेन
- गौणमुख्यार्थस्य । गौणसुख्योभयविधार्थपरस्य मन्त्रस्य ।
- द्वारशेषत्वेति । मन्त्रस्य प्रधानार्थता गार्हपत्योपस्थानद्वारेति श्रुत्या बोधितमिति भावः ।
- प्रकरणसव्यपेक्षेणेति । लिङ्गस्य सामान्यधर्मबोधकप्रमाणापेक्षाया इष्टत्वादिति भाव: | विलम्बितेनापीति । शीघ्र विनियोजकत्वस्यैव विलम्ब्य विनियोजकत्वस्याप्यभाव इति भावः । ७. श्रुतिलिङ्गादिनिरूपणम् १२७ श्रुतिरूपेण प्रधानपरब्रह्मोपासनसंनिहितेन परब्रह्मोपासनप्रतीतेः शीघ्रत्वात् । सर्वगतं प्राप्यमर्थं प्रति गमनानुपपत्तिलिङ्गस्य, अन्यत्र श्रुतहिरण्यगर्भोपास- नार्थकल्प्य संनिधानस्य कल्प्याकाङ्क्षार्थप्रकरणोत्कर्षसापेक्षस्याचिरादेर्हिरण्य- गर्भप्रापकत्वकल्पनस्यात्यन्तदुर्बलत्वात् । सर्वगतस्यापि देशविशेषस्थस्यैव प्राप्य- त्वेन श्रवणात् गमनमप्युपपन्नमित्युक्तम् । लिङ्गवाक्यविरोधस्योदाहरणम् "" स्योनं ते सदनं करोमि, घृतस्य धारया सुशेवं कल्पयामि, तस्मिन् सीदामृते प्रतितिष्ठ, व्रीहीणां मेघ सुमनस्यमानः” इति । तत्र ‘सदनं करोमि’ ‘प्रतितिष्ठ’ इति लिङ्गाभ्यां सदनप्रतिष्ठापने प्रतीयेते । ‘तस्मिन् सीद’ इति पूर्वार्थप्रदर्शनेनैकवाक्यता च । तत्र वाक्याल्लिङ्गं प्रबलम् । ननु लिङ्गस्य वाक्यानपेक्षस्य न विनियोजकत्वम् । पदान संभूयकारिताप्युत्पत्तेः 2 अन्वितार्थाव गतानुष्ठेयार्थ प्रकाशकलिङ्गेन वाक्यसापेक्षेण मन्त्रविनियोग इति वाक्याल्लिङ्गं दुर्बलम् । अतो वाक्यबलात् “स्योनं ते” इत्यादिमन्त्रद्वयस्योभयत्र विनियोगः । न च ’ तस्मिन् सीदामृते’ इत्यादीनां पदानां सदनाप्रकाशकत्वान्न सदने विनियोगः; तथा ‘स्योनं ते’ इत्यादिपदानां प्रतिष्ठापनाप्रकाशकत्वान्न प्रतिष्ठापने विनियोग इति वाच्यम् ; स्योनादिपदानामपि सदनाप्रकाशकत्वात् सदनपदानन्वयापत्तेः । ‘तस्मिन् सीद’ इत्यादिपदानामपि प्रतिष्ठापनानन्वयः । अतो लिङ्गस्य संनिहितयोग्य सर्वपदापेक्षमेव विनियोजकत्वमिति चेत् — मैवम् ; ऋङ्मन्त्रवत् पाठमात्रात् यजुः पदानां संभूय बोधकत्वाभावाद् ‘स्योनं इत्यादिमन्त्रद्वयमपि यजुरेव । किंत्वनुष्ठानार्थनिश्चयात् संभूय बोधकत्वम् । तन्निश्चयश्च लिङ्गादिति लिङ्गपूर्वकमेव पदान्वयाकाङ्क्षति लिङ्गाद्विप्रकृष्टं वाक्यम् । अन्वयार्थपूर्तिस्तु स्योनादिपदमात्रात्, न त्वनुष्ठेयार्थान्तरपरात् वाक्यात् । ‘तस्मिन्’ इति परामर्शश्च भिन्नवाक्यत्वेऽपि ‘एतस्यैव रेवतीषु’ इत्यत्रेव संभवतीति वाक्यं दुर्बलमेव । तत्र हि ज्योतिष्टोमप्रकरणे ‘ते’
- हे पुरोडाश, स्योनं सुखकरं ते स्थानं करोमि कल्पयामि । घृतस्य धारया सुशेवं सुखशयनयोग्यं तत् स्थानं कल्पयामि । तस्मिन् सीद उपविश । हे व्रीहीणां मेघ सारभूत, शोमनमनस्कः सन् अमृते मरणरहिते तत्र स्थाने प्रतिष्ठितो भवेति मन्त्रार्थः ।
- अन्वितार्थावगतेति । अन्वितार्थरूपेणावगतेत्यर्थः । १२८ नयधुमणि: “एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत” इत्यस्य पृथग् वाक्यत्त्रेऽपि एतस्यैवैत्यस्मिन्नपूर्वार्थपरामर्शो ‘दृश्यते । वेदान्ते तु “सदेव सोम्येदमग्र आसीत्” इत्याद्यनुमानरूपवाक्यं प्रधानकारणत्वे हेतुः । परब्रह्मकारणत्वे स्वीक्षणरूपं लिङ्गम् । पदान्तरान्वय- निरपेक्षम् “ऐक्षतं” इत्यादिपदाभिधानसामर्थ्यमानाञ्च न कारणत्वावगतिः । वाक्यं तु प्रतिज्ञाहेत्वादिपरपदान्वयापेक्षितया विलम्बितम् । ईक्षणलिङ्गस्या- नन्यथासिद्धत्वसाधनपराणि “गौणश्चेत्” इत्यादिसूत्राणि । वाक्यप्रकरणविरोधे तत्रैव " अग्निरिदं हविरजुषत” इत्यादिसूक्तवाके “अवीवृधेतां महो ज्यायोऽक्राताम्" इत्याद्युभयदेवतापरपदसमुदाय उहरणम् । तत्र वाक्यस्य प्रकरणात् प्राबल्यात् पौर्णमासादावग्नीषोमादिदेवतानां विभज्यान्वयवत् तच्छेषत्वेन विभज्य तेनान्वयः । ननु कृत्स्नस्य सूक्तवाकस्योभयत्रान्वयः; वाक्यात् साक्षात् पदार्थान्वयवत् इतिकर्तव्यतार्थप्रकरणाख्यप्रधानाकाङ्क्षया पदार्थान्वयस्य समर्थत्वात् प्रधाना- काङ्क्षायाः प्राबल्यात् प्रकरणस्यैव प्राबल्यादिति मैवम् —न ; प्रकरणात् सर्वकरणदेवतान्वयस्य कल्प्यत्वात् ; वाक्यात् “अवीवृधेताम्" इत्यादिपदाना- मग्नीषोमादिपदैक्यस्य कृप्तत्वात् । कॢप्तकल्प्ययोश्च । कॢप्तकल्प्ययोश्च कॢप्तप्राबल्याद्वाक्यात् प्रकरणबाध एव । वेदान्तेऽपि “दहं विपाप्मभू” इत्यादिप्रस्तुतं प्रधानभूतं विद्याख्यं प्रकरणमुपास्यविशेषनिर्धारकाकाङ्क्षि । “सहस्रशीर्ष देवम्" इत्यनुवाकस्य प्रकरणेन प्रमाणेन दहरोपासनैकवाक्यभावः कल्प्यः । " नारायण परो ज्योतिः " इत्यादिना “अथ यदतः परो दिवो ज्योतिः” इत्यादिषु जगत्कारणतयोक्तमुपा- स्यवस्तु ‘परं ज्योतिः’ इत्यादिशब्दैर्निर्दिश्य नारायणत्वविधानावगतेर्वाक्यादनेक- विद्यान्वयस्य कुप्तत्वात् प्रकरणबाधः सिद्धः ।
- दृश्यत इति । अस्य विचारः पूर्वमीमांसायां रेवत्यधिकरणे (2-2-12) द्रष्टव्यम् । तत्रापूर्वयागपरं तद् वाक्यमित्युक्तम् । एतस्यैवेति पदं प्रकृतवाक्यविधीयमान- परामर्श । पूर्वप्रस्तुतानिष्ठुद्याग सादृश्यमादाय एतस्यैवेति एवकारघटितपदोपपत्ति- रित्यन्यदेतत् । तावान् क्लेशः प्रकृते तस्मिन् सीदेति वाक्ये नास्ति । अथापि पूर्वोत्तरवाक्ययोः परस्परान्वयं विनैवोपयोगोऽविशिष्टः । ७. श्रुतिलिङ्गादिनिरूपणम् १२९ प्रकरणस्थानयोर्विरोधे तु राजसूयप्रकरणे अभिषेचनीयक्रमे “अक्षैर्दी- व्यति, राजन्यं जिनाति” इत्यादिरुदाहरणम् । तत्र स्थानात् प्रकरणस्य प्राबल्यात् प्रकरणेन सर्वप्रकरणान्वयो विदेवनादेः । ननूभयोरपि वाक्यार्थान्वयहेतुवात् प्रकरणस्थाने तुल्यबले । आकाङ्क्षा- लक्षणं हि प्रकरणम् । स्थानं तु संनिधिः । तदुभयमप्यन्वयहेतुः । न च स्थानस्य संनिधिमात्रत्वादन्वये आकाङ्क्षापेक्षेति वाध्यम्; आकाङ्क्षाया अपिं संनिध्यपेक्षत्वेन तुल्यत्वात् । प्रकरणस्वारस्यात् सर्वान्वये संनिधिस्वारस्या- देवान्वयोऽपि स्यादिति । मैत्रम् ; अभिधानपर्यवसान एव पाठसंनिधेरुपयोगात् अभिषेचनीय- निरपेक्षम् ’ अक्षैर्दीव्यति’ इत्यादिवाक्यानां पर्यवसितत्वात् । पर्यवसाने च विनियोजकप्रमाणसंनिधेरेव वलवत्तया आकाङ्क्षाभावे च पाठसंनिधेर• प्रयोजकत्वात् । अभिषेचनीयस्थानस्य तद्देवनादेराम्नानार्थत्वेनाप्युपपत्तेरन्वयार्थ - त्वाभावात् स्थानबाध एव । वेदान्तेऽपि दहर विद्याप्रकरणे जीवात्मपर प्रजापतिवाक्यसंनिधौ श्रूयमाणमपि " एवमेवैष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य" इत्यादि प्रकरणाकाङ्क्षया अन्वयहेतुस्थानाख्यसंनिधेर्दुर्बलत्वात् प्रकरणान्वयिपर- विद्याशेषमेव । न च “एवमेवैष संप्रसादः" इत्यादेः वाक्यात् परविद्याशेषत्वम्, न प्रकरणादिति वाच्यम् ; वाच्यम्; परंज्योतिः शब्दस्यादित्यादिपरत्वेन जीवपरत्वेनापि योजयितुं शक्यत्वात् । प्रकरणे तु परंज्योतिरादिशब्दानां परमात्म- परत्वमिति प्रकरणादेव परमात्मशेषता । प्रकरणात् तच्छेषत्वे च स्थानात् प्रजापतिवाक्यशेषताशङ्कापि न युक्ता । स्थानसमाख्ययोर्विरोधे तु दर्शपूर्णमासयोः ‘पौरोडाशिकम्’ इति समाख्याते काण्डे सांनाय्यक्रमे “शुन्धध्वं दैव्याय कर्मणे देवयज्याये” इति पात्रप्रोक्षणार्थी मन्त्र उदाहरणम् । तत्र समाख्यायाः स्थानादू दुर्बलत्वात् सांनाय्यपात्रप्रोक्षण एव विनियोगः । न पुरोडाशपात्रप्रोक्षणे । ननु समाख्यायाः पुरोडाशान्वयबोधकत्वात् संनिधेः सांनाय्यपात्रस्या- प्यवगम्यमानत्वेन समबलत्वादुभयत्रान्वयः । न च समाख्यायाः पौरुषेयत्वेन 17 १३० नयद्युमणिः दुर्वलत्वान्न तयोः साम्यमिति वाच्यम् ; समाख्यायाः सर्वत्राप्रमाण- तापत्तेरिति चेत्; मैवम् ; संनिधानकल्पनापूर्वकं समाख्याया अन्वयहेतुतया प्रमाणत्वेन विलम्बितत्वात् ; स्थानस्य तु संनिधित्वेनाविलम्बितत्वात् । न हि समाख्या संनिधानकल्पनाव्यतिरेकेण प्रमाणम् । अतः समाख्यायाः स्थानप्रमाणेन बाध एव । वेदान्तेऽपि उपकोसलविद्यासंनिधौ श्रूयमाणाग्निविद्याया आख्यातः पृथक्फलसाधनविद्यात्वानवगतिः; किंतु स्थानप्रमाणेनाक्षिविद्याङ्गत्वमेव । पृथग्विद्याः फलस्य कल्प्यत्वेन विलम्वितत्वात् फलान्तरसंनिधेः कल्प्यत्वाच्च । फलवदुपकोसलविद्यासंनिधिः कुप्तः । अग्निविद्यायाः फलश्रुतिरर्थवाद इत्युक्तं भाष्ये । ननु भाष्ये स्थानप्रमाणादक्षिविद्याङ्गतोक्तेति तन्न ; अक्ष्यन्तराधि- करण एव बह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति स्थानप्राबल्यस्योक्तत्वात् । नन्वेवमपि तत्र मध्यगतशब्दः प्रकरणप्रमाणपर इति — तन्न; तस्य स्थानप्रमाणपरत्वेनापि योजयितुं शक्यत्वात् । एवं विप्रकर्षाद्दौर्बल्यं पूर्वपूर्वेभ्य उत्तरेषाम् ; विरोधे चैतेषां बाध इति सिद्धम् । 1 ननु विरोधे दुर्बलस्य प्राप्तस्य प्रमाणस्य बाधः; उताप्राप्तस्येति । न तावदाद्यः, प्राप्तस्य बाधायोगात् । प्राप्तिर्नाम निश्चयः; बाधो नाम मिथ्यात्वम् । नापि द्वितीयः, अप्राप्तस्य बाधायोगादिति । उच्यते— सर्वज्ञानानां यथार्थत्वेऽपि प्राबल्यनिबन्धनं निश्चयात्मकत्वम् । प्राबल्यं च शीघ्रोदयादिना । शीघ्रता चोक्ता श्रुत्यादेः । अतः प्रबलप्रमाणसंनिधैौ प्राप्तस्यापि दुर्बलप्रमाणस्य न कार्यकरता, प्रबलाभिभूतत्वात् । आदित्योदये चन्द्रसंनिधिसद्भावेऽपि चन्द्रिकाया यथादित्यरश्म्यभिभूतत्वेनाकार्यकरत्वमेव
- ननु अग्निविद्याया: “अपहते पापकृत्याम्; लोकी भवति : सर्वमायुरेति ; ज्योग्जीवति ; नास्यावरपुरुषाः क्षीयन्ते ; उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च" इति फलश्रवणात् न फलस्य कल्प्यत्वम् । अतः पृथग्विद्यात्वमेवेत्यत्राह — अग्निविद्याया इति । अर्थवादत्वादेवानेकफलकीर्तनं घटते । एषां च मोक्षाधिकृता- विरोधित्वं भाप्य एवोपपादितम् । ७. श्रुतिलिङ्गादिनिरूपणम् १३१ वस्तुतो बाधः; प्राप्तज्ञानस्य ज्ञानान्तरेण बाधायोगात् ; वृत्तिज्ञानस्याचिर- स्थायित्वेन नश्वरत्वाच्च । विरोधिज्ञानोदय एव हि पूर्वज्ञानस्य विनाशः । न हि मुद्गरादिना घटादिरिव ज्ञानं ज्ञानान्तरेण बाध्यते । अतः फलापहार एव बाधः सर्वत्र प्राप्तदुर्बलप्रमाणस्य । शुक्तिकारजतज्ञानयोः प्रत्यक्षत्वेऽपि रजत हेत्ववयवानामल्पत्वाच्छुक्त्यवयवबाहुल्याच्च तदूग्राहकयोरपि प्राबल्यदौर्बल्ये । दुर्बलप्रमाणकार्यरजतव्यवहारबाध उक्तो यथार्थख्यातिवादे । तत्र शुक्त्यवयव- वाहुल्ये नयनदोषादिना रजताद्भेदो न गृहीतः । श्रुतिलिङ्गादौ तु चित्तदोषा- द्विप्रकर्षो न गृहीतः पूर्वपक्षदशायाम् । विप्रकर्षात् तत्प्राबल्यादिज्ञानेऽपि श्रुत्यादिसद्भावेऽपि लिङ्गादिप्रमाणावलम्बनं तु प्रमाणाग्रहणकृतमिति तातये श्रुतिलिङ्गादौ, षाष्ठे अपच्छेदादौ, दाशमिके कृष्णलादौ च प्राप्तबाध एव ; अप्राप्तबाधायोगात् । ननु लिङ्गस्य श्रुतिविरोधेऽपि प्रामाण्यं नापगतमिति अनुष्ठान- रूपव्यवहारबाधोऽपि न स्यात् । अनुष्ठानफलत्वात् प्रमाणस्येति –तन्न ; श्रुतिसंनिधौ फलाभावेऽप्यन्यत्र तल्लिङ्गस्यैव विनियोजकत्वेन फलसद्भावात् । किंच प्रमाणस्य सतः सर्वत्र फलेन भाव्यमिति न नियमः; धारावाहिक - विज्ञानेष्वविशेषेण प्रामाण्येऽप्युत्तरज्ञानानां व्यवहारफलाभावात् । तत्रापि प्रथमज्ञानस्य प्राबल्ययुक्तिप्राबल्यात् व्यवहारहेतुता नान्येषाम् । एवं श्रुतेः शैघ्रयाद् गार्हपत्येोपस्थानविनियोगे सति मन्त्रस्यामननशेषत्वयोश्वरि- तार्थत्वात् न पुनस्तत्रेव लिङ्गादपीन्द्रप्रकाशने विनियोगः । ननु धारावाहिक विज्ञानानां सर्वेषामेकविषयत्वात् प्रामाण्येऽप्युत्तरज्ञानानां कृतकरत्वेन न फलम् ; लिङ्गस्य तु प्रामाण्ये भिन्नविषयत्वेनानुष्ठानफलमव- श्यमिति–तन्न ; श्रुतिलिङ्गयोरप्येकमन्त्रविषयत्वेन समत्वात् । भिन्नविषयत्वे तु न विरोध इति न बाध्यबाधकभावः । नन्वेकमन्त्रविषयत्वेऽपि श्रुतिलिङ्गयोः पृथक्प्रमाणत्वाद् गार्हपत्येन्द्रो- पस्थानविनियोगद्वयपरतेति न विरोध इति —–तन्न ; फलवत्संनिधावफलत्वेन श्रूयमाणमन्त्रशेषत्व निर्वाहद्वारा विशेषाकाङ्क्षायां तत्समर्पक प्रमाणद्वयावतारे- प्रबलप्रमाणेन गार्हपत्यद्वारसमर्पणात् मन्त्राख्यविषयस्यैकद्वारशेषत्वमेव विषयः । गाईपत्य शेषत्वं किं गार्हपत्योपस्थानान्निर्वाह्यम् ? उतेन्द्रशेषत्वमिन्द्रो-
- नयनदोषादिनेति । अगृहीते इति शेषः । १३२ नयद्यमणिः पस्थानादिति हि शङ्का । अतः सर्वयैकविषयत्वं श्रुतिलिङ्गयोरिति स्थितम् । अतः प्रबलप्रमाणान्मन्त्रस्य द्वारशेषत्वे निरूढे पुनरपि तत्र बुभुत्साभावान्न विलम्बितप्रमाणेन तत्समर्पणमिति । न श्रुतिलिङ्गादीनां संनिपातेऽपि प्रमाणाबाधादेव बाधचिन्ता युक्ता । ह्यग्न्यनुष्णत्वानुमानवल्लिङ्गादिः प्रमाणम् ; श्रुतिसंनिधावनुष्ठानहेतु- स्वाभावेऽपि तल्लिङ्गस्यैव तत्र प्रमापकत्वात् । द्रव्यत्वं तु न कदाचिदग्न्यनुष्ण- त्वानुमापकम् । अतो न श्रुत्यादिविरोधे लिङ्गादेर्हेत्वाभासतुल्यता । अतः फलासिद्धिरेव बाधशब्दार्थः; न तु द्रव्यत्वलिङ्गादग्निगतानुष्णत्वज्ञानानुदयवत् लिङ्गादिन्द्रोपस्थानज्ञानानुदयः । विरोधे दुर्बलस्य प्रामाण्याभावे सर्वत्रापि तथात्वापातः; तस्याप्रामाण्यस्य निश्चितत्वात् । ततश्च “त्रिः स्वाध्यायं वेदमधीयीत” इति स्वशाखायाः कृत्स्नाया विनियुक्तत्वेऽपि " बर्हिर्देवसदनं दामि” इत्यादिमन्त्रलिङ्गाद्वहिर्लवनप्रमापकत्वस्य हानिः स्यात् । ननु तर्हि प्राप्तत्वादेव न बाधः शक्य इति तन्न ; पूर्वापरापच्छेदेऽपि तथात्वापत्तेः । न तु प्राप्तबाध इष्टः । तत्र ह्यपच्छेदयोः क्रमेण प्राप्तयोः तद्विषयत्वेन प्राप्तयोर्नैमित्तिकयोः सदक्षिणा दक्षिणत्वेन विरुद्धार्थयोरपि न पूर्वनैमित्ति- कशास्त्रबाधः । किंत्वेकप्रयोगे विरुद्धत्वेन सदक्षिणादक्षिणयोर्युगपदनुष्ठा- नाशक्तेरन्यतरानुष्ठानबाधे प्राप्ते, उत्तरस्य पूर्वबाधकत्वमुक्तं तत्रापीति प्राप्तबाध एव; पूर्वापच्छेद निमित्तस्य ज्ञातत्वेन नैमित्तिकशास्त्रस्यापि प्राप्तत्वात् । उत्तरनिमित्तं तु जायमानं पूर्वनिमित्तस्य स्वनैमित्तिकानुष्ठानद्वारा विरोधित्वेन तदबाधमानभुदेतीति तत्राप्यनुष्ठान एव विरोधात् । तथा कृष्णलेऽवघातः अतिदेशप्राप्तप्राकृतव्रीहिदृष्टवैतुष्यप्रयोजनाभावाद् बाध्यत इति प्राप्तबाध एवेत्यनुष्ठानबाध एव । एतेनेदं निरस्तम् ; यद् गुरुमतावलम्बिभिरुक्तम् — लिङ्गादेरन्यत्र दृष्टं
- गुरुमतेति । “सामान्यतः प्राप्तिं मन्वाना निशेषमपश्यन्तः स्मृति- प्रमोषनिमित्तं प्राप्तिज्ञानं व्यपदिशन्ति । विशेषावगमात् तेषां निवर्तते" इति । गुरुग्रन्थः अयमर्थः - लिङ्गविनियोज्य बर्हिर्लवन मन्त्रादिगतस्यार्थप्रकाशन- समर्थमन्त्रत्वरूपसामान्यधर्मदर्शनात् ऐन्द्रीमन्त्रेऽपि लिङ्गं प्राप्तमिति भ्रान्तिज्ञानं जायते । भ्रान्तिज्ञानं नाम ग्रहणस्मरणात्मकज्ञानद्वयम् । इदं रजतम्’ इति शुक्तिकाग्रहणरजतस्मरणोभयात्मकम् । इदं च रजतस्मरणं स्मृतिप्रमोषः; आपणदृष्ट-७. श्रुतिलिङ्गादिनिरूपणम् १३३ विनियोजकत्वं स्मरतो ग्राहकमानामानयोश्चरितार्थविषयेऽपि स्मृतिप्रमोषाद्वि- नियोगप्रमितिव्यवहारो भेदाग्रहकारितः प्राप्तभेदग्रहाद्वाध्यत इति ; लिङ्गप्रमितेः स्मृतित्वाभावात्; स्मृतित्वे च प्रमापकत्वाभावात् । प्रमापकत्वे च प्रप्तिश्च स्यात् । तञ्चाशक्यम् । न चाभासप्राप्त्या बाधोपपत्तिः; वस्तुतो बाधाभावात् । बाध्यत्वेनाङ्गीकारे षाष्ठदाशमिकयोरपि आभासत्वापत्तिप्राप्तेः तत्र प्राप्तिद्रढिमा । तृतीयादिषु प्राप्तेराभासत्वं बाधदाढ्यं च । प्रामाण्यामासत्वे कथं बाधदाढर्त्यम् ? अतो बाध्यत्वे दृढा प्राप्तिरङ्गीकार्या । अतो न बाधवैषम्यम् । अतः प्रमाणेन प्राप्तस्य बाधः प्रबलप्रामाण्यस्य बाधकत्वं तृतीयषष्ठयोः । दशमे तु कार्यतो बाध इति निरवद्यत्वेन सर्वं सुस्थम् । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयधुमणौ श्रुतिलिङ्गादिनिरूपणम् रजतस्य ‘तद् रजतम्’ इति तत्तांशस्मृतिप्रमोषेण रजतांशमात्रस्मरणात् । अत एव शुक्तिग्रहणरजतस्मरणयोर्भेदाग्रहः । तद्वदिहापि लिङ्गविनियोज्यमन्त्रस्थलीयप्राप्ते- रैन्द्रीलिङ्गग्रहणकाले स्मरणे सति भेदाग्रहात् ‘इदं रजतं जानामि’ इतिवत् ‘लिङ्ग प्राप्तं - जानामि’ इति प्राप्तिप्रमितिव्यवहारो भवति । प्राप्तिर्नामेह विनियोजकत्वम् । यदा तु विनियोजक श्रुतिदर्शनात् लिने प्राप्तभेदग्रहः, तदैव तद्वाधः । तथाच भ्रान्ति- नासबाध एवेह प्राप्तबाध इति ।
- चरितार्थविषयेऽपीति । श्रुतिविनियुक्तमन्त्रविषयेऽपीत्यर्थः । ८. यथार्थख्यातिनिरूपणम् प्रकाश्यते यथाशक्ति श्रीमलक्ष्मणयोगिनः । सर्वविज्ञानयाथात्म्यविषया गहना मतिः ॥ ननु भाष्यकारस्य सर्वज्ञानयाथात्म्यमेव नेष्टम् ; भाष्यादौ विपरीतख्याते- रयुक्तेः । तथा हि- श्रीगीताभाष्ये “तमस्त्वज्ञानजम्” इत्यत्र “ज्ञानं वस्तुयाथा- त्म्यावबोधः । तस्मादन्यत् तद्विपर्ययज्ञानम्” इति । तथा “मोहो विपर्ययज्ञानम्” इत्यादि तत्रैव । तथा पञ्चदशे " तमेव चाद्यम्” इत्यत्र, " कथमनादिकालप्रवृत्तो गुणमयभोगसङ्गः तन्मूलं च विपरतिज्ञानं निवर्तते" इति । तथाष्टादशे “मोहात् तस्य” इत्यत्र “अज्ञानं ज्ञानविरोधि विपरीतज्ञानम्" इति । तथा “अधर्मं धर्मम्” इत्यत्रापि “सर्वं विपरीतं मन्यत इत्यर्थः” इति । एवं तत्र तत्रान्यथाख्या- त्युक्तिबाहुल्यं दृश्यत इति तदप्यभ्युपगतमिति चेत् ; तन्त्र ; 1 परस्परविरुद्धाङ्गीकारानुपपत्तेः । न ह्येकस्यैत्र ज्ञानस्य यथार्थता विपरीतार्थता च । न च विपरीतख्यातिरेव भाष्यकाराभिमता ; “यथार्थं सर्वविज्ञानम्” इति तस्या यथार्थातेोक्तेः । भाष्येऽन्यथाख्यात्युक्तिस्तु पूर्वपक्षतया । पूर्वपचावलम्बादेव केषांचित् ख्यात्यन्तरणां निरासोऽपि । अत एव हि तत्रैव “सर्वं विज्ञानं यथार्थम्” इत्युपसंहृत्य “तैस्तैर्वादिभिरेव प्रपञ्चितानीति न तत्र यत्नः क्रियते” इति पूर्वनिरस्तेतरख्यात्यन्तराणां’ यथार्थख्यातिव्यतिरिक्तानां निरस्तत्वोक्तिः I अन्यत्र विपरीतज्ञानोक्तिस्तु भेदाग्रहादिपरा । अत एव हि त्रयोदशाध्याये " सामानाधिकरण्येन प्रतीतिस्तु वस्तुतः शरीरस्य गोत्वादिवदात्म विशेषणतैकस्वभावतया तदपृथसिद्धे- रुपपन्ना" इति 2 भेदाग्रहहेतुमुक्त्वा, उत्तरत्र “प्रकृतिसंनिधानादेव मूढाः प्रकृत्याकारमेव वेदितारं पश्यन्ति" इत्युक्तिः । अतो यथार्थख्यातिरेव राद्धान्तः ।
- अन्तरशब्दोऽत्र विशेषपरः । अत इतरशब्देन न पुनरुक्तिः ।
- भेदाग्रहहेतुमिति । यथा क्षीरनीरयोः संसगविशेषबलात् भेदाग्रह: ; तेन क्षीरमिति नीरमिति वा व्यवहारः, तथेति तत्र प्रभमश्लोकतात्पर्य चन्द्रिकायां द्रष्टव्यम् । ८. यथार्थख्यातिनिरूपणम् १३५ तत्परिपन्थिनो वैशेषिकादयः 1 तथाहि - विपरीतख्या तिरेव भ्रान्तिर्युक्ता । ननु विपरीतख्यातिर्नाम का ? न तावद्विपरीतैव ख्यातिः सा ; ज्ञानस्य स्त्रतो वैपरीत्याभावात् । ज्ञानं हि वस्तुनिश्चयः । न हि तस्य वैपरीत्योपपत्तिः । वैपरीत्यं हि विपरीताकारत्वम् । तच्च अन्याकारस्य सतोऽन्याकारत्वम् । न च मृदादेः पिण्डाकारस्य घटाकारता दृश्यत इति — पिण्डाकारस्य सतो घटाकारत्व दर्शनात् । पिण्डत्वाकारविरोधी हि घटाकारः । न च तद्वज्ज्ञानेऽप्यस्त्विति वाच्यम् ; तदाकारस्य सत्यत्वे भ्रान्ति- त्वानुपपत्तिः । असत्यत्वे तु न तस्य ज्ञानाकारता; तुच्छस्य वस्त्वाका- रतानुपपत्तेः । तदाकारत्वे च ख्यातिरेव तुच्छेति शुक्तिकादौ न रजतार्थिप्रवृत्तिः । रजतख्यात्या प्रवृत्तिरिति तु न; तस्य तस्याः तुच्छत्वात् । बाधोऽपि न तख्यातेः । ’ नेदम्’ इति विषयस्यैव हि बाधधीः । न तु ‘तत्ख्यानमपि न ’ इति । सर्वबुद्धिसत्यता प्रपञ्चस्तु भाष्ये । अथ विपरीतवस्तुविषया ख्यातिर्विपरीतख्यातिरिति — तन्न ; वस्तुनो वैपरीत्यं सत्यमसत्यं वेति विकल्यासहत्वात् । आद्ये न भ्रान्तिता ; धर्मत्वानुपपत्तेः । अथ सन्तमेवार्थं विपरीतमवगमयन्ती ख्यातिर्विपरीतख्यातिरिति तन्न ; अर्थावैपरीत्ये विपरीतत्वेन ख्यापनानुपपत्तेः । तदुपपत्तौ च ख्यायमानघटा- दिसत्तायामपि न विश्वासः । अथ घटादेः सद्भावान्न वैपरीत्यमिति - तन्न ; तत्सत्त्वे मानाभावात् । ख्यातेस्तत्र मानत्वे तत एव शुक्तिकारजतादिसत्ताप्यङ्गीकार्या; अविशेषात् । तत्र बाधात् तदसत्त्वे तत्ख्यातेरप्य सत्त्वापातः ख्यात्यधीनत्वात् सत्त्वस्येत्युक्तम् । " अथ विपरीतज्ञानविषत्वात् तद्वाध इति - तन्न ; विपरीतवस्तुङ्काना- भावस्योक्तत्वात् । बाध्यार्थविषयत्वेन ज्ञानवैपरीत्याङ्गीकारेऽपि विपरीतज्ञानसिद्धा- वितरेतराश्रयता ; बाध्यार्थविषयत्वेन ज्ञानवैपरीत्यम्; एतत्सिद्धौ च तत्सिद्धिरिति । अथान्याकारस्य सतोऽन्याकारतां बोघन्ती’ ख्यातिर्विपरीतेति तन्न ; यथाबोधिताकारस्यैवार्थतत्त्वरूपत्वेन ज्ञानयाथार्थ्यापातात् ।
- बोधन्तीति । बुध अवगमन इति भौवादिकस्य परस्मैपदिनो रूपम् । अत्र " बुध्यमाना वस्तुरूपमन्यथा स्थितमन्यथा" इति नयवीथीवचनानुवादः । १३६ तन्त्र ; नयद्यमणिः अथान्याकारस्य सतोऽन्याकारत्वेन ख्यानमेव तस्या मिथ्यात्वमिति—— व्यक्त्यन्तराकारस्य सतो गोत्वादेर्व्यक्त्यन्तराकारतां बोधयन्दयाम- यथार्थत्वापातात् । अन्यत्रैव सतोऽन्याकारताबोधनमिति विशेषणेऽपि ‘इदं रजतम्’ इति शुक्तिकादौ प्रतीते रजते, अन्यत्र तत्सत्त्वानिश्चयादनाश्वासः । न च शुक्तिकायां प्रतीतस्यापि बाधादन्यत्र तत्सत्तेति — प्रतीतस्यैकत्र बाध्यत्वादन्यत्रापि बाध्यत्व संदेहात् । न च तत्र सत्त्वान्न बाध्यत्वसंदेह इति - यत्र तस्य प्रतीतिः, तत्र तस्य निषेधादन्यत्रापि योगादन्यत्र तन्निषेधापातात् । न च यत्र प्रतीतिः, तत्रैव ‘नेदं रजतम्’ इति निषेधान्नान्यत्र निषेध इति- ‘पूर्व सत्; इदानीं न’ इति कालभेदव्यवस्थाप्यत्वापातात् । अथ प्रतिपन्नोपाधौ बाघप्रतीतेर्न कालभेदव्यवस्थेति — एवं तर्हि रजतादेरनिर्वचनीयत्वमेवायातम् । असतः ख्यात्यनुपपत्तेः; सतो बाधानुपपत्तेः । तदुक्तम् """ नान्यत्र भाति रूप्यं तदिह बाधात्तु कल्प्यते । इहासद् भाति चेद् रूप्यं ख्यातिः सत्तां न कल्पयेत् ॥ सत्तां चेत् कल्पयेत् ख्यातिर सत्ख्यातेरयोगतः । यत्र यद्भाति तत्रैव तत्सत्तां किं न कल्पयेत् ॥ तत्र बाधान कल्प्या चेन्नान्यत्र ख्यात्यभावतः । ख्यातिं विनापि चेत् सत्ता कल्प्यते नियतिः कुतः ॥ सच्चेद्भाति कथं बाधो भाति चेत् तदसत् कथम् । सदसद्भयामतोऽवाच्यं शुक्तौ रूप्यमिति स्थितम् ॥” इत्यनिर्वचनीयख्यातिपक्षसंक्षेपः । अत्रोच्यते — अनिर्वाच्यरजत सत्ताङ्गीकारेऽपि तस्यानिर्वाच्यरजततया अग्रहणाद्विपरीतख्यातिपक्षपातः । न हि शुक्तिकारजतादेः सदसद निर्वचनीयतया ग्रहः । तथात्वे च न प्रवृत्त्युपपत्तिः । सम्यग्रजतधीर्हि प्रवृत्तिहेतुः । प्रवृत्तिर्हि प्रवर्तमानस्य तत्प्रयोजनज्ञानात् अन्यप्रयोजनाज्ञानाच्च । न च सम्यग्रजतसादृश्याद निर्वाच्यरजतस्य तत्र तत्प्रवृत्तिहेतुतेति ; तस्य सादृश्येऽपि ततः प्रवृत्त्यभावात् । रजतबुद्धेर्हि प्रवृत्तिः । वस्तुतो न तत्सादृश्यं च तस्य ; प्रतीत्यात्मक वस्त्वात्मकयोर्भास्वरत्वादिसादृश्याभावात् ।
- इष्टसिद्धिस्थोऽयं संग्रहग्रन्थः । ८. यथार्थख्यातिनिरूपणम् १३७ न चानिर्वाच्यरजतस्यापि वस्त्वात्मकता ; ज्ञातत्वाभिमानविरोधात् । न हि घटादिवत् तदात्मकत्वमिष्टम् ।
किं कोट्यन्तरं न च प्रतीत्यतिरिक्तो रजतादिः शुक्तिकादो जायत इति - विकल्पा- सहत्वात् । किं तद् भावात्मकम् ? उताभावात्मकम् ? कोट्यन्तरं वा ? नाद्यः; तस्य कटकादिकार्यकरत्वादर्शनात् तत्र प्रवृत्त्यनुपपत्तेः । नापि द्वितीयः; अभावस्य भावादर्शनात् ’ प्रवृत्यनुपपत्तेरेव । सादृश्येऽपि तदित्येव प्रवृत्तेः, सदृशमित्येवाप्रवृत्तेरन्यथाख्यानापातः । तृतीयोऽपि विकल्प्यः सदसदात्मकम् ? तद्विलक्षणमनिर्वाच्यम् ? शून्यात्मकं वा ? नाद्यः; एकस्य युगपत् सदसदात्मकविरुद्धधर्मवत्त्वानुपपत्तेः । तदुपपत्तावपि सादृश्यानुपपत्तेश्च । नापि द्वितीयः; अनिर्वाच्यवस्तुसत्तायां प्रमाणाभावात् । तच्च वक्ष्यते । नापि तृतीयः; शून्यवस्तुनि प्रमाणाभावात् । तत्सद्भावेऽपि तस्य रजतसादृश्या- भावाच्च ततो न प्रवृत्तिः । शून्यात्मकता च तस्य नेष्टा । सदसदात्मकरजत- सत्ताप्रमाणसद्भावेऽपि न तस्य रजतसादृश्यमित्युक्तम् । न च तस्य परमार्थरजतसाजात्यात् ‘इदं रजतम्’ इति प्रतीतिप्रवृत्ती इति — परमार्थरजतवत् तस्यावाध्यत्वप्रसङ्गात् । मिथ्यात्मत्करजतस्य परमार्थ- रजतस्य च व्यक्तिव्यङ्गयजात्योश्च साजात्यानुपपत्तेश्च । न चानिर्वाच्यरजतवदितररजतस्यापि मिथ्यात्वात् साजात्यमिति– सत्यमिथ्यात्मकरजत विभागाभावप्रसङ्गात्; इतररजतस्य मिथ्यात्वासिद्धेश्व । न च दृश्यत्वात् तस्य मिध्यात्वं साध्यत इति — दृश्यत्व मिथ्यात्वयोर्व्याप्यसिद्धेः । न च शुक्तिकारजतादौ तत्प्रसिद्धिः – तत्रानिर्वाच्यरजतासिद्धेः तस्य दृश्यत्व- स्याप्यसिद्धत्वात् । अतोऽनिर्वाच्यरजतस्य न रजतान्तरसाजात्यम् ; सादृश्यं वा । अवश्यं च सादश्यादिरङ्गीकार्यः; भ्रान्तिविषयस्य विनापि सादृश्यं वस्तुनि दृश्ये 2 भ्रान्त्यदर्शनात् । न च भ्रमाधिष्ठानशुक्तिकादेरेवेत ररजतसादृश्यापेक्षा, नानिर्वचनीयरजत- स्येति—अधिष्ठानस्य रजतसदृशत्वे तस्यैवारजतस्यापि रजतप्रवृत्तिहेतुत्वोपपत्तेः रजतान्तरकल्पनायां प्रमाणाभावात् ।
- भावादर्शनादिति । भावत्वेनादर्शनादित्यर्थः ।
18 दृश्य इति । बाष्पे धूमसादृश्येन हि धूमभ्रान्तिरिति भावः । | १३८ नयधुमणिः अथ सत आत्मनो बाधायोगात् असतश्च शशविषाणादेः ख्यात्ययोगाच्च शुक्तिकारजतादेर निर्वाच्यत्वे ख्यातत्वबाध्यत्वे’ प्रमाणमिति - तन्न; आत्मनो बाधानर्हत्वं सत्त्वं वा न स्यात् ; विकल्पासहत्वात् । तत्सत्वं किं प्रमाणसं- बन्धार्हत्वम् ? सत्ताजातिर्वा ? नाद्यः; शुक्तिकारजतादेरपि दृश्यत्वाभिमानात् प्रमाण- संबन्धाताया अभ्युपगमात् सत्वापातात् । तस्य दृश्यत्वानभ्युपगमे शशविषाणादि- साम्यम् । आत्मनः प्रमेयता च नेष्टेति न ततस्तत्सत्तासिद्धिः । तदभ्युपगतौ च प्रपञ्चवन्मिध्यात्वम् । प्रपञ्चस्यापि प्रमाणविषयत्वरूपदृश्यत्वमेव हि मिथ्यात्वे हेतुरभ्युपगतः । नापि द्वितीयः; आत्मव्यक्तेरेकत्वाभिमानात् तद्वयतिरिक्तपदार्थस्या- सत्त्वाभिमानाच्च सत्तासमवायित्वानुपपत्तेः । आत्मव्यतिरिक्तघटपटादिसत्त्वाङ्गीकारे चापसिद्धान्तश्च । प्रमाणसिद्धेष्वेव हि सत्तासामान्यम् । प्रमाणसिद्धघटपटादीनां सत्त्वानुपपत्तावात्मनोऽपि प्रमाणसिद्धत्वाविशेषात् न सत्ता ; ; अथ घटपटादिभेदानां व्यावर्तमानत्वेनापारमार्थ्यम् ; रज्जौ भूदलनाम्बु- धारावदिति – तन्न; आत्मनोऽपि घटपटादिसर्वपदार्थेभ्यो व्यावर्तमानत्वान्मिथ्या- त्वापत्तौ सत्ताजात्यसिद्धेः; अभिव्यञ्जकापारमार्थ्येऽभिव्यङ्ग्यापारमार्थ्यात् । न चात्मव्यक्तिबाहुल्यमिष्टम्, येन सत्ताजात्युपपत्तिः स्यात् । अतो व्यावर्तमान- त्वहेतुरनैकान्तिकः । आत्मनो जगद्व्यावृत्त्यनभ्युपगतौ मिथ्यात्वापातः । सत्पारमार्थिकहेतुत्वेनोकोऽनुवर्तमानस्य हेतुरप्यनैकान्तिकः, ‘घटोऽयं ’ ‘पटोऽयम्’ इति सर्वघटपटव्यक्तिष्वनुवर्तमानघटपटत्वादेः पारमार्थ्यापातात् । न च सत्वस्यैव समस्तपदार्थेष्वनुवर्तमानतया पारमार्थ्यम् ; घटादयोऽपि तदपेक्षया व्यावर्तन्त इत्यनुवर्तमानत्वपारमार्थ्ययोर्न व्यभिचार इति — अभावस्य पदार्थान्तर्भावेऽपि तत्र सत्तानभ्युपगमात् सर्वपदार्थानुवृत्त्यभावात् । कतिपयव्यक्तिवृत्तित्वं तु घटत्वादेरप्यस्तीति पारमार्थ्यं स्यात् । न च सर्वभावपदार्थानुवृत्तता सत्त्वस्य ; न तु घटत्वादेरिति वैषम्यमिति– द्रव्यादिषड्भावस्यापि मिथ्यात्वाविशेषात् ; सत्त्वानुवृत्तिसंकोचानुपपत्तेश्च । वैशेषिकदिपक्षे तु पारमार्थ्यस्य प्रतिपन्नोपाधावबाधितत्वस्य स्वीकाराद् गोत्वादिव्यतिरिक्तभावत्वेऽपि गोत्वादावननुवृत्तेः भावपदार्थानां सत्वाश्रयत्वमुप- पन्नम् । अनिर्वचनीयवादिनामभावश्च पृथक्पदार्थतयेष्टः ।
- वाध्यत्वे इति । ख्यातत्वं बाध्यत्वञ्चेति द्वे मिलिते अनिर्वचनीयत्वं प्रति हेतुरित्यर्थः । ८. यथार्थख्यातिनिरूपणम् १३९ रज्जुसर्पदेश्चानिर्वचनीयत्वं चासिद्धम् । न च तत्र व्यावर्तमानत्वात् तत्सिद्धिः; अन्यत्र व्यावर्तमानत्वानिर्वचनीयत्वयोर्व्याप्यग्रहणात् । आत्मन एकत्वे सत्ताजात्यसिद्धिः ; नानात्वे चापसिद्धान्तादिदोष इति नात्मसत्त्वसिद्धिरिति न तद्वैषम्यं भ्रान्तिविषयस्य । न चात्मनस्तुच्छविलक्षणत्वं सत्त्वमिति ; विकल्पासहत्वात् । किं तुच्छस्य तुच्छत्त्रम् ? आत्मवैलक्षण्यम् ? प्रमाण संबन्धानर्हत्वं वा ? नाद्यः; अन्योन्याश्रयात् । नापि द्वितीयः; तुच्छत्वस्य प्रमाणसंवन्धानर्हत्वप्रयुक्तत्वे, सत्वस्यार्थात् प्रमाणसंबन्धार्हत्वापातात् ततश्चात्मनो मिध्यात्वम् ; दृश्यत्वस्यैव मिथ्यात्वप्रयोजकत्वाभिमानात् । प्रमाणसंबन्धार्हत्वमेव हि दृश्यत्वम् । आत्मनस्तद- र्हत्वे तु न सद्भावे प्रमाणम् । न च तस्य स्वयंप्रकाशत्वान्न प्रमाणापेक्षेति; स्वयंप्रकाशत्वस्यापि प्रमाणाधीनत्वात् ; प्रमाणान्तरसिद्धात्मनः स्वयंप्रकाशत्वस्य साध्यत्वाच्च । न हि धर्म्यसिद्धौ धर्मसाध्यता । न चात्मत्व स्वयंज्योतिष्टयोरैक्यम् – उभयोर्वैरूप्यात् । युष्मत्प्रक्रियायामपि आत्मत्वं व्याप्तत्वम् ; प्रकाशाव्यभिचारित्वं हि स्वयंप्रकाशत्वमभिमतम् । न हि स्वयंप्रकाशत्वेनेष्टवृत्तिज्ञानवत् आत्मनि ग्रमाणापेक्षत्वसाधने बाधकमस्ति । ’ तथापि स्वव्यापका सत्त्वव्याप्तमेवेति पूर्ववद्विरोध इति । सत्त्वासत्त्वव्यावृत्तवस्तूपस्थापकत्वे च न सदसदनिर्वचनीयवस्तुसिद्धिः । अथ च न वस्तुतः सदसदात्मकत्वं विरोधादिति तदर्हत्वमेव । उन च संशयविषयस्यैवानिर्वचनीयत्वम् ; संशय विषयवैलक्षण्याद् विपर्ययविषयस्य । विरुद्धहेत्वोरेकत्र प्रामाण्येऽपि सत्त्वासत्त्वव्यावृत्तवस्तुसिद्धिरेव ; ख्यातिबाधयोः स्वव्यापकसदसद्व्यावृत्तिकवस्तूपस्थापकत्वादित्युक्तम् ।
तथापीति । प्रमाण संबन्धार्हत्वानङ्गीकारे तद्वयासं तुच्छत्वादि चात्मन इति युष्मत्सिद्धान्तविरोध इत्यर्थः । उपस्थापकत्वे इति । ख्यातिबाधयोरिति शेषः । तदनईत्त्वब्यापकमसत्त्वं 3. न च संशयेति । कोटिद्वयाव्यावृत्तधर्मज्ञानस्यापि कोटिद्वयसंशय- प्रयोजकत्वमस्तु; साधारणधर्मवत्ताज्ञानस्येवा साधारणधर्मवत्ताज्ञानस्यापि संशयहेतुत्वस्य तार्किकैरुक्तत्वात् । परंतु ‘इदं रजतम्’ इति विपर्ययविषयस्य न संशयविषयत्वमिति भावः । १४० नयधुमणि: ‘सदसत्वव्यावृत्तिरपि वस्तुतः सदसत्त्वमेव, तदतिरिक्तस्य दुर्निरूपत्वात् । तथाप्यतिरिकेऽपि ख्यात्या स्वविषयवस्तुनः सत्त्वव्यावृत्तिनिरासकत्वमेव ; तद्व्यावृत्तेरेव स्वविरुद्धाख्यानव्याप्यत्वात् । असत्त्वाख्यानयोरेव हि नियतिः । अतः ख्यानात् सत्त्वनिवृत्तिनिरासाद् बाधादसत्स्वनिवृत्तिनिरासाच्च भ्रान्त्यर्थस्य सदसत्त्वमेवेति पूर्ववद्विरोधः । 2 यत्र वा नासत्त्वव्यावृत्तिः, तत्र ख्यातिरपि न । तथा यत्र न सत्खव्यावृत्तिस्तत्र बाधोऽपि नेति व्यतिरेकस्वरूपम् । 3किंचासच्छब्दार्थः कः ? किं प्रागभावः ? प्रध्वंसाभावः ! इतरेतराभावः ! अत्यन्ताभावो वा ? नान्योऽसदर्थो लोकसिद्धः । सर्वप्रकारोऽप्यसदर्थो भात्येव ; अभावबोवस्य सर्वत्र प्रतियोगिनिरूप्यत्वेन भासमानत्वात् । तस्मात् ‘असतो न ख्यानम्’ इति दुरुक्तम् । एवं भानविषयत्वे च निषेधोऽप्युपपन्नः । एवं ह्यसत्वनिषेधो लोके—-यथा ‘नासव’ इति । चतुष्प्रकाव्यतिरिक्तासद्भावेऽपि + तस्य सत्प्रतियोगित्वेन प्रतीनिरस्त्येव । ननु शशादौ विषाणादिख्यातिबाधाव नुपपन्नाविति ; ’ शशस्य विषाणं नास्ति’ इति विषाणनिषेधस्य लोकसिद्धत्वात् । चतुष्पात्वादिना कस्यापि पुरुषस्य विषाणित्वप्रतीतिरपि संभवत्येव । तथा बौद्धादिषु सत आत्मनो भ्रान्त्यादिषु निषेधोऽपि दृश्यते । तथा लोकेऽपि सन्तमेव पुरुषं भ्रन्त्या ‘सन्नासौ’ इति वदन्ति । अत एतन्निरस्तम् — 665 न सखे भ्रान्तिबाधौ स्तां नासरखे ख्यातिबाधने" इति ।
- सदसद्वयावृत्तिरिष्टा चेत् सदसदनिर्वचनीयत्वं कथं नेति शङ्कां शमयति- सदसत्त्वेति ।
- अन्वयवत् व्यतिरेकव्याप्तिरप्यस्तीत्याह — यत्र वेति ।
असच्छब्दस्याभावप्रतियोगीत्येतावन्मात्रं नार्थः । अभावमात्रपरतयापि बाह्याचाह्यतार्किकव्यवहारदर्शनादित्याशयेन विकल्पयति — किंचेति । 4. व्यतिरिक्तासद्भावेऽपीति । व्यतिरिक्तस्यासत्पदार्थस्य सद्भावेऽपित्यर्थः । 5. नसत्त्वे इति । श्लोकोऽयमिष्टसिद्धावेवं पठितः - “सत्त्वे न भ्रान्तिवाधौ स्तां नासच्चे ख्यातिबाधकौ । सदसद्भयामनिर्वाच्या विद्याविद्यैः सह भ्रमः ॥” इति । तत्र बाधकावित्यत्र स्वार्थे कः । आविद्यैरित्यस्य आविद्यकैः अविद्याकल्पितैर्वस्तु- भिरित्यर्थः । तथा- ८. यथार्थख्यातिनिरूपणम् "" सच्चेद्भाति कथं बाधो भाति चेत् तदसत् कथम्" इति च । १४१ विपरीतख्यातिवादिभिरपि न वस्तु स्वरूपेण कदाचिदपि निषिध्यते । देशकालाद्यपेक्षया हि वस्तुनिषेधः । ननु भ्रान्त्यर्थस्यारूप्यत्वे रूप्यप्रतीत्ययोगात्, रूप्यत्वे च निषेधायो- गादुभयवैलक्षण्यमिति - न; रूप्यारूप्यविलक्षणत्वे रूप्ययोगाद्वैलक्षण्येऽपि रजतधीविषयत्वादन्यथाख्यातिरित्युक्तम् । यत्तूक्तम् — सद्रूपख्यानं नान्यथाख्यातिप्रयोजकम्, किं तु तदन्यत्वमेव ; अनिर्वचनीयस्यापि तदन्येन’ सद्रूपेणेति – तन्न ; अन्यस्यान्यथाभावित्वेनान्यथा- ख्यातिरित्यस्यापरिहृतत्वात् । रूप्यप्रतीतिनिषेधयोः प्रामाण्ये तु सदसदात्म- कत्वमेव । निषेधप्रामाण्ये त्वसत्त्वमेव । रूप्यप्रतीतिप्रामाण्ये सत्त्वमेवेति न कथं- चिदनिर्वाच्यसिद्धिः । किंच ख्यातत्वादसन्न भवति, बाधितत्वात् सन्न भवतीति प्रतिज्ञेव व्याकुला ; सदसद्द्द्दयनिषेधे युगपद्विरुद्धधर्मत्वस्यैव प्रतिज्ञातत्वात् । सत्त्वासत्त्वनिषेधे तत्प्रतिसंबन्धिनोरसत्त्वसस्वयोरेव प्रत्युपस्थानात् । ‘असन्न भवति’ इति नञ्द्वयं श्रूयते । अतः प्रकृतार्थस्य सत्त्वस्यैव प्रतीतिः । एवं ‘सन्न’ इत्युक्तेरसत्त्वमेव । न चोभयनिषेधे तद्विलक्षणवस्तुधीः; तत्तद्वस्तुप्रतीतेः । सदसदनिर्वाच्यमिति प्रतिज्ञायां तु अप्रसिद्धविशेषणं वर्त्माभासः स्यात् । ‘सदसद्विलक्षणं भ्रान्त्यर्थः ’ इति प्रतिज्ञायामपि नानिर्वाच्यत्वासिद्धिः । माध्यमिकाभिमतशून्यतत्त्वस्यापि तद्विलक्षणत्वाभिमानात् तत्रातिव्याप्तिः यत एवमुक्तम् — इति । “न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका तिदुः || ”
- सच्चेदित्यादि । इदमपीष्टसिद्धिवचनमेव ।
- तदन्येनेति । अन्यथाख्यातिप्रयोजकात् तदन्वत्वरूपादन्येन सद्रूपेणैव भानात् नान्यथाख्यातितेति तदाशयः । १४२ नयद्यमणिः अथ रजतादेरनिर्वचनीयत्वेन तत्कारणवस्तुनोऽपि तत्सारूप्यात् मायायाश्च तादृक्त्वात् सैव कारणमिति - तन्न ; शुक्तिकारजतमाययोर निर्वाच्यत्वा- निश्वयात् । परिणामस्तु नाङ्गीकृतो घटादिवद् बाध्यत्वात् । किंच मायापि किं कस्यचिद्विवर्तः ? परिणामः; उत वस्त्वन्तरं वा ? नाय: ; विकल्पासहत्वात् । किं ब्रह्म कस्यचिच्छन्दार्थ : ? उताविद्येति । नाद्यः ; अनिर्वाच्यमायाविवर्तकारणब्रह्मणोऽप्यनिर्वाच्यत्वापातात ; सदसदतिरिक्तब्रह्मसारूप्यापातात् । ब्रह्मकारणत्वानङ्गीकारे च कृत्स्नस्य ब्रह्मकारणत्वश्रुतिविरोधः । एतेनाविद्याविवर्तत्ववमपि निरस्तम् । मायायाः किंच अविद्यानिवर्तकब्रह्मज्ञानान्न मायानिवृत्तिः स्यात् ; ब्रह्मणो मायानधि- ष्ठानात् । अधिष्ठानग्रहाद्धि भ्रमनिवृत्तिः । ‘अविद्यामाययोश्च भेदो ब्रह्माज्ञानवादिनो नेष्टश्चेति स्वस्यैव स्वकारणतोक्ता स्यात् । जीवाज्ञानपक्षेऽप्यविद्यामाययोः कार्यकारणता नेष्टा । तदङ्गीकारेऽप्यविद्यैव मायाकारणिकेति तस्या नाविद्याविवर्तत्वोपपत्तिः । 2 परिणामोऽनभ्युपगतः ; विकारादिदोषश्च । ब्रह्मणः परिणामित्वपक्षे ज्ञानबाध्यत्वं च । तद्वदविद्यापरिणामित्वपक्षेऽपि । नापि वस्त्वन्तरम्, अनभ्युपगतेरेव । तच्चाद्वैत विरोधात् । न च सद्वितीयत्वेऽद्वैताविरोधः । अनिर्वाच्यत्वापातात् ब्रह्मणः, मायाया निर्वाच्यत्वापाताद्वा ; कार्यकारणयोः सारूप्यात् अविद्यात्वापत्तौ तस्याः स्थायित्वेन पूर्ववन्न मोक्षः । तस्याः स्वरूपेणास्थायित्वेऽपि बीजाङ्कुरवत् कार्यकारण- भावेनानादित्वाङ्गीकारेऽपि तस्याः स्थायित्वेन न मोक्षः 1 तस्य अभावत्वापत्तिरनुपपन्ना ; शून्यत्वापत्तेः । किंचानिर्वाच्ये न रजतादिशब्दप्रवृत्तिनिमित्तमिति पूर्वमेवेोक्तम् । तत्र यत् परैरुक्तं — रजतसंस्कारनिमित्ता रजतभ्रान्तिः । स च संस्कारो रजत शब्दोल्लिखित पूर्वानुभवजन्यो दोषसंप्रयेोगाभ्यां सह भ्रान्तिज्ञानमुत्पादयति ।
- अंद्वतिनो द्विविधाः — ब्रह्माज्ञानवादिनो विवरणानुयायिनः । जीवाज्ञान- वादिनो मण्डनानुयायिनो वाचस्पत्यादयः । उभयेषामपि मते असांगत्यमाह- अविद्येत्यादिना ।
- परिणाम इति । माया कस्यचित् परिणाम इति नाभ्युपगतमित्यर्थः ।८. यथार्थख्यातिनिरूपणम् १४३ ततश्च युगपदेकसंस्कारसमुत्थापितत्वाद् रजतशब्द प्रत्यययोर्भ्रान्तस्य रजतशब्दानु- विद्धप्रवृत्तिरुपपन्नेति तन्नः स्मृतेरपि भ्रान्तित्वापत्तेः; संस्कारनिमित्तत्वा- विशेषात् । न च न केवलसंस्कारस्य भ्रान्तिज्ञानहेतुत्वम् ; किंतु दोषसहित - संप्रयोगसहितस्य रजतशब्दस्मारकत्वमिति — रजतशब्दवदर्थस्यापि स्मृति- विषयत्वेन तज्ज्ञानस्थाप्यभ्रन्तित्वापत्तेः । ततश्च प्रतीतिविरोधः । किंच भ्रान्त्यर्थस्य सर्वगाश्रयमायाविवर्तत्वाभिमानादात्मनश्चैकत्वाभिमानात् सर्वेषां युगपद् भ्रान्तितन्निवृत्त्योरापातः । न चान्तःकरणभेदाद् व्यवस्था, अविद्यानानात्वानभ्युपगतेः । न चाविद्यायान्तरकार्यान्तःकरणोपाधिभेदाद्व्यवस्था, प्रतिसंधात्रात्मैक्यात् । न चोपाधिभेदात् प्रतिसंधातृभेदः, योग्यानुपलब्धिपराहतेः । न हि हस्तपादाद्युपाधिभेदात् प्रतिसंधातृभेदः । किंचानिर्वाच्य संसर्गः किं निर्वाच्यः ? उत सोऽप्यनिर्वाच्यः ? नाथः, अबाध्यत्वप्रसङ्गात् । नापि द्वितीयः; अनिर्वाच्यवस्तुसंसर्गोऽप्यनिर्वाच्य इति तस्य संसर्गान्तरापेक्षायां तस्यापि तथात्वेनानवस्थापातात् । न च मायायाः प्रतिभासमात्रशरीरत्वादनवस्थादिरलंकार इति ; सर्वदोषाणामप्यलंकारत्वेनापरिहार्यत्वापातात् । एवं सर्वपक्षाणामपि समनि- मित्तत्वेन स्वपक्षत्वास्वपक्षत्वविभागाभावे सर्वदोषाणामपि स्वपक्षालंकारवे- नानुद्भाव्यत्वादनिर्वचनवादिनो मूकीभाव एव शरणम् । यच्चोक्तम्—शुक्त्यादौ रजतसंसर्गाभावाद् भ्रमविषयस्य दुर्निरूपत्वात् निर्विषयज्ञानस्यानिरूप्यत्वान्निरालम्बनत्वं विपरीतख्यातिपक्ष इति – तन्न ; शुक्तिकादेरेव दोषवशादसंसर्गेऽपि रजतादिज्ञानविषयत्वात् । पक्षान्तरेऽप्य- निर्वाच्यस्य प्रतिभासमात्रशरीरत्वाभिमानात् । परमार्थरजतस्य चासंसर्गा- निरालम्बनतासाम्यम् । 1
- अनुपपन्नत्वं मायाया भूषणं न तु दूषणमिति परेषां वचने दोषमु- द्भावयति—न चेति । प्रतिभासमात्रेति । अनेनावस्तुत्वं व्यज्यते । वस्तुन्येव ह्युपपत्त्यनुपपत्तिविचारः, नावस्तुनीति हृदयम् । यथेोक्तमिष्टसिद्धौ – ’ त्वयाप्येतेऽ- नवस्थादयो दोषाः परिहर्तव्या एवेति चेत्; न मायावादित्वात् । वस्तुन्येव हीष्टे कार्ये कारणे चैते दोषाः परिहर्तव्याः ; न तु मायायाम्, मायात्वेनैव परिहृतत्वात् ’ इति । १४४ नयद्यमणिः । प्रतिभासमात्रस्य भ्रान्त्यर्थत्वे च न निर्वाच्यता, प्रतिभासस्य सत्यत्वात् । भ्रान्त्यर्थस्यार्थाकारत्वाङ्गीकारे तु न ज्ञानबाध्यत्वमित्युक्तम् । तदर्थस्य रजतादि- वैलक्षण्ये तद्ग्रहणे च न भ्रमबाधोपपत्तिः । तदग्रहणे रजततया ग्रहणे चान्यथाख्यातिरित्युक्तम् | किंच बाधकज्ञानकाले ‘पूर्वं रज तमेवेदानीं शुक्तिका’ इति प्रतीतिः स्यात् । न च तत् । ‘पूर्वमपि नेदं रजतम्’ इति हि प्रतीतिः । यत्तु भ्रान्तिज्ञानस्याप्यनिर्वाच्यत्वं परैरुक्तम्, तत् तस्य सत्यत्वे क्त्या पूर्वमेव निरस्तम् । ननु सर्वज्ञानसत्यत्वं न तार्किकेष्टम् ; " बाधित विषयो विपर्ययः " इति हि तदुक्तिः । सत्यम् । किं तु राद्धान्तदृष्टयोक्तमिति न विरोधः । च एवं परैरनिर्वाच्यत्वसिद्धयर्थमुक्तप्रमाणस्यानुमानत्वेऽर्थापत्तित्वे दूषणान्युक्तानि भाष्ये नयप्रकाशे च द्रष्टव्यानि । अत्र त्वतिविस्तरभयान्नेोक्तम् । विपरीतख्यातिपक्षश्च प्रायेणोक्तः । शिष्टांशस्तूत्तरत्र प्रतिपादयिष्यते । बाध्यमानत्वात् । 1 ननु विमतिविषयो भ्रान्त्यर्यस्तुच्छात्मक एव, यत्तुच्छं न भवति, न तद्बाध्यते ; पराभिमतात्मवत् । न हि स्वाप्नार्थेन्द्रजालादि- विभ्रमार्थानां सत्त्वम् । तत्समानत्वात् शुक्तिकारजतादयोऽपि तथा । ‘रजतादयो न सन्ति’ इति बाधदर्शनाच्चेति शून्यख्यात्यपरपर्यायासत्ख्यातिरेव युक्तेति- तदप्यसत् । तस्यासत्त्वेऽपि सत्त्वेन भानादन्यथाख्यात्यापातात् । असतोऽसवेन भाने तु न भ्रमबाधोपपत्तिः । आत्मनो न तुच्छव्यतिरिक्तत्वप्रयुक्तमबाध्यत्वम्, किंतु कार्यप्रयुक्तमिति हेतुश्च सोपाधिः ।
किंच असत्त्वमधिष्ठानाधिष्ठेययोः कस्य ? न तावदधिष्ठानस्य, अबाधित- प्रतीतिसिद्धत्वात् तत्सत्त्वस्य । नाप्यधिष्ठेयरजतादेः, तस्याप्यन्यत्र सिद्धत्वात् । ‘नेदं रजतम्’ इति तादात्म्यमात्रमेव हि निषिध्यते । अतो नासत्ख्यातिपक्षार्थः ।
- “आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथानिर्वचनख्यातिरित्येतत् ख्यातिपञ्चकम् ॥” इत्युक्तासु अन्यथाख्यातिमनिर्वचनीयख्यातिं च निरस्य, असत्ख्यातिं शून्यख्यात्यपरपर्यायां माध्यमिकाभिमतां निरस्यति - नन्वित्यादिना । ८. यथार्थख्यातिनिरूपणम्
- १४५ ननु विप्रतिपन्नं शुक्तिकारजतादि ज्ञानात्मकमेव, संप्रयोगाभावेऽप्य- परोक्षत्वात् ; संप्रतिपन्नबुद्धिवत् । एवमात्माकारत्वेऽपि रूप्यादेव हिरवभासो दोषात् । ‘नेदं रूप्यम्’ इति बाधोऽपि तद्वाध्यस्यैव । अत आत्मख्यातिरेव युक्तेति - तदप्यसत् ; आत्माकारत्वेऽप्यर्थाकारतयावभासादन्ययाख्यात्यापातात् । आत्माकारत्वावभासे तु न भ्रान्तिबाधोपपत्तिः । आत्माकारखे च न प्रमाणम् । न च पूर्वोक्तानुमानं प्रमाणम् ; तस्य 2 सम्यग्रजतज्ञनेनानैकान्त्यात् । न हि रजतादेर्बहिरवभासमूलसंप्रयोगाभावमात्रस्य बुद्ध्याकारत्वानुमापकत्वं धियः । न हि स बुद्धयाकार इत्यव्याप्तेः । न च सम्यग्रजतादेरपि सहोपलम्भनियमाद् बुद्धयैक्यमिति ; सहोपलम्भनियमस्यैक्यापादकत्वाभावात् । भेद एव हि सहोपलम्भः । सम्यग्रजत- मिध्यारजतयोर्बुद्ध्याकारत्वाविशेषात् सम्यग्रजतवदबाध्यत्वप्रसङ्गाच्च । किंच बाह्यार्थेषु सम्यगसम्यक्त्व विभागाभावे च स्वपरपक्षविभागातिशयात् इदं दूषणं मिथ्यावादिपक्षेऽपि सममित्युक्तम् । तेषामात्मख्यातिनिराकरणादिक- मनुपपन्नम्, 4ज्ञप्तिमात्र संभिन्नतया सर्वख्यातीनां मायाविवर्तत्वाङ्गीकारात् । आत्मनश्चान्तराभासस्याङ्गीकृतत्वाच्च । ‘यत्तु तैः शून्यवादनिरासे निरधिष्ठानभ्रमासंभव उक्तः तच्चासत्; दोषाश्रयत्वापारमार्थ्येऽपि भ्रमोपपत्तिवन्निरधिष्ठानतयापि भ्रमोपपत्तेः । तदसंभवे तु दोषाश्रयत्वापारमार्थ्येऽपि न भ्रान्त्युपपत्तिः; उभयत्र भ्रमासंभवस्य लोके
- योगाचाराभिमतामात्मख्यातिं निरस्यति - नन्वित्यादिना ।
- सम्यग्रजतेति । नयप्रकाशिकायाम् — रजताकारो बुद्धेरेव, वुद्धि- संप्रयोगमन्तरेण रजतस्यापरोक्षत्वादित्यात्मख्यातिपक्षमाशङ्क्य तस्य बुध्द्याकारत्वे सम्यग्ज्ञानेष्वपि तथा स्यात् । न चास्त्विति वाच्यम्, अबाधितप्रतीतिसिद्धत्वात् ’ इत्युक्तमत्रानुसंधेयम् । रजतादेः इत्यस्य धिय इत्युत्तरत्रान्वयः ।
- विभागातिशयात् । विभागातिक्रमादित्यर्थः ।
- ज्ञप्तीत्यादि । ज्ञप्तिगतविशेषाणां सर्वेषां मायाविवर्तत्वं, ज्ञप्तिरूपस्यात्मन एव नानारूपेणावभासश्चाङ्गीकृतमित्यैवैषम्यादित्यर्थः ।
- यत्तु तैरुक्तः तदिति उक्तिक्रियाविशेषणम् । तत्कर्तृकयद्रूपोक्ति– कर्मीभूत इत्यर्थः ।
- तदसंभव इति । निरधिष्ठानभ्रमासंभव इत्यर्थः । 19 १४६ नयद्यमाणः दृष्टत्वसाम्यात् । अतो न कश्चिद्विशेषो बौद्धपक्षान्मायावादिपक्षस्य । ज्ञप्तिमात्रस्य स्थायित्वमेव ’ हि विशेषः । 2 ननु अख्यातिरेव भ्रान्तिरस्तु । न च न भ्रान्तावख्यातिः, रजतख्या- तेर्विद्यमानत्वादिति वाच्यम्; दुष्टकारणजन्यत्वेनापरिपूर्णविषयत्वात् अख्याति - समानतया तयोच्यमानत्वात् । इयमेव विषययाथात्म्याद् यथार्थख्यातिरिति चोच्यते । न च शुक्तेः रजतात्मना भासमानत्वान्न यथार्थतेति — ‘शुक्तिः राजतात्मा’ इति बुद्धयभावात् । ‘इदं रजतम् ’ इति हि धीः । यदर्थव्यवहारानुगुणा या धीः, सा तदर्था । ‘इदम्’ इति धीरपि पुरोवर्तिशुक्तिविषयव्यवहारानुगुणा । ‘रजतम्’ इति प्रतीतेः रजतावच्छिन्नत्वाद् व्यवहारानुगुण्यमिति तस्या रजततैव वेद्या । अतः ‘इदं रजतम् ’ इति धीद्वयं युक्तिसिद्धम् । तन्न ; ननु ‘इदं रजतम् ’ इति सामानाधिकरण्यात् पुरोवर्तिन्येव रजतधीः; न च वस्तुतस्तथात्वमिति विपरीतख्यातिरिति ; वित्रेकाग्रहनिमित्तत्वात् सामानाधिकरण्यधियः । ’ इदम् ’ इति हि भास्वरत्वादिरजतव्यक्ति समानधर्मक- शुक्त्यादिवस्तुभाने रजतजातस्मृतिर्जायते । तत्सद्भावे च रूप्यबुद्धेरपि पर्यवसानात् ’ ‘किं ‘पररूपिणो धीसंनिधानादियं धीः, उत ‘नीरजतरूपिणो धीसंनिधानात्’ इति विवेकानवभासाद् रूप्यबुद्धेरिदमन्तर्भावे धीस्थत्वमात्रापेक्षया सत्यधीतौल्यात् सामानाधिकरण्यधीर्युक्ता । विवेकात्तु ‘इदं शुक्तिकादि 7 रजतजाति- रूपितम्’ इति धीः । रजतजातेरपि निजव्यक्त्यन्तररूपधीः । इदंव्यवहारो भेदाग्रहात् । विवेके तु तद्बाध इति व्यवहारबाधाद्भमत्वम् । D
- स्थायित्वमेवेति । तदपि सर्वकालसंवन्धित्वं मिध्येवेति को विशेष इति हार्दो भावः ।
- प्राभाकराभिमतामख्यातिं निरसितुमनुवदति-नन्विति ।
- रजतजातेति । रजतानां बहूनां पूर्वानुभूतानां मध्ये एकस्य विशिष्य ग्रहणमिदमिति नियामकाभावात् जातेत्युक्तम् । जातीति तु स्वरसः पाठः ।
- पर्यवसानादिति । संभवादित्यर्थः ।
- पररुपिण इति । रूप्यते निरूप्यते वस्तु अनेनेति रूपशब्दो वस्त्व- । साधारणधर्मपरः । रजतस्य यद्रूपं रजतत्वादि, तद्वतो वास्तववरजतस्येत्यर्यः । नीरजतरुपिण इति । नीरजतरूपं रजतरूपाभावः रजतत्वाभावः । द्वितः शुक्त्यादेरित्यर्थः ।
- रजतजातिरूपितमिति । आरोपितरजतजातीत्यर्थः ।
८. यथार्थख्यातिनिरूपणम् १४७ ननु भिन्नधीवेद्ययोर्न सामानाधिकरण्यमिति चेत् —–तन्न ; ‘रूपरूपिणोरे- कधीवेद्यत्वान्निरन्तरधियो युक्तत्वात् । यत्रापि वीद्वयं युक्तिसिद्धम्, तत्रापि तद्वीद्वयाविच्छेदात् तद्धीवेद्ययोः दोषाधीन मेदाप्रहे च सामानाधिकरण्यधियो युक्तत्वात् । अत एव हि ‘न तद्वजतम्’ इति धीः । अन्यधियान्यस्य वेद्यत्यानुपपत्तेः बलाद्धीद्वयं च सिद्धम् । न च रजतस्मृत्यननुवृत्तिः कथमिति ; भेदग्रहेण शुक्तिग्रहान्तर्हितत्वात् । नन्वेवमपि धीद्वयस्यैकतया ग्रहाद्विपरीतख्यातिरिति- तन्न ; वेद्ययोर्नैरन्तर्यमिति ह्युक्तम् । ननु धीद्वयस्यापि याथार्थे कथमन्यतरधियः प्राबल्यम् ? उच्यते – अनुवृत्त पुरोवर्तिधीरूप शुक्तिधियो व्यवहारफलानुवृत्तेरिति । पुरोवर्तिशुक्तिवृत्तेरेव दोषाद्भेदाग्रहात् कार्यव्याघातः । लोके दोषस्य कार्यव्याघातकत्वं च कुप्तम् । यैस्तु दोषोपेतधी सामग्रीतोऽन्यथाख्यातिरुक्ता, तत्पक्षे दोषस्वरूपवैपरीत्यकल्पना दोषः । 2 भस्मकादेर्जाठराग्निकार्यरसव्याघा- तकत्वम् । रसविघाते च पाकाधिक्यं प्रबलजाठराग्नेः । एवं सर्वत्र द्रष्टव्यम् । किंच सामग्रीभेदसिद्धावन्यथाख्यातिः, एतत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रय- त्वं च । यथार्थख्यात्यन्यथाख्यात्योर्नैवान्यथाख्यातिः सिद्धा । किंच अन्यथाख्याति- पक्षे न क्वचिदपि धीतोऽर्थनिश्चयः, सर्वत्रायथार्थत्वसंदेहात् । न च निर्दोषकारण- जन्यत्वज्ञानादर्थनिश्चयः, निर्दोषत्वज्ञानस्यापि ज्ञानत्वाविशेषादनिश्चयसाम्यात् । ज्ञानान्तरेण च तन्निश्चयेऽनवस्था । न च यथार्थख्यातिपक्षेऽपि व्यवहारस्या- बाधितत्वापेक्षायां दोषसाम्यम् ; धियस्तावदर्थाव्यभिचारित्वे व्यवहारावाधस्य स्वतः सिद्धत्वाद् । विरोध्यन्तरोपद्रुतो व्यवहारोऽस्तु । न तावता ज्ञानस्याया -
- एकधीवेद्यत्वादित्यादि । एकधीवेद्यत्वापेक्षया रूपस्य रूपिणश्च निरन्तर- भानमिति वक्तुं युक्तत्वादित्यर्थः । तथा सत्यस्थलेऽपि भिन्नधीवेद्ययोरेव सामानाधि- करण्यमिति भावः ।
- अत्र च “भस्मकादिषु कार्यस्य विघातादेव दोषता । अमेर्हि रसनिष्पत्ति: कार्य जटरवर्तिनः ॥” इति नयवीथीवचनमनुसंधेयम् । भस्मको नाम रोगविशेषः, यस्य दोषेण जाठरोऽग्निरशितमन्नं सद्य एव जरयित्वा नरस्य दुःसहां क्षुद्वाधां जनयति । अयमत्र भाव: - दोषस्य कार्यविघातकत्वमेव, न तु कार्यान्तर जनकत्वमिति यदुक्तं तत् भस्मके बाधितम् । तत्राति क्षुधारूपकार्यकरणदर्शनादित्याक्षेपे, तत्रापि भस्मकदोषेण जाठराग्नेः रसाख्यकार्यजनकत्वविघात एव क्रियते ; तद्विघाते चाने: अशितान्नजरणं स्वाभाविकमिति न कार्यान्तरजननमिति । १४८ नयधुमणिः थात्म्यम् । नाप्यनवस्था । पक्षान्तरे तु धिय एवार्थाव्यभिचारित्वसंदेहे किं दामवलम्ब्य व्यवहारोदय: ; मूलशैथिल्यात् । किंच विषयस्य शुक्तिकात्वेनारजतत्वे रजताकारस्य स्वरूपतोऽभानात् ज्ञानस्यैव साकारता, बाह्यार्थापलापश्च सुव्यक्तः । अत इदमंशो गृहीतिः ; रजतांशस्तु स्मृतिः । तयोस्तु दोषाद्विवेको न भात इति रजतार्थधीः, प्रवृत्तिश्च । पीतशङ्खादौ तु गृहीत्योर्विवेकाग्रहः ; जपालौहित्यस्फटिकयोरिव पीतिमशङ्खयोर्गृह्यमाणत्वात् । स्मृत्यविवेकश्च स्वने गजाद्यर्थानामसंनिनिहितानां प्रतीतेः । अतो भेदाग्रहाधीन व्यवहारबाधाद्भान्तिव्यवहारः, न त्वयाथार्थ्यादिति । ; ‘एतच्चासत्, विकल्पासहत्वात् । किं भेदो वस्तुस्वरूपमेव ? उतान्यो- न्याभावः ? व्यावर्तकधर्मभेदो वा ? न तावदाद्यः, पुरोवर्तिशुक्तिपूर्वानुभूतरजत- गृहीतिस्मृत्योः स्वरूपभानात् ज्ञानस्य स्वयंप्रकाशत्वाभिमानान्न प्रमाणान्तरा- पेक्षेति भ्रान्तिबाधावनुपपन्नौ । तयोरेकत्वेन ग्रहे विपरीतख्यात्या पातः । न च वेद्यनैरन्तर्यमात्र भानमत्र ; न तद्बुद्ध्यैक्यमिति – बुद्धयैक्यस्य वेद्ययोजतिव्यक्त्योरिव नैरन्तर्यमात्रनिमित्तत्वात् 2 न च जात्यादे- र्विशेषणतैकस्वरूपत्वेन विशेषणधियो विशेष्यपर्यवसानात् तत्रैकधीविषयता ; रजतत्व शुक्त्योर्विशेष्यविशेषणत्वाभावाद्वेद्यप्रथमत्वे धीप्रथमत्व सिद्धिरिति तर्हि वेद्ययोर्नैरन्तर्यस्योभयोर्निरपेक्षत्वापोद्यत्वात् । एवं विशेषणविशेष्ययोर्ग्रहेऽन्यथा- ख्यातिः, अन्यविशेषणस्यान्यविशेषणतया ग्रहणात् । पृथग्ग्रहे च प्रवृत्तिबाधः ।
अद्वितीयस्तु नाख्यातिवादीष्टः । इष्टत्वेऽप्यन्यत्रापि इतरजात्यादरन्यत्रा- वगम्यमानशुक्तिकादावाभासस्फूर्तिः । ननु तस्य तत्राभावतोऽपि दोषात् न तद्धीदोषादेव ; परंतु अनियत- देशत्वेन तदित्यंशरहितत्वेन च स्मर्यत इति – तन्न ; विकल्पासहत्वात् । किं पूर्वमनियतदेशतया रजतावगतिः, उत नियतदेशावगतमपि दोषादनियतदेशतया स्मर्यत इति ? नाद्यः, अनियतदेशतया प्रतीतेरेवाभावात् । नापि द्वितीयः, नियतदेशस्यानियत देशतया ग्रहाद्विपरीतख्यात्यापातात् ।
- एतच्चासदित्यादिः तार्किकैः क्रियमाणो विस्तृत आक्षेपः ।
- निमित्तत्वादिति बहुब्रीहिः । नैरन्तर्यमूलक एव बुद्धयैक्याभ्युपगम इति । 3. द्वितीयस्त्विति । भेदो नाम क इति पूर्वकृत विकल्पे द्वितीयोऽन्यो- न्याभावपच इत्यर्थः । ८. यथार्थख्यातिनिरूपणम् १४९ अथ देशो न स्मृतः, रजतमात्रं तु स्मृतमिति — तन्न ; पूर्वाव- गतांशाभावस्य स्फुटत्वात् । भेदग्रहदृश्यप्रतियोगिस्मृतौ केवलाधिकरणेोपलब्धे- रेवोपलभ्यमानादिदमंशगृहीतेस्तत्सद्भावात् । ननु देशविशेषजातेषु यद्यपि शुक्तिकाभावः स्फुट:; तथापि रजतदेशो नावगत इति स्मृतिरिति — तन्न; शुक्तिदेशे तावद्रजतानवगतेः । अनवगतावभासस्य चान्याय्यत्वात् । अस्मर्यमाणाभावाग्रहस्य प्रवर्तकत्वे च यस्य कस्यचिदभावाग्रहे रजतार्थिप्रवृत्तिः स्यात्, अविशेषात् । न च व्यावर्तकधर्माग्रहो भेदाग्रहः ; व्यार्वतकजात्यादीनां हि न ग्रहः । रजतं तु प्रस्मृतमिति प्रवृत्तिरिति - विकल्पासहत्वात् । स्मर्यमाणगृह्यमाणयोः साधारणधर्मभाने किमेकस्याप्यसाधारणधर्मस्याप्रतीतिः, उत सर्वस्याप्रतीतिरिति । ‘नाद्यः, असाधारणधर्म रजतत्वप्रतीतेस्त्वयोक्तत्वात् । एवं च न भेदाग्रहः । न च यद्यपि गृह्यमाणात् स्मर्यमाणस्य व्यावर्तकावगतिः; तथापि न स्मर्यमाणाद् गृह्यमाणस्य व्यावर्तकावगतिः । शुक्लत्वादिशुक्तिकाधर्मास्तु इति न व्यावर्तका इति — देशादिसंबन्धशून्यत्वेन स्मर्यमाणात् पुरोवर्त्यनुभूयमानवस्तुनो देशादिव्यावर्तकधर्माणामनुभूयमानत्वात् । रजतसाधारणा ननु गृह्यमाणस्मर्यमाणयोः शुक्तित्वरजतत्वरूपपरस्परव्यावर्तकधर्म- विषय एव ग्रहः, तद्धिय एव प्रवर्तकत्वात् । देशादीनां तूभयसाधारणतया न तादृक्त्वमिति तन्न ; स्मर्यमाणरजतस्य रजतार्थिनः पाषाणव्यक्तिदर्शने पाषाणत्वानुपलम्भे प्रवृस्थापातात् । तत्र पर्वतत्वावगतेर्न प्रवृत्तिरिति ; तन्न ; दूरादिदोषात् पर्वतत्वानवगतौ प्रवृत्तिप्रसङ्गात् ।
; ननु तत्र सामान्यविशेषप्रतीतावपि सामान्यपरव्यावर्तकपरिमाणविशेष- प्रतीतेरप्रवृत्तिरिति–तन्न ; देशादिवत् परिमाणस्यापि सर्वद्रव्यसाधारण्याद् व्यावर्तकत्वानुपपत्तेः । अथ सामान्यस्यावान्तराभेदादव्यावर्तकस्यापि व्यावर्तकत्वमिति -त- तन्न्यायेन कालादेर्वर्तमानत्वादिभेदाद्यावर्तकतास्तु । एवंच व्यावर्तकधर्मभाने भेदभानमिति न प्रवृत्युपपत्तिः । किंच रजतादिविषयज्ञानस्य न सत्तामात्रात् प्रवृत्तिः; किंतु इच्छाद्वेषो- पजायमानप्रयत्नद्वारा । इच्छादेः प्रवर्तकत्वं च स्वकारणज्ञानविषय एव, अन्यत्रा- दर्शनात् । एवंच पुरोवर्तिनि रजतज्ञानाविषये न प्रवृत्तिः, इच्छाधनुपपत्तेः । न १५० नयद्यमणिः च ‘इदम’ इति पुरोवर्तिविषयज्ञानमप्यस्तीति प्रवृत्तिरिति - इदमंशस्योपादानाद्यनुं- पकारकत्वात् । रजतज्ञानादेव हि रजतार्थिप्रवृत्तिः । शुक्तिकाज्ञानाच्च निवृत्तिः । आधिष्ठानज्ञानमुभयसाधारणम् । न च ‘इदम्’ इति ज्ञानादगृहीतभेदरजतज्ञानस्य स्वतस्तादृगिच्छाप्रसाध- कत्वमिति — स्मृतिज्ञानस्य स्वरूपानपायात् तद्भाने भेदभानमिति प्रवृत्त्यनुपपत्तेरुक्तत्वात् । तदित्थं प्रयोगः– विमतं ज्ञानं न स्वविषयव्यतिरिक्ते- च्छाजनकम्, ज्ञानत्वात्, संप्रतिपन्नज्ञानवत् इति । ननु विप्रतिपन्नः प्रत्ययो यथार्थः, प्रत्ययत्वात्, संप्रतिपन्नप्रत्ययवदिति तद्यथार्थव्यसिद्धिरिति—तन्न, विकल्पासहत्वात् । यथार्थत्वं नाम किं बिषयसमुत्थत्वम्? उत उपहितार्थसमुत्थत्वम् ? अबाधितविषयत्वं वा ? नाद्यः; शुक्तिकादिविषयसमुत्थत्वेन सिद्धसाधनत्वात् । द्वितीयस्तु न ; विकल्पा- सहत्वात् । किं साक्षाद्रजतसमुत्थत्वम् ? उत परम्परयेति । नाद्यः; प्रत्यक्षेण रजताभावस्यैव प्रतीतेस्तद्विरोधात् । नापि द्वितीयः संस्कारजस्मरणेन द्वारेण रजतस्य शुक्तिकारजतज्ञानं प्रति ष्टत्वेन सिद्धसाधनत्वात् । नाप्यवाधितविषयत्वम् ; विषयबाधस्य मानसप्रत्यक्षवेद्यत्वेन प्रत्यक्षवाधात् । नाद्यः; पूर्वानुभव- परम्परया कारणत्वस्ये- ‘नेदं रजतम्’ इति ननु ‘नेदं रजतम्’ इति न ज्ञानवाधः; किं तु व्यवहारबाध एवेति - तन्न ; उपादानात्मकव्यवहारस्य विकल्पासहत्वात् । किं ज्ञानम् ? परिस्पन्दो वा ? विपरीतख्यात्यापातात् ; ज्ञानबाधप्रसङ्गाच्च । नापि द्वितीयः; शुक्तिकोद्भूतरजतज्ञानस्यापि कस्यचिन् न प्रयत्नपरिस्पन्दौ स्तः, नापि शब्दोच्चारणम्, ‘नेदं रजतम्’ इति बाधप्रतीतिश्च न जाता — तत्र ज्ञानस्या- भ्रान्तित्वप्रसङ्गात् । व्यवहारस्याप्रसक्तखेन तद्बाधश्चानुपपन्नः । नापि विषयबाधः; अप्रसक्तेरेव । अतः पारिशेष्याज्ञानस्यैव निषेध्यत्वमिति ।
ननु प्रतिभासमानस्यैव ज्ञानविषयत्वात् रजतप्रतिभासे तस्यैव विषयता युक्तेति — तन्न; विकल्पासहत्वात् । पुरोवर्तिवस्तुप्रतीतिरस्ति वा? न वा ? आद्ये, तदुल्लङ्घनेन विषयान्तरकल्पनाथां विषयवैषम्यप्रसङ्गः । साक्षात् प्रतीतिर्हि पुरोवर्तिवस्तु गोचरा । पुरोवर्तिवस्तुनो रजतत्वधिया हि प्रवृत्तिः । ननु तद्धिया प्रवृत्तिः, न तु तद्रजतमिति - सत्यम् ; अत एव हि भ्रान्तित्वम् । द्वितीयपक्षस्तु प्रत्यक्षविरोधादेव निरस्तः । ८. यथार्थख्यातिनिरूपणम् १५१ ननु अयथार्थज्ञानजनकल्ये ज्ञानकारणेन्द्रियाणां यथार्थज्ञानजनन- दोषादिति वाच्यम् ; तेषामौत्सर्गिक- स्वभावविरोधः ; न चैवं त्वहानिप्रसक्तेरिति चेत् — तन्न ; स्मृतिस्वरूपवैपरीत्यस्य भवताप्यङ्गीकृतत्वेन दोषसाम्यात् । तदित्युल्लेखादिरहिता हि स्मृतिरिष्टा । दिदमेव न च भेदग्रहसहकारिरहितायास्तदुल्लेखादिस्वभावता ; तत्साहचर्या- तत्कार्यमिति — अस्मत्पक्षेऽपि दोषरहितत्वे तत्साहित्ये त्विदमेव तत्कार्यमिति दोषसाम्यादिति कृतमतिविस्तरेण । तत्स्वभावता ; ननु निर्विषयैव ख्यातिर्भ्रान्तिस्तु । न रजतविज्ञानस्यालम्बनं रजतम्, पुरोवर्तिनोऽतथात्वात् । न च शुक्तिका रजतज्ञानविषयः, अन्यविज्ञान- स्यान्यविषयत्वानुपपत्तेः । अथ रजतज्ञानस्य का गतिरिति ? उच्यते- तद्व्यवहारासमर्थविज्ञानान्तरसाम्ययोगेन । तद्धि ज्ञानव्यवहारात् । शरन्मेघस्यापि नीरदत्वव्यवहारवदिति । तदुक्तम्- इति । “अनिरूप्यमतः ख्यातेर्विषयं प्रतिजानते । विनैव विषयं दोषैस्तां भ्रान्ति विबुधा विदुः ॥” तदप्यसत् – निर्विषयायाः ख्यातेः सविषयतयावभासादन्यथाख्यात्या- पातात् । नापि निर्विषया; इदंतया पुरोऽवस्थितवस्त्ववभासालम्बनत्वात् । न च शुक्तित्वम् । न च भासां निरालम्बनत्यम्, रूपादिविशेषयुक्ततया प्रतिभासमानस्य कस्यचिल्लक्षणनामाद्यनभिज्ञानेऽपि निरालम्बनत्वप्रसङ्गात् । न च रजतम् । शुक्तिकाया रजततयावगतावेव हि तत्र प्रवृत्तिः । वस्तुतस्तस्य शुक्तित्वेऽपि तदस्फूर्तावपि न धर्म्यस्फूर्तिः; त्रिकोणत्वादिधर्म- विशिष्टत्या तरफूर्तेः । न च कतिपयधर्ममात्रतया स्फूर्तिमात्रान्निर्विषयत्वम् ; अतिप्रसङ्गात् । न हि सर्वस्य सर्वधर्मावभास इत्यलमतिप्रसङ्गेन । ननु आत्मव्यतिरिक्तस्य कृत्स्यस्य प्रायेण पञ्चभूतात्मकत्वश्रुतेः सर्वत्र पृथिव्यादिसद्भावात् शुक्तिकादिष्वपि रजतादेः सत्वे सर्वस्यापि याथार्थ्यम् । अथ सर्वस्य पञ्चभूतात्मकत्वेऽपि कथं शुक्तिकादौ रजतादि- सत्त्वम् ? उच्यते - तेजोऽवयवादिप्राबत्याद्धि रजतादिसिद्धिः । तच्च तार्किकैरप्यङ्गीक्रियते । शुक्तिकारजतादावपि रजतकारणतेजोऽवयवसद्भावाद्र-
- परमसिद्धान्तयथार्थख्यातौ दोषारोपः –नम्वित्यादिना । १५२ नयद्युमणि: जतसद्भावः । यद्यपि रजतावयवस्याल्पत्वेन शुक्तिकाया न रजतकार्यकरत्वम्, तथापि रजतस्य सत्वात् तत्प्रतीतियाथार्थ्यम् । अथ व्यवहारार्ह शुक्तिकात्वेऽपि कथं रजतप्रतीतिः ? नायनादिदोषात्तदग्रहाद्रजतस्यैव ग्रहादिति ब्रूमः । दोषापाये तु व्यवहारार्ह भूयोऽवयवशुक्तिकाग्र हे जाते तद्व्यवहार एव; न राजतस्य ; व्यवहारानर्हत्वात् । एवं स्वामार्थानामपि भगवत्सृष्टत्वश्रुतेः, तत्तत्पुरुषमात्रानुभाव्यत्वेऽपि तत्कालमात्रावसायित्वकल्पनया सत्त्वे सत्ख्यातेरपि याथार्थ्यम् । एवं सर्वत्रोह्यमिति । व्यवहाराननुगुणाल्पावयव- तदप्यसत् — प्रतीतिव्यवहारानुगुणशुक्तौ रजतसद्भावेऽपि कार्त्स्न्येन रजततया ग्रहणाद् विपरीतख्यातेरवर्जनीयत्वात् । अकार्त्स्न्येन रजततया ग्रहणे न रजतार्थिप्रवृत्त्युपपत्तिः । नीवारादौ ब्रीह्याद्यवयववत् शुक्त्यादौ रजतावयवसद्भाव इति तु न ; नीवारादेवीहिकार्य करत्ववत् शुक्त्यादेः कटकादिकार्यकरत्वादर्शनात् । अग्नौ रजतस्य दौत्यवत् मनागपि शुकेर्न द्रौत्यं च । न च सर्वस्य पञ्चभूतात्मकत्वम्, अचाक्षुषवाय्वाकाशारब्धत्वे घटादेरचाक्षुषत्वप्रसङ्गात् वातवनस्पतिसंयोगवत् । " तासां त्रिवृतम् " इत्यादि श्रुतिस्तु उपष्टम्भकपरत्वेन गौणी | न च स्वाग्नपदार्थसत्यता ; अबाध्यत्वप्रसङ्गात् । सर्वपुरुषैरुपलभ्यत्व- प्रसङ्गाच्च । न च तत्तत्पुरुषार्जितकर्ममूलत्वात् सुखादिवत् तत्पुरुषमात्रो- पलभ्यतेति – तत्तत्पुरुषैरपि स्वमकालातिरिक्तकालाननुभाव्यत्वात् तत्पदार्थानाम् । न च तेषां तत्कालमात्रावसायित्वान्नान्यदानुभाव्यत्वमिति — तेषामचिरस्था- यित्वेऽप्यवयवोपलब्धिप्रसङ्गात् । अन्यत्र शयानस्य सतोऽन्यत्र गमनाद्यसंभवाच्च । तत्पदार्थानामीश्वर सृज्यत्वश्रुतिस्तु तदनुभवजनितसुखादेरीश्वर निमित्तत्वात् कथंचिन्नेया । सा जीवपरा वास्तु; तत्कर्मनिमित्तत्वात् सर्वकार्याणाम् । अतो न सर्वख्यातियाथार्थ्यम् । तस्मात् विपरीतख्यातिरेव भ्रान्तिरिति । 1 अत्रोच्यते — पुरोऽवस्थितवस्तुनि रजताद्यभावे रजतादिज्ञानस्य निरालम्वनत्वप्रसङ्गः; अन्यज्ञानस्यान्यविषयत्वेऽतिप्रसङ्गात् । शुक्तिका न रजतज्ञानविषयः । न च दोषादन्यज्ञानस्यान्यविषयता ; ज्ञानस्य तथास्वभावत्वे सर्वत्र तच्छङ्कया अनाश्वासप्रसङ्गात् ।
- परमसिध्दान्तभूता यथार्थख्यातिं साधयति — अत्रोच्यत इत्यादिना ।८. यथार्थख्यातिनिरूपणम् १५३ न चादोषज्ञानादाश्वासः; अदोषज्ञानस्य वा गुणज्ञानस्य वा ज्ञानत्वाविशेषेण दोष राहित्याद्यन्वेषणापेक्षायामनवस्थापातादित्यादि स्वतः प्रामाण्यप्रकरणे उक्तम् । न च यावद्भुभुत्सं दोषराहित्याद्यन्वेषणमिति नानवस्थेति; ज्ञानपरंपरायां कस्यचित् ज्ञानस्य स्वतः प्रामाण्यानभ्युपगमे बुभुत्साविरामानुपपत्तेः । एवंच ज्ञानस्यैव साकारता स्यात् ; तत्पक्षे विषयान्तरस्य दुर्निरूपत्वात् । यत्तु ‘ज्ञानं स्वविषयव्यतिरिक्त’ इत्याद्यनुमानम् - तत् सिद्धसाधनम्, ‘विषयज्ञानस्यैव प्रवर्तकत्वाभिमतेः । यद्यपि पुरोऽवस्थितवस्तुनो रजतावयवानामल्पत्वेन न रजतव्यवहारा- हता, तथाप्यल्पतोऽपि रजतावयवसद्भावात् तत्र रजतज्ञानादिरुपपन्नः ; पङ्के जलावयवाल्पत्वेऽपि जलप्रतीतिवत् । न च पुरोऽवस्थितवस्तुनि रजतावयवसद्भावे न व्यवहारबाध इति — अवयवानामल्पत्वात् तद्वाधोपपत्तेः ; पङ्के जलस्य स्नानादि- व्यवहारबाधवत् । तदवयवसद्भावश्च तत्सादृश्यात्सिद्धः ; तत्सादृश्यस्य तत्तदवयव- निबन्धनत्वात् । तच्च विपरीतख्यातिवादिनामिष्टम् । न च सादृश्ये नीवारादीनां व्रीह्यादिकार्यकरत्ववच्छुक्तिकादेः रजतादि कार्यकरवमिति——सादृश्ये तत्कार्यकरत्वनियत्यभावात् । न हि गोसदृशगवयादीनां गोकार्यकरत्वम् । नीवारादीनां तु व्रीह्याद्यवयवप्राचुर्यात् तत्कार्यकरता । अंत एव शुक्तिकायां वस्तुतो न रजतादिव्यवहारः ; प्रचुरावयव शुक्त्यादेरेव कार्यकरत्वात् । किंचान्यस्यान्यविषयज्ञानत्वं चानुपपन्नम् । या तु ज्ञानयाथार्थ्यविकल्पदूषणोकौ रजतस्य परम्परया विषयत्वोक्तिः- सापि हेया, प्राभाकरवर्त्मपातप्रसङ्गात् । स्मृतित्वे च न रजतस्य पारंपर्येण विषयत्वम् ; नाप्यनुभूयमानशुक्तिकाविषयत्वम् । अथ रजतस्मृतेः शुक्तिकायां रजतज्ञानोत्पत्तिहेतुत्वमेव ; न तु प्राभाकर- वद्रजतज्ञानस्य स्मृतित्वमिति –तन्न; विकल्पासहत्वात् । स्मृतेर्विपरीतज्ञानं प्रति किं सत्तया हेतुत्वम् ? उत ज्ञायमानतया ? नाद्यः ; केवलविसजातीयस्मृतेः रजतजातीयविषयानुभवहेतुत्वासिद्धेः । नापि द्वितीयः ; ‘इदं रजतम्’ इत्यदिज्ञाने रजतस्मृतेर्ज्ञायमानाया हेतुत्वाप्रतीतेः । विसजातीयहेतुत्वकल्पनायां तु गौरवम् । अतो न विपरीतज्ञानहेतुत्वं स्मृतेः । 20 १५४ नयद्यमणिः न च रजतप्रतीतेः स्मृतित्वम्, तदिव्यपरामर्शात् । न च तत्प्रमोषोऽपि कल्प्यः, अनुभवत्वापत्तेः । अनुभवत्वोपपत्तिश्च; विपरीततया पुरोवस्थित- वस्तुनि रजतादिसद्भावस्योक्तत्वात् । यत्तु ‘नेदं रजतम्’ इति विषयबाधान्न वास्तव विषयत्वमित्युक्तम् — तदपि न ; ‘नेदम्’ इत्यादेर्व्यवहारहेतुत्वनिषेधपरत्वेनाप्युपपत्तेः । नेदंव्यवहाराह रजतमित्यर्थः । तच्च रजतावयवानामल्पत्वात् । एवंपरत्वकल्पना च पुरोऽवस्थितवस्तुनि रजतस्य प्रतीतिसिद्धत्वात् । अतो ‘नेदम्’ इत्यादौ न विषयज्ञानयोर्बाधः । किंतु व्यवहारस्यैव । तद्विपरीतख्यातिपक्षेऽपि समम् । यत्तु व्यवहारदूषणमुक्तम्, यस्य हि पुरुषस्य बाधकज्ञानोदयः, तं प्रति ज्ञानस्य भ्रान्तित्वापत्तिः समा । अथ बाधार्हत्वात् भ्रान्तित्वम्, तर्ह्यस्मत्पक्षे व्यवहारस्य बाधात्वात् भ्रान्तित्वम् । व्यवहारश्च रजतशब्दप्रवृत्तिः, उपादानादिर्वास्तु । एवंच व्यवहारस्यार्हतया प्रसक्तेः प्रसक्तनिषेधान्न पारिशेष्याज्ज्ञानस्य बाध्यता ।
यत्तु पुरोवर्तिवस्तुविषयत्वान्न प्रतिभासमानरजतविषयत्वमिति – तन्न, पुरोऽवस्थितवस्तुन्येव साक्षाद्रजतसद्भावात् 1 एवच अन्यज्ञानस्य नान्यत्र रागादिहेतुत्वमिति नानिष्टप्रसङ्गः । ‘इदं रजतम् ’ इति सामानाधिकरण्यधियोऽपि न विरोधः । इन्द्रियाणां च न यथार्थज्ञानजननस्वभावहानिश्च । प्रवृत्तिहेतुश्च रजतांशग्रहण एवं दोषाच्छुक्यंशाग्रहोऽपि । तद्ग्रहणाभावो ह्यग्रहः । अभावश्च दृश्ये प्रतियोगिनि केवलवस्त्वेवेत्यत्र · रजतांशग्रह एव । यद्यपि न रजतस्य शुक्तिकाप्रतियोगिनि ज्ञातत्वम्, तथापि रजत- शुक्तिकयोरवयवतारतम्येनैकाधिष्ठानत्वात्, रजतत्वग्रहस्याधिष्ठानग्रहनान्तरीय- कत्वात्, केवलाधिष्ठानस्यैव शुक्तिकात्वप्रतियोगित्वमिति साधिष्ठानरजतां- शग्रहस्य शुक्त्यग्रहत्वोपपत्तिः । अथवा शुक्तित्वग्रहरजतत्वग्रहयोरन्योन्या- भावत्वाच्छुक्त्यग्रहो रजतत्वग्रह एव । अत इष्टभेदाग्रहात् प्रवृत्तिः । अनिष्टमे- दाग्रहान्निवृत्तिः । तच्च “कदाचिच्चक्षुरादिः " इत्यादिभाष्योक्तम् । अतो न किरणावल्यादौ " न भेदाग्रहस्य च प्रवृत्तिहेतुत्वम्” इत्युक्तं दूषणजातमस्मत्पक्ष - बाधकम् । भेदश्च गोत्वरूपादिरसाधारणो वस्तुधर्मः । यत्तु वर्तमानकालाख्यधर्मग्रहात् भेदग्रहसिद्धेर्न रजतार्थिप्रवृत्तिरित्युक्तम् — तदपि नास्मन्मतविरोधि ; रजतप्रतीतेर्गृहीतिरूपत्वेन वर्तमानकालस्य चं . ८. यथार्थख्यातिनिरूपणम् १५५ गृह्यमाणवस्तुमात्रसाधारण्याद्भेदकत्वानुपपत्तेः । या तु भेदस्य धर्मत्वे मिथ्यावादिभिरनवस्थोक्ता, सापि संवेदनादिवत् स्वेनैव व्यावृत्तेरपि सिद्धेर्निरस्ता । अतः शुक्तिकादिषु रजतावयवसद्भावस्य प्रतीतिसिद्धत्वेन तत्प्रतीतिर्य- थार्था । रजतसादृश्यं हि शुक्तेः प्रतीतिसिद्धम् । सादृश्यं हि तदवयवसत्तयेति तस्य प्रतीतिसिद्धत्वम् । यत्तु शुक्त्यादेः कार्त्स्न्येन रजततया ग्रहणाद्विपरीतख्यातिरिति- तदपि न ; रजतावयवानां विरलतयापि पुरोऽवस्थितवस्तुनः सर्वदेश संबन्धित्वात् तदंशानामेव ग्रहेऽपि कार्त्स्न्येन तत्तया ग्रहणोपपत्तेः । इतरांशानां तु दोषादग्रहणमात्रम् । न ह्यग्रहो विपरीतग्रहः । ननु मरीचिकासु जलधीर्विपरीतात्मा; मरीचिकासु जलज्ञानादिति- तन्न ; अण्डान्तर्वर्तिपृथिव्यादेः कृत्स्नस्य " तासां त्रिवृतम्” इत्यादौ त्रिवृत्करणो- पलक्षितपञ्चीकरणस्य श्रूयमाणत्वात् मरीचिकानां च पार्थिवसंसृष्टतैजसत्वात् तत्र चापां विद्यमानत्वात् नयनादिदोषात् तदग्रहणादपामेव ग्रहणमिति तप्रतीते- रपि याथार्थ्यात् । त्रिवृत्करणश्रुतेः पञ्चीकरणपरत्वं च “पश्चभूतात्मकै” इत्यादि- स्मृत्यविरोधाय ; अग्नयादौ पृथिव्याकाशादेर्गुणोपलब्धेश्च । तच्च “यदग्ने रोहितं रूपम्” इत्यदिश्रुत्या व्यज्यते । आकाशस्यापि नीलरूपत्वप्रतीतेर्भूतान्तरसंसृष्टत्वधीः । न च नीलधी- भ्रन्तिः ; अबाधात् । आकाशादिव्यवहारोऽपि आकाशाद्यंशप्राचुर्यात् । न च वायोरपि भूतान्तरारब्धत्वे चाक्षुषत्वापत्तिः — तत्र भूतान्तराणाम- योग्यांशकल्पनया चक्षुरविषयत्वोपपत्तेः । न च वायोः सर्वभूतारम्यत्वे तेषां तेषां समानानामेवारम्भकत्वात् प्रत्यक्षतेति – समानानामेवारम्भकत्वमिति नियत्यभावात् ; चित्रपटादौ रक्तत्वादौ वैषम्येऽपि कार्यारम्भकत्वदर्शनाच्च । अण्डान्तर्वर्तिपृथिव्यादेराकाशादिसर्व भूतानामवस्थान्तरखेऽपि वातवनस्पति- संयोगत्रत् नाप्रत्यक्षता; रक्ततन्स्वाद्यारब्धचित्रपटाद्यवयवगतरागादिस्वभावा- परित्यागदर्शनात् वायोर चाक्षुषत्वस्त्र भावापरित्यगोपपत्तेः । अतो यस्य यस्य प्रत्यक्ष योग्यता, तदारब्धांशस्यैव प्रत्यक्षतेति न विरोधः । अथ मरीचिप्रभाप्रतीतिः कथमिति चेत्; तैजसांशान्तरस्वभावत्वात् अपां च तत्संसृष्टत्वादिति ब्रूमः । दोषापाये तु तत्र पार्थिव संसृष्टतेजसामेव ग्रहेऽल्पत्वादपां व्यवहारबाधः । अतो भूतानां भूतान्तरप्रतीतिर्यथार्थैव । १५६ नयद्यमणिः
ननु अपीते शङ्खे ‘पीतः शङ्खः’ इति धीर्विपरीतेति तन्न ; पित्तोपहत- दृष्टेरेत्र तत्पतत्वप्रतीतेः, अन्यस्याप्रतीतेः ; पित्तस्य च पीतत्वप्रतीतेः । तस्य च नायनरश्मिभिः सह निष्क्रम्य शङ्खेन संयुक्तत्वात् तच्छुक्मिांशस्य तद्द्द्रव्यपीतिमाभिभूतत्वात् शुक्तिमांशाग्रहणात् तद्धियो याथार्थ्यात् । न च पित्तद्रव्यस्य तथात्वे पार्श्वस्यैरपि ग्राह्यता; तस्य सूक्ष्मत्वेनायोग्य - त्वात् । पित्तोपहतस्य स्वनयननिष्क्रमणादतिसामीप्यात् ग्राह्यत्वोपपत्तिः ।
न च नयनस्य पित्तद्रव्यतिरोधानान्न कस्यापि ग्राहकत्वमिति- अञ्जनादिवदत्यन्तस्वच्छत्वात् तस्यातिरोधायकत्वात् । न च तद्द्रव्यस्याल्पत्वे शङ्खः कृत्स्नः कथं पीततया गृह्यत इति – नयनरश्मिभिः सहैव नि:- सार्यमाणत्वात् यावतो नयनरश्मिभिः संबन्धः, तावतः पतितया ग्रहोपपत्तेः । अथ निरीक्ष्यमाण सर्वद्रव्याणां पित्तद्रव्यसंबन्धाविशेषेऽपि शुक्लद्रव्यस्यैव कथं पीततया ग्रह इति चेत् — शुक्लद्रव्यस्वाभाव्यात् तत्र तस्य स्फुटोपलब्धेरिति ब्रूमः । पैत्तिकस्योत्थानादिष्वन्यस्यापि पीततयोपलब्धेश्च । तच्च तद्धीसिद्धम् । अतः पीतशङ्खादिधर्यथार्था । एतेन क्षीरादेस्तिक्ततया ग्रहस्यापि याथार्थ्यं व्याख्यातम् । तन्मधुरिम्णः पित्ततिक्तताभिभवादग्रहात् रसनागततत्संबन्धितिक्तिमार्थग्रहात् तस्यापि याथा - र्थ्यात् । साश्रयतिक्ततायाः क्षीरसंबन्धाद्विशेषणविशेष्यभावोऽपि युक्तः । एकधीवेद्यत्वे हि प्रायेण विशेषणविशेष्यभावः । व्यवच्छदको विशेषणमिति तल्लक्षणम् । तथा व्यवच्छेद्यं विशेष्यमिति । विशेष्यस्यान्यसंबन्धितया प्रतीतेर्हि तदैक्यं सिद्धम् । तिक्ततादेरपि व्यवच्छेदकत्वं वास्तवसंबन्धात् सिद्धम् । यद्यपि तिक्तत्वस्य पित्तद्रव्य संबन्ध एव, तथापि क्षीरजलादिवत् तद्द्रव्यस्य द्रव्यान्तर संसर्गस्त्र- भावत्वात् तथात्वधीः । अथवा पित्तद्रव्यसंसर्गिक्षीरस्य पाकविशेषान्मधुरिम्णोऽभिभवे तद्रसत- योपपत्तिः । दृश्यते हि क्षीरस्य कारवेल्ल्यादिद्रव्यसंयोगात् तथात्वम् । तथा पाकशैघ्रयं च । एवंभूतत्वं तु पित्तदोषापायान्मधुरिम्णि मधुरताया ग्रहात् व्यवहार- बाधात् । ‘उष्णं जलम्’ इत्यादौ च गत्वरतेजोऽपक्रमात् शैत्यस्यानभिभवे तद्ग्रहादुष्णभ्यवहारवाधात् । एतेन जपादिसंनिधौ रक्तताग्रहस्यापि यायार्थं सिद्धम् । स्फटिकादि – प्रभाया जपादिप्रभाभिभवादग्रहादेः समत्वात् । ८. यथार्थख्यातिनिरूपणम् १५७ ननु अलातचक्रे बम्भ्रम्यमाणे जातायाश्चक्रप्रतीतेरन्यथात्वमिति चेत् —न ; तस्यातिद्रव्यात् तत्तद्देशसंयोगात् तत्संयोगानां च चक्रानुकारित्वात् तदन्तरालाग्रहणपूर्वं तादृगलातमात्रग्रहात् तस्या अपि याथार्थ्यात् । सूच्या पद्म- पत्रशतव्यतिभेदादौं शैघ्रयादग्रहश्च तार्किकाभिमतः । अलाते च सर्वेषां चक्रप्रतीतेरविशेषात् तस्यां च कस्यचिन्मूलस्य कल्प्यत्वादनरालग्रहादिरेव ; कस्यचिन्नयनदोषादेः सर्वपुरुषसाधारणत्वानुपपत्तेः । अग्रहदोषमूलं तु दैत्यमेवास्तु, आदित्यादिगत्यनुपलब्धे दूरत्वमिव । तस्य प्रत्यक्षतो न गतिप्रतीतिः । देशान्तरसं- योगात्तदनुमैव । रथादिचक्रेऽप्यन्तरालाग्रहादेव चक्रप्रतीतिः । तत्र त्वन्तराला - भावादग्रहः । अलाते तु तदभावात् कचित्; क्वचिच्छेप्रयात् । अतस्तत्रापि नायाथार्थ्यम् । अथ दर्पणादिषु मुखादेरभावेऽपि तत्प्रतीतस्तत्रायाथार्थ्यमिति – तन्न ; दर्पणादीनां स्वच्छतेजोद्रव्यत्वात् नायनानां च रश्मीनां तत्तेजःप्रतिहतगतित्वात् ; तादृग्गमनेऽपि बिले प्रविशतः सर्पस्य बिलाभिमुखनिवृत्तिवत् स्वाभिमुखमेव दर्पणादिग्रहणपूर्वनिवृत्तित्वाच्छैत्रयादन्तरालाग्रहणपूर्वं स्वमुखस्यैव गृह्यमाणत्वेन तत्रापि याथार्थ्यात् । एवंच वामदक्षिणनयनादिव्यत्यासग्रहोऽप्युपपन्नः । मुखादरल्पत्वादि- प्रतीतिस्तु प्रतिफलनहेतुमण्याद्यल्पत्वकृता । मण्यादिग्रहणपूर्वकत्वान्मुखादि ग्रहणस्य तदल्पत्वप्रतीतिरुपं कार्यं प्रति तत् कारणम् । मुखवर्णादि यादृक् तादृशः प्रतीतेः, तस्य च प्रतिपन्नोपाधावबाधाच्च संमुखादिविषयत्वे दर्पणादिस्थतावन्मात्रमेव युक्त्या बाध्यते । तावन्मात्राच्च भ्रमव्यवहारः । ननु अप्स्वपि मुखदिप्रतीतेस्तासां चातैजसत्त्वान्नयनप्रतिफलन हेतुत्वान्न तैजसानामेवेति – तन्न ; अप्स्वपि तेजः सद्भावस्योक्तत्वात् । ननु अप्सु पोतपात्रादीनां गमने स्थावरादीनामपि गतिप्रतीतेः तथा मेघगमने शशाङ्कादीनां प्रत्यङ्मुखादिगमनेऽपि प्राङ्मुखादिगमनप्रतीतेः ख्यात्ययाथार्थ्य मिति —–तन्न; दूरतरं जलयाने गच्छति गतिविशिष्टतया तदग्रहणा- द्विभज्यमानानां संयुज्यमानानां वा स्थावराणां च ग्रहणाच्च तत्प्रतीतेरपि याथार्थ्यात् । जलयान विभागादौ हि स्थावराणामपि गतिमतामिव विभागादौ दूरीभावः समः । दूरीभावादिविसिष्टस्थावराणामेव ग्रहः ; न तु तद्विशिष्टतया जलयानस्य । तस्य तद्विशिष्टतया ग्रहे तु न स्थावरादिगतिप्रतीतिः । अतस्तत्रापि याथार्थ्यमेव । १५८ नयधुमणि: देशाः ननु दिङ्मोहे दिगन्तरे दिगन्तरप्रतीतेस्तद्वैपरीत्यमिति – तन्न ; आदित्योदयास्तमयदेशयेास्तद्वामदक्षिणदेशयोश्च मध्यास्थाः कृत्स्ना प्रागादिसर्वदिक्त्वेन परमात्मना कल्पिता इति तत्रापि याथार्थ्यात् । यद्धि परमात्मना पूर्वकल्पानुरूपं यद्वयवहारादिविषयतया कल्प्यते, तदेव हि तद्व्यवहारदिविषयः परमार्थश्च । " मध्ये व्योमदिशश्चाष्टावपां स्थानं च निर्मितम् : " इति च मनुनोक्तम् । आदित्योदयदेशादारभ्य तदस्तमयपर्यन्ताः कृत्स्ना देशाः प्रतीचीदि- कप्रतीतिविषयाः । तथा अस्तमयदेशादारभ्योदय देशपर्यन्ताः प्राचीधीविषयाः । तथा तदुदयास्तमयदेशमध्ये यं कंचित्पिण्डमवधी कृत्य, तत उदयदेशपर्यन्ताः प्राचीधीविषयाः; ततोऽस्तमयदेशपर्यन्ताः प्रतीचीधीविषयाः । एतदुदयास्तमय- देशादारभ्य यावान् वामो वा दक्षिणो वा देशपर्यन्तः, तत आरभ्या दक्षिणदेश- समाप्तेः आ वामदेशसमाप्तेश्च प्राचीप्रतीचीधीविषयाः । सर्वे मध्यमदेशाः दक्षिणोत्तरदिग्विषयाः । तयोर्मध्ये वा यं कंचित्पिण्डमवधीकृत्य, तत आरभ्य आ दक्षिणदेशसमाप्तेः आ वामदेशसमाप्तेश्च दक्षिणोत्तरदिग्धीविषयाः । एतेनाग्नय्याद्या अपि व्याख्याताः । अत आदित्योदयाद्युपहित पृथिव्यादि सर्वदेशानामेव प्राच्यादिदिक्तया भगवता कल्पितत्वेन तासां सर्वदा सर्वत्र विद्यमानत्वात्, तदुदयाद्युपहित- देशानामेव दिगन्तत्वात्, सर्वदिगंशानां च सर्वदा सर्वत्र विद्यमानत्वात्, दोषादिवशात् तदंशानां दिगन्तरांशग्रहात् दिगन्तरांशत्याग्रहाच्च तत्रापि याथार्थ्यम् | दिक्कल्पना हेत्वादित्योदयाग्रहादादित्यमात्र ग्रहाच्चांशग्रहणाग्रहणे च युक्ते । तथा अवान्तरकल्पकपिण्ड दिग्दिगन्तरोपाधित्त्रांशग्रहणात् दिगन्तरांशत्या- ग्रहाच्च तदंशग्रहाग्रहौ च युक्तौ । तत्रापि दिक्कल्पनायां परमहेत्वादित्यादयाद्य- प्रहश्च । अदित्योदयादेरेव प्रागादिदिक्कल्पना । यथोक्तं श्रीमता पराशरेण - “उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ” इति । एतेन दिशो द्रव्यान्तरत्वमपि प्रत्युक्तम् ; उपाधितः पृथिव्यादिदेशानामेव दिक्त्वाभिधानात् । भाष्ये च तस्या न द्रव्यान्तरत्योक्तिः । न चास्याः स्वरूपेोपपत्त्यादि । | एवं “दिङ्मोहेऽपि " इति भाष्यं व्याख्यातम् । ननु चन्द्रस्यैक्येऽपि तिमिरादिदोषात् तस्य द्वित्वज्ञानात् तद्वैपरी- व्यमिति–तन्न ; दोषादिवशाच्चक्षुषस्तेजोभेदे सामग्रीभेदात् देशद्वयग्रहण- ८. यथार्थख्यातिनिरूपणम् १५९ पारमार्थे च तदैक्याग्रहाद् ग्राह्या कारद्वित्वपारमार्थ्यात् । सामग्रीभेदेऽप्यन्योन्य- निरपेक्षं बद्धक्रमं ग्रहणद्वयम् । तयोरेका ऋजुगतिश्चन्द्रग्राहिका । देशान्तरेण परा सदोषा गतिस्तद्ग्राहिका । ननूभयोश्चन्द्रस्यैव ग्राह्यत्वात् तस्य चैकत्वान्न ग्राह्याकारभेदोपपत्तिः गोलकद्वयस्थचाक्षुषतेजोग्राह्यस्येवेति – तन्न ; द्वयस्थतत्तेजसः सामग्रीत्वाभेदात् । कार्यकल्प्या च सामग्री । गोलकद्वयेऽपि शीघ्रसंचायकमेव चक्षुः । दोषे तु तद्वशात्तत् रश्मिभिन्नं सामग्रीत्वं भिनत्ति । दोषादेव न तत्संचारः; सर्वकारणस्य कार्यकल्प्यत्वात् । एतत् ख्यात्यन्तरवादिभिरप्यङ्गीकार्यम् ; तदुद्वित्वज्ञानकार्य- स्यान्यथानुपपत्तेः । एतेन दोषस्य तु कार्यविघातकत्वमेवेति पक्षो निरस्तः; यथोपलब्धि व्यवस्थाप्यत्वात् । उयलभ्यते ह्यभयथा कार्यकरत्वं तद्विघातकत्वं च । ननु सामग्री द्वित्वेऽपि न तदूद्वित्वप्रतीत्युपपत्तिः आकारग्राहकस्पार्शन- चाक्षुषसामग्र्योर्घटादेखिति – तन्न ; तत्र ग्राह्य कारभेदेऽप्युभयत्र द्रव्यानुवृत्तेरेवै- क्यबुद्ध्घविघातात् ; सामग्र्यनार्जवाभावाच्च । आर्जवादेव ह्यभयं स्वग्राह्यगुण- विशिष्टद्रव्यग्राहकम् । दोषादनार्जवं चक्षुष इत्युक्तम् । । 1 ग्रहणे च न यौगपद्यम् । तयोरुपक्रान्तार्जवानार्जवयोश्च का स्वदेशविशिष्टचन्द्रग्राहिका । अपरा तु समीपदेशग्राहिका सती अन्तराला- ग्रहणपूर्वस्वदेशवियुक्तचन्द्रप्राहिका । एवं ह्या कारभेदाद् ग्रहणभेदे तदुद्वित्वज्ञानो- पपत्तिः । उपाधितोऽपि द्वित्वं घटशरावाकाशादौ दृश्यते । अत्राप्युपाधिभेदः परमार्थः । घटाद्युपाधिनाशवत् दोषनाशे तदैक्यधीश्वेोपपन्ना । द्वित्वादिसंख्यान्वये च परमार्थत उपाधितो वा पृथक्त्वमेव ह्यपेक्षितम् । पृथक्त्वे च तदन्वय आर्थः ; तस्याप्यपेक्षाबुद्धिजन्यत्वाविशेषात् । भ्रान्तित्वव्यवहारस्तु दोषोपाधि- निरूपणात् । धारावाहिकविज्ञाने तु सामथ्र्यभेदात् ग्राह्याकाराभेदाच्च न द्वित्वान्वयः । अत्र तु वक्रत्वार्जवमेदाद् ग्राहकाकारभेदे ग्राह्य कारभेदात् । 1…………….aaliq aaıqeqia |
- ज्ञानान्तराणामिव स्वाप्नज्ञानस्यापि याथार्थ्यमथ स्थाप्यते । इह स्वप्रततद्विषयविचारोपक्रमभागो भ्रष्ट इति ध्येयम् । १६० नयद्यमाणः न च तस्य जागरणावस्थायामपि दृश्यतेति ; तस्य तत्काल मात्रस्था- यित्वस्वभावात् । न हि सर्वस्य चिरस्थायित्वनियमः; कर्मादिष्वदर्शनात् । न च द्रव्याणां तथात्वनियतिः; तैजसप्रदीपादिष्वदर्शनात् । अतः स्वामपदार्था- नामचिरस्थायितैव कल्प्या । ननु स्वप्ने परमात्मनेोत्पाद्यमानत्वादर्शनान्न तस्य तत्कर्तृतेति तन्न; तस्य प्राकृतचक्षुर्विषयत्वाभावात् । “न चक्षुषा " इति हि श्रुतिः । न च सृष्टस्य तदानीमेव वृद्धयनुपपत्तेर्न सत्तेति — सृज्यत्वस्य प्रमाणतः सिद्धौ वृद्धाकारस्यैव सृज्यत्यकल्पनादनुपपत्तिशान्तेः । न च तदानीमेव विनाशेऽपि तदवयवादर्शनान्न स्वामसत्तेति ; अवयवादर्शनपर्यन्तं विनाशस्य कल्प्यमानत्वात् । न च तस्येतरपुरुषादृश्यत्वान्न सत्तेति ; द्रष्टुरदृष्टमूलत्वेन तेनैव सुखादिवदनुभाव्यस्वभावत्वात् । न हि सतः सर्वानुभाव्यत्वनियमः । अनुभूयमानस्य हि सत्वनियतिः । न हि सुखादि सर्वपुरुषानुभाव्यम् । किंच सत एव सुखादिहेतुत्वदर्शनात् स्वप्नज्ञानविषयत्वम् । न च गजादिज्ञानस्यैव सुखादिहेतुत्वम् ; न गजादिविषयस्येति- जागरणेऽपि तथात्वापत्तेः । गजादिविषयाभावे तज्ज्ञानस्य साकारतापत्तिः । अतो योगाचारमतवत् बाह्यापलापप्रसङ्गः ; सुप्तस्वमज्ञानवत् ज्ञानान्तराणामपि साकारत्वस्याभ्युपेयत्वात् । | शुक्तिकारजतादिषु भ्रान्तिषु कथंचित् सविषयत्वापादनेऽपि विपरीतख्या- तिमते स्त्रमज्ञानस्य न सद्विषयत्वोपपत्तिः । न चानुभूतपदार्थानामेव स्वप्ने दर्शनात् स्मृतित्वमिति ; अननुभूतपदार्थानामपि स्वमे दर्शनात् । न हि स्वशिरश्छे- दादिरनुभूतः । अनुभूयमानत्वधीविरोधाच्च । यद्यपि कचिदनुभूतपदार्थानामेव स्वप्ने दर्शनम्, तथापि न तेषाम् ; तदानीमत्राभावात् । अनुभूयमात्नत्वप्रतीते- स्तेषामपि परमात्मसृज्यत्वमेव । स्वाप्नपदार्थानामैकरूप्याय तत्सादृश्यमात्रात् स्वाप्नपदार्थानां स्मृतित्वभ्रमः । । तदित्युल्लेख प्रमेोषादिकल्पना बाहुल्याच्च न स्मृतित्वम् । अकल्पनयैवोपपत्तौ न कल्पना युक्ता । स्वामश्रुत्यनार्जवाच । । ननु तच्छ्रुतौ सृष्टयुक्तिर्दृष्टिपरा ; अतोऽदृष्टादिवशात् पदार्थदर्शनमेव ; तद्द्द्रष्टा च जीव एव ; तस्यैव कर्मपारवश्यात् ; " स हि कर्ता” इति हि तत्र ८. यथार्थख्यातिनिरूपणंम् १६१ श्रूयते । जीव एव हि कर्मकर्तृत्वेन प्रसिद्धः । अतो जीवपरा तच्छ्रुतिरिति- तन्न ; तत्परत्वेऽपि सृष्टिशब्दस्य दर्शनपरत्वेऽपि च दर्शनस्य दृश्याविनाभावनियमात् तद्याथार्थ्यात् । वस्तुतस्तु न तत्परत्वम् ; “य एषु सुप्तेषु जागर्ति” इत्यादिस्वनश्रुतौ श्रूयमाणगुणानां जीवेष्वसंभवात् । तत्र हि संकल्पमात्रकृतसृष्ट्यादयः सर्वलोकाश्रयत्वादयश्च श्रूयन्ते । न हि तेषां तत्संभवः । न च जीवानामपि सत्यसंकल्पादिश्रवणात् तदुपपत्तिरिति ; संसारदशायां तस्य तिरोधानात् । अतिरोधाने च जागरणेऽपि सांकल्पिकसृष्टिः स्यात् । न च स्वप्ने तत्तिरोधान निवृत्तेः कल्पना ; स्वशिरश्छेदाद्यशुभदर्शनाभावापत्तेः । स्वाधीनत्वे हि शुभद्रष्टृत्वमेव स्यात् । सृष्टिशब्दस्य दृष्टिपरत्वकल्पनायामुपपत्यभावश्च । न च पश्चात् तत्पदार्थादर्शनात् तत्कल्पनेति - अदर्शन मूलस्यायोग्यत्वस्योक्तत्वात् । न च सृष्टिपरत्वाङ्गीकारेणैव जीवसृष्टत्वोपपत्तिः; दृष्टिपक्षेोक्तदूषणसाम्यात् । शुभादि सूचकत्वं च स्वाप्नपदार्थानां स्मर्यते; दृश्यते च । भाष्योक्तरीत्या शुभाद्यज्ञानान्न जीवस्य सूचकार्थसृष्टयुपपत्तिः परमात्मनस्तु सर्वदा सर्वज्ञस्य सर्वशक्तेः सर्वमुपपन्नम् ; " स हि कर्ता” इति शब्दात् वाक्यान्तरे सर्वज्ञत्वादि- मत्तया श्रूयमाणत्वाच । तस्यैव हि विचित्रसृष्टिस्थितिसंहारकर्तृ- त्वाद्युपपत्तिः । अतः कर्तृशब्दो न जीवपरः । न च अन्यत्र शयानस्यान्यत्र गमनाद्यनुपपत्तेः अन्यदेशानां चान्यत्र सृज्यत्वविरोधाच्च नैवमिति - शयान सदृशदेहान्तराद्युपपत्तेरुपपन्नत्वात् । न च तद्देहवत्त्वेनैव देहान्तरवत्त्वमनुपपन्नमिति – तद्धानेन देहान्तरवत्वोपपत्तेः ।
- न च जीवति । यद्यपि जीवस्य सत्यसंकल्पत्वादिकं न दृष्टिसृष्टिवादि- संमतम् ; नापि स्वाप्नासत्यत्वमेतावता सेत्स्यति, प्रत्युत सत्यत्वमेव – अथापि वस्तुतो जीवस्य स्रष्टृत्वं स्वाप्नसत्यत्वेऽपि भवितुमर्हति न वेति संध्याधिकरणविचारिततदंशो- पक्षेपार्थमिदमिति ध्येयम् ।
- उपपन्नत्वादिति । ननुं सदृशदेहान्तरसृष्टिस्वीकारे तदेवेदमिति प्रत्यभिज्ञादिकं कथं घटत इति चेत् —तदंशे भ्रान्तिरेव । न हि वयं स्वप्ने भ्रान्त्यंश- प्रसक्तिरेव नास्तीति ब्रुमः; जागर इव तत्रापि क्वचिदंशे भ्रान्तिसत्त्वात् । सापि भ्रान्तिरख्यात्यादिरूपा भवन्ती न सर्वज्ञानयाथार्थ्यपक्षविघातिकेत्यादिकमधिकरण- सारावल्यादौं द्रष्टम्यम् | 21 १६२ नयधुमणिः न च तद्देहस्य हाने विशीर्णत्वापत्तिरिति — द्रष्टुरदृष्टवशात् परमात्मना विशरणरहितस्य स्थाप्यमानत्वात् । ज्ञानद्वारा जीवस्थित्यापादनात् प्राणादीनामपि स्थित्युपपत्तिः । अतस्तत्रापि ज्ञानयाथार्थ्यमिति । श्रुतार्थोपपत्त्यर्थमनेकाश्रुतार्थकल्पना च युक्ता । " वेदशास्त्राविरोधिना यस्तर्केणानुसंधत्ते” इति हि स्मृतिः । अतः स्वाप्नपदार्थसत्तायाः दृढप्रामाण्य- श्रुतिसिद्धत्वेन तद्याथार्थ्यम् । तत्र तद्वैपरी- नन्वनात्मदेहेन्द्रियमनःप्राणबुद्धिष्वात्मबुद्धयुत्पत्तेः त्यमिति—तन्न; गोत्वस्य - व्यक्तिविशेषणत्ववत् शरीरस्यात्मापृथक्सिद्धतया आत्मविशेषणत्वेन तेन सह नित्यं भानाद्वेत्तृतयैव सिद्धस्यात्मनः प्रत्यक्षादिना वेद्यतयैव सिध्यतः शरीरादेश्च भेदाग्रहमात्रत्वात् तत्रात्मबुद्धयभावात् । शरीरं चात्मना सहैवावभासते । आत्मवियुक्तभूतसंघाते शरीरशब्द प्रयोगो भूतपूर्वगत्येति शरीरलक्षणे’ उक्तम् । सहभानं च ’ देवोऽहम्’ इति तत्प्रकारतयैव सामानाधिकरण्यात् । न च सामानाधिकरण्यधीश्रन्तिः; तस्यात्मप्रकारत्वस्योक्तत्वात् । ननु गोत्वादेर्यावद्द्रव्यभावविशेषणस्यैव सामानाधिकरण्यधी- विषयत्वात्, शरीरस्य च यावदात्मभावविशेषणत्वाभावान्न सामानाधिकरण्यधी- विषयत्वमिति—तन्न ; यावद्द्रव्यभाविविशेषणस्यैव तद्धीविषयत्वमिति नियत्यभावात् । न हि घटादेः शुक्करूपादेश्च यावत्पार्थिवद्रव्यमाविविशेषणत्वम् । घटादयोऽपि पार्थिवद्रव्यमेव ; असत्कार्यानभ्युपगमात् । शुकरूपादयश्च पाकजत्वेन पृथिवीद्रव्यस्यानित्यविशेषणम् । अतो नित्यमनित्यं वा विशेषणम- पृथक्सिद्धं तद्धीविषयभूतम् । ‘देवोऽहम्’ इति तत्प्रयोगोऽप्यत एव । ननु तर्हि “अनात्मन्यात्मबुद्धिर्या” इत्यादिर्निर्विषयः, देहात्मबुद्धप- आत्मासाधारणज्ञानाद्याकारस्याचाक्षुषत्वात् भावस्योक्तत्वादिति — तन्न ; तस्य च योगपरिकर्मितस्वान्तमात्रविषयत्वादात्माकाराज्ञानात् तत्र तद्बुद्धयनुपपत्तेः । ज्ञातवस्त्वाकारस्यैव हि वस्त्वन्तरे सादृश्यादिना तदाकारताभ्रमः । ननु ’ देवदत्तोऽहं जानामि’ इति देहमेव ज्ञातारं मन्यते जन इति ख्यातेरन्यथात्वमिति - तन्न ; तस्य ज्ञानदेहयोर्भेदाग्रहादिनिमित्तत्वात् । 1, शरीरलक्षणे । अत्रव ग्रन्थे आदिमप्रकरणे |राकारस्त्वात्मा ८. यथार्थख्यातिनिरूपणम् १६३ ज्ञातुरात्मनोऽसाधारणाकाराननुभवात् तस्य चक्षुराद्यविषयत्वेनागन्तुकशरी- भासते ; ‘जानामि’ इति ज्ञातृत्वमपि भासते अयमर्थः - स्वासाधारणधर्मवत्तया नात्मधीः । तत्रात्मधीस्त्वहंधिया । ‘जानामि’ इति धीसिद्धं ज्ञातृत्वम् । तच्च किंधर्मणीति न भासते । देहात्मनोः ‘मनुष्योऽहम्’ इति चाक्षुषमनुष्याद्याकार एव ज्ञाता भासते । एवंच शरीरा- कारस्यैव ग्रहादाकारान्तरस्य चाग्रहात् गृह्यमाणाकार एव ज्ञातेति । एवं- विधाज्ञानपरा “अनात्मनि” इत्यादिस्मृतिः । I नन्वन्याकारधर्मस्यान्याकारधर्मतया भानात् तद्वैपरीत्यमिति – तन्त्र ; देहाकारविशिष्टस्य’ ज्ञातृत्वमित्यप्रहात् । किंतु देहाकारिणो ज्ञातृत्वमिति गृह्यते ; उभयोरपि विशेषणत्वेन परस्परसंबन्धात् । न तु तस्य देहाकारत्वधीः । नापि तदाकारस्य ज्ञातृत्वधीः ; उभयोरप्यबाध्यमानत्वात् ; देहाकारत्वेनाप्रह एव धर्माग्रहात् । विवेकात् तदूप्रदे तदैव स्मृतिव्यवहारबाधः । तदाकारस्य च कर्मनिमित्तत्वेनोपाधिकत्वात् तन्नाशे तद्यवहारबाधः । उक्तोऽर्थश्व सर्वः " इदं शरीरम्” इति श्लोकभाष्ये “तत्र वेदितुः” इत्यादिना “प्रकृत्याकारमेव वेदितारं पश्यति" इत्यन्तग्रन्थेन कथ्यते । एवंच - संसारबीजमात्मनो देहाकारत्वज्ञानमेव न; किंत्वसाधारणधर्माज्ञानमपि । “अनात्मनि” इत्यादिस्मृतिस्तु तदुपलक्षणपरा ; आत्मनो देहाकारत्वज्ञानाभावेऽपि स्वासाधारणधर्मापज्ञाने मुक्त्यभावात् । स्वस्वरूपज्ञाने हि मुक्तिश्रुतिः । अतस्तत्रापि ज्ञानयाथार्थ्यमिति ।
2 ननु संशयज्ञानमयथार्थज्ञानम् ; कस्यचिदपि धर्मिणो दोलायमानानिय- तधर्मत्वाभावादिति — तन्न ; स्थाण्त्रादावूर्ध्वस्त्रादिपुरुष साधर्म्यात् संशयो- दयात् साधर्म्यसंख्यासादृश्यतदवयवसद्भावनिमित्तत्वदूरादिदोषात् स्थाणुपुरुषयो- रन्यतरधर्मस्यानियमेन प्रहादप्रहाच्च दोलायमान गृहीतिद्वयरूपत्वेन तस्यापि याथार्थ्यात् । धर्मनिरन्तरतया तद्धर्मवत्त्वेनानियतार्थविषयत्वं हि संशयः । पुरुषसादृश्ये तदवयवसद्भावस्य निमित्तत्वात् स्थाणौ पुरुषधीरूपा गृहीतिरपि यथार्थ । ननु ‘स्थाणुः’ इति धियोऽगृहीतिरययार्थेति – तन ;
- विशिष्टस्येति । विशिष्टान्वयिनो विशेषणेऽप्यन्वय इति निर्बन्धाभावात् । असति बाधे हि तथान्वय इति भावः ।
- अयथार्थज्ञानं त्रिविधं प्रसिद्धम् — संशयविपर्ययतर्कभेदात् । तत्र विपर्ययस्य याथार्थ्य भाष्यायुक्तरीत्या बहूदाहरणविमर्शेन स्थापितम् । अथ स्वयं संशयतर्कयोरपि याथार्थ्य निरूपयिष्यन् संशयविषये अयाथार्थ्य शङ्कते -नन्विति । १६४ नयद्यमणिः तदवयवसद्भावत्राहुल्ये च किंचिदूनतया तद्भानोपपत्तेः । अवयवतारतम्याद्धि सादृश्यजात्योर्विवेकः । अत एव जात्यङ्गत्ववादिमीमांसकैर्मुख्यालाभे सदृशपदार्थस्वीकारा- द्विहितजात्यङ्गत्वमुक्तम् । ऊनत्वादेव तद्व्यवहारमात्रवाधः । बह्ववयवव्यवहारानु- गुणसंस्थानस्थाण्वादिग्राहकप्रमाणतर्की नुग्रहेऽन्यग्राहकप्रमाणस्य तदनुग्रहे प्रबल- प्रमाणकार्यव्यवहारानुवृत्तिः; नान्यस्य । एवं व्यवहारबाधात् भ्रमत्वम् । प्रमाणबाधव्यत्रहारोक्तिरपि व्यवहारबाधादेवेत्युक्तम् ; प्रमाणप्रमेययोरबाध्यत्वात् । अतो ज्ञानस्य विद्यात्वाविद्यात्वे व्यवहारबाध्यत्वाबाध्यत्वाभ्याम् । संशयज्ञानमप्यविचैत्र ; व्यवहारानुदयात् । संशयश्चैकनिमित्त एव । उभयार्थानु- स्यूतसमानधर्मिण एव तन्निमित्तत्वम्; येन केनापि प्रमाणेन साधर्म्याभावे संशयानुदयात् । 2 अनध्यवसायो न ज्ञानान्तरम् । न तावत् स्मृतिः; संस्कारमात्रा- निमित्तत्वात् । नाप्यनुभूतिः; अनिश्चयात्मकत्वात् । संशयात् प्रागनायातोऽप्राप्तनिर्णयः प्रमाणानुग्राहकप्रसङ्गात्मकप्रकारनिष्ठः पौरुषेयव्यापारो हि तर्कः । अस्य चाज्ञाततत्त्वार्थे विषयः पराभ्युपगत हेतुजन्यः । अनेन च प्रमाणमनुग्राह्यम् । अनियतजिज्ञासाविच्छेदेन नियतजिज्ञासाजनन- मनुग्रहः । प्रमाणफलमेवास्य फलम् ; तदङ्गत्वात् । स च ’ यद्ययं मनुष्यो भवेत्, तर्हि चलेत्’ इत्याद्याकारकः । न स संशयः; एककोटिकत्वात् । अथ स्यात् - आरोपितहेतुत्वेनापारमार्थ्येऽप्यनियतेच्छाविच्छेदो दृश्यत इति; तन्न; चलनाभावस्यैव तत्र हेतुत्वेनारोपितहेतुत्यत्वाभावात् । ‘यद्ययं पुरुषः स्यात्, तर्हि चलेत् ; न चायं चलति ; अतो न पुरुषः’ इति हि तत्स्वरूपम् । ‘यदि पुरुषः स्यात्’ इत्यादिविमर्शस्त्वचलनान्वयात् । अतस्तर्कों ज्ञानान्तरमिति ।
- एकनिमित्त एवेति । अनेन “समानानेकधर्मोपपत्तेर्विप्रतिपत्तेः” इत्यादिन्यायसूत्रोक्ताने कनिमित्तव्युदासः ।
- अनध्यवसाय इति । किंस्विदित्युल्लेख्यमनध्यवसायज्ञानं संशयातिरिक्तं कोटिद्वयाविषयकत्वादिति काणादमतं प्रशस्तपादभाष्यारूढम् । न्यायमते तु तदपि संशयानतिरिक्तमुपपादितम् । तदनुसारेण तद्विषये पृथक् विचारो न कार्य इत्यभिसंधायैवमुक्तमिति ध्येयम् । ८. यथार्थख्यातिनिरूपणम् १६५ अत्रोच्यते — अनुभूतरेव ‘अयं पुरुषत्वाहः पाण्याद्यवयववत्त्वात् वक्रकोटराद्यदर्शनाच्च’ इति तत्स्वरूपम् | शिरः पाण्यादियुक्तसद्भावादियुक्तिभिरर्हतैव निश्चीयते । अतो नाविज्ञाततत्त्वोऽर्थो विषयः । यद्धि साध्यते, तदेव विषयस्तर्कस्य । एवमर्हतानिश्वये पक्षान्तर- जिज्ञासाविच्छेदोऽर्थात् । परोक्तार्थावलम्बनात् तस्य प्रामाणिकपरित्यागादि- प्रसङ्गज्ञानमप्यनुभूतिरेव अप्रमाणविरुद्धार्थावलम्वितत्यागविषयत्वात् अप्रामाणिकस्वीकारेऽप्येवमेव । ‘यदि पुरुषः, तर्हि चलेत्’ इति पुरुषचलनयोरपि व्याप्तिविमर्शोऽपि स्मृतिरूप एव । स चलनाभावान्निर्धारणार्थ इत्युक्तम् । तत्प्रमाणप्रमेययोरन्यतरस्यार्हताविषयत्वात् । । एवंविधविमर्शविषयत्वेन तर्कों विपर्ययानुमानमित्युक्तेऽपि नास्मन्मत- बिरोधः । अस्य ज्ञानस्यानुभूतित्वमेव भाष्यकाराभिमत मित्यन्विताभिधानप्रकरणे प्रदर्शितम् । अतः सर्वा ख्यातिर्यथार्थेति सुस्थम् । श्रीमद्रामानुजार्यस्य ख्यातिरिष्टा प्रदर्शिता । तद्विरुद्धमतख्यातिरपास्ता वास्तवोक्तिभिः ॥ यथार्थख्यातितत्त्वे यो गाहमानमतिर्भवेत् । आकल्पं ख्यास्यते तस्य ख्यातिर्यावज्जगत्त्यम् ॥ इति श्रीमदात्रेयनाथसूरिसूनुमेघनादारिलूरिविरचिते नद्युमणौ यथार्थख्यातिनिरूपणं नाम प्रकरणम् 0 ९. उपोद्घातनिर्णयः स्वराद्धान्तिमतेष्वेव चतुःसूत्रयाद्यसूत्रयोः । उपोद्घातत्वबिमतौ’ क्रियते तद्विनिर्णयः || ये चतुःसूत्र्या उपोद्घातत्वमाहुः, किं तैर्युक्तिप्राबल्यादेवमुच्यते ? उत भाष्यकारोक्तिस्वारस्यात् ? सांप्रदायिकत्वाद्वा ! नाद्यः, युक्तिप्राबल्याभावात् । ननु जिज्ञासाधिकरणे शब्दानां कर्यपरत्वन्युत्पत्तेः सिद्धरूपे ब्रह्मण्युपनि- षदामप्रमाणत्वात् शास्त्रानारम्भः पूर्वपक्षितः । शब्दानां सिद्धपरत्वन्युत्पत्तरपि संभवादुपनिषदां ब्रह्मणि प्रामाण्यं प्रसाध्य शास्त्रारम्भः सिद्धान्तितः ।
- विमताविति । विमतिश्च द्वेधा । आदौ चत्वार्यप्यधिकरणानि शास्त्रोपोद्घातरूपाणीत्येका प्रथमाधिकरणमेवोपोद्घातरूपम् ; धिकरणमारभ्य शास्त्रमित्यपरा । तत्र प्रथमः पक्ष एवं संगृहीतो न्यायसुदर्शने श्रीवरदनारायणभट्टारकै :-
ब्युदस्याविषयत्वान्यविषयत्वे समन्वयः । वाक्यानां ब्रह्मणि प्राच्याध्यायेनेह प्रदर्श्यते ॥ आद्यपादे चतुःसूत्र्या शास्त्रारम्भस्य सिद्धये । उपोद्घाततयैवैषां विषयत्वं दृढीकृतम् ॥ व्युत्पत्त्यभावः प्रतिपत्तिदाःस्थ्य- मन्येन सिद्धत्वमथा फलत्वम् । एतानि वै सूत्रचतुष्टयेना- नारम्भमूलानि निराकृतानि ॥ " इति । आहुश्च श्रीवेंकटनाथदेशिका अधिकरणसारावलौ— “सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्झितेऽस्मिन् किं शास्त्रेणान्यसिद्धे न च निशमयितुः सिद्धबोधे फलं स्यात् । ब्रह्मण्येवं न मानान्युपनिषद इति स्तम्भिते तद्विचारे शास्त्रारम्भं चतुःसूत्र्यघटयदुचितैर्न्यायभेदैश्चतुर्भिः ॥” इति । पक्षस्यास्य सांप्रदायिकत्वमुक्तं तैरेव । यथा— जन्माद्य- ९. उपोद्घातनिर्णयः १६७ जन्माद्यधिकरणपूर्वपक्षेऽपि “यतो वै” इत्यादिवाक्यस्योपलक्षणतया विशेषणतया वा ब्रह्मपरत्याक्षेपेण द्वारेणाप्रामाण्यप्रसाधनाच्छास्त्रानारम्भः फलितः । राद्धान्ते तत्प्रामाण्यप्रसाधनात् तदारम्भः । तथा शास्त्रयेोन्यधिकरणपूर्वपक्षेऽपि ब्रह्मणः प्रमाणान्तरसिद्धत्वयुक्त्या तदनारम्भः ; प्रमाणान्तरासिद्धत्वोक्त्या तदारम्भः । एवं समन्वयाधिकरणपूर्वपक्षराद्धान्तयोरपि ब्रह्मणः स्वरूपेणापुरुषार्थत्वपुरुषार्थ- त्वयुक्तिभ्यां तदनारम्भारम्भौ फलिताविति चतुःसूत्र्या उपोद्धातत्वमिति । तन्न : प्रायेण प्रथमाध्यायाधिकरणपूर्वपक्षेषु वेदान्तानां ब्रह्मपरत्त्रप्रामाण्या- क्षेपद्वारेण तदारम्भरूपफलसाम्यादुपोद्घातत्वापत्तेः । ईक्षत्याद्यधिकरणपूर्वपक्षेषु हि वेदान्तानां प्रधानादिपरत्वमाक्षिप्य ब्रह्मपरत्वसाधनेन ब्रह्मपरत्वप्रामाण्यसा- धनमेव । अप्रामाण्ये च तदनारम्भः फलितः; प्रामाण्याधीनत्वात्तदारम्भस्य । द्वितीयाध्यायपादचतुष्टयाधिकरणपूर्वपक्षेष्वपि राद्धान्तिपक्षदोषपरपक्षप्राबल्य - वेदान्तवाक्यपरस्परव्याहतत्वयुक्तिभिर्ब्रह्मपरत्वप्रामाण्याक्षेपात् प्रसक्ते तदनारम्भे तत्प्रामाण्यसाधनात् तदध्यायस्याप्युपोद्घातत्वमिति न चतुःसूत्र्या एवो- पोद्घातत्वम् । न च तत् युक्तम ; पूर्वद्विकस्योपास्योपेयपरत्वाभावापत्तेः; उपोद्घ’तस्यान्यार्थत्वेन स्वार्थतात्पर्याभावात् । स्वविचारस्यैव ह्यपेयपरत्वसिद्धिः । प्रतिपाद्यमर्थ बुद्धौ संगृह्य तदर्थमर्थान्तरवर्णनमुपोद्घात यत्तत् सेनेश्वरार्यैरगणि वकुलमृत्किकैररङ्ग्यकारि व्यासार्यैर्न्यासि तद् द्विः श्रुतमिति विशदं विष्णुचित्तैर्विवत्रे । अश्रौषं शेषकल्पादहमपि विदुषो वादिहंसाम्बुवाहा- दद्धा निर्धार्यतेऽतश्चतुरधिकरणी ब्रह्मचिन्तोद्यमार्थं ॥” प्रयोजने इति । द्वितीयपक्षस्तु नयधुमणिकारैरेभिरादृतः । स्वोक्तार्थः सर्वोऽपि सत्संप्रदायागत इति अत्र नयप्रकाशिकायां चोक्तम् । यदाहु:- श्रीमदात्रेयनाथार्यान् गुरून् नः परमान् गुरून् । श्रीरामप्रमुखान् सर्वान् श्रीमद्रामानुजं मुनिम् ॥ प्रणम्य लक्ष्मणार्यस्य भाष्ये त्रय्यन्तगोचरे । गम्भीरेऽतिनिगूढानां नयानां तु प्रकाशने ॥ प्रयत्नः क्रियते बुद्धया तत्प्रसादसमुत्थया । यथाश्रुतं यथाशक्ति मेघनादारिणा मया ॥”
इति । उद्धृतश्चायं पक्षः सयूथ्यमतत्वेन श्रीवेंकटनाथदेशिकैः- “शास्त्रारम्भार्थमेक त्रितयमिह परं शास्त्रमित्याहुरेके" इति । १६८ नयधुमणिः इति न्यायविदुकेर्न स्वार्थतात्पर्यमुपोद्घाते । यच्च ‘कृत्वा’ प्रवर्तते’ इति — तच्चायुक्तम् ; अन्यपरत्वस्वपरत्वयोर्विरोधादन्यपरत्वनिश्चये स्वपरत्वाभावसिद्धेः । एवंच जगज्जन्मादिकारणत्वसाधनस्य शास्त्रारम्भार्थत्वेनोपासनार्थत्वाभावान्न जगत्कारणतया तस्योप।स्यत्वम् । न चार्थात् तथात्वम्, 2 अतत्परत्वस्योक्तत्वात् । किंच जन्माद्यधिकरणपूर्वपक्षे विशेषणत्वान्न तदारम्भाक्षेपः पूर्वत्र सिद्धार्थव्युत्पत्तिसाधनात् अनेक ब्रह्मपरत्वेनापि वेदान्तप्रामाण्यात् तदारम्भो- पपत्तेः । अभीष्टब्रह्मपरत्वेनानारम्भेऽपि तदारम्भाक्षेपासिद्धिः । सिद्धार्थ- व्युत्पत्त्यभावे तु केनापि प्रकारेण वेदान्तानां न सिद्धवस्तुनि प्रामाण्यमिति न तत्परत्वेनोपपत्तिरिति आद्यस्योपोद्धातत्वोपपत्तिः; कार्यपरत्वाभिमानात् सर्व- वाक्यानां पूर्वपक्षिणः । न तु जन्माद्यधिकरणपूर्वपक्षे सिद्धवस्तुपरत्वाक्षेप इति न तदानारम्भाक्षेपः । शास्त्रयोन्यधिकरणपूर्वपक्षेऽपि शास्त्रस्य न कात्स्न्येंनानारम्भ- शङ्का; केवलब्रह्मपरवाक्यानामेव प्रमाणान्तरसिद्धत्वेनानुवादलक्षणाप्रामाण्यात्, उपासनापरवाक्यानां प्रमाणान्तर सिद्धविषयत्वाभावात् विचार्यत्वेन तदारम्भाना- क्षेपात् । समन्वयाधिकरणपूर्वपक्षेऽपि नोपासनादिविचारारम्भाक्षेप इति स्पष्टमेव ; ब्रह्मासद्भावेऽपि ध्यानविध्युक्तेः । शास्त्रयोन्यधिकरणपूर्वपक्षेऽपि न सिद्धवस्तुपरत्वाक्षेप इति स्पष्टमेव । ननूपासनापरवाक्यानां गुणोपसंहारादिना विचार्यत्वेनापि न सिद्धवस्तु- परत्वेन तद्विचार इति न तदारम्भसिद्धिरिति — तन्न ; जन्माद्यधिकरण- शास्त्रयोन्यधिकरणपूर्वपक्षयोः सिद्धवस्तुपरत्वानाक्षेपाच्च चतुःसूत्र्या उपोद्वा- तत्वासिद्धेः । न च समन्वयाधिकरणपूर्वपक्षे सिद्धवस्तुपरत्वाक्षेप इति तस्योपोद्वा- तत्वम् ; बौद्धादिनिराकरणाधिकरणपूर्वपक्षेषु स्थाय्येकवस्त्वनभ्युपगमाद्वेद- प्रामाण्यस्यैवानभ्युपगतेश्च तदधिकरणानामप्युपोद्घातत्वापत्तेः प्राबल्ये हि सिद्धवस्तुपरत्वाद्याक्षेपः सिद्ध एव । अथाधिकरणान्तराणामुपोद्घातत्वप्रसक्तेर्न रिति-तन्न ; तदुपद्धातत्वयुक्त्यभावस्योक्तत्वात् ।
- कृत्वेति । कृत्वा चिन्तयेत्यर्थः ।
। तन्मतस्य चतुःसूत्र्युपोद्घातत्वनिवृत्ति- अतत्परत्वस्येति । उपासनपरत्वाभाबस्येत्यर्थः । ९. उपोद्घातनिर्णयः १६९ अयमर्थः — शब्दस्य सिद्धवस्तुपरत्वव्युत्पत्त्यभावयुक्तिर्ब्रह्मपरत्वेनोत्तरमीमांसानार- म्भहेतुः साक्षात् । तत्र सिद्धवस्तुप्रतीतिः केवला स्मृतिः । समन्वयाधिकरण- पूर्वपक्षे तु सिद्धवस्तुनि प्रामाण्यस्य सतः प्रवृत्यादिप्रयोजनाभावात् अफलत्वेना- प्रामाण्यशङ्कामात्रम् । स्मृतिस्त्वप्रमाणमेव । अतो न साक्षादाक्षेपः समन्वयाधि- करणपूर्वपक्ष | स्मृतेरप्रामाण्यमुक्तं स्वतः प्रामाण्ये | किंच वाचकपदशक्तिनिरूपणेन सिद्धवस्तुपरत्वाक्षेप आद्याधिकरण- पूर्वपक्षे | समन्वयाधिकरणपूर्वपक्षे तु पदवाच्यवस्तुनिरूपणेन तत्परत्वाक्षेप इति च व्यवधानम् । “यतो वै” इत्येकदेशवाक्यानामनेकविशेषणयुक्तानामतत्परत्व- शङ्काद्वारा कृत्स्नवेदान्तानामतत्परत्वशङ्का जन्माद्यधिकरणपूर्वपक्ष इति व्यवधानम् । व्यवधानात् येन केनापि प्रकारेणाप्रामाण्येनोपोद्धातत्त्रे पूर्वद्विकस्यैवोपोद्ध तत्वम् ; तत्र सर्वत्र पूर्वपक्षेषु प्रायेण सर्ववेदान्तवाक्यानां परमात्मपरत्वाक्षेपसाम्यादि- व्यलमतिविस्तरेण । तददर्शनात् । नापि भाष्यकारोक्तिस्वारस्यं चतुःसूत्र्युपोद्धातत्वे ; प्रत्युतानुपद्धातत्व एव तदुक्तयः । तथाहि तावत् दीपे – “ब्रह्ममीमांसा विषयः । सा किमारम्भणीया ? उतानारम्भणीया ?" इत्यादेः कण्ठोक्तिः । उत्तराधि- करणत्रिके च न तथोक्तिः । प्रत्युत “यतो वै” इत्यादिवाक्यस्यैव विषयत्वोक्तिः । प्रतिपादयन्त्येवेति तथा सारे शास्त्रयोनिसमन्वयाधिकरणपूर्वपक्षयोः तदप्रामाण्यशङ्कायां तन्निरास उपपन्न इत्युक्तिः । तथा तत्रैव " वेदान्ताः स्थिरीकृतम् " इत्युक्तिः । सिद्धार्थप्रामाण्यस्यास्थैर्ये तन्निरासे हि स्थिरी- कृतत्वोक्तिः । तथा भाष्ये प्रथमाध्याये द्वितीयपादारम्भे समन्वयाधिकरणार्थोक्तौ “शास्त्रप्रमाणकत्वं च” इत्याद्युक्त्वा “समन्वयान्निरुह्यते” इत्युक्तिः । प्रामाण्ये स्थिते निर्वाहशङ्कायां तन्निरासैर्हि निरूढत्वोक्तिः । तथा ईक्षत्यधिकरणारम्भे च पूर्वाधिकरणत्रयेण ब्रह्मणः “यतो वै" इत्यादिवाक्यप्रतिपाद्यत्वमेवोक्त- त्वेनोक्तम्; न तु शास्त्रस्यारम्भणीयत्वम् । “ईक्षत्यधिकरणादिना पादशेषेण वेदान्तवाक्यानां प्रधानादिप्रतिपादनानर्हतैवोच्यते" इत्युक्तम् ; न तु शास्त्राध्याय- प्रतिपाद्यजगत्कारणब्रह्मपरत्वम् । तदधिकरणप्रभृति शास्त्राध्यायारम्भे च तथैवोक्तिः स्यात् ; न तु प्रधानादिप्रतिपादनानर्हतोक्तिः । ब्रह्मणो जगत्कारणत्वे प्रतिपादिते हि तदितरस्य तदननोक्त्युपपत्तिः । अत आद्ये ब्रह्मपरत्वेन वेदान्तप्रामाण्येऽन्यत्र सर्वत्र पूर्वपक्षेषु तत्स्थैर्ये शङ्कामात्रमेव । 22 १७० नयद्यमणिः अतो जन्माद्यधिकरणप्रभृत्येवाधिकरणानामापादसमाप्तेरेकीकारः । अत एव हि सारे प्रथमपादान्ते “जन्माद्यस्य यत इत्यादिषु सद्द्ब्रह्मेति सामान्यशब्दैः जगत्कारणं प्रकृतिपुरुषाभ्यामर्थान्तरमिति साधितम् ; ज्योतिश्च- रणाभिधानात् इत्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगत्कारणमिति विशेषतो निर्णीतम्” इत्याद्युक्तिः । जन्माद्यधिकरणत्रयस्याप्युपोद्धातत्वे एतदुक्तिविरोधः, जगत्कारणवस्तु परत्वाभावात् । तथा भाष्येऽपीक्षत्यधिकरणा- दिषु प्रधानादेर्जगत्कारणत्वानुपपत्त्यादिकमेवोक्तम् । किंच “प्रकृतिश्च" इत्यधिकरणस्य जन्माद्यधिकरणोक्तनिमित्तोपादानद्वये उपादनांशाक्षेपसमाधानपरत्वस्य जन्मादिसूत्रे सारेऽभिहितत्वादाद्यस्यैवोपोद्धात- त्वम् ; न त्वन्याधिकरणत्रयस्याप्युपद्धातता । भाष्ये शास्त्रयोन्यधिकरणसमाप्युद्देशे " यत्तु निमित्तोपादानयोः ” इत्यादिग्रन्थे “प्रकृतिश्च" “न वियदश्रुतेः” इत्यधिकरणयोः शास्त्रयोन्यधिकरणपूर्वपक्षोक्तयुक्तिपरिहारपरत्वाभिधानमप्यु- पोद्धातत्वे न स्यात् । तथा प्रथमाध्यायद्वितीयपादाद्ये प्रथमपादाधिकरणार्थेक्ति- परंपरायां प्रथमसूत्रार्थोक्तौ “तदितिकर्तव्यतारूपशारीरकमीमांसाश्रवण- मारभेतेत्युक्तं शास्त्रारम्भसिद्धये” इति भाष्ये आद्यस्यैव शास्त्रारम्भकत्वमुक्तम् ; न तथोत्तराधिकरणानामर्योक्तौ आरम्भणीयत्व सिद्ध्यर्थतोक्तिः । तथा द्वितीयाध्यायोपक्रमे जन्माद्यधिकरणार्थस्यैव प्रथमाध्यायप्रति- पाद्यत्वमभिहितम् । तच्च न चतुःसूत्र्युपोद्धातत्वे उपपन्नम् । ईक्षत्याद्यधिकरणेषु प्रधानादेः कारणत्वानर्हतैवोच्यत इत्युक्तम् । तस्य तदनईत्वे च ब्रह्मकारणत्वं फलतीत्यध्यायस्य न तत्परत्वोक्तिर्भाष्यादौ । तथोत्तरद्विकोपक्रमे “अतिकान्ते- नाध्यायद्वयेन” इत्यादिभाष्ये द्विकस्योपास्यजगत्कारणवस्तुपरत्वोक्तेः जन्माद्यधिकण एव द्विकारम्भ इति न चतुःसूत्रयुपद्धातता । तथा सारे “परमतः” इति सूत्रार्थोक्तौ “जन्मद्यस्य यत इत्यारभ्य प्रतिपादितम् " इति ग्रन्थेन जन्माद्यधिकरणप्रभृत्येवैकार्थवशीकारधीः । एवमन्यत्राप्यनेकत्र आद्यस्यैवोपोद्घातत्वपरत्वोक्तिबाहुल्यमिति नाल्पशोऽपि चतु:- सूत्रयुपोद्घातत्वपरत्वोक्तिरित्यलं प्रपश्चेन । नापि चतुःसूत्र्युपद्धातत्वस्य सांप्रदायिकत्वम्; तस्य पूर्वोदाहृतानेक- भाष्यविरुद्धत्वेन भाष्यकाराणां संप्रदायप्रवर्तकत्वानुपपत्तेः; तत्र प्रमाणाभावाच्च । न हि भाष्यकारश्चतुःसूत्र्युपद्धातत्व संप्रदायप्रवर्तक इत्यत्र प्रमाणम् । न च— ९. उपोद्घातनिर्णयः " व्युत्पत्त्यभावः प्रतिपत्तिदौःस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि ॥ " इत्यर्वाचीनाचार्यवाक्यान्यथानुपपत्त्या १७१ भाष्यकाराणां तथासंप्रदायप्रवर्तक- त्वकल्पनेति ; स्वभाष्यविरोधे सति तथा कल्पनानुपपत्तेः; गाव्यादिशब्दवत् ‘तद्वाक्यस्य प्रमादादिमूलत्वेनान्यथोपपत्तेश्च । किंचास्मन्मतज्ञपरिबृढतमैः श्रीराममित्रैः प्रथमपादवित्ररणे आद्यस्यैवो- पोद्घातत्वेनोक्तत्वात् तस्यैव सांप्रदायिकत्वम् । तथाहि “ अत्रधिकरणे ब्रह्ममीमांसा विषयः । सा किमारभणीया ? उत नारभणीया ?” इति तैः प्रथमसूत्रे उक्तम् । उत्तराधिकरणत्रये तु न तथोक्तम् । किंच ईक्षत्यधिकरणारम्भे " जगत्कारणस्य प्रतिपाद्यता पूर्वमुक्ता । चिदचिद्वैलक्षण्यपूर्वकं प्रतिपाद्य- विशेषबुभुत्सात्रेति संगतिः" इति वदद्भिर्जन्माद्यधिकरणप्रभृत्येव शास्त्रारम्भ उक्त इत्यलमतिविस्तरेण । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयद्युमणौ उपोद्घातनिर्णयः
- तद्वाक्यस्येति । व्युत्पत्त्यभाव इत्याद्यर्वाचीनवाक्यस्येत्यर्थः । 2. विवरणे इति । श्रीभाष्यविवरणाख्ये ग्रन्थ इत्यर्थः । १०. कालनिरूपणम् कालशब्दस्य वाच्यार्थे विमतौ स्वजनेष्वपि । स शोध्यते यथातत्त्वं भाष्यकारमनीषितः ॥ कालस्तावन्न प्रधानतद्विकारमहदादिवत् पृथग्द्रव्यतयेष्टः । यत एवमुक्तं भाष्ये जिनपक्षनिराकरणे " कालस्य पदार्थविशेषणतयैव प्रतीतेः" इति । तेषां कार्यद्रव्यत्वं च “असंभवस्तु सतोऽनुपपत्तेः” इत्यादौ । द्रव्यत्वेऽपि परमात्मशरित्वाद्यभावे कालस्य परमात्मविज्ञानेन ज्ञातत्वमसिद्धम् यदि यत्र क्वापि भाष्यकारीयप्रन्थेष्वपि द्रव्यत्वाद्युक्तिः स्यात् सा प्रदर्शनीया तस्य पृथग्द्रव्यत्ववादिभिः । सा च शिरसोह्यते प्रमाणपूर्वकम् । तदात्वे द्रव्यत्वं चाङ्गीक्रियतेऽस्माभिः । ननु न " कालस्य" इत्यादिभाष्यं पृथग्द्रव्यत्वनिरासपरम् ; किंतु जीवादिभ्योऽस्तित्वनास्तित्वाद्यनैकान्त्यस्य पृथग्वक्तव्यतानिरासपरम् । अत एव हि स्यादस्तीत्यादिजैनग्रन्थानुसारेण “अस्तित्वनास्तित्वादयो न वक्तव्याः" इत्युक्तम् । 1 अयमर्थः — कालस्य पदार्थविशेषणतयैव प्रतीतेः पदार्थास्तित्वाद्युक्तेः पृथक् अस्तित्वनास्तित्वादयो न जैनैर्वक्तव्याः, पदार्थास्तित्वाद्युक्त्यैव विशेषणतयैव प्रतीयमानस्य तस्यास्तित्वादेः सिद्धत्वात् पृथगुक्तिवैयर्थ्यात् । ततश्च तस्यास्ति- त्वादयो न पृथक् परिहर्तव्याः । विशेषणतयैव प्रतीयमानस्यापि तस्य ‘कालो- ऽस्ति’ इति व्यवहारो व्यवहर्तॄणां निष्कृष्टार्थपरतया विशेषणतै कस्त्र भावजाति- गुणादिव्यवहारतुल्यः । एवं भाष्यस्यान्यपरत्वे समानतन्त्रन्यायेन वैशेषिकाद्युक्त- कर्मगुणस्वीकारवत् कालस्य तदुक्तस्य स्वीकारोऽभिमत इति चेत्- तन्न ; युक्तिविरुद्धत्वात्, पूर्वापरविरुद्धत्वाच्च । न हि विशेषणतैकान्त्योक्त्यैव
- अत्र चेत्थं सर्वार्थसिद्धिपङ्क्तिरवधेया - " ननु जैननिराकरणे कालत्वित्यादिना भाष्येण कालेो निराकृत इव भाति । नैवम् । सर्वप्रतिपत्तिषु तत्तत्पदार्थविशेषणतया सर्वलोकानुभृतस्य न बौद्धादिभिर्नास्तित्वं वक्तुं शक्यम् । न च त्वया पृथक् तदस्तित्वं साध्यम् । कालोऽस्तीत्यादिव्यवहारस्तु अपृथक्सिद्ध- विशेषणानां निष्कृष्य व्यवहारवदिति तन्निर्धारणे तात्पर्यात् । अन्यथा शास्त्रैः स्वग्रन्थान्तरै; संप्रदायैश्च विरोधः स्यात्” इति ।१०. कालनिरूपणम् १७३ विशेषणानै कन्व्यसिद्धिः 1 विशेष्यद्रव्याणामस्तित्वनित्यत्वकत्वेषु सत्स्वपि पर्यायशब्दवाच्यानां विनाशादनित्यत्वाद्भिन्नत्वाच्चानैकान्त्यासिद्धेः । अवस्थाना- स्तित्वादिभिरेव द्रव्याणां नास्तित्वादय इत्यैनकान्त्याभिमानः पूर्वपक्षिणः । पर्यायाणां सर्वद्रव्यविशेषणतैकस्वभावानामपि पृथग्वस्तुत्वात् भाष्यकारस्यापि तदभिमतेः, द्रव्यास्तित्वादिना पर्यायास्तित्वाद्यसिद्धेरनैकान्त्यं पृथग्वक्तव्यमेव । भाष्यकारैर्हि एतदधिकरण एवावस्थानां द्रव्यविशेणौ कस्वभावत्व पृथक्पदार्थ- स्वादिकमुक्तम् । दीपे च " द्रव्यस्य तद्विशेषणभूतपर्यायस्य इत्थंशब्दाभि- धेयावस्थाविशेषस्य च ’ इदमित्थम्’ इति प्रतीतेः प्रकारप्रकारितया पृथक्पदा- र्थत्वात्" इत्यादी । अत एव हि जैनैरपि पर्यायाणां पृथगेवानैकान्त्यसाधनम् । यत एवमुक्तम् — “पर्यायास्तु स्वरुपेण सदसन्तः कचित्कचित् । सत्त्वादसत्त्वात्” इति । नित्यद्रव्याणां पर्यायाभावेऽप्यनैकान्त्यं तैरेवोक्तम् — ! " द्रव्याणामपि नित्यानां क्वचिदेशे सत्त्वात् क्वचिदसत्त्वात् सदसत्त्वम्" इति । अतो विशेष्यसदसत्त्वाभ्यां न विशेषण सदसत्त्वमिति पूर्वपक्षराद्धान्नयोर्नान्यतर- पक्षसिद्धत्वम् ; विशेष्यसदसत्त्वादिना विशेषण सदसत्त्वासिद्धेः । कारणस्थायि- द्रव्याविनाशेन घटाद्यवस्थानामेव विनाश इष्टः; सत्कार्यत्वसाधनात्, सतो निरन्वयविनाशाभावाभिधानाच्च । नन्वत्र विशेषणशब्दस्य गुणपरत्वमेवेष्टम् ; न तु पर्यायपरत्वम् । ततश्च विशेष्यघटादिसत्त्वान्वयव्यतिरेकानुविधायित्वाद्रूपस्पर्शादेर्न पदार्थव्यतिरेकेण विशेषणानां सदसत्त्वसाधनोपपत्तिः – तन्न ; घटादिपदार्थनाशेऽपि रूपरसादेर- विनाशात्, घटादिपदार्थसत्तायामपि पाकात् तद्रूपरसादेर्विनाशाच्च तत्रापि तदन्वयात् । एवं विशेषणतयैव प्रतीयमानस्याप्यनैकान्त्यस्य पृथग्वक्तव्यत्वे, तैरपि तथोक्ते, अस्माभिरपि परिहारोऽपि पृथग्वक्तव्यः । ननु तर्हि पूर्वपक्षराद्धान्तयोरवस्थानामनैकान्त्यतत्परिहारौ भाष्यादौ कथं न कृताविति चेत्–तन्न । “सर्वं च वस्तुजातम्" इत्यादिभाष्ये सर्वशब्देन विशेषणानामप्युपात्तत्वात् । अत एव हि भाष्ये तेम्मत विवरणग्रन्थे “ सर्व वस्तुजातं द्रव्यपर्यायात्मकम्" इत्युपक्रम्य " तद्विपरीतम्" इत्यन्तेन द्रव्याणाम- “नैकान्त्यमुक्त्वा “पर्यायाश्च द्रव्यस्यावस्थाविशेषाः । तेषां च भावाभा- वरूपत्वात् सत्त्वादिकं सर्वमुपपन्नम्” इति इति अवस्थानामनैकान्त्यस्य पृथगुक्तिः । राद्धान्तेऽपि " एकस्मिन् वस्तुन्यस्तित्वनास्तित्वादेर्विरुद्धस्य छायातपवद्युगपदसंभवात्” इति भाष्येणैकहेलया सर्वांनैकान्त्य निरासः । १७४ · नयद्यमणिः अत एव हि दीपे “एकस्य पृथिवीद्रव्यस्य” इत्यादिग्रन्थतः प्रदेश विशेष संबन्धासंबन्धाभ्यां घटाद्यवस्थानैकान्त्य निरासः । एवं सारेऽपि " तथा घटत्वशवित्वाद्यवस्थाश्च पृथिव्यादेः प्रदेशभेदेन" इति ग्रन्थे तन्निरासः । एवं च कालस्याप्यत्रस्थाविशेषणतकस्वभावत्वे “नैकस्मिन्नसंभवात् " इति सूत्रव्याख्योपक्रमप्रभृति " तत्तु समन्वयादित्यत्र प्रपञ्चितः" इत्यन्तं यद् भाष्यजातम्, तेनैव तस्य पृथग्द्रव्यत्वे तदभावे चनिकान्त्यनिरासः सिद्ध इति, न पृथगनैकान्त्यनिरासशङ्काधिक्यं चेति उत्तरभाष्यस्य तत्परत्वे तद्भाष्यवैयर्थ्यमेव । अथानेकदेशवर्त्यस्तिकायानैकान्त्यनिरासः पूर्वम् । ‘अनस्तिकायकालाने- कान्व्यं तद्भाष्य इति — तन्न ; पूर्वभाष्यैरेव सर्वानैकान्त्यनिरासे च न पुनस्तत्राधि- क्यमित्युक्तत्त्रात् ; वर्णगन्धरसादियुक्तपुद्गल भेदादन स्तिकायकालस्यानैकान्त्य- निरासपरता, न स्त्रविशेषेणानस्ति कायपरमाणूनामिति तदनैकान्त्यस्य पृथङ्गिरासे विशेषणतयैव प्रतीयमानावस्थानैकान्त्यस्यापि पृथक् निरासापातात् । न च विशेषणतकस्वरूप कालानै कान्त्य निरासेनोपलक्षणतया अवस्थानैकान्त्यनिरासः सिद्धः; कालपदस्य लक्षणापत्तेः । विशेषणानां पुनरपि तन्निरासे च न शङ्काधिक्यमित्युक्तम् । कथंचन विशेषण भूत सर्वानैकान्त्यनिरासपरत्वसाधनेऽपि तस्य पृथग्द्रव्य- त्वनिरासः सिद्धः । विशेषणतयैवेति सावधारणम् ; विशेषणस्वभावत्वस्य सिद्धवदभिधानात् । द्रव्यत्वे च तस्म गुणाश्रयत्वेन विशेष्यत्वाभिमती विशेषणतयैवेत्युक्तिवैयर्थ्यम् । विशेषणतैकस्वभावजात्यादिव्यवहारतौल्योतिरपि विरुद्धा ; द्रव्यत्वे पृथिव्यादिवत् पृथगस्तित्वादिप्रतीतिव्यवहारार्हस्यात् । न च परपक्षमात्र निरासपराधिकरणेऽस्मिन् स्वमतकालपदार्थस्वरूप- कथनानुपपत्तिः । बौद्वनिरासपराधिकरणे स्वमताकाशसत्तासाधनवत् प्रस्तुततत्स्व- रूपस्याप्युपपन्नत्वादित्यलं कोलाहलेन ।
- अस्तिकाय इति द्रव्यविशेषे जैनानां परिभाषा । तदुक्तं भाष्ये- “अणुव्यतिरिक्तद्रव्याणि पञ्चास्तिकाया इति च संगृह्यन्ते, जीवास्तिकायो धर्मास्तिका- योऽधर्मास्तिकाय: पुद्गालास्तिकाय आकाशास्तिकाय इति । अनेकदेशवर्तिद्रव्ये अस्तिकायशब्दः प्रयुज्यते” इति । “पुद्गलो नाम वर्णगन्धरसस्पर्शवद् द्रव्यम् । तच द्विविधम् — परमाणुरूपं संघातरूप च’ इति च तत्रैव व्यक्तम् | “कालस्तु ‘अभूदस्ति भविष्यति’ इति व्यवहारहेतुरणुरूपा द्रव्यविशेषः” इति च भाषितम् । १०. कालनिरूपणम् १७५ | अतस्तद्भाष्यं पूर्वोक्तप्रक्रियया तस्य पृथग्द्रव्यत्वनिरासपरमेव अन्यत्र च न द्रव्यपरत्वोक्तिर्भाग्यादावित्युक्तम् । भाष्यकारेभ्योऽर्वाचीनोक्तिषु ‘तदुक्तिविरुद्धासु तासु नास्माकं विश्वासः । वयं हि माष्यकारमतानुसारिणः । 1 कालस्य च नित्यद्रव्यत्वाभिमतौ ब्रह्मकार्यत्वाभावान्न ब्रह्मविज्ञानात् तद्विज्ञानम् । तस्य च कार्यत्वे ब्रह्मणि लीनत्वात् अभूदित्यादिकालव्यवहारः प्रलयेऽनुपपन्न इत्युभयतः स्पाशा बन्धनी रज्जुस्तस्य पृथग्द्रव्यत्ववादिनाम् । न च " सर्वे निमेषा जज्ञिरे विद्युत: 2 पुरुषादधि" इत्यादौ कालस्योत्पत्तिः श्रूयत इति । तच्छुनेर्मुहूर्तादिकालकल्पनायाः परमात्मकर्तृकत्वमा- त्रपरत्वात् । अन्यथा प्रलये कालाभावप्रसङ्गः । अत एव हि “सहस्रयुगपर्यन्तम्” इति श्लोकभाष्ये “ये मनुष्यादिचतुर्मुखान्तानां मत्संकल्पतोऽहोरात्रविदो जनाः” इत्युक्तिः । प्रकृतितत्कार्याणां चेतनानां च वियत्पादादौ ब्रह्म कार्यत्वादिर्निरूपितः । “अशो’ नानाव्यपदेशात्” “उभयव्यपदेशात्" इत्यत्र तेषामेवांशत्वं निरूपितम् । तत्र तु न क्वचिदपि कालप्रसङ्गः । तर्हि कस्मिन् पदार्थेऽन्तर्भावस्तस्येति चेत् — उच्यते । आदित्यादीनां भगवत्कारितविसदृश परिणामावस्थ पृथिव्यादिदेश संबन्धनिबन्धनत्वात् काल- व्यवहारस्योपाधिकत्वमेवेति 1 नियतदेश संबद्धाश्विन्याद्युपलाक्षित देश संबन्धे हि चन्द्रसूर्ययोरश्विन्यादिनक्षत्र संज्ञा ; वेस्तत्र स्थितौ मेषादिमाससंज्ञा ; खेरत्यन्तसंयोगविभागयोः अन्यतरपुरःसरं पृथिव्यादिदेशविशेषस्य चन्द्रसंबन्धे करणसंज्ञा ; मेषादिस्थानाच्चन्द्रमसो विभागस्य समाप्तिपर्यन्ततत्संबन्धे शुक्लपक्षसंज्ञा ; तत्संयोगसमाप्तिपर्यन्ततत्संबन्धे कृष्णपक्षसंज्ञा ; तयोरेव च
अर्वाचीनोक्तिसामान्यं विरुद्धमिति सर्वत्र स्वस्थाविश्वास इति च मति- व्युदासाय क्वचिदेवा विश्वासस्पष्टत्वाय तदुक्तीत्यादति पदम् । 2. विद्युतः विद्युद्वर्णात् । पुरुषस्यादित्यवर्णत्ववत् विद्युद्वर्णत्वं शुभाश्रय- विग्रहद्वारा 1 कालाख्यं द्रव्यमनन्त निमेषरूपेणान्तयामिसंकल्पात् परिणमतीति एकदेश्याशयः । 3. अंशाधिकरणं चेतनानां ब्रह्मांशत्वनिरूपकम् । उभयव्यपदेशादिति सूत्रयुक्ते अहिकृण्डलाधिकरणे पूर्ववद्वेति सूत्रेण प्रकृतितत्कार्याणां ब्रह्मांशत्वं साधितम् । न ह्येवं कालस्य कचिदपीत्याशयः । 4. तयोः शुक्लकृष्णपक्षयोः समुदितयोः । १७६ नयद्युमणिः ; चैत्रादिमाससंज्ञा ; पितॄणां दिवारात्रसंज्ञा तयोः; मकराख्यदेश संबन्धप्रभृति धनुरराख्यदेशविभागावसाने देवानां दिवारात्र संज्ञा तद्विवृद्धितारतम्यात् युगमन्वन्तरपरार्धादिसंज्ञा ज्योतिःशास्त्रपुराणादिसिद्धा । अतः सूर्यादि - संबन्धविशेषोपाधितः पृथिव्यादिदेशानामेव कालसंज्ञा । पितृदिनादेरपि तथैवेति प्रदर्शितम् । मनुष्यदिवारात्रितारतम्यैरेव तेषां दिनाद्यभिधानात् पृथिव्यादिदेशस्यैव स्वरश्मिद्वारा दर्शनयोग्यादित्यसंबन्धे सति तस्य दिवासंज्ञा । दर्शन योग्य तद्विभाग व देशस्य रात्रिसंज्ञा । अहर्विभागोऽपि न नियत इति पुराणदिसिद्धम् ; मेरोदक्षिणभागस्थे आदित्ये उत्तरभागेषु रात्रित्वाभिधानात् । एवं सर्वत्र द्रष्टव्यम् । पृथिव्यादिदेशस्यैव आदित्यादिसंयोगाद्यवस्थस्य कालसंज्ञा तस्यै- वाधारत्वावस्थया देशसंज्ञावत् । देशो हि न पृथिव्याद्यतिरिक्तो द्रव्यविशेषः । तथापि देशव्यवहारोऽपि कालव्यवहारवद्बहुलमुपलभ्यते । अतो व्यवहारान्यथानु. पपत्या कालस्य न पृथग्द्रव्यत्वम् ; उपहितावस्थातः कालव्यवहारोपपत्तेः । पूर्वमीमांसायां तु आदित्यगतिप्रचयस्य कालत्वमुक्तम् । तत्पक्षेऽपि पदार्थवि- शेषणता तस्य नानुपपन्ना ; तस्य गम्यमानत्वाकारेण पदार्थानां तत्संबन्धाविशे- षात् । न तु नित्यकालद्रव्यसद्भावे प्रमाणमित्युक्तम् । ननु - “ विष्णोः स्वरूपात् ‘परतोदिते द्वे रूपे प्रधानं पुरुषश्च विप्र । तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरं तद् द्विज काल संज्ञम् ॥” इत्यादौ प्रकृतिपुरुषद्रव्यवत् तस्य पृथग्दव्यता युक्ता — तन्न ; परमात्मशरीरखेन पृथगभिधानात्
- अत्र तात्पर्यचन्द्रिका - " परतोदिते । परत उदिते इत्यर्थः । आर्षः संधिभेदः । यद्वा स्मृतिरपीयं प्रलयपरैव, तत्प्रकरणस्थत्वात् । दो अवखण्डने इत्यस्य दिते इति निष्ठान्तं पदम् । पृथग्भूते इत्यर्थः । तेन प्रलयदशायामपि प्रधान- पुरुषेश्वराणां मिथः स्वरूपभेदोऽस्त्येवेत्युक्तं भवति । अदिते इति वा पदच्छेदः । अपृथग्भूते इत्यर्थः । तेन विभागानर्हः संश्लेष उक्तो भवति, प्रलयप्रकरणस्थत्वात् ; अत्रापि पूर्वोत्तरोपादीयमानस्मृतिसमानार्थत्वाभिप्रायाच्च" इति । १०. कालनिरूपणम् "" प्रधानपुरुषव्यक्त कालस्तु प्रविभागशः । रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः || ” १७७ इत्यादौ प्रकृतिपुरुषवद् व्यक्त्याख्यावस्थाविशेषापन्नपृथिव्यादिसंघातस्यापि पृथ- कपदार्थस्वरूपत्वाभिधानात् पृथग्द्रव्यत्वापत्तेः । अतः प्रनष्टादित्यादिज्योतिर्गणैः अत्यन्तविभक्तभगत्रत्कारित सदृशपरिणामप्रधानादिद्रव्यस्यैव तच्छ्लोके कालसंज्ञा- विषयता, विभक्तनामरूपावस्थापन्नपृथिव्यादेः व्यक्तसंज्ञावत् । कालस्य रूपान्तरत्वोक्तिवत्, “व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् " इत्यादैा व्यक्तावस्थस्यापि रूपान्तरत्वं श्रीमता पराशरेणोक्तम् । प्रकृति- पुरुषसंयोगविभागादेः पुरुषकर्मानुगुणभगवदिच्छाप्रवृत्तसमविषमपरिणामस्य प्रधानस्य भगवत्संकल्पकल्पितादित्यादिसंयोगविभागावस्थाधीनत्वात् “अन्येन धृते वियुक्ते” इत्याद्युक्तिरप्युपपन्ना । प्रलयकाले सत्त्वादिगुणसाम्यादेकरूप- परिणाम एव प्रधानस्य ; सृष्ट्यादौ तु सत्वादिगुणवैषम्याद्विषमः परिणामः; न कदाचिदपि परिणामराहित्येन स्थितिः कल्प्या, संततपरिणामिस्वभावत्वादिति 2 भाष्यादौ व्यक्तम् । द्रव्यस्यैवावस्थान्तरापन्नस्य कार्यकारणभावे अवस्थान्तराख्य- कार्यस्य पूर्वावस्था सापेक्षत्वस्य घटाद्यवस्थोत्पत्तेः पिण्डाद्यवस्थादिषु दृश्यमा- प्रकृतिपुरुषयोर्वियुक्तत्वेन धार्यावस्थयोरादित्यादिविभागापेक्षया सापेक्षता च युक्ता । तस्यास्तदपेक्षत्वं च शास्त्रकसमधिगम्यम् । घटाद्य- बस्थादौ तु प्रत्यक्षगम्यम् | नत्वात्
अयमर्थः — यद्यप्यवस्थायाः द्रव्यत्वव्यतिरेकेणोपलब्ध्याद्यन हेत्वेन सावस्थ- द्रव्यस्यैव प्रतीत्यादिविषयत्वम् ; तथापि प्राप्ताप्राप्त विवेकेनावस्थाधीनत्वाद्वि- शिष्टप्रतीत्यादिविषयत्वस्य उपृथिव्यादेरादित्यादिसंयुक्ताद्यवस्थाया एवाहोरात्रादि- कालव्यवहारविषयत्वमिति । तस्य ननु " अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते " इत्यादौ नित्यत्वैकत्वयोरभिधानात् अवस्थानां चानित्यत्वादनेकत्वाच्च न
- अयमत्र श्लोकार्थ :- प्रधानपुरुषव्यक्तकालाख्यानि भगवद्रूपाणि सर्वकार्याणां स्थित्युत्पत्तिनाशानां ज्ञसौ संभवे च हेतव इति । अत्र प्रधानादीना- मुत्पत्यादौ यथासंभवमन्त्रयोऽभिमतः ।
“नित्यं प्रसवधर्मिणी” नित्या सततविक्रिया" इत्यादिकमत्र भाव्यम् । 3. पृथिव्यादेरिति । शाब्दिकास्नु सांख्यमतानुसारेण शब्दतन्मात्र- परिणामः काल इत्याहु: । अहोरात्रादिव्यवहारश्वादित्यगत्युपाधिक इति तेषां मतम् । 23 १७८ कालत्वोपपत्तिरिति नमणिः आदित्यगत्युपहित कालद्रव्यस्यैवाहोरात्रादिव्यवहारविषय- त्वम् — तन्न ; मुहूर्तादीनां प्रवाहरूपेणाविच्छेदादप्यनाद्यनन्तत्वोपपत्तेः अवस्थाविशेषाणां कालव्यवहारोपाध्यैक्यादेकत्ववचनोपपत्तेः नित्यैकद्रव्यकल्पनायां प्रमाणाभावात् । भगवता पराशरेणापि तस्य न द्रव्यत्वमुक्तम् । पृथग्द्रव्यत्वाभावादेव श्रीगीताभाष्ये “अक्षयः काल: " इत्यत्र “मुहूर्तादिमयोऽक्षयः” इति मुहूर्तादिमयस्यैव कालत्वमुक्तम् । मयट् चात्र स्वरूपे ; न तु विकारे ; तथात्वे कालो मुहूर्तादिविकारः स्यात्; मृद्विकारघटादिवत् । न तु कालविकारो मुहूर्तादिः । तदा कालमयो मुहूर्तादिरित्युक्तिः स्यात् । अतः ‘कालोऽप्येका प्रकृतिः; तद्विकारो मुहूर्तादिः’ इति पक्षो निरस्तः । न च तथोक्तिर्भाष्यादौ । नापि प्राचुर्ये; तथा मुहूर्ताद्यतिरिक्तः कालः स्यात् । न च तथेष्टमित्युक्तम् । मुहूर्तादिमयः मुहूर्तादिस्वरूप इत्यर्थः । अत एव हि वेदार्थसंग्रहे “निमेषकाष्ठाकला मुहूर्तादिपरार्धपर्यन्ताप- रिमितव्यवच्छेदस्वरूपसर्वोत्पत्तिस्थितिविनाशादिसर्वपरिणामनिमित्तभूतकालकृते " इति ग्रन्थे कला मुहूर्तादिस्वरूप एव काल इत्युक्तम् । एतद्ग्रन्थेनैव “कालस्य” इत्यादिभाष्यस्य कालानैकान्त्यनिरासपरत्वपक्षेोऽपि निरस्तः; अत्रापि तद्वयवच्छेदस्वरूपत्वाभिधानात् । विशेषणानामेव हि व्यवच्छेदस्वरूपत्वम् । द्रव्यत्वाभिमतौ तु प्रधानपुरुषविशिष्ट परमात्मनः कारणत्वाद्युक्तिवत् तद्विशिष्टत्वेना- प्युत्तरत्र तदुतिः स्यात् । तथा च “कालाः परिमाणिना” इति सूत्रे भाषितम् - “कं पुनर्भवान् कालं मत्वाह ? येन मूर्तीनामुपचयाश्चायचयाश्च लक्ष्यन्ते तं कालमाहुः । तस्यैव कयाचित् क्रियया युक्तस्याहरिति रात्रिरिति च भवति । कया क्रियया ? आदित्यगत्या तयैवासकृदावृत्तया मास इति संवत्सर हति च भवति” इति । वस्तूनामौपाधिकं भेदं प्रसाधयति हरिः कालसमुद्देशे । यथा— इति । “तस्यात्मा बहुधा भिन्नो भेदैर्घमान्तराश्रयैः । न हि भिन्नमभिन्नं वा वस्तु किंचन विद्यते ॥ नैको न चाप्यनेकोऽस्ति न सितो नापि चासितः । द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥ संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः । संभिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ॥” 1 १०. कालनिरूपणम् १७९ न च तद्वदतः कलामुहूर्तादिस्वरूपस्यैव कालत्वमभिमतम् । अत एव हि “कलामुहूर्तादिमयश्च कालः” इति प्रमाणोदाहरणम् । तत्र मुहूर्तादित्वं चादित्यादिसंयोगाद्यवस्थपृथिव्यादेः तद्गतिविशेषप्रचयस्य वेत्युक्तम् | अत एव हि “त्रिंशद्भागं तु मेदिन्यास्तदा मौहूर्तिकी गतिः” इत्यादि वचनम् | एवंरूपकालस्य प्रवाहरूपेण स्थायित्वात् " तदेतदक्षयम्” इत्यादी जगतोऽक्षयत्वव्यवहारवत् कालस्याश्चयत्वव्यवहारश्च युक्तः । तस्य पदार्थ- विशेषणत्वोक्तेः निव्यकालस्य तद्विशेषणत्वाप्रतीतेः अहोरात्राद्यात्मककालस्यैव तद्विशेषणत्वप्रतीतेश्च न नित्यकालद्रव्यत्वाभिमतिः । नित्यसर्वगतकालद्रव्यसिद्धौ ह्यादित्यादिगतेरेव व्यवच्छेदकल्पना । ननु " प्रकृतिपुरुषकालात्मक" इति गधे प्रकृतिपुरुषवत् तस्य पृथगभि- धानात् द्रव्यत्वमभिमतमिति – तन्न ; तत्र तथानुक्तेः 1 । पृथगुक्तिस्तु औपाधि - कार्थपरत्वेनाप्युपपन्ना । ननु “स्वाधीनत्रिविधचेतनाचेतन" इति ग्रन्थे चेतनत्रैविध्यवत् प्राकृताप्राकृतकालरूपेण चेतनत्रैविध्यमुक्तमिति तस्य पृथग्द्रव्यत्वाभिमतिः- तन्न ; अचेतनार्थे त्रिविधपदान्वयप्रमाणाभावात् । पृथग्द्रव्यत्वसिद्धौ हि तदन्वयकल्पना । अन्वयेऽपि न तस्य पृथग्द्रव्यत्वम् । नाप्यत्रान्वयः । तद्व्यतिरेकेण सत्त्वादेः उद्भूतानुद्भूतावस्थाभेदेन प्राकृताचेतनद्रव्यं द्विविधम् । शुद्धसत्त्वाप्राकृताचेतनमेकमिति त्रैविध्यादित्येषा दिक् । शेषं नयप्रकाशिकायां प्रपश्चितम् । ‘वादिसिंह कृतार्चिरादिग्रन्येऽपि पृथक् प्रकृतिपुरुषविशिष्टब्रह्मणः
- तथानुक्तेरिति । पृथकूद्रव्यत्वेनानुक्तेरित्यर्थः ।
- श्रीमति रहस्यत्रयसारे तत्त्वत्रयाधिकारे कालस्य पृथग्द्रव्यत्वसिद्धान्तानु- सारेण त्रिविधपदस्याचेतनेऽप्वन्वय इष्टः ।
- अचेतनशब्देन कालस्याविवक्षितत्वे कथमचेतनस्य त्रैविध्यमित्यत्राह— तद्वयतिरेकेणेति ।
- वादिसिंहेति । एवमुपनामा कश्चित् एतत्पूर्वाचार्यः स्थित इति इतो ज्ञायते । कवितार्किक सिंह श्रीवेङ्कटनाथदेशिकः पुनरितोऽर्वाचीनः कालस्य पृथग्द्रव्यत्वमेव बहुसंमतमातिष्ठत । “बोढा त्रिगुणानेहोजीवेश्वर भोगभूतिमति- भेदात्” इति च गण्यते । मत्यपरपपर्यायधर्मभूतज्ञानस्येव कालस्य विशेषणतै- कस्वभावत्वमित्यन्यदेतत् । १८० नययुमणि: कारणत्वमभिहितम् । तथा ब्रह्मणः प्रकृतितत्कार्यपुरुषाणां च स्वरूपमभिहितम ; न तु कालस्येति पूर्वाचार्याणामयमेव मार्गोऽभिमत इति सर्वं सुस्थम् । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयधुमणौ कालनिरूपणम् 0 ११. प्रमाणनिरूपणम् श्रियः श्रियं तुरङ्गास्यं ‘हंसार्जुनवपुः श्रियम् । प्रपन्नार्तितमश्छेद प्रचण्डकिरणं परम् ॥ लक्ष्मणाग्रजदूतं च जिताशेषरिपुं हरिम् । श्रीमद्रामानुजाचार्यान् नाथायश्चात्मनायकान् ॥ प्रपद्य मेयमानानां भाष्यकारस्य संमतः । 2 सुखग्रहणसंसिद्धयै रूपसंख्यादिरुच्यते ॥ तत्रान्यप्रमाणानपेक्षमर्थपरिच्छेदकं ज्ञानं प्रमाणम् । अर्थपरिच्छेदेऽ- न्यप्रमाणसापेक्षस्मृतावतिव्याप्ति परिहारोऽन्यप्रमाणानपेक्षमिति पदात् । अर्था- परिच्छेदकमूर्च्छाद्यवस्थात्मधर्मभूतज्ञानेऽतिव्याप्ति परिहारः अर्थपरिच्छेदपदात् । ज्ञानस्यापि स्वसत्तयैव स्वपरिच्छेदकत्वेन स्वाश्रयात्मने प्रकाशमानत्वात् तत्र नाव्याप्तिश्च । ज्ञानं हि स्वस्फूर्तावपि स्वयमेव हेतुः । परिच्छेदः स्फूर्तिः; व्यवहारयोग्यतेति यावत् । तदापादकमर्थपरिच्छेदकम् । कथंचिदर्थपरिच्छेदक- स्मृतिव्यतिरिक्तालो केन्द्रियादिष्वतिव्याप्तिपरिहारो ज्ञानपदात् । स्मृतिश्च भावनासंस्कारासाधारणकारणं ज्ञानम् / भावनासंस्कारसाधारणकारण- लिङ्गपरामर्शादावतिव्याप्तिपरिहारोऽसाधारणग्रहणात् । वेगादिसंस्कारासाधारण- कारणशरकर्मादिष्वतिव्याप्तिपरिहारः भावनाग्रहणात् । स्मृतिव्यतिरिक्तानुभूतिः प्रमाणमिति वा लक्षणमस्तु । पूर्ववदेव व्यावृत्तिः ।
- अर्जुनेति । धवलेत्यर्थः ।
- सुखग्रहणेति । प्रमाणलक्षणं बहुभिर्बहुधा व्याहृतम् । यथा- अविसांवादि ज्ञानं प्रमाणमिति बैद्धाः । सम्यगनुभवः प्रमाणमिति नैयायिकाः । इदमविसंवाद्यगृहीतार्थग्राहकं प्रमाणमिति भाट्टाः । अनुभूतिः प्रमाणमिति प्राभाकराः । तथा— प्रत्यक्षं कल्पनापोढमभ्रान्तमिति बौद्धाः । इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप- देश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति नैयायिकाः । अर्थेन्द्रियसंप्रयोगात् संप्रयुक्तार्थगोचरं विज्ञानं प्रत्यक्षमित्यपरे । सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमिति जैमिनीयाः । साक्षात् प्रमितिः प्रत्यक्षमिति प्राभाकराः । एवं बहुधोक्तत्वादनिर्णये प्रसक्ते सुखेन निर्णयार्थमित्यर्थः । 1 १८२ नयद्यमणिः ननु स्वतः प्रामाण्ये’ अन्यानपेक्षया अर्थपरिच्छिन्नं प्रमाणमित्युक्तम् ; इहार्थपरिच्छेदकं प्रमाणमिति । तत् कथम् ? तत्रोच्यते । तत्र अर्थज्ञानस्या- र्थपरिच्छेदफलकत्वात् परिच्छिन्नस्य तस्य प्रमाणत्वाभिधानेऽपि विरोधाभावात् अव्याप्यादिराहित्ये उभयोरन्यतरस्य प्रमाणलक्षणत्वे न कश्विद्विरोध इति । भाष्यादौ च नानाप्रकारता दृश्यते । तथाहि — " प्रत्यक्षस्य ह्येष स्वभावः, यत् स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम्” इति । तथा “धियो हि धीत्वं स्वप्रकाशता च ; ज्ञातुर्विषयप्रकाशतयोपलब्धेः " इति । तथा “अनुभूते- रनुभूतित्वं नाम” इत्याद्युक्त्वा “स्वसत्तयैव स्वविषयसाधनत्वं वा” इति । तथा " स्वसत्तयैव स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम्” इति । “यथा प्रकाशयत्येकः” इत्यत्र “स्वकीयेन प्रकाशयति” इति । एवमादिष्वर्थ- परिच्छेदकत्वस्य प्रमाणत्वमुक्तम् । तथा “विषयप्रकाशतयैवेोपलब्धेरेव हि संविदि स्वयंप्रकाशता समर्थिता” इत्यादौ विषयप्रकाशतायाः प्रामाण्यमुक्तम् ; विषय- प्रकाशत्वं नाम तत्संबन्धितया स्फूर्तिः । तथा “बुद्धेर्भेदम्” इत्यत्र “बुद्धिर्विवेक- पूर्वकनिश्चयरूपं ज्ञानम्” इति । तथान्यत्र “ज्ञानं वस्तुनिश्चयः” इत्येवमादिषु । तस्य । अथार्थपरिच्छेदकत्वस्य प्रामाण्यत्वे तु न स्वतस्त्वम् ; परिच्छेद- कत्वस्य सामर्थ्यरूपत्वेनाप्रत्यक्षत्वादिति – तन्न ; व्यवहार एव नियतपूर्व- क्षणवर्तित्वस्यैवार्थपरिच्छदकत्वरूपत्वात् च प्रत्यक्षत्वात् स्वत- स्त्वोपपत्तेः । “मत्तः स्मृतिर्ज्ञानम्” इत्यत्र “स्मृतिरनुभूतविषयं ज्ञानं पूर्वानुभूतसंस्कारमात्रजं ज्ञानम्” इति स्मृतिस्वरूपमुक्तम् । अत उदाहृत- लक्षणानि भाष्यकारमतानुसारीणि । अतस्तद्विरुद्धम् “अगृहीततत्वग्रहणशक्तं ज्ञानं प्रमाणम्” इत्यस्मदीयैः कैश्चिदुक्तं लक्षणम् । सर्वज्ञानानां तत्त्वग्रहणशक्तत्वेन तत्वपदव्यावर्थ्याभाव इति तस्वपदाधिक्यं च । यत्तु तार्किकैदेशिभिः “स्मृतिव्यतिरिक्तानुभूतिः प्रमाणम्” इत्यस्य दूषणमुक्तम् “प्रथमाध्याये बौद्धादीन् प्रत्यनुभूतिप्रामाण्यासाधनादनुपपन्नम् " इति - तन्न; दर्शनानभिज्ञतयैवोक्तत्वात् । प्रथमाध्याये हि शब्दानामर्था- संस्पर्शित्वनिरासे प्रवृत्त्यानुभूतित्वमेव साध्यते । लौकिकवाक्येष्वर्थासंस्पर्शित्वस्यापि दर्शनाद्वैदिकेष्वपि संशयादप्रामाण्ये लौकिकवाक्यानां पुरुषबुद्धिमूलखनाप्तखाद्य-
- स्वतः प्रामाण्ये | स्वत: प्रमाण्यनिरूपणार्थे एतदुग्रन्थीये परिच्छेदे ।११. प्रमाणनिरूपणम् १८३ वधारणद्वारार्थप्रत्यायकत्वात् वेदस्या पौरुषेयत्वात् तज्जन्यज्ञानस्य चानुभूति- स्वादिति संशयनिरासादनुभूतित्वमेव साध्यते । एवं शब्दार्थसंबन्धोत्पत्तिकत्व- साधनेनानपेक्षत्वसिद्धेः वैदिकज्ञानस्यानुभूतित्वमेव साध्यते । शब्दार्थसंबन्धस्य सांकेतिकत्वे संकेतग्रहणस्यैव व्यवहारहेतुत्वात् संकेते च प्रमाणान्तरमङ्गीकार्यमिति पूर्वपक्षापस्या तन्निरासतो राद्धान्तेऽनुभूतित्वम् । अर्थवादानामपि पूर्वपक्षे वाक्यात् रुद्ररोदनादिसत्ताप्रमाणसापेक्षत्वात् स्मृतितुल्यत्वेनाननुभूतित्वम् । राद्धान्ते रुद्ररोदनादेः प्रमाणान्तराप्रतिपन्नत्वेन तत्प्रतिपादनपुरःसरं निन्दादि- बुद्धत्युत्पादनद्वारा विध्यैक्यान्नानुभूतित्वहानिरिति । सर्ववेष्टनस्मृतेः स्पर्शनश्रुति- जन्यानुभूतिव्याहतेः स्वरूपहानेर प्रामाण्यम् । तन्निरासात् तत्प्रामाण्यम् । संशयेऽपि तद्धर्मतया धर्मधियः ख्यातितत्त्वोक्तन्यायेनानुभूतित्वेऽपि नियतैकव्यवहारहेतुत्वेन फलाभावादप्रामाण्यसाम्यादननुभूतित्वापादने तन्निरा- सादनुभूतित्वमेव साध्यत इत्येवं द्रष्टव्यम् । स्मृतिव्यतिरिक्तत्वासंभवाद- यच्चोक्तं तार्किकैकदेशिभिः तार्किकैकदेशिभिः स्मृतेः ननुभूतित्वे स्वस्मिन् प्रामाण्यमभ्युपगतं न स्यादिति – तन्न ; स्वस्फुरणे प्रमाणान्तरसापेक्षत्वाभावात् । विषयस्फुरण एव हि स्मृतेः पुर्वानुभावापेक्षा
ननु तस्याः संस्कारजत्वाविशेषेऽपि कथं स्वस्मिन् स्वविषयेषु च प्रामाण्याप्रामाण्यविभागः – तन्न ; स्मृतित्वमप्रामाण्यमित्यनङ्गीकारात् । किंतु सापेक्षत्वमेवाप्रामाण्यम् । सापेक्षता च विषयपरिच्छेदे स्मृतेरिति तत्रैवाप्रामाण्यम् । स्वसत्तयैव स्वाश्रयं प्रति स्वपरिच्छेदान्न तत्र सापेक्षतेति न प्रामाण्यहानिस्तत्र । अतः स्मार्यविषयस्मृतिव्यतिरिक्तानुभूतिः प्रमाणमिति लक्षणमायातम् । संस्कारमात्रजा स्मृतिरिति तत्स्वरूपकीर्तनमात्रान्न स्वस्मिन्नप्रामाण्यम् स्मृतेर्विषयं प्रत्यप्रामाण्यस्य वक्तव्यत्वात् तत्स्वरूपज्ञान एव तत्संभवात् स्वरूपस्य चेतरव्यावृत्ततया ज्ञाप्यत्वेन तथोक्तत्वात् ।
यत्तु स्वव्यतिरेकेण ज्ञानकार्यस्य परिच्छेदान्तरस्याभावादर्थपरिच्छे- देऽन्यानपेक्षत्वानुपपत्तेर्नानुभूतित्वमित्युक्तम् — तन्न ; ज्ञानस्य स्वव्यतिरेकेण विषयस्फूर्त्यख्यकार्य संभवात् । ‘जानामि’ इत्यादौ ज्ञानस्फूर्तित्रत् ‘इदम्’ इति विषयस्यापि हि स्फूर्तिः । ज्ञानस्य खरूपव्यतिरेकेण स्वस्फूर्त्या - ख्यकार्यभेदान्न तत्राव्याप्तिश्च । तदेकदेश्युक्तान्यदोषैरस्मत्पक्षस्यानभिभवान्न तद्धानिः । १८४ नयद्युमणिः ननु स्मृतिव्यतिरिक्तानुभूतिप्रामाण्येऽपि शुक्तिकारजतविभ्रमाणामपि प्रामाण्यम् । न च तत्र तज्ज्ञानस्य स्मृतित्वम् ; अनुभूतत्वाविषयत्वेन स्मृतित्वानुपपत्तेः; तज्ज्ञानस्येन्द्रियान्वयव्यतिरेकानुविधायित्वाच्च । अतो न संस्कारमाजत्वं तस्य । किंच अनुमानस्य गृहीतग्राहित्वाभिमतेः तत्रापि संस्कारमात्रजत्वोपपत्तौ कारणान्तरकल्पनाभावापत्तिश्च - नैतत् । शुक्तिरजत- ज्ञानस्यानुभूतित्वेन स्मृतित्वानङ्गीकारात् । व्यवहारबाधात् भ्रान्तित्त्रव्यवहार इत्युक्तम् । अनुमानज्ञानस्य लिङ्गज्ञानान्वयव्यतिरेकानुविधायित्वात् गृही- तग्राहित्वेऽपि न संस्कारमात्रजत्वकल्पना | यत्तुं “" साधनाश्रययोरन्यतरत् प्रमाव्याप्तं प्रमाणम्” इति लक्षणम् - तन्न । " न हि बिज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते" इत्यादी जीवानामपि नित्यप्रमाश्रयत्वप्रतीतेस्तत्रातिव्याप्तेः । प्रमेयत्वस्थापि प्रमाव्याप्तत्वेन तत्रापि प्रमाणलक्षणमतिव्याप्तम् । प्रमेयत्वं हि पदार्थानां प्रमासंबन्धकाल एव अर्थेन्द्रियसंयोगादेः साधनत्वावस्थायामिव । साधनत्वं च साध्यनियतपूर्वक्षण एवेति तदवस्थायामेव प्राप्तिः । पदार्थसत्तायास्त्वनियमेन न चार्थेन्द्रियसंयोगादेरेव प्रमाणत्वात् तत्सत्तायामेव प्रमाव्याप्ते- र्नियतत्वात् न तत्रातिव्याप्तिरिति- ‘तत्संयोगसद्भावेऽपि प्रमानुदयात् तदव्याप्तेः । साधनत्वावस्थायां व्याप्तौ तु साधनत्वं साध्यनियतपूर्वक्षण एवेति प्रमेयावस्थायामपि तदविशेष इति तदव्याप्तिः सुस्था 1 साधनपदात् तद्व्यावृत्तिश्व नाङ्गीकृता । अन्यमनस्कस्य वस्तुतः प्रमानाश्रयत्वाच्च न प्रमाणत्वम् । प्रमाणस्य प्रमेयस्फुरणार्थत्वात् तत्स्फुर्तेश्च प्रमाधीनत्वात् प्रमाया एव प्रमाणत्वमुचितम् । न च प्रमेयस्फूर्तिरेव प्रमा ; प्रमात्वेन विषयत्वेन च तयोः पृथक् स्फुरणात् । . “यथार्थानुभवः प्रमा” इति प्रमाणलक्षणं च दुष्टम् । सर्वानुभवानां यथार्थतया यथार्थपदव्यावृत्त्यभावात् । थचं पुनरपि “अदूरप्राक्कालोत्पत्तिनियतासाधारणकारणप्रसूतः प्रत्ययः " इत्यनुभवलक्षणमुक्तम्— तन्न; स्मृतेरपि तथात्वेनातिव्याप्तेः ‘दूरप्राक्कालोत्पत्तिनियतासाधारणकारणप्रसूता । 1. इदमपि तार्किकमतमिति सर्वदर्शनसंग्रहे उद्घृतम् । । सा च ११. प्रमाणनिरूपणम् १८५ न च उत्पादने तात्कालिकत्वनियमनोत्पादकस्योत्पत्तिः; सा तु न संस्कारस्येति — चिरकालोत्पादनार्थेन्द्रियसंनिकर्षादेरप्यनुभवकारणत्वात् । अन्यमनस्कस्य हि घटादिस्पर्शेऽपि चिरकालं तज्ज्ञानोत्पत्यदर्शनात् तल्लक्षणं तत्रान्याप्तं चेत्यलमपरिणततार्किकलक्षण निरसनेन । एतेन सम्यगनुभवसाधनं तथात्वानुभूतिः प्रमाणमित्यादयोऽपि निरस्ता: । न चानधिगतार्थगन्तृ प्रमाणम् ; विकल्पासाहत्वात् । किं परानधिगतस्य वा स्वानधिगतस्य वार्थस्य गन्तृत्वमिति ? नाद्यः ; स्थायित्वेनाभिम- तामाकाशादेः पूर्वैरवगतत्वसंभवात् तद्विषयानुमानादेरप्रामाण्यप्रसङ्गात् । नापि द्वितीय: ; पुर्वमेव स्वविदितस्यार्थस्य सत्त्वान्वेषणे प्रत्यक्षादेरप्रामाण्यप्रसङ्गात् ; चक्षुषा दृष्टविषये द्रव्ये स्पर्शनस्याप्रमाण्यप्रसङ्गाच्च । न च कालाद्युपाधिभेदात् तत्राप्यनधिगतार्थगन्तृत्वम् । तर्हि सर्वपदार्थानां तदुपाधित एवानधिगतत्वात् अधिगतत्वाभावेनानधिगतेति विशेषणवैयर्थ्यम् । स्मृतिज्ञानेऽतिव्याप्तिश्व ; तस्याप्युपाधिभिन्नविषयत्वेनानधि- गतार्थगन्तृत्वात् । भाट्टैकदेशिभिरेव तन्निरस्तमिति न तत्र बह्वायासः । तथाहि- इति । “एकदेश समुत्थानामेकस्मिन्नेव गोचरे । प्रामाण्यं संविदां लोकः सर्वासामेव मन्यते ॥ तथैकत्रैव साध्येऽर्थे प्रवक्तृप्रतिपाद्ययोः । बहुहेतुसमावेशो दृश्यते लोकशास्त्रयोः ॥ न च प्रवक्तृसामर्थ्यं परेषामवगम्यते । येन तेषां प्रमाणत्वप्रतीतेर्वर्जनीयता ॥ तेन यावत्समीचीनात् साधनादुपजायत । प्रत्ययस्तस्य सर्वस्य प्रामाण्यमिति गृह्यताम् ॥” न2 चाविसंवादिविज्ञानस्य प्रायाण्यम् ; अविसंवादिशब्दार्थानिर्धारणात् । न च प्रमाणान्तराविसंवादस्तदर्थः । प्रमाणान्तरस्याप्यविसंवादार्थ प्रामणान्तरा-
- भाहमीमांसकानां मतं निरस्यति–न चेति ।
- बौद्धानां मतं निरस्यति–न चाविसंवादीति । 24 १८६ नयद्यमणिः न्वेषणेनानवस्था । अप्रमाणत्वेन बौद्धाभिमततर्कसविकल्पकज्ञानस्याप्यविसंवादात् तत्रातिव्याप्तिश्च ।
न च शुक्तिकारजतादिविकल्पज्ञानानां विसंवादित्वात् सविकल्पे नाविसंवाद इति — सविकल्पकस्यैकत्र विसंवादे सर्वत्र सविकल्पकत्वाविशेषेण तत्कल्पनायां निर्विकल्पकस्यापि ज्ञानत्वाविशेषेण सविकल्पकज्ञानवत् तत्कल्पनापातादित्यलं प्रपश्चेनेत्यस्मदुक्तप्रमाणलक्षणमेव सुस्थम् । तच्च प्रमाणं पञ्चविधम् – 1 प्रत्यक्षमनुमानमुपमानं शास्त्रमर्थापत्तिरिति । ननु भाष्यकारस्य प्रत्यक्षादित्रयमेव प्रमाणतयेष्टम् । अत एव प्रथमसूत्रे प्रत्यक्षादिप्रमाणत्रयस्य सविशेषविषयत्वमुक्त्वा " प्रमाण संख्या- विवादेऽपि” इत्युक्तम् — तन्न; एतद्भाष्यात् प्रमाणत्रयाङ्गीकाराप्रतीतेः । तदङ्गीकारे हि प्रमाणसंख्याविवादेऽपीति भाष्यं नर्जु; प्रमाणप्रमेयत्व- निबन्धनान्यूनानतिरेकसंख्याप्रतिपक्षत्वात् । अध्याहारादौ तु पक्षान्तरेऽपि तत् । तर्हि भाष्यस्य स्वारस्येन तत्संख्यानियत्यङ्गीकार इति चेत् - तन्न ; तस्य तन्नियतिपरत्वाप्रतीतेः । तदनिर्बन्धेऽपि तत्प्रतिपक्षनिरासे संख्या- विवादस्तदवस्थश्च ; तन्नियतितदभावयोः संख्याविषयत्वेन साध्यत्वात् । अतस्तद्युक्तिसिद्धेभ्यः पूर्वकाण्डे वृत्तिकारग्रन्थसिद्धेभ्यः पञ्चप्रमाणेभ्योऽन्यू- नानतिरिक्तप्रमाणसंख्याविवादेऽपीति भाष्यं योजनीयम् । ‘इयन्त्येव प्रमाणानि ; तत्स्वरूपाणि चैवम्’ इत्यनिश्चये च प्रमेय- विशेषानिश्चयः। प्रमाणविशेषाद्धि प्रमेयविशेषनिश्चयः । अतः नमाणसंख्यानि - यतिरावश्यकी । तत्संख्या चास्मदुक्तप्रक्रिययैव । अन्यथा सादृश्यादिप्रमाण- विनियोजकभाष्यविरोधः। " रेखागवयादावपि सत्यगवयबुद्धिः सादृश्यनिबन्धना " इति हि भाष्यम् । किंच “इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावः” इत्याद्युक्त्वा “स्मरणानुमानागमयोगिप्रत्यक्षादिषु” इत्युक्त्या आदिग्रहणादुपमाना- देरपि पृथक्प्रमाणत्वधीः । न चादिग्रहणमीश्वरप्रत्यक्षपरम् ; पृथक्प्रमाणपरत्वस्यैव युक्तत्वात् । तदसंभवे तु प्रमाणभेदावान्तरभेदपरता । किंच योगिप्रत्यक्षभेद एव परमात्मप्रव्यक्षमपि । तच वक्ष्यते । अन्यथा सविकल्पकनिर्विकल्पकयोग्ययोगिप्रत्यक्षातिरिक्तता स्यात् । तच्च प्रदेशान्तर - भाष्यविरुद्धम् । अत आदिग्रहणमुपमानादिपरमेव । अतः पञ्चविधमेव तत् । 1. अत्र प्राभाकरमतमनुसरत्ययं ग्रन्थकारः । स्वतः ११. प्रमाणनिरूपणम् प्रत्यक्षनिरूपणम् १८७ तत्रान्यप्रमाणानपेक्षयार्थपरिच्छेदकसाक्षाज्ज्ञानं प्रत्यक्षम् | साक्षात्वं नाम अव्यवहितत्वम्; तच्छब्दस्य तथा व्युत्पत्तेः । ज्ञानस्यार्थान्तरज्ञानकारणजत्वा- व्यवधानेनार्थपरिच्छेदकत्वं प्रत्यक्षत्वमित्यर्थः । अनुमानादिज्ञानं तु धूमादि- ज्ञानकारणजत्वव्यवधानादग्न्यादिपरिच्छेदकम् । अतः साक्षात्पदेनानुमाना- दिव्यवच्छेदः ।
ननु प्रत्यक्षस्यापीन्द्रियकारणजस्व व्यवधानादर्थपरिच्छेदकत्वमिति नेतर - प्रमाणवैषम्यम् तन्न ; इन्द्रियाणां सत्तया कारणत्वेन ज्ञानव्यवधानेन कारणत्वाभावात् । अनुमानादौ तु इन्द्रियजवस्त्वन्तरविषयज्ञानकारणजत्वमिति व्यवधानेनैवार्थपरिच्छेदः । अग्न्यादिसंबद्धधूमादिज्ञानेन ह्यग्न्यादिज्ञानम् । प्रत्यक्षं चायोगिनामिन्द्रियार्थसंनिकर्षजमेव । अतोऽव्यवधानं स्फुटमेव । नन्वन्तर्याम्यधिकरणे “न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरण- जन्मनो ज्ञानस्य वाचकाः, अपितु रूपादिसाक्षात्कारस्य” इति भाष्यात् रूपादिसाक्षात्कारस्य प्रत्यक्षताभिमतेति प्रतीयते । तत्र साक्षात्कारशब्दार्थः कः ? उध्यते — पूर्व भाष्ये ज्ञानस्य
- पूर्व भाष्ये ज्ञानस्य प्रस्तुतत्वात् तज्ज्ञानं साक्षात्क्रियत इति साक्षात्करोतीति वा व्युत्पत्त्या रूपादिसाक्षात्कारिज्ञानस्य वाचक इति । यत्तु स्वभावपरे वा ज्ञानस्वभावपरत्वात् तार्किकैकदेशिनां प्रतीतेः प्रतीत्यन्तर|व्यवहितेन्द्रियजत्वमित्यादि साक्षात्वपरिष्काराभिधानम् — तत्तु मत्प्र- क्रियायां नास्कन्दति । यत्तु कैश्चित् साक्षात्रं स्वरूपधीरित्युक्तम्-तन्न ; विकल्पासहत्वात् । किं स्वमेव रूपं स्वरूपम् ? स्वस्य रूपं वा स्वरूपमिति । नाद्यः; अनुमानादि- धियामपि कतिपयधर्मधीत्वात् साक्षात्वापत्तेः । न च लिङ्गादिपरसंबन्धितारूपेण तासां भासमानत्वात् न स्वरूपधीत्वमिति न साक्षास्वमिति ; दण्ड्यादि- प्रत्ययानामपि परसंबन्धितारूपप्रत्ययत्वात् तत्राव्याप्तेः । न च विशदावभासत्वं साक्षास्वमिति ; वैशद्यस्यापि सापेक्षत्वेऽनु- मानादावपि तत्संभवात् । न च धीस्फुटता साक्षात्वम्; सर्वधियामपि तथात्वात् । एवमन्यथोक्तिदूषणान्युन्नेयानि । १८८ नमणिः यत्तु अपरोक्षप्रमाव्याप्तमिति लक्षणम् – तन्न; पूर्ववद्धट | दिप्रमेयेषु प्रमाश्रयात्मसु चातिव्याप्तेः । अपरोक्षत्वं साक्षात्त्वम् । तच्च लैङ्गिकादिज्ञानव्यावृत्त ऐन्द्रियक- ज्ञानानुगतः कश्चित् ज्ञानवान्तरजातिभेद इति साक्षत्त्वलक्षणम् । तत्र निर्विकल्पकं च घटादेरनुल्लेखितानुवृत्तिधर्मघटत्वादिकतिपय- विशेषणविशिष्टतयार्थावच्छेदकं ज्ञानम् । यथा प्रथमाक्षिसंनिपातजं ज्ञानम् । अनुल्लेखितेति सविकल्पकव्यावृत्तिः । न च वस्तुमात्रावभासकं निर्विकल्पकम् ; जात्यादिधर्मविधुरतया वस्तुमात्रस्य प्रतिभासानुपपत्तेः । तथात्वे आत्मादेरपि चाक्षुषतापत्तिः; तंत्र रूपादेरनुपकारकत्वात् । अतः केनचिद्विशेषणेन विशिष्टतयैव सर्वेषां ज्ञानम् । अन्यथा द्वितीयादिप्रत्ययेषु प्रथमाभिसंहितार्थप्रत्यभिज्ञा न स्यात् । तदभावे च तस्यानेकविशेषणविशिष्टत्वधर्न स्यात् । प्रथमाक्षिप्रयोगे तु शैघ्रधादेरनुवृत्युल्लेखा भावमात्रेण निर्विकल्पकत्वव्यवहारः; अनेकविशेषण- विशिष्टत्वबुद्धधनुदयाश्च । विविधः कल्पो विकल्पः । तत्सहितं सविकल्पकम् । विविधत्वं च धर्मभेदकृतमित्यने कविशेषणविशिष्टत्वधीरेव सविकल्पकम् । तथा वस्तुसंस्थानाख्यगोत्वादिविशिष्टतया ग्रहे द्वितीयादिप्रतीतिष्वनुवृत्यादिधर्म- विकल्पोदयात् सविकत्यता तस्य । ततो रूपादिषु वस्तुधर्मेण केनचिद्वि- शेषणेन विशिष्टत्वग्रहादनुल्लेखितानुवृत्त्यादिधर्मेण विशिष्टतया वस्तुपरिच्छेदक- मित्येव तल्लक्षणम् । ननु वेदार्थसंग्रहे वस्तुसंस्थानाख्यजातेरने कनिष्ठत्वाग्राह्यत्वग्राह्यत्वाभ्यामेव निर्विकल्पकत्वसविकल्पकत्वे उक्ते ; न तु रूपादेः; नापि कातिपयविशेषण- विशिष्ठग्रहादेरिति — तन्न ; संस्थानानुल्लेखेन दूरादौ रूपादिविशिष्टतया ग्रहणोपपत्तेः । रूपादिरपि संस्थानवत् इत्थमंशनिवेश्येव । अत एव हि भाष्ये " निर्विकल्पकं नाम केनचिद्विशेषणेन वियुक्तस्य ग्रहणम्” इत्युक्तिः । अत एव वेदार्थसंग्रहग्रन्थस्तु धर्ममात्रोपलक्षणपरः । “अतो निर्विकल्पकमेकजातीयद्रव्योषु" इत्यदिभाष्यमपि तथा । अत एव " न पुनः संस्थानरूपजात्यादेरग्रहणात्" इति भाष्ये आदिग्रहणात् रूपादेरपि ग्रहणम् । रूपादयोऽपि संस्थानवदनुवृत्तिधर्मभाजः । अनुवृत्तिधीश्व ‘एतत्संस्थान्ययम्’ इति । अतः संस्थान विशिष्टत्वा. पुर्वानुभूतवस्तुविषयतया प्रत्यभिज्ञाप्रत्यक्षधी: विशिष्टानुवृत्तिरप्युक्ता 1 ११. प्रमाणनिरूपणम् भाष्ये १८९ कारेण गवादेरनुवृत्तिधीविषयत्वम्; केवलगोत्वादेरनुभूतत्वात् । एतेन रूपादि- गोत्वादिसंस्थानादिमात्रानुवृत्त्युक्तिस्तु परमताभिप्राया । गवादेः प्रथमग्रहणे तु न संस्थानविशेषोल्लेखः । किंतु संस्थानादिविशिष्टवस्तुमात्रग्रह एव । अतो निर्विकल्पकमपि विशिष्टवस्तु- विषयमेव । 1 ननु विशिष्टमेव वस्तु दुर्निरूपम् ; तत् विशेषणविशेष्यतत्संबन्धेभ्यो भिन्नमभिन्नं चेति विकल्पासहत्वात् । तथाहि - नाद्यः; विशेषणादित्रयातिरिक्तवस्तु- नोऽप्रतीतेः । दण्ड्यानयनोक्तौ च तदानयनेऽतिप्रसङ्गात् । नापि द्वितीयः; अविशेषात् प्रत्येकं विशिष्टत्वापातात् । न च मिलितानां विशिष्टत्वम् ; विकल्पासहत्वात् । किं मिलिता इति त एव ? उत तेभ्योऽन्य एवेति । आधे प्रत्येकं विशिष्टत्वम् । द्वितीये तु प्रतीत्यादिविरोधः । न चैकज्ञानारूढो विरलनानाज्ञानारूढो वानेकस्तत्सम्बन्धश्च विशिष्टपदार्थः; ‘घटपटौ’ इत्युक्ते एकबुद्धयारोहे तयोस्तत्संबन्धस्य च विशिष्टत्वापातात् । घटपटत्वसंबद्धान तदूबुद्धयारूढानामभ्युपगमे तत्संबन्धस्यापि तद्बुद्धयारोहोऽवश्याश्रयणीयः । अन्यथा घटस्य रूपविशिष्ठत्वात् पटस्य त्वविशिष्टत्वात् एकत्र निवेशानुपपत्तिः । न च ‘घटपटौ’ इत्यत्र विशिष्टत्वम् ; द्वित्वविरोधात् । अत एवाविरलनाना- ज्ञानानामपि विशिष्टतानिरास इति । ‘मैवम् । ‘शुक्लां गाम्’ इत्युक्ते प्रत्यक्षेण विशिष्टपदार्थस्य सिद्धत्वं प्रतीयते । तद्वाक्यात् शुक्लत्वादिविशिष्टो व्यक्तिविशेषः आनयनादिभिर्व्यवह्रियते च । कार्यान्वय्येव हि लक्षणम् । तत्संबन्धतदाश्रयावपि कार्यान्वयिनौ । यद्यपि तदाश्रयवन्न सर्वेषां संबन्धप्रतीतिः, तथापि पृथक्पदार्थयोः संबन्धव्यतिरेकेण सहस्थित्यनुपपत्तेरित्यादियुक्तिसिद्धः संबन्धः । आश्रयव्यतिरेकेण रूपस्पर्शादि- श्चक्षुःस्पर्शनादिभिरुपलभ्यते । अतो न गुणानां द्रव्याणां वापलापः । दण्डिकुण्डल्यादौ संयोगश्च प्रत्यक्षसिद्धः । अतो विशेषणविशेष्यतत्संबन्धैरेव विशिष्टत्वप्रतीतेस्तेषामेव विशिष्टत्वम् । न च प्रत्येकं विशिष्टतापातः; मिलितानामेव विशिष्टत्वात् । न च तत्रापि प्रत्येकं विशिष्टता; मेलकश्वाधिक इति — मेलकस्य विशिष्टस्य निमित्तत्वात् तस्य विशिष्टत्वानन्तर्भावात् । मेलकस्य च न सर्वत्र
- धर्मधर्मिभावापलापिनां बौद्धानामाक्षेपः नन्वित्यादिना । ; १९० नयद्यमाणः नित्यात्मगुणादौ तदनपेक्षत्वात् । दण्डघादयो हि तदपेक्षाः । अन्यतरक्रियाभि- मेलनं यत्र, तत्रैकबुद्धिविषयतार्हाणां पदार्थानामन्योन्यसापेक्षत्वरूपं मिलितत्वम् | न च तत् तेभ्योऽर्थान्तरम् ; स्वरूपानतिरेकात् । तच्च लोकसिद्धम् । विशिष्टत्वधीविषयत्वे तेषां सापेक्षत्वं च । यौगपद्यात्तत्र विरामाप्रतीतेः सापेक्षता सिद्धा च । प्रत्येकं तेषु विशिष्टत्वबुद्धयनुदयादनुभूतिरेव विषयसरखे शरणम् । |
ननु ‘घटपटौ’ इत्युक्ते एकबुद्धिविषयाईत्वात् तयोरपि विशिष्टत्वमिति - सत्यम् ; तत्रापि तदस्त्येत्र । यद्यपि “चार्थे द्वन्द्वः" इति चार्थमात्रे द्वन्द्वप्रतीतिः, तथापि इतरेतरयोगसमाहारौ विषयः, तयोरेव सामर्थ्यात् । “समर्थः पदविधिः” इति हि स्मृतिः । सामर्थ्यं चान्वय एव । समुच्चयान्वाचययोः पृथक्त्व- सापेक्षत्वान्नान्वयः । केनचिद्धि किंचित् समुच्चीयते । सामर्थ्यहेतुभूता- न्वयो गुणप्रधानयोरेव ; गुणानामिव प्रधानयोरसंबन्धात् । संबन्धश्चार्यत उच्चारणतेो वास्तु ; उभयथाप्यन्वयसिद्धेः । ततश्चान्वितार्थपरे ‘घटपटौ’ इति अन्वितबोध च विशिष्टतासिद्धिः । न च घटत्वादिविशिष्टत्वात् द्विवचनाच्च न विशिष्टैक्यमिति — द्वित्वादि • विशेषणानामुभयापेक्षत्वेन देशाद्युपाधितस्तद्विशिष्टैक्य सिद्धेः । न हि द्वित्वादिरेकस्य विशेषणम् । इतरेतरयोगे हि द्वन्द्वः । इतरेतरयुक्तत्वाकारेणोभयोः प्रधानतापि । कारकयोरितरक्रियान्वयानपेक्षं समस्तयोः क्रियान्वयसाहित्यं ययोः, तयोः प्रतीतिविषयत्वं वा यौगपद्यम् । आर्थ तु सहत्वम् । अत एव हि युगपदधि- करणवचनता’ द्वन्द्वस्योक्ता । धवौ च खदिरौ चेति इतरयुक्तधवादौ हि द्वित्वोत्पत्तिरेकत्वोक्तिश्च । महाभाष्ये चैतत् स्पष्टीकृतम् । मीमांसकैरपि षष्ठलक्षणे धवश्च खदिरश्चेति पक्षेऽपीतरेतरयोगोऽपेक्षितः । इतरेतरयुक्तत्वाकारेणोभयोः पृथग्वाच्यत्वेऽपि न विशिष्टान्यत्वम् ; तन्त्रोच्चारणादुभयोरेकबुद्धिविषयत्वात्वात् । अन्योन्यसापेक्षविषयत्वादेकशेषित्वेन वान्वयाच्च । ‘धवखदिरौ पश्य’ इत्यादौ तयोः पश्यतिकर्मत्वेन प्रधानतयान्वयेऽपि न विशिष्टत्वाभेदः ; एकवाक्यान्तर्भावात् ;
- युगपदधिकरणेति । युगपदेकैकेन पदेन अधिकरणमभिषेयं द्वन्द्ववाच्यं समुदायरूपं यदेत्च्यते तदा द्वन्द्व इत्यर्थः । अत्र चानुभवसिद्धं प्रमाणम् " द्यावा चिदस्मै पृथिवी संनमेते" इति श्रुतिवाक्यमवधेम् । तत्र हि द्योशब्दो द्यावापृथिव्योर्वर्तते । एवं पृथिवीशब्दोऽपि द्यावापृथिव्योर्वर्तते । उभयत्रापि प्रथमाद्विवचनस्य सुपां सुलगित्यादिना पूर्वसवर्णदीर्घः । ११. प्रमाणनिरूपणम् १९१ युगपत्पश्यतिकर्मत्वात्वाच्च । एवमितरेतरसापेक्षत्वे च तत्रापि विशिष्टता सिद्धा । अन्यसापेक्षतैव हि स्वरूपतो विषयतो विशिष्टतो वा विशेषण- विशेष्यस्वरूपेऽन्योन्यसापेक्षत्वाच्च संस्थान संस्थानिनोर्दृश्यते । न तर्हि निरपेक्षयोर्विषयत्वे तथा ; विशेषणत्वेन विशेष्यत्वेनोभयोः सापेक्षत्वात् । संबन्धस्तूभयत्र नान्तरीयकः । विशिष्टधीस्तु सर्वसापेक्षैव । अत एकबुद्धिविषयत्वाहपदार्थानामन्योन्यसापेक्षस्वत्रूपत्वमन्योन्यसापेक्ष विषयत्वं वा विशिष्टत्वम् । भिन्नेन्द्रियग्राह्यरूपरसादिविशिष्टत्वस्यैकबुद्धिविषयत्वं स्मृतिद्वारा भिन्नबुद्धिबोध्यानां वर्णानां पदानामिवास्तु । यद्यपि दण्डदण्डिनोरन्योन्यनिरपेक्षत्वं स्वरूपे ; तथापि दण्डित्वस्वरूपे सापेक्षमेव । उपलक्षणातिरिक्तव्यावर्तकधर्मसंबन्धित्वं वा विशिष्टत्वम् । तत्रापि न तस्त्रितयातिरिक्तता विशिष्टत्वस्य, अप्रतीतेरेव । तत्संबन्धित्वस्य तद्धर्मसंबन्धाधीनत्वात् विषयत्वादौ धर्मसंबन्धयोरपि तत्रान्तर्भावः । विशिष्टार्थानङ्गीकारे च प्रतीतिव्यवहारविरोधः । किंचिद्विशिष्टपदार्थ खण्डयतापि विशिष्टार्थपरत्वेन प्रश्नादिवाक्यं प्रयुज्य परोक्त्यादिवाक्याद्वि- शिष्टार्थमवगम्यैव विशिष्टत्वखण्डनात् ; तद्व्यतिरेकेण परप्रत्यायनस्याशक्यत्वात् । वाक्यं चानेकपदात्मकमनेकार्थविशिष्टार्थपरमेव । विशिष्टार्थबोधनपरत्वाभावे च वाक्यप्रयोगवैयर्थ्यं प्रश्नादौ । अतो विशिष्टत्वखण्डनस्य स्वव्याघातत्वान्नोत्तराईता | तथापि मृदुहृदयभ्रान्तिनिरासाय तस्य विशिष्टत्वस्य खण्डनानर्हतापि प्रदर्शितेत्यलं कोलाहलेन । प्रकृतमनुसरामः । उल्लेखितानुवृत्यादिधर्मकाने कविशेषणविशिष्टतया साक्षाद्वस्तुव्यवच्छेदकं ज्ञानं सविकल्पकम् । उल्लेखितेत्यादिपदान्निर्विकल्पकन्या- वृत्तिः । तच्च द्विविधम् — योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्र योगिप्रत्यक्षमिन्द्रियाद्यनपेक्षमर्थावच्छेदकं साक्षाज्ञानम् । इन्द्रियाद्यनपेक्षमिति अयोगिप्रत्यक्षव्यवच्छेदः । ननु न योगिप्रत्यक्षाङ्गीकारः ; शास्त्रयोन्यधिकरणभाष्येऽपि “योगजन्यम्” इत्यादौ योगिज्ञानस्य स्मृतित्वोक्तेः - तन्न । प्राभाकरमता- वलम्बनेन तथोक्तत्वात् । अत एव हि “स्मृत्यनवकाश” इत्यत्र “स्वयोगम- हिमसाक्षात्कृत” इत्यादिभाष्ये तदङ्गीकारः । परमात्ममुक्त प्रत्यक्षस्यापि योगिप्रत्यक्ष एवान्तर्भावः; तस्यापीन्द्रियाद्यनपेक्षत्वसाम्यात् । अत एव १९२ ह्यन्तर्याम्यधिकरणे “न च इत्युक्तिः । नयधुमणिः परस्यात्मनः करणायतं द्रष्टृत्वादिकम् " तथा श्रीगीताभाष्ये “न मे विदुः सुरगणाः " " आहुस्त्वामृषयः” इत्यत्र च “सुरगणा महर्षयश्वातीन्द्रियार्थदर्शिनः " “महर्षयश्च सर्वेऽतीन्द्रिय- परावरतस्त्वविदः” इति । योगिनामतीन्द्रियार्थदर्शित्वादिन्द्रियाद्यनपेक्षता सिद्धा । ननु संसारिणां योगित्वेऽपि न सर्वसाक्षात्कारसामर्थ्यम् । यत एवमुक्तं “न मे विदुः” इत्यत्र – “ देवत्व देवर्षित्वादिहेतुभूत पुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्” इति । परमात्मादेः प्रत्यक्षं तु सर्वसाक्षात्कारीति न योगिप्रत्यक्षसाम्यमिति – तन्न । तारतम्यमात्रात् प्रधानभेदे तारतम्यस्य सर्वत्र सुलभत्वादतिप्रसक्तेः । अत इन्द्रियाद्यनपेक्षत्वरूपोपाध्यैक्यात् परमात्मादि- प्रत्यक्षस्यापि योगिप्रत्यक्षान्तर्भाव एव । इन्द्रियाद्यपेक्षत्वे देशादिविप्रकृष्टार्थी- वच्छेदकत्वमसिद्धम् । योगिप्रत्यक्षं तु सविकल्पकमेव ; विषयग्रहणे विलम्बाभावात् । इन्द्रियद्वारैव ज्ञानप्रसरापेक्षायां हि संस्थानादेरनुवृत्त- स्वाद्यप्रतीतिः । सहकारिवैकल्याद्धि तत्र तथा । योगिनां तु ज्ञानस्य यावद्देश संबन्धः तद्देशस्थ सर्वपदार्थानां सगुणानामेवावच्छेदकत्वम् । परमात्मा- द्यनुग्रहस्तु न योगिप्रत्यक्ष एव । किन्तु सर्वत्र । संसारिणां तु युक्तावस्थायामेवाती- न्द्रियार्थावच्छेदकत्वम् । अन्यदेन्द्रियादिसापेक्षमेव । परमात्मा मुक्ताश्च सर्वदा अतीन्द्रियार्थज्ञानाः । तेषां शरीरेन्द्रियादिग्रहणं तु लीलामात्रम् । तदेन्द्रिया- दिद्वाराप्यर्थावच्छेदकता ज्ञानस्य । परमात्मा भुक्ताश्च सर्वज्ञा इति “यः सर्वज्ञः” “सर्व ह पश्यः पश्यति” इत्यादिश्रुतिसिद्धम् । परमात्मादेश्च योगिशब्दादि- वाच्यता तत्र तत्र दृश्यते’ । ज्ञानशक्त्यादियोगित्वमपि योगिशब्दप्रवृत्तिनिमित्तं परमात्मनः । नित्यमुक्तानां च स्वभावादेव तद्योगित्वम् । मुक्तानां तु मुक्त्युत्तरकालं तदाविष्कारः । संसारियोगिनां तु पुण्यतारतम्यात् तदाविष्कारतारम्यमिति वैषम्यम् । एतच्च भाष्यादौ स्पष्टम् | / “आत्मप्रयत्नसापेक्ष” इत्यादि लक्षणं तु योगिविशेषपरम् ; एतच्छ्लोकोक्त- लक्षणविरहिणामप्यतीन्द्रियार्थदर्शित्वस्मरणात् । सिद्धार्थव्युत्पत्या तत्स्मृतीनां तत्परत्वेन प्रामाण्यमप्युपपन्नम् । पुरोदेशादिसंबद्धपदार्थानामिन्द्रियाणां च संनिकर्षविशेषसापेक्षं साक्षादवच्छेदकं ज्ञानमयोगिप्रत्यक्षम् 1 तत्र
“योगी योगीशः” इति सहस्रनामपाठोऽत्रानुसंधेयः ।११. प्रमाणनिरूपणम् १९३ पुरोदेशादिवर्तिवस्तु संबन्धादेव ग्रहणमिति । घ्राणरसनश्रोत्रैः क्रमेण गन्धरसशब्दानां नन्वाश्रयाश्रयिभावस्वीकारे शन्दान्तरान्निराकृतोऽपि समवाय एव स्वीकृत इति – तन्न ; एतत्संबन्धस्य लोकसिद्धत्वात् ; समवायस्य दुर्निरूपत्वाच्च । जलपृथिव्यादौ ह्याधाराधेयभावसंवन्धः स्फुट: । स च न संयोगः; समवेतयोर्युद्धे संनिपातात् संयोगेऽप्याधाराधेयत्वदर्शनात् । न च संयोगस्य स्वभाववैरूप्यकल्पना युक्ता । अतस्तत्संबन्धात् वस्तुत उपाधितो वाधाराधेय- भावो वस्त्वन्तरमेव । एवं च कल्पनालाघवम् । स च गुणादिभेदादनेकः । न च संबन्ध संबन्धिनोः संबन्धान्तरकल्पनायामनवस्था; अन्योन्य- सापेक्षस्वरूपत्वरूपोपाधिव्यतिरेकेणार्थान्तराभावात् । एतेन विशेषणविशेषसंबन्धादयो व्याख्याताः । अत आश्रयाश्रयि- भावसंबन्धस्य न गुणान्तर्भावः ; गुणस्य गुणाश्रयत्वानुपपत्तेः । गुणादिघट- कत्वादेव ह्येतत्संबन्धस्वीकारः । न च पदार्थान्तरत्वम् ; समवायपदार्थदोषा- पातात् । अत औपाधिकत्वमेवेति सर्वं निरवद्यम् । मिथ्यावादिभिस्तु प्रमासाधनं प्रमाणमिति सामान्यलक्षणमुक्त्वा, तत् तत्त्वांतत्त्वावेदकभेदात् द्विविधम् ; प्रमात्रादिभेदोपादानोपमर्देनोत्पद्यमानं तत्त्वा- वेदकं तत्त्वमस्यादिमहावाक्यज्ञानम् । प्रमात्रादिप्रपञ्चकारणानुपमर्दकमतत्त्वा- बेदकमित्युक्तम्–तन्न ; सर्वप्रमाणानां यथार्थत्वेन तत्त्वातत्त्वविभागासंभवात् ; प्रमात्रादिभेदोपादानोपमर्दस्यादर्शनाच्च । “ तत्त्वमसि " इति वाक्यजन्यज्ञानमपि 1 एवमेव । किंचैतत् जायमानमेव प्रमात्रादि प्रमृगाति ? उत जातं वा ? - नाद्यः; जायमानस्यैवोपादानादिकारण विनाशकत्वेनोत्पत्त्यनुपपत्तेः । तथात्वे न हि सत्ता । असतश्च कथं विनाशकत्वम् ? विनाशकत्वेऽपि निरालम्बनं स्यात् । नापि द्वितीयः, प्रमात्रादिभेदोपमर्दे नोत्पद्यमानमिति स्वोक्तिविरोधात् । " तत्त्वमसि " इत्यादि वाक्यं जगत्कारणजीवादिविशिष्ट परमात्मपरत्वेन प्रपञ्चसत्त्वसाधकत्वान्न प्रपञ्चोपमर्दकमिति भाष्यादावुक्तम् । किंच महावाक्यजन्य- ज्ञानं ब्रह्म विषयीकृत्य प्रपञ्च निवर्तकम् ; उत न ? । आद्ये ब्रह्मणो दृश्यत्वेन 2
- एवमेवेति । प्रमात्रादिभेदानुपमर्देनैव जायमानमित्यर्थः ।
- प्रपञ्चो मिथ्या, दृश्यत्वादित्यादो दृश्यत्वस्य मिथ्यात्वसाधकत्वेन तदभिमतत्वादित्यर्थः । 25 १९४ नयद्युमणिः मिध्यात्वम् । द्वितीये तु न प्रपञ्चनिवृत्तिः; अधिष्ठानाग्रहणात् । तद्ग्रहणादेव हि रज्जुसर्पादौ भ्रमनिवृत्तिः । अतत्त्वावेदकं तु नैव प्रमाणम् ; रज्जुसर्पादि- ज्ञानसाम्यादकार्यकरत्वात् । न च व्यावहारिक कार्यकरता ; रज्जुसर्पादौ व्यवहारभङ्गदर्शनात् । न च रज्जुसर्पादौ भयादिकार्यं दृश्यत इति ; भयरूपप्रतीतिमात्रस्यातत्कार्यत्वात्; किंतु प्रसर्पणदंशादेरपि तत्कार्यत्वात् । न हि तत् रज्जुसर्पादौ । तत्कार्यत्वे च नातत्त्वावेदकत्वम् । यत्तु अर्थेन्द्रियसंप्रयोगात् संप्रयुक्तेऽर्थे विज्ञानं प्रत्यक्षम् ; अर्थ- न्द्रियसंप्रयोगग्रहणात् तदसंप्रयोगजशुक्तिकारजतादिप्रितीतिनिरास इत्युक्तम् — तदप्यसत् ; इन्द्रियसंप्रयोगाभावे भ्रान्तिज्ञानस्य निरालम्बनत्वापत्तेः । अपसिद्धान्तश्च ; शुक्तिकादावनिर्वाच्यरजतसत्ताया एव तत्सिद्धान्तत्वात् । एतत्संभवे कथमेतत्प्रयुक्तेऽसंप्रयोगजत्वम् ! शुक्तिकारजतादावपि परमार्थख्यातित्वं साधितम् । किंच पृथिव्याद्यर्थस्य शुक्तिकारजतसाम्याभ्युपगतेरर्थग्रहणेऽपि निरालम्बनत्वम् अतो विज्ञानस्कन्धमात्रवादियोगाचारमतसाम्यमेव ; सर्ववस्तूनां प्रतिभासमात्रस्वरूपत्वेनावास्तवत्वाभिमानात् । अतो मायावादिनां वेदान्तिन इति स्वगोष्ठीवादमात्रमेव विशेषः । वस्तुतस्तु माहायानिकपक्षान्न विशेष इत्यलं प्रच्छन्नबौद्धमतनिरासेनेति । इति प्रत्यक्षनिरूपणम् अनुमाननिरूपणम् गृहीतान्त्रययोर्व्याप्यदर्शनात् परोक्षव्यापकावच्छेदकज्ञानमनुमानम्’ । सामान्यलक्षणोक्तं प्रमाणान्तरानपेक्षमिति सर्वत्रान्वेति । गृहीतान्वयेत्यादिपदैः प्रत्यक्षादिव्यवच्छेदः । अन्वयश्चानोपाधिकः संबन्धः । 2 साधनाव्यापकत्वे सति साध्यव्यापक उपाधिः । यद्धि परस्य साध्यतयाभिमतं तदुपाधित्वेनाभिमतहेतुना व्याप्तम् । परप्रयुक्तहेत्वव्यापकश्च हेतुरुपाथिः । यथा—’ अनुभूतिर्नानुभाव्या ; अनुभाव्या चेज्जडत्वप्रसङ्गः, घटवत्’ इति ; ‘अनुभूतिः स्वत एव सिध्यति, अनुभूतित्वात् ; यदन्यतः सिध्यति न तदनुभूतिः; यथा घटः’ इति वा परोकेऽनुमाने, घटादेर्जडत्वं नानुभाव्यत्वप्रयुक्तम् ; किंतु स्वाश्रयं प्रत्यप्रकाशमानव- प्रयुक्तमित्युपधिः । ननु नास्योपाधित्वम् ; स्वसत्तयैव परप्रयुक्तस्यान्यतः सिद्धत्वहेतोः स्वसत्तयैव स्वाश्रयं प्रत्यप्रकाशमानत्वव्याप्तत्वात् । अन्यतः सिद्धिर्नाम दृश्यधीनप्रकाशत्वम् । अनुभूतेरनुभाव्यत्वे स्वसत्तयैव स्वाश्रयं प्रत्यप्रकाशमानत्वप्रसङ्गो घटवदिति वक्तुं शक्यत्वादिति - तन्न ; तयोरनन्वयात् । अन्वयेोऽनौपाधिकः संबन्ध इत्युक्तम् । अत्र तु तयोः संबन्धे जडत्वमेवोपाधिः । नन्वेयं तर्हि साधनाव्यापकत्वे सत्युपाधित्वम् उपाधित्वे सति साधनाव्यापकत्वमितीतरेतराश्रयतेति – तन्न ; जडत्वस्यान्यतः सिद्धत्व- व्यापकत्वे स्वसत्तयैव स्वाश्रयाप्रकाशमानत्वस्यान्यतः सिद्धत्वपरत्वेनानुपाधि- त्वम्, एतत्सिद्धौ तत्सिद्धिरिति देोषस्य पक्षान्तरेऽपि समत्वात् व्याप्त्यग्रहात् । किंतु स्वसत्तयैव स्वाश्रयाप्रकाशमानत्वजडत्वयोः परस्परव्यापकत्वेनान्योन्योपा-
“ज्ञातसंबन्धनियमस्यैकदेशस्य दर्शनात् । एकदेशान्तरे बुद्धिरनुमानमबाधिते ॥ " इति शालिकनाथोक्तानुमानलक्षणस्यार्थतोऽयमनुवादः । गृहीतान्वयेत्यनेन ज्ञातसंबन्धनियमस्येत्यस्य, व्याप्यदर्शनादित्यनेन एकदेशस्य दर्शनादित्यस्य, परोक्षव्याप- कावच्छेदज्ञानमित्यनेन एकदेशान्तरे बुद्धिरित्यस्य चानुवादो ज्ञेयः । 2. इदं च न्यायकुसुमाञ्जलावुक्तं लक्षणम् । १९६ नयधुमणिः धित्वम् । अन्यतः सिद्धत्वस्य पूर्वोक्तोपाधिप्रयुक्तव्याप्त्युपजीवित्वादन्यतः सिद्धत्वजडत्वयोर्नान्वयनियमः । अत एव हि स्वातीतानुभूतिपरानुभूत्योरन्यतः सिद्धत्वम् । परानुभूतेरनुमानासिद्धौ शाब्दव्यवहारोच्छेद इत्यन्यत्रोक्तम् । परप्रयुक्तव्याप्युपजीविनोऽप्यन्यतः सिद्धत्वादेर्जडत्वादिसंबन्धोऽत एव नादरणीयः । तदुक्तम्- इति । 16” अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः । तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा || " साध्यनियतस्वसंबन्धः साध्यसमव्याप्तो हेतुरुपाधिः । स्फटिकरक्तताया जपाकुसुमसंनिध्युपाधित इवेत्यर्थः । न च जडत्वस्योपाधित्वे साध्यस्यैवोपाधित्वात् सर्वानुमानोच्छेद इति—सर्वत्र परस्परव्याप्त्यभावात् । अतो यत्र साध्यसाधनयोः परस्परव्याप्तिः, तत्र परस्परमुपाधिः । यत्र परस्परव्यापकत्वाभावः तत्र साधनतया प्रयुक्तस्य साध्यान्वयनियतौ उपाधिता, न साध्यस्येति । अयमर्थः — एकसाध्यं प्रति समाविनाभावन्यूनाविनाभावहेतुद्वयसद्भावे न्यूनस्य समाविनाभावहेत्वव्याप्तौ न्यूनोऽप्रयोजकः । तदुक्तम् — इति । “समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तदा हीनोऽप्रयोजकः ॥” समाविनाभावस्तु प्रयोजकः; स एवोपाधिरिति । स्वसत्तयैव स्वाश्रया- प्रकाशमानत्वजडत्वयोश्च परस्परव्यापकता स्पष्टा । अन्यतः सिद्धभावस्य जडभावाननुविधायित्वान्न्यूनता च सिद्धा । अन्यतः सिद्धत्वमजडाया अनुभूतेरस्तीत्युक्तम् । अन्यत्तु अक्षपादीयग्रन्थेषु द्रष्टव्यमित्युपरम्यते । यत्तु — साध्यव्यापके पक्षेतरत्वेऽपि प्रसङ्गात् तद्व्यतिरिक्त इति ; तन्न ; बाधा नास्तीति तस्या व्यापनात् ; अन्यथा निरुपाधित्वे बाधासिद्धेः । 1. इदं च श्लोकवार्तिकस्थं वचनं कुसुमाञ्जलावप्युदाहृतम् । अयमंत्र श्लोकार्थः—अन्ये ये सोपाधिका हेतवः, ते परप्रयुक्तानामुपाधिप्रयुक्तानां व्याप्तीनामुपजीवकाः । तैः सोपाधिभिः हेतुभिः पक्षे निश्चितदृष्टैरपि व्यापकांद्याव- धारणा साध्यानुमितिर्न सिध्यतीति । 1 ११. प्रमाणनिरूपणम् १९७ यदाह ‘बाधेन वोन्नीयते, अन्येन वेति न कश्चिद्विशेषः’ इति । एतदर्थमपि विशेषणीयमिति चेत् —न । तथापि साधनाव्यापकत्वे सतीति तद्व्याप्यनवधारणे न 1 शक्यावधारणत्वम् । एवं साध्यव्यापक इत्यपीत्युपाधिलक्षणखण्डनम् । तथाच तदसत् ; आबालगोपालं प्रसिद्धानुमानोच्छेदप्रसङ्गात् ; शाब्दव्युत्पत्त्यभावापत्तौ शाब्दव्यवहारोच्छेदात् खण्डनग्रन्थप्रवृत्तिवैफल्यात् तत्सरणीमनुसरतांच मूकीभावापत्तेश्च । किंच दण्डोद्यमनादौ तिर्यक्ष्वपि द्रवणादिदर्शनात् तेषामप्यनुमानज्ञानसद्भावधीः । किंच पक्षेतरत्वसाध्ययो- नीन्योन्यव्यापकतापि ; धूमादिदर्शनादग्न्याद्यनुमाने महाहदादेः पक्षे- तरत्वेऽप्यग्न्यनन्वयदर्शनात् । न च पक्षेतरत्वं नाम सपक्षत्वम् ; न च तत्र तदुपाधिरिति साध्येन समानसपक्षधर्मानुमानतः साध्यसिद्धेरर्थ- सिद्धत्वेनोपाध्युक्तिवैफल्यात् । बाधे विपक्षव्यापिपक्षेतरत्वस्योपाधित्वाविशेषात् पक्षेतरशब्दस्य सपक्षपरत्वाभावात् । तर्हि सपक्षत्वमुपाधिरिति चेन्न ; पक्षगतत्वे- नोन्नीयमानोपाधेर्नोपाधिलक्षणवत्तेति तत्रापि साधनव्यापकत्वादेरुन्नायमान- त्वात् । न हि प्रत्यक्षेणैव तन्निर्धारणनियमः; कल्पनारूपार्थापत्तेरपि प्रमाणत्वात् । न च साधनाव्यापकत्वसाध्यव्यापकत्वयोर्नाशक्यावधारणीयत्वम् ; प्रत्यक्षादिना साहचर्यग्रहणदिना तदवधारणसिद्धेः । न च सर्वदेशादौ तत्साहचर्यादेर्ग्रहणाशक्यता ; देशाद्यनपेक्षाया वक्ष्यमाणत्वात् व्याप्यत्वावधारणा- देव तदवधारणसिद्धेः । न च व्याप्यत्वावधारणमेवाशक्यम्, उपाधिसत्ताशङ्का- ग्रस्तत्वादिति — भूयो दर्शनात् तच्छङ्काया अपनीयमानत्वात् । एवं खण्डनो- क्तिनिरास उन्नेयः । न च भूयोदर्शनावसेयमेत्र तदवधारणम् ; न तु तत उपाधि- शङ्कानिरास इति - ज्ञानानां स्वतः प्रामाण्यस्य साधितत्वात् प्रथमस्यापि तद्ग्रहणस्य प्रमाणत्वात् । प्रमाणस्य प्रमेयावच्छेदरूपत्वात् व्याप्यत्वावच्छेदस्यापि सकृद्दर्शनाधीनत्वात् । अन्यत एव हि शङ्का बाधो वा । शङ्कायां वा बाधायां वा न प्रामाण्यम् । व्याप्तिकर्म हि व्याप्यम् । तच्च देशतः कालतो वा न्यूनधर्मः । व्यापकहेतुसाध्ययोरप्यापेक्षव्याप्यत्वसद्भावान्नाव्याप्तिः । परस्परव्यापकयोरपेक्ष- यान्यतरादर्शनेऽन्यतरदर्शने च साध्यत्वसाधनत्वव्यत्ययो हि दृश्यते । यथा कृत्तिकोदयाद्रोहिण्यासत्यनुमानम् । यथा आसन्नोदयरोहिणीदर्शनात् १९८ नयधुमणिः कृतिकास्तमयानुमानं च । व्याप्यत्वावगतिश्च वस्तुनो यत्प्रमाणेन यत्संबन्ध- विशिष्टतयावगतिः, तत्प्रमाणादेव तत्संबन्ध्यन्तर संबन्धव्याप्यताधीरपि देशाद्यवच्छेदोऽपि न संवन्धस्य ; धर्मत्वेन धर्मान्तरविशेष्यत्वानुपपत्तेः । तद्विशेष्यत्वे धर्मनिरूप्यधर्मिणो न प्रत्यभिज्ञा ; धर्मस्यापि धर्मित्वेन स्वतन्त्रत्वात् । यदा तु देशादिना धर्म्यवच्छेदे धर्मस्याप्यन्तर्भावः, तदा अग्न्यादिव्याप्यता धूमादेः सिद्धा ; सकृद्दर्शनादेव देशकालादेरनन्वयात् । तदन्वये च तद्विशेषविशिष्टस्यैव व्याप्यता स्यात् ; न तु सर्वदेशानुगतस्य । ननु तथाप्यग्न्याद्याकृतिक व्यक्तिभेदसंयोगादिसंबन्धवद्भूमाद्याकृतिक व्यक्ति- भेदमात्रस्यैव दृष्टत्वात् तत्संबन्धवद्व्यक्त्यन्तरस्य चादृष्टत्वात् न व्याप्यत्वग्रह इति – तन्न ; व्यक्तिभेदस्यैव तदोपाधित्वात्; तस्य च व्यक्त्यन्तरदर्शन- निरस्यत्वात् ।
अथ तत्राप्युपाधिशङ्का ; न; अग्नित्वधूमत्वविशिष्टत्वाकारेण सर्वानुगत- व्याप्यत्वग्रहस्य सुशकत्वात् । एवंच तर्कान्मानात् व्याप्यत्वग्रहे च लक्षणीयत्वम् । ननु धूमत्वादिविशिष्टत्वाकारेण सर्वतद्वयक्तिप्रतीतौ अग्नित्यादिविशिष्ट- तदविशेषात् प्रमितिविषयत्वेन नानुमानप्रामाण्यम् — तन्न ; अधिगतार्थविषयस्याप्रामाण्यानङ्गीकारात् । तत्प्रतीतेः संस्कारमात्रजत्वाभावात् न च स्मृतित्वम् । तद्वयक्तेरपि ननु धूमासंबद्धस्याप्यग्नेर्दर्शनान्न तद्वयाप्यता अग्नेर्धूमव्यभिचारित्वेऽपि धूमस्य तदव्यभिचारात् । सकृद्दर्शनगम्यः । औपाधिकशङ्कानिरासस्तु असकृद्दर्शनादस्तु । धूमादेरिति – तन्न ; अतः संबन्धः न च भूयोदर्शनसंस्कारसचिवं मनो बहिरर्थव्याप्तिग्रहे प्रमाणम् ; तस्य केवलस्य बाह्यार्थग्रहेऽप्रामाण्यात् । न च बहुशोऽग्नौ सत्येव धूमदर्श- नात् असति चादर्शनात् तस्य च व्याप्तिं विना अनुपपन्नत्वात् अर्थापत्तिस्तत्र प्रमाणमिति—तदन्वयव्यतिरेकस्य दृष्टाग्निसंबन्धमात्रादप्युपपत्तेः प्रक्षीणत्वा- दर्यापत्तेः । अतो यत्प्रमाणादेव विशिष्टत्वावगमः, तत्प्रमाणादेव व्याप्यत्वा- वगतिरपि । तत् द्विविधम् – साक्षात् परंपरया वेति । धूमादिनाग्न्याद्यवच्छेदकं ज्ञानमाद्यस्योदाहरणम् । द्वितीयस्य स्फोटादिकार्यादवगतत्वेन तत्र शक्त्याख्य- वस्त्ववच्छेदकं ज्ञानम् । ११. प्रमाणनिरूपणम् १९९ तत् पुनस्त्रिविधम् — कारणानुमानं कार्यानुमानम्, अनुभयानु- मानमिति । विशिष्टपूरादिदर्शनात् वृष्ट्याद्यवच्छेदकं ज्ञानं कारणानुमानम् । विशिष्टमेघादिदर्शनात् वृष्टथागमज्ञानं कार्यानुमानम् । कृत्तिकोदयाद्रोहि- ण्याद्यासत्त्यवच्छेदकं ज्ञानमनुभयानुमानम्’ । 1 किंच अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति त्रिविधम् | तत्राद्यः पक्षसपक्षान्वयी सपक्षैकदेशान्वयी वा विशिष्ट पक्षाद्यावृत्तावाधित- विषयोऽसत्प्रतिपक्षश्च । पक्षस्तु सिषाधयिषितधर्मवान् धर्भी । धर्मस्य सिद्धत्वे तु न पक्षतेत्युक्तम् । पक्षे सर्वत्रान्वयी नैकदेशी । एकदेशी व्यापकताभास इत्युक्तः । साध्यसमानधर्मबान् सपक्षः । तत्रान्वथी । तस्मात् व्यावृत्त्या आभास इत्यर्थादुक्तः । साध्यविरुद्धधर्मवान् विपक्षः । तस्मात् सर्वस्माद्व्यावृत्तः । तदव्यावृत्त्या आभासः । प्रमाणान्तराबाधितसाध्योऽवाधितविषयः । तद्वाधितत्वे त्वाभासः । अप्रति- सावनोऽसत्प्रतिपक्षः । प्रतिसाधने आभासः । शून्यविपक्षवान् पूर्वोक्तलक्षणः केवलान्वयी । सपक्षशून्यः पूर्वोक्तलक्षणः केवलव्यतिरेकी । स च सर्वः स्वार्थपरार्थभेदात् द्विविधः । तत्राद्यः स्पष्टः । इतरत्तु त्र्यवयव- वाक्यम् । अवयवास्तु 2 प्रतिज्ञाहेतूदाहरणानि । तान्यवान्तरवाक्यानि । तत्र प्रसिद्धवस्तुनः साध्यधर्मवन्निर्देशः प्रतिज्ञा । प्रसिद्धपदाद्विशेषणाद्वा विशेष्याद्वा अप्रसिद्धस्याभासतोक्ता । साध्यधर्मवत्त्वपदात् धर्मिसाध्यस्याभासतोक्ता । पक्षनिष्ठप्रसिद्धाव्यभिचारिलिङ्गनिर्देशो हेतुः । पक्षनिष्ठतावचनादपक्ष- निष्ठस्याभासता । प्रसिद्धवचनादप्रसिद्धस्याभासता । अव्यभिचारिवचनात् व्यभिचारिण आभासता । व्यभिचारश्च द्विविधः - साधारणासाधरणभेदात् । 1.
अत्र चेत्थं शालिकनाथो विशेषान्तरं वक्ति – ननु चन्द्रोदयात् समुद्र- वृद्धयनुमाने, कृत्तिकोदयात् रोहिणीसंनिधानकल्पने च कथं समानाश्रयत्वम् ? उच्यते — एककालवर्तित्वं चन्द्रोदयसमुद्रवृद्धयोः । तत्र काल एक एय । तथा कृत्ति- कोदयरोहिण्यासत्त्योरेकाहोरात्रवर्तित्वेन न दोष इति । 2. अत्र चायं ग्रन्थकारः प्राभाकरमतमनुसरति । यदाह शालिकनाथः- “अबाधित इति प्रतिज्ञा । ज्ञातसंबन्धनियमस्येति दृष्टान्तवचनम् । एकदेशे दर्शनादिति हेत्वभिधानम् । तदेवं त्र्यवयवमनुमानम् इति । २०० साधारणः नयद्यमणिः ‘पक्षत्रयान्वयोऽनैकान्तिकः 1 असाधारणः सति सपक्षे पक्षमात्रान्वयः । अन्वयात् व्यतिरेकाच्च द्विविधमुदाहरणम् । प्रसिद्ध साध्यसाधनधर्म- वदूदृष्टान्तनिर्देशो ऽन्वय्युदाहरणम् । प्रसिद्धपदनिवेशात् अप्रसिद्धसाध्यसाधनव- दूदृष्टान्तस्याभासता । साध्यसाधनधर्मवदित्युक्त्या साध्यसाधनधर्मविकलाश्रय- हीनानामदृष्टान्तता । साध्यसाधनधर्मव्यावृत्त प्रसिद्धधर्मिनिर्देशो व्यतिरेक्युदा- हरणम् । साध्येत्याद्युक्त्या साध्याव्यावृत्तसाधनाव्यावृत्ताप्रासिद्धाश्रय- हीनानामनुदाहरणता | कैश्चिदुक्तौ । ते अनतिप्रयोजने उपनयनिगमनाख्याववयवौ कैश्चिदुक्तौ अतिस्पष्टे च । अतः स्पष्टलक्षणराहित्ये पक्षादिवदाभासतोक्ता । तथाहि- अप्रसिद्धविशेषणादयः पक्षाभासाः । ते च वस्तुतो हेतुदोषा एव । ते चासिद्धयन्तर्भूताः । तदुक्तं तज्ज्ञै: 2 – “व्याप्तस्य पक्षधर्मतया प्रतीतिः सिद्धिः । इयं च व्याप्तिपक्षधर्मतास्वरूपाणामन्यतमाप्रतीत्या भवन्ती यथासंख्य- मन्यथासिद्धिराश्रयासिद्धिः स्वरूपासिद्धिरित्याख्यायते । मध्यमाप्याश्रयस्वरूपा- प्रतीत्या तद्विशेषणपक्षत्वाप्रतीत्या चेति द्वयी । तत्र चरमा सिद्धसाधनमिति व्यवहियते” इति । तत्रान्यथासिद्धिर्हेत्वन्तरात् सिद्विः । उपाधित्वाभिहितहेतुतः सिद्धिरन्यथासिद्धिरित्यर्थः । आश्रयस्वरूपासिद्धिराश्रयवस्तुनोऽसिद्धिः गगनकु- सुमवत् स्वरूपाप्रतीत्या भवति । एवं सिषाधयिषितधर्मवत एव पक्षत्वात् धर्मवत्त्वसंदेह एव सिषाधयिषितत्वात् प्रतिपक्षिणोऽपि धर्मवश्वसिद्धावसंदेहात् अपक्षत्वे पक्षस्वरूपाप्रतीत्या दृश्यत इति तद्ग्रन्थसारार्थः । चक्रकानव- स्थान्यान्योश्रयाश्च तर्करूपाः स्वरूपासिद्धयन्तर्भूताः । पक्षविपक्षयोरेव एवमनिश्चितपक्षवृत्तित्वादसिद्धा हेत्वाभास उक्तः | विरुद्धस्तु वर्तमान हेत्वाभासः 1 सव्यभिचारोऽनैकान्तिकाभासः । तत्स्वरूपमुक्तमः । प्रत्यक्षादिप्रमाणबाधितविषयः कालात्ययापदिष्टः । सप्रति सधनः प्रकरणसमः । साधनविकलादयो दृष्टान्तदोषाः । एतत्सर्वं पूर्वोक्तलक्षण- वाक्यादेव निरस्तम् । अन्यच्चान्यत्र द्रष्टव्यमित्युपरम्यते ।
- पक्षत्रयेति । पक्षसपक्षविपक्षेत्यर्थः । 2. उदयनाचार्यैः कुसुमाञ्चलावित्यर्थः । ११. प्रमाणनिरूपणम् २०१ विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्य, ज्ञानविषयानावरणत्वात् । यद् ज्ञानविषयानावरणं न तज्ज्ञाननिवर्त्य, यथा घटादि । ज्ञाननिवर्त्यमज्ञानं विषयावरणम्, यथा शुक्तिकाद्यज्ञानमित्यन्वयव्यतिरेकिण उदाहरणम् । स च सपक्षैकदेशवृत्तिः; ज्ञानानिवर्त्यकुड्यादीनां विषयावरणत्वदर्शनात् । न चास्य सपक्षाभासत्वम् ; भाष्ये साधर्म्येदाहरणानुपादानादिति ; – ज्ञानानिवर्त्य साध्यधर्मि- घटादेर्विद्यमानत्वात् । भाष्येऽनुपादानं तु स्पष्टत्वात् । ज्ञाननिवर्त्याज्ञानस्य विषयावरणत्वस्यैव प्रदर्शनीयत्वाच्च व्यतिरेकिदृष्टान्तमात्रं प्रदर्शितम् । विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रितम् ; अज्ञानत्वात् । यथा शुक्तिकां रजतत्वेन गृह्णतोऽज्ञानम् । तद्धि ज्ञात्राश्रयमिति केवलान्वयिन उदाहरणम् ; ज्ञानमात्रब्रह्माश्रितवस्त्वन्तराभावादविपक्षत्वात् । चिद्वस्तुप्रकृतिमहदादिश्च द्रव्यम् ; गुणवत्त्वात् ; यन्न द्रव्यं न तद् गुणवत् ; यथा रूपरसादीति केवलव्यतिरेकिण उदाहरणम् । सर्वद्रव्याणां पक्षीकृतत्वेन सपक्षाभावात् । आदिशब्देन परमात्मा जीवास्तद्धर्मभूतज्ञानं च निर्दिष्टम् । अतः सर्वद्रव्यपक्षीकारः । दिक्कालयोरपृथग्द्रव्यत्वमुक्तमन्यत्र । “ज्ञात संबन्ध नियमस्यैकदेशस्य दर्शनात् । एकदेशान्तरे बुद्धिरनुमानमबाधिते ॥ " इति वृत्तिकारे तलक्षणं वास्तु । तद्विवरणं च पूर्वर्मामांसाव्याख्यानेषु पश्चिकादिषु द्रष्टव्यम् । नव्याख्यातॄणां व्यतिरेकिदृष्टान्तः केवलव्यतिरेकी च नेष्टः । अस्म- द्भाष्यकृतां तु तदुभयमपीष्टमेव ; भाष्यदिषु तदर्शनात् । यत्तु तद्व्याख्यातृभिरुक्तं साधर्म्यदृष्टान्तादेव नियमसिद्धिरिति — तन्न ; साधर्म्यदृष्टान्तमात्रान्नियत्यप्रतीतेः व्यातिरेकदृष्टान्तस्य विपक्षनिवृत्तेरपि वक्तव्यत्वात् । यत्तु विपक्षनिवृत्तेरभावरूपतया सपक्षेऽस्तित्वस्यैव नियतिहेतुता ; न चानन्तविपक्षनिवृत्त्या नियमः सुग्रह इत्युक्तम् — तदपि न ; साध्याभावरूप-
- पञ्चिकादिष्विति । शालिकनाथीये प्रकरणपञ्चिकायामृजुविमलादौ चेत्यर्थः । 26 २०२ नयधुमणि: कैवल्यानुवृत्तौ साधनाभावरूप कैवल्यस्य सपक्षनियतिनिश्चयहेतुत्वात् । न हि तदननुवृत्तौ तन्निश्चयः; सपक्षाणामप्यनन्तत्वात् विपक्षानन्त्यचोद्यसाम्याच्च । यदि धूमत्वाद्यतिरिक्ताकारेण सर्वव्यक्त्यन्वयस्य सुगमता, तदा केवलव्यतिरे- कि च लोकेऽवश्यमङ्गीकार्य व्युत्पत्त्यादौ । ‘लक्षणत एव हि गवादिव्युत्पत्तिः । सास्नादिमत्त्वं हि गवादेर्लक्षणम् । विप्रतिपन्नं प्रति तथैव साध्यं च । इयं गौः, सास्नादिमत्त्वात् ; यद्गौर्न भवति, तत् सास्नादिमदपि न भवति ; यथा महिषादीति प्रयोगात् । वैदिकार्थेषु तु वेदादेव धर्मासाधारण्यनिश्चय इति तत्र लक्षणवाक्येषु केवलव्यतिरेक्यभ्युपगमोऽपीति सर्वं सुस्थम् । इत्यनुमाननिरूपणम्
- लक्षणत इति । श्रीमद्वेकटनाथदेशिकैस्तु केवलव्यतिरेकी नाभ्युपगतः । तथाचाहुः— “साध्याभावो विपक्षे कथमिव विदितस्तस्य साध्याप्रसिद्धे- र्भावात्मन्यप्यमुष्मिन् प्रतिभटवयुषा ह्यत्र ते व्याप्तिसिद्धिः । इत्यज्ञातान्वयेऽस्विन् कथमिव सुशकः स्यादभावो नियन्तुं तो सारोऽन्वयोऽतः क्वचिदनुपधिकः केवलान्वय्यपीष्टः ॥” इति । केवलव्यतिरेक्यभ्युपगमे संप्रदायविरोधमप्याहुर्न्यायपरिशुद्धौ” केवल- । व्यतिरेकि तु साधनदशामेव नासादयति, सपक्षान्वयविरहात् असाधारणवत् इत्यादिना आत्मसिद्धौ भगवद्यामुनमुनिभिः प्रपश्चितत्वात् " इति । स्वाचार्यवचनमपि निर्दिशति – “न च सिद्धान्तिनोऽयं प्रसङ्गः, केवलव्यतिरेकिप्राम्राण्यानभ्युपगमात् " इति । लक्षणं च केवलव्यतिरेक्यनभ्युपगमेऽपि सुवचमिति तत्रैव प्रतिपादितम् । ।शास्त्रनिरूपणम् वैदिकशब्दजसंनिकृष्टार्थावच्छेदकं शास्त्रम् । तत्र वैदिकेत्युक्तवैदि- कशब्दजन्यस्याशास्त्रार्थतोक्ता । शब्दजमित्युक्त्यानुमानोपमानादिव्यवच्छेदः । असंनिकृष्टोक्त्या प्रत्यक्षादिव्यवच्छेदः । ततश्चापैौरुषेयग्रन्यसंदर्भान्तरार्थावच्छे- दकज्ञानहेतुत्वात् तस्य वेदत्वव्यवहारः । काठकादिसमाख्या च प्रवचननिमित्तेति काठकादिसंज्ञया न तस्य पौरुषेयत्वम् । ‘विश्वामित्रस्य सूक्तम्’ इत्यादिभिः विश्वामित्रादिभिस्तज्जन्मभिस्त- दधीयानैरपि तपोविशेषादपौरुषेयतदनुवाकादेर्दृष्टत्वनिमित्ता संज्ञा । काण्ड- र्षित्वमप्येवमेव । अत एव हि " ब्रह्म स्वयंभु” इत्यादिश्रुतिः । “अनन्ता वै वेदाः” इति चानन्त्यवचनं नावधिवैधुर्यमात्रात् ; किंतु कालापरिच्छेदात् नित्यत्वादपि । एतेन वाक्यत्वात् तस्यानित्यत्वानुमानमपि निरस्तम् । “तस्य वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदः” इत्यादौ उत्पत्युक्तिरपि महाप्रलयावसाने परमात्मनश्चतुर्मुखादिभ्यः प्रथमाध्यापनमात्र- परेत्युपपन्ना । अत एव हि “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति श्रुतिः । सर्वज्ञत्वादेव च पूर्वानुपूर्व्यविस्मरणात् तस्य तदध्यापकत्व- मुपपन्नम् । आनुपूर्व्या अपुंप्रभवत्वत एव वेदस्य नित्यत्वमुक्तम् । अन्यत्र च “शब्दार्थसंबन्धश्चापौरुषेयः” इति । चतुर्विधपुरुषार्थतत्साधनाद्यावेदकत्वाद्वेदस्य वेदत्वम् । नित्यभगवच्छासनविधिनिषेध प्रचुरवेद्यवेदकमिति तदेव शास्त्र- शब्दाभिधेयं ज्ञानम् ’ । अत एव हि “वेदशास्त्राविरोधिना” इत्युक्तिः । शब्दविशेषजन्यज्ञानादेव वस्त्ववच्छेदाद्धयानादिव्यवहाराच तज्ज्ञानस्यैव शास्त्रत्वम् । तज्जनकशब्दविशेषे तु तत्प्रयोग औपचारिक इत्युक्तम् । यत्तु कृत्स्नवेदस्य कार्यपरत्वात् कार्यस्य स्वसाधनापेक्षपर्यन्तत्वात् ज्ञानात् तत्प्रेरणाधीः शास्त्रमिति सर्वस्य तस्य प्रेरणापर्यन्तस्त्वमुक्तम्- तदसत् ; कार्यवाक्यार्थवादिभिरपि शास्त्रमनिषिद्धस्वर्गादिसाधन फलपरमपीत्यभि -
इत्युक्तम् । अत एव “यः शास्त्रविधिमुत्सृज्य” इति गीतावचनभाष्ये ‘शास्त्रं वेदाः’ २०४ नयद्युमणिः हितत्वात् सर्वस्य कार्यपरत्वाभावात् प्रेरणापर्यन्तत्वासिद्धेः । किंतु ‘सर्वो वेदभागः परमात्मपरः’ इति वाक्यार्थप्रदीपे उक्तम् । अतः परमात्मन एवेष्ट- दत्वेनेष्टसाधनत्वेऽपि यागसाध्योपासनादिकृत्स्नस्य तत्साधनत्वाद्यागादेश्व साध्यरूपत्वात् तद्धीतः प्रवृत्तेः तद्धीहेतुवाक्यानां च प्रचुरत्वात् तद्धियामपि प्राचुर्यात् तस्य शास्त्रत्वव्यवहारः । अथवा “शासु अनुशिष्टौ ” इति स्मरणेऽपि धातूनां नानार्थत्वात् शासनस्य बोधनरूपतया शास्त्रतास्तु । एवंच सर्ववेदव्यापिता शास्त्रत्वव्यवहारस्य । वेदाश्च मन्त्रब्राह्मणार्थवादात्मकाः । कृत्स्नोऽप्यसंनिकृष्टार्थबोधनपर एव । मन्त्रा हि समाराध्यदेवतास्वरूपादेः प्रमाणान्तरासिद्धस्य प्रतिबोधका इति तत्प्रतिपादकाः । ब्राह्मणभागेषु तु न विसंवादः । ब्राह्मणशेषार्थवादा अपि प्रमाणान्तरासिद्धानुष्ठे- यार्थप्राशस्त्यादिबोधका: 2 । एवंच वेदशास्त्रशब्दयोः पर्यायत्वं चोपपन्नम् । भारतादौ तु शास्त्रत्वव्यवहारो भाक्तः; तेषां संकेतादि मूलत्वात् । आयुर्वेदधनुर्वेदयोः स्मृतिषूपवेदत्वोक्तेः पुरुषार्थतत्साधनयोः कथंचिद्वेदतास्तु । वेदाङ्गव्याकरणादावपि शास्त्रत्वव्यवहार औपचारिकः ३ । अतो वेदस्यैव शास्त्रत्वम् । 4 ननु शास्त्रस्यानुमानान्तर्भावः । शब्दार्थयोस्तु स्वाभाविक संबन्धात् शब्दश्र वणे तद्वधापकपदार्थानुभवसंभवादिति —न; पदानां धूमादिवदेकैकार्थसंबन्ध-
- जैमिनिना " तच्चोदकेषु मन्त्राख्या” इति मन्त्रलक्षणं सूत्रितम् । तत् कर्मसमवेतार्थस्मरणं चोदकं प्रयोजनतया प्रेरकं येषां तेषु मन्त्रव्यवहार इति तदर्थः । अनुष्ठेयार्थप्रकाशकत्वं मन्त्रत्वमिति यावत् । अतो देवतास्वरूपावगमो मन्त्रेणेति भावः ।
- आदिशब्देन निन्दापरिग्रहः । अर्थवादो हि स्तुत्यादिना विहिते निषिद्धे वार्थे पुरुषं त्वरितं प्रवर्तयति निवर्तयति वा । यथा - " वायव्यं श्वेतमालभेत भूतिकामः” इति विहितमर्थ " वायुर्वै क्षेपिष्ठा देवता" इति प्रशंसन् पुरुषम- विलम्बेन तत्र प्रवर्तयति । तथा “रजतं न देयम्” इति निषिद्धं रजतदानं “सोऽरोदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्वम्” इति रुद्ररोदनकथनपुरःसरं विनिन्दन् ‘पुरुषं रजतदानात् निवर्तयति ।
- व्याकरणस्य वेदाख्यशास्त्रोपकारकत्वात् शास्त्रत्वेन व्यवहारः तदुपकारप्रकारश्च " रक्षोहाग मलध्वसंदेहाः प्रयोजनम्” महाभाष्ये विस्तरेणोपपादितमवगन्तव्यम् । इति वेदरक्षादिनेति 1
- नन्वित्यादिना वैशेषिकाणामाक्षेपः । तथाहि — प्रत्यक्षमनुमानं ११. प्रमाणनिरूपणम् २०५ नियत्यभावात् । अक्षादीनि हि पदानि नानार्थ संबद्धानि । अग्निगङ्गादिपदानि सादृश्यलक्ष्यार्थपराणि । तानि च न नियतार्थपराणि । ननु मास्तु पदार्थानुमापकलिङ्गत्वम् ; ‘अक्षैर्दीव्यति’ इत्यादिवाक्यानामक्ष- विशेषान्वयनियतेः ततस्तद्विशेषानुमानम् तन्न; आकाङ्क्षासंनिधियोग्य- ताद्युपधित एकैकार्थपरत्वानियतावपि लौकिकवाक्यानामनुवादत्वेन प्रामाण्य- फालाभावात् प्रथमं लिङ्गत्वाभ्युपगमात् । पुरोदितवाक्यश्रवणसमनन्तरं हि अस्य तज्ज्ञानात् तदविनाभूतार्थानुमा । अतो लौकिकवाक्यप्रयोगस्याभिप्रायानु- सारित्वाद्वाक्यादभिप्रायापरपर्यायज्ञानाद्यनुमानादेव प्रवृत्तिरिति लिङ्गभूतवाक्यस्य पश्चात् स्वार्थेऽनुवादकतैवेति न परोक्षार्थपरत्वेन लौकिकवाक्यस्य प्रामाण्य- मिति तत्र वाक्यादर्थानुमानं युक्तं लोके । वैदिकानां तु शब्दानां न वक्तेति नानुमानता वेदज्ञानस्य । ननु लौकिवाक्यानां न लिङ्गत्वोक्किर्माध्यादौ— तन्न ; वेदार्थ- संग्रहादौ मन्वादिवाक्यानां विप्रकीर्णशास्त्रमूलत्वेन तदनुमानलिङ्गत्वाभि- धानात्; इतिहासपुराणानां मन्त्रार्थवादमूलत्वेन तल्लिङ्गत्वाभिधानाच्च । विप्रकीर्णशाखामूलत्वेन हि प्रामाण्योक्तौ तद्वाक्यानां तदनुमान लिङ्गत्वोक्तिरर्थात् । तेषां श्रुतिवदनपेक्षया प्रमाणत्वाभ्युपगतौ न मूलान्तरतः प्रामाण्येोक्त्युपपत्तिः । श्रुतिस्मृत्योर्विरोधे न स्मृतिबाधोक्त्युपपत्तिश्च ; उभयोस्तुल्यबलत्वेन विरोधे विकल्पापत्तेः । स्मृतीनामनुमानत्वे तु प्रत्यक्षादिश्रुत्या विलम्बितानुमानबाधो युक्तः । एवमाप्ततमत्वेन निश्चितमन्वादिवाक्यानामपि मूलान्तरापेक्षया प्रामाण्ये- ऽन्येषां संदिग्धशक्तिप्रमादादिमतां वाक्यानां किमिति नान्यतः प्रामाण्यम् ? अतो वेद एव शास्त्रत् । चेति द्वयमेव प्रमाणम् । शब्दप्रमाणस्यानुमानेन कृतकरत्वम् । यथा - एतानि पदानि स्मारितार्थसंसर्गवन्ति, आकाङ्क्षादिमदासोक्तपदत्वात्, गामभ्याजेति पदकदम्बवत् इति ज्ञानावच्छेदकतया संसर्गसिद्धावर्थबोध इति पदपक्षकानुमानेन सिद्धेः शब्दो न प्रमाणान्तरम् । एवमर्थपक्षकमनुमानमपि कथयन्ति । यथा - एते पदार्थ मिथः संसर्गवन्तः, आकाङ्क्षादिमत्पदकदम्बस्मारितत्वात्, गामभ्याजेति स्मारितपदार्थवदिति ।
- अभिर्माणवकः, गङ्गायां घोष इत्यादाविति भावः । २०६ नयधुमणिः यद्यपि वेदाख्यमहावाक्यस्य प्रधानतमपरमात्मपरत्वादैक्यम् ’ ; तथा प्यवान्तरार्थभेदात् तस्य नानात्वमपि । तथा सिद्धाद्यर्थविशिष्ट कारभेदादर्थमेदो- पपत्तिः । तत्र निष्कृष्टपरमात्मस्वरूपपराणि, परमव्योमपराणि, जीवस्वरूप- त्रिगुणात्मक प्रधानमहदादिस्वरूपपराणीति सिद्धपराण्यपि शास्त्राण्यनेकविधानि । “यजेत स्वर्गकामः” “आत्मानमेव लोकमुपासीत” “नानृतं वदेत्” इत्यादीनि साध्यपराण्यपि नानाविधानि । एवंविधशास्त्रभेदहेतवः साध्यानुबन्ध भेदाः । साध्यं च स्वर्गादिफलम् । तच्च द्विविधम् — अनभिसंहितमभिसंहितं चेति । तत्राद्यं नित्यकर्मसाध्यम् द्वितीयं काम्यकर्मसाध्यम् । ननु नित्यकर्मणामपि फलसाधनखे नित्यकाम्याविवेकः - तन्न ; नित्यानामकरण प्रत्यवायः । फलभावे तु न निवृत्तिः । तथा यावज्जीवमग्नि- होत्रादिष्वपि प्रवृत्तिः । अतो नित्यादीनामपि फलवत्वम् । नित्यकर्मसु कर्तृ- विशेषणं जीवनादि । निषिद्धनिवृत्तौ न विशेषणापेक्षा, निषिद्धप्रवृत्तकर्तृ- लाभात् । नैमित्तिकेषु तु भेदनादयस्तद्विशेषणम् । ‘संक्रान्तौ स्नायात्’ इत्यादौ तु कालविशेष एव तद्विशेषणम् । न चाकरणे प्रत्यवायस्य सतः 2 तत्र स्वर्गीदिफलकल्पना । आर्थवादि- कफलसद्भावे तु तत्फलस्यैव कल्पना । यत्र त्वकरणे प्रत्यवायश्रुतिः, न च फलविशेषश्रुतिः, न च जीवनादिविशेषणश्रवणम्, तस्य कर्मणो नित्यत्वमेव । नित्यकर्मणामप्यपरमितसुखहेतुत्वमेव 3 । प्रत्यवायपरिहारस्तु नान्तरीयकं
- ऐक्यमिति । पूर्वकाण्डो भगवदाराधनभूतकर्मबोधकः । उत्तरकाण्डस्तु साक्षात् भगवत्पर इति द्वयोरपि काण्डयोः प्रधानभूतभगवत्परत्वमित्यर्थः ।
- प्रत्यवायस्य सन इति । प्रत्यवाये सति तन्निवृत्तिरूपं फलमनादृत्येति अनादरे षष्ठी ज्ञेया ।
- अत्र “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥” इत्यादिवचनान्यनुसंधेयानि । अविद्याशब्दोऽत्र विद्येतरकर्मपरः । मृत्युशब्दो ज्ञानसंकोचकरं प्राक्तनकर्मजातमाह । उपासनाङ्गानभिसंहितफलानुष्ठित कर्मभिः मृत्युशब्दाभिधेयकर्मनाशे ज्ञानप्रसरः स्वयमेवाविर्भवन् उपासनापरिपूर्तिमापादयन् अमृतशब्दाभिधेया परिमितसुखोत्पादनाय कल्पत इति श्रुत्यर्थोऽवधेयः ।
- नान्तरीयकमिति । अन्तरा विना भवतित्यन्तरीयकम् । तन्न भवतीति नान्तरीयकम् । अवर्जनीयतया अवश्यंभावीत्यर्थः । ११. प्रमाणनिरूपणम् २०७ फलम् । विहिताकरणस्य व्यापारनिवृत्तिरूपत्वेऽपि नरकात्मकान्याकाररूपबुद्धि- व्यापाराच्च तत्फलत्वम् । यत्राग्निहोत्रादौ स्वर्गादिकामना जीवनं च श्रुते तत्रेोभयाधिकारपरत्वाद्भिन्नशास्त्रता ; तत्र साध्यस्य भिन्नत्वात् । काम्येच्छयाग्नि- होत्रादिप्रवृत्तौ नित्याधिकारः प्रसङ्गात् सिध्यतीति न तत्र प्रत्यवायः । कैश्चित्तु नित्यकर्मणामनादिकालसंचितपापनिरासपरत्वमेवेत्युक्तम् । तत्पक्षेऽपि साध्यभेदात् शास्त्रभेदः सिद्धः । सन्ध्यावन्दनादिकर्मणां तु कर्मान्तराधिकारापादकत्वान्न फलान्तरसाधनधीत्वम् । तथाप्यवान्तरसंस्काररूप साध्यभेदात् शास्त्रभेदः । एकैककर्मण्यपि हि फलभेदः श्रूयते । तत्फलसाधनत्वाकारेण विधेयार्थभेदात् शास्त्रभेदः सिद्धः ! साध्यमपि विधेयभेदकतया शास्त्रभेदकम् ; न तु स्वतः । स्वर्गपश्वादिसाध्यार्थानां साधनत्वेन विधेययागादीनामपि नानात्वात् तत्परशास्त्र- नानात्वं युक्तम् । एवं साध्यभेदात् शास्त्रभेदः कर्मसु द्रष्टव्यः । तथा वेदनेऽप्युद्गीथविद्यादौ कर्मफलानामविलम्बितसाध्यत्वादिफलश्रवणात् साध्यभेदात् शास्त्रभेदः । यद्यपि मोक्षोपायपरविद्यासु न भेद इति न साध्यभेदः, तथाप्यैहिकफलविद्यातो मोक्षपरविद्यानां भेदस्य वक्तव्यत्वात् साध्यभेदात् शास्त्र- भेदसाधनं सप्रयोजनम् | न केवलं फलाद्यधिकारसाच्यभेदेन शास्त्रभेदः, किंतूत्पत्तिप्राप्तिविकृति- करणोपकाराख्यावान्तरसाध्यभेदतोऽपि । न तु ततः परमशास्त्रभेदः । “वेदि करोति” “पुरोडाशं करोति" इत्यादय उत्पत्तिसाध्यस्योदाहरणम् । कृतिविशेषाद्वे- द्यादिसंस्थानविशेष उत्पद्यत एव । ‘पयो दोग्धि ’ इत्यादि प्राप्तेः । सिद्धमेव पयो दोहनात् प्राप्यते । ‘आज्यं विलापयति’ इति विकृतेः । घनीभूताज्यस्य विलापनात् द्रवत्वं विकार एव । ‘पुरोडाशं पर्यग्नि करोति’ इति संस्कारस्य । पर्यग्निकरणात् संस्कार एव पुरोडाश उत्पद्यते । संस्कारो हि कार्यान्तरयोग्यता | तदापादनं पर्यग्निकरणम् । ‘आघारमाघारयति’ ‘आज्यभागौ यजति’, ‘ब्रीही नवहन्ति’ इत्यादयः करणोपकाररूप साध्यस्योदाहरणम् । आग्नेयादीनां फलकरणादीनामुपकार एवाघारादिसाध्यः | अतः करणोपकरणपर- शास्त्राणां भेदः । करणावान्तरव्यापारतोऽपि शास्त्रभेदः कैश्चिदुक्तः । आग्नेयादीनाम- बान्तरापूर्वाणि हि करणावान्तरख्यापारतयेष्टानि । अपूर्वानभ्युपगमादेव न तदभ्युपगमः । आग्नेयादियागानां क्षणिकत्वेऽपि तत्समाराध्यदेवतानां स्थायि- २०८ नयधुमाणेः त्वात् ततः फलसिद्धेर्यागजन्यापूर्वकल्पनानवकाशः । “स एवैनं भूर्ति गमयति" इति देवताया एव हि फलसिद्धिश्रुतिः । विद्यास्वप्यात्मज्ञानादिसापेक्षत्वात् साध्यभेदात् शास्त्रभेदः सिद्धः । आत्मज्ञानादयोऽपि विद्याङ्गानीत्युपकारसाध्यभेदत उपासनादिमोक्षकारणो- पकारसाध्यभेदात् शास्त्रभेदः । उपकारश्च कारणशरीरप्रविष्ट इति न परमशास्त्राद्भेदोऽपि । निरपे- क्षसाध्यभेदपरत्वे हि तद्भेदः; अनपेक्षत्वनियमात् प्रमाणस्य । अङ्गशास्त्राणि तु प्रधानशास्त्रापेक्षाण्येव साध्यपराणीति न तेषामनपेक्षत्वम् । अङ्गत्वं च 1फलवदफलन्यायात् । फलवत्पदार्थ संनिधावफलत्वेन श्रुताः पदार्थास्तदङ्गमिति हि तत्रोक्तम् । श्रुतिलिङ्गादिभिर्द्वारिशेषतोता । श्रुत्यादिस्वरूपं च श्रुतिलिङ्गादि- निरूपणे उक्तम् । अतोऽङ्गानां न परमसाध्यभेद इति न तत्परशास्त्राणां परत्वम् । अवान्तरसाध्यभेदादवान्तरभेदोऽस्त्येव । ‘दध्ना जुहोति’ ‘पयसा जुहोति’ इति विकल्पार्थशास्त्राणां नियमांशसाध्य- भेदात् परस्परं भेद इत्यादि साध्यभेदात् शास्त्रभेदः । विस्तरस्तु पूर्वकाण्डद्वितीय- लक्षणे गुणोपसंहारपादे च । 2 अनुबन्धाश्च विधेयभेदहेतवः शब्दान्तराभ्याससंख्यागुणक्रियानामधे - यानीति । ‘जुहोति’ ‘ददाति’ इत्यादयः शब्दान्तरस्योदाहरणम् ; देवतेोद्देशेन द्रव्यत्यागरूपयागात्मकार्थपरत्वाद्यजतेः; जुहोतेस्तु व्यक्तह विषश्चोदितदेशविशेष- प्रक्षेपरूपाधिकार्थपरत्वात् । ददातेश्च पुरुषविशेषं प्रति व्यक्तवस्तुविषयत्वेन तस्य पुरुषस्य स्वत्वाभिमानोत्पत्तिपर्यन्तत्वात् शब्दभेदादेव विधेयव्यापार- भेदावगतेस्तत्परशस्त्रभेदः । वेदान्ते तु सदात्माकाश दिवाचकशब्दभेदात् शास्त्रभेदः । “सन्मूला: " इत्यादौ सच्छन्दापरित्यागेन तद्विद्यासमाप्तिः । तथा “आत्मा वा इदमेक एवाग्र आसीत् " " अस्य लोकस्य का गतिरिति ; इत्यादावपि तथा । यद्यपि सदादिशब्दा
- फलवत्संनिधावफलं तदङ्गमिति न्यायादित्यर्थः अनुबन्धा इति । अवच्छेदका इत्यर्थः ।
आकाश इति होवा च” निरुपाधिकसत्तायोगिपराः, ११. प्रमाणनिरूपणम् २०९ तथापि तत्तद्वाच्यत्वाकारेणैवोपास्यत्वप्रतिपादनपरा इति विधेयविधाविशेषपराः । सदादिशब्द | वृत्त्यनुपयोगः 1 अतस्तद्विद्याविषयब्रह्मवाचक- अन्यथा सदादिशब्दानां केवलानाम् ‘उपासीत’ इत्यादिसहितानां विद्याविशेषमेदकत्वात् तत्परशास्त्रभेदः । अविशेषपुनः श्रुतिरभ्यासः । “समिधो यजति" “तनूनपातं यजति” इत्यादि तदुदाहरणम् । समिदादीनां नामत्वेऽपि न विधेयभेदकत्वम्; यजतिपरतन्त्रत्वात् तन्नाम्नः । अतो ‘यजति’ इत्यविशेषेण पञ्चधा न्यस्ततया भेदविधयार्थपरत्वाभावे अभ्यासानुपपत्तेः तत्परशास्त्रभेदः । अभ्यासश्चैकप्रकरणैककर्तृकस्तद्भेदकः । न तु प्रकरणान्तरे तच्छब्दोच्चारणेऽपि प्रतिपत्तृभेदेनापि तदुपपत्तेः । पुरुषाधीनोच्चारणभेदेऽपि न तद्भेदः, तस्य पुरुषाधीनत्वात् । ; तथोत्तरत्रापि “यः पृथिव्यां तिष्ठन्" इत्यादिपर्यायेषु “स त आत्मान्तर्याम्यमृतः” इति पुनः पुनरभ्यस्यते । तदभ्यासाद्विधेयविद्याभेदः । अन्यथा सर्व पर्यायान्ते " स त आत्मान्तर्याम्यमृतः” इति सकृदेवोपदेशः स्यात् । “यः पृथिव्यां तिष्ठन्” इत्येकैकपर्यायोक्तगुणविशिष्टस्यामृतत्वगुण- विशिष्टस्य च स्वान्तरात्मतयोपासने ब्रह्मप्राप्तिश्चोपपन्नेति तत्परशास्त्रभेदोपपत्तिः । पृथिव्याधे कैक विशिष्टत्वेन ब्रह्मण एवोपास्यत्वात् तदुपासनस्य न प्रतीक- विषयत्वम् । अत एव ह्याक्षिस्थानमात्रविशिष्टाक्षिपुरुषविशिष्टस्य ब्रह्मप्राप्यु- पदेशः । सर्वान्तरात्मत्वगुणस्य नाक्ष्यादिविद्यासूपसंहार इत्युक्तं गुणोपसंहार- पादे “संभृति” इत्यत्र । अतः प्रतिपर्ययं विधेयविद्याभेदः “यः पृथिव्यां तिष्ठन्” इत्यादौ । संख्या च द्वित्वादिः स्पष्टा । “सप्तदश प्राजापत्यान् पशूनालभते । द्वे पौर्णमास्यौ द्वे अमावास्ये यजेत” इति तदुदाहरणम् । संख्या हि पृथक्व- निवेशिनी । द्विवादीनां विभक्तीनां हि सोपसर्जनसप्रत्ययप्रातिपदिकादुत्पन्न- त्वाद्विभक्तिश्रुतेरुपसर्जनादिसमुदायपृथक्त्वधीः । प्रजापतिरेषां देवतेति प्राजापत्याः ।
- ’ समिधो यजति’ इत्यादौ यजतिपदाभ्यासात् भेद उक्तः । तत्र नामधेयभेदादेव भेदोऽस्तु । किमित्यभ्यासादित्युच्यत इत्याशङ्क्य समाधत्ते- समिदादीनामिति । 27 २१० नयद्यमणिः ततो हि विभक्त्युत्पत्तिः । एवं पृथक्त्वे सप्तदशान्वये सति संख्यया यागानी विधेयसप्तदशत्वावगतिरिति तत्परशास्त्रभेदः । यद्यपि प्राजापत्यानां वाजपेयाङ्गत्वात् तत्परशास्त्राणां न परत्वम् ; तथापि तत्र न्यायव्युत्पत्तौ परमशास्त्रभेदेऽपि स एव न्याय इति तदुदाहरणम् । अत एव हि “द्वे पौर्णमास्यैौ” इत्याद्युदाहृतमस्माभिः ! संख्यया विधेयार्थ- भेदात् तत्परशास्त्रभेदेऽन्यतः पश्वादेर्दुष्टत्वे यागदोषे तद्यागमात्रस्यैवावृत्तिः न्यायफलम् । सप्तदशयागानामकशास्त्रार्थत्वेनैकयागदोषेऽपि सर्वयागावृत्तिः पूर्वपक्षफलम् । एवं दर्शपूर्णमासादावपि द्रष्टव्यम् । उत्तरत्र तु " यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः " “स वा एष पुरुषः पञ्चधा पञ्चात्मा” इत्यादयस्तदुदाहरणम् । पञ्जजनसंज्ञिताः प्राणादयः पश्च ; ते परमात्मात्मका इत्युपासनकर्मतया श्रुताः । तदुपासने चामृतत्वप्राप्तिः श्रुता । तानि च पश्ञ्चसंख्याश्रवणात् पश्चोपासनानि ; तत्संख्योपादानानुपपत्तेः । अन्यथा ननु “यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः, तमेवं मन्ये” इत्यादावाकाशसहितप्राणाद्याधारत्वे न " तमेवं विद्वान्” इति प्रत्येकं संबन्धः । प्राजापत्यानां संहितानां करणत्ववत् द्वित्वादिगुणविशिष्टपौर्णमास्यादेः पुरुषार्थसाधनत्ववच्चात्रापि पञ्चजनाद्याधारतया परमात्मोपासनानां समुदितानामेव मोक्षसाधनत्वमिति –तन्न ; प्राजापत्यानां वाजपेयाङ्गत्वनिश्चयात्, पौर्णमास्या- देरपि द्वित्वादिविशिष्टस्यैव फलसाधनत्व श्रवणात् पञ्चजनशब्दवाच्यचक्षुराद्ये- कैकेन्द्रियाधारतयोपासनमात्रादप्युपकोसलविद्यासु फलित सिद्धिश्रवणात् अत्र विरोधाभावात् परमशास्त्रभेदस्यैव युक्तत्वात् । तथा “स वा एष पुरुषः" इत्यत्र पूर्वत्रान्नप्राणमनोविज्ञानानन्दाः प्रस्तुताः । अन्नादेः परमात्मैवात्मेति ब्रह्मवल्यामुक्तम् । ब्रह्मणश्चिदचिद्विशिष्टतया स्वरूपेण चोपासनभेदः प्रतर्दनविद्यावाक्यनिरूपण उक्तः । अन्नप्राणमनसामन्यतमान्त- विज्ञानाख्यजीवान्तरात्मतयानन्दाख्यपरमात्मस्वरूपेण चोपासनं रात्मतया युक्तमिति तच्छास्त्राणि पश्च । ननु “स वा एष पुरुषः पञ्चधा" इत्यत्र “येन सर्वम्” इत्यादिना गुणान्तरोपासनाच्छास्त्रैक्यधीः; तद्गुणानामन्नादिपञ्चोपासना साधारण्यात् । “भूयो न मृत्युमुपयाहि” इति फलश्रुतेरपि तथात्वदर्शनात् तच्छ्रुतेस्तन्त्रेणो- ११. प्रमाणनिरूपणम् २११ पदेशपरत्वात् । “चिश्पतिस्त्वा" इत्यादिना अपेक्षया “अच्छिद्रेण " इत्यादेरन्वयश्च दृश्यते । “सन्ततमाघारयति, ऋजु माघारयति, दीर्घमाघारयति” इत्यादि गुणतः शास्त्रभेदस्योदाहरणम् । आघारगतगुणाः सन्ततादिगुणा भिन्नाः, अन्योन्य- निरपेक्षत्वं चेति विधेयभेदहेतुत्वेन शास्त्रभेदकाः । उत्तरत्र तु “य एप एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्” इत्यादि तदुदाहरणम् । आदित्य मन्डलाक्षिस्थानयोर्विरुद्धगुणत्वाद्विधेयभेदकत्वेन तत्पर- शास्त्रभेदः । तदुक्तं “संबन्धादेवमन्यत्रापि” इत्यधिकरणे । संनिधौ “मासमग्निहोत्रन्” इत्यादिप्रकरणान्तराद्विधेयभेदस्योदाहरणम् । प्रकरणान्तरे श्रूयमाणाग्निहोत्रादेः कुण्डपायिनामयनवाक्यैकबलान्मासादिगुणाधि- क्याच्चाग्निहोत्रादिविधेयान्तरमेवेति तत्परशास्त्रभेदः । न च मासगुणात् तद्भेदः; उदाहरणस्याप्रयोजकत्वेन न्यायमात्रस्यैव प्रयोजकत्वात् ; गुणश्रुत्यभावेऽपि केवलकर्मणः प्रकरणान्तरेऽपि श्रवणसंभवात् । किंचैकत्र फलान्तरसाधनतया श्रुतस्यैव वैश्वानरादेः फलान्तरसाधनतया नैमित्तिकतया वा श्रूयमाणत्वात् तत्र साध्यभेदाच्छास्त्रभेदः, न प्रकरणान्तरादिति प्रकरणान्तरादपि शास्त्रभेदोपपत्तेः । उत्तरत्र तु “एष तु वा अतिवदति यो यः सत्यं नातिवदति” इत्यादि उदाहरणम् ; प्राणशब्दवाच्यजीव प्रकरणात् । प्रकरणान्तरत्वाद्धि परमात्मपरत्वेनैव “एष तु वा अतिवदति” इत्यादेः शास्त्रान्तरत्वमुक्तं भूमाधिकरणे । “एष ज्योतिरेष विश्वज्योतिः” इत्यादि नामधेयस्योदाहरणम् । ज्योतिरादि- नामभेदात् विधेयनामिभेदे तत्परशास्त्रभेदः । उत्तरत्र तु दहरविद्यासंवर्गविद्याशाण्डिल्यविद्येत्यादयः प्रसिद्धाः । ननु तद्भेदाच्छास्त्रभेद इत्यन्योन्याश्रयता - तन्न; शब्दान्तरादे- विधेयानां भिन्नत्वयोग्यतामात्रज्ञापनपरत्वेनाशास्त्रत्वात् । शब्दान्तरत्वं हि पदधर्मविशेषः । अम्यासो वाक्यगतधर्मविशेषः । एवं संख्यादयोऽपि । अतो विमर्शदशायामेव शब्दान्तरादीनामन्वय इति शब्दान्तरत्वादिर्विधेयत्वाकारभेद- योग्यत्वनिश्चये तत्समर्पकाकारयोग्यत्वज्ञाने शास्त्रस्य योग्यत्वात् भिन्नत्वाच्छास्त्रात् २१२ नयधुमणि: तदर्थनिर्णय इति न कश्चिदोषः । शब्दान्तरादिहेत्वभावेऽर्थस्यैक्यात् तत्परशास्त्रैक्यं च सिद्धम् । अभिधानाभिधेयापर्यवसाने चाकाङ्गितयोग्यकल्पितार्थेनान्वितः शास्त्रार्थ इति तात्पर्यावसानं द्रष्टव्यम् । तच्चोक्तं कर्तृविशेषादिकल्पनया पूर्वमेव । बैकृतसौर्यादेः स्वसंनिधावुपकारवर्गानध्ययनात् उपकाराभावे अनुपकृतस्य चाकारणत्वादुपकारतज्जनकयोश्चाकाङ्क्षितत्वादुपकारतज्जनकप्रयाजादिपदार्थाध्या- हारात् तदन्वित सौर्यादिवाक्यं स्वार्थं प्रतिपादयति । न तु प्रयाजादिवाचकपदा- ध्याहार इष्टः; अथैरेवाकाङ्क्षापूर्तेः । एवमध्याहार एवातिदेश उच्यते । विशेषपदार्थातिदेशनियतिहेतुश्च वचनं चोदनालिङ्गानि च । " समानमितरत् श्येनेन” इत्यादि वचनस्योदाहरणम् । प्रस्तुतकर्मणः श्येन सादृश्यं हि वचनादेव | सादृश्यं चाङ्गादिद्वारेत्यङ्गातिदेशो वचनात् । प्रधानातिदेशे तु तत्त्वान्न सादृश्यम् । उत्तरत्र तु " तस्यैतस्य तदेव रूपं यदमुष्य रूपम्" इत्यादि । अत्र उपास्याक्षिपुरुषस्यादित्यमण्डले क्तपुरुषतोतिः । हिरण्मयरूपाद्यतिदेशो हि तद्वचनादुच्यते । तिदेशः । कुण्डपायिनामयनाग्निहोत्रादेरग्निहोत्रादिनाम्ना आधिकारिकाग्निहोत्रधर्मा- उत्तरत्र तु परविद्यासु स्वसंनिध्यधीत सत्यज्ञानानन्तानन्दास्थूलत्वादि- गुणानां स्वेतरसमस्तवस्तुभ्यः परमात्मनो व्यावर्तकानामानन्दमयविद्याद्यधीतानां नाम्नैवातिदेशः । तदुक्तम् “आनन्दादयः प्रधानस्य" “अक्षरधियां स्ववरोधः” इत्यधिकरणयोः । न च सत्यादिगुणानां स्वप्रकरणाधीतानामुपदेशात् संबन्धः । उपदेशातिदेशकार्यविध्यांख्यप्रमाणभेदादेव हि संबन्धः । " शरमयं बर्हिर्भवति" इत्यादिकार्यविधिवत् शाण्डिल्यविद्याविधयः आनन्दमयादिविद्याकार्ये न विहिताः, अप्रतीतेरेव । न च चोदनालिङ्गात् सत्यादिगुणातिदेशः; भाष्यादौ ततस्तदतिदे- शानुकेः; निर्वपत्यालभव्यादिवत् प्रकृति कुप्तलिङ्गस्य विरहात् ; विद्यानां प्रकृतित्वाभावादेवासद्धर्मत्वाश्च । ननु प्रकृतिविकृतित्वाभावे कथं सत्यादि-११. प्रमाणनिरूपणम् २१३ गुणातिदेश इति चेत् — तन्न ; “समानमित रच्छयेनेन” इत्यादौ प्रकृतिविकृति- भावानिश्चयेऽपि धर्मातिदेशदर्शनात् । अतिदेशो ह्याकाङ्क्षायामन्यत्र श्रुतधर्माणा- मन्यत्र संबन्धः । वचनात् तद्धर्मसमर्पणम् । तद्धर्माणां यत्राध्ययनं तत् कर्म तस्य प्रकृतिरिति तु पश्चानिश्चयः । निवपत्यादिचोदनालिङ्गादतिदेशस्तु प्रकृति - त्वनिश्चयादेव । विद्यायास्तु न तथा निश्चयः । अतः प्रकृति कुप्तलिङ्गस्य विरहात् परविद्येति नाम्नैव सत्याद्यतिदेशः । परविद्यानिश्चयस्तूपास्यवस्तुनो जगत्कारणत्वादिश्रवणात् । " स एष एव मृत्युः, एतस्मिन्मण्डले पुरुषः" इति च नामातिदेशस्यो- दाहरणम् | मृत्युरिति नाम्ना हि मृत्युवत्सर्वहारित्वधर्मातिदेश उक्तः “मृत्युवन्न- हि लोकापत्तिः” इत्यत्र । " सौयं चरुं निर्वपेत्" इत्यादौ ‘निर्वपेत्’ इत्यादिचोदनालिङ्गात् दार्शपौर्णमासिकधर्मतिदेशः । उत्तरत्र तु चोदनालिङ्गान्नातिदेश इत्युक्तम् । एवं शाखार्थापूर्तावध्याहारेण वानुषङ्गेण वा शास्त्रत्वपूर्तिः पूर्वकाण्डोका द्रष्टव्या । विस्तरभीत्यादिमात्रं प्रदर्शितमिति सर्वं समवदातम् । इति शास्त्रनिरूपणम् उपमाननिरूपणम् सादृश्यदर्शनात् परोक्षसादृश्यावच्छेदकं ज्ञानमुपमानम् । सादृश्य- ’ दर्शनादित्युक्त्यानुमानादेर्व्यवच्छेदः । परोक्षपदात् प्रत्यक्षस्य । परोक्षपदादेवा- परोक्षसादृश्य विषयज्ञानस्यानुमानत्वमपि सिद्धम् । प्रत्यक्षतो दृश्यमानयोः कचित् सादृश्येनासैा सदृश इति ज्ञानं तु प्रत्यक्षमेव, इन्द्रियसंप्रयोगजत्वात् । अस्योदाहरणमदृष्टगोः पुरुषस्य वनगतस्य गवयं पश्यतो गवयसादृश्यधीतो यत् गोगतगवयसादृश्यस्यावच्छेदकं ज्ञानम् । न च प्रत्यक्षतास्य; इन्द्रियसंप्रयोगाभावे सादृश्यावच्छेदकत्वात् । नाप्यनुमानता ; गवयगत सादृश्यस्य प्रतियोगित्वात् । ‘यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः, यथा यमो यमान्तरेण’ इत्यनुमानमपि निरस्तम् । न चास्य स्मृतित्वम्; पूर्वं तदग्रहणात् । संस्कारमात्रजत्वाभावाच्च । अत्र सादृश्यदर्शनाद्धि सादृश्यज्ञानम् । न च गवयसादृश्यस्य संस्कारोद्बोध- कत्वमात्रम् ; सहाननुभवात् तयोः; धूमस्यापि तथात्त्रापातादनुमानस्यापि पृथक्प्रमाणत्वाभावप्रसङ्गाच्च । वस्तुतः संस्कारानुत्पत्तिरेव ; पूर्वमननुभवात् । न च भूयोऽवयवसारूप्यस्य चैव सादृश्यत्वात् तस्य चैन्द्रियकत्वाहित्वादाश्रय- ग्रहणकाल एव गृहीतत्वात् प्रतियोगिग्रहणात् संस्कारोद्बोधे स्मरणोपपत्तिरिति- गोग्रहणकाले तद्गतगवयसादृश्यस्यानुल्लेखात् संस्कारानुपपत्तेः ।
न च निर्विकल्पक प्रत्यक्षेण तदनुभवाभिमानामात्रमात्रमितिः — तदनुभवे तदभिमानाभावानुपपत्तेः । अतः कारणभेदात् प्रमाणान्तरत्वमेव । यत्तु सदृशदर्शनात् स्मर्यमाणपदार्थ सादृश्यज्ञानस्य प्रमाणान्तरत्वे वैसादृश्यदर्शनात् बैसादृश्यज्ञानस्यापि प्रमाणान्तरतेत्युक्तम् —तन्न ; ‘वैसादृश्याख्यप्रमेयस्य सादृश्याभावरूपत्वात् ; अभावस्य च केवलधर्मिमात्रत्वात् पृथक् पदार्थत्वा भाषात् | तच्च वक्ष्यते । ननु अनवगतसंगतिसंज्ञास्मरणसहायं तत्समभिव्याहृतवाक्यार्थप्रत्यभि- ज्ञाप्रत्यक्षं संज्ञासंज्ञिसंबन्ध प्रमितिसाधनमुपमानमित्येव तल्लक्षणं युक्तम् । उदाहरणं तु ‘यथा गौर्गवयस्तथा’ इत्यारण्यकवाक्यं श्रुतवतो ऽरण्यगतगवयगत गोसादृश्यज्ञाने ११. प्रमाणनिरूपणम् २१५ सति गवयसंज्ञास्मरणसहायं वाक्यार्थ प्रत्यभिज्ञाप्रत्यक्षं गवयत्वे संज्ञासंज्ञिसंबन्ध- प्रमिति विदधदुपमानामित्युच्यते । न च वचनात् असति वृत्त्यन्तरे तत्र प्रयोगाद्दा लिङ्गात् पूर्वमेवायमधिगतः संज्ञासंज्ञिसंत्रन्धः केवलमधुना स्मर्यत इति वाच्यम् — निमित्तस्य प्रागनवगतेः । अवगतस्य सादृश्यस्य चानिमित्तत्वात् । निमित्तत्वे गौरवादप्रतीतगूनामरण्यवासिनां गवयव्यवहारानुत्पत्तिप्रसङ्गात् । अत एवोक्तम्- इति ! “सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा ॥” i तन्न; गवयगवयशब्दयोः संबन्धधियः प्रत्यभिज्ञाप्रत्यक्षत्वात् । प्रमाणा- न्तरखे च ‘सोऽयं देवदत्तः’ इत्यादावपि तथात्वम् । न च तत्र पूर्व संज्ञासंज्ञि- संबन्धस्यावगतवान्न तथात्वमिति - गवयादावप्याटविकवाक्यात् तदवगतेः समत्वात् । अन्यथा प्रत्यभिज्ञासंज्ञा न स्यात् । किंच ‘नद्यास्तीरे फलानि? इत्यादिवाक्यगतविषयप्रत्यक्षस्यापि प्रमाणान्तरत्वम् । न च तत्र संज्ञासंज्ञि- संबन्धः पूर्वावगत इति न तत्रोपमानलक्षणमिति - नदीतीरविशेषफल- विशेष संबन्धस्य पूर्वमनवगतेः । न च तीरफलतत्संबन्धानां समभावाकारेणा- वगतेर्नानवगतिरिति शब्दार्थ संबन्धानां समानाकारेणावगतिसाम्यात् 1 न च ‘अस्य गवयशब्दः संज्ञा’ इति धीरुपमानम् ; तस्य वनेचरवा- क्यादवगतत्वेन स्मृतित्वात् । एवं तद्धर्मलक्षणान्तरनिरास उन्नेयः । सादृश्यं चानेकम् । तच सदृशाने कावयवजम् । अन्यत्तु प्रमेयनिरूपणे वक्ष्यत इति सर्व सुस्थम् । इत्युपमाननिरूपणम् अर्थापत्तिनिरूपणम् उपलब्धार्थस्यार्थान्तराकल्पनायामनुपपत्तौ तन्निरासकपरोक्षार्थान्तरस्य कल्पनावच्छेदकं ज्ञानमर्थापत्तिः । परोक्षपदात् प्रत्यक्षव्यवच्छेदः । इतरपदै - स्त्वनुमानादीनाम् । उदाहरणं तु जीवतः पुरुषस्य गृहेऽभावदर्शनात् संदिग्धान्नीवनाद्वहिर्देश स्थिति कल्पना । तत्संदेह निवृत्तिस्तु फलम् । ननु दृढतरप्रमाणेन गृहाभावोपलब्धौ ‘जीवता कचित् स्थातव्यम्’ इति सामान्यतः प्रवृत्तमनुमानमेवैतत् । ‘विमतः पुरुषो बहिर्देशागत ः, तस्य गृहेऽसत्वे सति सत्वात् ; अहमित्र’ इति प्रयोग इति — तन्न ; तत्सत्त्वस्य संदिग्ध - त्वेनासिद्धत्वात् । यो गृहाङ्गण एवोपलब्धः कालचक्रगणनादिवशात् कश्चित् कालं निश्चितजीवनोऽपि, तस्य काले गृहेऽदर्शनात् जीवनं संदिग्धम् । बहिःस्थानकल्पनया तु तत् पुनर्निश्चितम् । न तस्य बहिःस्थानकल्पनी निःसन्दिग्धजीवनस्य जीवत्ता; अनुमानप्रमेयाभावात् । बहिर्देशस्थितेरेव हि प्रमेयता । तस्य पूर्वमेव निश्चये किमनुमया ! तदुक्तं नयज्ञैः- इति । “तेन मेयानपेक्षस्य संदिग्धत्वादहेतुता । हेतुत्वं यावता त्वस्ति न ततोऽन्यत्प्रमीयते । " ननु जीवनगृहासत्त्वयोर्विरोधित्वात् गृहासत्त्रात् बहिः सत्त्वकल्पनानु- मानमेव । उपपादकयोर्हि व्याप्तिरङ्गीकृता; अन्यथा अतिप्रसक्तेः । अनौपाधि- कः संबन्धो व्याप्तिः । स चान्वयव्यतिरेकगम्यः । यदाहमेकत्र न तदान्यत्रेति स्वस्मिन्नेव तद्ग्रहणमिति – नैवम् ; व्याप्तिसद्भावेऽप्यपक्षधर्मत्वात् । अर्थापत्तेस्तु स्वीकारः । अपक्षधर्मत्वोक्त्या साध्यसाधनयोर्व्यधिकरणत्वस्यैवोक्तत्वात् अव्याप्तेरेव फलितत्वात् ।
तथा सति नोपपाद्योपपादकतेति तत्र ; विकल्पासहत्वात् । किं केवलगृहाभावस्य लिङ्गत्वम् ? उत जीवनविशिष्टस्येति । नायः ; मरणादि- नापि तदभावोपपत्तेर्न बहिर्भावस्य लिङ्गत्वात् । तदुक्तमू- ११. प्रमाणनिरूपणम् २१७ इति । " गृहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः । संमतेष्वपि दृष्टत्वाद्बहिर्वृत्तेरसाधकः ॥ " नापि द्वितीयः ; विशेषणभूतजीवनस्य संदिग्धत्वेन तद्विशिष्टस्याप्य- लिङ्गत्वात् । ततो गृह एव दृश्यमानस्य प्रमाणान्तरनिश्चिताज्जीवनाद् गृहा- दर्शन संदिग्धाद्वहिर्देश स्थितिकल्पना । संदिग्धस्य न च न कल्पकता जीवनस्येति - निश्चितस्य लिङ्गत्ववदर्थापत्तौ संदिग्धस्यैव कल्पकत्वात् । कल्प्यत्वाच्चैवेातें तथा दर्शनात् । तत्र संग्रहश्लोकश्च नयज्ञैरुक्तः - इति । " यत्कल्पनां विना योऽर्थः प्रतीतोऽप्येति संशयम् । तेन तत्कल्पनाने त्वर्थापत्ति प्रचक्षते ॥ " बहिः स्थानादिकल्पनां विना जीवनादिः प्रतीतोऽपि संशयमेति । तेन जीवनादिना तस्य बहिःस्थानादिकल्पनामर्थापत्तिमेके प्रचक्षत इति तस्यार्थः । अथवा जीवतो गृहाभाव एव दृष्टो जीवनस्य संदेहमापादयन् गमको बहिः स्थानकल्पनायाः । जीवतो गृहाभाव इत्युक्त्या मृतादिगृहाभावस्या- कल्पकतोक्ता । अतो नातिव्याप्तिः । जीवनस्य संदेहमापादयन्नित्युक्त्या लिङ्गता चास्य निरस्ता ; लिङ्गस्यार्थान्तरापादनसंशयेनार्थान्तरस्यागमकत्वात् । अर्थान्तरकल्पनया चापादितस्य संशयनिरासः फलम् । गृह एव दृश्यमानस्य तत्रादर्शने बहिर्देशकल्पनायाः प्राग्जीवने संदेहो जायत एव । यत्तु प्रमाणयोर्व्याघाते तत्परिहाराय सामान्यस्य विशेषानाक्रान्तविषयता- कल्पनारूपेत्यर्थापत्तिस्वरूपकथनम् - नैतत् ; गृहाभावदर्शनजीवनविषयप्रमाण- योर्भिन्नविषयत्वेन विरोधाभावात् । न च ‘जीवता कचित् स्थातव्यम्’ इत्यनुमानं सामान्यविषयम् ; गृहस्यापि सामान्याकारेणान्तर्भावात् ; कचिदित्युक्ते गृहाभावदर्शनं 28 २१८ नयधुमणिः विशेषविषयमिति व्याघात इति कचिदस्ति क्वचिन्नास्तीति प्रमेये चाविरोधात् । अस्तित्वनास्तित्वयोः पृथग्देशतया प्रत्यक्षेणोपलम्भात् न प्रमाणान्तरापेक्षा च । ननु मास्तूदाहृतसामान्यविशेषविषयत्वम् ; यत्र स्वेकविषयता, तत्रार्थापत्तिर्व्यवस्थापिका प्रमाणमिति - तन्न ; विकल्पात् व्याघा- तशान्तेः । अथ समविकल्पस्य बाधानर्हत्वात् तस्य चान्याय्यत्वात् तन्निवृत्तये विशेषव्यतिरिक्तविषयता सामान्यस्य कल्प्येति तर्हि व्रीहियवयोः विषय- व्यवस्था वाधपरिहाराय स्यात् । न च तत्रोभयोरेकविषयत्वान्न व्यवस्थेति- तर्हि किं सामान्यविशेषविषययेोरेकविषयत्वं नास्ति ? ओमिति चेत् - विषयव्यवस्थापेक्षा | एकविषयत्वे तु विकल्प एव । अथैकविषयत्वेऽपि तन्निवृत्तये विशेषव्यतिरिक्तविषयता; बहुविषयैक- विषयसामान्यविशेषयोर्नेकरूप्यमिति न समविकल्प इति तर्हि ऐकरूप्या- भावयुक्त्यैव व्यवस्थासिद्धेः कृतमर्थापत्त्या | सावकाशत्वनिरवकाशस्त्रनिमित्तदौ- ल्यप्रावल्याभ्यां सामान्यविशेषविषययोर्व्यवस्थासिद्धिरिति नार्थापत्यपेक्षा । श्रुतावपि सामान्यविशेषयोः सत्वात् तत्राप्यर्थापत्यैव व्यवस्था स्यात् । न च तत्रापि श्रुत्यर्थापत्तिर्विद्यत इति - अभिहितार्थानुपपत्तौ प्रत्यक्षादि- दृष्टार्थानुपपत्तौ च योऽर्थः कल्प्यते तस्यैवार्थापत्तेर्विषयत्वात् । श्रुतौ चोप- पादकार्थव्यतिरेकेण लौकिकार्थाभिधानस्याशक्यत्वात् प्रमाणान्तराविषयत्वाच्च तत्रार्थापत्तेरविषयत्वाभिधानात् । अवयत्रानां तथा कल्पनया अनुपदमेवा- पर्यवसानादेवान्विताभिधानसमय एवोपपादकार्थस्वीकारात् । अर्थापत्तिस्त्व- मिहिता । ईदृक् चेष्टानुपपत्ताविति विशेष इति दिङ्मात्रम् | ‘पीनो देवदत्तो दिवा न भुङ्क्ते’ इत्याद्यर्थापत्तेरुदाहरणम् । अन्विताभि- धानसमर्थत्वात् पदानां नाभिधानेऽनुपपत्तिः । अभिहितार्थे पीनस्त्रे स्वनुपपत्तिः । सा तु रात्रिभोजन कल्पनया शान्ता । दृष्टार्थापत्तेरुदाहरणं तूतमेवेति । अर्थापत्तिलक्षणे उपलब्धपदोक्त्यैव श्रुतार्थापत्तिरपि संगृहीता; श्रुतस्याप्यु- पलब्धत्वाविशेषात् । भाद्दास्तु ‘पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ प्राथम्यात् लाघवाच्च ‘रात्रौ भुङ्क्ते’ इत्यादिशब्दकल्पनामाडुः । तन्न ; अर्थस्यैवोपपादकत्वात् ११. प्रमाणनिरूपणम् २१९ तत्कल्पनामात्रादनुपपत्तिशान्तेः । " अन जुष्टं निर्वपामि” इत्यादिमन्त्रे सौर्यादि- विकृतौ सूर्येत्यादिपदाध्याहारस्तु मन्त्रस्याभिधानद्वारेवार्थप्रकाशकत्वात् समवे- ताभिधानसमर्थपदस्यैवाकाङ्क्षितत्वात् क्रियत इति सत्रं सुस्थम् । इत्यर्थापत्तिनिरूपणम् यथार्थगामिकाभीष्टा रामावरजयोगिनः । एषा प्रमाणसरणिर्व्यञ्जिता गहना शुभा ॥ इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयमण प्रमाणनिरूपणम् • १२. अथ प्रमेयनिरूपणम् अभिवन्द्यात्रिनाथादीन् गुरून् रामानुजान् मुनीन् । विशदीकृतवेदान्तसदर्थं करुणालयम् ॥ आञ्जनेयं जिताशेषवैरिणं सर्ववेदिनम् । पद्मालयां हरिं लीलाविनिर्मितजगत्त्रयम् ॥ हयाननं च सर्वार्थतनुं कमललोचनम् । मानप्रमेयमधुना व्यज्यते सुखवित्तये ॥ | यद्यपि सर्वार्थविशिष्टत्वाकारेण परमात्मैवैकः प्रमेयम्, तथापि विशेषण- विशेष्यत्वाकारभेदात् प्रमेयभेदोऽपि । प्रमेयश्च पदार्थः । स च द्रव्यगुणकर्म - मेदात् त्रिविधः । तत्र गुणवत् द्रव्यम् । गुणवत्पदात् गुणरहितगुणकर्मव्युदासः । तच्च चिदचिद्भेदात् द्विविधम् । चिच्च पुनः परमात्मजीवज्ञानभेदात् त्रिविधम् । परमात्मा च श्रुत्येकगम्यो जगदाख्य समस्तवस्त्वेककारणं समस्तहेयर- हितः सत्यज्ञानादिस्वरूपगुणः समस्तचिदचिद्देहोऽप्राकृत नित्यविग्रहो लक्ष्मीपतिः नित्याप्राकृतस्थानविशेषे मुक्तजनभोग्यः साङ्गानुसंधानात्मक विद्यागम्यो नारायण एव । तत्र श्रुतिगम्य इति श्रुतेः कार्यादिपरत्वव्युदासः । श्रुतिगम्यत्वं च वाक्यार्थप्रतीतिसिद्धत्वम् । तदेकगम्यत्वोक्त्यानुमाननिरासः । स च वक्ष्यते । जगदाख्यवस्त्विति भेदापारमार्थ्यजगद पारमार्थ्यव्युदासः । एककारणत्वोक्त्या जगतः सवादिरूपेण निमित्तसमवाय्यसमवायिरूपेण च नानाकारणत्त्रपक्ष- निरासः । जगतः प्रवाहानादित्वनिरीश्वरत्वनिरासश्च । समस्त हेयरहित इति तस्याविद्यादिहेय संबन्धपक्षनिरासः । सत्यज्ञानादिस्वरूप इति शून्यज्ञा- नादिपरपक्षनिरासः। सत्यादिगुणोक्त्या निर्विशेषत्वनिरासः; जीवत्वादिनिरासश्च । समस्तचिदचिद्देद्द इति जगतः स्वरूपेण परमात्मत्वनिरासः । ननु न तस्य श्रुत्येकगम्यता । महीमहार्णवादेः सावयवत्वेन कार्यस्वात् सोपादानत्वात् कार्यकारणसंप्रदानप्रयोजनाभिज्ञकर्तृकत्वानुमानेन ताबलादीश्वर सिद्धिरिति तन्न ; पक्षधर्म- विकल्पासहत्वात् । किमेककर्तृकरवं १२. प्रमेयनिरूपणम् २२१ सिषाधयिषितम् ? उत सकर्तृकत्वमात्रम् ? आधे कार्यत्वस्य नानाकर्तृकनरेन्द्र- भवनादिषु व्यभिचारादनैकान्त्यम् । नानाकर्तृकतयापि परिदृश्यमानघटादि- दृष्टान्तश्च साध्यविकलः । द्वितीये जीवानामेव कर्तृत्वात् सिद्धसाधनता । ६ न चेदानींतनजीवानां न तन्निर्माणशक्तिनिश्चयः इदानींतनेष्वपि कार्यनिर्माणकार्यवैचित्र्यदर्शनात् कालक्रमेणानेकेषामतिविचित्रनरेन्द्रभवनादि- निर्मातृत्वदर्शनात् शक्तिविशेषनिश्चयात् । शक्तिश्च विशिष्टपुण्यादुपपन्ना । एवं दर्शनानुगुणानेककर्तृत्वे न कर्तृकल्पनागौरवम् । कल्पनायामपि धर्म्यन्तर- कल्पनातो नानास्वधर्मकल्पना युक्ता । एवं कार्यवैचित्र्याद्विशिष्टशक्तिज्ञानकर्तृत्वं जीवानामेवेति न तदतिरिक्तानुमानम् । शक्त्यादिवैचित्र्यस्य पुण्यादिमूलतया जीवेष्वेव दर्शनान्न कर्मादिरहित कर्तृत्वानुमानम् । एतेनेच्छाया अपि कर्म- मूलता सिद्धा । कर्मरहितत्वे न मनः संबन्धो मुक्तवत् कर्तृज्ञानाद्युदयश्च । न च धर्मिणि पक्षदृष्ट सर्वधर्मानुमानेऽतिप्रसङ्गादनुमानोच्छेदः - कार्यों- पयोगित्वेन ज्ञानविशेषादेरपि सिद्धत्वानुमानात् । एतेनाश्रयासिद्धिधर्मग्राहकप्रमाणविरुद्ध योरन्यतर दित्युक्तिर्निरस्ता । कर्त्रङ्गी- कारात्, धर्मिग्रहणसमय एव यथादर्शनं कर्ममूलज्ञानादिमद्धर्मिग्रहणाच्च । कर्मरहितधर्मिपरिच्छेदे हि तदूग्राहकप्रमाणविरोधः । किंच मह्याद्याश्रय- स्वीकारेण जीवकर्तृकत्वसाधनान्नाश्रयासिद्धिः । किंच उत्पत्तावदृष्टस्याप्युपकरणत्वात् कुलालादेश्च न तज्ज्ञानम् । उपकरणाद्यज्ञाने बालस्यापि भ्रान्त्यादेरपि कार्यकर्तृत्वं चेति साध्यवैकल्यं च दृष्टान्तस्य । नाप्यसिद्धिर्हेतेाः । एतेन ‘अदृष्टं चेतनाधिष्ठितमेव सुखादिकार्यकरम् ; अचेतनत्वात्; वासीवत्’ इत्यनुमानं निरस्तम् ; पूर्वोक्तरीत्या क्षेत्रज्ञानामेव तदधिष्ठानोपपत्तेः । न च तेषामदृष्टरूपशक्त्या कार्याज्ञानात् तदधिष्ठानम् । न च समवायादपि तत्; अतद्गुणत्वात् । न च संयुक्तसमवायादपि तत् ; सर्वजगतां संयोगानुमतेः । सर्वगता हि जीवाः । अदृष्टं च तद्गुणः । किंच अधिष्ठानाद्वास्यादेः क्रियाश्रयत्वसंपत्; न गुणादृष्टस्य तदाश्रयत्वमिति न वृत्तिः । २२२ नयधुमणिः न च फलदानाभिमुख्यं तत्प्रवृत्तिः; आभिमुख्यस्यावस्थाभेदत्वेनाधिष्ठा- नानपेक्षत्वात् । न च घटाद्यवस्थावत् तस्याः कार्यत्वे सकर्तृकता; अनिष्ठानानुपपत्तेरुक्तत्वेन देशादिमात्रादेव तदुपपत्तेः । न चेश्वरस्येच्छामात्रात् तदधिष्ठानम् ; कुलालादिषु दर्शने परसमवेतगुणस्य तावन्मात्रात् प्रवृत्त्यनुपप- तेर्दर्शनाच्च । न चेश्वरस्येच्छादेहरहितस्य । देहित्वे चानित्यत्वादिदोषः । अन्यद्भाष्यादौ । अतः श्रुत्येकसमधिगम्यता । देशादिप्रतिपन्नोपाधावबाधात् समस्तचिद- चिद्वस्तुनः पारमर्थ्यमिति मिथ्यात्वशून्यत्वक्षणिकत्वनिरासः तत्तद्भाष्यादौ प्रपञ्चितो द्रष्टव्यः । ननु जगतो न ब्रह्मैककारणत्वोपपत्तिः; निमित्तादिभेदात् कार्योत्पत्ति- दर्शनादिति - तन्न | सर्वशक्तित्वेन श्रुतस्य समस्त विसजातीयतया सर्वोपपत्तेः । न च दृष्टविरोधे श्रुतेरतत्परत्वम् । श्रत्येकमध्ये श्रुतिविरोधग्रहणे प्रमाणा- भावात् । विरोधे सति हि अतत्परता । कुलालादिकारणानां भेदस्त्रशक्तिप्रयुक्तः; न तु कारणत्त्रप्रयुक्तः । वस्तुतस्तु घटादेरपि सर्वशरीरि ब्रह्मैकमेव कारणम् ; “यतो वा इमानि” इत्यादौ जायमान सर्वपदार्थानां सर्वप्रमाणेन तस्य कारणत्व- प्रयुक्तत्त्रश्रवणात् । यत इति पञ्चमी सर्वकारकारणत्वपरा । अत एव हि “तदात्मानं स्वयमकुरुत” इत्यादौ तस्यैवोपादानत्यादिश्रवणम् । न च तस्य करणाभावात् कारणत्वानुपपत्तिः; - सर्वशक्तित्वादेव । इच्छायां देहादिकारणाबाधश्च ; “स वराहो रूपं कृत्वा” इत्यादिश्रवणात् । “इच्छागृहीताभिमतोरुदेहः" इत्यादिस्मरणाच्च । लीलाप्रयोजनत्वादेव न प्रयेोजना- भावचोद्यम् 1 विकारापुरुषार्थयोस्तस्य चिदचिदात्मकदेहांशगतत्वान्न तद्भाक्त्वचोद्यम् । न च वेदान्तवेद्यकारणवस्तुनः सिद्धस्वरूपत्वेन प्रवृत्याद्यनन्वयान्न पुरुषार्थत्वम् ; तदन्वयिन एव पुरुषार्थत्वप्रतीतेरिति - " आनन्दो ब्रह्म" ““सं ह्येवायं लब्ध्वा” इत्यादौ तस्य स्वतः पुरुषार्थत्वश्रवणात् । न च प्रधानतत्कार्ये ध्वन्यतमस्य जगत्कारणत्वम् ; कारणवाक्येषु श्रूयमाणक्षणादिगुणानन्वयात् । स चेक्षत्याद्यधिकरणसिद्धः । न च कटादिकार्याणां तत्कारणसालक्षण्यदर्शनात् जगतश्च सुखाद्यात्मकत्वोपपत्तेः तरसलक्षणसुखाद्यात्मक सत्वादिमयस्थ प्रधानस्य कारणत्वम् ; गोमयवृश्चिकादौ तत्सालक्षण्यस्य व्याप्तिभङ्गात् । वस्तुतस्तु१२. : प्रमेयनिरूपणम् =२३ स्थूलसूक्ष्मचिदचिद्दहिब्रह्मण एव कार्यस्वात् कारणत्वाच्च न वैलक्षण्यम् । ब्राह्मात्मकप्रधानकारणत्वाच्च जगतः तत्कारणत्वोपपत्तिः । न च साम्यावस्थापन्नसत्त्वादि: प्रधानम् ; “सत्वं रजस्तम इति गुणाः” इत्यादौ गुणत्वप्रतीतेः द्रव्यकारणत्वानुपपत्तेः । द्रव्यत्वेऽपि तेषां निरवयवत्व- सर्वगतत्त्रयोरभिमतत्वात् सर्वदा कार्योध्पत्तिरनुत्पत्तिर्वा स्यात् । न च सहकारिवशात् कादाचित्कत्वं कार्यस्य ; पुरुषाधिष्ठानातिरेकेण सहकार्यन्त- रानभ्युपगमात्; पुरुषस्य च व्यतिरेकेणाधिष्ठानान्तराभावात् । तस्य च सर्वदा सर्वगतत्वात् नित्यसृष्ट्याद्यापत्तेस्तदवस्थत्वात् । सत्वादेश्व निरवयवत्खे संयोगानुपपत्तेः स्थूलकार्यानारम्भात्; लोके च सावयवानामेव कार्या- रम्भकत्वदर्शनात्, सावयत्रत्वे च घटादिवदनित्यत्वात् । कारणानां निरवयवानां संयोगबस्वोपपत्तावपि परमाणुपरिमाणानतिरेकात् न स्थूलकार्यारम्भः । तदारम्भकत्वोपपत्तावपि तेषु कादाचित्ककर्मोत्पत्यनुपपत्तेः नित्यसृष्टयसृष्टय - न्यतरनियव्यापातः । न च जीवानामदृष्टादीश्वरतया तेषु क्रियोत्पत्तेः कादाचित्कत्वम् ; अदृष्टस्य जीवसमवेतत्वेनाधिष्ठानानुपपत्तेरुक्तत्वात् । न चादृष्टवज्जीवसंयुक्ताणु संयुक्तयोगात्तदधिष्ठानोपपत्तिः; संयुक्तद्रव्य- समत्रेतगुणाधिष्ठानप्रवृत्योरदर्शनात् | अदृष्टस्यार्थस्य कल्पनायामपि युगपत्सृष्टिप्रलययोरुपपत्तिः; सर्वस्य तद्धेतु सर्वगतादृटैकरूप्याभावात् । न न ह्य संकेत पूर्व युगपत्क्रियमाणादृष्टैकरूप्यम् । सृष्टपृथिव्यादिस्थायिपदार्थस्य क्रियमाणकरिष्यमाणादृष्टवज्जीवानामपि भोग्यत्वादि । असददृष्टाधिष्ठानस्य त्यनुपपन्नत्वमित्यादि द्रष्टव्यम् | कार्यमपि कारणादनन्यदिति सत्कार्यवादिसिद्धम् । अतः श्रुत्येकसमधि- गम्यब्रह्मेककारणत्वमेव युक्तम् । वेदान्तानां सिद्धार्थपरत्वे जगतः प्रवाहानादित्वनिरीश्वरत्वनिरासौ सिद्धौ श्रुतस्यैव ग्राह्यत्यात् । श्रूयते च तथैत्र - " इदं वा अग्रे नैव किश्चनासीत्” “पतिं विश्वस्य” इत्यादौ युगपत्सृष्टयादिरीश्वरश्च । तस्य हेयराहित्यं च “निष्कलं निष्क्रियं शान्तम्” इत्यादौ । “आनन्दो ब्रह्म” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादौ च सत्यज्ञानादिस्वरूपगुणत्वम् । एवमविद्यादि- संबन्धे श्रुत्यादिविरोधः स्पष्टः । २२४ नयधुमणिः ननु न तद्विरोधः “एकधैवानुद्रष्टव्यः " " नेह नानास्ति किंचन” " एकमेवाद्वितीयं ब्रह्म" इत्यादिभिरखण्डैकरसत्वप्रतीतेः तदविरोधाय “सत्यं ज्ञानम्” इति वाक्यमखण्डैकरसार्थपरमेवेति तस्यैवाविद्याश्रयत्वम् । न च सत्यादिपदानां सामानाधिकरण्यात् सत्यादिविशिष्टार्थपरता ; ‘सोऽयं देवदत्तः ’ इति वाक्यवत् सामानाधिकरण्यस्याखण्डैकार्थपरत्वात् । तदङ्गीकारेऽपि न तद्वाक्यार्थभेदभङ्गः । प्रपश्ञ्चप्रतिभेदस्य व्यावहारिक- धर्मतया प्रतीयमानस्य निराकर्तुमशक्यत्वेऽपि शङ्कयमानदोषप्रत्यक्षादेव्यवहा- रिकभेदपदार्थविषयत्वेनापि सावकाशत्वादनन्यथासिद्धानन्यपरसन्यज्ञानादिवेदान्त- वाक्यानामखण्डैकर सत्यमेव । यद्यपि प्रतियोग्यपेक्षो भेदः प्रमाणानवसेयः, तथापि यावदेकात्मबोधं साक्षिवेद्यतया सोऽस्त्येव । एवं च भेदस्यात्यन्तापहृत्र एव । न च सर्वव्यवहारोच्छेदः । यद्यपि प्रत्यक्षस्य सन्मात्रविषयत्वमिष्टम्, तथापि तदज्ञानोपरमे वस्तुनो निरस्तनिखिलव्यवहारत्वाद्विषयविषयित्वानुपपत्तिः । न चैतावता भेदस्य वास्तवत्वम् ; प्रत्यक्षस्य पूर्वोक्तविधया अविधायक. स्वात् । अविद्यातो भेदसिद्धिश्चेति न तत्स्वरूपापलापः । प्रत्यक्षस्य सन्मान - विषयत्वेऽप्यज्ञानविशिष्टवस्तुविषयत्वात् नाज्ञानोपमर्दकत्वमिति तन्न तत्रैकविषयम् । आगमस्तु विरुद्धपदार्थसामानाधिकरण्याभिधानमुखेन समस्तोपाधिमुक्तं वस्तु लक्षयन्नान्तरीयकतया तदज्ञानतत्कार्ये निवर्तयतीति सत्यमित्यादिवेदान्तवाक्यानामेवाद्वैतवस्तुपरत्वम् । अयमर्थः – “एकमेवाद्वितीयं ब्रह्म" इत्यादौ सजातीयविजातीयस्वगत- नानात्वनिरासेनाखण्डैकरसं ब्रह्नेति प्रतिपाद्यते । एवंच न गुणतोऽपि सद्वितीयत्वम् ; अद्वितीयश्रुतिविरोधात् निर्गुणत्यश्रुतिविरोधाच्चति वेदान्तानां विरुद्धपदार्थसामानाधिकरण्येनोपाधिविनिर्मुक्तब्रह्मपरत्वं सामानाधिकरण्यमुपन्यस्य निरूप्यते । ननु न सिद्धार्थव्युत्पत्तिरिति न ब्रह्मपरत्वमिति - तन्न । ‘पुत्रस्ते जातः’ इत्यादिवाक्यश्रवणानन्तरं श्रोतुर्मुखविकासादिलिङ्गाद्धर्षमनुमाय ह्यज्ञात- पुत्रजन्मन तदर्थबोधकत्वमानन्तर्यात् एव तद्धेतुत्वमनुमाया विशेषेण अवधार्य पुनरावापोद्धाराभ्यां सर्वपदानां व्युत्पित्सोः सिद्धार्थव्युत्पत्तेः । न च सुखप्रसवादिहर्षहेत्वानन्व्यान्न पुत्रजन्मन एव तद्धेतुत्वनिश्चय इति—गवानयनादि- १२. प्रमेयनिरूपणंम् २२५ प्रवर्तकवाक्येष्वपि श्रोतुरानुषङ्गिकव्यापारसंभवधीतस्तदनिर्धारणापत्तेः समत्वात् । अथ तत्पदानामन्यत्रावापोद्धारदर्शनात् अर्थविशेषनियमकल्पनेति, तत् प्रकृतेऽपि समम् । न च ‘सोऽयम्’ इत्यादि वाक्यं विशिष्टार्थपरम् ; तस्य तादृगर्थप्रतिपाद- नायोग्यत्वात् । न लक्षणा दोषः; स्ववाच्यविशेषांशाविवक्षया प्रधानांशप्रति- पादनात् । न चाविरुद्धानामेकत्रान्वययोग्यत्वात् तत्पदानां विशिष्टार्थपरत्वम् — अविशेषेण विवक्षायामेकविशेषणविशिष्टतया प्रतिपाद्याकारस्यापि पदान्तरेणापि विशेषणान्तरविशिष्टतया प्रतिपाद्यतापत्तेः । अन्योन्यनिरपेक्षविशिष्टत्वाकार- प्रतिपादने शास्त्रे एकार्थाप्रतिपादनान्न सामानाधिकरण्यपरत्वम् । एकार्थवृत्तौ हि सामानाधिकरण्यम् । न हि विशिष्टत्वाकारभेदप्रतिपादकघटपटपदयोः सामानाधि- करण्यम् । अतः सर्वत्र सामानाधिकरण्ये पदार्थस्वरूपमात्र विवक्षा । एवमद्वैत- तात्पर्यानुरोधात् सामानाधिकरन्यानुरोधाच्चाद्वैतविरोधात् ब्रह्मणोऽविद्याश्रयत्वम् ; अविद्यातदाश्रयत्वयोर्मिथ्यात्वान्न तस्यावद्यत्वं चेति । मैवम् ; “परास्य शक्तिविर्विधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " “नित्यो नित्यानाम्” इत्यादिभिः गुणतो द्वैतप्रतीतेः जीवादिभेदप्रतीतेश्च वेदान्तानामखण्डैकार्थपरत्वाभावात् । न च श्रुतीनामासामविद्य। पहितब्रह्मविषयत्वम् ; “एकधैवानुद्रष्टव्यम्” इत्यादेरपि तदविशेषात् । तासामनुपहितब्रह्मविषयत्वे तु तस्य घटादिवज्जडत्वम् । उपहितानुपहितव्यवस्थायां च न प्रमाणम् । अद्वैतवाक्यानां तत्र प्रामाण्ये तेषामखण्ड(र्थपरत्वे च सगुणवाक्यानामुपहितविषयत्वम्, एतत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रयणं च । न च पदानां सामानाधिकरण्ये स्वरूपमात्रपरत्वम् ; स्ववाच्यगुणाद्यं- शाविवक्षायां प्रमाणाभावात् । न च ‘सोऽयम्’ इत्यादौ विरुद्ध विशेषणद्वयविशिष्ट- त्वप्रतिपादनानुपपत्तिरेव तत्र प्रमाणम् स इति पदस्यातीतकाल संबन्धि- स्मारकत्वात् देवदत्तपदस्य नामिविशेषपरत्वादयमिति पदस्य च तत्स्मार्यस्य पुरोवर्तित्वादि संबन्ध निर्देशपरत्वात् तन्निर्देशानां संभूय नानाविशेषणविशिष्टैक- वस्तुप्रतिपादकत्वाद्विशिष्टवस्तुधीरिति विशेषणयोस्तद्विशेष्ययोस्तद्वाचकयो- स्तत्प्रत्यक्षयोस्तत्प्रत्यभिज्ञाप्रत्यक्षस्य च समुच्चारणात् तन्निर्देशस्यैकबुद्धयारोहणात् ‘सोऽयम्’ इति प्रत्यभिज्ञा प्रत्यक्षेऽपि स्मार्यानुभूयमानविशेषणविशिष्टकवस्तुधीरिति 29 २२६ नयधुमणिः न कश्चिद्विशेषः तद्वाचकतत्प्रत्यययोः । प्रत्यभिज्ञाप्रत्यक्षस्य भूतादिविशेषण- विशेष्यविशिष्टकार्यपरता चाङ्गीकार्या स्थायिपदार्थवादिभिः । अन्यथा न स्थायिवस्तुनि प्रमाणमिति क्षणिकपक्षस्य विजयः । न च विशिष्टपरत्वे पदान्तरेण विशिष्टतया प्रतिपाद्याकारस्यैव विशेषणान्तरविशेष्यतया प्रतिपाद्यत्वप्रसक्तिः । ’ गामानय दण्डेन देवदत्तानेन मार्गेण’ इत्यादिवाक्येष्वपि तत्त्वप्रतिपादनप्रसक्तेः अविशेषात्, गवानयनयोरन्य- तरत् प्रसिद्धपदैरर्थान्तरविशिष्टतया प्रतिपाद्यते 1 समानाधिकरणपदानीव वाक्यगतपदान्यप्येकार्थपराण्येव । “अर्थैकत्वादेकं वाक्यम्" इति हि नयविदः । अथ गुणानां च परस्परासंबन्धाद्विशिष्टाकाराणामप्यसंबन्धे तद्विशेषण- विशिष्टस्यैकस्यैव वाच्यत्वम् ; तर्हि समानाधिकरणपदानामपि तदविशिष्टम् । किंतु वाक्यगम्यस्तु विशिष्टैकार्थो वाक्ये । सामानाधिकरण्यगम्यं तु तदर्थैक्यं सामानाधिकरण्ये । पदानि तूमयत्र विशिष्टार्थपराण्येव । द्वितीयान्तादिकार- कप्रतिपाद्यं सामानाधिकरण्ये ; अन्यत्र क्रियाकारकपदप्रतिपाद्यमित्ये- तावन्मात्रमेव विशेषः । समानाधिकरणप्रतिपाद्यस्य तु प्रधानतया वा गुणतया वा क्रियान्वयः पश्चात् । न चान्योन्यनिरपेक्षं पदानां व्युत्पत्तेर्विशिष्टार्थपरत्वे घटपटादि- शब्दवन्नैकार्थपरत्वमिति — गवानयनादिवाक्यानामपि तदविशेषापत्तेः । अथ तत्र विशेष्यैक्यादैक्यम्, तर्हि तदन्यत्रापि समानम् । एवंच पदानां व्युत्पत्तिसिद्धार्था परित्यागलाभो मुख्यार्थलाभश्च । पक्षान्तरे तु तद्वैपरीत्यम् । वाध्यगुणांशाविवक्षायामपि त्याग एव । प्रधानांशस्वरूपपरत्वेऽपि लक्षणा च ; विशिष्टवाच्यांशत्यागान्नान्तरीयकस्वरूप परत्वाङ्गीकारात् । स्वरूपं चैकपदमात्र- लभ्यमिति पदान्तरवैयथ्यं च । उपलक्षणत्वेऽपि तदविशिष्टम् ; स्वरूपमात्र- परत्वेनोपलक्ष्याकारभेदानङ्गीकारात् । तदङ्गीकारे च नाखण्डैकार्थपरता । एवं मिध्यावाद्येकदेशिपक्षनिरास उन्नेयः । अपरे तु तदेकदेशिनो लक्षणामभ्युपगम्यैवाखण्डार्थपरतामाडुः तथाहि—‘सोऽयम्’ इत्यादौ 1 भूतवर्तमानकालसंबन्ध्यैक्ये प्रमाणाभावात् तत्कालविशिष्टस्य वर्ममानकालविशिष्टत्वानुपपच्या लक्षणैव । ‘सोऽयम्’ इत्यादिपदानां च स्ववाभ्यांशमात्रोपक्षयानैक्ये प्रामाण्यम् । १२. प्रमेयनिरूपणम् २६७ न च तद्विशिष्टत्वाकारयोः परस्परसंबन्धेऽपि रूपरसादिसंबन्ध्यै- क्यवत् कालद्वय संबन्ध्यक्योपपत्तिः; एकदेशाद्युपाधौ रूपरसादेः कालयोरिवा- न्यतराभावनियत्यभावात् । न च बालत्वयुक्त्वादेखि पर्यायात् तयोर्विशेषणत्वम् ; बालत्वादिसंबन्धव्यतिरेकेण प्रत्यभिज्ञया तदैक्यसिद्धेः । इह तु कालद्वय संबन्ध- व्यतिरेकेण न संबन्ध्यैक्ये निश्चयोपाय इति । अतः समानाधिकरणपदवद्वाक्यस्यापि विधिमुखेनाप्रामाण्यानास्कन्दिताबा- धित प्रतीतिजनकत्वेन प्रामाण्याच्च कालद्वयनामधेयोंपाधिसंबन्धनिमित्तदेवदत्तगता- नेकत्वभ्रान्तिनिवर्तनात् तत्स्वरूपमात्रसमर्पणानुपपत्त्या लक्षणैवात्र स्वीकार्या । एवं “सत्यं ज्ञानम्” इति वाक्यानामपि । तत्र ब्रह्मेति पदालक्ष्यं निर्दिष्टम् । सत्यमित्यनेन मिध्यात्वभ्रान्तेः निवृत्तिः; ज्ञानमिति जडत्वभ्रान्तेः; अनन्तमिति ब्यवच्छेदभ्रान्तेः । एवं तत्तद्भान्तिनिवर्तनान्न पर्यायता च । अतः “ब्रह्मविदाप्नोति परम्” इत्याद्युक्ते ब्रह्मस्वरूपमात्रस्य बुभुत्सितत्वात् “एकधैवानुद्रष्टव्यम्” इत्यादावेकर सत्व श्रवणात् “यतो वाचो निवर्तन्ते” इति तस्य वाच्यत्वनिषेधाच्च वाक्याप्रामाण्यनिरासाय सर्वपदानां ब्रह्मणि लाक्षणिक्येव वृत्तिरिति । तदप्यसत्; गवानयनादिवाक्यानां प्रामाण्यवत् ‘सोऽयम्’ इत्यादि- पदानामेव तदैक्यप्रमाणत्वात् । ‘सोऽयम्’ इति पदयोः स्ववाच्यभूतादि- कालविशिष्टार्थमात्रोपक्षयो गामानयेत्यादिवत्, अविशेषात् । दोषसाम्यं गवानय- नादिविशिष्टगवाद्यक्यार्थपरत्वानङ्गीकारे, तदुच्चारणार्थापरित्यागेन अपर्यायगुण- विशेषणवाच्यनेकपदानां तत्तद्विशीष्टकार्यपरत्वेन वर्तमानत्वात् । तज्ज्ञानं चाप्यपर्यायैकपदविभक्त्या निर्देशात् । अत एव सामानाधिकरण्यादैक्यसिद्धौ कालद्वयविशिष्टत्वधीरण्युपपन्ना ; विशिष्टैक्यपरत्वात् सामानाधिकरण्यस्य । “भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्” इति हि तज्ज्ञोक्तिः । भिन्नाः याः प्रवृत्तयः, तासां निमित्तानि हेतवः भिन्नप्रवृत्तिनिमित्तभूताः शब्दाः । तेषां सतामेकस्मिन्नर्थ वृत्तिः वाचकत्वेन वर्तमानत्वम् । भिन्नस्ववाच्यविशिष्टांशापरित्यागेनानेकदेशज्ञतैौ वा विरोधः, अनेककाल ज्ञप्तौ वेति विकल्पे – नाद्यः क्रमेण देशभेदात् एकदेश एवानेककालप्रतीतिवत् २२८ नयधुमणिः प्रतीत्यविरोधात् द्वयविशिष्टतया प्रत्यभिज्ञायामित्र प्रतीत्युपपत्तेरित्युक्तत्वात् । न च कालद्वयसत्ता, न च युगपदिति वा सामान्यतो विरुध्यते । तद्विशिष्टत्वे च देश एवोपाधिः 1 देशस्योपाधित्वं युक्तम् ; ‘पूर्वस्मिन् देशे दृष्ट एवेदानीमपि दृश्यते’ इत्यादौ तथा दर्शनात् । देशविशेषणत्वे च काल एवोपाधिः । कालभेदादेकदेशस्यापि विशेषणत्वावि- रोधः । एवं देशभेदात् विरुद्धकालविशेषोपपत्तिः । एकदेशस्यापि विरुद्ध- कालविशेषणत्वे निर्वाहकोपाध्याकारभेदात् स्वरूपेण तदुपपत्तिः । आकार- भेदश्चालोक संबद्धत्वादिरिति दिक् । अथवा देशकालयोः रूपरसादीनां द्रव्यविशेषणत्व इव स्वरूप- निर्वाहकतास्तु । रूपादयो हि रूपिग्रहणनिर्वाहकाः स्वग्रहणनिर्वाहकाश्च । सायं तत्राभूत्, ‘प्रातरत्र, भविष्यति काचीदेशस्थ ः’ इत्यादावन्यानपेक्षयापि विशेषणत्वप्रतीतेः 1 " देशद्वय संबन्धस्तु कालभेदेन परिहृतः” इति भाष्यकारोक्तिस्तु ‘इदानीमत्रस्थः, तदानीं तत्रस्थः’ इत्यभिप्राया । एवंच पदानां न मुख्यार्थत्वविरोधः । न च कालद्वयादिसंबन्धहेतुको देवदत्तभेदभ्रमः; परस्परान्वययोग्यार्थ - वाचकपदानामेकव्युत्पत्तेः । प्रत्यभिज्ञायामिव ‘सोऽयम्’ इत्यादिपदार्थानां नान्वय- विरोध इत्युक्तम् । एवं च न तन्मुखेन प्रामाण्यहानिर्वाक्यस्य | लक्षणावीजं च न वाक्यप्रामाण्यम् ; किंतु वाच्यान्वयानुपपत्तिरेव तत्संबन्धिलक्षणाबीजम् ; गङ्गा- घोषादिवाक्ये तथा व्युत्पत्तेः । ‘सोऽयम्’ इत्यादौ न विशिष्टार्थपरत्वेऽनुपपत्तिरि- त्युक्तम् । एवं सत्यज्ञानादिवाक्येष्वपि न सत्यादिपदनां ब्रह्मणो मिथ्यात्वादि- भ्रान्तिनिवृत्तिपरत्वम् ; एतद्वाक्यव्यतिरेकेण ब्रह्माख्यधर्म्यप्रतीतेस्तद्गत- मिथ्यात्वव्यावृत्तिरूपधर्मविषयतया ज्ञानोत्पश्यनुपपत्तेः । धर्मिप्रतीतौ हि धर्मान्तरसत्तातन्निषेधयोरन्यतरोपपत्तिः । न च स्वयंप्रकाशत्वाद्धर्मिप्रतीतिः, ब्रह्मस्वरूपबुभुत्सया तद्वाक्यावता- शेक्त्त्यनुपपत्तेः । स्वयं प्रकाशमानस्य किं प्रमाणान्तरेण ? स्वयंप्रकाशत्वे च तत्तद्यावृत्तेः स्वरूपत्वे धर्मश्वे च तस्या अपि तत एव प्रकाश्यत्वोपपत्तेः न तदर्थतयापि लक्षणवाक्योपपत्तिः । १२. प्रमेयनिरूपणम् २२९ वाक्यस्य ब्रह्मस्वरूपपरत्वे तस्य प्रमेयत्वम् । ततो घटादि- वज्जडत्वापत्तिः । व्यावृत्तेः स्वरूपत्वे चैकपदमात्रलम्यत्वात् पदान्तरवैयर्थ्यम् ; धर्मखे च ब्रह्मणः सविशेषत्वम् । ६ स्वयं- सत्यत्वादिविशिष्टाकारप्रतिपादने तु न काचिदनुपपत्तिः । ततः परिणामित्वेनासच्छब्दवाच्यप्रधानादिव्यावृत्तिश्चार्थमिद्धा । ब्रह्मणः प्रकाशत्वेऽपि ततो जीवानां भिन्नत्वात् तान् प्रत्यप्रकाशमानत्वात् तेषां तत्स्वरूपबुभुत्सया लक्षणत्राक्यावतारश्च युक्तः । स्वरूपं सत्यादिगुणविशिष्टमेव ; निर्धर्मकस्य प्रमाणाविषयत्वात् । न च तत्स्वरूपमात्रस्यैव बुभुत्सितत्वान्न गुणविशिष्टा कार बुभुत्सेति- “ब्रह्मविदाप्नोति परम्” इत्युक्ते ब्रह्मशब्दमात्रस्य बृहत्त्वबृंहणत्वयोग्यार्थपरतयैव व्युत्पन्नत्वाद्विशिष्टार्थस्यैव बुभुत्सितत्वात् । अत एव ह्यनन्तादिपदैश्च स्वरूप- गुणबृहत्त्वाद्यभिधानम्, “तस्माद्वा एतस्मादात्मनः” इत्यादिना बृंहणत्वाभिधानं च । सूक्ष्मचिदचितो: स्थूलाकारपरिणामहेतुत्वमेव हि बृंहणत्वम् । लोकेपि हि ‘को गौः ? सास्नादिमान् गौः’ इति विशिष्टार्थविषय एव दृश्यते व्युत्पत्तिः । तथा व्युत्पत्तेरेव हि वेदेऽपि शब्दार्थधीः । केवलबुभुत्सायामप्यसाधारण स्वरूप विशेषैरेव स्वरूपस्य ज्ञाप्यमानत्वं दृश्यत इति नाखण्डार्थपरता कस्यापि शब्दस्य । शब्दमात्रं विशिष्टार्थपरमित्युक्तं भाष्यादौ ; न ब्रह्मव्यतिरिक्तं प्रत्यक्षादि- प्रमाणसिद्धं बाध्यमानं मिथ्येति च । “नेह नानास्ति” इत्यादीन्यप्यब्रह्मात्मक- निषेधपराणि । “निष्कलम्" इत्यादीनि हेयसंबन्धनिषेधपराणि । एवं भास्कर यादव प्रकाशमतयोरपि ब्रह्मण एवोपाधिसंबन्धाभ्युपगमाद- चिदाथाकारपरिणामाभ्युपगमाद्ब्रह्मणोऽपि विकारादिप्रसक्तेः श्रुत्यादिविरोधः । एवं पक्ष त्रयेऽप्यविद्यात उपाधितो वा परिणामतो वा ब्रह्मण एव जीवत्वे दुःखित्वं समानं दूषणम् । ब्रह्माज्ञानपक्षे ब्रह्मण एव जीवत्वेनैक्यात् बन्धमोक्षाव्यवस्थादयोऽ- धिकाः । जीवाज्ञानपक्षे जीवस्य नाशादयः जीवनित्यत्वश्रुतिविरोधश्च । भास्करमतेऽपि तदविशिष्टम् ; उपाधिगमनादौ सर्वगतब्रह्मणो गमनात् क्षणे क्षणे बन्धमोक्षादिप्रसक्तिश्च । नित्यतया भिन्नत्वेन च चिदचितोः प्रति- पादकश्रुतिविरोध श्वेत्येवमादि द्रष्टव्यम | एवं ब्रह्मणः स्वरूपेण जगत्तादात्म्ये महान् दोषः । आत्मशरीरभावे तु न कश्चिद्दोषः । ब्रह्मणो जगदन्तरात्मत्वं जगतश्च तच्छरीरत्वमन्तर्यामि- २३० नयधुमणिः ब्राह्मणादौ “जगत् सर्व शरीरं ते” इत्यादौ च । शरीरत्वोपपत्तिः शरीरलक्षणे । शरीरत्वाद्रूपादिवत् परमात्मविशेषणत्वे ‘शुक्लः पटः’ इतिवत् " सर्वं खल्विदं ब्रह्म" “पुरुष एवेदम्” इत्यादौ परमात्मनो जगत्सामानाधिकरण्यव्यपदेशो मुख्यः । विकारपुरुषार्थयोश्चिदचिद्रूपदेहमात्र गत्वान्न परात्मनि प्रसक्तिः । सुखदुःखयोश्च कर्ममूलत्वात् परमात्मनस्तदभावान्न जीववत् दुःखित्वम् ; देहित्वावस्थायामेव “अनश्नन्नन्यो अभिचाकशीति" इति कर्मफलानशनश्रवणात् । " तस्योदिति नाम" इत्यादौ " न मां कर्माणि लिम्पन्ति" इत्यादौ च तस्य देहयुक्तावस्थायामेव कर्मसंबन्धाभावः प्रतीयते । एवं स्वेतरसमस्तचिदचिद्देहित्वेन सर्वनियन्तृत्वाधारत्वशेषित्वानि च तस्य सिद्धानि ; आत्मत्वस्य नियन्तृत्वादिरूपत्वात् ; देहस्य च नियाम्यत्वादि- रूपत्वात् । सर्वनियन्तृत्वोक्त्या चान्यस्यानीश्वरत्वमपि सिद्धम् ; नियन्तृत्वस्यैवे- श्वरत्वरूपत्वात् । अत एव “न तस्येशे” इत्यादिश्रुतिः । न च “ततो यदुत्तरतरम्” इत्यादौ जगत्कारणवस्तुनोऽधिक- त्त्वप्रतीतिः–“पुरुषान्न परं किंचित्" इति जगत्कारणपुरुषाधिकवस्तुनिषेधात् । अतः “ततो यदुत्तरतरम्" इत्युपसंहार एव । एतच्च ‘परमतः सेतून्मान’ इत्यत्र सिद्धम् । एवं जगत्कारणवस्तुन एवेश्वरत्वम् ; ईश्वराधिकं ब्रह्मेति पक्षो निरस्तः । यादवप्रकाशस्तु चिदचिदीश्वराणां ब्रह्मपरिणामित्वं वदन् ब्रह्मणस्तदाधिक्यमाह । मिथ्यावाद्यपि जीवत्वेश्वरत्वयोराविद्यत्वं वदन् तस्य तदाधिक्यमाह । ईश्वरस्य परिणामित्वाविद्यत्वयोः प्रमाणाभावाच्च तन्निरासः ; तत्त्वावेदनपरत्वेनाभिहितान्तरादित्यादिविद्यास्वेवेशितृत्वादिश्रवणाच्चेत्यलमनेन तस्य देहित्वं च “आदित्यवर्णं तमसः परस्तात् “, " य एषोऽन्तरादित्ये हिरण्मयः पुरुषः " " समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ इत्यादिषु । आदित्यवर्णादेरनात्मधर्मत्वात् तच्छ्रुतीनां देहपरत्वं सिद्धम् । न च त्रिगुणात्मकप्रधानपरिणामविशेषः सः, “न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः” इति भूतसङ्घातत्वनिषेधात् तद्देहस्य ; अनभूषणाध्यायादौ 1 १२. प्रमेयनिरूपणम् २३१ “समस्ताः शक्तयश्चैताः” इत्यादौ च सविकार त्रिगुणाश्रयप्रधानाधारत्वप्रतीतेश्च । स नित्यः; “सदैकरूपरूपाय” इत्यादौ तद्रूपस्यैकरूप्यप्रतीतेः । कृष्णाद्यवतारेष्वपि तद्देहस्याविभवतिरोधानमात्रम् । न च कथं विकाराद्यभावे रामादिनाना- रूपत्वमिति ; तद्देहस्यापि शक्तिमयत्वेन सर्वप्रकारेण दर्शनयोग्यत्वात् । तद्दर्शनमपि इच्छामूलमेव । यथा धृतराष्ट्रार्जुनाभ्यां तद्देहस्यैव विश्वाधारत्वादिदर्शनम् । न हि पूर्वमविश्वाधारतया दर्शनम् । सर्वदा तथात्वेनादर्शनं संसारिणां कर्मतिरोधानहीन- ज्ञानत्वात् । ईश्वरच्छया तेषामपि शक्त्याधाने तद्दर्शनम् ; यथा धृतराष्ट्रा- र्जुनयो: । अत एव हि – “दर्शयामास पार्थाय परमं रूपम्” इत्युक्तिः । सृष्टत्वे तु ‘सृष्टवान्’ इत्युक्तिः स्यात् । यथा विश्वाधाररूपस्य तिरोधानम्, तथा कृष्णाद्यवतारेष्वपि तिरोधान प्रकारविशेषाः शापमूलशरघातादयः । यथा रामावतारे सशरीरवैष्णवतेजः प्रवेशः “विवेश वैष्णवं तेजः सशरीरः सहानुगः” इत्युक्तः । अतः “अजायमानो बहुधा विजायते” इत्यादीन्यपि तद्रूपदर्शनपराण्येत्र ; न तु संसारिवज्जन्मपराणि । अत एव हि – “ जन्म कर्म च मे दिव्यम्" इत्युक्तिः । रामाद्यवतारेषु पुंगर्भात् निर्गमनं प्रवेशनं चादित्यादीनां स्वसमाराधनफलम् । परमब्योम्नि च विग्रहवानेव स्थितः; “क्षयन्तमस्य रजसः पराके" इत्यत्र वर्तमान निर्देशात् । रजःशब्दोपलक्षितात् त्रिगुणात्मकप्रधानादस्मात् पराके परस्तात् । अस्येति विभक्तिविपरिणामः पञ्चमीत्वेन । “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति श्रुतिस्तु कर्ममूलदेहाभावपरा; प्रियाप्रिययोः सह पाठात् । “अपाणिपादः” इत्यादौ च परमात्मनो देहाभावश्रुतिस्तु देहाभावेऽपि कार्यसाधनसामर्थ्यपरा । 1 लक्ष्मीपतित्वं च “हीश्च ते लक्ष्मीश्च पल्यौ” “महीं देवीं विष्णु- पत्नीमजूर्याम्” इत्यादौ । लक्षणवाक्ये लक्ष्मीपतित्वोक्तिः भूमिपतित्वादेरुपलक्षणम् । “अस्येशाना जगतो विष्णुपत्नी " इति च भूमिपतित्वे प्रमाणम् । तद्वाक्यं भूमिपरमेव ; पूर्वापरवाक्यपरामर्शात् तथात्वदर्शनात् । अतोऽत्र हीशब्दो नीलापरः । अत एव “एवं भूत भूमिनीलानायक” इति भाष्यकारोक्तिः । न च विष्ण्वाद्यवतार एव तत्पतित्वम् ; “वैकुण्ठे तु परे लोके श्रिया साधं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भकैर्भागवतैः सह ॥” २३२ नयधुमणिः इत्यादौ परमव्योमस्थस्य तत्पतित्वोक्तेः; परमकारणपरे “अद्भयः संभूतः” इत्यनुवाके तत्पतित्वश्रवणः च । न चैवं पत्नीवस्खे न संसारिवैषम्यम् ; असंसारित्वस्वभावस्योक्तत्वात् ; लीलार्थतया तत्सद्भावोपपत्तेश्च । . 1 नित्याप्राकृतस्थानविशेवत्वं च “योऽस्याध्यक्षः परमे व्यामन्” इत्यादौ । न चास्य स्वर्गादिलोकपरता ; अस्येति सृज्यसर्वप्राकृतपदार्थं निर्दिश्य तदध्यक्ष पुरुषावासत्वेन तल्लोकाभिधानात् ; परमशब्दविशेषितत्वाच्च “अर्वाग् देवा अस्य विसर्जनाय " इति प्रकृतत्वात् सृज्यसर्वपदार्थप्रतीतिः । अप्राकृतत्वं च “तमसः परस्तात्” " रजसः पराके” इत्यादौ तस्य त्रिगुणातीतत्व श्रवणात् । “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इत्यध्वनः पारत्वश्रवणाच्च । “ ऊर्ध्वलोकस्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् | ब्रह्मलोकमतिक्रम्य तेन यान्ति परां गतिम् ॥ " परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् "” 99 इत्यादिना चतुर्मुखलोकात् परस्तादेव मुक्तगम्यस्य परमपदस्य प्रतीतेः परशब्दो न चतुर्मुखलेोकपरः । तथा श्रीपाञ्चरात्रे " मानुष्यादच्छिदं परं ब्रह्म ; नास्ति ज्ञेयमतः परम्" इत्यादिषु तस्याप्राकृतत्वादिकमुक्तम् । “सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन् " इति च ब्रह्मणः परमव्योमस्थत्व श्रवणाम् । न चास्य प्राकृतव्योमपरता, हृदयगुहापरता वा ; परमपदविशेष्यत्वानुपपत्तेस्तयोः । " तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इति परमव्योमस्थत्वाकारपरामर्शादप्येवम् ; तत आकाशाद्युत्पत्यभिधानाञ्च । एवं मुक्तैश्वर्यपरासु श्रुतिष्वपि तत्स्थानवैभवं द्रष्टव्यम् | तत्स्थानस्य नित्यता च तल्लोकगतस्यापुनरावृत्तिश्रवणाच्च । “तदक्षरे परमे व्योमन्” इत्यक्षरत्व श्रवणाच्च । अक्षरखं नामाविनाशित्वम् । तत्स्थानसाधनादेव भोग्यजातमप्यर्थसिद्धम् । " सर्वगन्धः सर्वरस : " “स पर्यगाच्छुक्रम्" “अपराजितमायतनम् " स गच्छत्यमितौजसं पर्यङ्कम्” इत्यदिभिः श्रुतिभिश्च । ब्रह्मणो मुक्तजनभेोग्यत्वं च “रसो वै सः, रसं ह्येत्रायम् " इत्यादौ । एवंविधस्थानाद्यनङ्गीकारे श्रुत्यादिविरोधः ।परमात्मात्नो इत्यादिभिः । तस्यैव १२. प्रमेयनिरूपणम् २३३ विद्यागम्यत्वं च “ब्रह्मविदामोति परम्” प्राप्यत्वोक्त्योपासनमपि सिद्धम् । विद्या च स्नेहपूर्वानुसन्धानरूपा गुणोपसंहारन्यायादुपसंहृतगुणा अहरहरावर्तनी- या दहरादिशब्दवाच्या । न तु वाक्यार्थज्ञानमात्ररूपा ; उपनिषत्स्वपि विद्युपासिध्यायतीनां पर्यायताश्रवणात् । तच्च “आवृत्तिरसकृदुपदेशात्” इत्यादिसिद्धम् । सैव भक्तिशब्दवाच्या ; इत्यादिस्मृतिभिः । " स्नेहपूर्व मनुध्यानं भक्तिरित्यभिधीयते । " “पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥” इत्यादिना एवंविधविद्याया वर्णाद्युचितधर्मादिरङ्गम; “यज्ञेन” यज्ञादेस्तत्र विनियोगात् । “नाविरतो दुश्चरितात्” इत्यादिभिर्धर्माभावे विद्यानापत्या परमात्मानाप्तिवचनाच्च । न च “न कर्मणा न प्रजया धनेन त्यागेनैके” “सर्वधर्मान् परित्यज्य” इत्यादौ विदुषो धर्मत्यागवचनान्न तस्य विद्याङ्गत्वमिति ; तत्र श्रुत्यादौ फलादित्यागमात्रचनात् । एवं विषयव्यवस्था च पूर्वोदाहृताङ्गत्त्रश्रुतेः । न च विदुषोऽनुष्ठानाननुष्ठानयोः श्रवणाञ्चानुष्ठानाननुष्ठानयोः विकल्पः षोडशिग्रहणाग्रहणवदिति ; समुच्चयसंभवे विकल्पानुपपत्तेः । अत एव हि “विद्यां चाविद्यां च यस्तद्वेदोभयं सह” इत्यादौ उभयानुष्ठानोक्तिः । न च पाक्षिकाङ्गानुष्ठानपरा सा ; अपेक्षितविद्योपयोगिमृत्युतरणावान्तरफल- श्रवणात् कर्मणः । मृत्युशब्दवाच्यविद्योदयविरोधि कर्म विदुषां संभवत्येवेति तन्निरसनमार्गश्च सर्वेषामपेक्षित एव । न च विद्योदयविरोधिपापनिरसनरूपफलसंभवे च न फलल्यागपरता ; त्यागशब्दस्य स्वर्गादिफलत्यागपरत्वात् । न च विनियोगे च न स्वर्गादिफल- परत्वमिति न तत्यागोपपत्तिरिति ; “आयुराशास्ते” इत्यादावायुरादि- फलश्रवणात् तदुपपत्तेः । न चाङ्गफलत्यागपरत्वे विद्याविरोधि निरासफलस्यापि त्याज्यता ; अवघातजवैतुष्यादेर्यागानुकूलत्ववत् तत्फलस्य विद्यानुकूलत्वेनात्या- ज्यत्वात् । एवंविधफलस्यापि नाभिसन्धानमिति च तत्यागवचनोपपत्तिः । अत एव हि “कर्मण्येवाधिकारस्ते” इत्याद्युक्तिः । इतिहासपुराणोंपबृंहणादेव वेदार्थनिर्णय इति तदनुसारादेव हि त्यागश्रुत्यर्थे वक्तव्यः । सर्वकर्मत्यागश्च 30 २३४ नयद्यमणि: दुरनुष्ठेय इति न तत्स्वरूपत्यागः । अत एव “न हि देहभृता शक्यं त्यक्त्तुं कर्माण्यशेषतः” इत्यादि । एवमङ्गत्वानङ्गीकारे कर्मणां प्रधानत्वाङ्गीकारे च श्रुत्यादिविरोधः स्पष्टः; “तमेवं विद्वानमृत इह भवति” इत्यादौ विद्याया मोक्षसाधनत्वश्रवणात् “यज्ञेन” इत्यादौ कर्मणामङ्गत्वश्रवणाच्च । अङ्गत्वेऽपि " दर्शपूर्णमासाभ्याम्” इत्यादिष्विव विद्याया मोक्षसाधनत्वोक्तिश्चापपन्ना ; प्रधानस्यैव फलसाधनत्वात् । एवंविधविद्यानुष्ठानं चाशरीरपातात् ; “स खल्वेवं वर्तयन् यावदायुषम् " इति श्रुतेः । एवंविधविद्याधिगमे प्रारब्धकर्मफलावसाने देहपातसमये च पूर्वापर सर्व- पुण्यपापकर्मणां पुत्रादिषु दायवन्मित्रेषु शत्रुषु च संक्रमः । शताधिकया भगवत्प्रकाशितया नाड्या आदित्यरइम्यनुसार्युपसृत्या अचिराद्यातिवाहिकगणै- रमानवान्तैः क्रमेण पूर्वोक्ता प्राकृत देशप्राप्त्या ब्रह्मणः सविभूतिकस्यानुभा- व्यत्वमिति भाष्यादिषूक्तप्रमाणादयो द्रष्टव्याः । कारणवस्तुनो नारायणत्वं च सर्वविद्याशेषात् " सहस्रशीर्षं देवम्” इत्यनुत्राकात् । तस्य सर्वविद्याशेषत्वं च लिङ्गभूयस्त्वाधिकरण इति सर्वं सुस्थम् । जीवश्च नित्यो वस्तुभूतो ज्ञानस्वरूपो ज्ञाता अणुपरिमाणो ब्रह्मशरीर- भूतः; तत्र नित्य इति देहेन्द्रियमनः प्राणबुद्धीनामात्मत्वनिरासः’ । वस्तुभूत इति शून्यस्यात्मत्वनिरासः । ज्ञानस्वरूप इति तस्य पाषाणकल्पत्वनिरासः । ज्ञातेति ज्ञप्तिमात्रत्वनिरासः । अणुपरिमाण इति तस्य विभुत्वनिराप्तः । ब्रह्मशरीरभूत इति तस्य स्वातन्त्र्यनिरासः ।
- अत्र- “देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ॥ " “सजातीयस्व साध्यार्थनिरपेक्षात्मसिद्धयः । सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥ | " इत्यादिकमात्मसिद्धिवचनमनुसंधेयम् । १२. प्रमेयनिरूपणम् २३५ ननु लोकायतिकाभिमतो देह एवात्मा; ‘मनुष्योऽहं, स्थूलोऽहं गच्छा- म्यहम्’ इत्यात्मत्वेनाभिमताहमर्थस्य देहसामानाधिकरण्यप्रतीतेः । अहमर्थस्यै- वात्मत्वमभिमतं प्रायेण वादिनाम् । सर्वैरपि वादिभिरात्माङ्गीकृतः । किंतु धर्मिखरूपमात्रे विप्रतिपत्तिः । तथाहि - शरीरमेवात्मेति लोकायतिकाः । तदेकदेशिन एव केचिन्मन इति । प्राण इत्यपरे । इन्द्रियाणीति परे । सर्व समुदाय आत्मेति केचित् । बुद्धिसंततिरात्मेति बौद्धाः । तदेकदेशिनो माध्यमिकास्तु शून्यमात्मेति । पूर्वोक्तसर्वातिरिक्तो नित्यो विभुर्जड इति वैशेषिकादयः । शरीरपरिणाम इत्यर्हिताः । ब्रह्मांश इति भास्करीयाः । अन्तःकरणप्रतिबिम्ब इति ब्रह्माज्ञानवादिनः । अन्तः- करणावच्छिन्न इति जीवाज्ञानवादिनः । अकर्ता चिच्छक्तिकेति सांख्याः । ब्रह्मपरिणाम इति यादवप्रकाशीयाः । प्रामाणिकास्तु राद्धान्तोक्तप्रक्रियया । अतो भवत्यात्मनि विप्रतिपत्तिः । न च देहस्यैवात्मत्वे चैतन्यानुपपत्तिः; भौतिकत्वात् तस्य, भूतेषु तदनुपलब्धेरिति — मद्यादिद्रव्यस्य भौतिकत्वेऽपि मदशक्तिवत् सहकारि- वशाच्चैतन्योत्पत्तिविनाशोपपत्तेस्तस्य । न च “मम देहः” इति पृथक्त्वप्रतीतेः घटादेर्दष्टुरन्यत्ववदित्यनुमानात् तदतिरिक्तता; अनुमानस्य पृथक् प्रमाणत्वा- नङ्गीकारात् । ‘मम’ इति तत्प्रतीतिव्यवहारयोः ‘शिलापुत्रकस्य शरीरम्’ इति - वदप्युपपत्तेः । ‘स्थूलोऽहम्’ इति स्फुट प्रत्यक्षविषयत्वात् प्रतीतेरनन्यथासिद्धत्वात् तदैक्यम् | अनुमानस्य पृथक्प्रामाण्येऽपि धूमाग्न्योः प्रत्यक्षतो व्याप्तिग्रहणवदात्म- तल्लिङ्गयोर्न व्याप्तिग्रह इति न ततस्तसिद्धिः । ‘मम देहः’ इति धीस्तु न पृथक्त्वविषयेत्युक्तम् । व्याप्तिग्रहणसमये आत्मनो वह्निवत् प्रत्यक्षतो ग्रहणे च नानुमानापेक्षा | अनुमानस्य प्रामाण्येऽपि सामान्यतो दृष्टाख्यानुमानं तु नाङ्गीकृतमिति न ततस्तत्सिद्धिः । न च ‘य: पूर्वाब्दे द्रष्टा आसम् स एवाहमिदानीमपि द्रष्टा’ इति द्र्ष्ट्रक्यप्रतिसन्धानात् देहस्य चोपचयापचय- भाक्त्वेन भिन्नत्वात् तदनुपपत्तेः तस्य तदतिरिक्तत्वमिति – भूतविशेषसंघात- स्वभावादेव तदुपपत्तेः । अतो न नित्यात्मसिद्धिरिति ।
मैवम् | ‘मनुष्योऽहम्’ इत्यादिसामानाधिकरण्यधियो देहस्यात्मानं प्रत्यपृथ- सिद्धविशेषणत्वेन ‘नीलमुत्पलम्’ इत्यादौ नैल्यादेराश्रयतो भेदेऽपि तदुपपत्तिवत् तयोर्भेदेऽप्युपपत्तेरन्यथासिद्धत्वात् । नैल्यादेस्तदाश्रयव्यक्तेश्च प्रत्यक्षतः सिद्धि- वत् देहृतदरितात्मनोर्न ततः सिद्धिरिति तु न ; स्थूलाहंघीभ्यां तत्सिद्धेः । यथा २३६ नयद्युमणि: अन्यथा स्थूलधीः स्थूलत्वविषया, तथा अहंधीरप्यान्तराहमर्थविषया; अहमिति परदेहस्याप्यहधीव्यवहारविषयत्वप्रसक्तेः । ‘मम देह:’ इति पृथक्त्वप्रतीतेश्च । न च शिलापुत्रकस्य शरीरमितिवत् तत्प्रतीतिः; शिलापुत्रकात् शरीरपृथक्त्वाप्रतीतेः तत्र व्यवहारमात्र एव भेदात् । अस्य चानौपचारिकत्वात् ‘मम देह:’ इति भिन्नविषयाधीः । अहमर्थस्य स्वापे देहादि- सर्वविषयप्रतीत्यभावेऽपि ‘सुखमहमस्वाप्तम्’ इति सुखप्रतीतिसंबन्धितया प्रबोधे प्रतिसन्धानाच्च तद्भेदः । न ह्यननुभूतं प्रतिसन्धीयते । न च देहस्यैव तत्प्रतिसन्धानविषयत्वम; तत्प्रतीतेरतथात्वात् । देहस्य चैतन्यं चानुपपन्नमिति चेतनस्य तद्यतिरिक्तता घटादिवत् । भौति- कत्वात् तदनुपपत्तिः । न च भूतसंघातविशेषस्य चैतन्यम् ; मृतदेहस्यापि तदविशेषात् तत्प्रसक्तेः । न च सहकारिविशेषात् तत्र तदुत्पत्तिः ; विकल्पासहत्वात् । सहकारी किं प्रत्यक्षतोऽप्रत्यक्षतो वा सिद्ध: ? नाथः ; अनुपलब्धेः । नापि द्वितीय: ; प्रत्यक्षातिरिक्तप्रमाणानभ्युपगतेः । तदभ्यु- पगतावपि मृतचैतन्योत्पादकसहकारितद्व्यवहारलिङ्गयोर्न प्रत्यक्षात् व्याप्युप- लब्धिरिति नानुमानप्रवृत्तिः । प्रत्यक्षतः सहकारिसिद्धौ नानुमानमिति स्व|त्सृष्टबाणेन स्वहननवत् स्वोक्त्यैव स्वयमेव चार्वाको हतः । । 1 अथ सामान्यतो दृष्टानुमानात् सहकारिसिद्धि:, तर्हि घटत- दूद्रष्ट्रोर्भेदवदहमर्थस्य देहद्रष्टुस्त एव भेदः सिद्धः । न च सामान्यतो दृष्टादपि सिद्धिः; भूतचैतन्यसहकारिसामान्यव्याप्तिलिङ्गविशेषासिद्धेः । न च चैतन्याख्यकार्यविशेषदर्शनात् सहकार्याख्यकारणविशेषसिद्धिरिति — भूतचैतन्य- सिद्धावेवास्योत्तरत्वात् । भूतचैतन्यात् सहकारिविशेषसिद्धिः, सहकारिविशेषात् तच्चैतन्यसिद्धिरित्यन्योन्याश्रयणं च । उपलभ्यमानस्य चैतन्यस्य देहातिरिक्तात्म- संबन्धादप्युपपत्तेः नानन्यथासिद्धिश्च । मद्यादेर्मदशक्तिस्तु प्रत्यक्षसिद्ध सह- कारिवशात् द्रव्यविशेषस्वभावतो वोपपद्यते । मृतदेह ादेः संघात विशेषत्वेऽपि केवलभूतेषु चैतन्यमनुपलब्धमिति वैषम्यम् । ‘य एवाहं बालः, स एवाहं वृद्ध:’ इति प्रत्यभिज्ञाप्रत्यक्षादपि तदति- रिक्तत्वम् । न च देहस्य तद्विषयत्वम् ; उपचयापचयात् भूतसङ्घातभेदात्
- सामान्यतो दृष्टानुमानात् विशेषासिद्धिरात्मसिद्धौ प्रतिपादिता । सापीहानुसंधेया । १२. प्रमेयनिरूपणम् २३७ तस्य तद्विषयत्वानुपपत्तेः । न चोपचयादितो देहवैरूप्येऽपि ‘सोऽयं पुरुषः ’ इति प्रत्यभिज्ञावत् तत्प्रत्यभिज्ञोपपत्तिः ; ‘सोऽयम्’ इति धियो देहविषयायाः सादृश्यनिमित्तत्वात् । व्याध्यादिना देहस्यात्यन्तवैसादृश्ये ऽप्यहमर्थविषयैकरूप्यात् नात्र सादृश्यनिबन्धना सा । न हि देहस्य सादृश्यनाशे प्रत्यभिज्ञाविषयत्वम् ; ‘सोऽयमिति न ज्ञायते, आकारवैरूप्यात्’ इति लोकप्रतीतेः, व्यवहाराच्च । बाल्ययुक्त्वादिविशेषणानामपायेऽपि सर्वत्राहमर्थान्वयस्मृतेः ‘अहं वालो युवा’ इति तद्विशेष्यैक्योपपत्तिः । देहस्य तु तद्धर्मत्वेऽप्युपचयादिभेदात् नानुवृत्तिरिति न तदनुवृत्तिः । देहोऽप्यत्म विशेषणमित्यन्यत्र साधितत्वाद्वाल्यादिधर्मवदस्थायित्वेऽपि ‘देवोऽहम्’ इत्यादिविशिष्टतयानुसन्धानं चोपपन्नम् | न च ’ मनुष्योऽहम्’ इत्यादिधियो यथार्थत्वादनात्मन्यात्मबुद्धयभावादहं- धियोऽहमर्थस्यैव विषयत्वाभिधानाच्च न संसारप्रवृत्तिरिति - अस्योत्तरं ख्याति- याथार्थ्यानिरूपणप्रकरणै उक्तम् । अतः अहमर्थस्यैवाहंधीविषयत्वमिति विवेकिजनज्ञेयत्वात्, तस्यापहतपाप्मत्वाद्यसाधारण स्वरूपस्य शास्त्रकसमधि- गम्यत्वात् तदज्ञाने संसारप्रवृत्युपपत्तिश्च । किंच जातमात्रस्य प्रथमं स्तन्यपाने प्रवृत्तिदर्शनाच्च तस्य देहातिरिक्त- त्वम् । अनुभवाद्धि स्थाय्यात्मनि संस्कारोत्पत्तौ कालान्तरे तद्विषयसजातीय- दर्शनात् स्मृत्युत्पत्तौ तद्विषयरागादेव तत्र प्रवृत्त्युपपत्तिः ; ज्ञातफलरस- विशेषस्य तथा प्रवृत्तिदर्शनात् । तदयं प्रयोगः - जातमात्रो बालः स्तन्यरसज्ञ एव तत्पाने प्रवृत्तः, विशिष्टप्रवृत्तिमत्त्वात्, ज्ञातफलरसविशेषः तदादान- प्रवृत्तिमान् स्थविर इव, इति । न च देहस्वभावात् तज्ज्ञानप्रवृत्त्यादि ; अननुभूतफलरसादौ तददर्शनात् । एवमनुमानादपि देहातिरिक्तात्मसिद्धिः देहत्वानुपपत्तिश्च । अन्यानुभूतस्यान्येन प्रतिसंधानानुपपत्तेरेव अस्तु को दोष इति चेत् — ‘य एव गन्धघ्राता स एव रूपद्रष्टा’ इति प्रतिसन्धानाद्गन्धरूपाभिज्ञैक्यप्रतीतिविरोधात् । न ह्यन्यानुभूतेऽन्यप्रतिसन्धिः । न चात्मत्वं मनसोऽपि ; तस्यापि चक्षुरादिसहकारित्वेन चक्षुरादि- करणान्तर्भावात् । तस्य सहकारित्वं च चक्षुरादेः रूपाद्यर्थ संबन्धेऽप्यन्यमनस्कस्य तद्विज्ञानानुत्पत्तेः, अनन्यमनस्कस्य तदुपपत्तेश्वति । देहेन्द्रियधारणकारणत्वेन न च प्राणस्याप्यात्मत्वम् ; तस्य चक्षुरादिसाधर्म्यात् । ‘मनोऽहम्, प्राणोऽहम्’ इति मनःप्राणयोर्नाहमर्थसामानाधि- न २३८ नयद्यमणिः करण्यं च । प्राणस्य देहाद्यांधारत्वं चोन्मेषादिव्यापारात् सिद्धम् । आगमाच्च तदाधारत्वं सिद्धम् । स च भाष्यादौ । अपौरुषेयस्य वेदस्य चार्वाकोक्तार्या संस्पर्शित्वदूषणं तु स्वतः प्रामाण्ये निरस्तम् । न च देहादिप्राणान्त समुदायस्यात्मत्वम् ; समुदायस्य समुदाय्यनन्य- स्वात् ; नानाले पूर्वोक्तप्रतिसन्धानानुपपत्तेस्तदवस्थत्वात् । समुदायस्यान्यत्वेऽपि समुदायिदेहादेरपचयादिना प्रतिदिनं भिन्नत्वात् समुदायस्यापि तथात्वे प्रतिसन्धानानुपपत्तिस्तदवस्था । एवं चार्वाकानां मतभेदात् देहेन्द्रियमनः- प्राणतत्समुदायानामन्यतमस्याभिमतात्मत्वनिरास उन्नेयः । न च बौद्धाभिमता बुद्धिसंततिरेवात्मा; तासां भिन्नत्वे प्रतिसन्धाना- नुपपत्तेरेव । बुद्धीनां क्षणिकत्वमिष्टम् । न चास्या अपि सादृश्यादेः स्थायितेष्टा । अस्थायित्वे च न प्रतिसन्धि: । ‘बुद्धिमें जाता ; जानाम्यहम्’ इति ज्ञानापरपर्याय- बुद्धेरहमर्थातिरिक्तध्वप्रततिश्च नात्मत्वम् । न च तत्संततिश्च संन्तानिभ्यो भिन्नेष्टेति न ततोऽपि प्रतिसंध्युपपत्तिः । न चाहमर्थस्य ग्राहकस्य ग्राह्यस्य च घटादेर्भ्रान्तिसिद्धत्वानुज्ञा; ग्राह्यग्राह- कयोरबाधात् । तयोर्भ्रान्ति सिद्धत्वे ज्ञानस्यापि भ्रन्तिसिद्धता । न च निरधिष्ठान- भ्रमासंभवात् ज्ञानस्याङ्गीकार्यत्वम् ; दोषाश्रयादेरपारमार्थ्येऽपि भ्रमोपपत्तिवन्नि- रधिष्ठानतयापि भ्रमोपपत्तेः । न ं च संस्कारात् प्रतिसन्धिः तस्यापि स्थायित्वानभ्युपगतेः । च तत्सतंतिजत्वमात्रात् प्रतिसन्धिः ; विसदृशज्ञानानुदयप्रसक्तः । तज्ज्ञानोत्पत्तेश्च कालान्तरे न प्रतिसन्धिः । तत्संतत्युच्छेदस्यैव मोक्षत्वा- ङ्गीकारात् तस्य चापुरुषार्थत्वान्न कस्यापि तत्प्रवृत्तिरित्यादि द्रष्टव्यम् । न चात्मनः शून्यत्वम् ; प्रतीतिविरोधात् । प्रतीत्यनभ्युपगतौ प्रमाणा- भावान्न शून्यत्वसिद्धिः । प्रमाणाङ्गीकारे च कस्यचित् कंचनार्थं प्रति प्रवृत्तेः सुतरां न तत्सिद्धिरित्यादि द्रष्टव्यम् । ‘ननु नात्मा ज्ञानस्वरूपः, न नित्यं ज्ञाता च सुषुप्त्यादिष्वात्म- तज्ज्ञानयोरप्रकाशात् । अप्रकाशत्वे चातत्स्वभावत्वनिश्चयः । सर्वदा ज्ञानाश्रयत्वमेव हि ज्ञातृत्वस्वरूपत्वम् । तदा चार्थेन्द्रियसंनिकर्षाज्ज्ञानोदयश्चा-
- नन्विति । " ज्ञोऽत एव” इत्यधिकरणोक्तरीत्या पूर्वपक्षपरिहारादिकमत्र । १२. प्रमेयनिरूपणम् २३९ नुपपन्नः । न च ’ सुखमहमस्वाप्सम्’ इति प्रबोधे स्वापकालीनयोः सुखानुभव- स्वानुभवयोः प्रत्यवमर्शात् स्वापेऽपि ज्ञानम्; ‘न किंचिदहमवेदिषम्’ इति स्वापकालीनज्ञानाभावप्रत्यवमर्शविरोधात् । ‘सुखमहमस्वाप्तम्’ इति तु स्वापहेतु- कपश्चाद्भाविसुखविषयम् ; यथेदानीं सुखं भवति तथाऽस्वाप्तमित्यर्थः । अत एव हि " नाह खल्वहमेवं संप्रत्यात्मानं जानाम्ययमहमस्मीति” “न प्रेत्य संज्ञाऽस्ति” इति सुषुप्तमुक्तयोर्ज्ञानाभावप्रतिपादकश्रुती । तस्य ज्ञानज्ञातृत्वस्वरूपत्वे च सर्वगतत्वात् सर्वपदार्थ संबन्धाच्चेन्द्रियानपेक्षं सर्वज्ञानं स्यात् । सर्वगतत्वं च देशान्तरेऽपि सुखकार्यदर्शनात् तस्य चात्मसमवेत पुण्यादिफलत्वात् । समवायश्च तत्राप्यात्मसद्भाव इति सिद्धम् । न तत्राण्वात्मगमनकल्पना ; गौरवात् । देहमात्रगमने तु तलाघवम् । दूरदेशे भोग्यपदार्थदर्शनाच तत्रादृष्टवदात्मसंयोगः । अदृष्टनिमित्ताद्धि तदुत्पत्तिः । न ह्यन्यत्रस्थादृष्टनिमित्तः सः । ज्ञप्तिमात्रवादेऽप्यविद्यादिना तत्तिरोधाने स्वरूपनाशः । अतिरोधाने सर्वदा सर्वत्र प्रकाशः । अतः सर्वगतो जड एवागन्तुकचैतन्य आत्मा । सर्वगतत्वे च " स वा एष महानज आत्मा” “नित्यः सर्वगतः स्थाणुः” इत्यादिश्रुतिस्मृत्यविरोधश्च । अन्यथा तद्विरोधः । " एषोऽणुरात्मा” इत्यादयस्तु मनसोऽणुत्वादात्मनस्तत्संबन्धनिमित्तत्वेनौपचारिक इति । मैवम् । “विज्ञानम्” “प्रज्ञानघन एव” “जानात्येवायं पुरुषः” इत्यादि- श्रुतिविरोधात् । न चागन्तुकचैतन्येऽप्यस्याविरोधः; तच्छ्रुताववधारणश्रवणात् । न च गुणान्तरव्यावर्तकत्वादुपपत्तिः; सुखादेरप्यात्मगुणत्वाभ्युपगमविरोधात् । अतो ज्ञानज्ञातृत्वस्वरूपविधिः । तदभाव एव व्यावर्त्यः | 1 एवंच “न विज्ञातुर्विज्ञातेर्विपरिलोपः” इत्यादिश्रुत्यविरोधः । “नाह खल्वय” इत्यादिश्रुतिस्तु मनुष्याद्याकार विशिष्टतयाऽहमर्थानुसन्धानत दितरबाह्यानु- सन्धानयोर्निषेधपरा । “अयमहमस्मीति, नो एवेमानि भूतानि " इति हि श्रवणम् । “न प्रेत्य संज्ञास्ति” इति मुक्तविषया श्रुतिरपि संसारावस्थानुभूतपदार्थस्मरणा- भावपरा । अत एव हि “नोपजनं स्मरन्निदं शरीर” इति श्रुतिः । अन्यथा “सर्व ह पश्यः पश्यति” इत्यादिमुक्तविषयश्रुतिविरोधः ।
- ननु जानात्येवेत्येवकारस्य विशेष्यसंगतत्वाभावेनान्ययोगव्यवच्छेदार्थ- कत्वायोगेऽपि क्रियासंगतत्वादत्यन्तायोगव्यवच्छेदार्थकत्वमेवास्तु । अतो न नित्य- ज्ञानसिद्धिरित्याशङ्कायाम्, विशेषण संगतत्वप्रयुक्तायोगव्यवच्छेदार्थकत्वमेव प्रमाणान्तर- स्याप्यनुकूलमित्याह—एवचेति । ३४० नयद्युमणिः वेद्यासंबन्धात् वित्तिस्फुरणाभावेऽप्यहमित्यहमर्थप्रकाशनाश्वात्मा ज्ञान- स्वरूपः । ज्ञानत्वं नामान्यानपेक्षतया प्रकाशमानत्यम् । प्रदीपादयस्तु ज्ञानापेक्षप्रकाशा इति न स्वयंप्रकाशाः । तेषां प्रकाशव्यवहारो ज्ञान सहकारि- तामात्रात् । एतेनार्थवित्तिष्वेवाहमर्थस्य भानमिति पक्षोऽपि निरस्तः; अन्यदापि तद्भानस्यात्मसाक्षिकत्वात् । तथा “सुखमहमस्वाप्सम्” इति बाह्यान्तःकरणव्यापारोपरतावपि सुखधर्मि- तयाऽहमर्थस्यानुभूततया परामर्शाच्च तस्य ज्ञानज्ञातृस्वरूपत्वम् । न च, ‘इदानीं यथा सुखं भवति, तथाऽस्वाप्सम्’ इति परामर्शः ; तस्यातथात्वात् । न च स्वापे मनसोऽपि संमीलनात् कथं सुखधर्म्यवगमार्थप्रतीतिः ? सुखस्य ज्ञानभेदत्वात् अहमर्थस्य च संवित्स्वरूपत्वात् तत्प्रकाशे कारणान्त- रानपेक्षत्वात् । संसारदशायां नित्यस्याप्यात्मधर्मभूतज्ञानस्य कर्मणा संकुचित- स्वात् रूपादिविषयासंबन्ध तत्संबन्धार्थं चक्षुरादिकरणापेक्षा निःसरणे । तन्निःसरणापेक्षः तस्योदयव्यवहारः; तन्निवृत्यपेक्षो नाशव्यवहारश्च । तत्संकोचश्च “अज्ञानेनावृतं ज्ञानम्” इत्यादिना । अज्ञानं ज्ञानविरोधि कर्म ; “अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा || " इति वचनान्तरानुसारात् । आवरणमात्रोपदेशात् संसारदशायामपि नात्मा- श्रितज्ञानस्योत्पत्तिविनाशौ । न च “अज्ञानेनावृतं ज्ञानम्” इत्यत्र ज्ञानशब्द आत्मपरः “यया क्षेत्रज्ञशक्तिः सा” इत्यादिनैकार्थ्यात् ; तत्र हि क्षेत्रज्ञाख्यशक्तेरेव कर्मवेष्टनं स्मर्यत इति ; “ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् ॥” इत्युपरितनश्लोके ज्ञानस्याज्ञानावरणविषयस्य जीवेभ्यो व्यतिरिक्तत्वप्रतीतेः । तच्छूलोकेऽपि ज्ञानस्यावरणमात्रव्यपदेशात् ज्ञानस्य नित्यता । तस्य परशब्द. विशेष्यत्वस्मरणात् ज्ञानस्यापरिमितत्वं च सिद्धम् । तत्र परशब्दस्योत्कर्ष - परत्वेऽपि सर्वदेशव्याप्तिरूपोत्कर्षपरत्वमेव । न चात्र परशब्द आत्मपरः; १२. प्रमेयनिरूपणम् २४१ स्वात्मनो ज्ञातृतयैव प्रकाशमानत्वात् स्वज्ञान विषयत्वेनाप्रकाश्यत्वात्’ । ‘प्रकाशयति’ इत्यस्य प्रतिसंबन्धि तु सर्वं वस्तुजातमर्थात् संबद्धम् । एवंच स्वप्रभया बहुवस्तुप्रकाशकादित्यदृष्टान्तस्वारस्यम् । आदित्यस्य प्रकाशोऽपि न प्रभया; किंतु स्वत एव ; तेजस्त्वात् । प्रनष्टसर्वज्ञानमुक्तविषया “सर्व ह पश्यः पश्यति” इति सर्वज्ञत्वश्रुतिरपि । अत एव सर्वार्थसंबद्धज्ञानत्वमेव हि सर्वज्ञत्वम् । एवं सर्वार्थसंबन्धात् ज्ञानस्य सर्वगतत्वं च । न च “यया क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा” इति क्षेत्रज्ञाख्य- शक्तेरेव सर्वगतत्वात् ज्ञानतद्वेष्टनयोरश्रवणादन्यत्रापि तथात्वमिति ; जीवस्याणुत्व- मिति वक्ष्यमाणत्त्रात् । “अज्ञानेनावृतं ज्ञानम्" इत्यादिश्लोकार्थविरोधाच्च न तत्स्व- रूपावरणम् । अतस्तदनुसारात् क्षेत्रज्ञस्य शक्तिरिति षष्ठीसमास एवाश्रयणीयः । “माययापहृतज्ञानाः" इत्यादावपि ज्ञानस्यैवापहार उच्यते ; न तु स्वरूपस्य । तथात्वे विनाशो वा स्वरूपस्य विकारो वा संकोचाख्यः । तथाचाविनाशित्व- श्रुतिविरोधः । धर्मभूतज्ञानस्य तु संकोचाख्यविकारः प्रमाणसिद्धोऽङ्गीकृतः । तस्यापि स्वरूपविनाशो नाङ्गीकृतः; “न हि विज्ञातुर्विज्ञातेः” इत्यादिश्रुतेः । अतः सर्वार्थसंबन्धार्हं ज्ञानम् । अत एव हि संसारिजीवानामपि दूरस्थध्रुवादि- त्यादिसंयोगो ज्ञानस्य । 2 न च चक्षुरादिभिः संयोगाद्विषयाणामात्मनि ज्ञानोत्पत्तिः; पूर्वोदाहृत- ज्ञाननित्यत्वश्रुतिविरोधात् ; ‘घटो ज्ञातः’ इति प्रतीतिविरोधाच्च । ज्ञानावच्छिन्न- मेव हि घटादि प्रतीयते । न च तत्प्रतीतिर्व्यवहारानुकूल्यमात्रात् ; तदानुकूल्य- स्यापि ज्ञानसंबन्धाधीनत्वात् । तस्य विषयासंबन्धे ‘घटज्ञानम्, ज्ञातो घटः’ इति तयोरन्योन्यव्यवच्छेदकता न स्यात् । न च देशकालविप्रकृष्टार्थविषयज्ञानस्यापि दर्शनाद्विषयाभावे संबन्धोऽनु- पपन्न इति; अतीतार्थसंबन्ध घटक श्रुत्यादिप्रमाणसद्भावात् तदूद्वारा ज्ञानस्य तत्संबन्धोपपत्तेः । विषयाभावे ज्ञानोत्पत्त्यनुपपत्तेः दोषपरिहारश्च । न सा चक्षुः संबन्धाधीनेति । I. अप्रकाश्यत्वादिति । इदमुपलक्षणम् । अशानोच्छेदे सर्वशानस्यैव प्राप्तत्वात् आत्ममात्रे संकोचायोगाच्चेति ।
31 ज्ञानस्य विषयसंयोगोऽनपेक्षित इति शङ्कां परिहरति-न चेति । २४२ नयधुमणिः न च निमित्तभूतघटादिना ज्ञानस्य जन्यत्वेन तयोरन्योन्यव्यवच्छेदकत्वम् ; सर्वकार्याणामदृष्टेश्वरादेरपि निमित्तत्वाङ्गीकारात् तस्य ज्ञानस्य चान्योन्य- व्यवच्छेदकतापत्तेः । न चेश्वरादेः सर्वकार्यसाधारणकारणत्वात् असावारणकारणघटादेरेव ज्ञानव्यवच्छेदकत्वादिरिति ; चक्षुरादेः रूपादिज्ञानासाधारणकारणत्वात् घट- ज्ञानमितिवत् चक्षुर्ज्ञानयोरन्योन्यव्यवच्छेदकत्वापातात् । लोकेऽपि न ज्ञानघटयोर्जन्यजनकतेष्टा । किंतु विषयविषयिभाव एव । विषयविषयित्वं च घटादेर्ज्ञानस्य च प्रकाश्यप्रकाशकत्वमेव । प्रकाश्यत्वे च तत्संबन्धोऽवर्जनीयः । प्रयोगश्च - ‘विमतं ज्ञानं घटादिसंबद्धमेव, ज्ञातो घट इत्यादौ विशेष- णविशेष्यतया प्रतीयमानत्वात्; शुक्लः पट इतिवत् ‘; ‘ज्ञात इति व्यवहारो ज्ञानज्ञेयसंबन्धनिबन्धनः, संबन्धिव्यवहारत्वात्, संयुक्त इति व्यवहारवत्’ इति । संबन्धश्च विषययज्ञानयोर्न जन्यजनकतेत्युक्तम् ; किंतु संयोगादिरेव । न च ज्ञानस्य गुणत्वम् ; आश्रयदेशादन्यत्र वर्तमानत्वात् । तच्च पूर्वोक्तविशेषणैः सोपपत्तिकैः सिद्धम् । आश्रयश्च “एषोऽणुरात्मा चेतसा वेदितव्यः" इति श्रुतेरणुरात्मा । न च मन:संबन्धात् तद्व्यपदेशः ; लक्षणापत्तेः । देह एव अहमित्यर्थस्य प्रकाशादन्यत्राप्रकाशाच्च परिच्छिन्नत्वं सिद्धम् । परिच्छन्नत्वेऽपि न देहपरिमितत्वम् ; स्थूलादिदेहप्रवेशे विकासादिविकारापत्तेः । अतोऽणुरेव । अणुत्वेऽपि पादादिवेदनाप्रकाशो ज्ञानद्वारोपपन्नः । न च ज्ञानस्यानन्यापेक्षप्रकाशत्वे देहदेश एव प्रकाशोऽनुपपन्नइति- अनन्यापेक्षप्रकाशत्वस्य स्वतत्तयैव स्वाश्रयात्मन एव प्रकाशमानत्वरूपत्वादात्मनो देहैकदेशे हृदय एव स्थितस्वात् तदुपपत्तेः ।
- तद्वयपदेश: अणुत्वव्यपदेशः ।
- पादादीत्यादि । ‘पादे मे वेदना, शिरसि मे सुखम्’ इत्येवमात्माना धार- शरीरप्रदेशसंबन्धिग्रहणमित्यर्थः । ।१२. प्रमेयनिरूपणम् २४३ न चात्मनो ज्ञानस्वरूपत्वेन प्रकाशकत्वादर्थज्ञानाय न ज्ञानान्तरापेक्षति ; अहमर्थस्य. ज्ञानस्वरूपत्वेऽपि प्रत्यक्स्वभावत्वात् । अणुत्वाद्धृदयदेशेऽवस्थितत्वात् घटाद्यर्थसंयोगाद्विषयप्रकाश स्वाश्रयायैवेति, आत्मसाक्षिकः ‘सुखमहमस्वा’सम्’ इत्यादी ज्ञातुरेवावभास इति च । ज्ञातृत्वविरहे न केवलात्मप्रकाशोऽस्त्येव ज्ञातृत्वस्य स्वरूपानुवन्धित्वेऽपि । तदध्यात्मसाक्षिकम् | ‘जानामि’ इति स्फुरणेऽपि ज्ञानं तदाश्रयाहमर्थात् पृथक्त्वेनैव प्रकाशते ज्ञानाश्रयतया, ‘करोति’ इत्यादौ क्रिया- तत्कर्त्रेरिव । अतो विषयस्य ज्ञानाधीनप्रकाशत्वात् तस्य च तत्संयोगाधीनत्वात् संयोगस्य संसारदशायां कर्मणा संकुचितत्वेन देहाद्वहिर्गमनापेक्षत्वात् गमने च चक्षुरादयो द्वारम् | ; न च ज्ञानस्य नित्यत्वेन सर्वदैकरूप्ये चक्षुराद्येकद्वारनिःसृतस्य सर्वार्थप्रकाशकवमिति तस्यानित्यत्वपक्षेऽपि चोद्यपरिहारयोः समत्वात् | कथं न सर्वार्थविषयत्वमिति चोद्यं तावत् समम् । कार्यान्वयव्यतिरेकानु- विधायित्वात् कारणकल्पनायाश्चक्षुरराधे केककारणस्य सर्वार्थप्रकाशनरूपकार्या- दर्शनात् कार्यभेदादेव नियतार्थप्रकाशकत्वमिति वक्तुं शक्यम् । नित्यसर्व- गतसामान्यादेरपि व्यञ्जकसहकारिभेदात् क्काचित्काभिव्यक्त्याख्यजन्य- कार्यभेदवच्चोपपत्तिः । एवं ज्ञानस्याश्रयादन्यत्र वर्तमानत्वेन मण्यादिप्रभावत् द्रव्यत्वमपि सिद्धम् । न च तैंजसमण्यादेः प्रभात्वान्नाश्रयादन्यत्वमिति ; तथात्वे विशीर्णत्वप्रसक्तेः ’ स एवायं मणिः’ इति प्रत्यभिज्ञाविरोधात् । न च ज्वालायामिव सा भ्रान्तिः; तद्वद्भेदसिद्धैौ प्रमाणाभावात् । अतस्तेजोद्रव्यं प्रभातदाश्रयस्वरूपेण द्विरूपमेव । विशेषाकारेण व्यवस्थेति भवद्भिः परिहारो वक्तव्यः । एवं ज्ञानतदाश्रययोरपि अस्माभिरप्यात्माश्रितज्ञानस्य नित्यत्व सर्वगतत्वाज्ञानात् आवृतत्वावस्थायां प्रमाणतः सिद्धौ एकद्वारनिःसृतस्य सर्वार्थप्रकाशनरूपकार्या- दर्शनात् सहकारिभेदादेव नियतार्थप्रकाशकत्वमिति द्वैरूप्यं संविदैक- रूप्येऽपि । आश्रयाश्रयिभावोऽपि स्वभावादेव तैजसमणिप्रमयोरिव । एवं द्रव्यत्वे गुणत्वव्यवहारस्तु गुणानामिव नित्यतदाश्रयत्वादिना । एवं ज्ञातृत्वसाधनप्रसङ्गात् ज्ञानस्वरूपमपि निरूपितम् । २४४ नयधुमणिः न च ‘न किंचिदहमवेदिषम्’ इति ज्ञानाभावपरामर्शः; तस्यापि विषयनिष्ठत्वाभावपरत्वात्; अन्यथा अभावप्रत्यवमर्शानुपपत्तेः । अभावोऽपि अनुभूत एव प्रत्यवमर्शयोग्यः । न चात्मनः सर्वगतत्वमपि ; देहदेश एव सर्वसुखाद्युपलब्ध्यनापत्तेः । न च देह एव मनःस्थितेस्तत्प्रत्यक्ष सुखादेर्नान्यत्रोपलब्धिरिति ; मनसोऽणुत्वादन्यत्र गमनोपपत्तेः । सुखदिहेत्वदृष्टं त्वात्ममात्र समवेतम् ; न तु देहावच्छिन्नांश इति । तत्तद्देहावच्छिन्नांशे मनसो देहस्थिति- नियमनेऽपि मुक्तात्ममनसां तत्र तत्र सुस्थत्वाद्देहान्तरेष्वपि मनः सौलभ्या- ददृष्टवदात्ममनः संयोगाविशेषाच्च सर्वत्र सर्वेषामेकरूपसुखाद्यापत्तिः । न च तेषां संयोगेऽपि स्वादृष्टमूलपरिस्पन्दावान्तराधीनत्वात् देहान्तराणां च स्वादृष्ट- मूलत्वाभावात् तन्मनस च तदायत्तत्वात् न सर्वत्र तदुपलब्धिः, न च सुखाचैकरूप्यं चेति - अदृष्टस्य स्वत्वास्वत्वनियामकप्रमाणाभावात् i न च करणोपार्जितस्य स्वत्वम्; करणस्वत्वेऽपि नियामकाभावात् । न च बीजाङ्कुरवदन्योन्यस्वत्वापादकत्वेन कार्यकारणभावादविरोधः — अदृष्टादेः प्रमाणान्तरसाध्यत्वात् । स्वतः सिद्धकारणभाव एव हि बांजाकुरन्यायावतारः । न च सर्वगतत्वपक्षेऽस्मत्पक्ष इव न तस्य कस्यचिदेव कारणादेः सबन्ध इति सर्वस्य संबन्धाविशेषे तेन स्वत्वानियतिः । अस्मत्पक्षे स्वणुत्वेनादृ- ष्टवतो न सर्वत्र संबन्ध इत्यदृष्टेश्वरदत्तकरणादेः स्वत्वम् । अथ सर्वगतत्वपक्षेऽपि सर्वेषां सुखादिसाम्यदर्शनात् कारणाकारण- व्यवस्था कल्प्येति—न ; कार्यात् कारणकल्पनायां सर्वत्र सुखादिकार्यकल्पनानु- पलब्धेः कचिदेव तदुपलब्धेश्च तस्यासर्वगतत्वस्यैव कल्पत्वात् । न च देशान्तरे सुखादिकार्यदर्शनात् तत्रापि तत्सत्ता ; तत्र गमनादपि तदुपपत्तेः । तत्र गमने च तत्सिद्धिरिति गमनसिद्धिः । न चात्मनोऽपि गमनकल्पनागौरवम् ; ‘अत्र स्थितोऽहं तत्र गत्वा मोक्ष्यामि’ इत्यहमर्थगमनस्यात्म- साक्षिकत्वात् । न च सा देहगमने भेदाग्रहाद्भान्तिः; अबाधात् । सर्वगतत्वेऽहमर्थस्य सर्वत्र स्फुरणापत्तिः । " तेन प्रद्योतेनैष आत्मा निष्कामति" “चन्द्रमसमेव ते सर्वे गच्छन्ति” इत्यादिना च गमनादेव भोगश्च श्रूयते । ; १२. प्रमेयनिरूपणम् २४५ न च गतिश्रुतिः लिङ्गदेहगतिपरा ; आत्मशब्दविरोधात् । न च स देहपरः; तस्याप्रकृतत्वेन “एष आत्मा” इति परामर्शायोग्यत्वात् । मुख्यार्थ संभवे च न लक्षणा । न च " महानज आत्मा" इत्यादिना तस्य सर्वगतत्व- प्रतीतेः गमनानुपपत्तौ न लक्षणा दोष इति; तस्या श्रुतेः परमात्मपरत्वात् । तच्च भाष्यादिसिद्धम् । न च देशान्तरेऽदृष्टनिमित्तभोग्यवृद्धयादिदर्शनात् तत्रादृष्टवदात्मसत्तति निमित्तस्योपादानकारणतत्संबन्ध नियत्यभावात् पशु- कामेष्टयादिना भाव्यदृष्टसंबन्धनिमित्तस्य पूर्वमेव सिद्धपश्वादेर्भोग्यत्वदर्शनात् । न च पश्वादिसंबन्धार्थैव तदिष्टिः; संबन्धमात्रस्यापुरुषार्थत्वात् । शरीरादिना हन्यमानपुरुषसंबन्धेऽपि तस्य निमित्तत्वाच । अनिमित्तत्वे च दोषाद्यभावः । तर्हीश्वरद्वारा आरब्ध भोग्यसंवन्धः । न चात्मेश्वरयोरमूर्तयोः कथं संबन्धोपपत्तिरिति ; अमूर्ततद्गुणसामान्ययोरिव तदुपपत्तेः । द्रव्ययोरवयवावयविनोरिव संबन्ध उपपन्नः । न चावयवावयविनोर्मूर्तत्वात् तदुपपत्तिः; अद्रव्ययोरमूर्तत्वे सर्वगतत्वान्न संबन्धोपपत्तिरिति — आत्मतत्सा- मान्ययोः सर्वगतयोरसंबन्धप्रसङ्गात् ; अमूर्तस्य सर्वगतत्वाभावाच्च । न वा सर्वगतब्रह्मपरिणामत्वं मूर्तत्वम्, तद्रहितत्वममूर्तत्वमिति लक्षणात् तद्भाव इति ६ तयोस्तस्य लक्षणत्वे प्रमाणाभावात् । आत्मनोऽणुत्वेन तल्लक्षणमव्याप्तं च । तस्याणुत्वेनामूर्तत्वं श्राव्यते श्रुतिषु । तयोर्लक्षणं तु मूर्तिमत्त्वं मूर्तत्वम् ; तद्रहितत्वम- मूर्तत्वमिति व्यापि । एवंचामूर्ततया प्रसिद्धाकाशादौ गुणादैा च तल्लक्षणसत्ता । एवंममूर्तत्वेऽपि स्वसंबन्धोपपत्तिरात्मन इति तददृष्टनिमित्तदूरस्थभाग्यपदार्थ- निर्वृत्ति: ? परस्य जीवधिया संयोगश्च दारुवह्निवदन्तर्बहिर्निरन्तरतया व्यापनरूपः । अत एव “व्याप्य नारायणः स्थितः” इति श्रुतिः । अणुद्र- व्यान्तर्व्याप्तिश्च तस्य अतिसौक्ष्म्यादुपपन्ना । अत एव हि तस्य “अणो- रणीयान्” इति व्याप्तिसौकर्यात् श्रुतिः । अन्तर्व्याप्तौ हि व्यापकस्य सौक्ष्म्यमे- वापेक्षितम् । व्याप्यस्वं च धार्यत्वनियाम्यत्वशेषत्वपर्यवसितम् परस्य सर्वात्मत्व श्रवणात् । तदितरस्य तच्छरीरस्वश्रवणाच्च तत्सिद्धिः । धार्यत्वा- देर्धारकत्वादेरेव हि शरीरत्वमात्मत्वं च । न च निरन्तरतया व्याप्तौ न वस्त्वन्तरत्वम् ; प्रमाणाद्वस्त्वन्तरसिद्धेः । ननु जीवस्य सर्वगतज्ञाने ग्राह्यत्वमिष्टम् । सर्वगतस्य परमात्मनः तत् कथम् ? संयोगानुपपत्तेरिति । मत्रैम् । तज्ज्ञानस्य संकोच विकासाईत्वेन प्रतिसंबन्धिपरमात्मदेशभेदापेक्षया पृथक स्थित्यर्हतास्ति । यया पक्षान्तरे २४६ नयद्यमणि: घटादेराकाशस्य च । तथाच संयोगात् तद्ग्रहणोपपत्तिः । नित्यमुक्त- ज्ञानानामपि तदर्हत्वाविशेषात् तदविशेषः । अपृथक स्थितावाश्रयाश्रयिभावो द्रव्ययोर्वा द्रव्यगुणयोर्वा । पृथक स्थित्यईयोस्तु द्रव्ययोः संयोग एव संबन्धः । गुणादेस्तु न द्रव्यात् पृथक् स्थित्यर्हतेत्याश्रयाश्रयिभाव एव । 1 सर्वगतत्वं च न सर्वमूर्तद्रव्यसंबन्धित्वम् ; किंतु स्वेतरसमस्तद्रव्यसं- बन्धित्वम् । तच्च व्याप्यतया व्यापकतया वा । व्याप्यतया प्रधानादेर्जीवज्ञान- संबन्धः । तथा जीवतज्ज्ञानानां प्रधानादेश्च परमात्मज्ञानाभ्याम् | व्याप्यत्वं च देशतः कालतो वा न्यूनत्वम् । व्यापकत्वं च ततोऽधिकत्वम् । अणोर्जीवस्य न्यूनत्वं देशतः संकोचाद्यर्हस्वतः; ज्ञानप्रधानादेर्देशकालाभ्यां न्यूनत्वम् । आधिक्यं तु परमात्मतज्ज्ञानयोरेव ताभ्याम् । ज्ञानविशिष्टपरमात्मनः सर्वव्याप्तौ तज्ज्ञानस्यापि निरुपाधिकतया सर्वगतत्वाद्यापकता च सिद्धा । परमात्मतज्ज्ञानयोस्तु सर्वगतयोरपि सर्वदा अपृथक स्थितत्वादाश्रयाश्रयिभाव एव संबन्धः । स्फूर्ती तु स्वप्रकाशत्वात् स्वत एवेति न प्रमाणान्तरापेक्षा तस्य । एतदात्मज्ञनयोरविशिष्टम् । पदार्थान्तरप्रकाशस्तु स्वधर्मभूतज्ञानात् । आश्रयप्रकाशस्तु स्वनिष्ठ एव । स्वभावतः संविवेपि ज्ञानस्य प्रकाशः स्वतः, न तु स्वस्मै । किंतु स्वसत्तया स्वाश्रयायैव स्वभावतः । “आत्मनो न स्वसत्तायाः प्रमाणग्राह्यत्वापेक्षा ; अहंप्रत्ययादेव सिद्धत्वात् । अणुत्वादिधर्मज्ञानेषु तु तदपेक्षा । अन्यात्मसु धर्मिष्वपि ; तेषां पराहंप्रत्यया- गृह्यमाणत्वात् । धर्मभूतज्ञानं विज्ञानत्वेऽपि स्वसत्तया स्वाश्रयाय प्रकाशमानं ‘दृश्यते । तेषां ननु कथं स्वस्मै स्वयमिति आत्मतज्ज्ञानयोः संवित्त्वाविशेषेऽप्येतद्वैषम्यम् ? 2 आत्मना ज्ञानाश्रयत्वेन प्रधानत्वात्; ज्ञानस्य तदाश्रितत्वेनात्मार्थत्वात् । तयोर्विशेषः प्रत्यक्षसिद्ध श्वेत्युक्तम् । जीवज्ञानानां परस्परसंबन्धे समब्याप्तिकत्वाद्याप्यव्यापकभाव आपेक्षिको द्रष्टव्यः, यथा श्यामत्वश | काद्याहार- परिणत्योः । जीवतज्ज्ञानयोस्त्वाश्रयाश्रयिभावः संबन्धः; तयोरपृथक्स्थितत्वात् । एवं प्रभातदाश्रयादिष्वपि द्रष्टव्यम् । एवं प्रासङ्गिकमपि प्रकृतोपयोगीय- निरूपणम् ।
- अमूर्त प्रधानादिसंबन्धनिर्वाहार्थं तार्किकोत्तरीतित्यागेनान्यथा निर्वक्ति— सर्वेति ।
- समाधत्ते - आत्मन इति । मिवेति न ; १२. प्रमेयनिरूपणम् २४७ नन्वात्मनोऽणुत्वे तस्य तद्गुणानां चाप्रत्यक्षत्वं पार्थिवपरमाणुगुणाना- –न; पार्थिवाणुतद्गुणानामीश्वरादिप्रत्यक्षत्वात् । न च आत्मनोऽस्म- दाद्यप्रत्यक्षता; पार्थिवाण्त्रादिष्ययोग्यत्वस्यावधृतत्वादिति – बाह्यार्थस्य चक्षुरादि- विषयस्यैवास्मदादिप्रत्यक्षत्वात् पार्थिवाणुतद्गुणानां च तदनईत्वेना- प्रत्यक्षत्वात् । आत्मनस्त्वणुत्वेन चक्षुराद्यविषयत्वेऽपि संविद्रूपत्वेन स्वयं- प्रकाशत्वात् प्रत्यक्षत्वोपपत्तिः । अत एव ह्यात्मनोऽहमित्यनन्यापेक्षः प्रकाशः । धर्मभूतज्ञानस्यापि ज्ञानत्वेनात्मानं प्रति स्वप्रकाशता । “स्वयंज्योतिः पुरुषः " इत्यादिश्रुतिश्चापि । अत एवात्र पार्थिवाद्यणुसाम्यापादनमनुपपन्नम् । ज्ञानमपि द्रव्यमेवेत्युक्तम् । सुखदुःखान्यपि तद्भेदा एवेत्युक्तम् । इच्छाद्वेषा अपि मनोऽवस्थाविशेषा एत्र ; नात्मगुणाः । धर्माधर्मौ नात्मगुणा इति वक्ष्यते । अतोऽणुस्वरूप एवात्मा |
ननु " देहेन्द्रियमनः प्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ||” इति यामुनाचार्यैस्तस्य सर्वगतत्वमभि- मतम् । श्रीगीताभाष्ये भाष्यकारैरपि “नित्यः सर्वगतः स्थाणुः” इत्यादौ तस्य सर्वगतत्वमेवेत्युक्तम् । क्षेत्रज्ञाध्याये च “अणुखं चास्य कर्मकृतम्” इति वदद्भिरणुत्त्रमस्वाभाविकमित्युक्तम् । अतो जीवाणुत्वमस्वभावत इति – तन्न, “ज्ञोऽत एव” इत्यत्राणुरेवात्मेत्युक्तत्वात् । व्यापीति यामुनाचार्योंति- स्त्त्रचेतनान्तःप्रवेशयेोग्यत्वपरा । अत एव हि प्रथमसूत्रे प्रथमसूत्रे श्लोकस्थं व्यापीति पदमतिसूक्ष्मतया सर्वाचेतनान्तः प्रवेशनस्वभाव इति व्याख्यातम् ; न तु युगपत् सर्वद्रव्यसंबन्धित्वमिति व्याख्यातम् । न चाचेतनान्तःप्रवोशाई- त्वमात्रात् सर्वगतत्वसिद्धिः ; बहिः संबन्धित्वाभावात् । सर्वांचेतनान्तः- प्रवेशेऽपि न गतिभङ्ग इति तात्पर्यार्थः । स च चेतनान्तःप्रवेशेऽपि क्रमेण विद्यत एव । एवमेव “नित्यः सर्वगतः” इत्यादौ सर्वगतशब्दार्थः । " अणुत्वं चास्य” इत्याद्युक्तिरपि धर्मभू ज्ञानस्यान्यत्र कर्मणा संकोचाभिधानात् तद्द्द्वारा कर्मणा परिच्छिन्नत्वप्रतिपादनपरा । न च स्वरूपवैभवोक्तिर्भाष्यादौ ; नापि कर्मणा स्वरूपसंकोचोक्तिश्च । “अनादि मत्परं ब्रह्म” इति ब्रह्मशब्दव्या- ख्यानावसर एव हि “अणुत्वं चास्य” इत्याद्युक्तिः । बृहत्त्वं चास्य ज्ञानादेरेवेति भाष्ये बहुश उक्तम् । अन्यथा ब्रह्मशब्दार्थे परस्माद्वैषम्यं नास्य । ब्रह्मशब्दमुख्यार्थत्वं च परमात्मन एवेति चोक्तम् । " स चानन्त्याय" इति न स्वरूपानन्त्यमुच्यते ; किंतु तज्ज्ञानद्वारैवेत्युक्तम् । तच्छ्रुतिरेव हि “अणुत्वं चास्य कर्मकृतम्” २४८ नयद्यमणिः इत्युक्त्वा अनन्तरमुदाहृता । अतोऽणुत्वं चेति धर्मभूतज्ञानसंबन्धित्वश्रुतेरल्प- परिमाणत्वप्रतिपादनपरम् । अन्यथा स्वरूपसङ्कोचाई विकासार्हत्वेन जीवस्य धर्म्यन्यथाभावलक्षणकार्यत्वं स्यात् । तथाच नित्यत्वश्रुतिविरोधः स्वोक्तिविरोधश्च । एवं ज्ञातृत्वसाधनादपहतपाप्मत्वादयोऽपि सिद्धाः । तथा कर्तृत्वमपि, जीवसंबम्धित्वश्रुतेः । “कर्ता विज्ञानात्मा” इति श्रुतिः । कर्तृत्वं च प्राण- देहाद्यधिष्ठानसामर्थ्यमेव । तच्च मुक्तावस्थायामप्यस्तीति तस्य स्वरूपानु- बन्धित्वम् । तच्च भाष्ये श्रीगीताभाष्ये च स्पष्टम् । तस्य ज्ञप्तिमात्रस्वरूप- त्वपरवाक्यं चान्यार्थतया नीतम् । न च भास्कराभिमतं ब्रह्मांशत्वम् । उपाधिसंन्धिब्रह्मप्रदेश एव हि जीवोऽङ्गीकृतः । ब्रह्मणोऽपरिच्छद्यत्वेनोपाधिगमने मुक्तत्वापातः । प्रथमोपाधितो यदि ब्रह्मणश्छिन्नत्वाङ्गीकारेण जीवत्वाङ्गीकारः, तर्हि विकारास्पदता ब्रह्मणः । जीवस्यादिमत्ता च । ततश्च ब्रह्मनिर्विकारत्वानादित्वश्रुतिविरोधात् स्वरूपोच्छेद इति मोक्षस्यापुरुषार्थतेत्यादि द्रष्टव्यम् । एतेन जीवाज्ञानवाद- स्वाभाविकभेदाभेदवादावपि निरस्तौ । न च जीवाज्ञानवादिपक्षे उपपत्तिः ; भास्करपक्षोक्तदोषादेव । अन्तःकरणगमनादौ प्रतिबिम्बानवस्थितेर्बन्ध मोक्षयोरनवस्थितता हि समा । प्रतिबिम्बत्वे च प्रतिबिम्बस्य विम्वाद्यनुकारित्वेन बिम्बाव्यतिरेकाद्ब्रह्मण एव परिच्छिन्नत्वादिदोषापत्तिः । ततश्च प्रतिविम्बस्य जीवत्वोक्तिर्व्यर्था । बिम्बस्य च तथात्वं स्यात् । ततश्च स्वराद्धान्तहानिः । विम्बस्याप्यवास्तवत्वे स्वरूपोच्छि- त्यादिदोषः । प्रतिबिम्बितत्वं च ब्रह्मणोऽनुपपन्नम् ; अरूपिद्रव्यत्वाद्ब्रह्मणः । रूपवतः प्रतिबिम्बितता दृश्यते लोके । अन्यत् भाष्यादौ द्रष्टव्यम् । अतोऽस्मदुक्तप्रकार एव जीव इति सिद्धम् । स चासंख्येयः; प्रत्यक्षादितस्तथात्वप्रतीतेः । ते च त्रिविधाः – बद्धा मुक्ता नित्याश्चेति ।
- मुक्तेति । “स एकधा भवति त्रिधा भवति” इत्यादिश्रुतिबलादिति भावः । 2. स्वाभाविकेति । वादेऽयं यादवप्रकाशस्य । १२. प्रमेयनिरूपणम् २४९ कर्मनिमित्तदेह संबन्ध संकुचितज्ञानाः जाग्रदाद्यवस्थावन्तो बद्धाः 1 ननु 1 पुण्यापुण्ययोः शास्त्रविहितनिषिद्धकर्मसाध्यत्वात् न कर्मणामेव पुण्या- न ; यागादिकर्तरि हिंसादिकर्तरि च ‘पुण्यं चरर्ति, पापं चरति’ इति प्रसिद्धेः कर्मणामेव पुण्यादित्वात् । पुण्यपापे एव धर्माधर्मौ ।
ननु कर्मणामेव पुण्यापुण्यत्वे क्षणध्वंसित्वेन तयोर्न कालान्तरफल- साधनत्वमिति - तन्न; भगवत्प्रसादाप्रसादद्वारा तेषां तत्साधनत्वोपपत्तौ जीवात्म- गततया धर्माधर्मजन्यपुण्यपापकल्पनस्यायुक्तत्वात् । ननु " पुण्यपापे विधूय" इत्यादौ विधूननोक्तेस्तदुपपत्तये तदतिरिक्तो धर्माद्यर्योऽङ्गीकार्य इति - सत्यम् ; तथापि लोकप्रसिद्ध्यनुसारात् कर्मणामेव पुण्यादित्वम् | “पुण्यपापे विधूय” इत्यादौ पुण्यादिशब्दस्तु तञ्जन्यार्थपरः । तदर्थयोश्च भगवत्प्रीत्यप्रीत्योः परमात्मगतत्वेऽपि तत्फलसंबन्धित्वेन जीवानां तद्विधूननोक्तिरप्युपपन्ना । " तृप्त एवैनमिन्द्रः प्रजया" इति " तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्" इत्यादौ च सर्वत्र फलदाता परमात्मैवैत्युक्तम् । अन्यत्र यागाद्यनन्तरमेव प्रीत्यादिजननेऽपि तत्फलानां विरुद्धानां युगपदनुभवानुपपत्तौ क्रमेणानुभवसंपत्तये कचित् प्राबल्यमुपेयमेव । “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति” इति श्रूयते च । ननु सांख्यपक्षनिरासाधिकरणे “ततश्च पुण्यरूपकर्मकारिणं स्वशा- सनानुवर्तिनं ज्ञात्वा धर्मर्थकाममोक्षैर्वर्धयते ; शासनातिवर्तिनं च तद्विपर्ययैर्यो- जयति” इत्यादिभाष्ये धर्माधर्मयोः भगवत्प्रीतिफलत्वमुक्तमिति - तन्न ; उत्तरोत्तरपुण्यपापयोः पूर्व पूर्व पुण्यपापनिमित्तत्वात् कृतपूर्वपूर्वपुण्पादीन् पुंस उत्तरोतर पुण्यादिभिर्येजयतीत्येवं परत्वात् । " तदधिगम उत्तरपूर्वाघयोः" इत्यत्र हि “अघानि कृतानि पुरुषस्य वैदिककर्मायोग्यतां सजातीयकर्मान्तरारम्भरुचि प्रत्यवायं च कुर्वन्ति” इत्यादि भाष्यम् । " ततः परिवृत्तौ कर्मफलशेषेण जाति रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानम्" इत्यादिप्रमाणानि च । अतो धर्मं प्रति प्रीतो धर्मान्तरं कारयतीत्येवंपरं तद्भाष्यम् ।
- पुण्येति । विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽधर्मः । ते पुण्ययापे आत्मसमवेते इति तार्किकमीमांसकादयः । बुद्धिगते इति सांख्यादयः । देवताप्रीतिं स्वीकुर्वन्तोऽपीममंशं न त्यजन्ति । सिद्धान्ते तु आत्मादिगतमदृष्टं नैवेष्यते । पुण्यापुण्यपदार्थस्तु मीमांसकमत इव कर्मैव । तस्य तदैव विनाशित्वेऽपि भगवत्प्रीत्यादिकं द्वारभूतमिति ध्येयम् । 32 २५० ननु " प्रकृतिश्च" इत्यत्र कर्मणा सह जीवस्थितिप्रतीतेः धर्मादिरङ्गीकार्य इति –तन्न ; नयद्यमणिः “सकर्मसंस्कारम् !’ इति भाष्यात् प्रलयकालेऽपि क्रियायास्तु नष्टत्वेन तदुपपत्तये तन्नन्यो तत्र कर्मशब्दस्य कर्मजन्य भगवत्प्रीत्याख्य- शक्तिपरत्वात् । अत एव हि “उत्तरपूर्वाघयोः” इत्यत्र " अघस्य विनाशकरण मुत्प- न्नायास्तच्छक्तेर्विनाशकरणम । शक्तिरपि परमपुरुषाप्रीतीरेव" इत्यादि भाष्यम् । प्रीत्यादेश्च यावत्फलप्राप्ति स्थिरत्वात् “सकर्म संस्कारं तिष्ठति” इत्याद्युपपन्नम् । संस्कारस्थायित्वे तु वैदिकानां न विप्रतिपत्तिः । तथा प्राकृतदेह संबन्धस्य कर्मनिमित्तत्वेऽपि । ; मरणोत्तरकालीना स्वर्गनरकगमनावस्था, स्वर्गादिभोगावस्था, तत आवृत्त्यवस्था, गर्भावस्था, जननावस्था चेत्येताः प्रायेण जाग्रदवथान्तर्गताः; तासां तदवस्थालक्षणसद्भावात् । स्वर्गनरकगमने मार्गे कर्मभोगो ऽस्त्येव तत्र सुखदुःखयोः स्मरणात् । स्वर्गनरकभोगे तु न तद्भोगविप्रतिपत्तिः । तत आवृत्तौ योनिप्राप्तेः प्राक् न तद्भोगः ; सुखादेरश्रवणादस्मरणाच्च । प्रयाणानन्तरकालं विज्ञानभ्रंशश्च स्मर्यते । ननु स्वर्गादावृत्तावाकाशादिप्राप्तौ जन्मादिवचनाभावात् यद्यपि न कर्मभोग, तथापि व्रीह्यादिप्राप्तौ ‘जायते’ इति श्रवणात् स्त्रीयोनिप्राप्तेः प्रागपि कर्मभोग इति – तन्न
- तन्न ; " यावत्संपातमुषित्वा" इत्यादिना प्रारब्धपुण्यकर्मणो भुक्ततया " रमणीयचरणाः कपूयचरणाः" इत्यादिना योनिप्राप्त्युत्तरकालमेव कर्मभोगप्रतीतेस्तत्र जन्मश्रुतेरौपचारिकत्वात् । न हि मध्ये भोग्यकर्मसंभवः । अथ स्थावरशरीरस्य कर्मनिमित्तत्वान्मध्येऽपि तद्भोगसंभव इति— सत्यम् ; तथापि पञ्चमाहुत्यपेक्षया शरीरोत्पत्तेस्तत्र प्रकृतत्वेन व्रीह्यादि- जनने तदाहुत्यपेक्षाभावात् तज्जन्मपरत्वानुपपत्तिः । कामं नरकादिनिवृत्तौ तद्भोगशिष्टपावसंभवात् पुण्यानुभवे तदनन्तरपापानुभव इति च जायन्त इति श्रुतिस्तत्परैव । ननु हिंसा निषेधालम्भविध्योः सामान्यविशेषरूपत्वाभावेनालम्भस्य हिंसा- आलम्भस्य ऋत्वर्थत्वादनेकविषयत्वात् । एकविषयत्वे हि साधकत्वम् ; विरोधो बाध्यबाधकता च । न चालम्भस्य विधितः प्रवृत्तेर्न रागप्रवृत्तहिंसा निवेधविषयत्वमिति आलम्भेऽपि फलरागप्रवृत्त्यविशेषात् । न च यागाख्यकरणविषयत्वात् तथेति ; ; १२. प्रमेयनिरूपणम् २५१ च. यागाख्यकरणस्यापि विध्यर्थत्वाविशेषाद्विधितः प्रवृत्त्यापातात् । न कामे फलकरणीभूतस्य यागादेर्विधिविषयत्व करणत्वयोः प्रवृत्ते रौत्कय्यात् प्राथम्याच्च यागादा रागात् प्रवृत्तिः ; अफलार्थाङ्गानां त्वपूर्वमात्रार्थतेति विधित एव प्रवृत्तिरिति ; करणस्यापि विध्यर्थत्वात् । अथ फलकरणत्वधी प्राथम्याद्रागात्तत्र प्रवृत्तिः, तर्हि परमसाध्यफल- करणेतिकर्तव्यताधी प्राथम्यादङ्गेष्वपि रागतः प्रवृत्तिरिति न तद्वैषम्यम् । यागादेः साध्यत्वं त्विष्टसाधनतयैवेत्युक्तं वाक्यार्थप्रदीपे ; साधनत्वकरणत्वयोर्न भेद इति च । यद्यपि फलार्थता करणस्य विध्यर्थतैवाङ्गानाम्, तथापि न विधितः प्रवृत्तिः । अङ्गानां फलार्थत्वाभावेऽपि फलोपकारत्वाङ्गीकारात् तद्रागात् प्रवृत्तिसंभवः । त्रिकालाप्राप्तौ हि विधौ गौरवम् । उपकारकाधानादेरन्यतः प्रवृत्तिरङ्गीकृता । किंच यागस्य द्रव्यदेवतारूपत्वात् तस्मित् रागतः प्रवृत्तौ तदन्तर्गते व्यवधानात् तत एत्र प्रवृत्तिरित्यालम्भस्यापि न पृथक् प्रयोजनापेक्षा । अथ फलं प्रति करणापेक्षायां यागानां व्यवधानान्न रागतः प्रवृत्तिरिति ; तर्हि फलं प्रत्यपूर्वापेक्षया करणस्यापि व्यवधानान्न रागतः प्रवृत्तिः । करणे वा तदितिकर्तव्यतायां वा फलरागादेव प्रवृत्तिः; अन्यथा दुःखरूपप्रवृत्त्यनुपपत्तेः । लोके च साधनसाधनेष्वपि फलरागादेव प्रवृत्तिर्दृश्यते । नित्यकर्मणामपि अपरिमितफलत्व श्रवणात् तत एव च प्रवृत्तिः । फलश्रवणं च निर्वर्त्य सर्वकर्मोद्देशेनेति सर्वनित्यकर्म संबन्धि । न च सर्वेषां काम्यत्वे न नित्यकाम्यवैषम्यम् i अकरणे प्रत्यवायतदभावाभ्यां तद्वैषम्यसिद्धेः । “वीरहा वा एषः” इत्यादिना निव्याकरणे प्रत्यवायश्च श्रूयते । शृङ्गग्राहिकया तदश्रवणे तु— “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥” इत्यादौ सामान्यतः श्रूयते प्रत्यवायसंबन्धः । काम्याकरणे तदसिद्धिरेव ; न प्रत्यवायः । २५२ नयधुमणिः अतः सर्वत्र रागादेव प्रवृत्तेरग्नीषोमीयालम्भस्य निषिद्धाभिचारात्मकश्ये- नात् न वैषम्यमिति व्रीह्यादिजनन हेतुपापसंभव इति । तन्न ; अग्नीषोमीयालम्भस्य श्येनादिवत् परपीडेकप्रयेोजनत्वाभावात् । तदेकप्रयोजनव्यापारे हि हिंसाशब्दप्रयोगः । तत्प्रतीतिश्च लोके । न तु सुखप्रवृत्तिप्रयोजनव्यापारेऽल्पदुःखहेतावपि । न हि शल्योद्धर्तुस्तादात्विक- दुःखहेतुत्वप्रसिद्धिः ; प्रत्युत शल्योद्धरणात् पश्चाद्भाविसुखहेतौ रक्षकत्व - प्रसिद्धिरेव । एवमत्रापि बहुक्केशाश्रयपशुदेहविश्लेषपूर्वक बहु सुखाश्रय देहार्थत्वात् संज्ञपनादिक्रियाया न हिंसात्वम् । देहादिप्राप्तिश्च “हिरण्यशरीर ऊर्ध्वं स्वगं लोकमेति” इत्यादिना । आर्थवादिकत्वेऽपि फलमिष्टम् “एनं ब्रह्मवर्चसेन पुनाति " इत्यादी । तत्र कर्तृविशेषणपुत्रजनननिमित्तस्य सद्भावेऽपि प्रवृत्तिशैघ्रधाय पुत्रगतपूतत्वादिस्वीकारवदत्रापि पशोः संज्ञपनप्रवृत्तिविघातक हिंसात्वभ्रा- न्तिनिवर्तनेनोत्तमदेहादिप्राप्तिफलांशाकारश्च युक्तः । न च पीडैकप्रयोजनाभिचारनिषेधवत् शृङ्गग्राहिकयाग्नीषोमीयोपालम्भ- निषेधोऽपि ; येन प्रत्यवायफलकल्पना | अहिंसात्वादेव " न हिंस्यात्” इत्यस्य न तत्र प्रवृत्तिरित्युक्तम् । अत एव हि “न वा उ एतन्त्रिय से” इति मन्त्रे हिंसाफलमरणसद्भावेपि हिंसामरणाभावोक्तिपूर्वकं देवत्वादिप्राप्तिवचनम् । देहविश्लेषणेऽपि न हिंसा ; किंतु सुष्ठुगम्यमार्गेर्देवयानेव प्राप्नोषीत्यादि हि तस्यार्थः । यागस्यान्यार्थत्वेऽपि मन्त्रार्थवादप्रामाण्यात् पशोः स्वर्गादिफलसाधनत्वमपि ; यथा “किमत्राभद्रं तनो सह" इत्यादो प्रतीयमानफलमध्वर्योरपि । यथा च नैमित्तिक- पुरुषार्थवैश्वानरेष्टयां पूतत्वादेः पुत्रगतस्यापि फलस्य । अतः समविध्युद्देश- वाक्ये पशोः फलाश्रवणेऽपि मन्त्रार्थवादसहितस्यैव वेदस्य प्रामाण्यम् । अनुपपत्य- भावे अपेक्षया मन्त्राद्यर्थस्वीकारो युक्तः । अतः श्येनाग्नीषोमीययागयोर्वैषम्यं सिद्धम् । प्राभाकराभिमतश्येनाग्नीषोमी- यवैषम्यं च चोद्यव्याजेन निरस्तम् । सर्वत्र प्रवृत्ती रागत एवेति चोक्तम् । शास्त्रकृत्यं त्विष्ठसाधनावबोधित्वमेव । लोके तु प्रमाणान्तरात् तदवबोधः । तत्रापि प्रवृत्तिः रागादेव । एतत्सर्वं तृतीयाध्यायाद्यपादाधिकरणभाष्य उक्तम् । अतो मनुष्यादिजनने जीवान्तराधिष्ठितव्रीह्यादि संश्लेषमात्रमेव योनिप्रवेशोत्तरकालं तु कर्मानुभवो विद्यत एव । तत्र क्केशादिस्मरणात 1१२. प्रमाणनिरूपणम् २५३ तत्र पूर्वानुगतसुखादिविषयज्ञानमप्यस्त्येव । तथा जनने नरकेऽपि ; तथा स्मरणात् । एताश्च जाग्रदवस्था एवेति सन्धिपादाय उक्तम् । } बाह्येन्द्रियाणां प्रवृत्युपरतिः स्वप्नावस्था । मनसस्तु पूर्वाभ्यासात् प्रवृत्तिरस्त्येव । कथम् ? स्मरणात् । देहेन्द्रियाणां तु पूर्वदेहेन्द्रियसमान- जातीयानां भगवता सृष्टिरेव । तदवस्थामात्रस्थायितया तत्सृष्टानां तदवस्थामा- त्रस्थानुभान्यकर्मनिमित्तानां तैरेवानुभवः । न तु मिथ्यात्वम् ; तदर्थसृष्टि- शास्त्रात् । न हि मिध्यानां सृष्टचुपपत्तिः । न चात्र “सृजते " इति शब्दस्य दर्शनपरता अव्युत्पत्तेः ; सृष्टिदर्शनयोः परमात्म- जीवकर्तृकत्वेन भिन्नत्वाच्च । " तस्मिन् लोकाः श्रिताः” इत्यादिना परमात्मैव तत्त्रष्टेति श्रुतिः । न हि जीवस्य सर्वलोकाधारत्वम् । सृष्टिदर्शन- योरेकार्थत्वे जीवकर्तृकत्वे च स्वशिरश्छेदाद्यनर्थदर्शनं न स्यात् । अथ जीयस्यावशप्रवृत्तस्य दर्शनरूपा सृष्टिः ; प्रमाणाभावात् । “अथ स्वमे” इत्यादौ “पश्यति" इति शुभाशुभनिमित्तद्रष्टृत्वेन जीवः श्रुतः । “पुष्करिण्यः सृजते " इत्यादौ हि परमात्मा श्रुत इति तद्भेदः स्फुटः । सृष्टपदार्थानां च तदवस्था- स्वाभाव्यादस्थायित्वं कल्प्यत इति पश्चाददर्शनमदोषः । तदवस्थायामनु- भवस्तु स्वप्रत्यक्षसिद्धः । न च तस्यानुभूतित्वान्न जाग्रदवस्थावैषम्यम् ; विषयास्थायित्वादि- भिर्वैषम्यात् । न च पूर्वदेहेन्द्रियैस्तदर्थानुभवः; नियतशयनादिदेशे स्थितत्वेन गमनाद्यदर्शनात् । गमनादयो हि तदवस्थायां दृश्यन्ते । न च मनोमात्रसाध्यता ; केबलस्य तस्य तदनुभवानां रूपादिज्ञानानां गमनादि- कर्मणां चासाधनत्वात् । न च केवलस्य तत्साधनत्वम्; तत्प्रतीतिविरोधादेव संसारदशायामिन्द्रियद्वारैव रूपाद्यर्थावच्छेदकत्वस्वभाषात् । ६ न च देहान्तरादेर्न सृष्टौ प्रमाणमिति ; “कृष्णदन्तं पश्यति” इत्यादि- · श्रुत्यनुपपश्यैव कल्प्यमानत्वात् । कृष्णदन्तदर्शनादिहिं चक्षुरिन्द्रियसाध्यः । न च पूर्वदेहस्यानुभवपदार्थानुपपत्तिः; तेद्देहानामपि पूर्वदेहदेशसमीप एव सृज्यमानत्वात् । न च देहात् समनस्कात्मनो भोगार्थं बहिर्निष्क्रमणे प्राणादेरपि निष्क्रमणान्मरणं शक्यम् ; तदवस्थायां प्राणाद्यनिष्क्रमणेन परमात्मना देहस्य स्याप्यमानत्वात् । २५४ नयद्यमणिः न च संकुचितगृहादिदेशे विस्तृतदेशसृष्टयनुपपत्तिः; तद्योग्य- देशान्तरे सृज्यमानत्वस्य कल्प्यत्वात् । न चानेकार्थकल्पनागैौरवम् ; अनन्यथा सिद्धश्रुतार्थोपपत्तौ तत्कल्पनायामप्यविरोधात् । पुरुषदृश्यत्वम् ; तद्दृष्टयैवादृश्यस्वभावत्वकल्पनात् । न च सृष्टानां सर्व- मनसोऽप्युपरतिः सुषुप्तिः । " तमस्त्वज्ञानजम्” इत्यत्र निद्रायां मनस उपरतिः स्वप्ने च तदनुपरतिश्वोक्तां । सुषुप्तौ च नाड्यवच्छिन्नपुरीत- रिस्थतपरमात्मनि पुरुषस्य विश्रमः । तच्च भाष्ये स्पष्टम् | अर्धमरणं मूर्छा । सा च पदार्थदर्शनाभावात् न जाग्रत्स्वप्नावस्थान्तर्गता । मुखदिवैवर्ण्यात् न सुषुप्तिः । प्राणादिसद्भावान्न मरणम् । अतोऽवस्थान्तरमेव । सूक्ष्मदेहैः सह स्थूलदेहान्निष्क्रमणं मरणम् । प्रलयकाले परमात्मनि स्थितिरपि महासुषुप्तिरेव । किंतु सूक्ष्माचिन्मात्र संबन्धः परमात्मन्येव । न तु नाडी पुरितत् तत्र स्थितेति । तच्च स्वप्नाधिकरणभाष्य उक्तम् । एवं संसारिणां तापत्रयाभिभूतत्वान्न तद्वन्तो मुक्ताः । पूर्वोक्तसंसारनिरसनसांख्य साधनायत्तस्वरूपाविर्भावादिका मुक्ता: । तदनपेक्षनित्याविर्भावस्वभावादिका नित्याः । उभयविधाश्च तेऽनन्ता मताः; “य एनं विदुरमृतास्ते भवन्ति " “सदा पस्यन्ति” इत्यादेश्च बहुत्वप्रतीतेः । अतो मोक्षो न ब्रह्मतापत्तिः; मुक्तौ भेदापायानुपपत्तेः । अन्यवस्तु- नोऽन्यभावश्चानुपपन्नः । भेदश्च श्रुतः “तयोरन्य:” इत्यादौ । " ब्रह्म वेद ब्रह्मैव भवति” इत्यादस्तु सादृश्यादप्युपपत्तिः । “परमं साम्यमुपैति" इत्यादौ तदापत्तिः स्पष्टा । अपहतपाप्मत्वादिना जीवस्वरूपं च भगवत्स्वरूपसमानं श्रुतम् । साधनायत्तभवमोक्षाणामर्चिरादिमार्गादेव ब्रह्मप्राप्तिः । न च चतुर्मुखस्य प्राप्यत्वम् ; “ब्रह्म गमयति” इति श्रुतिविरोधात् । प्राप्तारश्च द्विविधाः — परमात्म विशेषण स्वोपासकाः, परमात्मोपासकाश्चेति । तच्च भाष्येऽतिस्पष्टम् । केवलात्मोपासकानां तु नार्चिरादिना ब्रह्मप्राप्तिः; तत्क्रतुन्यायेन स्वस्वरूपस्यैव प्राप्यत्वेन ब्रह्मप्राप्त्यभावात् । अर्चिरादिना ब्रह्मैव हि प्राप्यतया श्रुतम् । केवलचिदुपासकानां तु “केवलं वा चिद्वस्तु” इत्यादि- भाष्येऽचिराद्यभाव उक्तः । श्रीगीताभाष्ये केवलात्मोपासनाद्युक्तिस्तु परमात्म- १२. प्रमेयनिरूपणम् २५५ विशेषणस्वोपासनपरा ; अर्चिरादिप्राप्यभिधानात् । तस्यापि ब्रह्मोपासक- स्वसाधनमष्टमाध्याये | ननु देवी पद्मासना कस्यां कोटावन्तर्भूता ? अत्र संशयः “यथा सर्वगतो विष्णुस्तथैवेयम्” इत्यादिना परमात्मन इव सर्वगतत्वादिसाधनात् परमात्मकोट वेत्रान्तर्भूता । " अस्येशाना जमतो विष्णुपत्नी" इत्यादौ नारायणस्येव जगन्नियन्तृत्वमपि श्रूयते । “त्वं माता” इत्यादौ जगत्कारणत्वमपि । तदनन्तर्भावे तस्या नित्यमुक्तान्तर्भावे जगद्व्यापाराभावे च पूर्वोदाहृतश्रुत्यादिविरोध इति । नापि तत् युज्यते ; तथा सति परमात्मभेदप्रसक्तेः । " मध्ये परमात्मा व्यवस्थितः” इत्यादै परमात्मा चैक एव श्रुतः । “यतो वा इमानि” इत्यादौ कारणत्वमप्येकस्यैव श्रुतम् । तर्हि तस्या मुक्तान्तर्भावोऽस्तु इति चेत् — न; पूर्वोदाहृतप्रमाणविरोधात् । वेदार्थसंग्रहे दिव्यमहिष्या नित्यमुक्तव्यति- रिक्तत्वाभिधानाश्च । न च परमात्मजीवव्यतिरिक्तचेतनात्मवस्त्वङ्गीकारः । अतस्तस्याः कस्यां कोट्यामन्तर्भाव इति न विजानीम इति । मैवम् ; तस्या वेदान्तेषु कारणत्वाश्रवणान्नित्यमुक्तान्तर्भावात् । सर्ववेदान्तोषु कारणवस्त्वैक्यप्रतीतेर्न कारणद्वित्वम् । वेदार्थसंग्रहादौ नारायण- स्यैव जगत्कारणत्वमिति प्रसाध्य तस्य महिष्यादिसद्भावमात्रसाधनाच्च । अन्यथा श्री तत्पत्योः साहित्यस्यैव कारणत्वे तन्मिथुनं जगत्कारण- कचिद्भाष्यकृदुक्तिः । न च मित्युक्तिः स्यात् I न चैवं मिथुनाज्जगत्सृष्टिश्रुतिः । प्रत्युतैकस्मात् पुरुषादिशब्द निर्दिष्टात् तत्संकल्प- मात्रमूलैव सृष्टिः श्रुता पुरुषसूक्तादौ । “अद्भयः संभूतः” इत्यत्र परस्मादेव पुरुषाज्जगत्सृष्ट्याद्यभिधाय तस्य पुरुषस्य “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ" इत्यादिना लक्ष्मीपतित्वमुक्तम् । पत्नी च नैका ; पूर्वोदाहृतात् पत्नीद्वित्वप्रतीतेः । “महीं देवीं विष्णुपत्नीम्” इत्यादौ मह्या अपि तत्पत्नीत्वमुच्यते । भाष्यकारेणापि श्री भूमिनी लानायकत्वमप्युक्तम् “एवंभूतभुमिनीलानायक” इति वदता । अतोऽपि न तन्मिथुन कारणत्वम् । मिथुनशब्दश्चैकस्यैकस्याश्च साहित्ये प्रसिद्धः श्रुतो लोके; न त्वनेकाभिरेकस्य साहित्ये । न च तासु कयाचित् सहितस्य कारणत्वं विशेषतः श्रूयते । प्रत्युत “बिष्णोः सकाशात्” इत्यादौ विष्णुमात्रस्य कारणत्वं स्मर्यते । ननु “त्वं माता सर्वलोकानां देवदेवो हरिः पिता" इत्यादौ मिथुनकारणत्वं स्मर्यत इति – तन्न ; तत्प्रकरणस्य श्रीस्तुतिपरत्वेन तत्परत्वाभावात् । अनन्यथा-
२५६ नयमणिः सिद्धं हि प्रमाणम् । “विष्णोः सकाशात्" इत्यादि तु जगत्कारणत्वपरमेव । यत्र कापि स्तोत्राणां प्रमाणान्तरविरोधेऽपि मुख्यार्थस्वीकारे शेषांशभूतहलायु- धस्यापि जगत्कारणत्वं स्यात् । प्रलम्बवधार्थं भगवता जगत्कारणत्वेन तत्स्तुतिः कृता - " तदयते वेत्सि न किं यदन्ते त्वय्येव विश्व लयमभ्युपैति " इत्यादिना । शेषश्च शेषश्च नित्यसूर्यन्तर्गतत्वेन प्रसिद्धः । " ईशान मस्य जगत: सर्वदृशम् । ईशानमिन्द्रम्" इत्यादाविन्द्रादेरपि स्तुतेर्जगदीशत्वं श्रुतमिति तस्यापि जगत्पतिश्वापातः अतः प्रमाणान्तरविरोधे स्तुतीनां न मुख्यार्थपरता । स्तोत्रगतत्वादेव " यथा सर्वगतो विष्णुः” इत्यादेस्तस्या न सर्वगतत्वपरता । 1 तथेत्यतिदेशरूपत्वाच्च न स्वतः सर्वगतत्वम् । स्वतः सर्वगतत्वे हि नातिदेशोपपत्तिः । अप्राप्तेऽह्यतिदेशः । अतिदेशे च न्यूनता नैयायिकजनप्रसिद्धा’ । ‘यथा चन्द्रस्तथा मुखम् ’ इत्यादि - प्रयोगे च तथा दृश्यते । न हि सर्वात्मना चन्द्रसाम्यं मुखस्य । अतः सर्व- गतज्ञप्तिद्वारा तस्याः सर्वगतत्वम् । ननु ज्ञानं स्वतः सर्वगतमिति तस्यापि नातिदेशापेक्षेति – तन्न ; बद्धजीववत् तस्य संकोचराङ्केति तन्निरासायातिदे- शोपपत्तेः । न च प्रजानां कारणत्वाभावे कथं मातृत्वव्यपदशोपपत्तिरिति ; परमात्मनः पत्नीत्वेन तदुपपत्तेः । न च पत्नीनां साक्षाज्जननीत्वनियमः; लोके तथात्वेनादर्शनात् । अजननीनामपि पितृपत्नीनां मातृत्वम् “पितृपत्नयः सर्वा मातरः” इत्यादौ स्मर्यते । साक्षान्मातृत्वं च “पिताहमस्य जगतो माता” इत्यादौ भगवत एव स्मर्यते । तद्व्यपदेशश्च परस्य सर्वशरीरत्वात् तत्र मुख्यः । तस्यास्तु न सर्वशरीरत्वश्रवणमिति न तत्र मुख्यः । किंच तस्या मातृवत् सर्वप्राणिनां दोषसहिष्णुतया वत्सलत्वेनात्महिते प्रवर्तकत्वात् परमात्मना प्राणिरक्षणे पुरुषकारत्वेन नियुक्तत्वाच्च मातृत्वव्यपदेशः । ईशानत्वं तु परमात्मप्रसादात् तस्या युक्तमेव । यथा विष्वक्सेनस्य सर्वाधिपत्यम् । अतः परमात्मव्यतिरिक्तस्य न जगत्कारणत्वम् । तस्या द्वारशेषित्वेन सर्वाश्रितत्वोपपत्तिः; तस्याः परमात्मशेषत्वात् । तस्या अपि तथात्वान्न परमात्मनः सर्वशेषित्वहानिश्च । वेदार्थसंग्रहादौ महिष्या नित्यसूरिजनेभ्यः पृथगभिधानं गोबलीवर्दन्यायात् द्रष्टव्यम् । न हि बलीवर्दस्य न गोपदवाच्यता । तथापि ‘गामानय
- अतिदेशेति । श्रीमति रहस्यत्रयसारे उपदिश्यमानाधारात् अतिदिश्य- मानाधारस्य विशेषो मध्यस्थसंमत इत्युपन्यस्य तात्पर्यवर्णनमत्रानुसंधेयम् ।
- नैयायिका अत्र मीमांसका विवक्षिताः । १२. प्रमेयनिरूपणम् २५७ बलीवदं च’ इत्यादिप्रयोगोऽपि । एवं तस्याः सूरिजनान्तर्भीवेऽपि पृथनिर्देशो वेदार्थसंग्रहे । लक्ष्मीपतित्वकथनं भूमिनीलापतित्वस्याप्युपलक्षणम् ; तयोरपि तत्पत्नीत्वस्य सिद्धत्वात् स्वेनाप्यन्यत्रोक्तत्वाच्चेति निरवद्यम् । सर्व नित्यपरापराश्रितं स्वाश्रयायार्थप्रकाशनसाधनं ज्ञानमिति ज्ञानलक्षणम् । तत्तु अन्यार्थतया पूर्वमेव प्रकाशितम् । अचिद्वस्तु च द्विविधम्– सत्त्वादित्रिगुणाश्रयं तद्विलक्षणं चेति । तत्र द्वितीयं प्राकृतहेयगुणरहितं परमात्मनित्यमुक्तजनसंकल्पानुगुणं देहे- न्द्रियादिरूपेण परिणामस्वभावं नित्यं श्रुतिवाचामप्यपरिच्छेद्यवैभवं परमात्मनो मुक्तजनानां च भोगस्थानम् । तत्सद्भावश्च पूर्वमेव साधितः; तस्य नित्यत्वं च साधितम् । । ननु देहेन्द्रियादिरूपेण परिणामित्वे कथं तस्य नित्यत्वमिति – तन्न ; अवान्तरपरिणामेऽपि परमपदसंस्थानस्यापरिणामित्वेनोत्पत्तिप्रलयाभावात् यथा ‘अण्डसंस्थानस्योत्पत्तिप्रलयभावः, तथा न तल्लोकसंस्थानस्योत्पत्तिप्रलयौ अक्षरत्वश्श्रवणात् । तत्रावान्तरपरिणामश्च " एकधा भवति" इत्यादिश्रुतेः । सांकल्पिक पित्रादिरूपपरिणाम एव हि तत्समुत्थानम् । अत एव हि तस्य महदादिभेदभिन्नत्वमपि सिद्धम्, देहाकारपरिणामश्रवणात् । देहसद्भावे च बुद्धयादिसद्भावः सिद्ध एव । देहादीनामपि परमात्मानुभवानुकूलवे सति न ततो दुःखित्वमित्याद्यन्यत्रोक्तम् । ननु तल्लोकस्य परमव्योमत्व श्रवणान्न पृथिव्याधा- कारतापीति —–तन्न; ‘अपराजिता पू:, ’ ‘ऐरम्मदीयं सरः, ’ ‘तदमृतम्, ’ ‘अञ्जन- हस्ताः’ इत्यादौ पार्थिवादिसत्ताप्रतीतेः पृथिव्याद्याकारस्यापि सिद्धेः । श्रुत्यादिसिद्धार्थ एव भाष्यकारेण श्रीवैकुण्ठगद्ये तदाकारः प्रदर्शितः । स तु तत्र द्रष्टव्यः । आद्यं तु सत्त्वरजस्तमोगुणकम् ; न तु सत्त्वरजस्तमसां साम्यावस्थैव ६ “सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः” इति तेषां गुणत्वप्रतीतेः; तदाश्रयस्य प्रकृतित्वप्रतीतेश्च । सत्वादीनि च प्रधानादिकार्योन्नेयानि, शास्त्रगम्यानि च ।
- अण्डेति । यथा प्रलये अण्डं नश्यति, तथा परमपदाख्यो लोको न नश्यतीत्यर्थः ।
- पित्रादीति । “संकल्पादेवास्य पितरः समुत्तिष्ठन्त” इति श्रुतिरभि- संहिता । यथा एकधाभावादिकं मुक्तिस्थाने, तथा अवतारदशायामिहापीति भावः । 33 २५८ नयधुमणिः तच्च श्रीगीताभाष्ये स्पष्टम् । प्रधानं च स्वविकारमहदादिभेदात् एकोनविंशति- विधम् । तत्राद्यमनुद्भूतसत्त्वादिगुणम् । द्वितीयमुद्भूतसत्त्वादिगुणम् । तच्च अजामन्त्राधिकरण उक्तम् । बुद्धिलक्षणो महान् । महाभूतेन्द्रियकारणं वैकारिकादिभेदभिन्नो महद्विकारोऽहंकारः । सत्त्वगुणो वैकारिक इन्द्रियादि - कारणमहंकारः । तामसो भूतादिर्महाभूत कारणमहंकारः । रजोगुणस्तैजस उभयानुप्राहकोऽहंकारः । वैकारिककार्याणीन्द्रियाणीतीन्द्रियलक्षणम् । देहव्यतिरिक्तत्वे सति प्राणधार्याणीति वा । तानि चैकादश — श्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणि- पादपायूपस्थमनोभेदात् । तत्र श्रोत्रादीनि पश्च शब्दादिज्ञानसाधनानीति ज्ञानेन्द्रियाणि । इतराणि पञ्च वचनादिकर्मसाधनानीति कर्मेन्द्रियसंज्ञानि । श्रोत्रादीनि क्रमेण शब्दस्पर्शरूपरसगन्धज्ञानासाधारणकारणानि । वचना- दानगतिविसर्गानन्दासाधारणकारणानि वागादीनि । मनस्तूक्तम् । एतेषा- मुत्पत्यादिषु श्रुतिरेव प्रमाणम् ; अतीन्द्रियत्वात् । भौतिकत्वसाधनानुमानानि कालात्ययापदिष्टानि । तथा मनसो नित्यत्वसाधनमपि । वागादीनामिन्द्रियत्वा- नभ्युपगतिरपि प्राणसंवादादिश्रुतिविरुद्धा ; “इन्द्रियाणि दशैकं च" इत्यादि - स्मृतिविरुद्धा च । तान्यणुपरिमितानि ; उत्क्रमणश्रवणाद्विभुत्वे निरस्ते मध्यमपरिमाणनियामकाभावात् ; पार्श्वस्थैरनुपलभ्यमानत्वाच्च । अन्यत्तु भाष्यादौ । तामसाहंकारविकारः शब्दविशेषगुण आकाशः । आकाशविकारः स्पर्श- विशेषगुणो वायुः । वायुविकारो रूपविशेषगुणं तेजः । तेजोविकारो । रसविशेषगुणा आपः । अब्धिकारो गन्धविशेषगुणा पृथिवी । इत्येवमेकोन- विंशतिविधं प्रधानद्रव्यम् । ननु शब्दादयोऽपि प्रधानद्रव्यविकाराः, स्मृत्यादौ चतुर्विंशतिविधत्व- प्रतीतेरिति — तन्न ; तत्रैव तेषां गुणत्वस्मरणात् ; गुणान्तरानाश्रयत्वे सति द्रव्यैकाश्रितत्वाच्च । न च कर्मस्वतिव्याप्तिः; तद्व्यतिरिक्तत्वस्यापि लक्षणान्त- र्गतत्वेनेष्टत्वात् । एवंभूतसत्त्वादिगुणकप्रधानप्रभृति सर्वं द्रव्यमिति तत्तद्वस्तु- वैकारत्वप्रतिपादकागमाविरोधः । दिक्कालयोस्तु न द्रव्यत्वमित्युक्तम् । एवमतीन्द्रियार्थविषयश्रुत्यैव तत्त्वानामुत्पत्तिसिद्धौ सांख्यादिसिद्ध- स्वबुद्धिमूलानुमानादिना नानाद्रव्यतत्संख्या कल्पनमनुपपन्नमिति न वैशेषिका- चुक्तद्रव्यतत्संख्यास्वीकारः । श्रितेषु १२. प्रमेयनिरूपणम् २५९ कर्मान्यत्वे सति द्रव्याश्रिता गुणा इति गुणलक्षणम् । न च द्रव्या- सामान्यादिषु अतिव्याप्तिः; सामान्यानां सादृश्याख्यगुणव्यति- रेकेण दुर्निरूपत्वात् । विशेषस्य स्वरूपेण दुर्निरूपत्वं च वक्ष्यते । चानन्ताः; सादृश्यादिगुणानन्त्यात् । परमात्मादिगुणानन्त्याच्च । शब्दस्पर्शरूपरसगन्धाः श्रोत्राद्येकै केन्द्रियग्राह्याः । संख्यापरिमाणपृथक्त्व संयोग- परत्वापरत्वाख्यगुणाः तत्तत्प्रतीतिव्यवहारसिद्धाः । ते न चैतेषां द्रव्याव्यतिरिक्तता ; स्पर्शादिना द्रव्यप्रतीतावपि रूपाद्य- प्रतीतेरन्धकारादौ । न च गुणातिरिक्तद्रव्यापलापः; रूपादिमत्पदार्थ- प्रतीतिव्यवहारविरोधात् । न च काल्पनिक मिध्यार्थविषयस्तत्प्रतीत्यादिः; अबाधात् । ज्ञानेन संयुक्ताश्रयाश्रयिभावसंबन्धात् चक्षुरादिद्वारा संयुक्तद्रव्यागत- रूपादयो गुणा गृह्यन्ते । संख्यादयस्तु रूपस्पर्शगुणैकाश्रयाः रूपादिग्रहणेन ज्ञानेन संयुक्ताश्रयाश्रयिभावसंबन्धात् । आश्रयाश्रयिभावस्वभावत्वं च पूर्वमेवोक्तम् । द्रवत्वगुरुत्वे आद्यस्पन्दनपतन कार्येककल्प्ये । स्नेहस्तु चिक्कणस्पर्शेन ‘संग्रह कार्यानुमेयश्च । यादृक्पदार्थोत्पाद्यः, तादृक्पदार्थहेतुः स्वयं तद्विलक्षणः संस्कारः । स च त्रिविधः – भावना, वेगः, स्थितस्थापकश्चेति । भावना ह्यनुभवजन्यज्ञानरूपा स्मृतिरूपज्ञानहेतुः । तदनभ्युपगमे स्मृतिज्ञानस्य नोपपत्तिः । वेगस्थितस्थापकौ च कर्मजन्यौ कर्महेतु तद्विलक्षणौ च । तत्संस्कारानभ्युपगमे शरादौ द्वितीयगमनाद्यनुपपत्तिः । धर्माधर्मौ तु शास्त्रैकसमधिगम्यविशेषावेवेत्युक्तम् । बुद्धिशब्दार्थों ज्ञानं महत्तत्वं वा । उभयथापि द्रव्यमेत्र । तदप्युक्तम् । सुखदुःखे अप्यानुकूल्याद्युपहितं ज्ञानमेव; तद्व्यतिरेकेणान्यार्यानुपलब्धेः । इच्छाद्वेषादयोऽप्यवस्थाविशेषज्ञान संबन्धोपाधिजाः ज्ञानावस्थाविशेषा एव 1 एवं “विचिकित्सा श्रद्धा धृतिर्विधृतिः हीरित्येतत् सर्वं मन एव” इति श्रुतेरप्यविरोधः । ज्ञानस्य तदवस्थानां च मनः संबन्धाधीनत्वात् ‘सर्व मन एव’ इत्यविरोध इति । २६० नयधुमणिः न च केवलं तेषां मनोवस्थात्वम्; मनोवस्थात्वे आत्मनोऽप्रत्यक्षत्व- प्रसङ्गत् । कामादयो हि स्वाश्रयाय ज्ञानवत् प्रकाशन्त एव । " इच्छा द्वेषः सुखं दुःखम्” इत्यत्र भाष्यकारैरप्यात्मधर्मत्वमिच्छाद्वेषादीनामप्युक्तम् । शक्तिरपि गुण एव; गुणलक्षणभावात् । न च गुणकर्मणोरप्या- श्रितत्वात् तस्या न गुणत्वमिति; तदसिद्धेः । ननु गुणकर्मवतो द्रव्यस्यैव यद्यपि कार्यकरत्वम् ; तथापि प्राप्ताप्राप्त विवेकेनान्वयव्यतिरेकाभ्यां कर्मणामेव कार्यकरत्वस्य क्वचित् ख्याप्यमानत्वम् । उपलभ्यते हि शब्दादेः शक्तिविशेषः; कर्मणामपि सुखादिजनकत्वशक्तिश्चेति चेत् —तन्न ; तेषां स्वाश्रयद्रव्यशक्ति- सहकारित्वमात्रादन्वयव्यतिरेकोपपत्तेः । अतस्तेषां तदाश्रयत्वकल्पनानवकाशः । रूपादिधर्माश्रयत्वेन कुप्तपृथिव्यादिभिर्द्रव्यैरेव शक्त्याश्रयत्व निर्वाहोपपत्तावन्य- धर्मैकस्वरूपगुणादेः शक्तिधर्मित्वकल्पना चानुपपन्ना | एतेन संख्याया अपि गुणकर्माश्रितत्वं प्रत्युक्तम् । ‘एकादश प्रयाजान् यजति’, ‘चतुर्थमागमनम्, पश्चममागमनम्’ इत्यादिवैदिकलौकिकव्यवहारा औप- चारिकाः । वर्णानामेव शब्दत्वात्, तेषां चाश्रयवदविनाशित्वेनाकाशादिद्रव्याश्रि- तत्वात् उच्चारणादेश्चाभिव्यञ्जकत्वात् अनेकाक्षराणां चैकार्थपरत्वोपाधितः ‘एक: शब्दः’ इत्यादिव्यवहारोपपत्तेश्चेति दिक् । न च सामग्रीव्यतिरेकेण शक्त्यनङ्गी- कारः; स्फोटादिकार्यस्य मणिमन्त्रौषचादिसत्तायामजनकत्वदर्शनात् तदभावे जनकत्वदर्शनाच्च दाहकत्वशक्तिनिश्चयात् । न च मण्याद्यभावोऽपि सामग्री; अभावस्य केवलात्रत्थतत्तत्पदार्थस्वरूपानतिरेकात् । जनकपदार्थस्वरूपस्य स्वस्यैव सामग्रीत्वानुपपत्तेरिति दिक् । “पराऽस्य शक्तिर्विविधैव श्रूयते " “शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः" इत्यादिप्रमाणाच्च । पृथक्त्वेनानुपलभ्यमानत्वात् सादृश्यमपि गुणः । न च गुणकर्मणोरप्याश्रितत्वात् तस्य पदार्थान्तरत्वम् ; तदाश्रितत्वासिद्धेः । ‘तद्रूपमिवास्य रूपम्, तत्कर्मैवेदं कर्म’ इति गुणकर्मणोः सादृश्यप्रतीतिव्यवहारास्तु स्वाश्रयजनकद्रव्यसादृश्यनिमित्ताः; तयोर्द्रव्यात् सादृश्याश्रयत्वानियमात् अन्यथोपपत्तौ च न कल्पना । तदेव सामान्यम् । न च सामान्यस्यानुवृत्तिप्रतीति- -यवहारसिद्धत्वात् सादृश्यस्य च तदभावात् पदार्थान्तरत्वमुचितमिति ; सामान्य- स्यैकत्वे पृथक्प्रवृत्तत्वे च प्रमाणाभावात् । न च ‘गौर्गेौः’ इति सामान्यादिमत्सु पिण्डेषु अनुवृत्तिप्रतीतिव्यवहारात् तत्सिद्धिः; ‘अयं ब्राह्मणः, अयं ब्राह्मण: ’ इत्यादिष्वप्यनुवृत्तिप्रतीतेरनुवृत्तैकसामान्यापातप्रसङ्गात् । अथ तत्र सन्तति- १२. प्रमेयनिरूपणम् २६१ विशेषजत्वाद्युपाधित एव तदैक्यधीर्व्यवहारश्चेति, गवादावपि सास्नादि- ककुदादिसंस्थानो गधित एवं ‘गौर्गौः’ इत्यादिव्यवहारः प्रतीतिश्च ; संस्था- नातिरेकिजात्यनुपलम्भात् । वस्तुसाधारणधर्मरूपसादृश्यापर पर्यायं संस्थानमेवानु- वृत्तिधीहेतुः जातिरित्यर्थः । संस्थानाभिव्यङ्गयजातिवादिनाप्यभिव्यञ्जकत्वेन संस्थानविशेषाङ्गीकारात् तत एवानुवृत्तिव्यवहारादिसिद्धौ न वस्त्वन्तरकल्पना- गौरवम् । अभिव्यञ्जकानि संस्थानानि सदृशान्येवाङ्गीकृतानि; अन्यथा सर्वत्र जात्यभिव्यक्तिप्रसक्तेः । एवं च तत्तद्वस्तुनिष्ठासाधारणसादृश्याख्यधर्मैरेवानुवृत्ति- बुद्धयाद्युपपत्तौ नाप्रामाणिकनित्यत्वसर्वगतत्वादिस्वीकारः । न च सादृश्यस्य ‘तद्वत्’ इति प्रतीतिसिद्धत्वात् सामान्यस्य ‘तत्’ इति प्रतीतिसिद्धत्वाच्च तद्भेदः; सादृश्याख्योपाधितो ‘यथा गौः, एवं गवयः’ इति प्रतीतेः अत्यन्त सौसादृश्यात् ‘गौर्गौः’ इति प्रतीतेरुपपत्तेः, अन्यत्र ‘तद्वत्’ इति प्रतीत्युपपत्तेश्चेति दिक् । द्रव्यनिष्ठत्वैकस्वभावानां कर्मणां तु संस्थानाख्यासाधारणधर्माश्रयत्वा- भावात् न जात्यभ्युपगमः । न हि ‘इदमित्थम्’ इति सधर्मतया प्रतीयते । ‘अन्यत्’ इत्येव गोत्ववच्छौ क्यादीनां प्रतीतिः । अथ ‘शुक्लः’ इत्यनुवृत्तधियः का गतिः तत्सामान्यानङ्गीकार इति चेत्; श्रोत्रग्राह्यत्वोपाधितो वर्णेषु ‘शब्द: शब्द:’ इति प्रतीतिवत् स्पर्शरूपरसगन्धानां त्वगाद्येकैकेन्द्रियग्राह्यत्त्रोपाधिता गतिरिति ब्रूमः । लौहित्यशैौक्कथकार्ण्यानां तु तेजोरूपत्वादिरुपाधिः, “यदग्ने रोहितं रूपं तेजसस्तद्रूपम् ; यच्छुक्कं तदपाम् ; यत् कृष्णं तदन्नस्य" इति श्रुतेः । एवं गुणान्तरेष्वप्युपाधिरुन्नेयः । कर्मणस्तु अनुवृत्तधियः सदृशकारकजन्यत्वमुपाधिः । प्रसङ्गात् सामान्यस्य सादृश्यान्तर्भाव उक्तः; सादृश्यं गुण इति च । सादृश्यं तु प्रतिवस्तु भिन्नमिति न गुणसंख्या नियतिः; सत्यकामादिपरमात्मगुणानन्त्याच्च । ननु गुणोपसंहारपादे “मन्त्रादिवद्वा” इति सूत्रभाष्ये द्रव्यगुणकर्मभ्यो व्यतिरिक्ततया जातिक्रमसंख्या सादृश्यान्युपात्तानीति न जातेः सादृश्यान्तर्भावः सादृश्यस्य गुणान्तर्भावश्चेति जातिसंख्याक्रम सादृश्यानां पदार्थान्तरत्वमभ्यु- पगतम्, यथा यागादिकर्मणां स्वर्गादिसाधनत्वाभिमतिरिति — तन्न ; तत्र भाष्ये मन्त्रस्याप्युदाहृतत्वात् अर्थान्तरत्वप्रसक्तेः । क्रमश्चापुञ्जीभूतपदार्थ- चस्थामात्रमिति न पदार्थान्तरम् । जातिसादृश्यादेः पृथगुक्तिस्तु पूर्वमीमांस- कमतानुसारात् । तत्र २६२ नयधुमणिः तमोऽपि पृथिवीद्रव्यमेव । प्रभाप्रभावदूपेण तेजोद्रव्यवत् पृथिव्यपि तमोरूपपृथिवीमती । नालोकाभावस्तमः / पार्थिवानुसारिणी च छाया दृश्यते । आलोकबद्देशे तमोऽनुपलब्धिस्तु तस्यालोकाभिभवात् । तमसस्तु पदार्थावारकत्वं स्वभावतः । आलोकनिरपेक्षमेव तत्प्रत्यक्षम् । अत एव तदर्थं प्रभावत्त्वे सौरप्रभावत् पदार्थोपलब्धिहेतुत्वमिति न चोद्यावकाश इति दिक् । कारकव्यापारः कर्मेति कर्मलक्षणम् । तच्चोत्क्षेपणादिभेदभिन्नम् । अत एव पदार्थत्रयमेव । प्रमाणादीनामपि ज्ञानादिपदार्थान्तर्भावः । समवायश्च दुर्निरूपः; पदार्थान्तरसंबन्धार्थं समवायान्तरकल्पनायामनवस्थादुः- स्थत्वात् } तस्य स्वभावात् पदार्थेषु गुणादिघटकत्वकल्पनायां तद्गुणादीनामेव तादृशस्वभावता कल्प्येति न धर्म्यन्तरकल्पना गौरवम् । आश्रयाश्रयिभावसंबन्धोऽपि गुणादेः सापेक्षतया स्थितिरेवेत्युक्तम् । तस्याः संबन्धत्वव्यवहारस्त्वौपचारिकः । अथ सदृशगुणादिमन्मुक्तात्मादिषु भेदज्ञानार्थं विशेषोऽङ्गीकार्य इति चेत्, तन्न; जातिगुणादेरेव भेदत्वात् ; भेदस्य पृथक्त्व- वादिनापि तदङ्गीकारात् तावन्मात्रेण व्यवहारसिद्धौ धर्मान्तरकल्पनानवकाशात् । मुक्तादीनां समानगुणत्वेऽपि देशाद्युपाधिलक्षणैस्तत्पृथक्त्वस्य सुज्ञानत्वादिति सर्व सुस्थम् । इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिसूरिणा विरचिते नयद्युमणौ प्रमेयनिरूपणम् ॥ शास्त्रं च परिसमाप्तम् ॥ श्रीरस्तु 100 अधो निर्दिष्टः श्लोक: A मातृकाकोशे लेखकेन लिखितो दृश्यते- “आदेयमेतदनसूयुभिरेव गुण्यै- ग्रन्थस्य पङ्क्तिरसकृत् कुटिलापि दुष्टा । अस्यां बहुत्र मतिविभ्रमतोऽपराद्धं सन्नारिकेलफलमध्यगतं यथाम्बु ||” सञ्च्चक्रवर्तिवंश्यौ व्याकुरुतां वत्सगोत्रसंभूतौ ! श्रीकृष्णवीरराघवसंज्ञौ स्निग्धौ नयद्यमणिम् || शुभमस्तु POअत्रोदाहृतानां ग्रन्थान्तरस्थवचनानामनुक्रमणी अशो नानाव्यपदेशात् १७५ ब्रह्मसूत्रम् २-३-४२ अकर्त्रभिप्रायार्थोऽयम् १२ काशिकावृत्तिः १-३-३६ अक्ताः शर्करा उपदधाति ८५ तै. ब्रा. ३-१२-५ अक्षयः कालः १७८ भगवद्गीता १०-३३ अक्षरधियां २१२ ब्रह्मसूत्रम् ३-३-३३ अक्षैर्दीव्यति १२९ अगृहीततत्त्वग्रहण १८२ अग्नये जुष्टं २१९ तै. सं. १-१-४ अम्मये पथिकृते पुरोडाशं ८६ २-२-२-१ 99 अनिरिदं हविरजुषत १२८ अग्निहोत्रं जुहोति ८७ अघस्य विनाशकरण २५० तै. व्रा. ३-५-१० तै. सं. १-५-९-१ श्रीभाष्यम् अघानि कृतानि २४९ 99 अङ्गाङ्गिता तदैक्ये चेत् १६ अच्छिद्रेण २११ तै. सं. १-१२ अजायमानो बहुधा विजायते २३१ तै. आ. ३-१३-१ अज्ञानं ज्ञानविरोधि १३४ अज्ञानेनावृतं ज्ञानम् २४०, २४१ अणुलं चास्य कर्मकृतं २४७ अणोरणीयान् २४५ गीताभाष्यम् १८-७ भगवद्गीता ५-१५ गीताभाष्यम् १२-१२ तै. उ. २- १०-१ अतत्परत्वेऽवसिते २२ अतत्परे जपविधौ अतः सर्वशब्दानां अतिक्रान्तेनाध्यायद्वयेन २३ ८१ श्रीभाष्यम् १७० अतो न रागविच्छेदः २४ "" अतो निर्विकल्पक १८८ 99 अतो विध्यर्हता नास्ति १४ अत्राधिकरणे ब्रह्ममीमांसा १७१ श्रीभाष्यविवरणम् अथ यदतः परो दिवः १२८ छा. उ. ३-१३-७ अथ स्वप्न २५३ ऐतरेयम् २६४ अथातो धर्मजिज्ञासा अदूरप्राक्काल नयद्युमणौ २४ मी. सूत्रम् १-१-१ १८४ अद्भयः संभूतः २३२ तै. आ. ३-१३-१ अधर्मं धर्ममिति १३४ अधीतिशेषतैवात्र १७ अध्ययनं किंरूपम् २५ अध्ययनमात्रवत: २४ अध्ययनेनैव वेदाख्य २५ भगवद्गीता १८-३२ श्रीभाष्यम् ब्रह्मसूत्रम् ३-४-१२ श्रीभाष्यम् अध्यापकस्य भेदेऽपि १७ अध्यापकस्य शेषत्वम् १७ अध्यापनाङ्गे संस्कारे १७ अध्येतव्यः १० तै. आ. २- १५ अध्येतृगत संस्कारः १७ अनन्तरितसाधनमेव ८४ अनन्ता वै वेदाः २०३ काठकम् १-४७ अनश्नन्नन्यः २३० अनात्मन्यात्मबुद्धिर्या १६२ मु. उ. ३-१-१ वि. पु. अनादि मत्परं ब्रह्म २४७ अनादिर्भगवान् कालः १७७ अनिग्रहाच्चेन्द्रियाणां २५१ अनिरूप्यमतः ख्यातः १५१ अनुभूतेरनुभूतित्वम् १८२ अन्येन धृते वियुक्ते १७७ अन्ये परप्रयुक्तानां १९६ भगवद्गीता १३-१२ वि. पु. १-२-२६ याज्ञ. स्मृति: ३-२१९ श्रीभाष्यम् वि. पु. १-२-२४ श्लोकवार्तिकम् ८१ अन्वितस्याभिधानार्थं १०८ अपराजितमायतनम् २३२ कौ. उ. १-२६ अपराजिता पूः २५७ छा. उ. ८-५-३ अपहतपाप्मा ४ छा. उ. ८-७-३ अपाणिपादः २३१ अपि च कार्यार्थ एव ८९ अभिधाभावनां ७२ अभिव्यञ्जकनानात्वात् ११८ अमानवः स एनान् १२६ वेदार्थसंग्रहः ४ तन्त्र. वा. २-१-१ प्र. पचिका न्याय. १६६ छा. उ. ४-१५-५ वे. उ. अर्थवादोपपत्ती च ५४ अर्थस्य च तथाभावः २८ न्यायरत्नमाला उदाहृतग्रन्थान्तरवचनानुक्रमणी २६५ अर्थैकत्वादेकं वाक्यम् २२६ मी. सू. २-१-४४ अर्वाग्देवा अस्य २३२ अवहन्ति १० तैं. ब्रा. २८-७५ आप. श्रौ. १-१९-११ अविद्या कर्मसंज्ञान्या २४० विष्णुपु. ६-७-६१ अवीवृधेतां महो ज्यायः १२८ तै. व्रा. ३-५-१० अशरीरं वा वसन्तं २३१ छा. उ. ८-१२-१ अष्टवर्ष ब्राह्मणमुपनयीत १२, १६, २५ शतपथब्राह्मणम् असंभवस्तु सतः १७२ अस्तित्वनास्तित्वादयः १७२ ब्रह्मसूत्रम् २-३-९ श्रीभष्यम् अस्य लोकस्य का गतिः २०८ अस्येशाना जगतो २३१ छा. उ. १-८-७ तै. सं ४-४-१२ आघारमाघारयति २०७ आचार्यकं कुर्वन् १३ आज्यभागौ यजति २०७ आण्डजं जीवजमुद्भिज्जं ४ आत्मप्रयत्नसापेक्ष १९२ आत्मवाची स्वशब्दोऽयं २८ आत्मसिद्धयनु कूलम्य ४९ छा. उ. ६-३-१ न्यायरत्नमाला प्रकरणपञ्चिका १९० आत्मानमेव लोकमुपासीत २०६ बृ. उ. ३-४-१५ आत्मा वा इदमेक एव २०८ आदित्यवर्णं तमसः परस्तात् २३० ऐतरेय, उ. १-१-१ श्वे. उ. ३ आनन्दादयः २१२ आनन्दो ब्रह्म २२२, २२३ ब्रह्मसूत्रम् ३-३-११ तै. उ. भृगु. ६ आनर्थक्यं ततः प्राप्तम् २३ आप्तस्य हितकामस्य ९७ नीतिमाला ५८ आप्तौ चरति यो नित्यम् १३, १४ आम्नायार्थविचारे च २२ आयुराशास्ते २३३ तै. ब्रा. ३-५-२३ आवृत्तिरसकृदुपदेशात् २३३ ब्रह्मसूत्रम् ४-१-१ आशब्दादाप्तिरित्युक्तः १३, १४ आस्ते विष्णुरचिन्त्यात्मा २३१ आहुस्त्वामृषयः १९२ भगवद्गीता १०-१३ इच्छागृहीताभिमतोरु २२२ वि. पु. ६-५-८४ इच्छा द्वेषः सुखं २६० इच्छाविषयतया प्रतीतस्य ९५ भगवद्गीता १३-६ वेदार्थसंग्रहः 34 २६६ नयद्यमणौ इच्छाविषयस्य प्रेरकत्वं च ९७ श्रीभाष्यम् इति नैयोगिके पक्षे १४ इदं वा अग्रे २२३ तै. ब्रा २-२-८ इदं शरीरं कौन्तेय १६३ भगवद्गीता १३-१ इन्द्रं यजति ८७ इन्द्रियजन्मनः प्रत्यक्षस्य १८६ इन्द्रियाणि दशैकं च २५८ श्रीभाष्यम् भगवद्गीता १३-५ इहासद्भाति चेद्रूप्यम् १३६ इष्टसिद्धि: १-१३ ईक्षत्यधिकरणादिना १६९ श्रीभाष्यम् १-१-५ ईशानमस्य जगतः २५६ अथर्वशिर. उ. ४ उत्तरपूर्वाघयोः २४९-२५० ब्रह्मसूत्रम् ४-१-१३ उदयास्तमयाभ्यां च १५८ विष्णुपु. २-८-१८ उपक्रमोपसंहारौ ५४ उपनयीत १२,२० शतपथब्राह्मणम् उपनीतिं पुनस्तत्र १७ उपनीतिरधीत्यङ्गम् ९ उपनीतेर्न चाङ्गत्वम् १६ उपनीय गुरुः शिष्यम् ११, २० उपनीय तु यः शिष्यम् १२ याज्ञ. स्मृति: आचार. १५ मनुस्मृतिः २ - १४० उपनेयश्रुतेः शैत्रचात् १६ उपपत्तेर्न चाव्याप्तेः २३ उभयव्यपदेशात् १७५ ऊर्ध्वमेकः स्थितः २३२ ब्रह्मसूत्रम् ३-२-२६ मैत्री. उ. ६-३ ऊहनमूहः । ऊहो नाम ११० गीताभाष्यम् १५-१५ एकदेशसमुत्थानाम् १८५ एकदेशान्तरे बुद्धिः २०१ वृत्तिः एकधा भवति २५७ छा. उ. ७-२६-२ एकधैवानुद्रष्टव्यम् एकमेवाद्वितीयं एकवाक्यतया तत्र २२४, २२५, २२७ बृ. उ. ४-४-२० ५३, ६५, २२३, २२४ छा. उ. ६.२-१ १०५ एकस्मिन् वस्तुन्यस्तित्वम् १७३ श्रीभाष्यम् एकस्य पृथिवीन्द्रस्य १७४ वेदान्तदीपः २-२-३१ एकादश प्रयाजान् २६० एतदेव हि गवादिशब्दानां ८१ श्रीभाष्यम् एतयान्नाद्यकामं याजयेत् २० उदाहृतप्रन्थान्तरवचनानुक्रमणी २६७ एतस्यैव रेवतीषु एतानि कर्माणि समीचीनानि १२७, १२८ ९७ श्रीभाष्यम् एतानि वै सूत्रचतुष्टयेन १७१ न्याय सुदर्शनम् एनं ब्रह्मवर्चसेन २५२ एवं किल बालाः ९१ श्रीभाष्यम् एवं वेदस्यार्थपरत्वे २५ वेदान्तसारः एवं स्थिते विचारोत्र २१ एवमेव सर्वेपदानां १०० वेदार्थसंग्रहः एवमेवैष संप्रसादः १२९ एवंभूतभूमिनीलानायक १३१,२५५ छा. उ. ८-१२-३ गद्यलयम् एष आत्मा २४५ छा. उ. ८-१-५ एष ज्योति: २११ एष तु वा अतिवदति २११ छा. उ. ७-१६-१ एषोऽणुरात्मा २३९, २४२ मु. उ. ३-१-९ · ऐक्षत १२८ छा. उ. ६-२-३ ऐतदात्म्यम् ५३ ,,’ ६-८-७ ऐन्द्रया गार्हपत्यम् .१२३ औदुम्बरी सर्वा वेष्टयितव्या ४२ औदुम्बरीं स्पृष्ट्वोद्गायेत् ४२ कथमनादिकालप्रवृत्त कदाचनस्तरीरसि कदाचिच्चक्षुरादिः कर्णच्छिद्र गतस्यैव कर्तरि शप् कर्ता विज्ञानात्मा कर्तव्यतावचनः प्रत्ययः कर्तुरिष्टाभ्युपाये हि गीताभाष्यम् १५-४ तै. सं. १-४-२२ • ११८ प्र. पचिका न्याय १३४ १२३ १५४ श्रीभाष्यम् १६६ ९३ अष्टाध्यायी ३-१-६८ ७१ २४८
- प्र. उ. ४-९-१ ७० प्र. पश्चिका १७८ कर्तृवाचिनां प्रत्ययानाम् ९६ वेदार्थसंग्रहः कर्मण्येवाधिकारस्ते २३३ कलामुहूर्तादिमयश्च काल: १७९ कार्यं कालान्तरस्थायि ४७ भगवद्गीता २-४७ विष्णुपुराणम् ४-१-८४ प्र. पश्चिका १८५ कार्यमेव च वक्तृणां ७३ १८० ?? कार्यमेव हि सर्वत्र ७३ 19 कार्यस्यैव प्रधानत्वात् ४८ १८८ कार्यार्थ एव व्युत्पत्तिरिति ८८ वेदार्थसंग्रहः २६८ नयद्युमणौ कार्ये संघट्टिताकारे कालस्य पदार्थविशेषणतया ८६ १७२ श्रीभाष्यम् किंच वेदस्य यत्साध्यम् २४ किंचाध्ययनशेषत्वम् १७ किंतु क्रियाफलं तच्च १४ कुत्स्वर्गादिकमपि किंतु निर्धारणामात्रम् कृतितत्साध्यमध्यस्थ: कृष्णदन्तं पश्यति क्लृप्तमन्वितसामर्थ्यम् ५० ४९ ८६ २५३ १०५ क्रियायां हि समाप्तायाम १४ क्रिया हि क्षणिकत्वेन ४६ क्षयन्तमस्य रजसः पराके २३१ ख्यातिं विनापि चेत्सत्ता १३६ प्र. पचिका १९२ ऐतरेयम् प्र. पलिका १८३ तै. सं. २-२-१२-५ इष्टसिद्धि: १-१५ 59 १९० खुरनिष्पेषशब्दं च १११ श्लोकवार्तिकम् गकारादिबोधकस्यैव १०१ श्रीभाष्यम् गवानयनादिक्रियायाः ८८ वेदार्थसंग्रहः गुणे शुक्लादयः पुंसि ७८ नामलिङ्गानुशासनम् १-५-१७ गृहाभावस्तु यः शुद्धः २१७ गौणश्चेत् १२८ चकारात्कर्तरि ९३ ब्रह्मसूत्रम् १-१-६ काशिकावृत्तिः ३-४-६९ चतुष्कोटिविनिर्मुक्तं १४१ चन्द्रमसमेव ते सर्वे २४४ कौषी. उ. १-२ चार्थे द्वन्द्वः १९० अष्टाध्यायी २-२-२९ चित्पतिरत्वा २११ तै. सं. १-२-१२ जगत्कारणस्य प्रतिपाद्यता १७१ श्रीभाष्यविवरणम् जगत्सर्वं शरीरं ते २३० जन्म कर्म च मे दिव्यम् २३१ रामा. यु. २०-२६ भगवद्गीता ४-९ जन्माद्यस्य यत इत्यादिषु १७० वेदान्तसारः ३-२-३० जपानुष्ठान कालोऽर्थ २३ ज्ञातसंबन्धनियम २०१ वृत्ति: जानात्येवायं २३९ ज्ञानं ज्ञेयं परिज्ञाता ९४ भगवद्गीता १८-१८ ज्ञानं वस्तुनिश्चयः १८२ ज्ञानं वस्तुयाथात्म्यबोधः १३४ गीताभाष्यम् १४-८ उदाहृतप्रन्थान्तरवचनानुक्रमणी २६९ ज्ञानेन तु तदज्ञानं २४० जिज्ञासा जायते बोद्धुः १०९ ज्ञोऽत एव २४७ ज्योतिष्टोमेन यजेत ७० भगवद्गीता ५-१६ ब्रह्मसूत्रम् २-३-१९ तै. बा. १-५-११ णश अदर्शने ११७ धातुपाठः ११९४ तपः परिवृत्तौ २४९ ततश्च पुण्यकर्म २४९ श्रीभाष्यम् ततो यदुत्तरतरं २३० वे. उ. ३ तत्तदर्थव्यवहारयोग्यता ४३ श्रीभाष्यम् तत्तद्विशेषणविशिष्टमेव १०२ "" तन्तु समन्वयादित्यत्र प्रपचितः १७४ "" तत्वमसि १९३ छा. उ. ६-८-७ तत्प्रतीत्येककार्यत्वात् १०८ तन्त्र बाधान्न कल्प्या चेत् १३६ इष्टसिद्धिः १-१५ तत्र वेदितुरसाधारण १६३ गीताभाष्यम् १३-१ तत्र सामानाधिकरण्य १०१ श्रीभाष्यम् तत्रेष्टसुखादिना पुरुषेण ९७ तत्संबन्धवशप्राप्त ११२ तथा घटत्वशरावत्व १७४ वेदान्तसारः २-२-३१ तथा तथा क्रमेणैव १०९ तथा तथैव शब्दानाम् १०९ तथैकत्रैव साध्येऽर्थे १.८५ तदक्षरे परमे व्योमन् २३२ तै. उ. २-१-१ तदधिगम उत्तर २४९ ब्रह्मसूत्रम् ४-१-१३ तदर्यते वेत्सि २५६ विष्णुपुराणम् ५-९२८ तदात्मानं स्वयमकुरुत २२२ तदितिकर्तव्यतारूप १७० तदेतदक्षयम् १७९ तदेव शक्नुयात्कार्यं ४७ तदैक्षत १२५ तै. उ. १-२-७-१ श्रीभाष्यम् प्र. पचिका १८३ छा. उ. ६-२-३ तद्विधेरप्यर्थवत्वे २३ तद्विपरीतम् १७३ श्रीभाष्यम् तद्विश्वरूपवैरूप्यं २३० विष्णुपुराणम् तनूनपातं यजति २०९ तन्मात्राणि भूतादौ लीयन्ते १२२ सु. उ. २ २७० नययुमणी तमसः परस्तात् १३२ तमस्त्वज्ञानजं १३४ तमेवं विद्वान् ३१०,२३४, तमेव चाद्यम् १३४ तयोरन्य: पिप्पलं २५२ तर्को नामार्थस्वभाव ११० तस्माद्वा एतस्मादात्मनः २२९,२३२ तस्माद् ब्रह्मव्यतिरिक्तस्य ८० तस्मान्नियोज्य संबन्ध ४७ तस्मात्स्वतः प्रमाणत्वम् २८ तस्मिन् प्रसन्ने २४९ तस्मिन् लोकाः २५३ तस्मिन् सीदामृते १२७ तै. आ. ३-१३-१ भगवद्गीता १४-८ तै. आरण्यक. ३-१२-७ भगवद्गीता १५-४ मु. उ. २-१ श्रीभाष्यम् तै. उ. १-२-१ श्रीभाष्यम् प्र. पञ्चिका ८४६ लोकवार्तिकम् वि. पु. १-१७-९१ क. उ. २-५-८ तै. ब्रा. ३-७-४३ तस्य चाध्यापनाङ्गत्वे १७ तस्य तावदेव चिरम् ५४ छा. उ. ६-१४-२ तस्य वा एतस्य २०३ बृ. उ. २-४-१० तस्यैतस्य तदेव २१२ छा. उ. १-७-५ तस्यैवतेऽन्येन धृते १७६ तस्योदिति नाम २३० तासां विवृतम् १५२,१५५ तृप्त एवैनमिन्द्रः प्रजया ८५ विष्णुपु . १-२-२४ छा. उ. १-६-७ “7 ६-३-४ तै. सं. २-५-४-२४ तेजो वै घृतम् ८५ २-५-२-४ तेन तत्कल्पनामेके २१७ तेन प्रद्येतेनैष आमा २४४ बृ. उ. ४-४-२ तेन मेयानपेक्षस्य २१६ श्लोकवार्तिकम् तेन यावत्समीचीनात् १८५ तेषामादित्यवत् २४० भगवद्गीता ५-१६ तैर्दृष्टैरपि नैवेष्टा १९६ तैस्तैर्वादिभिरेव १३४ श्रीभाष्यम् त्रिंशद्भाग तु मेदिन्याः १७९ त्वं माता सर्व दना जुहोति त्रिः स्वाध्यायं वेदमधीयीत दब्धिरस्यदब्धो भूयासम् दर्शपूर्ण मासाभ्यामिष्ट्वा २२ विष्णुपुराणम् २-८-२६ तै. आ. २-१६ २५५ १२, २०८ १२४ तै. सं. १-७ १६, २३४ उदाहृतप्रन्थान्तरवचनानुक्रमणी दर्शपूर्णमासाभ्यां स्वर्गकामः ८५, ८६, १२३ २७१ दर्शयामास पार्थाय २३१ भगवद्गीता ११-९ दहं विपाप्मम् १२५, १२८ दिङ्मोहेऽपि १५८ तै. उ. २-१०-२३ श्रीभाष्यम् दुर्घटत्वमविद्याया भूषणं ६५ देशद्वय संबन्धस्तु २२८ श्रीभाष्यम् देवत्वदेवर्षित्वादि १९२ देवान् भावयतानेन ८३ देहेन्द्रियमनःप्राण २४७ इष्टसिद्धिः १-१४० गीताभाष्यम् २ - १० भगवद्गीता ३११ आत्मसिद्धिः द्रव्यस्य तद्विशेषणभूत १७३ वेदान्तदीपः २-२-३१ द्रव्याणामपि नित्यानाम् १७३ द्वादशोपसत्ताहीनस्य १२३ द्वे पौर्णमास्यौ २१० धियो हि धीत्वं स्वग्रकाशता १८२ श्रीभाष्यम् न कार्यत्वेन संबन्धम् ४६ न कर्मणा न प्रजया २३३ तै. उ. २-१०-२१ न चक्षुषा गृह्यते ५४, १६० मु. उ. ६-१-८ न च दर्शनश्रवण न च परस्यात्मनः न च प्रबक्तृसामर्थ्यम् न च वस्तुविरोधोऽस्ति न तत्स्याञ्चक्रकापातात् १८७ श्रीभाष्यम् १९२ श्रीभाष्यम् १८५ २३ . २३ न तस्येशे कश्चन २३० न त्वर्थी न च तात्पर्यम् २१ नन्वेवं परमात्मायत्ते ९८ न पुनः संस्थानरूप १८८ न प्रेत्य संज्ञास्ति २३९ न ब्रह्म व्याहरेत् २० न भूतसंघसंस्थान: ४, २३० न भेदाग्रहस्य च प्रवृत्ति १५४ न मां कर्माणि लिम्पन्ति ४, २३० तै. उ. २. १-९ गीताभाष्यम् १८-१४ श्रीभाष्यम् बृ. उ. २-४-१२ शान्तिपर्व २०६ - ६० किरणावली भगवद्गीता ४-१४ न मे विदुः सुरगणाः १९२ १०-२ 99 न वियदश्रुतेः ११४, १७० ब्रह्मसूत्रम् २-३-१ न विलक्षणत्वात् ११० न सस्वे भ्रान्तिबाधौ स्ताम् १४० "” २-१४ इष्टसिद्धिः १-९ २७२ न सन्नासन्न सदसत् न सर्वेषां ज्ञानानां प्रमाणानां च नयद्युमणौ १४१ ३७ श्रीभाष्यम् न हिंस्यात् ११, ५९ न हि देहभृता शक्यं २३४ भगवद्गीता १८-११ न हि विज्ञातुर्विज्ञातेः १८४,२३९,२४१ बृ. उ. ४-३-३० नाध्यापनोपकारित्वम् १७ नानादेशोपलम्भे च ११८ नानृतं वदेत् २०६ नान्यत्र भाति रूप्यं तत् १३६ नाविरतो दुश्चरितात् २३३ नारायण परो ज्योति: १२५,१२८ नास्ति ज्ञेयमतः परम् २३२ पाश्चरात्रम् नाह खल्वेवमहं २३९ नित्यः सर्वगतः स्थाणुः २३९,२४७ नित्यो नित्यानां ६०, २३७ निमेषकाष्ठाकला १७८ नियोज्यः स च कार्यं १९,४६ निरर्थकपदोक्तिर्हि २२ निरूढकार्यशेषित्वे ७६ निर्विकल्पं नाम १८८ निष्कलं निष्क्रियं २२३,२२९ निष्पन्नेन जपत्येनम् ८० नीलादिपदानां नैल्यादि ८१ नेति नेति ५८,६० नेत्र प्रवृत्तिभेदेन ११८ नेह नानास्ति किंचन ६०,२२४,२२९ नैकस्मिन्न संभवात् १७४ नैतद्युक्तं मतं राग १४ नोपजनं स्मरन् २३९ नोभयत्रापि तात्पर्यम् २१ न्यायसंपादितव्यकि १०७ प्र. पश्चिका न्याय १६६ तै. व्रा. १-१-२७ इष्टसिद्धि: १-१३ क. उ. २-२४ तै. उ. २- ११ भगवद्गीता २-२४ वे. उ. ६-१३ बेदार्थसंग्रहः प्र. पश्चिका वाक्यार्थ १८२ श्रीभाष्यम् वे. उ. ६-१९ श्रीभाष्यम् बृ. उ. २-३-६ प्र. पश्चिका न्याय १६६ बृ. उ. ४-४-१९ ब्रह्मसूत्रम् २-२-३१ छा. उ. ८-१२-३ प्रकरणपचिका पञ्चभूतात्मकं वपुः २,६ पचभूतात्मके १५५ पति विश्वस्थ २२३ तै. उ. २- ११-३ पदजातं श्रुतं सर्वम् १०७ प्रकरणपनिकापदमभ्यधिकाभावात् उदाहृत पन्थान्तरवचनानुक्रमणी २७३ ११२ श्लो. वा. १-१-५ शब्द १०७ पदानामेन सा शक्ति: १०३ प्र. पचिका वाक्य १४ पयसा जुहोति १२,२०८ आप. श्री. १७-१५-२ परं ज्योति: परगतातिशय परमं साम्यमुपैति १२८ छा. उ. ८-३-४ २५४ परमतः सेतू १७०,२३० परमपुरुषवत् ११४ वेदार्थसंग्रहः मु. उ. ३-४-३ ब्रह्मसूत्रम् ३-२-३० वैदार्थसंग्रहः परस्यान्ते कृतात्मानः २३२ कूर्मपुराणम् १-१२-२६९. परास्य शक्तिर्विविधैव २२५,२६० श्वे. उ. ६-८ पर्यायाश्च द्रव्यस्य १७३ पर्यायास्तु स्वरूपेण १७३ पशुना यजेत ७७ पश्यतः श्वेतिमारूपम् १११ पुंसां नेष्टाभ्युपायत्वात् ७०, ७२ पुण्यपापे विधूय ४,२४९ पुरुष एवेदं सर्वम् ८०,२३० पुरुषः स परः २३३ पुरुषान्न परं किंचित पुरुषार्थोऽतः पुष्करिण्यः सृजते पृथगात्मानं २४ प्रकृतिपुरुष कालात्मक १७९ प्रकृतिश्च १७० २५० प्रकृतिसंनिधानादेव १३४ प्रकृत्याकारमेव वेदितारं १६३ २३० २४ २५२ श्रीभाष्यम् काठकसं. ६-१ लोकवार्तिकम् विधिविवेकः मु. उ. ३-१-३ श्वे. उ. ३ भगवद्गीता ८-२२ क. उ. ३-११ ब्रह्मसूत्रम् ३-४-१ बृ. उ ६-३-१० व. उ. १-६ गद्यत्रयम् ब्रह्मसूत्रम् १-४-२३ गीताभाष्यम् १३-१ " 99 प्रज्ञानघन एव २३९ माण्डू. उ. २३ प्रतिपत्तिर्गुणानां हि १०८ प्रतियोगिषु जिज्ञासा १०८ प्रत्यक्षस्य ह्येष स्वभाव: १८२ श्रीभाष्यम् प्रत्ययस्तस्य सर्वस्य १८५ प्रथमाध्याये बौद्धादीन १८२ प्रधानपुरुषव्यक्त १७७ प्रधानभेद उक्तत्वात् १७ प्रमाण संख्या विवादेऽपि १८६ विष्णुपु. १,२-१७ श्रीभाष्यम् 35 २७४ नयद्युमणौ प्रमाणाभावतस्तत्र प्रयुज्यते त्वयं शब्दः १६ १४ प्रयोजनतया त्वेकम् १०८ प्रयोजनतया युक्तम् २४ प्रवर्त्यपेक्षया भेदात् ७३ प्रवृत्तिहेतुं धर्मं च ७२ प्रवृत्त्यव्यभिचारित्वात् ७३ प्राकृत प्रलयेतु चतुर्मख ११४ प्र. पचिका १८० विधिविवेकः १७८ वेदान्तसारः 99 १८० प्राकृतप्रलये तु स्रष्टुः ११४ श्रीभाष्यम् प्राथम्यादभिधातृत्वात् १०३. प्र. पचिका वाक्य १४ प्रामाण्यं संविदां लोक: १८५ बहुहेतुसमावेशः १८५ बाधकारणदुष्टत्व २८ लोकवार्तिकम् बाधेन वोन्नीयते बुद्धिर्विवेकपूर्वक बुद्धेर्भेदम् ब्रह्म गमयति ब्रह्ममीमांसा विषयः ब्रह्मलोकमतिक्रम्य ब्रह्म विजिज्ञासस्व १९७ कुसुमाञ्जलिः १८२ १८२ भगद्गीता १८-२९ १२५,१२६,२५४ १६९,१७१ २३२ छा. उ. ४-१५-६ वेदान्तदीपः १-१-१ मै. उ. ६-३० १०८ तै. उ. १-१०२ ब्रह्मविदाप्नोति परम् २२७,२२९,२३३ ब्रह्म वेद ब्रह्मैव भवति २५४ ब्रह्म स्वयम्भु २०३ ब्राह्मणमालभते १६, ५९ तै. उ. १-२-१ मुण्ड ३-२-९ बृ. उ. २-६-३ तै. व्रा. ४.१-१ ब्राह्मणाय नापगुरेत ५९ तै. सं. २६-१० भिन्नप्रवृत्तिनिमित्तानां २२७ महाभाष्यम् भूयांसो यद्यपि स्वार्थाः १०८ भूयो न मृत्युमुपयाहि २१० तै. उ. २- १५ भेषजं भगवत्प्राप्तिः ७९ भोक्तुकामो देवदत्तगृहं ८७ मत्तः स्मृतिर्ज्ञानमपोहनं च ३७, १८२ मध्ये परमात्मा २५५ विष्णुपु. ६-५-५९ वेदार्थसंग्रहः भगवद्गीता १५-१५ तै. उ. २०११-२६ मध्ये व्योमदिशश्चाष्टावपां मनुष्यादिशरीराणाम् मन्त्रादिवद्वा १५८ मनुस्मृति: ५ श्रीभाष्यम् २२६, २६१ ब्रह्मसूत्रम् ३-३-५४ उदाहृतग्रन्थान्तरवचनानुक्रमणी २७५ मयि देवा द्रविणमायजन्ताम् २२ महर्षयश्च सर्वे १९२ महानज आत्मा २४५ तै. सं. ४-७-१४-१ गीताभाष्यम् १०-१३ उ. ४-४-२२ महीं देवीं विष्णुपत्नीं २३१,२५५ तै. व्रा. ३-१-२-५ मानुष्यादच्छिद्रं २३२ पाश्चरात्रम् माययापहृतज्ञानाः २४१ भगवद्गीता ७-१५ मासमग्निहोत्रं मुहूर्तादिमयः २११ १७८ गीताभाष्यम् १०-३३ मृत्युवन्न हि २१३ ब्रह्मसूत्रम् मोहात्तस्य १३४ भगवद्गीता १८-७ मोहो विपर्ययज्ञानम् १३४ यं यं ऋतुमधीते तेन तेन २२ गीताभाष्यम् १४-८ तै. आ. २-१५ य आत्मनि तिष्ठन् १२५ बृ. उ. ६-७.२२ य एष एतस्मिन् २११ यः पृथिव्यां तिष्ठन् ८०, १२५, २०९ यः शास्त्रविधिं ९७ यः सर्वज्ञः सर्ववित् १८२,१९२ तै. उ. २.१३ बृ. उ. ३-७-२ भगवद्गीता १६-२३ मु. उ. १-१-९ यः सर्वेषु तिष्ठन् १२५ बृ. उ. ३-७-१९ य एष सुप्तेषु जागर्ति १६१ कठ. उ. २-२-८ य एषोऽन्तरादित्ये २३० यज देवपूजायाम् ८५ यज देवपूजायामिति देवता ९५ यजेत स्वर्गकामः २०६ यज्ञेन दानेन २३३, २३४ यज्ञेषु तिष्ठन् 3 यतो वा इमानि १६७,१६९,२२२,१५५ यतो वाचो निवर्तन्ते २६७ यत्कल्पनां विना २१७ यत्तु निमित्तोपादानयो: १७० यत्र यद्भाति तत्रैव १३६ छा. उ. १-६-६ धातुपाठः वेदार्थसंग्रहः तै. सं. २-५-५ बृ. उ. ४-४-२२ तै. उ. १-१०-१ तै. उ. १-९-१ श्रीभाष्यम् . इष्टसिद्धि: १-१४ यथा च विन्ध्याटव्यां १०१ श्रीभाष्यम् यथा च सिन्धुदेशादि १७ यथा पशुरेवं स देवानाम् ८३ यथा प्रकाशयत्येकः १८२ अथा बालस्तातोऽयम् ९१ बृ. उ. १-४-१० भगवद्गीता १३-३३ वेदार्थसंग्रहः २७६ नयद्युमणौ यथार्थं सर्वविज्ञानम् १३४ यथार्थानुभवः प्रमा १८४ यथावस्थित पदार्थ ४३ यथा सर्वगतो विष्णुः २५५ यथाहितानामग्नीनां यदमे रोहितं रूपं यदाग्नेयोऽष्टाकपालः यद्यप्यरुणयेति यया क्षेत्रज्ञशक्तिः सा यस्मिन् पञ्च पञ्चजनाः यस्य चेतनस्य यस्य पुण्यादि २४ २६१,१५५,२६१ १२ ८१ २४०, २४१ २१० ५ 1 कुसुमाञ्जलिः ४ श्रीभाष्यम् वि. पु. छा. उ. ६-४-१ तै. सं. २-६-३-३ श्रीभाष्यम् १-१-१३ विष्णुपु. ६-७-६२ बृ. उ. ४-४. १७ वेदार्थसंग्रहः बृ. उ. ३-७-३ श्रीभाष्यम् २ यस्यात्मा शरीरम् ७८ यागानुरक्तो व्यापारः ७० याति स्थावरताम् ४ मनुः १९-९ यावदेका देवता कामयते ९२ येन तेषां प्रमाणत्व १८५ येन सर्व २१० भगवद्गीता २-१७ येनाश्रुतं श्रुतं ५४, ८० ये मनुष्यादिचतुर्मुखान्तानां १७५ ये यजन्ति पितॄन् देवान् ८० योगजन्यम् १९१ यो ब्रह्माणं विदधाति ४०, २०३ यो विज्ञाने तिष्ठन् १२५ यो वेद निहितं गुहायां २३२ योऽस्याध्याक्षः २३२ यौगिकत्वेन तच्छब्दं १४ रजसः पराके रसं ह्येवायं रसो वै सः २३२ २२२, २३२ २३२ राद्धान्तस्तु प्रवर्त्या रूपाणि स्थितिसर्गान्त १७७ रेखागवयादावपि १८६ लः कर्मणि च ९३ लब्धरूपे कचित् ५९ २३ छा. उ. ६-१-३ गीताभाष्यम् ८ - १७ शान्तिपर्व. ३५५-२४ श्रीभाष्यम् व. उ. ६-१८ बृ. उ. ६-७-२२ तै. उ. १-२-१ तै. सं. १-२ तै. सं. २-२-१२-५ तै. उ. १-७-१ . तै. उ. १-७-१ विष्णुपु. १-२-१७ श्रीभाष्यम् अष्टाध्यायी ३-४-६९ ब्रह्मसिद्धिः तर्कः २-२ लिङ्गादर्थप्रतीतिर्या लिङादिस्तत्र कार्यं चेत् ४६ वचसां वाच्यमुत्तमम् ७८ वज्रहस्तः, पुरन्दरः ८५ वाक्यं तदेव हि प्राह ९४ वाक्यं तदेवाभिप्रेयात् ४८ वाचा विरूपनित्यया १२२ उदाहृतप्रन्थान्तरषचनानुक्रमणी २२ २७७ प्र. पश्चिका १०३ प्र. पचिका १८८ ऋ. वे. ८-७५-६ वाच्यस्यार्थस्य वाक्यार्थे ११२ वायुमेव स्वेन भागधेयेनोप ८५ तै. सं. २-१-१-१ वायुर्नाभेरुत्थितः ११९ शाबरभाष्यम् विचिकित्सा श्रद्धा २५९ बृ. उ. १.५-३ विज्ञानं २३९ तै. उ. १-३-१ विज्ञानघन: ६० बृ. उ. २-४-१२ विधिनिमन्त्रणा मन्त्रण ९५ अष्टाध्यायी ३-३-१६१ विधेराकाङ्क्षितत्वेन २४ विद्यां चाविद्यां च २३३ ईशा. उ. ३-११ विनियुक्ता जपे कास्यत् २२ विनैव विषयं दोषैः १५१ विवेश वैष्णवं तेज: २३१ विषयप्रकाशतयैव १८२ रामा ७१-०-१२ श्रीभाष्यम् विष्णुं यजति ८५ विष्णोः स्वरूपात्परतो १७६ विहितस्याननुष्ठानात् २५१ वृद्धिरादैच् ३९ वेणुरन्धविभेदन ११९ वेदमध्यापयेदेनम् ११ वेदमेव जपेन्नित्यम् २१ वेदशब्देभ्य एवादौ ३९ विष्णुपु. १-२-२४ याज्ञ. स्मृति: ३-२१९ अष्टाध्यायी १-१-१ विष्णुपु. २-१४-३२ मनुस्मृतिः १-२१ वेदशास्त्राविरोधिना १६२,२०३ मनुस्मृतिः १२-१०६ वेदाख्यं मदनुशासनम् ९७ वेदाध्ययन समाप्तौ १३ वेदान्ताः प्रतिपादयन्त्येव १६९ वेदांश्च पूर्वानुपूर्वी ११५ वेदेन रूपे व्याकरोत् ३९ वेदैश्च सर्वैरहमेव ७८ गीताभाष्यम् १६-२३ वेदान्तसारः १-१-४ वेदान्तसारः तै. ब्रा. २-६-२ भगवद्गीता १५-१५ २७८ वैकुण्ठे तु परेलोके नयधुमणौ २३१ व्यक्ताव्यक्त १७७ व्याप्तस्य पक्षधर्मता २०० व्याप्य नारायणः स्थितः २४५ व्युत्पत्तिरिह कार्यार्थे ५० व्युत्पत्त्यभावः प्रतिपत्ति १७१ विष्णुपु. १-२-१५ कुसुमाञ्जलिः स्त ३ तै. उ. २-७ प्र. पचिका १-९-२ न्याय सुदर्शनम् व्रीहीभिर्यजेत ९४ व्रीहीनवहन्ति २०७ शक्तयः सर्वभावानां २६० विष्णुपु. १-३-२ शब्दस्य तु विशेषेण ८१ श्रीभाष्यम् शब्दानन्तरसंवित्तेः ६९ शरमयं बर्हिः २१२ शासु अनुशिष्टौ २०४ शास्त्रं वेदः, विधिरनुशासनम् ९७ शास्त्रप्रमाणकत्वं च १६९ श्रीभाष्यम् धातुपाठः १०७५ गीताभाष्यम् १६-२३ १-२-१ शास्रफलं प्रयोक्तरि ९८ मी. सू. ३-७-१८ शुन्धध्वं दैव्याय कर्मणे १२९ शृणोत प्रावाणः ४१,६१ श्रेयः साधनता ह्येषाम् ७१ तै. सं. १-१-३ तै. सं. १-३-१३-१ श्लोकवार्तिकम् संमाननादिसूत्रे तत् १४ संमाननोत्सञ्जन १२ अष्टाध्यायी १-३-३६ संवत्सरमिन्द्रं यजेत ८५ संसर्गविशेषवाचित्वम् स एकधा भवति १०१ श्रीभाष्यम् ४ छा. उ. ७-२६-२ स एनान् ब्रह्म गमयति ८० "" ४-१५-६ स एवैनं भूतिं गमयति ८५,२०८ स एष एव मृत्युः सकलफलप्रदो हि ८० सकल्पं सरहस्यं च १२,०० २१३ तै. सं. २-१-१-१ श. ब्र. १०-३-६-२३ मनुस्मृतिः २ १४० सङ्क्रान्तौ स्नायात् स गच्छत्य मितौजसं २०६ ३३२ कौ. उ. १-५ स खल्वेवं वर्तयन् २३४ छा. उ. ८-१-५१ सच्चेद्भाति कथं बाधः १३६,१४१ इष्टसिद्धि: १-१७ स त आत्मा अन्तर्याम्यमृतः २०९ सत्तां चेत्कल्पयेत्ख्यातिः १३६ बृ. उ. ३-७-३ इष्टसिद्धिः १-१४ उदाहृतग्रन्थान्तरवचनानुक्रमणी सत्त्वं रजस्तम इति २२३ सत्सन्तानप्रसूत २५ २७९ भगवद्गीता १४-५ श्रीभाष्यम् १४-५ सत्यं ज्ञानमनन्तं २२३,२२४,२२७, २३२ तै. उ. १-२-१-१ सदसद्भयामतो वाच्यम् १३६ इष्टसिद्धिः १-१७ सदेव सौम्येदमग्रे १२८ छा. उ. ६-२-१ सदैकरूपरूपाय २३१ विष्णुपु. १-२-१ सन्ततमाघारयति २११ सन्दिग्धे तु वाक्यशेषात् ८५ मी. सू. १-४-२९ सन्ध्यामुपासीत ७० सन्मूला : सोम्य २०८ सपर्यगाच्छुक्रम् २३२ छा. उ. ६-८-६ ईशा. उ. ८ सप्तदश प्राजापत्यान् २०९ समन्वयान्निरुह्यते १६९ समन्वयो निज्येन ४६ श्रीभाष्यम् प्र. पचिका १८३ समभिव्याहृतपदान्तर १०१ वैदार्थसंग्रहः २३१ समयो दुर्ग्रहः २१५ कुसुमाञ्जलिः ३-११ समर्थः पदविधिः १९० अष्टाध्यायी २१-१ समस्ताः शक्तयश्चैता: २३०,२३१ विष्णुपु. समानकर्तृकत्वेन १६ समानकर्तृताबुद्धिः १६ समानमितरत् २१२,२१३ आप. श्रौ. २२७-१८ समासमाविनाभावौ १९६ प्रश. भा. समिधो यजति २०९ तै. सं. २-१-१-१ समेन यदि नो व्याप्तः १९६ सम्बन्धादेवम् २११. ब्रह्मसूत्रम् ३-३-२० संभृति २०९
,, २३ समतेष्वपि २१७ सर्वं मन एव २५९ बृ. उ. १-५-३ सर्वं ह पश्यः पश्यति १९२,२३९,२४१ छा. उ. ७-२७-२ शान्तिप ३५५ सर्वं खल्विदम् ब्रह्म ६७,२३० छा. उ. ३-१-४१ सर्वं च वस्तुजातम् १७३ श्रीभाष्यम् २-२-३१ सर्व वस्तुजातम् १७३ " सर्व विज्ञानं यथार्थम १३४ सर्व विपरीतं मन्यते १३४ श्रीभाष्यम गीताभाष्यम् १८-३२ २८० सर्वगन्धः सर्वधर्मान् परित्यज्य सर्व भूतान्तरात्मानम् सर्वे निमेषा जज्ञिरे १७५ सर्वे वेदा यत्रैकं भवन्ति ७८ सर्वेषां तु स नामानि ३९ सर्वेष्वेव वाक्येषु १० स वराहो रूपं कृत्वा २०२ नययुमण २ २ २३३ ८० छा. उ. ३-१४-२ भगवद्गीता १८-६६ तै. उ. २-१-८ मनुस्मृति: १-२-२१ तै. व्रा. १-१-१९ स वा एष पुरुषः २१० बृ. उ. २-५.१८ स वा एष महानज ८०,२३९,२४५ 99 ४-४-२२ सहसैव न सर्वेषाम् १०९ सहस्रशीर्ष देवं २३४ सहस्रयुगपर्यन्तम् १७५ तै. उ. २ -११-१ भगवद्गीता ८-१७ सहस्रशीर्ष देवम् १२८ स हि कर्ता १६०, १६१ सादृश्यस्यानिमित्त २१५ साधकतमं करणम् ८४ तै. उ. २-११-१ बृ. उ. ४-३-१० कुसुमाञ्जलिः ३-११ अष्टाध्यायी १-४-४२ साधनाश्रययोरन्यतरत् १८४ साध्व्यधतेन चाचार्य १४ सामानाधिकरण्येन प्रतीति १३४ सास्य देवता ८६ गीताभाष्यम् १३-१ अष्टाध्यायी ४ -२-२४ सुरगणा महर्षयश्च १९२ गीताभाष्यम् १०-२ सुस्पष्टो हि विधिश्वात्र १७ सोऽध्वनः पारमाप्नोति २३२ सौर्यं चरुं २.१३ सौरी जपेद्वारुणीम् २३ स्नेहपूर्व मनुध्यानं २६२ स्मरणाच्च लिङा ६९ स्मरणानुमानागमयोगि ३७ श्रीभाष्यम् स्मरणानुमानागमयोः १८६ स्मृतिरनुभूतिविषयं १८२ गीताभाष्यम् १५-१५ स्मृतिव्यतिरिक्तानुभूति: १८२ स्मृत्यनवकाश १९१ स्योनं ते सदनं करोमि १२७ ब्रह्मसूत्रम् २-१-१ तै. ब्रा. ३-७-४३ स्वकीयेन प्रकाशयति १८२ स्वतो भाति प्रमाणता स्वयोगमहिमसाक्षात्कृत स्वर्गकामोऽग्निहोत्रं उदाहृतप्रन्थान्तरवचनानुक्रमणी ३० १९१ २८१ न्यायरत्नमाला श्रीभाष्यम् २-१-२ १०२ स्वर्गकामो यजेत ९५, ९८ तै. सं. १-५-५ स्वर्गकामो यजेतेत्यादिषु ९८ वेदार्थसंग्रहः स्वर्गादिः कामयोगाच्च ४७ प्र. पचिका १८२ स्वर्गादेः साध्यमानस्य ४६ "" १८३ स्वशासनावबोधि शास्त्रम् ९७ श्रीभाष्यम् स्वसत्तयैव स्वविषय १८२ स्वसत्तयैव स्वाश्रयम् १८२ स्वाधीनत्रिविधचेतनाचेतन १७९ गद्यत्रयम् स्वाध्यायस्य जपार्थत्वात २१ स्वाध्यायस्यार्थपरता २३ स्वाभाविकार्थपरता २३ स्वाराधनोपयोगि फल ८३ स्वाहा देवहविर्दाने ८६ गीताभाष्यम् ३-११ नामलि. ३-४-८ हिरण्यश्मश्रुर्हिरण्य ४ ह्रीश्च ते लक्ष्मीश्च २३१,२५५ छा. उ. १-६-६ तै, आ. ३-१३-१ 6 / T २८२ अन्तर्यामिब्राह्मणम् अर्चिरादिः अष्टाध्यायी आपस्तम्ब श्रौतसूत्रम् इष्टसिद्धि: नयमणी उदाहृतग्रन्थानुक्रमणी २२९,२३० १७९ ९१ १०,२३२, २३३ ६५, १३६,१४० ४, १२५,१२६, १०८, २०६, २३०, २३२,२३४,२४२,२५३; २५७ १२ उपनिषद: काशिकावृत्तिः किरणावली १५४ कुसुमाञ्जलिः कूर्मपुराणम् २३२ गद्यत्रयम तैत्तिरीयन्त्राह्मणम् तैत्तिरीय संहिता तैत्तिरीयारण्यकम् नीतिमाला नयप्रकाशिका नामलिङ्गानुशासनम् न्यायरत्नमाला १८४,१९७,२१५ १३१,१७९,२५५ १२८,२०३, २२३,०३२, ८६,८७,२११,२१९,२४५ १०,२३१,२३२ ९७ ९, १४४, १७९ ·८,८६ २८ १९,४६,११८,२०१ न्याय सुदर्शनम् १७१ प्रकरपचिका प्रशस्तपादभाष्यम् १९६ ब्रह्मसिद्धिः ५९ ब्रह्मसूत्रम् भगवद्गीता भगवद्गीताभाष्यम् मनुस्मृति: महाभारतम् १२२, १२८,१७०,१७१, १७४ ९८, ११०,१९२ ८३,९७,१३४,१६३, १७५, १७८,१९२ ४३ ४०, २०४ महाभाष्यम् मीमांसासूत्रम् याज्ञवल्क्यस्मृतिः रामायणम् १९० १२,२४ ११,२०,२५१ २३०,२३१विधिविवेकः विष्णुपुराणम् वेदान्तदीपः वेदान्तसारः वेदार्थसंग्रहः वृत्तिकारमन्थः शतपथब्राह्मणम् उदाहृतप्रन्थानुक्रमणी ७०,७२,७३ १६२, १७७,१७९,२३० ११५,१६९,१७३,१७४ २८३ २५, ११४,११५,१६९, १७०, १७४ ४२,४३,८७,८८,९१, ९५,९६, ९७,९८, १००, ११४, ११५, १७८, १८८, २०५, १८६,२०१ १२,२०,२१३ शाबरभाष्यम् ११९ श्रीपाचरात्रम् श्रीभाष्यम् २३२ श्राभाष्यविवरणम् श्लोकवार्तिकम् सिद्धित्रयम् ८,२४,२५,३७,४१,४२,४३,६४, ८१,८७,९१,९४,९६, ९७, १८, १०१, १०२, १०६, ११०, ११४, ११५,१३०,१३५,१३८, १४४, १५४,१५८, १६१, १६९, १७०, १७१, १७२, १७३, १७४, १७५, १७७, १७८, १८२, १८६, १८७, १८८, १८९,१९१,१९२, १९३, २०१,२१२,२२२, २२९,२३४, २३८,२४५ १७१ २८,११२,१९६,२१६ २४७ नियमणौ- २८४ अमरसिंहः उदयनः कुमारिल: पतञ्जलिः उदाहृतग्रन्थकारानुक्रमणी १८,८६ १५४, १८४, १९७, २१.५ २८,११२,९६,२१६ २२७ १५८, १७७,१७८,१९७ १४,३९,४५,८४,९१ पराशरः पाणिनिः पार्थसारथिमिश्रः २८ प्रशस्तपादः १९६ २२९ भास्करः मण्डनमिश्रः मनुः याज्ञवल्क्यः यादवप्रकाशः यामुनाचार्यः रामानुजः ७०,७२, १०८ १५८ ११,२०२५१ २२९,२३० २४७ ८,४३,८०,८८,९४, १०२, ११५, १२५,१३४,१३८,१६६, १६९, १७०,१८१,१८२,१७३, १७४, १७५, १८१,१८२,१८६, २०१, २२८,२३१ वरदनारायणभट्टारकः १७१ वादिसिंहः १७९ वामनः .१२ वाल्मीकिः २३१ विमुक्तात्मा शबरस्वामी शालिकनाथः श्रीराममिश्रः ६५, १३६,१४० ११९ १९,४६,२०१ २५,१७१.