उत्तमूरु-वीरराघवः

[[TODO: शोधनीयम्। विभाग-पङ्क्तयो लेख्याः ]]

भूमिका श्रीमतां मद्रनगरराजकीय-प्राच्यलिखित-पुस्तक-भाण्डागाराध्यक्षाणाम् अभिज्ञ-मणीनां
चन्द्र-शेखर-दीक्षित ( M. A., ) महाशयानां
सादर-प्रेरण-समुत्साहिताभ्याम्
आवाभ्याम् अयम् एतावद् अमुद्रितः
प्राचीनो नयमणिनामा गभीरो विशिष्टाद्वैत-वाद-ग्रन्थो मुद्रणार्हं परिष्कृत्यावश्यक-टिप्पणी-सहितः प्रत्यर्पितो
यथावन्-मुद्रितः
साम्प्रतं प्राकाश्यं प्राप्यते ।

मेघनादारिः

एतस्य ग्रन्थस्य प्रणेता
तत्र-भवान् नाम्ना मेघ-नादारिर् महान् सूरिः ।
अनेन निर्मिता अनेके ग्रन्थाः । तत्रैका श्रीभाष्य-व्याख्या नय-प्रकाशिका ;
या खल्व् अत्र मे सहाय-भूतैः श्रीमद्भिः विद्वद्वरैः वे. कृष्णमाचार्यैः
सर्व-व्याख्या-सहित-श्रीभाष्य-मुद्रण-व्यावृतैः साग्रजैः
प्राक् प्रकाशिता
प्राज्ञानां बहुश्रुतानां परम-प्रीणनी प्रत्यक्ष्यते ।
स एष सूरिः सर्वेष्व् अपि शास्त्रेषु सम्यङ् निष्णातः सु-बहु-विचार-व्यग्रो
वैनयिकम् इव नैसर्गिकम् अपि निरूपण-नैपुणम् अधिगतः
पदे-पदे पूर्व-मीमांसा-विषयम् अपि
तत्र विशेष-प्रवेश-विरहिणाम् अपि
विशदावगमौपयिकं निबध्नन्
विवक्षितं विवृणोतीति अदसीय-भाष्य-व्याख्योपक्रम-श्लोकत इव
ग्रन्थानुवचनतोऽपि सुज्ञानम् ।

मेघनादारिर् इति नामघोयम्
अस्य विलक्षणं सत्
अस्य धी-वैलक्षण्यम् अपि नः सूचयतीव ।
लक्ष्मणः, रामानुजः, मेघनादारिर् इति पर्यायाः ।
मेघनाद इति
इन्द्रजितो रावण-तनयस्य नाम ।
तस्यारिर् लक्ष्मण इति ।
भगवतो भाष्य-कृतो रामानुजेति नाम्नेवायं तत्पर्यायेण
मेघनादारिरिति नाम्ना प्रसिद्ध्यति ।

अधिकरण-सारावलि-व्याख्यासु लेखक-लिखितं
मेघनाद इति मेघनाथ इति चैतन् नाम ।
तत् प्रामादिकम् ।

ग्रन्थ-कर्तुर् गुरुदेवतादि

अयमस्मिन् नयद्युमणौ प्रथमप्रकरणे
श्रीहयग्रीवं परं प्रणतवान् अपि
उपरितनेषु प्रकरणेषु हनूमन्तम् अपि नमस्यति ।
तद् अयं विद्यार्थी वा फलान्तरार्थं तस्याप्य् उपासक इति ज्ञायते ।

अयम् आत्रेय-नाथ-सूरि–सूनुर् इत्य् आत्मानं व्यपदिशति ।
न केवलम् एतावत्;

‘रामावरजयोगी च
नाथार्यश् चात्रिगोत्रवान् '

[[xlii]]

इति पितृपाद-प्रावण्यस्यापि प्रदर्शनाद्
अयं तत एवाधीत-वेदान्तादि-विद्यः स्याद्
इति संभाव्यमानं
तथात्वेन सुनिश्चितं भवति
नय-प्रकाशिका-प्रथम-श्लोकेन ।
स हि

“श्रीमदात्रेय-नाथार्यान्
गुरून्नः परमान् गुरून् ।
श्रीराम-प्रमुखान् सर्वान्
श्रीमद्रामानुजं मुनिम् ॥”

इत्येवम् ।
तस्य नाथ इति नाम
नूनं रङ्गनाथ इति नामैकदेश इति सुवचम्,
यथा विशिष्टाद्वैत-सिद्धान्त-कूट-स्थस्योभय–वेदान्त-प्रवर्तकाचार्यस्य भगवन्-नाथमुनेर् नाथ इति नामधेयं रङ्गनाथ इति नाम्न एवैकेदश इति । स्तोत्रभाष्ये हि श्रीमन्निगमान्तदेशिकैरेव मिदमभाष्यत । एवं हि नामैकदे- शनिर्देशादविशेषादात्मानं प्रत्यपि तस्य नाथत्वमाविष्क्रियत इव । तस्य श्रीभगवन्नाथमुने नामधेयमिति वा तावदेवास्य नामधेयमकारि प्रथमत एवेत्यपि न भवति न साम्प्रतम् । एवमात्रेयनाथसूरिस्सन्नयमात्रेय इत्यपि विदितमासीत् । अन्यदुपरिष्टात् ।

परमगुरवः

सोऽयम् सः अयम् श्रीराममिश्रान् परमगुरुत्वेन निर्दिशन् तत्प्रशिष्यतां स्वस्मिन् प्रकटयतीव ।

श्रीराम-मिश्राः च षडर्थसंक्षपादिग्रन्थनिर्मातार इति न्यायसिद्धाञ्जनादितः अपि (बुद्धिपरिच्छेदे ) निश्चितम् एतत् ।

षडर्थसंक्षेपः, षडर्थसंग्रह इत्य् अपि तत्रैव व्यवहृतः । श्

रीमति च रहस्यत्रयसारे सिद्धोपायशोधनाधिकारे “उभयाधिष्ठानः चैकम् शेषित्वम्” इति षडर्थसंक्षेपवाक्यम् उदाहृत्य श्रीश्रीशयोर् उभयोर् जगन्निरूपितं शेषित्वम् एकम् इति स्थापितम् ।

तत्रैषां श्रीराम मिश्राणां सोमाशियाण्डान् इति द्रमिडनामधेयं निरदेशि ।
नूनम् अत्र नयद्युमणौ सिद्धान्ते स्वाभिसंहितार्थसंवादितयोदाहृताः कारिका अपि तदीयाः स्युः ।

भगवद्-यामुन-मुनीनाम् आचार्याः ‘मणक्काल्नम्बि’ इति प्रख्याताः,

अनुज्झितक्षमायोगम् अपुण्यजनबाधकम् । अस्पृष्टमदरागं तं रामं तुर्यम् उपास्महे ॥

इति श्रीदेशिकस्तुताः श्रीराम मिश्राः तु अन्ये प्रकृताः तु भगवद्रामानुजस्वामिपादान्तेवासिनः ।

[[Pxliii]]

संप्रदाय-तात्कालिक-स्थितिः

अस्य च महाप्रज्ञस्य मेघनादारिसूरेः काले भगवद्भाष्यकाराभिमत- प्रमाणप्रमेयपरिगणन प्रकारे सयूथ्यकलहः स्थित इति एतद्ग्रन्थ एव दर्शयति । प्रायशो मतप्रवर्तकाचार्यै र्ये न कण्ठोक्ताः केचनांशाः, केवलं व्यञ्जनयोत्प्रेक्ष्याः सन्ति, तत्रार्वाचीनानामभिप्रायमेदाः प्रादुष्षन्तीति सर्वमतसाधारणोऽयमर्थः । पश्यत सिद्धान्तलेशसंग्रहं सर्वशास्त्रपारावारपारीण अद्वैतपरमाचार्य - श्रीमदप्पय्यदीक्षितविरचितम् ; यत्र हि श्रीशङ्करभगवत्पाद भाष्यादिग्रन्थप्रवचन- पराणां प्राचीननवीनप्रस्थानभेदभिदुराणां बहूनामाचार्याणाम् ईश्वरलक्षण- जीवलक्षण - जीवैक्यनानात्व - मायाविद्याद्यनेकप्रमेयनिरूपणविषये पारस्परिकं विरोधं प्रत्यक्षं पश्यामः । एवमनन्तभेददर्शनेऽपि ब्रह्मकमेव सत्यमिति सिद्धान्तस्तत्र साधारणो भवतीति प्रधानार्थाविरोधे अन्येऽशाः बहुलं भिद्यमाना अपि मतैक्यं न घ्नन्ति । तथैव चिदचिद्विशिष्टं ब्रह्मतत्वं परमार्थ इति भगवद्रामानुजस्वामि- पादसिद्धान्तानुयायिषु प्रमाणप्रेमयपरिगणनविषयविविधविमतिसमुन्मेषेऽपि न विवेकिनां केशाकेशिप्रसक्तिः कियत्यपि । दर्शयति चायं नयप्रकाशिकायां (१३४२ पु .) प्रमाणपरिगणनमादौ कुर्वाणः, “प्रत्यक्षादिप्रमाणपञ्चकस्वीकारे भाष्यकारकालसमीपकालवर्तिविष्ण्वार्यविरचितग्रन्थे प्रमाणपञ्चकस्यैव भाष्य- काराभिमतत्वेन लक्षितत्वदर्शनाच्च । न च तद्ग्रन्थे भाष्यविरुद्धस्य जीवविभुत्वादिप्रसाधनस्य दर्शनात् तत्र नाऽऽप्तिरिति वाच्यम् - कण्ठोक्तार्थ- विरुद्धस्य त्यागेऽप्यविरुद्धांशत्यागायोगात् । न हि प्रत्यक्षश्रुतिविरुद्ध सर्ववेष्टनस्मृतेः स्यागे सर्वस्मृतीनां त्यागः । अतः प्रमाणपश्च काङ्गीकारो भगवतो भाष्यकारस्य” इति ।

तत्कृतप्रमेयगणनभङ्गी

अथ तानि प्रमाणानि लक्षयित्वा सिद्धान्तेऽस्मिन् प्रमेयपरिस्थितिमप्या- वेदयति, “अस्माकं प्रमेयसंग्रहस्तु" इत्यादिना । " द्रव्यगुणकर्माणि त्रीण्येव पदार्था” इत्युपक्रम्यावान्तरमिदा अपि विवृण्वन् कालादिविषये वैमत्यमभ्युद्घाट्य स्वसंमतप्रक्रियां साधयति च । तत्र तत्र स्वोक्तार्थे बहूनां विमर्ति संभावयन्नेव पण्डितान् प्रार्थयते— “चिरकालप्रयत्नेन बहुशास्त्रनिरीक्षणात् महता चावधानेन कृतस्यास्य निरीक्षणम् " आदावेव नयप्रकाशिकायाम् । xliv अथ तत्र “द्रव्यं द्विविधं चेतनमचेतनञ्च” इति पूर्वं विभज्य, “अचिच्च पुनर्द्विविधं प्राकृतमप्राकृतञ्च” इत्युक्त्वा तदुपपादनानन्तरम्, “चिद्रव्यश्च त्रिविधं परजीवज्ञानभेदात्” इत्याह । अत्र च चेतनाचेतन रूपेण स्वदर्शितद्वैविध्यवत् ज्ञानपर्यायचिद्ग्रहणेन चिदचिद्भेदेनापि द्वैविध्यं मनसिकृत्यायं विभाग इति ज्ञायते । न चेत्, चेतनमेव चेत् चित्पदविवक्षितं स्यात्, अचेतनद्वैविध्यं चेतनत्रैविध्यश्चोतरूपं न संगच्छेत । अथ स्वावसरे दिक्कालयोः कथं परित्याग इति प्रश्नं समाधाय महता संरम्भेण कालपार्थक्यं परास्यति । एतदर्थे चात्र नयद्युमणावपि किश्चित् प्रकरणं प्रावर्ति । उपरि, “वायुव्यतिरिक्त महाभूतानि चाक्षुषाणि । आकाशस्यापि चाक्षुषत्वं भाष्य एव साधितम्” इति कश्चिद् विशेषमुपक्षिप्य गुणनिरूपणघट्टे, “रागद्वेषादयस्तु मनोवस्थाभेदा एव ; न गुणाः । रागाद्युपादानेन, ‘सर्वं मन एव इति श्रवणात् । सुखदुःखे च ज्ञानविशेषावेव । बुद्धिरपि महत्तत्त्वावस्थैव । धर्माधर्मावपि कर्मविशेषावेव, नात्मनो गुणौ । भावनाख्यसंस्कारोऽप्यचिद्गुण एव ।” इत्यादिकमुक्त्वा, “ एतत् सर्वं भाष्यकारोक्तावेव प्रतीयते । विस्तर- भयान्निवृत्तम् । प्रासङ्गिकोऽयं घोषः । प्रकृतमनुसरामः" इत्युपसंहरति । एवं तत्र रागद्वेषादेर्मनोवस्थात्वं वर्णितवानपि अत्र नयद्युमणौ प्रमेयनिरूपणे ( २५९. पु.) धर्मभूतज्ञानावस्थाविशेषत्वम् ‘इच्छा द्वेषः सुखं दुःखम् ’ इति गीताभाष्यानुगुणमेवाह ।

श्रीदेशिकग्रन्थेषु निष्कर्षः

नूनमेवंविधविविधक्षोभशमन विधित्सयैव सर्वतन्त्र स्वतन्त्रैः कवितार्किक - सिंहैः श्रीमन्निगमान्तमहादेशिकैः न्यायसिद्धाञ्जनम्, न्यायपरिशुद्धिः, सर्वार्थसिद्धि- सहितस्तत्त्वमुक्ताकलापश्चेति सिद्धान्तनिर्धारणार्था निबन्धा न्यबध्यन्त । यत्र सर्वं सामग्रयेण समैक्षि, सम्यगुपादेशि चान्ते, “निष्क्रष्टुं कश्चिदन्यः प्रभवति भगवलक्ष्मणाचार्यमुद्राम् अक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्न मत्तः || ” इति । पदार्थानां द्रव्यगुणकर्मरूपेण त्रैविध्यमेतदिष्टं मानयाथात्म्यनिर्णये वरदविष्णुमित्रैरप्युक्तमिति अदव्यपरिच्छेदे (न्यायसिद्धाञ्जने ) श्रीदेशिकैरदर्शि । भट्टपराशरपादैः पुनः, ‘द्रव्यं जातिर्गुणः कर्मेत्य सावर्थश्चतुर्विधः’ इति xly चातुर्विध्यं वर्णित मित्यप्युक्तम् । परं तु तत्र न निर्भर इत्यपि तत्रैव विमृष्टम् । एवं न्यायसिद्धासने प्राच्यग्रन्था इव श्रीभगवद्भाष्यकारानुयायिनां पूर्वाचार्याणां ग्रन्था अपि बहवः सितासितरूपास्तत्र तत्र निर्दिष्टाः; य इमे — १. नीतिमाला – (ज. प.) नारायणार्याणाम् . २. ३. ४. न्यायकुलिशम् – (बु. प.) वादिहंसाम्बुदाचार्याणाम् न्यायसुदर्शनम् – (ज. प. ) वरदनारायणभट्टारकाणाम्

प्रज्ञापरित्राणम् (जी. प ) "” ५. प्रमेयसंग्रहः – ( ज प . ) श्रीविष्णुचित्ताचार्याणाम् ६. ७. ८. उपनिषद्याख्यानम् - ( अद्र . प . ) श्रीभाष्यविवरणम् संगतिमाला – (जी. प.) श्रीराम मिश्राणां वा ९. १०. षडर्थसंक्षेप : – (ज. प.) श्रीराममिश्राणाम् (सोमाशियांण्डान् ) तत्त्वरत्नाकरः

भट्टपराशरपादानाम् ११. तत्त्वसार: – (ज. प.) वरदगुरूणाम् १२. मानयाथात्म्यनिर्णयः - वरन विष्णुमिश्रा श्रीभाष्यविवरणवत् वेदार्थसंग्रहविवरणमध्यासीत् तदेककर्तृकमित्यपि तत एवावसीयते । श्रीराम मिश्रविरचितं वेदार्थसंग्रहव्याख्यानमपि परिमाण- निरूपणप्रकरणे ऽत्रोदाहारि । अधिकरणसारावल्याम्, “विष्णुचित्तैर्विवत्रे" इत्युक्तत्वात् विवरणं श्रीविष्णुचित्तार्यविरचितमिति केचित् । प्रमेयसंग्रहस्तु विवरणादन्य एवेत्यपि आकाशनिरूपणप्रकरणे “प्रमेयसंग्रहश्वे “ति पृथग्ग्रहणाद् ज्ञायते । श्रीराम मिश्रा विवरणकारा इति अस्मादेव ग्रन्थादवगम्यते 1 अत्र हि जडद्रव्यपरिच्छेदान्ते, “द्वितीयस्तु पक्षो विवरणकाराङ्गीकृतः । षडर्थसंक्षेपे हि अचितो जीवेश्वरयोः” इत्यादि, “विवरणेऽपि अयमेवार्थः प्रपश्ञ्चितः " इति च अधिकरणचिन्तामणितः पूर्वाचार्यादिविषयो ज्ञायमानस्तावत् – ‘एके मेघनादारिसूरिप्रभृतयः । सेनेश्वरार्याः श्रीरङ्गराजान्तरङ्ग- परिकरतल्लजाः शारीरकाधिकरणार्थसंग्रहपद्यनिर्मातारः । वकुलभृत्किङ्कराः- वरदनारायणभट्टारकाः न्यायसुदर्शनकर्तारः । श्रीविष्णुचित्ताः शठमर्षण गोत्र- प्रभवाः प्रमेयसंग्रहकर्तारः’ इति । अत्र विवरणं श्रीविष्णुचित्तकृतत्वेन नोकम् । अस्तु वा विवरणं विभिन्नं तत्तत्कर्तृकमिति । xlvi

एतद्ग्रन्थ-तादात्विक-परिचयः

एवं बहून् ग्रन्थान् आदाय युक्तायुक्त-विमर्श-व्यग्राणां श्रीमन्निगमान्त-महादेशिकानां ग्रन्थेऽस्मिन्
एतन्-मेघनादारि-सूरीणां वा तद्ग्रन्थानां वा निर्देशस्यादर्शनात्
एतदीयग्रन्थास् तदा चक्षुर् गोचरताम् अध्यगुर् न वेति विमृश्यम् ।
तावता एतद्-अभिप्रायस् तैः कथम् अप्यवधृत इत्यत्र न विशयः । यदेवमाहुरधिकरण-सारावलौ-

“द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्धयोः । औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयम् शास्त्रारम्भार्थमेकं त्रितयमिह परं शास्त्रमित्याहुरेके ॥”

" यत् तत् सेनेश्वरायैरगणि वकुलभृत्किङ्करैरङ्ग्यकारि व्यासार्यैर्न्यासि च द्विः श्रुतमिति विशदं विष्णुचित्तैर्विचक्रे । अश्रौषं शेषकल्पादहमपि विदुषो वादिहंसाम्बुवाहात् अद्धा निर्धायतेऽतश्चतुरधिकरणी ब्रह्मचिन्तोपयुक्ता ॥ "

२४ २५ इति प्रथमसूत्रमुपोद्घातः, सर्वमन्यत् शास्त्रमित्येतदीयं मतमनूद्य तद्बहूनामसंमतमिति, असांप्रदायिकमिति च । एवमिच्छाद्वेषादीनां मनोवस्थात्वमे- भिर्दर्शितमात्मसिद्धिश्रीभाष्यादिदत्तहस्तावलम्बमिव प्रतीतमधिकृत्य सुबह विचारेऽवतीर्य, “बुद्धिरेवोपाधिभेदात् सुखदुःखेच्छाद्वेषप्रयत्नरूपे " ति स्वाभिमतमर्थम्, “अश्रुतसिद्धान्तस्य पुंस्तकनिरीक्षणादयं दोषः” इत्याद्युपक्षेप- पूर्वम्, विमृश्य, “यद्यपि इच्छाद्वेषसुखदुःखान्यात्मधर्मभूतानि, तथाप्यात्मनः क्षेत्र संबन्ध प्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते” इति गीता- भाष्यानुवादेन स्थापयद्भिरर्थादेतदाशयो निराकृतः । अथवा स्यादनेन नयप्रका- शिकायामन्यथोक्तेऽप्यत्र नयद्युमणौ इच्छाद्वेषादेर्ज्ञानावस्थारूपत्वस्यैवोक्तः प्रागेव दर्शितत्वात् अन्यग्रन्थकारमतनिरास एवायमिति । कालद्रव्यस्यातिरिक्तता - मुपपादयन्तोऽपि यत एतदाशयं न विशिष्योद्भाव्य तत्र तत्र वक्तव्ये परिहारे श्रीदेशिकचरणाः स्त्रग्रन्थेषु व्याप्रियन्त, परमतिरिक्ततां समगृह्णन्, तेन ज्ञायते साक्षादेषां ग्रन्थस्तेषां दृष्टिगोचरो नाभूदिति । एते खल्वत्र कालतत्त्वशो- धनप्रकरणे जैननिराकरणभाष्यसूक्तिमधिकृत्य सूदुरपरिशीलनेन विष्णुपुराणादि- वचनानामाशयान्तरोपवर्णनेन च कालपार्थक्यं परिहरन्तः, “यदि यत्र 1 xlvii कापि भाष्यकारीयग्रन्थेष्वपि द्रव्यत्वाद्युक्तिः स्यात्, सा प्रदर्शनीया तस्य पृथग्द्रव्यत्ववादिभिः । सा च शिरसोह्यते प्रमाणपूर्वकम् । तदात्वे द्रव्यत्वञ्चाङ्गीक्रियतेऽस्माभिः” इति, “भाष्यकारेभ्योऽर्वाचीनोक्तिषु तदुक्ति- विरुद्धासु तासु नास्माकं विश्वासः । वयं हि भाष्यकारमतानुसारिणः” इति च स्वाभिमतार्थस्थापने संरम्भमधिकं प्रदर्शयन्ति । न खल्वीदृशांशविशेषशोधन- वैयग्री श्रीदेशिकग्रन्थेषु विस्तरेण लक्ष्यते । यद्वा सर्वार्थसिद्धयादौ किंचिद्वि- शदमुक्ततया दृष्टस्यापि ग्रन्थस्योपेक्षैवोद्दिष्टेति । एवं प्रमाणसंख्याविषयेऽप्येषामन्ये- षाञ्च संप्रदायनिष्णातानामाशयो विभिन्न इति च व्यक्तम् । एक्मनेकेष्वंशेषु अभिप्रायभेदो भगवद्भाष्यकार सिद्धान्तानुयायिषु तदात्वे नूनमासीत् । परं तु यदा श्रीमन्निगमान्तमहा देशिकैः प्रायः सर्वं परिशोध्य प्रागुक्तरीत्या अनन्यसामान्यया प्रमाणत कपन्यासवैखर्या निष्कम्पनिर्धारितम्, तदनन्तरं सर्वेऽपि प्रायेणै- करस्यं बिभ्रतः प्राक्तनान् ग्रन्थानपि परितत्यजुरित्यप्यालोचनमवसरमश्नुते । पण्डितभूयिष्ठे प्राक्तनेपि काले यदीदृशी परिस्थितिः, का कथा साम्प्रतमिति सर्वे विदाङ्कुर्वन्तु । उपरि च क्रमेणैतदाशयं यथावसरं संगृह्य विभ्रश्यामः । अनेनास्मिन् ग्रन्थे विचारिता विषयास्तावत्- १. शरीरलक्षणम, अध्ययनविधिः,

७. श्रुतिलिङ्गादि, ८. यथार्थख्यातिः, २. ३. स्वतः प्रामाण्यम्, ९. उपोद्घातांशः, 1. वाक्यार्थः, १०. कालतत्वम ५. अन्विताभिधानम्, ११. प्रमाणम्, ६. शब्द:, १२. प्रमेयम् इत्येते । अत्र लक्ष्मीः, कैवल्यमित्यादिविषयगोचर एतदाशयोऽपि प्रसङ्गादाविष्कृतोऽस्ति । सर्वमिदं पश्चात् प्रदर्शयिष्यते ।

ग्रन्थगरिमा

‘ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्’ इति मुण्डकोपनिषदाह । एकविज्ञानेन सर्वविज्ञानं भवतीति प्रतिज्ञेवानेनापि वचनेनानूद्यत इति सर्वे संमन्यन्ते । अर्थान्तरमप्युपनिषदियमाकलयतीव । सर्वाण्यपि विद्यास्थानानि प्रतिष्ठां लभन्ते ब्रह्मविद्यया । वेदस्याङ्गभूतानि विद्यास्थानानि । वेदे कृत्स्ने वेदान्तः प्रधानभूतः । सा ब्रह्मविद्या । तदधिगमार्थत्वाभावे सर्वाणि xlviii विद्यास्थानानि सम्यगभ्यस्तान्यपि नार्थाय कल्पन्ते । एवं सर्वविद्याधिगमाभावे ब्रह्मविद्याऽपि यथावदुरधिगमा । भगवान् बादरायणश्च शारीरके सर्वाणि तत्त्वदर्शनानि विमृश्य निरस्य वेदान्तप्रमेयं प्रतिष्ठापयन् स्वशास्त्रस्य सर्वशास्त्रविद्वदेक सुज्ञानत्वं गमयति । पूर्वोत्तरमीमांसयोरैकशास्त्र्यमाकलयन्तो विशिष्टाद्वैतिनः तदनिच्छन्तोऽद्वै तिन श्वाविशेषेण पूर्वमीमांसेोपजीवनं विना यथा वेदान्तशास्त्रं दुरधिगममध्यवसीयेत, तथैव व्याख्याग्रन्थान् विहितवन्तः सन्ति । नूनं सूत्रकृदेव क्रियासमभिहारेण, “तदुक्त" मिति पूर्वमीमांसां स्वशिष्यकृतां सादरमुपनिबध्नन् अनुयायिनामीदृशीं शैलीं शिक्षयामासेव । एवं बहुसापेक्षस्यास्य वेदान्तशास्त्रस्य प्रमेयं किञ्चिद् विचारयितुं प्रवृत्त एवायं श्री मेघनादारिसूरिः परमतविलक्षणस्य वेदान्तमतस्य व्युत्पादनानुकूलं निखिलशास्त्र विज्ञानं नितरामधिगतवानिति एतद्ग्रन्थ- शोधनमुद्रणादिकं नैवानायासेन कर्तुं शक्यम् । एवम्भूतस्य यदि मातृका अपि परिमिताः, उपलब्धा अपि विशिष्टज्ञानविधुरलेखकप्रमादविपरीत ग्रहादि - भावित विविधविपर्ययाश्च, तर्हि कथं निर्दुष्टमेव निःशेषं मुद्रयितुं निपुणा भवेम । एवमपि यथाशक्ति प्रयत्य यत् कृतम्, तत्र गुणमात्रग्राहिभिः विद्वद्भिः प्रसन्नैः संतोष्टव्यमिति प्राथ्यते । अत्र निपुणेन विदुषा नितान्ताव- धानेन लेखकेन लिखित: श्लोकोऽपि ग्रन्थान्ते संयोजितो दर्शनमर्हति । वृत्त एवं सामान्यतो भूमिकाविषयः । अथ विशेषरूपेण ग्रन्थप्रमेयं विम्रष्टुमुपक्रम्यते ।

प्रमेय-विमर्शः

प्रणम्य श्रीहयग्रीवं
परमार्थो विमृश्यते ।
मेघनादारि-सूरीन्द्र-
नयद्यूमणिवर्णितः ॥

श्रियः पतेर्भगवतः सर्वेश्वरस्य सार्वभौमं सौहार्दमेव प्राधान्येनेोपजीव्य सनातनो वेदघण्टापथस्तदातदा संभूतैः संप्रदायलब्ध सारार्थैः सात्त्विक- प्राज्ञसंमान्यैः सर्वतोमुखवैदुष्यविख्यातैर्विशिष्टाचार्यैः तत्तत्समयसंप्रत्यवस्थित बाह्यजनक्षोभभावितविपरीत भावपरीत लोकवि कर्णिकण्टककश्मलाद्यपनयनेन विज्ञा- नज्योतिषा विशोध्यमानः साधूनामशेषाणामनंपायप्रचारानुकूले। वरीवर्तीति विश्वतो निश्चप्रचमेतत् । यदि वेदाङ्गभूतानि व्याकरणादीन्यपि, स्वयं यमंशमुपपाद्याङ्गभावमनुभवितुमात्मानमलभन्त, तस्मिन्नंशे परमस्थित्वा अन्यस्मिन्न- प्यंशे पदं निक्षिपन्ति अयथायथं व्याप्रियमाणानि तावत्यंशे अविश्वसनीयान्याप- xlix द्यन्ते, तन्न चित्रमेतत् यत् सांख्ययोगादीनि तन्त्राणि प्रतिनियतार्थप्रतिपादन- मात्रेऽनुपरम्य अप्रस्तोतव्यार्थ प्रस्तावे प्रगल्भमानानि कालक्रमेण कार्त्स्न्येनोपे- क्ष्याणि संवृत्तानीति । मुख्यतया प्रतिपिपादयिषितोऽप्यर्थः प्रमाणमूर्धन्यं वेदं दूरतो विनिक्षिप्य परप्रीणनमनोरथैः पुरुषैस्तर्केण केवलेन प्रतिपाद्यमानः, यथा सोऽर्थः तथा तदुपपादनपाटव पौष्कल्यहान्या विकलं प्रतिपाद्यमानः प्रामाणि- काग्रेसरैः परिहियमाणो भवतीति न किञ्चिदवशिष्यते तादृशस्तन्त्रतोऽधि- गन्तव्यम् । तदधुना तत्त्वसरणौ वेदान्त एव नः शरणम् । सोऽयं वेदान्तोऽपि सर्वश। खासमाहारपरामर्शनीयप्रमेयः, " इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति || " इति स्मरणानुसरणेन सर्वशाखा साक्षात्कारिपरमर्षिप्रणीतेतिहासपुराणा लोडन- पूर्वमेत्र निर्धारणीयतत्त्वः तथैव निर्धारणप्रवृत्तैः प्राच्यैर्बहुभिराचार्यैर्विचारपय- मानीतो विविधमतरूपेण विवृत्तो बहुश्रुतानामपि बुद्धिस्थैर्य संपत्तिनिरोध के वर्त्मनि विहितप्रचार एव लक्ष्यते । एवमपि ततोऽन्यस्योत्तारणोपायस्य विरहात् तत्रान्यतममाद्रियमाणोऽपि जन: अनतिविप्रकर्षात् अव्याजानुग्रहमूर्तिना भगवता अनतिचिरेणोद्धियमाणः सर्वज्ञविज्ञाते सत्ये पथि प्रेरितः तेनैव पथा संचरमाणः समधिगन्तव्यं निःश्रेयसमधिगमिष्यतीति प्रतिपत्तव्यम् । स्थावरतिर्यगादिदशासु स्थितानपि जीवान् आदेशवश्यतानुकूलं द्विपाज्जन्म लम्भयन् शनैःशनैर्ब्राह्यादिमतेभ्यो निवर्तयन् स भगवान् सगोत्रकलहक्षुब्ध- हृदयान् परं सर्वथा संत्यक्ष्यतीति न खलु कश्चिन्निरङ्कुशं निरूपयितुं पारयेत् । तस्माद् विविधवेदान्तमत विवादविसंष्ठुलमान सैरपि विस्तम्भवद्भिरेव भाव्यम्, यदस्ति विनैव विशेषतो विलम्बं समीहितसिद्धिः 1 अत एव मिथो वादप्रतिवादविवृद्धावप्यन्तरङ्गत्वबुद्धया प्रेमतरङ्गितान्तरङ्गैरेव परस्परसंसक्तैर्भाव्यं प्राज्ञप्रकाण्डैः सौभ्रात्रं वहद्भिरिति च नापूर्वं निवेद्यमस्ति । तत्र विशिष्टाद्वैत- सिद्धान्तमनुरुध्य साम्प्रतं भूमिकां लेखितुं लब्धावसरोऽहमेवमुपक्षिपामि -

प्राच्यनव्यविभागः

वेदान्तवास्तवार्थवर्णनेदम्परेषु मतेषु प्राच्येषु नव्येषु च कतमत् परिप्राह्ममित्यत्र केचिदेवमाशेरते, यत् — किमनेन पुराणनवीनभावपर्यालोडनेन ! G 1 “तदात्वे नूतनं सर्वमायत्याश्च पुरातनम् । न दोषायैतदुभयं न गुणाय च कल्पते ॥ " इति विमृश्योपपन्नमूरीकार्यमिति । तदिदमन्वारुह्यवादेनाऽऽविरकारि श्रीदेशिक- चरणैः, “यतिक्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किम् ? ततः प्रागेवान्यत् वद तदपि किं वर्णनिकषे ।” इति । परे पुनरित्थं परिशीलयितुमीहन्ते, तर्कमात्राधीन सिद्धिषु मतेषु प्राच्यनव्यताविवादस्य स्यान्नाभावसरः । यदा पुनः शास्त्रप्रामाण्येनोपपत्ति- भिरेकमवस्थाप्यते, तदा वेदस्येतिहासस्य पुराणस्य भगवद्गीताया अन्यस्याप्ये. बम्भूतस्य स्वाभिमतैदमर्थ्य साधु समर्थ्यमाने कथङ्कारं नवीनताशङ्कातङ्काङ्कुर- समुन्मेषः ? परमर्षिपरिक्षुण्णे पथि स्वसंचारं प्रकटयन्तः पश्चात्तनकति- पयलोकापरिग्रहमात्रेण स्वमतस्य नवीनत्ववादं न खलु समन्तुमर्हन्ति । अतस्तत्तन्मतमुपपाद्यमानं तत्तदाशये प्राक्तनत्वेनैव स्थास्यतीति 1 अथार्वाचीनेष्वपि प्राज्ञजनेषु स्वमतानुरोधी जनः स्वकालात् प्रागासीन्न वेति मतप्रवर्तकाः विमृशन्तो यथायथं तत्सद्भावं निरूपयितुं प्रयतन्त एव I फलेग्रहिश्च भवति तत्र केषाश्चित् प्रयत्नः । तदिदमपि स्पष्टमुङ्गुष्टम्, “निशाम्यन्तां यद्वा निजमतितिरस्कार विगमात् निरातङ्काः टङ्कद्रमिडगुहदेवप्रभृतयः ||” इति । पद्यञ्चेदं पद्यञ्चेदं श्रीमन्निगमान्तमहादेशिकानां नूनं भगवद्रामानुजा- “भगवद्बोधायनटङ्कद्र मिडगुहदेवकपर्दि- चार्यपादसूक्तिं वेदार्थसंग्रहगताम्, निदर्शितोऽयं भारुचिप्रभृत्य विगीत शिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकर- पन्थाः” इतीमां मूलमाकलयतीति, सा च सूक्तिः, भगवद्यामुनमुनिमुखोद्गतमात्मसिद्धिवचनमवलम्ब्य समुन्मिषतेति च सुज्ञानमेव । परंतु न केवलमन्योक्तानुवादमात्रम् ; अपि तु यथाशक्ति तेषां ग्रन्थान् स्वयमप्यालो ड्यैत्र तथा तैरुद्घोषितमिति साधु संभाव्यते, यतस्तत्रतत्र कतिपयान् ग्रन्थशकलान् उद्धरन्तः स्वोक्तमर्थं संवादयन्ति । li

पूर्वग्रन्थ-परिग्रहातिशयः

यद्यपि श्रीशाङ्करभाष्यादिष्वपि तत्रतत्र बहुलमेषु केषाश्चित् प्रमाणतयोदाहरणं लक्ष्यत एव । यथा छान्दोग्ये मधुविद्यायां स्वयमर्थभाषणावसरे आचार्य पदेन द्रमिडाचार्यः साक्षीक्रियते — एवमपि तत्रतत्र तेषामाशयो निराक्रियतेऽपि । यथा, “न दृष्टेर्दष्टारं पश्येः, न मतेर्मन्तारं मन्वीथाः” इत्यादि- श्रुत्यर्थभाषणे भर्तृप्रपञ्चस्य । एवं सूत्रभाष्येऽपि वृत्तिकाराद्युपवर्णितार्थनिराकरणम् आनन्दमयाधिकरणादौ भाव्यम् । भगवद्रामानुजाचार्यपादग्रन्थेषु पुनः प्राक्तनग्रन्थानामुदाहरणं स्वप्रदर्शितपरमार्थसाक्षितयैव } न पुनस्तदुक्तनि- रसनायेति विशेषः । तेषां वचनानि तत्रतत्र, नार्थतः, किंतु शब्दतो ऽप्य- नूद्यन्ते। आत्मसिद्धैौ सितासितनिबन्धकर्तॄणां सर्वेषामुपक्षपात् सर्वे न सामप्रयेण विश्वसनीयाः, किंतु पूर्वग्रन्थेषु हेयोपादेयविभागविधानमावश्यकमित्याविष्कृत- मासीत् । वेदार्थसंग्रहस्तु परिग्राह्यग्रन्थकारमात्रपरिगणनेन तद्विरोधप्रदर्शनेनान्ये ण्वनादरं दर्शयति । यद्यपि मुख्यभाक्तरूपेण व्यवहारद्वैधं सर्वलोकसंदृष्टमिति प्रामाणिकग्रन्थेषु कचितूकचिदापातार्थपरित्यागो भवति, अथाप्याप्तानां ग्रन्थेषु वक्तृतात्पर्यविरोधो नैव क्वचिदपि पदं धत्त इति सर्वसंमन्त- व्यमेतत् । तत्रापि परमर्षिणा पाराशर्येण बादरायणेन बादरायणेन उपनिषद् दुग्धा- ब्धिमथनेनोद्धृतां ब्रह्मसूत्रसुधां बोधायनेन परमर्षिणा सादरं सुमनस्सु आयत्तीकृतां स्वयं विक्रम्य समालक्ष्य संगृहीतसारार्थाः श्रीभगवद्रा- मानुजाचार्यपादाः द्रमिडभाष्यादिग्रन्थानां बोधायनवृत्तिसंक्षेपरूपतामप्यनुदृश्य स्वसमधिगतसंप्रदायसामरस्यदर्शन संहृष्टाः स्वसिद्धान्तस्य साधिष्ठतां सर्वप्रकारेण प्रख्यापयामासुः । तथैव तैस्तत्रतत्र स्वसिद्धान्तसाक्षितया वृत्तिः, दमिडभाष्यम्, छान्दोग्यव्रह्मनन्दिवाक्यमित्यादीन् प्राच्यग्रन्थान् अंनूध अद्वैतमतस्थापनाचार्य ग्रन्थे तद्विरोधो व्यक्तीक्रियते । श्रीमान्यव्याख्यातारः श्रुतप्रकाशिकाचार्याश्च वाक्यं तद्विषयद्रमिडभाष्यं तद्व्याख्याश्च वामनटीकामुपनिषच्छब्दार्थवर्णनावसरे प्रथम मुपनिबबन्धुः ।

श्रीभाष्यकारपूर्वाचार्य-प्रभावः

संप्रदायप्राप्तिश्चैषां श्रीमतो महापूर्णोपाख्यात् श्रीपराङ्कुशनामधेयतया च श्लोक्यमानात् आचार्यतल्लजात्; यस्य खलु सर्वपरमतनिरसननिष्णाताः Hi सिद्धित्रयागमप्रामाण्यगीतार्थसंग्रहादिग्रन्थनिर्मातार : आलवन्दार् इति प्रशस्तिभाजः श्रीभगवद्यामुनमुनय आचार्यः; यैः किल सर्वमतजयेनाधिगच्छद्भिरर्धचोलराज्य- वैभवमेष घोषितः श्लोकः- “आशैलादद्रिकन्याचरण किसलयन्यासधन्योपकण्ठात् आरक्षोनीत सीतामुखकमलसमुल्लासहेतोश्च सेतोः । आ च प्राच्यप्रतीच्यक्षितिधरयुगलाच्चन्द्रसूर्यावतंसातू मीमांसाशास्त्र युग्मश्रमविमलमना मृग्यतां मादृशोऽन्यः || ” इति । एते च आगमप्रामाण्ये पाश्चारत्राधिकरणविषयाणि ब्रह्मसूत्राण्युपादाय तद्वास्तवार्थविचारप्रवृत्ताः श्रीभगवद्रामानुजाचार्यपादानवरतास्वाद्यमानात्यद्भुत- विधाय शास्त्रार्थप्रमाणतर्कपरिष्कृतकविकुलहृदयावर्जकगद्यपद्यमयग्रन्थरत्ताः स्वयमेव गीतां- सूत्रादिभाष्यप्रणयनप्रवीणा अपि प्राच्यग्रन्थसंवाददर्शनाय प्रयस्यन्तः स्वायुरवसानसमयमालक्ष्य स्वप्रशिष्यमुखेन तत्प्रणयनं प्रतीक्षाञ्चक्रिरे । येषां खलु पितामहचरणाः श्रीभगवन्नाथमुनयो न्यायतत्त्वनाम्ना शास्त्रेण स्वकृतेन परमतनिरसनं वेदान्तिसंमन्तव्यप्रमेयनिष्कर्षश्च निरूपितवन्तः अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशयः अगाध भगवद्भक्तिसिन्धवो योगरहस्यग्रन्थप्रबन्धारो दिव्यप्रबन्धावतारणेन दक्षिणदेशं श्रीवैष्णवमयं अर्चावितारेणाशेषजनरक्षणदीक्षितस्य श्रिय पतेर्मुखोल्लासमाधाय वाङ्मनसातीतां विख्यातिमध्यगुः । एते हि श्रीभगवन्नाथमुनयः बहोः कालात् प्रागेवाविर्भूयान्तर्हितं श्री कुलभूषणं श्रीपराङ्कुशनामधेयं श्रीकुरुकापुरज्योतिः परमं स्वयेोगमहिम्ना प्रत्यक्षीकृत्य तन्मुखेन लब्धसर्वार्थोपदेशाः श्रीबादरायण- बोधायनद्रमिडाचार्यादिक्षुण्णं प्राचीनं पन्थानं तस्यैव ज्योतिषो दिव्यसूरे- र्मुखादधिगम्य तदनुकूलतत्त्वार्थव्युत्पादनचणं प्रागेव प्राप्तप्रचारं परंतु कियता कालेन पुनस्तिरोभूतं बहुदिव्यसूरिंगीतगाधात्मकं दिव्यप्रबन्धजातमपि स्वीकृत्य आवर्त्य अध्याप्य स्वोपन्नां भगवद्भक्तिवल्लीं प्रसूनवती फलिताश्च विधाय प्रख्यातिं परामिह समधिजग्मुः । एवं

उपदिष्टोपलब्ध-सामरस्येन ग्रन्थानां निर्माणम्

श्रीवकुलभूषणनाथयामुनाद्याचार्यपारम्परीप्राप्तस्य परमार्थस्य बोधायनद्रमिडाचार्यादिप्राच्यग्रन्यैः सामरस्यमुपदेशाधिगतं साधु साक्षात्कृत्य तदनुगुणैस्तर्कप्रमाणैस्तमेवार्थं प्रमाणतः प्रतिष्ठाप्य तदनुसारेण ग्रन्थानामर्थ -liii परिज्ञानाय भाष्यग्रन्थविधानेनापि विशेषत उपकृत्य आसेतुहिमाचलं प्रचारमादधिर इम इति श्रीभगवद्रामानुजाचार्यसिद्धान्तत्वेन संप्रत्ययं विशिष्टाद्वैत सिद्धान्तो विश्वतः प्रसिद्धिमधिगतो विजयते ।

संप्रदाय-परिशुद्धि-प्रभृति-ग्रन्थ-गतिः

एवं बोधायनब्रह्मनन्दिद्रमिडाचार्यादिप्रहत एवाध्वा तथात्वेन निरूपितः श्रीभगवन्नाथमुनिभिः प्रचारित इति प्रतिबोधयितुमेव श्रीमन्निगमान्तमहा देशिकैः संप्रदाय परिशुद्धौ, ‘ब्रह्मनन्देः पश्चात् श्रीवकुलभूषणसूरिः संप्रदायाचार्यः समभूत्’ इति निरटङ्कि । वेदार्थसंग्रहे च वाक्यद्रमिडभाष्यसूक्तीः समुदाहृत्य अन्तर्गुणाया एव देवतायाः सविद्यादिष्वपि समधिगम्यत्वम्, अन्तः- करणैकग्राह्यस्यातीन्द्रियस्याप्राकृतस्य स्वरूपगुणाविशेषं सद्भावञ्चोपपाद्य निःश्रेयसोपायभूतं वेदनमुपासनमेव ध्रुवानुस्मृतिरूपं दर्शनसमानाकारं प्रीतिरूपापन्नमिति च श्रीभाष्ये वाक्यादिग्रन्थोदाहरणेन विशदय्य तत्क्रतुन्याय- सिद्धं तदनुरूपं निःश्रेयसमिति च समाकलय्य विशिष्ट तत्त्वहित पुरुषार्थान् प्राक्तन संमतान् प्रकटीकृत्य स्वमतपारम्यं प्रत्यपादि भगवद्भाष्यकारैः । इति

अद्वैत-सिद्धान्तेषु विशेषः

अद्वैतसिद्धान्तेषु श्रीशङ्करभगवत्पादोपज्ञमद्वैतम्, “सूत्रामिप्रायसंवृत्त्या स्वभिप्रायप्रकाशनात् । व्याखतं यैरिदं शास्त्रं व्याख्या इयं तन्निवृत्तये ॥ " प्रतिज्ञाय भास्कराचार्यप्रचारितमद्वैतम्, स्वसमसामयिकयादव- प्रकाशाचार्य प्रकाशितं ततो विलक्षणञ्चाद्वैतमनादृत्य परमार्थः स्वसंप्रदायार्थ एवेति च व्युदपादि | ‘जगन्मिथ्या ; ब्रह्म निर्गुणमेकं सत्यम्’ इति श्रीशङ्करभगव त्पादसिद्धान्तः । न केवलं श्रीभगद्रामानुजस्वामिपादाः, अपि तु भास्कराचार्या- दयोऽद्वैतिनोऽपि, सर्वेपि अन्ये तीर्थकरा इव जगत्सत्यत्वादावेकवाक्यतां प्रतिपद्यन्ते ।

एतत्सिद्धान्तनाम किमिति

एतावता विशिष्टाद्वैत सिद्धान्तस्थापनप्रवृत्ता ग्रन्थाः भगवद्भाष्य-कारकालात् प्रागेव चिरात् प्राप्तप्रचाराः; परिशील्यमाने सिद्धान्तोऽयं परमादिरिति समग्राहि । अथ विशिष्टाद्वैतमिति नामास्य यद्यप्यर्वाचीनम्, तथापि liv सिद्धान्तः तदर्थः प्राक्तन एवेति च किश्चित् कथ्यते । भगवद्भाष्यकारैरपीदं नाम न निरदेशि ; नापि प्रमेयनिष्कर्षेदम्परैस्तैर्नाग्नि क्वचित् नैर्भर्यमपि प्रादर्शि, यदेवमाहुस्त्रिविधाद्वैतनिरासेन वेदार्थसंग्रहे, “ऐक्यवादाश्च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनादेव सुस्थिताः” इति निगमयन्तः, " एवञ्च सति अभेदो वा मेदो वा व्यात्मकता वा वेदान्तवेद्यः कोऽयमर्थः समर्थितो भवती”ति प्रश्नमुपक्षिप्तवन्तः, “सर्वस्य वेदवेद्यत्वात् स समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेदः समर्थितः । एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितमिति भेदाभेदौ; अश्चिद्वस्तु- नश्चिद्वस्तुनश्चेश्वरस्य च …. भेदः समर्थितः” इति । एतद्व्ययाख्यायां तु तात्पर्यदीपिकायामेतदाशय एवं प्राकाशि, “परैरुक्तोऽभेदो भेदाभेदौ च भेदश्रुतिविरोधादमुख्यत्वाच्च न प्रामाणिका: । भेदश्रुत्यविरुद्धौ भेदाभेदौ अभेदश्चास्मदभिमता इत्यस्माकं भेदपक्ष एवेत्यभिप्रायः” इति । एत- व्याख्यादर्शने, ‘द्वैतमेवास्मन्मतम् ; अद्वैतस्य श्रुत्यादिसिद्धस्य द्वैताविरोधेन निर्वाहमात्रम्’ इति स्पष्टमेव बुध्यते । परं तु द्वैतित्वेन प्रसिद्धानां माध्वतार्किकादीनां जगद्ब्रह्मैक्यश्रुति निर्वाह प्रकारस्य, एतत् सैद्धान्तिक समीहित प्रकारस्य च महदन्तरमस्तीति इदं मतं विशिष्टाद्वैतमिति व्यवहियते ।

अद्वैतमतत्रयपद्धतिः

त्रिषु पुनरद्वैतदर्शनेषु ब्रह्मणः चिद्भिरिवाचिद्भिरप्यभेदः स्वाभाविकः सर्वरूपेण तदुत्पत्तेरिति यादवप्रकाशदर्शनम् । ततः प्राक्तनं भास्करदर्शनं तु, अचिदशः परब्रह्मणः परिणामः; जीवास्तु न परिणामभूताः, किंतु ब्रह्मण एव प्रदेशभेदाः घटकरकाद्याकाशप्रदेशा इवाकाशात् ब्रह्मणो नैव व्यतिरिच्यन्त इति । अत्र चिदचिदात्मकस्य प्रपश्ञ्चस्य परस्य ब्रह्मणश्च कार्यकारणभावनिबन्धनमैक्यं यादवप्रकाशपक्षे सर्वस्याविशेषेण कल्पते ; न तु भास्करपक्षे । चिदशस्य कार्यता हि न तदिषिता । परं तु द्रव्यैक्यनिबन्धनमद्वैतमुभयत्राव्याहतम् । “ब्रह्मपरिणतेरिति भास्करगोत्रे युज्यते” इति न्यायाचार्योदयनवचनमपि अचिदंशपरिणाममात्रेणैव निर्वहणीयम् । शाङ्करपक्षे तु न ब्रह्मणः परिणामो जगद्रूपेण । जगदात्मना प्रतीयते इति ब्रह्म सत्यम्, जगन्मिथ्या । यस्येदं जगत् परिणामभूतम्, सात्वविद्या । सापि तत एव मिथ्या । सत्यमिध्याभूतयोश्चैक्यं न जाघटीति । अते। ब्रह्मणो जगतश्चैक्यरूपमद्वैतं यद्यपि नाञ्जस्येन वक्तुं पार्यते — अथापि 1 lv जगदन्ततो बाध्यत इति, सत्यमेव विवेचनेऽवतिष्ठत इत्येवम्भूतमद्वैतमभिमतं स्थास्यति । एवमचिदंशस्य ब्रह्मणश्च परास्परिकैक्य निरूपणासंभवेऽपि अन्तःकरणाद्याविधिकार्थपरिच्छिन्नस्य ब्रह्मण एव जीवत्वेनेष्टेः जीवब्रह्मैक्यं सूपपादम् । यदा तु जीवा अपि ब्रह्मणः प्रतिबिम्बभूता इति पक्षः प्रामाणिकः, तदा जीवब्रह्माद्वैतमपि अचिद्बह्माद्वैतवदेव काममैौपचारिकं भवतु । सर्वथा ब्रह्मैकमेव सत्यमित्येतावदेव विवक्षितमिति स्थितिः । •

तदौचित्यपरिशीलनम्

अत्र, ‘सर्वं खल्विदं ब्रह्म’ इत्यादीनां जगद्ब्रह्मप्रतिपादकानां वाक्यानाम् —-शाङ्करपक्षे अचिदंशे चिदंशे चैकरूपक्याभावात् क्वचिद् बाधार्थं सामानाधिकरण्यम्, क्वचिदन्यथेति वैरूप्यम् ; बाघार्थसामानाधि- करण्यनिर्वाहश्च वस्तुतः सत्य मिथ्याभूतार्थमेदप्रतिपादने दम्परत्वात् स्वरसप्रती - तपदार्थद्वयैक्यरूपपरमार्थप्रतिकूल इति तन्निर्वाहस्यानाञ्जस्यमन्ये मन्यन्ते । भास्करयादवाभिमतं द्रव्यैक्यमादायेदृरावाक्य निर्वाहे आञ्जस्यं नूनं लक्ष्यते, परं तु ब्रह्मण एव सर्वहेयास्पदत्वस्यावर्जनीयतया, “इतरव्यपदेशाद्धिता- करणादिदोषप्रसक्तिः” इति सूत्रदर्शितो दोषो दुरुद्धर इति, अत " अधिकं तु भेदनिदेशात्” इति भगवता बादरायणेन भेद एव ब्रह्मणो निर्णीत इति च द्वैतवादिनिर्विशेषं विशिष्टाद्वैतिनोऽपि व्याहरन्ति । तर्हि का गतिरीदृशानां वाक्यानामिति चेत् — किमत्र चिन्तनीयमपूर्वमस्ति, यतः श्रुतिरेव ‘तज्जलानिति’ इति तस्य ब्रह्मणः सृष्टिस्थितिसंहारकारणत्वात् तादधीन्याज्जगति तदैक्यवाचोयुक्तिरिति द्वैतिन आस्थिषत ।

विशिष्टाद्वैतिनिर्वाहः

कार्यकारणभावमात्र निबन्धनश्चेदैक्यमिष्यते, एव प्रकृतिपुरुषकालादिरूप- नित्यपदार्थनिर्देशेन क्यवर्णनं ब्रह्मणि न समञ्जसं स्यादिति विमृशन्तो विशिष्टा- द्वैतिनः पुनरासाममेदश्रुतीनामपि भेदश्रुतिवदेवाञ्जस्थमन्यथा व्युत्पादयन्ति । कथम् ? इत्थम् | लोके अयं गौः, शङ्खः शुक्रः इत्यादिर्व्यवहारः सर्वसंप्रतिपन्नः प्रसिद्धः । तत्र प्रथमो द्रव्यं जातिश्चाभिधत्ते ; द्वितीयो द्रव्यं गुणश्च । द्रव्यस्य जातिगुणादीनाश्च मिथो भेदः प्रत्यक्षादिप्रसिद्धः । तत्र कथं सामानाधिकरण्यम् ! Ivi तत्रेदं वक्तव्यम् - न हि वाक्यमिदं जात्यादिना सह द्रव्यस्यैक्यं बोधयति, येनासंगतं स्यात् । गवादिपदस्य जातिविशिष्टद्रव्यवचनत्वात् शुक्लादिपदस्य गुणविशिष्टद्रव्यवचनत्त्राच्च धयैक्यमेवात्रावसीयते I धर्मधर्मिणोर्भेदस्तु शाश्वतो न कथञ्चिदपोद्यत इति । आकृत्यधिकरणादिकं च मीमांसादिगतं पदानां विशिष्टे शक्तिमेत्र व्युत्पादयति । मीमांसाव्याख्यातारस्तु बहवो महर्षे जैमिनेराशयं यथावदनवबुध्यमानाः स्वकपोलकल्पितान् अर्थाभासान् सूत्रेषु प्रवेशयन्तः अकृतमतीनामान्ध्यमेवापादयन्ति यथा देवतानामपलापेन निरीश्वरवादेन चेति नेदं तिरोहितं वेदान्तवास्तवार्थवेदिनाम् । एवञ्च जातिगुणादिस्थले धर्मधर्मिभेदेऽपि सामानाधिकरण्यस्य न काचित् क्षतिः । यथैवम्, तथैव शरीरात्मनोर्भेदस्य सर्वतीर्थकर संमतस्याप्रतिक्षेप्यत्वेऽपि सामानाधिकरण्यं समञ्जसं लोके लक्ष्यत एव । यथा जीवाः यथाकर्म देवमनुष्यतिर्यक्स्थावराः, एक आत्मा ब्राह्मणः, एकः क्षत्रिय इत्यादिव्यवहारे । देवमनुष्यादिशब्दानां तत्तज्जात्यादिविशिष्टं यत् शरीरम् तद्विशिष्टात्म विशेष- वचनत्वात् जीवादिपदेन सामानाधिकरण्यं सुखोपपन्नम् । एवं लोकव्यवहारेषु सम्यग्विमृश्यमानेषु कश्चिदनुगतो न्यायो निष्कृष्य- माणो भवति, भवति, अपृथसिद्धाधेयवाचिनां शब्दानां तदाधारपर्यन्तवा - चित्वमिति । अस्ति च जातिगुणादेवि शरीरस्याप्यात्मापृथक्सिद्धिः । एवञ्च ब्रह्मणश्चिदचिदात्मकप्रपञ्चस्य च श्रुतिषु सामानाधिकरण्य- व्यवहारः प्रपञ्चस्य तत् प्रति शरीरत्वात् शरीरवाचिनां तत्तच्छरीर विशिष्ट- ब्रह्मपर्यन्तत्वात् विशिष्टैक्यविषय एव । न हि जातिगुणशरीरवाचिपदैः सह धर्मिवाचिपदानां समानाधिकरण प्रयोगमात्रेण जातिगुणशरीराणां धर्मिणश्चा- भेदस्य मात्रयाऽपि लोके प्रसक्तिरस्ति । न खलु देहात्मवादश्चार्वाकातिरिक्तेन केनापि कथञ्चिदपि स्वीकर्तुमलम् । अतः कथमीदृशाभेदव्यवहारेण ब्रह्मणि चिदचिद मेदसंभावनागन्धोऽपि । अतश्च ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र सर्वपदगृहीतस्य चेतनस्याचेतनस्य च सर्वस्यैकरूपमेवैक्यप्रतिपादनमिति न वैरूप्यम् ; न वा ब्रह्मणि दोषलेशः अद्वैतिमतेष्विव ; नाप्यमुख्यं सामानाधिकरण्यं द्वैतिनामन्येषां मत इवेति । Ivii

रामानुजदर्शनमिति प्रसिद्धिहेतुः

सोऽयं जगद्ब्रह्मणोः शरीरात्मभावः, शरीरवाचिनां शब्दानां मुख्ययैव वृत्या शरीरिभूतात्मपर्यन्तवचनत्वञ्च पूर्वप्रन्थेषु परिस्फुटमप्रतीतं श्रीभगवद्भाष्य- कारैरेव प्राधान्येन निराबाधं नानाश्रुतितर्कले| कानुभवप्रदर्शनेन निरूप्य स्थापितमिति, न केवलं भाष्यादिग्रन्थरत्न निर्माणमात्रात्, किं- नाम एतत्प्रतितन्त्रार्थप्रतिबोधनादपि दर्शनमिदं भगवद्रामानुजदर्शन मिति प्रकामं प्रथते ।

विशिष्टाद्वैतशब्दार्थः

तथाच चिदचिदीश्वराणां मिथो भेद एवैतस्मिन् सिद्धान्त इष्टः; न तु स्वरूपाभेद इति द्वैतस्यैव संमतत्वेऽपि द्वैतिमत इव अभेदपरसमानाधिकरण- वाक्यानामौपचारिकार्थस्वीकाराभावात् भेदाविरोधेन पदसमुदायात्मनां विशिष्टक्यवित्रक्षयैव निर्वहणात् निर्वहणात् विशेषमेतं व्यक्तीकर्तुं विशिष्टाद्वैत- मिति नाम सिद्धान्तस्यास्य कालक्रमेण संपादितमासीत् । एतस्मिन्नर्थे विशिष्टश्च विशिष्टश्च विशिष्टे ; विशिष्टयोर द्वैतं विशिष्टाद्वैतमिति विग्रहः । ‘तत् त्वमसि’ इत्यत्र तत्पदं जगत्कारणत्वादिविशिष्टब्रह्मपरम् ; त्वम्पदश्च अभिमुखजीवविशेषविशिष्टब्रह्म परम् । सर्वं खल्विदं ब्रह्मेत्यत्र सर्वपदं चेतना- चेतन विशिष्टब्रह्मपरम् । तस्य च ब्रह्मणा सहाभेद इति । वस्तुतो निर्विशेषं ब्रह्मैकमेवेति प्रसिद्धमत प्रत्यनीकभावव्यक्तये सर्वविशिष्टं ब्रह्मैकमेवेति वाद एषामिति विशिष्टाद्वैतमिति पदं विशिष्टस्याद्वैतं विशिष्टाद्वैतमित्येव विगृह्यते । तेन च सर्वस्यापि चिदचिदात्मकप्रपश्चस्य सर्वास्वप्यवस्थासु ब्रह्मशरीरतया ब्रह्म प्रकारत्वात् विशिष्टमेकमेवास्ति, न द्वितीयमिति स्वसजातीयद्वितीयराहित्यं ब्रह्मण्युक्तं भवति । निदर्शयन्ति च श्रीभगवद्यामुनमुनय एव तत्र — “यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः । न तु तद्भृत्यतत्पुत्रकलत्रादिनिवारणम् ॥” इति । विशिष्टाद्वैतपदार्थस्य चास्य परिष्कारो विस्तरेण न्यायसिद्धाञ्जन- व्याख्यायां रत्नपेटिकायामादौ द्रष्टव्यः । तत्र मूले विशिष्टाद्वैतपदाप्रयोगेऽपि तत्सूचकवाक्यशैली दर्शनात् स परिष्कारः प्रसक्त आसीत् । “अशेष- चिदचित्प्रकारं ब्रह्मैकमेव तत्वम्” इति हि तत्रोपक्रमः । नाम्नोऽर्वाचीनत्वे ऽप्यर्यः H Iviii प्राचीन एव । अयमेव विशिष्टाद्वैतशब्दार्थः अस्मिन् नयद्युमणावप्यादौ अदर्शि मात्रया, " स्थूलचिदचित्प्रकारं ब्रह्मैवे “त्युपक्रमात् । प्रमेय- निरूपणारम्भे चात्र, “सर्वार्थविशिष्टत्वाकारेण परमात्मैवैकः प्रमेयम्” इत्युक्तम् । इदमपि मनसिकृत्येव न्यायसिद्धाञ्जने, “इदमेव चेत्थम्भूतं सामान्यतः प्रमाविषयतया, विशेषतः प्रकर्षेण मेयतया च प्रमेयमुक्तम्” इति विवृतम् । एतेन ‘एकमेवाद्वितीयम्’, ‘नान्योऽतोऽस्ति द्रष्टा’, ‘यत्र हि द्वैतमिव भवति’ इत्यादिश्रुतिषु ब्रह्मवत् स्वतन्त्रस्य वस्वन्तरस्यैव निषेधः क्रियते ; न तु प्रत्यक्षागमप्रमितानां परब्रह्म प्रकारभूतानां बहुविधानां चेतनानामचेतनानाश्चेति निरूपितं भवति ।

ऐक्यवादस्य बहुप्रकारता

एतदुक्तं भवति — भेदाभेदवादः पापीयानिति प्रतिपादयतां भगवद्भाष्य- कृतां मते ययोर्वस्तुनोर्भेदः, तयोरेवाभेदोऽपि न कथमपि घटत इति जगत्पदेन जगन्मात्रग्रहणे ब्रह्मपदेन च परमात्ममात्रग्रहणे ऐक्यमसंभावित - मेव । अत एव तात्पर्यदीपिकायां द्वैतमेवास्मन्मतमित्यास्थितम् । एवमपि श्रुतिष्वैक्यव्यवहारो द्वैताविरोधेन सूपपादः । तत्रैक्यवादो बहुप्रकारः, ब्रह्मैकमेवेति ; ब्रह्मैवास्ति, नान्यदिति ; जीवानामैक्यमिति ; जगह्रौक्यमिति ; जीवब्रह्मैक्यमिति च तत्राऽऽदिमे अनेक ब्रह्मव्यक्तिनिषेधमात्रम् । जन्माद्यधिकरणे ब्रह्मबहुत्वप्रसङ्गमुद्भाव्य तदैक्यं स्थापितमत्र स्मर्तव्यम् । द्वितीये सर्वस्यापि वस्तुनो ब्रह्मान्तर्गततया, चैत्र एक एवात्रेति वाक्ये चैत्रवस्त्रयज्ञोपवीताद्यनिषेधेन मनुष्यान्तरनिषेधवत् ब्रह्मातिरिक्तस्वतन्त्र- वस्तुनिषेधमात्रमिति न प्रामाणिकजगदपह्नवः प्रसजति । अन्यादिशब्दानां सदृशान्यपरत्वं लेोकव्याकरणमीमांसादिसुप्रसिद्धम् । तृतीयश्च प्रकारैक्यस्वीकारात्, “विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥” इत्युक्तसाम्यविषय इति नैष जीवभेदविरोधी भविष्यति । तुरीयश्च ब्रह्मणि चेतनाचेतनैक्यप्रतिपादकेषु समानाधिकरणवाक्येषु जगद्वाचिनां शब्दानां तद्विशिष्टब्रह्माभिधायिष्वात् विशिष्टैक्यविषयः । एतेन पञ्चमोऽपि निर्व्यूढः । कचित्तु जीवब्रह्मैक्यं साम्यरूपमपि प्रथते, ‘सर्वभूतस्थितं यो मां भजत्ये- lix कल्वमास्थितः’ इत्यादावित्यलं विस्तरेण । तत् सिद्धं विशिष्टाद्वैत मिति परिभाषायाः पश्चात्तनत्वेऽपि तदर्थः परं प्राच्यबहुप्रन्थारूढ एवैतन्मता- साधारण्येनेति ।

काणादसंवादः

अथैतन्मत उपपादितस्य शरीरवाचिनां शब्दानां शरीरि- पर्यन्ताभिधायित्वस्य, जगद्ब्रह्मणोः शरीरात्मभावस्य च शास्त्रान्तरसंवादोऽपि संप्रदर्श्यते — तत्रभवान् कणादो महर्षिः स्वोपज्ञे वैशेषिकदर्शने तृतीयेऽध्याये देहातिरिक्तमात्मानं साधयन्, ‘अहमिति प्रत्यक्षेण आत्मनो गृह्यमाणत्वान्नात्मन आगमैकवेद्यता ; अहं देवदत्तः, अहं यज्ञदत्तः इति प्रत्यात्मवेदनात् ; अहंशब्दस्य चात्मातिरिक्तेऽनन्वयादिति, “यद्दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति” (२-१०) इतिं सूत्रेण सिद्धान्तोपपादकेन वर्णयन् तदुपरि, कथमिदमध्य- क्षमात्मविषयकम्, यावता देवदत्तपदस्य आ शैशवात् आ च वार्धकादनुस्यूत- देवदत्तत्वादिजातिविशेषविशिष्टशरीरपरतया अहंशब्दोऽपि तत्समानाधिकरण- स्तत्पर एवावसीयते । देवदत्तादिपदानां शरीरवचनत्वञ्चानुभविकम् ; देवदत्तो गच्छतीत्यादिप्रयोगसिद्धञ्च ; विभुनि आत्मस्वरूपे गमनक्रियाश्रयत्वायोगेन गमिसामानाधिकरण्यस्य तच्छरीरपरत्वसाधकत्वादित्याशङ्कायाम्, “देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः” (२-१२) इत्येकान्तरितेन सूत्रेण देवदत्तादिपदानां शरीरपरत्वमौपचारिकमिति समाधत्त । देवदत्तादि- पदानि, ‘एकादशेऽहनि पिता नाम कुर्यात्’ इत्यादिप्रमाणानुसारेण नामकरणसंस्काराविर्भावितानि न पिण्डमात्रवचनानि, किं नाम पिण्डावच्छि- नतत्तदात्मवचनानि । जातकरणादीनि ह्यात्मसंस्कारकाणि । जन्म हि आत्मनो देहेन्द्रियादिसंघात संबन्धः इति न्यायसूत्रभाष्यादिषु निष्टङ्कितमेतत् । अतो देवदत्तादिपदानां शरीरविशिष्टात्मवाचित्वात् अहमिति तत्समानाधि- करणमात्मपरमेवेति नानुपपत्तिलेशोऽपि ।

गच्छतीत्यस्यार्थे गदाधरादिसंवादः

अथ स्यात् — देवदत्तो गच्छतीति देहपरं वाक्यमौपचारिकमिति कणादः कस्मादाह, देवदत्तपदस्यात्रापि विशिष्टात्मपरत्वस्याक्षतत्वात् । गच्छतीत्यस्य गमनानुकूलकृतिमानित्यर्थः । कृञः प्रयत्नवाचित्वश्च कुसुमाञ्ज- ल्यादिग्रन्थारूढम् वहुतान्त्रिकनवीन प्राज्ञनिर्धारितश्चेति । अत्र_बूमः - Ik यन्निष्ठव्यापारविशेषो धातुना विवक्ष्यते, स एव कर्तेत्यनुभवसिद्धमेतत् । अत एव स्थाली पचतीत्यादौ स्थालीगतव्यापारस्यैव धातुना विवक्षा | किश्च चेतनमात्रे प्रयुज्यमानधातुसमभिव्याहृतस्यैवाख्यातस्य यत्नवचनत्वं प्रामाणिकम्, यथा भुङ्क्ते, पठतीत्यादौ । धातोश्चेतनाचेतनसाधारण्ये तु उभयानुरोधादाश्रयत्वमाख्यातार्थः । अतो रथो गच्छतीति प्रयोगबलादिहाश्रय- त्वमेवाख्यातगम्यम् । अत एव व्युत्पत्तिवादे गदाधरभट्टाचार्येण द्वितीयायां गतिबुद्धिसूत्रव्याख्यानावसरे गतिकर्तृत्वमाश्रयत्वरूपमुक्तम् । तत्रैव, स्वं गच्छतीति प्रयोगाभावनिर्वाहावसरेऽप्येवमाश्रयत्वार्थकत्वमदर्शि । तृतीयायामपि आश्रय- त्वार्थाभिप्रायेणैव, चैत्रेण गम्यत इत्युदाहारि । एवमाख्यातविचारे, गच्छति जानाति करोतीत्यादौ आश्रयत्वं निरूढलक्षणेति तार्किकशिरोमणिर्महाप्राज्ञो दीधितिकारोऽपि तत्र प्रमाणीकृतः । तस्मात् गच्छतीत्यस्य गमनक्रियाश्रयत्वमेवार्थ इति तस्य च गमनाश्रय- त्वस्य आत्मविभुत्वमास्थितवतः स्वस्य मते आत्मनि बाधात् देवदत्तादिपदमत्र शरीरमात्रपरमिति सुष्ठु स्वीकृतं कणाद महर्षिणेति । तथा च तेन महर्षिणा देवदत्तादिपदानामात्मनि मुख्यत्वं शरीर औपचारिकत्वञ्च कण्ठोक्तं कथं संगंस्यते, यदि शरीरवाचिनां शब्दानां शरीरिपर्यन्ते प्रयोग एव मुख्य इत्येष नाभ्युपेयात् । तत्प्रकरणार्थश्चास्मदीयव्याख्याने वैशेषिकरसायने विशेषतो द्रष्टव्यः । एवमेव भगवता बादरायणेनापि “चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्” इति विशिष्टवचनत्वमभाक्तम्, विशेषणमात्रे प्रयोगश्च भाक्त इति भणितम् । एवम्, “तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्” इति सूत्रान्तरेणापीति साधिष्ठमेतत् । आकृतिमात्रवाचित्वश्च शब्दानामर्वाचीन- मीमांसकाभिहितं तार्किका इव वेदान्तिनोऽपि नाभ्युपयन्ति । ‘गुणे शुक्कादयः पुंसि गुाणलिङ्गास्तु तद्वति’ इति गुणवाचिनामपि गुणिपर्यन्तप्रयोगो मुख्य एव । एवञ्च जातिगुणशरीराणां साधारणं यत् अपृथक्सिद्धत्वम्, तदेव विशेषणवाचिनां शब्दानां विशिष्टवचनत्वे नियामकमिति सर्वानुगतव्यवस्था- संभवो भगवद्भाग्यकारैः सम्यगुपपादित इति विदांकुर्वन्तु ।

आचार्योदयनसंवादः

न्यायाचार्येणोदयनेन च न्यायकुसुमाञ्जलौ पश्चमे स्तबके धृतिरूप हेतू- पपादनावसरे इन्द्राग्नियमादिलोकपालवाचिनां शब्दानां तदाविष्टपरमात्मपरत्व - Ixi मभिसंघाय, “सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः, ‘आत्मैवेदं सर्वम्’ इति । यथैक एव मायावी, अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसे विप्र इत्यादि” इति, उत्तरत्र, “आवेशो ज्ञानचिकीर्षाप्रयत्नवतः संयोगः " इति च जीवपदानां परमात्मपर्यन्तत्वम्, तथैव वेदे समानाधिकरणवाक्या- नां निर्वाह इति च व्युदपादि । विवेचितश्चायमुदयनाचार्याशयोऽस्मद्वयाख्यान- न्यायकुसुमाञ्जलिविस्तर भूमिकायाम् । एवमर्थकश्चायं प्रयोगो मुख्य एवेति भगवद्भाष्यकारैरुपापादि ।

कौमारिलसंवादः

जगतः कृत्स्नस्य परमात्मनश्च शरीरात्मभावः संबन्ध इत्ययमर्थश्व मीमांसाचार्यैर्मदृकुमारिलैरपि प्रसङ्गाद् ग्रहैकत्वाधिकरणे (३.१.) प्रत्यबोधि । यतः- " शरीरत्वस्य न पार्थिवत्वेन व्याप्तिः; आप्यवायव्यतैजसशरीराणामपि दर्शनात्, ‘ये हि जनाः स्वर्ग लोकं यन्ति तेषामेतानि ज्योतींषि यन्नक्षत्राणी’ति श्रुतेः । नापि भौतिकत्वेन व्याप्तिः- तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः । इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः || रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः । प्रत्येकमात्मनां तेऽपि देहाः संभोगहेतवः ॥ शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते । तदप्यधिष्ठितं सर्वमेकेन परमात्मना ॥ तथर्वेदादयो वेदाः प्रोक्तास्तेऽपि पृथक् पृथक् । भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा ॥” इत्युपन्यस्य, लोकप्रतीतं करचरणादिमत्वम्, इन्द्रियाश्रयत्वमित्यादि च न लक्षण- मित्यभिप्रायेण सर्वस्यापि पदार्थस्य परमात्मशरीरत्वम्, वेदे श्रुतानाम्, ‘खं ब्रह्म’ इत्यादीनां समानाधिकरणवाक्यानामुक्तशरीरशरीरिभावनिबन्धनत्वश्च विस्पष्टमेवोद्धुष्टम् ।

भट्टसोमेश्वरविवरणम्

न्यायसुधाकृता च तद्वयाख्यात्रा भट्टसोमेश्वरेण अन्तर्यामिब्राह्मणा- पन्यासेन वेदस्य सिद्धेऽर्थे प्रामाण्यादि सर्वमप्रतिषेध्यमिति निरूपणपूर्वकं " शरीरश्चेत् अनित्यमिति न व्याप्तिः, नित्यव्योमवेदादेरपि शरीरत्वस्य शास्त्रीय- त्वात् । तेषां देहत्वञ्च वार्तिकाक्तं संभोगहेतुत्वम् । तच्च नियमनलक्षणभोगाधि- lxii ष्ठानत्वम् । ‘द्वा सुपर्णा सयुजा सखाया’ इति श्रुतिबलाच्च सर्वस्यापि वस्तुनश्चेतनद्वयाधिष्ठितत्वमप्यस्ती “ति विशेषतो विवृतम् । अत्र जीवशरीर- स्यैव सतः परमात्मशरीरत्वमप्यविशेषादेष्टव्यम् ; प्रागूर्ध्वावस्थयोरिव तदात्वेऽपि नियमनाविशेषादिति श्रीमद्रहस्यत्रयसारनिष्कृष्टोऽप्यर्थो व्याख्यात्रैवमावेदि । नियमनं भोगशब्दार्थ इति वदन्नयम्, अनुकूलं ज्ञानमनुकूलमेव वा आनन्दः, न तु सुखं नाम कश्चिदतिरिक्तो गुण इति वेदान्तिमतमपि व्यनक्तीव । रूपस्प- शवेदादीनां गुणानाम्, द्रव्यमात्रानुवृत्तं शरीरत्वं न भवतीति विमृशन्तोऽपि विशिष्टाद्वैतिनः तेषां रूपादिपदानामपि रूपाद्य पृथक्सिद्धिबलात् परमात्म- पर्यन्ततां स्वीकुर्वन्तीति वक्ष्यते । अतोऽन्यादृशशरीरलक्षणनिर्वचनं शास्त्रीयशरीरात्मभावत्यागेनान्यथा समानांधिकरणवाक्यनिर्वहणञ्च प्राचीन संप्रदायपरिज्ञानेनोपेक्ष्यमिति भगवद्भाष्य- काराशयः । ‘व्यवहारे भाट्टनयः’ इति व्यावहारिकदशायां सर्वं भाट्टप्रक्रिययैव निर्वोढुं प्रवृत्तैरद्वैतिभिरत्र भट्टकुमारिलप्रदर्शितस्यापि स्वीकार्यतया, ‘तत्त्वमसि’, ‘सर्वं खल्विदं ब्रह्म’त्यादीनामपि वाक्यानां साधिष्ठे निर्वाहे समधिगते न समानाधिकरणवाक्यनिर्वाहान्यथानुपपत्या सर्वमिथ्यात्वैकवस्तुमात्रपरिशेषादि - कल्पनावकाशः । भेदश्रुतिषु जाग्रतीष्वपि अभेदश्रुतीनां गव्यन्तराभावादेव अद्वैतस्वीकार इति हि ते प्रतिपद्यन्ते । न्यायसुधाकारादयो घटकश्रुतीः प्रदर्श्य भट्टकुमारिलाशयमित्थं पोषयन्तः स्वरसमेव निर्वाहं भेदश्रुत्यनुपमर्देन यदाविष्कुर्वन्ति ; तन्न नाम सहसोपेक्ष्यं भवतीति ।

वेदान्त्यन्तरसंवादः

नयप्रकाशिकायाश्चानेन नयधुमणिकारेणैव अन्यवेदान्तिभिरप्यङ्गीकृतोऽयं शरीरात्मभाव इति (देवनागरीमुद्रितश्रीभाष्य. १३३६. पु.) न्यवेदि । यथा — “किञ्च अतिचिरन्तन यज्ञेश्वरसूनुशङ्करकृते वेदान्तसूत्रोपन्यासे तादात्म्यनिर्देशः शरीरात्मभावनिबन्धन इत्युक्तत्वाच्चास्मदीयमार्गस्यैव सांप्रदायि- कत्वम् । तथेोक्तम्, आकाशस्तलिङ्गादित्यत्र आकाशशरीरत्वाच्च आकाशशब्देन ब्रह्माभिधीयते । तथा शरीरशरीरिणोश्चाभेदेन व्यपदेशो दृश्यते, यथा देवदत्तो बुद्धिमानिति” इति ।

शरीरात्मभावे स्मृतिप्रमाणानि

एष च शरीरात्मभावो विष्णुपुराणे पदेपदे, मनुस्मृतौ च, ‘सोऽभिध्याय शरीरात् स्वात्’ इति प्रक्रम एव, रामायणे च, ‘जगत् सर्व शरीरं ते’ इति अन्यत्र च, सर्वत्र चैवं व्यक्तमेवोक्तम् ।Ixiii गीतायामपि सप्तमे, ‘भूमिराप’ इत्यादिना अपरां प्रकृतिं ततः परां जीवभूतां प्रकृतिश्च भगवच्छेषभूतां विभूति भूताश्च निर्दिश्य, ‘रसोऽहमप्सु’ इत्यादिना, नवमे च ‘अहं क्रतु:’ इत्यादिना, दशमे च, ‘आदित्यानामहं विष्णुः’ इत्यादिना विश्वभगवतोर्विद्यमानः संबन्धो विशदं प्रकाशितः । न ह्यत्र सर्वत्र जगतो बाधनेन ब्रह्मैकपरिशेषणार्थमिदं सर्वमुपपादनमिति शक्यं वक्तुम् । सर्वनियन्तृत्व सर्वाधारत्व सर्वशेषित्वा - नन्तकल्याणगुणगणप्रतिपादनार्थत्वात् सर्वस्य । ‘एतां विभूर्ति योगश्च मम यो वेत्ति तत्त्वतः I सोऽविकम्प्येन योगेन युज्यते नात्र संशयः’ इति चाह । पुनर्विभूतिविस्तरं बुभुत्सुः पृच्छति पार्थः । भगवांश्चोपदिशति प्रदर्शयति च । पुनश्च प्रत्यक्षदृष्टपरमार्थः पार्थ आह, “सर्व समाप्नोषि ततोसि सर्वः” इति । अलमत्र सर्वप्रमाणगणपरिगणनेन ; कणाद कुमारिलादि- ग्रन्थसंवादमात्रप्रदर्शनमत्र नश्चिकीर्षितम् । एवं परमात्मनस्तदितरपदार्थैः सह शरीरात्मभावसंबन्धस्य प्रधानप्रति - तन्त्रार्थत्वादेव अत्रभवान् नयद्युमणिकारो मेघनादारिसूरिरपि स्वविचिचारयिषितेषु बहुष्वर्थेषु शरीरलक्षणनिरूपणस्यैव प्राथम्यमाद्रियत ।

गौतमाशयः

वेदार्थवर्णनैद पर्यवैधुर्यात्, लोके यत्त्रयत्र शरीरशब्दो व्यवहारपदमध्यास्ते, तत्तत्स्थलमात्रानुगतलक्षणपरामर्शप्रावण्याच्च शरीराति- रिक्तात्मस्वरूपप्रतिबोधनप्रवृत्तः परमर्षिर्गोतमः प्रसिद्धशरीरमात्र संभवि लक्षणम्, “चेष्टेन्द्रियार्थाश्रयः शरीरम्’ इति त्रेधा व्युदपादयत् । अन्यादृशं शरीरत्वं निरुच्य तद् यदि जगति परमात्मानं प्रति विवक्ष्यते, नेदमपोह्यते । अत एवं न्यायकुसुमान्ञ्जलौ (५) परमाण्वादीनां परमात्मानं प्रति शरीरत्वप्रसङ्गे पूर्वपक्षिकृते, " साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वम्, यत् प्रसज्यते ? यदि साक्षात्प्रयत्नवदधिष्ठेयत्वम्, तदिष्यत एव " इति प्रतिव्यधायि ।

भगवद्भाष्यकाराभिमतशरीरलक्षणम्

तदिदं शरीरत्वं सर्वानुगतं श्रीभाष्ये नविलक्षणत्वाधिकरणे न्यरूपि । तदत्रोपवर्ण्यते । चेष्टेन्द्रियार्थाश्रय इति गौतमस्येवं गम्भीरं भाषमाणस्य भगवतो भाष्यकारस्यात्र किमेकं लक्षणमिदं कृत्स्नमितीष्टम्, उतानेकमिति lxiv विमर्शे, समुदितमेव लक्षणमिति सूक्ष्मेक्षणे स्वयमप्रवृत्तैः कथितमासीत् न्यायकुलिशग्रन्थेऽपि नातीवैतन्निरूपणे वैयप्रयमध्यूढमिति ज्ञायते । अथ तु सूक्ष्मेक्षणेन न्यायसूत्र इव तद्भाष्येऽपि लक्षणत्रयनिश्चयो दर्शितः ।

न्यायसिद्धाञ्जननिष्कर्षः

तथा हि न्यायसिद्धाञ्जने श्रीमन्निगमान्तमहा देशिकैरित्थं निरकर्षि, “इह प्रसङ्गात् सामान्यतः शरीरलक्षणमुच्यते । यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुञ्च शक्यम्, तच्छेषतैकस्वरूपञ्च तत् तस्य शरीरमिति भाष्यम्…….. तत्रैवं लक्षणत्रय निष्कर्षः - यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमसंबन्धानहं स्वशक्ये नियन्तव्यस्वभावम्, तदवस्थं तस्य शरीरमित्येकं लक्षणम् । यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तं धार्यम्, तदवस्थं तस्य शरीरमिति द्वितीयं लक्षणम् । यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमशेषतानर्हम्, तदवस्थं तस्य शरीरमिति तृतीयं लक्षणमिति । परस्ताच्च भगवद्भाष्यकारहृदयगतं तुरीयमपि किञ्चिल्लक्षणमदर्शि । श्रीमद्रहस्यत्रयसारख्या- ख्यायां सारप्रकाशिकायाम्, न्यायसिद्ध |ञ्जनव्याख्यायां रत्नपेटिकायाञ्च किञ्चिदूरं विचारितमस्ति ।

तदर्थ-विचारः

तदिदं प्रधानप्रतितन्त्रस्त्रादवश्यमेवानुपपत्तिपरिहारेण निष्कृष्य वैद्यमिति विशिष्यात्र विमृश्य निर्णीयते । शरीरत्वं प्रतिसंबन्धि सापेक्षमिति प्रदर्शनाय, यस्य यदिति च निर्देशः । यद् द्रव्यमित्येवोक्तौ, एकस्यैव शरीरादिसर्व- रूपेण परिणामात्, प्रकृतिपृथिव्यादिरूपेण तस्यानियाम्यत्वात् ‘सर्वात्मने’ ति दलघटितं लक्षणं न जाघटीति । सर्वस्यापि जीवं प्रति शरीरत्वेन व्यवहारापत्तिश्चेति यदवस्थमिति परिष्कृतम् । स्वार्थे इत्यस्य स्वविषये इत्यर्थः ; स्वशक्य इति पर्यवसानम् । स्वपदं लक्ष्यशरीरपरम् 1 इदश्च विहगादिशरीरकार्य- विहायोगमनादेर्मनुष्यशरीराद्यशक्यतया सर्वात्मना नियन्तुं शक्यत्वं न भवतीत्यसंभवशङ्कापरिहाराय सर्वात्मनेत्यस्य सर्वप्रकारेणेत्यर्थपरत्वाभावात् / सर्वदेत्यर्थे तात्पर्यात् स्वशक्यविषयमेवादाय लक्षणसमन्वय संभवात् । स्वार्थ इति स्वरूपकीर्तनमात्रम् ; न तु लक्षणप्रविष्टम्, प्रयोजनविरहात् । सर्वात्मनेत्यस्य यावद्द्रव्यभावीत्यर्थ इति श्रुतप्रकाशिका । अस्य च . क्रियाविशेषणस्य नियन्तुं धारयितुश्चोत्यत्रान्वयः । तस्य यावद्द्रव्यं lxv लक्ष्यभूतशरीरात्मकद्रव्य सत्तापर्यन्तं भावीत्यर्थः । तथा च यावत्स्वसत्तं वर्तमानं यत् नियमनम्, यच्च धारणम्, तद्विषयीकर्तुं शक्यमिति वाक्यार्थः । स्वसत्ताव्यापक नियन्तव्यताकं स्वसत्ताव्यापकधार्यताकश्चेति पर्यवसितम् । यदा यदा स्वसत्ता, तदा तदा नियन्तव्यता धार्यता चेति कालिकसंबन्धेन व्याप्यव्यापकभावः । अथवा यावदूद्रव्यभावीत्यस्य यावत्सत्तं संवन्धीत्यर्थः । अस्य च न क्रियाविशेषणत्वम् ; किं तु द्रव्यविशेषणत्वमेव ।

रहस्यत्रयसारोक्तसंग्रहः

किमिदं नियन्तव्यत्वम्? किञ्चेदं धार्यत्वमिति चेत् — तदुपवर्णितं श्रीमति रहस्यत्रयसारे मणिप्रबालात्मनि, “धारकनुमाय् नियन्तावुमाथिरुक्कैयावदु स्वरूपत्तालुं संकल्पत्तालुं यथार्ह सत्तास्थितिप्रवृत्तिप्रयोजकनांयिरुक्कै” इति । अत्र यथार्हमित्युक्त्या धारकत्वं सत्ता स्थितिप्रयोजकत्वम्, नियन्तृत्वं त्रितयप्रयोजकत्वमिति यथासंभवं ग्राह्यमिति बोध्यते । न हि चेतनस्व- रूपमात्रस्य शरीरप्रवृत्तिप्रयोजकता, – संकल्पद्वारेव तस्य व्यापारहेतुत्वात् । अत्र सत्ता प्रथमक्षणसंवन्धः; स्थितिः उत्तरोत्तरक्षणसंबन्धः । एवमत्रेश्वरसं सत्ता स्थितिप्रवृत्तित्रितयहेतुत्वेऽपि जीवस्य स्वशरीरसबन्धस्य स्वसंकल्पायत्तत्वाभावान्न संकल्पद्वारा स्थितिहेतुत्वम् । यदि तु स्थितिशब्देन पतनाभावरूपस्थितिर्विवक्ष्यते, तर्हि जागरदशायां पतनाभावरूपस्थिति- जवसंकल्पायत्तेति सुवचम् । उक्तश्च तत्रैव । कल्पस्य परं तु विभुद्रव्ये कालादौ पतनाप्रसक्त्या एतादृशस्थितेस्तेनश्वर सं- कल्पायत्तत्ववर्णनस्य नातीवौचित्यमिति उत्तरक्षण संबन्धरूपस्थितिरेव विवक्ष्यते । तत्र तर्हि तदुपपादनं तु पतनाभावरूपदेश संबन्धात्मक स्थितेर्जीवसंकल्पाधी- नत्वेऽपि क्षणसंबन्धरूपस्थितस्तत्संकल्पाधीनत्वं नास्तीति सूचनेन यथाई- मिति पूर्वप्रयुक्तस्य दलस्यौचित्यसूचनाय । तथा च सत्तास्थितीति पदद्वयेन सद्भावमात्रं विवक्षितम् । तेन सत्ताप्रयोजकत्वं धारकत्वम्, प्रवृत्तिरूपव्यापार- प्रयोजकसंकल्पाश्रयत्वं नियन्तृत्वमिति निष्पन्नम् । एवञ्च प्रकृते स्वरूपप्रयोज्य - सत्ताकत्वं धार्यत्वम्, संकल्प प्रयोज्यव्यापारस्वरूप योग्यध्वं नियन्तव्यत्वमिति सिद्धम् ।

प्रथमलक्षणविचारः

अत्र च तच्चेतन संकल्प प्रयोज्यव्यापारस्वरूप योग्यत्वं तदवस्थनिष्ठं तच्चेतनं प्रति शरीरत्वमित्येव प्रथमलक्षणमित्युक्तौ सजीवपरकायप्राणेन्द्रिय- Ixvi कुठारादिषु कदाचित् तत्सद्भावात् तेषां शरीरत्वापत्तिरिति सर्वात्मनेत्युक्तम् यद्यपीदं लक्षणान्तर इव प्रकृतेऽपि यावत्सत्तमित्यर्थकमेव भवितुमर्हति ; परकायादिषु एतच्चेतनसंकल्पाधीनव्यापारस्वरूप योग्यतायाः स्वसत्ताकालव्या- पित्वाभावेनैवातिव्याप्तिवारण संभवात् - अथापि यद्वस्तु लोष्टकन्दुकादिकं केनचित् पुरुषेण स्वहस्तेन क्रियमाणं तदधीनव्यापार विशिष्टमेव नष्टम्, तत्र सर्वदा तद्वयापारसत्त्वेन स्वरूपयोग्यताया अप्यावश्यकत्वेनातिव्याप्तिः स्यादिति सर्वात्मनेति पदस्य प्रथमलक्षणे यावत्सत्तमसंबन्धानर्हमिति तात्पर्यं वर्णितम् । तस्य तु वस्तुनो वस्तुगल्या यावत्सत्तमेव संबन्धित्वेऽप्य- संबन्धित्वार्हत्वानपायात् असंबन्धानर्हत्वं नास्तीति न दोषः । अत्र यस्य चेतनस्य यद्द्द्द्रव्यं सर्वात्मना नियन्तुं शक्यमित्यस्य, यद् द्रव्यं सर्वात्मना यस्य चेतनस्य भवति, नियन्तुं शक्यश्च भवति ; सर्वात्मना यच्चेतन संबन्धि सत् यद् द्रव्यं तस्य नियन्तुं शक्यमित्यर्थः । सर्वात्मना - सर्वरूपेण, सर्वप्रकारेण, सर्वकालेपि; यावत्सत्तमिति यावत् । चेतनस्येति षष्ठथा यावत्सत्तं संबन्धलाभः । इदमेव निष्कृष्य, ‘यावद्द्रव्यभावीत्यर्थ’ इति प्रमेयमालायां श्रीवरदगुरुभिः, श्रीव्यासार्यैश्च श्रुतप्रकाशिकायां विवृतम् । तस्य, ‘यावत्सत्तं चेतन संबन्धी’ त्येव ह्यर्थः । तदेवं मूलादेतल्लाभप्रकारः ।

यावत्सत्तम् इत्यस्यान्वयार्थ-शोधनम्

ननु शरीरस्य हृद्देशावच्छदेनात्मसंबन्धित्वेऽपि तदन्यदेशावच्छेदेना- संबन्धस्यापि विद्यमानत्वादसंबन्धानर्हत्वं न भवति । नतराचानेकशरीर- परिग्राहिसौभर्यादिशरीरेषु । अतः तच्चेतनासंबन्धानर्हत्वं तदीयचैतन्यासंबन्धा- नईत्वरूपमेष्टव्यम् । अत एव चैतन्यविशिष्टवाचिचेतनशब्दनिर्देशः । शरीरे च, ‘एकां शाखां जीवो जहाति, अथ सा शुष्यति’ इत्यादिप्रमाणेन, सर्वाङ्गीण सुखाद्युपलब्ध्या च कार्त्स्न्येन चैतन्यप्रसराङ्गीकारान्न दोषः । एवञ्च नित्यमुक्तात्म चैतन्यस्य विभुत्वेन तच्चैतन्यासंबन्धान तत्संकल्पाधी- नकादाचित्कव्यापारशालिनि वस्तुन्यतिव्याप्तिः । न च यावत्सत्तमित्यस्य नियन्तव्यस्वभावमित्यत्राप्यन्वयात् स्वसत्ता- व्यापक नियन्तव्यत्वस्वरूप योग्यताकत्वलाभात् तस्य न तच्छरीरत्वापत्तिः, तत्र व्यापारस्य कादाचित्कत्वादिति वाच्यम् - एवमपि नित्यमुक्तनिर्मिततन्नियमना- श्रीनव्यापार विशिष्ट विनष्टकन्दुकादेः तच्छरीरत्वापत्तेदुर्वरत्वात् । lxvii न च — यावत्सत्तमसंबन्धान हमित्यस्य स्वसत्ताव्यापकसंबन्धवत्त्व- मित्यर्थात् शरीरतयाऽभिमतवस्तुनिष्ठे एकस्मिन्नेव चेतनसंबन्धव्यक्तिविशेषे तत्सत्ताकालव्यापिताया उपपादनीयत्वान्न दोषः । कन्दुकादिषु नित्यमुक्त चैतन्य • संबन्धो वर्तमानो न यावत्सत्तमेकः । उत्पद्यमानस्य वस्तुन उत्पत्तिप्रभृति विनाशपर्यन्तं क्रियारहितत्वा संभवेन क्रियापूर्वकालस्थित चैतन्यसंयोगापेक्षया क्रियानन्तरभाविचैतन्य प्रदेशान्तरसंयोगस्य भिन्नत्वेन यावत्सत्तमेकसंबन्धाभावात् । वास्तवशरीरेषु तु तत्तदात्मचैतन्यस्यान्यूनानधिकदेशभाविपरिणामरूपविलक्षण- प्रसरणावस्थस्य शरीरसहस्थायिनः आतत्सद्भावमेकत्वेन संकोचाद्यभावेन तत्संयोग एक एव शरीरसत्ताव्यापक इति नासंभवः । शरीराभिवृद्धौ । चैतन्यस्याधिकः प्रसरः, तदपचये च तत्संकोच इति स्थितेऽपि ततत्प्रदेशो- त्पत्तिसहभुवस्तत्रतत्र संयोगस्य तत्प्रदेशसद्भावपर्यन्तमेकस्यैव स्वीकार- संभवादिति – वाच्यम् — नित्यानां नित्यविभूतौ प्रकृतौ च संकल्पाधीन- व्यापारसंभवेन तयोश्चाक्रियत्वेन तत्र नित्य चैतन्यसंयोगभेदे प्रमाणाभावेन स्वसत्ताव्यापकतच्चैतन्य संयोगतदधीनव्यापारस्वरूप योग्यताकत्वसत्वेन तच्छरीर- त्वापत्तेरशक्यवारणत्वात् ।

न च — यावत्सत्तमसंबन्धानत्वं नाम अपृथक्सिद्धत्वमेव । अपृथ- सिद्धत्वञ्चात्मैकाश्रयत्वं यत्र तत्रैव स्वीक्रियते तदेकाश्रयत्वं नाम साक्षाद्वा चैतन्यद्वारा वा तत्संबन्धाभावे प्रसजति विनाशित्वप्रसक्तिमत्त्वम् । तत्र नित्यमुक्तसंबन्धाभावे सति प्रकृत्यादिकं न स्यादित्यवं प्रयोज्य प्रयोजकभावे प्रमाणाभावेन तदेकाश्रयत्वस्य तत्राभावादपृथक्सिद्धत्वमपि नास्ति । ततश्च तद- पृथक्सिद्धत्वे सति तत्संकल्पाधीन व्यापारस्वरूपयोग्यतावत्त्वं तच्छरीरत्वमिति - वाच्यम्—असंबन्धानर्हत्वस्यापृथक्सिद्धत्वरूपेण निष्कर्षे तदपृथक्सिद्धद्रव्यत्व- रूपदलस्यैव पर्याप्ततया विशेष्यदलवैयर्थ्यात् । न च धर्मभूतज्ञानस्य स्वशरीरत्वापत्तिः; सौभर्यादिशरीरान्तरे तदपृथक्सिद्धत्वाभावेनाव्याल्यापच्या तच्चैतन्यद्वारा तदपृथक्सिद्धत्वमिति प्रथमदलनिष्कर्षस्य कर्तव्यत्वेन धर्मभूतज्ञाने चैतन्यद्वारकापृथक्सिद्धत्वाभावेनैवाव्याप्तिवारणेन शेष (विशेष्यदल) वैयर्थ्यधौ- व्यात् । वस्तुतस्तु यावत्सत्तमसंबन्धानर्हत्वमात्रनिवेशे पितापुत्रभाव संबन्धा- भावानर्हत्वस्य पुत्रे सत्खेन पितरं प्रति पुत्रस्य शरिरत्वापत्तिवारणाय नियन्तव्यस्वभावत्वनिवेशावश्यकताया उपरि ग्रन्थ एवोक्तत्वेन अपृथक्सिद्धत्वे पर्यवसाने तद्विरोधापत्तिश्च । lxviii अत एव यावत्सत्तं तदीयचैतन्य संबन्धित्वमेव तादृशासंबन्धानर्हस्वमिति पूर्वोक्तप्रकारोऽपि न युक्तः । पुत्रशरीरादौ तत्सद्भावप्रदर्शकग्रन्थविरोधात् । अतः किमिदं यावत्सत्तमसंबन्धानर्हत्वमिति चेत् - अत्नोच्यते—अस्येदमिति प्रतीतिसिद्धः संसर्गविशेष एवात्र संबन्धः । चेतननिरूपित तादृशसंबन्धविशेषानईत्वमिति विशिष्टार्थः । इदञ्च सर्वेष्वपि सौभरिशरीरेष्वस्ति । तत्रैकस्मिन्नेव शरीरेसौभ रिसत्त्वेऽपि सर्वेषामपि तदीयत्वान- पायात् । तदिदं तदीयत्वं चैतन्यद्वारा तदाधेयत्वाद्वा तद्भोगायतनत्वाद्वा, तत्स्वामिकत्वाद्वा यथाकथञ्चिद्भवतु । न तद् विशिष्य लक्षणघटकम् । किंतु अस्येद- मित्यनुभवसिद्धसंबन्धत्वेन । तस्येदमित्यपत्येऽपि प्रयोगात् पितापुत्रभावोऽपि तादृशः संबन्ध इति पुत्रशरीरादावतिव्याप्तिरिति विशेष्यदलम् । अत उत्तर ग्रन्थ- सामञ्जस्यम् । प्रकृतिनित्यविभूत्यादिषु नित्यमुक्तनियमनाधीनव्यापारसद्भावेऽपि तत्र तस्येदमिति व्यवहाराभावात्, तच्चैतन्यप्रसरस्य तत्र सत्वेऽपि तादृशस्य संबन्धत्वे प्रमाणाभावाच्चासंबन्धानर्ह त्वोपपत्तिः । यत्तु किञ्चित् कन्दुकादिकं तन्निर्मितं यावत्सत्तं तन्निरूपितस्वत्वादिसंबन्धवदेव नष्टम् । तत्राप्य- संबन्धाईत्वसद्भावान्नासंबन्धानर्हत्वघटितं लक्षणम् । न च तन्निर्मिते तत्र जन्यजनकभावरूपसंबन्धस्य वर्तमानत्वात् तदभावात्वस्य तत्र दुर्वचत्वेन लक्षण- मक्षतमिति वाच्यम् — चेतनसंबन्धेत्यनेन चेतनैकान्त संबन्धस्य विवक्षिततया जन्यजनकभावस्याचेतनसाधारणतया तद्ग्रहणायोगात् । न च तत्कृतिजन्यत्व- रूपसंबन्धस्य कन्दुकादिगततया तस्य चेतनैकनिरूप्यतया स एव दोष इति वाच्यम् — कृतिजन्यत्वरूपपरम्परायाः संबन्धत्वे प्रमाणाभावात् पितापुत्रभावजन्यजनकभावादेरनुभवसिद्धत्वेन ग्रहणेऽपि, अस्य विशिष्य ग्रहणासंभवात् । यद्वा वक्ष्यमाणरीत्या द्वितीयदलेनैव तद्वारणमिति, नन्वेवमपृथक्सिद्धत्वस्य तखेन रूपेणाप्रवेशे, “ यावत्सत्तमसंबन्धान- ईत्वमपृथक्सिद्धत्व” मिति उपरि वक्ष्यमाणं विरुध्येतेति शङ्क्यम्— तत्सूक्तेर्विशिष्य तथानिवेशतात्पर्यकत्वे प्रथमलक्षणप्रकरण एव तल्लेखनस्यावश्य- कत्वप्रसंगात् । चतुर्थलक्षणानन्तरं लेखनात्तु तस्यान्याभिप्रायकत्वमेव । तच्च वक्ष्यामः । इदमनं बोध्यम् - तृतीयलक्षणे अशेषतानर्हत्व निवेशवत् अत्राप्य- नियाम्यतानर्हत्व निवेशनेन कदाचिन्नियम्ये परकायादावतिव्याप्तिवारणं Ixix न युक्तम् ; तथा सति स्वशरीरस्यापि रोगा दिवशेन नियाम्यत्वाभावसत्त्वेन तदनईत्वाभावेनाव्याप्तेः । शेषत्वं तु अतिशयाधायकत्वरूपं सर्वदाऽस्त्येवेति तत्र न दोषः I न च पुत्रशरीरस्य कदाचिन्नियाम्यत्वात् कथं नातिव्याप्तिरिति शक्यम् — नियन्तव्यस्वभावत्वमित्यस्य प्रतिबन्धकाभाव- विशिष्टनियमन नियतोत्तर भाविव्यापारकत्वरूपत्वेनादोषात् यदा यदा पितुर्नियमनम्, तत्तदुत्तरकाले नियमेन तत्र व्यापार इत्यत्र प्रमाणाभावात् । ईदृशव्यापारवत्वस्य निर्व्यापारतादशायामभावादतिव्याप्तिरिति स्वभावेति । तथा च प्रतिबन्धकाभावविशिष्टनियमनोत्तरकालवृत्यभावप्रतियोगिव्यापारकत्वा- भाववस्त्रं तादृशनियमनोत्तरकालावच्छिन्नव्यापाराभाववत्त्वानर्हत्वं वा नियन्तव्य स्वभावत्वम् 1 स्वशरीरकुठारादौ अनितरापृथक्सिद्धे तथाविधव्या- पारयोग्यता स्वीक्रियते । पुत्रशरीरादौ पराधीनतया तथा नियन्तुं शक्यता न स्वीक्रियत इति । न चैवं परकाये तदभावेन तदर्थं प्रथमदलकीर्तन- मुक्तं न घटत इति मन्तव्यम् — नियमनविषयत्वमात्रार्थकत्वे परकायेऽतिव्याप्तिः, निरुक्तरीत्या पुत्रशरीरादावतिव्याप्तिवारणाय परिष्कारे प्राणेन्द्रियकुठारादावति- व्याप्तिरिति तात्पर्यात् । तत्र च चेतनसंबन्धित्वमात्रोक्तौ कुठारादौ स्वस्वामिभावादेरक्षतत्वाद- संबन्धानर्हमिति । दानादिना तत्रासंबन्धस्यापि संभावितत्वान्न तदनईत्वम् । न खलु पितापुत्रभावादेखि संपन्नस्य स्वत्वस्याभावो दुष्कर इति न दोषः । एवं सति शरीरस्य भस्मत्वाद्यवस्थान्तरेऽसंबन्ध सत्त्वेनासंभव इति शङ्कायां यावत्सत्त- भावित्वार्थकेन सर्वात्मनेति पदेन यदवस्थमितीदञ्च अनर्हत्वघटनश्च सूचितमिति ज्ञापयितुं यावत्सत्तमित्युक्तम् । तदवस्थसत्ताकालिकतच्चेतनैकान्तसंबन्धाभावाई- स्वाभाववस्वमिति प्रथमदलार्थः । तदवस्थसत्ताव्यापकतच्चेतनैकान्तसंबन्धकत्व - निवेशेऽपि यावत्सत्तं तत्स्वभूते कुठारादावतिव्याप्तिरिति तदभावानर्हत्वोक्तिः । एवश्व व्यापकत्वं नापेक्षितम् । धर्मभूतज्ञानस्यापि मुक्तिमार्गग्रहणादिषु सद्विषयेषु अध्यवसायरूपसंकल्पतो नियमनसंभवात् तन्नियाम्यत्वमक्षतम्, अपृथक्सिद्धतया संबद्धत्वाच्च प्रथमदलमपीति तद्वारणार्थं चेतन पदस्य चेतनपदस्य चैतन्यविशिष्टाधिकत्वकथनम् । तस्य न तेन चैतन्यविशिष्टत्वरूपेण नियमनेऽन्वयः; नियमनस्य संकल्पस्य चैतन्यविशिष्टवृत्तित्वे प्रमाणाभावात् । तथा सति शरीरनियमने धर्मभूतज्ञाननियमने च वैलक्षण्यस्य दुरुपपादत्वात् । किंतु प्रथमदले संबन्धेऽन्वयः । तथाच स्वसत्ताकालिकचैतन्यावच्छिन्नानुयोगि- ताकसंबन्धाभावानर्हस्वमिति निष्कृष्टम् । चैतन्ये च चैतन्यावच्छिन्नानुयोगि- ixx ताकसंबन्धाभावान्न दोषः । न च पितापुत्रभावरूप संबन्धे चैतन्यावच्छिन्नानुयोगि- ताकत्वं कथमिति शङ्क्यम् — शरीरविशिष्टात्मन एव पितृत्वेन, आत्मत्वस्य नियन्तृत्वरूपत्वेन नियमनरूप चैतन्यावच्छिन्नानुयोगिताकत्वस्य संबन्धे अक्षतत्वात् । स्वस्य स्वधर्मितावच्छेदकत्वाभावेन चैतन्यसंबन्धे चैतन्याव- च्छिन्नानुयोगिताकत्वाभावेऽपि अन्यसंबन्धे तस्य तस्त्रस्य संभवाच्च ।

नियन्तव्यत्वदलस्य निर्वचनान्तरम्

इदं तु वक्तुं शक्यम् — नियन्तव्यत्वं संकल्पसाक्षान्नन्यव्यापारा- श्रयत्वम् । पुत्रशरीरस्य पुत्रात्मनश्च पितृसंकल्पसमनन्तरमेव व्यापारविशिष्ट- त्वाभावात् । संकल्पानन्तरभाविवाक्योच्चारणादिस्वशरीरव्यापाराद्युत्तरभावित्वेन विलम्बितत्वात् । शरीरतयाऽभिमतेषु च साक्षादेव व्यापारभावादक्षतं लक्षणम् । अत्र स्वभावशब्देनाव्याप्तिपरिहार इत्युक्तत्वात् कदाचित् निर्व्या- पारतादशायामपि शरीरत्वसंपत्तये तादृशव्यापारस्वरूप योग्यत्वं निवेशनीयम् । न चैवं यस्य पुत्रकायात्मकपरकायप्रवेशः कदाचित् तं प्रति तस्य शरीरत्वापत्तिः, पितापुत्रभावरूप संवन्धसत्त्वात् उत्तरदलसत्त्वाच्चेति वाच्यम् — तत्रापि तत्संकल्प समनन्तरव्यापारकत्वानङ्गीकारात् । तत्संकल्पाधी- नपुत्रसंकल्पायत्तत्वात् तन्निष्ठव्यापारस्य | न चैवमपि तस्मिन् पुत्रात्मनि शरीरलक्षणातिव्याप्तिः; पितरं प्रति पुत्रत्वरूपसंबन्धसत्त्वात् उत्तरदलसत्वाच्चेति वाच्यम् – पुत्रगत संकल्पादिव्यापारस्यापि पितृगतसंकल्पा- नन्तरभाविपुत्रमनःकृततद्ग्रहण-सत्त्वादिगुणोन्मेषाद्यनन्तरभावित्वेन व्यवहित- खात् । न च – परकाय एव पुत्रसंकल्पमद्वारीकृत्य कृतं व्यापार- मादायातिव्याप्तिः । किं बहुना । अप्रविश्य परकायमात्मसंकल्पमात्रेण तत्र व्यापारविधानं न खलु महिमशालिनां न शक्यमिति वाच्यम्- तादृशस्थले शक्तिविशेषस्यापि संकल्पसहकारिकारणत्वात् । तद्रहितसंकल्पतः कार्यादर्शनात् । प्रकृते च शक्तिविशेषासहकृतसंकल्पसाक्षाज्जन्यव्यापार- स्वरूपयोग्यत्वविवक्षणेनादोषात् । न चावतारदशायां नित्यमुक्तपुत्रशरीरस्य तच्छरीरत्वापत्तिः । तत्रापि भगवदाहितशक्तिविशेषसहकारेणैव संकल्पस्य हेतुत्वाङ्गीकारात् । स्वशरीरविषये तस्य तस्य संकल्प एव कारणम् । कदाचित् संकल्पेऽपि कार्यानुत्पत्तिः प्रतिबन्धकसद्भावादिति । तथा च शक्तिविशेषा सहकृत तत्संकल्पसाक्षाज्जन्यव्यापारस्वरूप योग्यत्व- मिति विशेष्यदलम् । एतावदुक्तावपि यद्यपि कुठारादौ नातिव्याप्तिः; ixxi तद्वयापारस्य शरीरव्यापारद्वारकत्वात् । तथापि प्राणे इन्द्रियेषु चातिप्रसक्तिः । तद्वारणार्थं प्रथमदलम् । न च यावत्सत्तमित्येतावदेवालमिति शक्यम्- प्राणादावपि स्वरूपयोप्यताया यावत्सत्तभावित्वेनापरिहारात् । न च नियमन- प्रयुक्तस्वव्यापारसामान्यकत्वनिवेशान्न प्राणादिष्वतिव्याप्तिरिति वाच्यम्- स्वशरीरे स्वसंकल्पं विनैव व्याधि-वात्या प्रवाह - परपुरुषादिनाऽपि सहस्रशो व्यापारसंभवेनाव्याप्यापत्तेः । अतो यावत्सत्तं संबन्धीति निवेश्यम् । एवञ्च धर्मभूतज्ञानेऽतिव्याप्तिवारणाय पृथक् चैतन्यवत्वे सतीति न निवेश्यम् ; किंतु अस्यैव संबन्धस्य चैतन्यावच्छिन्नानुयोगिताकत्वं विवक्षणीयम् । एवमपि मनुष्यादिशरीरे प्राणस्य पञ्चधावस्थानस्य भाषितत्वेन तादृशविलक्षणा- वस्थाविशिष्टप्राणस्य स्वसत्तापर्यन्तचेतन संबन्धशालितया तच्छरीरत्वापत्तिरिति तद्वारणायासंबन्धानर्हेत्युक्तम् । अपृथसिद्धत्वाभावेन आप्रलयं मुक्तप्राण- पृथक स्थित्यङ्गीकाराश्ञ्च भगवत्संकल्पवशेन मनुष्यशरीरादौ पञ्चधावस्थानसमय इव तादृशविलक्षणावस्थाविशिष्टस्यैव तस्य चेतनासंबन्धसंभवेन अमुक्तै- तत्कल्पीयजीव प्राणस्याप्यसंबन्धानत्वाभावान्न दोषः । तथा च तदवस्थापन्नसत्ताकालिकं यत् तन्निष्ठचैतन्यावच्छिन्नानु- योगिताकसंबन्धाभावार्हत्वम्, तदभाववत्वमिति प्रथमदलम् । द्वितीयदलं तु शक्तिविशेषासहकृततत्संकल्प साक्षाज्जन्यव्यापारस्वरूप योग्यत्वं वा पूर्वोक्तरीत्या प्रतिबन्धकाभावविशिष्टतत्संकल्पनियतो त्तरभाविव्यापारकत्वं वा भवतु । न चैतत्कल्पेऽवतीर्णमुक्त पुत्रशरीरस्य तच्छरीरत्वप्रसङ्गः, पितापुत्रभावसंवन्धस्या- क्षतत्वात्, मुक्तस्य चाप्रतिहत संकल्पत्वेन तन्नियतोत्तरभावित्वस्य व्यापारे अक्षतत्वाच्चेति वाच्यम् — तत्र भगवदा हितशक्तिविशेषसह कृत संकल्पस्यैव हेतुतया पूर्ववदत्रापि शक्तिविशेषा सहकृतत्व निवेशेनापत्तिवारणात् । तत्र च साक्षात्परम्परासाधारणनियाम्यत्व निवेशेऽपि सामञ्जस्ये साक्षात्पदघटितं लक्षणं नापेक्षितमिति ‘प्राणेन्द्रियकुठारादिषु’ इति कुठारपदप्रयोगात् ज्ञायते । अत्र चेतन संबधिक्रियासंयोगादौ यावत्सत्तं संवन्धिनि तन्नियमनाधीनकार्यवति अतिप्रसङ्गवारणाय ‘द्रव्य’ मित्युक्तम् ।

गुणादेः शरीरत्वायोगः

न च तस्यापि शरीरत्वे को दोषः ? अन्तर्यामिब्राह्मणादौ पृथिव्यादीना- मिवाविशेषेण, ‘यस्य वेदाः शरीरम्’, ‘यस्य यज्ञाः शरीरम्’ इति गुणे क्रियायाश्च भगवच्छरीरत्वव्यवहारदर्शनात् । लोकवेदावगत सर्वव्यवहारानु- ixxii यायिशरीरलक्षणस्यैव नैयायिकमतनिरसनेन संप्रति वर्णनादिति वाध्यम्- असंभवात् । न तावत् द्रव्यान्तरगत शब्द क्रियादेरपृथक्सिद्धत्वं संभवति, साक्षात्संबन्धस्यैवाभावात् । द्रव्ययेोरेव साक्षात्संबन्धात् । तत्राप्यपृथक्सिद्धत्वाङ्गी- कारे साक्षादेव ब्रह्मणो जडत्वदुःखित्वादिप्रसङ्गेन, ‘इतरव्यपदेशाद्धिताकरणादिदो- षप्रसक्तिः’ इत्यादिसूत्राणां भेदनिर्बिकारत्वादिश्रुतीनाञ्चात्यन्तविरोधेन बहुवैयाकुली स्यात् । परम्परया अपृथक्सिद्धत्वमात्रेणापि न शरीरत्वम् ; भगवच्छरीरभूतचेतना- चेतनगत गुणक्रियादेर्भगवच्छरीरत्वाङ्गीकारे तुल्यन्यायेन चेतनशरीरगतानां रूपरसगतागतादीनामपि चेतन शरीरत्वस्यैष्टव्यत्वप्रसङ्गात् । न चैवं लोकव्यवहारः; एवं प्रलयादिदशायामपि चेतने किश्चित्संयोगादेरवश्यम्भावेन तदानीमपि तस्य सशरीरत्वापत्या तस्य कदाचिदशरीरत्वमाम्नायोक्तमपि । बाध्येत ; क्लिष्टगत्या वा नीयेत । अतोऽनुभवव्यवहारविरोधेन तादृशश्रुतेः, ‘आदित्यो यूपः’ इत्यादिवदन्यथानयनमेव युक्तम् । न चैतदविशेषेण सर्वत्र पृथिव्यादावशरीरत्वस्वीकारः साम्प्रतम् । यावत्संभ- वमनुगमविधानेनानेकप्रमाणासंक्षोभस्यैव श्लाध्यत्वात् ।

गुणादिशरीरत्वश्रुतिनिर्वाहः

तर्हि तच्छ्रुतेः कथं निर्वाह इति चेत् — वेदयज्ञाभिमानिदेवताप । नन्वेवमत्रैवान्तर्यामिब्राह्मणे, ‘यः पृथिव्यां तिष्ठन्’ इति पृथिव्यादि समस्तमचिद्वस्तु, ‘यो विज्ञाने तिष्ठन्’ इति चेतनश्च पृथक् पृथङ् निर्दिश्य तस्य तस्य परमात्मशरीरत्वमभिधीयत इति भाष्येणात्मपर्यायमात्रे आत्म- प्रहणवचनात् तद्विरोधः । न; तस्योपलक्षणत्वात् । ‘समस्तमचिद्वस्तु’ इत्यस्याचिद्रव्यमात्रपरत्वात् । अथवा वेदयज्ञादिशब्दानां तत्तन्मात्रपर- त्वमेव । तर्हि कथं तेषां शरीरत्वकथनमिति चेत् — वस्तुतश्शरीरत्वरहिततत्त- दर्थवाचकपदानामपि पृथिव्यादिशब्दानामिव, ‘रूपं गन्धः पृथिव्याश्च’ इत्युक्तरीत्या परमात्मपर्यन्तवाचकता स्वीकर्तव्येति व्युत्पादनाय तेषु शरीरत्ववाचोयुक्तिः । सामानाधिकरण्यनिर्वाहार्थमेव हि घटकश्रुतयः प्रवर्तन्त इति । अतश्च तत्रातिप्रसङ्गवारणाय द्रव्यमिति निवेशः । एवम् उक्ता- वस्थान्तरे शरीरे लक्षणाभावादव्याप्तिरिति यदवस्थं द्रव्यमित्युक्तिः । न च— असंभव एव; सर्वस्यापि शरीरस्यावस्थान्तरे असंबन्धाईत्वादिति वाच्यम् — ईश्वरं प्रति सर्वावस्थस्यापि द्रव्यस्य संवन्धित्वेन लक्षणसंगमनात् ।lxxiii

अवस्थालक्षणम्

अवस्था नाम आगन्तुका पृथक्सिद्धधर्मः । सत्यत्वज्ञानत्व कालत्व जीवत्व- धर्मभूतज्ञानादीनामवस्थात्ववारणायागन्तुकेति । आगन्तुकत्वं स्वाश्रय-प्रतिवन्ध- काभावातिरिक्तकारणसापेक्षत्वम् । रूपरसशब्दादौ सहजशक्तिस्वीकारेऽपि तस्याः प्रतिबन्धकाभावस्वाश्रयमात्र सापेक्षत्वात् तस्या अवस्थात्वाभावेन न तामादाय रूपादेर्द्रव्यत्वापत्तिः । शक्तिभिन्नत्वस्य पृथनिवेशे तु आगन्तुकत्वं जन्यत्वमात्रं प्रागभावप्रतियोगित्वरूपम् 1 घटादेर्भूतलादिकं प्रति, औपाधिकस्य गन्धादेर्जलादिकं प्रति, बाल्यादेश्चेतनं प्रति चावस्थात्ववारणाया- पृथसिद्धेति । अपृथक्सिद्धत्वं नाम स्वप्रतियोग्यवच्छेदक यावत्कालावच्छिन्न- संबन्धवत्त्वम् । स्वं संबन्धः । तत्प्रतियोगि चाऽऽधेयवस्तु । तत् यदा यदा, तदा यः संबन्धो ययोरस्ति, तत्संबन्धवत्वमेव तयोरपृथक्सिद्धत्वम् । काले यावस्वविशेषणात् न घटभूतलसंयोगस्या पृथक्सिद्धत्वम् । धर्मेत्य निवेशे घटत्वादिकं प्रति घटादेरवस्थात्वापत्तिः । घटस्यागन्तुकत्वात् घटत्वा पृथ- सिद्धत्वाच्च । तथा च तदवस्थात्वं नाम जन्यत्वशक्तिभिन्नत्वविशिष्टं तन्निरूपिता पृथक्सिद्धिसंबन्धावच्छिन्नाधेयतावत्त्वम् । नन्वेवं शरीरस्य जीवावस्थात्वापत्तिः; इष्टत्वात् । जीवादीनामपि येन येन रूपेण जन्यत्वम्, तेन तेन रूपेणेश्वरावस्थात्वं स्वीक्रियत एव । अन्यरूपेणावस्थात्वं तु नेष्यते । ननु तत्तज्ञानव्यक्तिविषयत्वादिरूपस्य रूपरसादिधर्मस्यावस्थास्वापत्य रूपादेरपि द्रव्यत्वापत्तिरिति चेन्न – विषयत्वादीनामतिरिक्तपदार्थत्वाभावेन मुख्य- धर्मत्वाभावेनादोषात् । नन्वीदृशावस्थाश्रयत्वस्य यदवस्थशब्दार्थत्वे लक्षणे पुनर्द्र- व्यमिति निवेशः किमर्थः, द्रव्यातिरिक्ते एतदसंभवात् । न च प्रकृतलक्षणे जन्यत्वशक्तिभिन्नत्व विशिष्टत्वं न निवेशनीयम् ; न निवेशनीयम्; किंतु विशेष्यमात्रम् । एवञ्च शक्तिरूपधर्ममादाय पुनश्चेतनगतक्रियादेः शरीरत्वापत्तिरिति द्रव्यत्वनिवेश इति वाच्यम् - द्रव्यत्वं हि नाम अवस्थाश्रयत्वमेवेति पुनरप्युक्तावस्थानिवेशापेक्षया ऽत्र शक्तिभिन्नत्वनिवेशस्यैवोचितत्वादिति चेत् — सत्यम् । जन्यत्वादिघटित- स्योक्तावस्था पदार्थस्यात्र निवेशे जीव-काल- नित्यविभूति-नित्यभगवद्दिव्यमङ्गल. विग्रहादौ सर्वदासंभाविततत्तत्संयोगादिरूपावस्था आदाय क्लेशेन लक्षण- समन्वयापेक्षया कालत्वादिनित्यधर्ममादायैव लक्षणवर्णनादिसैौकर्याीय प्रकृते अवस्थापदं धर्ममात्रार्थकं स्वीक्रियते चेत् अस्तु कामम् ; अथाप्यद्रव्य- वारकं विशेषणं प्रवेश्यमेवेति बोधनाय यदवस्थं द्रव्यमित्युक्तम् । J lxxiv

शरीरशब्दघटितवाक्यार्थः

तथाच तं प्रति शरीरत्वं नाम तन्निष्ठचैतन्यावच्छिन्नानुयेगिता कसंबन्धा- भावाईत्वाभाव प्रतिबन्धकाभावविशिष्टतन्निष्ठसंकल्पोतरकालावच्छिन्नाभावप्रतियो- गिव्यापारवद्भेदोभयानुयोगितावच्छेदकशक्तिभिन्नधर्मवत्त्वम् । अत्र तत्तदवस्था- रूपधर्मे तादृशार्हत्वाभावानुयोगितावच्छेदकत्वस्याप्युक्तत्वात् तद्धर्मावच्छिन्ने ताहरा- संबन्धाभावार्हत्वसत्वे तद्धर्मे तदभावानुयोगितावच्छेदकत्वासंभवात् यावत्सत्तमिति दलप्रयोजनलाभात् सत्ताकालिकत्वरूपविशेषणं त्यक्तम् । अस्येदं शरीरमिति व्यवहारे तन्निष्ठेत्यंशपरित्यागेन उक्तविधाभावद्वयानुयोगितावच्छेदकशक्तिभिन्न- धर्मवदिति शरीरपदार्थः । तद्धटके चैतन्ये संकल्पे च अस्येति षष्ठयर्थधेयताया अन्वयः । इदम्पदार्थतावच्छेदकस्य तादृशानुयोगितावच्छेदकधर्मस्य चाभेदभानं समभिव्याहारबलादिति ध्येयम् ॥

शरीरलक्षणं द्वितीयम्

अथ द्वितीयं लक्षणम् - यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तं धार्यमिति । अत्र धृतिपदेन पतनाभावादिविलक्षणा तावत्क्षण संबन्ध- रूपा स्थितिरेव विवक्षितेति प्रागेवावाचि । धारकत्वं स्थितिप्रयोजकत्वमिति धार्यत्वं प्रयोज्यस्थितिकत्वमेव “आत्मैकाश्रयत्वमात्मविश्लेषे शरीरविनाशादव- वाम्यते” इति श्रीभाष्यानुसारेण । श्रीमद्वहस्यत्रयसाराभिसंहितप्रकारेण चात्र विवक्षितः प्रयोज्यप्रयोजकभावो नित्यजीवकालादिस्थितिसाधारणः, एतच्चेतनाभावे इदं न स्यादित्यारोपावसेयः स्वरूपसंबन्धविशेषः; सौभर्यादिशरीरान्तरेषु, यद्ययं चैतन्यद्वारा न स्यात्, तदेदं न स्यादिति निश्चयात् । ‘एकां शाखां जीवो जहाति, अथ सा शुष्यती’ त्युक्तरीत्या सौभरेः स्थितिप्रयोजकत्वाङ्गी- कारान्न क्षतिः । नित्यमुक्त चैतन्यसंबन्धस्य सर्वत्र सखेऽपि ईदृशप्रयोज्य- प्रयोजकभावे प्रमाणाभावान्नातिव्याप्तिः 1 प्राणेन्द्रियपुत्रशरीरादी- नामपि ईदृश स्थितिमत्वाभावान्न दोषः । शिरस्येवोत्पद्यविनष्टयूकादौ च नातिव्याप्तिः; तत्स्थितेरपि तत्प्रयोज्यत्वे प्रमाणाभावात् । यूकनाशात् प्रागेव जीवविश्लेषे तस्य बहिर्निःसरणादिसंभवात् । एवं परकायस्थितेरपि विनाऽप्येतदात्मानं सद्भावात् प्रयोज्यत्वाभावान्न परकायस्य स्वकायत्वप्रसङ्गः । ननु ज्वरजाठराग्निपश्चवृत्तिप्राणादीनां चेतनाभावेऽभावस्य सुवचखात् तत्प्रयोज्यस्थितिकत्वमस्तीति चेत् — यद्येवम्, तर्हि तत्प्रयोज्यत्वस्थाने

IXXV तन्निष्ठचैतन्य संबन्धप्रयोज्यत्वं तत्प्रयोज्यत्वमिष्यत इति । ननु सौभरिशरीरान्तरेषु ज्वरादेश्चैतन्यसंबन्ध- प्रयोज्यत्वमेव वक्तव्यमिति चेत् - न ; त शरीरगत चैतन्यसंबन्धस्य प्रयोजकत्वेऽपि स्वनिष्ठचैतन्यसंबन्धप्रयोज्यत्वस्य विवक्षितत्वेनादोषात् । विवक्ष्यताम् । तेषामात्मप्रयोज्यत्वेऽपि न वस्तुतः शरीरस्थितावेव चैतन्यसंबन्धः प्रयोजकः । ज्वरादिस्थितौ तु अदृष्टविशेषसह कृतशरीरसंबन्ध एव प्रयोजक इति नैव दोषः प्रसज्यते । ननु यस्य पुरुषस्य वीक्षणवशेन किञ्चिद्वस्तु अविनष्टं चिरमनुवृत्तम्, तत्र तच्चैतन्यसंबन्धप्रयोज्यस्थितिकत्व सत्त्वेनातिव्याप्तिरिति चेत् — अत एव यावत्सत्तमिति निवेश्यते 1 तेन यावत्सत्तं तद्धार्यत्वकथनेन स्थितिप्रयोजके चैतन्यसंबन्धे शरीरत्वाभिमतवस्तुसत्ताव्यापकत्वं लभ्यते । एवश्च कदाचित् स्पृष्टे कटाक्षिते वा तत्र वस्तुनि न दोषः । एतावन्मात्रोक्ती नित्यमुक्तशरीरत्वं सर्वस्य स्यादिति प्रयोज्यत्वस्यापि निवेश: । मद्दृष्टि - पर्यन्तमिदं तिष्ठत्विति येन यद् वस्तु दृष्टम्, तस्यापि न तच्छरीरत्वापत्तिः ; तद्दृष्टिप्राक्कालिकस्थितौ तच्चैतन्यसंबन्धाभावात् तथाविध संकल्पेन चैतन्यसंबन्धपूर्वकमुत्पाद्य दृष्टिस्थापितेऽपि वस्तुनि, इदमेवं तिष्ठस्थिति संकल्प- प्रयोज्यत्वेऽपि दृष्टिप्रयोज्यत्वं नाङ्गीक्रियते । अस्तु वा सर्वथा दोषः - अथापि संकल्पशक्तिविशेष। दिसह कृतचैतन्यसंबन्ध प्रयोज्यत्वेऽपि न केवल- प्रयोज्यत्वमिति लक्षणस्य तथा विवक्षितत्वान्न दोषः । एतादृशविवक्षायाश्च यावत्सत्तमितीदम्, तदभावे इदं न भवतीतीदृशप्रयोज्यप्रयोजकभावज्ञापनाय । यद्वा मत्स्यशिशूनां तन्मातृसमीक्षणमात्रेण स्तन्यपानेनेव स्थितिरिति तत्र स्तन्यादि- स्थल इव शक्तिविशेषापेक्षाविरहेण मत्स्यकानां तन्मातृशरीरत्वापत्तिरिति यावत्सत्तमित्यावश्यकम् तथा च तत्प्रयोज्यसत्तासामान्यकत्व मि• त्युक्तं भवति | स्वहस्त एवोत्पन्नविनष्टे वस्तुनि पतनाभावरूप- धारणस्य स्वप्रयोज्यत्वेऽपि तत्सत्तानुवृत्तिरूपस्थितेर्न स्वचैतन्यसंबन्धप्रयोज्यत्व- मिति न दोषप्रसक्तिः । प्रभायाः प्रभावदधीनस्थितिकत्वेऽपि चैतन्यसंबन्ध- घटितलक्षणस्य न प्रसङ्गः । धर्मभूतज्ञानस्य च न शरीरत्वम् ; तत्स्थितेश्चै- तन्यसंबन्धायत्तत्वाभावात् । इदं चेतनस्येति पदलब्धम् । शरीरस्थिताविव शरीरक्रियादावपि चैतन्यसंबन्धस्य प्रयोजकत्वमस्तीति तदधीनस्थितिकत्वात् शरीरक्रियादावतिव्याप्तिरिति द्रव्यमिति । शरीरस्याप्यवस्थान्तरवेषेण चैतन्य. संबन्धाभावेऽपि सद्भावात् प्रयोज्यत्वं न स्यादिति शङ्कायां यद्धर्मावच्छिन्नस्थितेः प्रयोज्यत्वम्, तद्धर्मावच्छिन्नत्वमेव शरीरत्वमिति वक्तुं यदबस्थमिति । lxxvi एवञ्चैकधर्मावच्छिन्नसत्तायां प्रयोज्यत्वसद्भावमात्रेण नावस्थान्तरे शरीरव्यवहार- प्रसङ्गः । तथा च तन्निष्ठकेवल चैतन्यसंबन्धप्रयोज्यतद्धर्मावच्छिन्नसत्तासामा- न्यकत्वं तच्चेतनं प्रति तद्धर्मावच्छिन्नस्य शरीरत्वम् । अस्येदं शरीरमित्यत्र शरीरपदं केवलचैतन्य संबन्धप्रयोज्य किश्चिद्धर्मावच्छिन्न सत्तासामान्यकपरम् । अस्येति चेतनवाचकपदोत्तरषष्ठया आधेयत्वमर्थः चैतन्यान्वयि । इदम्पदार्थ - तावच्छेदकधर्मस्य शरीरपदार्थघटकधर्मस्प चाभेदबुद्धिः पार्ष्टिकी । अतो नावस्थान्तरे शरीरत्वापत्तिरिति ।

तृतीयलक्षणम्

अथ तृतीयं लक्षणम् — यस्य चेतनस्य यदवस्थं द्रव्यं यावत्सत्तमशेष- तानर्हम्, तस्य तदवस्थं शरीरमिति । प्रभावन्तं प्रति प्रभायाः शरीरत्वापत्तिरिति चेतनस्येति । शरीररूपद्रव्यस्यावस्थान्तरे अशेषतार्हत्वात् अनर्हत्वघटितलक्षण- स्याव्याप्तिरिति यदवस्थमिति । चेतनगत संयोगाधायक क्रियादेः शरीरत्ववारणाय द्रव्यमिति । शेषभूतमित्युक्तौ कादाचित्कशेषभावे गृहक्षेत्रादावतिव्याप्तिरिति अशेषतानर्हेत्युक्तम् । गृहक्षेत्र पुत्रादेर्दानादिना स्वशेषस्वनिवृत्तिसंभवान्ना- नर्हस्वमिति न दोषः । इदञ्च भाष्ये शेषतैकस्वरूपमिति एकपदबलाल्लब्धम् । अत्र, ‘शेषतै कस्वरूपमित्येकपदेन स्वाभाविकशेषित्वं नास्तीत्यर्थबोधनेन कादाचित्कस्वेच्छायत्तभागवतशेषत्वशालिनि भगवति नातिव्याप्तिरित्युक्तौ कदाचिदपि शेषित्वरहिते प्राणेन्द्रियादावतिव्याप्तिरिति सर्वात्मनेति पदमनुषज्य यावत्सत्तं शेषत्वं वर्णनीयम् 1 एवश्च प्राणादावाप्रलयस्थायिनि नातिव्याप्तिः । एतन्निवेशेऽपि यावत्सत्तं शेषतया स्थिते कुठारादौ स एव दोष इति अशेषतानर्हमित्यर्थवर्णन मावश्यकम्’ इति दर्शयितुं यावत्सत्तमित्युक्तम् । अशेषतानर्हमिति परिष्करणानन्तरं न तस्य लक्षणे प्रवेशः । एतच्छरीरलक्षणघटके तच्छेषत्वे तन्निष्ठातिशयाधायकत्वरूपे तन्निष्ठेत्यत्र तन्निष्ठनिरूपकताकाधेयताघटकनिरूपकतायां तेन चैतन्यनिष्ठाधेयतानिरूपकतायामित्र चैतन्यावच्छिन्नत्वनिवेश: चैतन्याधेयातिशयनिष्ठाधेयता- निरूपकतायामपि चैतन्यावच्छिन्नत्वस्यानङ्गीकारात् तादृशातिशयाध । यकत्वा- भावान ईत्वस्य धर्मभूतज्ञाने अभावान्न तस्य शरीरत्वापत्तिः । नन्वीश्वरकालादेर्विभुतया चेतन संयोगावश्यम्भावेन चेतनगत संयोगरूपातिशयाधायकत्वाभावानर्हतया तत्रा- तिव्याप्तिरिति चेन्न – अत्र ह्यतिशयो नाम शेषत्वाभिमतवस्तुसत्ताप्रयोजक- कार्यविशेषः । तस्य तत्प्रयोजकत्वं स्वर्गस्य ज्योतिष्टोमादिप्रयोजकत्वमित्र, 1 Ixxvii ’ एतदर्थमिदमस्तु’ इति भगवत्संकल्पसिद्धम् । कालादेश्व न चेतनेन संयोगार्थ सद्भावः; अपिवन्यार्थं सतस्तस्यावर्जनीयः संयोग इति न तत्र तादृशातिशयाधायकत्वं नियमेनेति न दोष इति । तथाच अस्येदं शरीरमित्यत्र चैतन्यावच्छिन्नाधिकरणतानिरूपकतादृशातिशयाधायकत्वा- भावार्हत्वाभावानुयोगितावच्छेदक- शक्तिभिन्न-धर्मवत् इति शरीरपदार्थः । अत्येति षष्ठयर्थाधेयत्वस्य चैतन्येऽन्वयः । इदम्पदार्थतावच्छेदकस्य चैत्रत्वमैत्रत्व- घटत्वपटत्वादेः शरीरपदार्थघटक तादृशधर्मस्य चाभेदमानं समभिव्याहारादिति । ।

सूचितं तुरीयं लक्षणम्

एवं श्रीभाष्ये कण्ठोक्तं लक्षणत्रयमत्र प्रदर्श्य फलितं चतुर्थं लक्षणमप्युक्तम्, ‘यस्य चेतनस्य यदवस्थमपृथक्सिद्धविशेषणं द्रव्यं यत्, तदवस्थं तत् तस्य शरीरम्’ इति । कथमस्य फलितत्वमिति चेत् — तदुच्यते, ‘यावत्सत्तमसंबन्धा- नहत्वमपृथक्सिद्धत्वम् । आधेयत्व विधेयत्वशेषत्वानि चापृथक्सिद्धेरवान्तरभेदा इह विवक्षिताः’ इति । अयं भावः – प्रथमलक्षणप्रविष्टमसंबन्धानर्हत्वं यद्यपि नियन्तुं शक्यमिति दलान्तरावैयर्थ्याय संभावित संबन्धान्तरसाधारणम् – तथाप्यन्यत्र पितापुत्रभावादिरूपत्वेऽप्यत्र शरीरे समन्वयः अपृथक्सिद्धिसंबन्धमादायैव कर्तव्यः । यद्यपि शेषत्वादिः संबन्धः संभवति तथापि तादृशशेषवाद्य- भावानत्वमेवान्यत्र कथं न भवति, केवलं पुनरत्रेति विमर्शे अपृथक्सिद्धिरेव तत्र नियामिका वाच्या । अतोऽवश्यज्ञेयापृथक्सिद्धिसंबन्धमादाय लक्षणसमन्वयः सिद्ध्यति । तस्य तत्त्वेन रूपेण प्रवेशं विहाय सामान्यरूपेण निवेशादेव दलान्तरस्यावश्यकता, न पुनर्विशिष्य निवेश इति तथा निवेश्य लक्षणमपि स्वोक्तशेषत्वघटिततृतीयलक्षणवत् संभवत् तत्र भाष्ये विवक्षितं भवितुमर्हतीति । यद्वा यावत्सत्तमसंबन्धानर्हत्वस्यापृथक्सिद्धिरूपत्वात् तत्र संबन्धपदेन तत्तल्लक्षण- गताधेयत्वादेरेव गृहीतप्रायत्वादेतल्लक्षणसूचनार्थमै तावदित्याशयः । नन्वाधेयत्व विधेयत्वशेषत्वानि शरीरशब्दप्रवृतिर्निमित्तानीति भाषितत्वात् तावत एवातिलघुनो लक्षणत्वमुचितम् । नैवम् । यथाश्रुतरूपेणाधे- यत्वादेर्लक्षणत्वेऽतिप्रसंगेन तस्य भाष्यस्योक्तद्वितीयप्रथम तृतीयलक्षणपर्य- वसानपरत्वस्याङ्गीकार्यतया तत्र च धारयितुं शक्यत्वम्, अशेषत्वानहेत्वम्, उक्तासंबन्धानर्हत्वञ्चानन्यसाधारणमपृथक्सिद्धिसंबन्धत्रलायत्तमिति तत्कथने तदपि कथितप्रायमेवेति । ननु तर्हि अपृथक्सिद्धत्वमेव गृहीतं लक्षण- lxxviii मस्तु; किमधिकदलेन; तत्राह, ‘ब्यवच्छेद्यं तु स्पष्टमेवे ‘ति । तथा च आवश्यक- त्वात् किश्चिदधिकः परिष्कार इति भावः । नन्वपृथक्सद्धत्वस्य लक्षणत्वेनेष्टत्वे आधेयत्व विधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तमिति न भाष्येत 1 फलितत्वेनाभिमतस्य लक्षणस्य, ‘तच्छेषतकस्वरूपचे ‘ति चकारेणानुक्तसमुच्चायकेन ज्ञापनोक्तावपि अत्रापि तज्ज्ञापनस्य वर्णयितुमशक्यत्वात् अतो नेदं श्रीभाष्य- काराभिप्रेतमित्याशङ्कायां तस्यापि ग्रन्थस्य यथाश्रुतार्थकत्वेऽनुपपत्तिसत्वेन, यादृशस्य प्रवृत्तिनिमित्तत्वस्वीकारे सर्वमिदमाधेयत्वादिकमर्थसिद्धं भवितुमर्हति तादृशपरत्वमेव स्वीकार्यमित्याशयेनाह, ‘एतेनैतदपीत्यादि । यस्य चेतनस्ये- त्यादिभाष्यस्यैवं योजनाऽपि स्यात् । यदूद्रव्यं सर्वात्मना यस्य चेतनस्य भवति । यावत्सत्तं यच्चेतनसंबन्धीति यावत् । अत्र षष्ठयैव संबन्धलाभः ; न तु सर्वा- त्मनेति पदमात्रेण । एवमपृथक्सिद्धिसंबन्धविवक्षया लक्षणमुक्या इममेव संबन्धं तत्कार्यनियमनादिमुखेन दर्शयितुम्, नियन्तुं शक्यमित्यादि भाषितम् । अतः षष्ठयर्थशोधने फलितमिदं लक्षणमिति । ६ अथ लक्षणव्याख्या— प्रभाप्रभावतोरप्यपृथक्सद्धत्वात् चेतनस्येति । शरीरस्याप्यवस्थान्तरे पृथक्सिद्धत्वादपृथक्सिद्धत्वमसंभवीत्यतो यदवस्थमिति । (मूले तदित्यस्य तदवस्थमित्यर्थः) ननु किमिदं चेतनापृथक्सिद्धत्वम् ? न तावत् स्वप्रतियोग्यवच्छेदकयावत्कालावच्छिन्न ; स्वप्रतियोग्यवच्छेद कयावत्काल वच्छिन्न चेतन संबन्धवत्त्वम् अस्य जीवं प्रति ईश्वरेऽपि सत्त्वेन तस्यापि जीवशरीरत्वापत्तैः । न च चेतनानुयोगिकतादृश- संबन्ध प्रतियोगित्वम संबन्धपदेन परम्परासंबन्धग्रहणे रूपरसादीनामपि चेतनापृथक्सिद्धत्वव्यवहारापत्तेः साक्षात्संबन्धस्यैवात्र निवेश्यतया सौभरि - शरीरान्तरेषु तत्साक्षात्संबन्धाभावेनाव्याप्तेः । न च - अपृथक्सिद्धत्वस्यान्यत्र साक्षात्संबन्धरूपत्वेऽपि प्रकृते शरीरलक्षणे साक्षात्परम्परासाधारण्येन संबन्धो विवक्ष्यते । रूपरसादीनां द्रव्यत्वाभावादेव तद्वारणम् । अथवा तच्चेतनानु. योगिकतादृश संबन्ध प्रतियोगित्वं नाम तन्निष्ठचैतन्यानुयोगिकतादृशसंबन्ध- प्रतियोगित्वम् । सर्वथा सौभरिशरीरेषु नाव्याप्तिरिति वाच्यम् – प्रथमकल्पे तेजश्शरीराध्यक्षं जीत्रं प्रति प्रभायाः शरीरत्वापत्तेः । परम्परया जीवसबन्धि- जीवान्तरापृथक्सिद्धशरीरस्य तज्जीवशरीरत्वापत्तेः । मुक्तचैतन्यसंबन्धिजीवान्त- रापृथक्सिद्धशरीरस्य मुक्तशरीरत्वापत्तेश्च । द्वितीयेऽपि मुक्तचैतन्यापृथक्सिद्धत्वस्य जीवान्तरशरीरे सद्भावेन तिव्याप्यवारणात् । न च मुक्तस्यान्यशरीराधारत्वे प्रमाणा- भावेन प्रकृतसंबध्धे स्वसत्ताप्रयोजकत्व विशेषणदानेन स्वसत्ताप्रयोजकतनिष्ठ- 1 lxxix चैतन्यानुयोगिकतादृशसंबन्धप्रतियोगित्वं तच्छरीरत्वमित्युच्यत इति न दोष इति शङ्कयम् — एवं तर्हि लाघवात् द्वितीयलक्षण एव पर्यवसानसंभवेन लक्षणान्तर- त्वायोगात् । किञ्च, कालपरमात्मनो दृशमपृथक्सिद्धत्वं दुर्वचम् । स्वपदेन तदुभयसंयोगरूपसंबन्धग्रहणे तत्प्रतियोगिनः कालस्यावच्छेदकस्य कालान्तरस्य वक्त्तुमशक्यत्वात् । स्वस्य च स्वावच्छेदकत्वासंभवात् । स्वपर निर्वाहक- समाधिना कथञ्चिन्निर्व हेऽपि संततसंचरणशीलानां जीवात्मनामन्येषाञ्च परिच्छिन्नानां परमात्मना संयोगस्य क्रियाभेदभिन्नतया कस्यामपि संबन्धव्यक्तौ यावत्काल|वच्छिन्नत्वस्यासंभवादिति चेत् — उच्यते ।

अपृथक्सिद्धिलक्षणम्

अपृथक्सिद्धिलक्षणं प्रागुक्तम् ; तद्धर्मावच्छिन्नानुयोगिकाभावाप्रतियोगि- तन्निरूपिताधेयताप्रयोजक संबन्धवत्त्वं वा । यदवस्थमाधेयम्, तदवस्थं तद्धर्माव च्छिन्नम् । तत्र च नियमेन धर्मिनिरूपिताधेयताऽस्तीति तत्प्रयोजकसंबन्धवतोरुभ- योरपृथ सिद्धत्वम् । सर्वस्य द्रव्यस्य यावत्सत्तमीश्वराधेयत्वमस्ति । तथा गुणानां गुण्याधेयत्वम् । एवं शरीरस्यापि जीवाधेयत्वम् । एवञ्च पृथक्सिद्धत्वस्याधेयत्वा- घटितत्वमत्या घटाकाशयोरपृथक्सिद्धत्वापादनं परास्तम् । नचेष्टापत्तिः ; तथासति घटपदेन तदपृथक्सुिद्धाकाशबोधप्रसङ्गात् । अथवेष्यतामपृथ- सिद्धत्वम् । न चोक्तो दोषः ; अपृथक्सिद्धधर्मवाचिनां धर्मिपर्यन्तत्वस्यैव व्युत्पत्या ग्रहणात् घटस्याकाशं प्रति धर्मत्वाभावेनानापत्तेः एवश्व सर्वसाधारणमपृथक्सिद्धत्वं नाम यद्धर्मावच्छिन्नानुयोगिकाभावाप्रतियोगि यत्, तद्धर्मावच्छिन्नं तचेत्येतदुभयत्वम् । स्वानुयोगिकसंबन्ध प्रतियोगित्वं प्रतियोगि- तावच्छेदकसंबन्धः । स्वं धर्मि । अनेन संबन्धेन धर्मिणो धर्मे नियमेन सत्त्वात् धर्म्यभावस्य तत्र दुर्वचत्वाक्षतेमतत् । एवञ्च संबन्धस्य मिन्नभिन्नत्वेऽपि न व्यापकत्वक्षतिः । वस्तुन एव व्यापकत्वकथनात् । संबन्धश्चायं कालिकातिरिक्तः । एवं सामान्यतोऽपृथक्सिद्धिस्वरूप स्वीकारेऽपि प्रकृते सर्वेषां मुक्तशरीरत्ववारणायाधेयताघटितमेव तल्लक्षणं वाच्यम् । इदश्व चतुर्थचतुर्थेऽधिकरणसारावल्यां विंशेन श्लोकेनाप्यवगमितप्रायम् 1 यद्यपि जीवस्याणुत्वादमूर्तत्वाच्च स्थूलमूर्त शरीराधारत्वं दुर्वचमिव- तथाप्यात्मविश्लेषे शरीरविनाशात् शरीरसत्ताप्रयोजकस्यात्मनः तस्य चाधाराधे- यभाव ऊरीक्रियते । धारको ह्राधारः; धार्यमाधेयम् । अणुरप्ययमात्मा, यथा दीपः प्रभाद्वारा प्रकाशं परेषामाधत्ते, यथा च भास्करः प्रभाभिरम्भांसि Ixxxx बिभर्ति, तथैव विलक्षणावस्थेन चैतन्येन व्याप्नुवन् शरीरं धारयति । परमात्मा पुनर्वैभवेन स्वयमद्वारीकृत्यैव चैतन्यम्, अलमशेषं धारयितुम् । नित्यमुक्तानां तु चैतन्यं विश्वतो व्यापकमपि भगवत्संकल्पविरहेण न सर्वथा धारकत्वशक्तिं प्रतिपद्यते इति न तदाधेयत्वं जगतः । यद्यपि केचिन्नित्यसूरयः, केषाञ्चित् प्रापश्चिकपदार्थानामभिमानिन इति विष्णुपुराणे अस्त्रभूषणाध्याय आवेदितमस्ति - अथापि तत्तद्वस्तुत्पत्तिप्रभृति तत्तद्विषये कात्स्न्र्त्स्न्येन तेषां शासनमेव न प्रवर्तते; कुतस्तेषां तथा धारकत्वम् ? तथा च तन्निष्ठाभावाप्रतियोगिनी या तन्निरूपिताधेयता, तत्प्रयोजकसंबन्ध एव तयोरपृथक्सिद्धिसंबन्धः । न च कालस्य नियमेन घटपटादिः सर्वोऽप्याधेय इति तयोरपृथ- क्सिद्धत्वं स्यात् । न चेष्टापत्तिः; अपृथक्सिद्धधर्मिपर्यन्तार्थकतया सर्वेषामपि शब्दानां कालपरत्वापत्तेरिति वाच्यम् - कालस्य तत्तद्वस्तुविशेषणतयैव प्रतीयमानस्याधारत्वे प्रमाणाभावात् । किञ्च नैयायिकमतेऽपि कालस्य रूपाद्याधारतया कालस्य रूपादे श्चायुत सिद्धत्व परिहाराय कालिक संब- न्धानवच्छिन्नाधाराधेयभाव एव विवक्षणीयः । उक्तं हि सूत्रकारण, ‘इहेति प्रत्ययहेतुः समवायः’ इति । तद्वदस्माभिरपि इदमिदानीमिति प्रतीतिनियामक - संबन्धानवच्छिन्ननिरुक्ताधेयताप्रयोजकसंबन्ध एवापृथक्सिद्धिरिष्यते । यथा परमतेऽपि कालस्य त्रिभुत्वेन सर्व संयुक्तत्वेऽपि न तत्संयोगस्य वृत्तिनियामकता, आकाशादिसंयोगवत् किं तु कालिकस्वरूप संबन्धस्यैव तदतिरिक्तस्य–तथैवास्मन्मतेऽपि । कालवृत्तिगुणं प्रति कालस्यापृथक्सिद्धिरपि इदानीमितिप्रतीतिनियामककालिकस्वरूप संबन्धापेक्षया विलक्षण एव स्वरूपसंबन्धः, यथा कालवृत्तिकमभावं प्रति कालस्योच्यमानः स्वरूपसंबन्धः कालिक संवन्धादतिरिक्तः, तथैवेत्यदोषात् । न च यत् कन्दुकादिकं स्वहस्त एव क्रियमाणं विनष्टम्, तन्निष्ठाभावाप्रतियोगिनी शरीरनिरूपिताधेयतेति शरीरकन्दुकयोरपृथक्सिद्ध- स्वापत्तिरिति वाच्यम् - तत्र परं तस्येष्टत्वात् । न च तावता कन्दुकशब्देन तच्छरीरबोधापत्तिः; कन्दुकत्वधर्माक्रान्तानां सर्वेषां शरीरापृथक्सिद्धत्वाभावेन तथा व्यवहारायोगात् । यद्वा अपृथक्सद्धत्वं यदभावारोपप्रयोज्यारोप विषयस्वसस्त्राभावकं यत्, तदुभयत्वम् । यदीश्वरो न स्यात्, जगदेव न स्यात्, यदि जीवो न स्यात् booxi शरीरं न स्यात्, यदि घटादिकं न स्यात् रूपादिकं न स्यादिति धर्म्यभात्रारोपेण धर्माभावारोपसंभव लक्षणसमन्वयः । दण्डाभावे घटो न तिष्ठेत्रित्यारोपस्तु न भवति । दण्डाभावे घटोत्पत्त्ययोगेऽपि घटसद्भावसंभवात् । दण्डनाशेऽपि घटस्थिते: । घटोत्पत्तेः दण्डापथक्सिद्धत्वापत्तिस्तु न ; तस्यास्तदनाधेयत्वात् । उक्तकन्दुकादेस्तु नैतादृशा पृथक्सिद्धत्वम् 1 कन्दुकनाशात् प्राक् शरीरविशरणेऽपि तत्सद्भाव संभवात् । सौभर्यादि- शरीरान्तरेषु सौभर्याद्यभावेऽभावस्य प्रामाणिकत्वान्न क्षतिः । यदि तु — जीवचैतन्य संयोगाभावे शरीराभाव इत्यारोपसंभवात् चैतन्यसंयोगस्य शरीरस्य चापृथक्सिद्धत्वापत्तिः । न चेष्टापत्तिः, संयोगस्य शरीरगुणत्वादिति वाच्यम् ; धर्म्यभावारोपेण धर्माभावारोपस्य प्रागुक्तत्वात् तथात्रानुक्तेः । अथवा संयोगसंबन्धेन चैतन्याभावे शरीराभाव इति चैतन्यशरीरयोर- पृथक्सिद्धत्वं स्यादिति विमृश्यते तर्हि निरुक्तोभयत्वमात्रं नापृथक्सिद्धत्वम् ; किन्तु निरुक्तोभयनिष्ठाधाराधेयभाव एव । यद्यपि घटाधारत्वं भूतलस्य यथा घटपतनप्रतिघातिसंयोगवत्त्वात्, न तथा चेतनस्याधारत्वम् । तदिदं, ‘न च मत्स्थानि भूतानि’ इत्यनेन गीतम् — अथापि लोके आधाराधेयभावो मूर्तविषय एव, पतनप्रसक्तावेवेति न नियमः; द्रव्ये रूपरसाद्याधारत्वस्य, आत्मनि ज्ञानाद्याधारत्वस्य च संप्रतिपन्नत्वात् । तथाच यथा अमूर्तस्य पतन- प्रसाक्तिरहितस्यप्याधेयत्वमनुभवबलात्, यथा च कालेश्वरादेर्मूर्तघा रत्वमन्यमतेऽपि, तथा चेतनस्यामूर्तस्याधारत्वं देहभृदित्याद्यनुभवव्यवहार- बलात्, ‘जीवभूतां महाबाहो ययेदं धार्यते जगत्’ ‘भूतभृतभृन्न च भूतस्थः’ इत्यादिप्रमाणबलाच्च खीक्रियते । अयमाधाराधेयभावः सौभर्यादेः शरीरान्तरं प्रत्यपि, स्त्रसंबन्धिशरीरान्तर्गत- साक्षाज्जीवाधिष्ठान भूतहृदयातिरिक्त- प्रदेशं प्रतीव चैतन्यसंयोगबलादभ्युपगाम्यते । अन्यथा हि कार्त्स्न्येन एकशरीरधारणस्याप्यणोरसंभवेनानुभवप्रमाणव्या कोपप्रसङ्गात् । न च जीवोऽत्रा- ऽस्तीतिव्यवहारबलात् देहस्यापि जीवाधारत्वं स्यादिति वाच्यम् - आधारार्धेय- भावविरहेऽपि देहान्तः प्रवेशमात्रेण तथा व्यवहारसंभवात् । घटे गगन मस्तीति, गगने विहङ्गमोऽस्तीति च यथा । चैतन्वशरीरयोश्च नाधाराधेयभावः, तत्र प्रमाणाभावात् । न च संकल्पधार्यत्वस्य तत्रतत्रोक्तत्वात् स स्यादिति शङ्क्यम् — ईश्वरसंकल्पो हि इदं जगत् मदाश्रितं भवतु इत्याकारकः । संकल्पेन जगद्धारणं नाम स्वसंकल्पाधीनस्वनिष्ठजगन्नि- रूपिताधारताकत्वमीश्वरनिष्ठम् । ईश्वरनिष्ठतादृशाधारताप्रयोजकत्वश्च संकल्प- तथाच K . laxoxxii निष्ठम् ; न पुनः साक्षादाधारत्वमित्यदोषात् । जीवसंकल्पस्तु न तादृशाधारता- प्रयाजकोऽपि भवति ; किं तु जागरदशायां पतनाभावरूपधृतिमात्रप्रयोजक इति न संकल्पस्याधारत्वप्रसक्तिः ।

तुरीयलक्षणस्वीकारे औचित्यम्

ईदृशा पृथक्सिद्धत्वघटितःञ्चेदं शरीरलक्षणं पूर्वोक्तलक्षणत्रयापेक्षया लघुत्वरहितमपि नियाम्यत्वादितत्तदाकारप्रयोजकतया एतज्ज्ञाने चैतत्प्रयोज्यानां तेषामपि ज्ञानसंभवेन शरीरशब्दप्रवृत्तिनिमित्तं स्वीक्रियते ; त्रिष्वेकतमग्रहणे विनिगमकाभावात् । त्रयं प्रति उपजीव्यत्वेनास्य वैशिष्टयात् । वस्ततस्तु नियाम्यत्वशेषत्व घटित लक्षणापेक्षया लघुत्वं निर्विवादम् । द्वितीयलक्षणेऽपि तदभावारोप प्रयोज्यत्वविवक्षणान्न लाघवम् ; प्रत्युत सत्तासामान्येति सामान्य- पदघटनात्, या या सत्ता सा सर्वा तत्प्रयोज्येति व्याप्यव्यापकभावे पर्यवसानाद्गौरवमेव । वाच्यम् — तत्र न चेदं चतुर्यलक्षणमेव, ‘धारयितुं शक्य’ मिति भाष्यविवक्षितमिति श्रुतप्रकाशिकादिदर्शितरीत्या सर्वात्मनेति पदान्वयस्य स्वरसप्रतीततया, धारयितुं शक्यमिति पदस्वारस्येन च तत्प्रयोज्यधृतिमत्त्वस्य, सर्वात्मनेतिपदेन धृतेः प्रयोज्यत्वस्य च व्याप्यव्यापकभावस्य च प्रतीत्या तदविरोधेन लक्षणकरणस्यैव युक्तत्वात् । अस्य द्वितीयलक्षणवाक्याभिमतत्वे त्रयाणां तुल्यतया निर्देशेन एतदेकतात्पर्यकताया माष्यसूक्तौ दुर्वचत्वात् । तस्माद् भाष्यकारैः कण्ठरत्रेणानुक्तमिदं त्रितयसूचितमित्येव युक्तम् । अतोऽस्य प्रयोजकाकारत्वात् लघुत्वा चेदमेव शरीरशब्दप्रवृत्तिनिमित्तम् । वस्तुतस्तु अपृथक्सिद्धत्वस्यैवंरूपेण परिष्कारेऽपि प्रकृते शरीरशब्द- प्रवृत्तिनिमित्तं नैतावत् । किंतु यथा घटादिशब्दैर्घटत्वादीनां न किञ्चिद्रूपेण बोधः, अपि तु स्वरूपेण । घटत्वादिसंस्थान विशेषस्य किञ्चिद्रूपेण भानार्हस्यापि ततः स्वरूपत एव भानानुभवात् - तथा शरीरशब्द तोपि निरक्तोभयनिष्ठाधाराधेयभाव- रूपसंवन्धस्य स्वरूपतो बोध इति स्वीक्रियते । तथाच प्रतियोगिता संबन्धेन स्वरूपतो भासमान तादृशसंबन्धविशिष्टद्रव्यं शरीरपदार्थः । अस्येदं शरीरमित्यत्र षष्ठयर्थस्य संबन्धेऽन्वयः । तत्र चैतन्यस्य चेतनापृथक्सिद्धतया तत्र शरीरव्यवहारवारणाय अस्येति प्रकृत्यर्थस्य चैतन्यावच्छिन्नानुयोगिताकत्व- संबन्धेनान्वयः स्वीक्रियते ; नानुयोगितासंबन्धमात्रेण । अयमेव संबन्धःlxxxiii 0 प्रकृते षष्ठयर्थः । तदेकदेशचैतन्ये अस्येति प्रकृत्यर्थजीवान्वयः । यदि तु स्वरूपतो भासमाने धर्मे समभिव्याहृतपदार्थान्वयो न संभवतीत्यालोच्यते, तर्ह्यत्रमस्तु–चेतनापृथक्सिद्धविशेषणद्रव्यत्वं चैतन्यावच्छिन्नाधारतानिरूपित सं- योगसंबन्धावच्छिन्नाधेयतावत्त्वरूपमेव शरीरशब्दप्रवृत्तिनिमित्तम् । आधारतायां चैतन्यावच्छिन्नत्वनिवेशात् धर्मभूतज्ञानस्य शरीरत्वापत्तिवारणम् । आधेयतायां संयोगसंबन्धावछिन्नत्वनिवेशात् अद्रव्यस्य न शरीरत्वम् । सौभर्यादिशरीर- निष्ठाधेयतायाः स्वसंयुक्तचैतन्य संयोगसंबन्धावच्छिन्नत्वेऽपि तत्र संयोगस्यापि घटकतया नासमन्वयः । अथवा शरीरत्वं संयुक्तचैतन्यसंवन्धावच्छिन्नाधेय- तावत्त्वम् | मुक्तचैतन्यस्य सर्वत्र प्रसरेऽपि शरीरान्तरं प्रति मुक्तानामाधारत्वे भगवत्संकल्पाभावेन न कश्चिद्दोषः । सौभरिशरीरे पुनरिदमस्ति । न च सामान्यतश्चैतन्यप्रसरस्याधाराधेयभावनियामकता ; घटादिप्रत्यक्षे चैतन्य - प्रसरसखेऽपिं आत्मनस्तदाधारत्वा संप्रतिपत्तेः । अतो विलक्षणावस्थचैतन्य संबन्ध- स्यैव तन्नियामकत्वम् । विस्तरोऽत्रास्मदुपनिषद्भाष्यपरिष्कारे छान्येोग्ये सद्विद्यायां द्रष्टव्यः । वैद्यु नायस्कान्तादीनामपि स्वप्रभावभूमानुगुण्येन दूरस्थपदार्थधारणाकर्षणादिकरत्वमध्यक्षयतां मत्यद्भुतयोगप्रभावेषु सौभरिप्रभृतिषु विलक्षणेष्वीदृक्षशक्तिसंपत्तौ कः संदेह : ? आधाराधेयभावश्चायं प्रतियोग्यनु- योगिभावादिवत् स्वरूपसंबन्धविशेषः । अस्येदं शरीरमित्यत्र शरीरशब्दार्थ- घटकाधेयतायां षष्ठयर्थस्य निरूपितत्वस्यान्वयः । तादृशाधेयतावदभिन्नमिदमिति बोधः । इदम्पदार्थतावच्छेदकधर्मावच्छिन्नत्वस्याधेयतायां भानं समभिव्याहार- बलादिति महलाघवमत्रेति आचार्याणामत्रैवाऽऽदरो महानिति सर्वं समञ्जसम् ।

सौबालादिदर्शितविशेषः

एवम्भूतशरीरात्मभावनिबन्धनमेव वेदे ब्रह्मणश्चेतनाचेतनप्रपश्चेन सामानाधिकरण्यवचनम् । अस्य सामानाधिकरण्यनियामकत्वमपि एतत्स्वरूप- वत् प्रमाणप्रतिपन्नमेव । तस्मिन् सति लोकानुभवा अनुकूलतर्काश्च भगवद्रामानुजस्वामिपादैः सहकारितया सम्यगदर्शिषत । एतत्स्वरूपविषये अन्तर्यामिब्राह्मणादिकं प्रमाणमिति विदितमेव । अन्तर्यामिश्रुतिश्च बृहदारण्यक इव सौवालेऽपि श्रूयते । तत्रास्मिन् शरीरात्मभावे विशेषादरप्रदिदर्शयिषया एतच्छरीरात्मभावविद्याधिगमकगुरुपरम्पराप्रस्तावोऽपि सप्तमे खण्डे कृतः । ‘दिव्यो देव एको नारायणोऽन्तर्यामी । स एतां विद्यामपान्तरतमाय वेदाचार्याय ददौ, स ब्रह्मणे स घोराङ्गिरसे, स रैकाय, स रामाय, रामः सर्वेभ्यः’ lxxxiv इति एतद्विषये विशिष्य गुरुपरम्परां प्रस्तुवन्नयं खण्डः अस्य रहस्यतमत्वमा- विष्करोति । एतन्निबन्धनञ्च सामानाधिकरण्यमितीदमपि, ‘तदनुप्रविश्य सच्च त्यच्चाभावत्’, ‘अनुप्रविश्य नामरूपे व्याकरवाणि’, ‘स एष सर्वभूतात्मा विश्वरूपो यतोऽत्र्ययः’, ‘सर्व समाप्नोषि ततोऽसि सर्वः’ इत्यादिश्रुतिस्मृति- सहस्रसंप्रतिपन्नम् । अस्य प्रधानतमार्थत्वादेव श्रीराममिश्रविरचितषडर्थ- संक्षेपादौ संबन्धस्य पदार्थान्तरवत् पार्थक्येन परिगणनमाद्रियते ति विशिष्टाद्वैतिनिष्कृष्टं विशिष्टमिदं प्रमेयमिति ।

ख्यातिप्रकाराः

तदेवं प्रधानप्रतितन्त्र भूत शरीरात्मभावविषये एतद्ग्रन्थकारप्रथम- निरूपितांशोपरि तत्परिपोषणात्मा विस्तरः अवश्यविज्ञेय इति एवं प्रत्यपादि । एवमुपरितनप्रकरणप्रमेयेषु विशेषमन्ते संजिवृक्षुणा संप्रति ख्यातिविषयेऽपि किञ्चिद् वक्तव्यमिह संगृह्यते - वदन्ति चैवं ख्यातिप्रकारान् – इति 1 “आत्मख्यातिर सख्यातिरख्यातिः ख्यातिरन्यथा | तथाऽनिर्वचनख्यातिरित्येतत् ख्यातिपश्ञ्चकम् ॥” बाह्यात्मना तत्रासत्ख्यातिर्माध्यमिकस्य बौद्धसार्वभौमस्य । शून्यवा- दिनस्तस्य हि मते सर्वात्मनाऽप्यसदेव ख्यायत इति । आत्मख्या- तिर्योगाचारस्य बौद्धस्य ; तेन विज्ञानस्यैवात्मशब्दवाच्यस्य ख्यानस्वीकारात् । अख्यातिः - प्राभाकरस्य ; तेन इदं रजतमिति विशिष्टज्ञानस्य वाद्यंन्तरसंमतस्य कारणभूतं यत्, इदमिति धर्मिज्ञानम्, रजतमिति स्मरणश्च तदुभयातिरिक्ता विशिष्टज्ञानात्मिका ख्यातिर्नास्ती- व्यङ्गीकारात् । व्यद्वा अख्यातिर्नाम शुक्तौ व्यद्वा अख्यातिर्नाम शुक्तौ रजतभेदख्यात्यभावः । भेदरूपविशेषस्य ख्यात्यभावकथनात् शुक्तिज्ञानं रजनज्ञानञ्चास्तीति, तयोर्भेदः परं न ज्ञायत इति च गम्यते । अन्यथाख्यातिश्च भाट्टनैयायिकादीनाम् | पञ्चमी चानिर्वचनीयख्यातिरद्वैतिषु श्रीशङ्करभगवत्पादानुयायिनाम् । तत्र प्रथमपक्षद्वयमवैदिकमतम् । विशिष्टाद्वैतिनस्तु, “स्वारस्यमन्यथाख्यातौ अख्यातौ लाघवं स्थितम्” इति वर्णयन्ति । निर्भरश्वाख्यातिपक्षे । परं तु यत्र, ‘यथार्थ सर्वविज्ञान’ मिति वैदिक सिद्धान्ताभङ्गेन अन्यथाख्याति- वाद्यभिमतस्वारस्य संरक्षणमपि संभाव्यते, तत्राख्यातिवाद्यभिमतस्थलविशेषे अख्यातिपक्षमुपेक्ष्य विशिष्टं यथार्थज्ञानमपि स्वीकर्तुमुचितमिति, अख्याति- पक्षवत् तत्र न ज्ञानद्वयमात्रम्, किं तु तदतिरिक्तं विशिष्टज्ञानमपीत्याशेरते । lxxxv अत एव तस्य प्रकरणस्य यथार्थख्यातीति शीर्षकमकारि । इदमर्थज्ञानस्य ग्रहणात्मकस्य, विधेयरजतादिज्ञानस्य च ‘स्मरणात्मकस्य अख्यातिपक्षे यथार्थत्वादेव यथार्थख्यातीति नामात्र निक्षिप्तमिति न; किं तु स्थलविशेषे विशिष्टज्ञानस्य स्वीकारे, तस्यान्यथाख्यातित्वादिना परैर्भ्रमत्वेन कथ्यमानस्यापि यथार्थत्वमेवेति ज्ञापयितुं तथा नामनिर्देश इति । अनिर्वचनीयख्यातिं तु नैव मानयन्ति । अत्र श्रीमाष्यम्, “अत्यन्तापरि- दृष्टाकारणकवस्तुकल्पनाऽयोगात् " इति । तदिदमत्र मनाग् वित्रियते-

अनिर्वचनीयख्यातिविमर्शः

अनिर्वचनीयवादिभिः, इदं रजतमिति शुक्तिविशेष्यकप्रतीतिविषयतया तादृशरजतसिद्धिर्वक्तव्या । सा च प्रतीतिः परमार्थरजत मेवावगाहते; नानिर्वचनीयरजतम् । यदि तदेवानिर्वचनीयत्वेन । यदि तदेवानिर्वचनीयत्वेन प्रतीयेत, तर्हि बाधज्ञानस्य नावसरः । पृवृत्तिरपि तर्हि रजतार्थिनो नोदेष्यति | वक्ति च परमार्थतो रजतं पश्यामीति भ्रान्तः । अतो रजतं दृष्टमपि न तथा परिदृष्टम्, यथा तत् अद्वैतिसंमतमिति न ततस्तत्सिद्धिः । अथ प्रत्यक्षेण तथादर्शनाभावेऽपि युक्त्या तथा गम्यत इति चेत् — का युक्तिः ? इयम् । इदं रजतमिति तावत् शुक्तौ तादात्म्येन रजतप्रतीतिरस्तिं । यदि रजतमसत्, तर्हि न प्रतीयेत । पश्चाच्च नेदं रजतमिति बाधो लक्ष्यते । यदि वस्तुत एव रजतं सत्, तर्हि न बाध्येत । अतः प्रतीति- बाधान्यथानुपपत्तिः सदसद्विलक्षणं साधयतीति । अत्र विशिष्टाद्वैतिनः- अत्र प्रतीतिबाधयोरुभयोः प्रमात्वं तावदनुभवविरुद्धमिति भवत्संमतमेव । अतो बाधज्ञानमेव प्रमेति तेन रजतासत्त्वस्यावधारितत्वात् कथं भ्रान्तिरूपया प्रतीत्या रजतस्य तद्देशासद्रजतविलक्षणत्वं स्थाप्यते ? न हि भ्रमस्य वस्तुसाधकत्वं युक्तम् । एवं तर्हि शशशृङ्गमपि भ्रान्त्या गृह्यतामिति चेत्, गृह्येत, यदि परमार्थशशशृङ्गानुभवा हित संस्कारः कश्चित् स्यात् 1 ननु तत्रासतो रजतस्य तत्र मानमन्यथाख्यातिः स्यात् । सा च न युक्ता । आपणस्थरजतस्मरणाधीना ह्यन्यथाख्यातिः आपणस्थत्वेनैव रजतं ग्राहये- दिति शुक्तौ कथं तत्तादात्म्यमानमिति चेत् — अद्वैतिमतेऽपि इदं रजतमिति भातस्य शुक्तिरजतस्य यत् परमार्थत्वं भासते, तत् किं रजत एव वर्तमानम्, शुक्तिस्थं वा नाद्यः, तर्हि परमार्थरजतसद्भावात् तद्बाधो न स्यात् । रजतबत् Ixxxvi तन्निष्टं परमार्थत्वमपि कल्पितं चेत्, एवमपि बाधो न स्यात् । तन्मते हि नेदं रजतमिति बाधबुद्धिर्न सामान्यतो रजताभावविषयिणी; पूर्व कल्पितस्य रजतस्य तत्र कथमपि सद्भावात् । अपितु परमार्थत्वेन रजताभावविषयिणीति वक्तव्यम् । तद् यदि परमार्थत्वमपि किश्चित् कल्पितं तत्र स्यात्, तर्हि तेन रूपेणापि तदभावस्तत्र न विषय इति बाधबुद्धिरेव नोदियादिति । तस्मात् शुक्तिस्थं परमार्थत्वं रजते भासत इति स्वीकार्यम् । स्वीकृतञ्च तथैव परिभाषायाम् । तथाच तत्रान्यथाख्यातिसिद्धिः । न च परमार्थत्वसत्वेऽपि रजते परमार्थत्वसमवायोऽनिर्वचनीय इति वाच्यम् परर्माथत्व सवायस्यापि शुक्तिस्थस्य संनिकृष्टत्वात् । न च परमार्थत्वसमवायनिष्ठं रजतानुयोगिकत्वं कल्पनीयत्वादनिर्वचनीयमिति वाच्यम् - रजतानुयोगिकत्वस्यापि रजतत्वसमवाये कुतत्वेन कल्पनीयत्वाभावात् । तथाच तत्रान्यथाख्याते स्तन्मतेऽप्यावश्यकतया तत्र यथा परमार्थत्वगतः संनिकर्षः शुक्तिस्थत्वेन तन्न दर्शयति, किंत्वनिर्व- चनीयरजतस्थत्वेन, तद्वदेव वस्तुत आपणस्थितस्य रजतस्य स्मरणमपि पुरोदेशे रजतं दर्शयतीति सुवचमित्यवश्याभ्युपेत्ययाऽन्यथाख्यात्यैव निर्वाद्दान्नानिर्वचनीयसिद्धिः ।

देशान्तर-स्थ-रजतावच्छेदकत्व-संभवः

ननु इदं रजतमिति शुक्तौ देशान्तरस्थस्य रजतस्यावच्छेदकत्वं न भवति, कुत्रापि तददर्शनात् । न च घटो नास्तीत्यादौ अत्यन्ताभावध्वंसप्राग- भावेषु देशकालान्तरस्थितघटादेवच्छेदकत्वं दृष्टमिति वाच्यम् — तत्राप्यारोपित- घटस्यैवावच्छेदकत्वात् । तदुक्तं सूत्रभाष्यवार्तिके इति चेन्न – अत्यन्ताभावादौ आरोपितघटस्यानवच्छेदकत्वात् । न चाभावबुद्धौ प्रतियोग्यारोपस्य कारणत्वादारो- पितघट एवावच्छेदक इति वाच्यम् । प्रतियोगिग्राहकसामग्री विशिष्टानुपलब्धेरेव योग्यानुपलब्धिपदार्थतायाः कुसुमाञ्जली व्यक्तत्वेन तत एव प्रतियोगिस्मरणे सति अभावप्रत्ययसंभवे अन्तर्गभूतस्य प्रतियोग्यारोपस्यानपेक्षितत्वात् । किंच भूतले घटो नास्तीत्यत्र प्रतियोग्यारोपः किमभावे किं वा अभावानुयोगिनि भूतले । नाद्यः; तथा सति अभावो न घटीय इति पश्चाद्वाधाव- तारापत्तेः; आरोपतः प्राक् अभावस्यागृहीतखेन तत्र तदारोपासंभवाच्च । नान्त्यः, भूतले आरोपितस्याभावं प्रत्यवच्छेदकत्वासंभवात् । अन्यत्र स्थितस्यान्यावच्छेदकत्वं न भवतीत्युक्तत्वात् । सामानाधिकरण्यसत्त्वादवच्छेद- कत्वमिति चेत् — एवमप्यारोपित घटस्यैव निषिद्धत्वात् परमार्थघटसत्तायां Ixxxxvii बाधकाभावात् नास्तीति बुद्धयनन्तरमपि घटार्थी तत्र प्रवर्तेत । एवमती- तानागतदेशान्तरस्थघटाद्यवच्छिन्नत्वस्य घटज्ञानं पटज्ञानमित्येवं ज्ञाने दर्शनादपि न देशकालान्तर स्थस्यावच्छेदकत्वासंभवः । अतः कतिपयसंबन्धान्तरेण देशान्तरादिस्थस्यावच्छेदकत्व संभवे ऽपि तादात्म्यादि संबन्धेनावच्छेदकत्वस्या- दर्शनात् इदं रजतमिति कथं तादात्म्येनावच्छेदकत्वमित्यत्र प्रष्टव्यम् । · अत्र च तत एव भ्रमत्वमित्येव समाधिः । अन्यथा हि संवन्धसत्त्व एवावच्छेदकत्वे भ्रमत्वमेव न सेत्स्यति । तस्मादबाधितज्ञानस्यैव विषयसाधकत्वात्, शून्यमिति ज्ञानेनेतर सर्वज्ञानानां वाध्यत्वाङ्गीकारे विषयासिद्धया शून्यवादिना लोकयात्रा हेतु भूतप्रवृत्तिनिवृत्योरेवा कर्तव्यत्व- प्रसङ्गेन शून्यज्ञानस्यैव बाध्यत्वनिश्चयवदत्रापि बाध्यत्वनिश्चयात् बाधितज्ञानात्मकेन भ्रमेण न रजततादात्म्यविशिष्टशुक्तिः साधयितुं शक्यते ।

अवच्छेदकत्वस्वरूपशोधनम्

एतदुक्तं भवति — किमिदं रजतस्यावच्छेदकत्वम: ? न तावत् शुक्त्यनुयोगिकतादात्म्यप्रतियोगित्वम् ; अनभ्युपगमात् । नापि शुक्तिनिष्ठविशे- ष्यतानिरूपितप्रकारताश्रयत्वम्, तन्निबन्धनस्वरूपसंबन्ध विशेषो वा ; तस्य देशान्तरस्थत्वेऽपि स्वीकारे बाधकाभावात् । तथा चेदं रजतमिति ज्ञाने यद् भासते पुरोवर्ति द्रव्यम्, रजतं तादात्म्यश्चेति - तत् सर्वं सत्यमेव ; नानिर्वचनीयम् । ज्ञाने च यो धर्मः तादात्म्य संसर्गावच्छिन्नरजत निष्ठ प्रकारतानिरूपित शुक्तिनिष्ठविशेष्यताकत्वम्, तदपि सत्यमेव । समुच्चयज्ञानापेक्षया चास्येदमेव वैलक्षण्यम्, यत् मिथो निरूप्यनिरूपकभावापन्नविषयताशालित्वम् । अन्यथा इदं रजतमिति न स्यात् । इदञ्च रजतश्चेति समुच्चयोल्लेखः स्यात् । अख्यातिपक्षे ज्ञानद्वयम्, अन्यथाख्यातिपक्षे चैकं ज्ञानमिति भेदः । विभिन्नज्ञानीययोरपि विषयतयोर्निरूप्यनिरूपकभाव इष्यते । यद्वा इदमर्थज्ञान- विशिष्टरजतज्ञानत्वेन प्रवृत्तिकारणत्वमनुभववशादिष्यते । प्रामाण्यश्च विषयतथा- भावः; अतथाभावश्चाप्रामाण्यमित्यन्यदेतत् ।

साक्षात्कारबलाद् रजत-कल्पना-विमर्शः

अनिर्वचनीयमस्तीत्यत्रान्यां काश्चिदू युक्तिं वर्णयन्ति - यद्यपि लोहितः स्फटिक, पीतः शङ्खः इत्यादौ लौहित्यपीतद्रव्यादावपीन्द्रियसंनिकर्ष सत्त्वेना- lxxxviii निर्वचनीयानभ्युपगमेनैव प्रत्यक्ष निर्वाह:, तथाऽपि शुक्तिरजतादिस्थलेऽनिर्वचनी- यानभ्युपगमे रजतं साक्षात्करोमीति प्रसिद्धप्रत्ययस्यानुपपत्तिः; सत्यरजतस्य तत्राभावेनासंनिकृष्टत्वादिति — तत्र परेषामयं समाधिः - कल्पितेऽपि रजतेऽनुपपत्तिर्न परिह्नियते साक्षात्कारो हि नामेन्द्रियसंनिकर्षजं ज्ञानम् । अतो रजतं प्रागुत्पन्नं पश्चादिन्द्रियसंनिकृष्टं तदनन्तरं साक्षात्क्रियत इति स्वीकारे तदुपपत्तिः स्यात् । प्रातिभासिकपदार्थानां प्रतिभाससमसमय- सद्भाववादिभिश्व रजतोत्पत्तिकाल एव रजतविषयिण्यविद्यावृत्तिरेष्टव्या । तथा च संनिकर्षाजन्यस्य तस्य कथं साक्षात्कारतेति । न च संनिकर्षा - जन्यत्वेऽपि साक्षिभास्यत्वादनिर्वचनीयरजतस्य साक्षात्कृतत्वोपपत्तिरिति वाच्यम् - साक्षिस्वरूपतद्भास्यत्वादेर्लोकानुभव गोचरत्वादनुभव निर्वाहावसरे तथा वक्तुमश- क्यत्वात् । यद्यनुभवानारूढमपि संनिकर्षातिरिक्तयत्किञ्चिदधीनत्वं बाह्यवस्तु- साक्षात्कारस्येष्यते, ततो वरमन्यथाख्यातिवादीष्टं संनिकर्षाभावेऽपि दोष शात् रजत साक्षात्कारो भवतीति अनुभवदत्तहस्तं स्वीकरणम् । एवमिदमर्थविषयेऽ- न्तःकरणवृत्तिः, रजतविषयेऽविद्यावृत्तिरिति वृत्तिभेदकल्पने ज्ञानद्वित्वं तन्मतेऽ- प्यापतति । अन्यथाख्यातिपक्षे तु अनुभवसिद्धमेकज्ञानत्वमनपहूनुतं भवति । अपूर्वरजततत्कारणतद्भानकारणाद्यनेककल्पनापेक्षया रजत साक्षात्कारस्य दोष- जन्यत्वकल्पने लाघत्रश्च । एवम् इदं रजतमिति ज्ञानस्यैकस्य देशान्तरस्थ- रजतांशे साक्षात्कारत्वाभावेऽपि इदमर्थांशे तस्य साक्षात्काररूपत्वात् तन्निष्ठं साक्षात्कारनिरूपकत्वमेव रजते अन्यथाख्यातिरूपेणानुव्यवसायेनं गृह्यते दोषवशादित्यपि रजतं साक्षात्करोमीत्यस्य निर्वाह: सुकरः । रजतं चक्षुषा पश्यामि, देवदत्तेनानीय निक्षिप्तं रजतमहं गृह्णामीत्यादीनामद्वैतिभिरप्यन्यथैत्र निर्वाह: कार्य; / शुक्तिरजते चक्षुस्संनिकर्षजन्यप्रत्यक्षविषयत्व - देवदत्तानीतत्व- निक्षिप्तत्व-स्वग्राह्यत्वादेरभावात् । यदि साक्षात्कारविषयत्वमनुभवबलाद् वस्तुतः स्वीकर्तव्यम्, तर्हि तत्साक्षात्कारे चक्षुर्जन्यत्वादिकमपि तथैव स्वीकार्यं स्यात् । अभावस्यानुपलब्धिग्राह्यत्वं वदद्भिः, भूतले घटाभावं साक्षात्करोमीति प्रहो भूतलनिष्ठस्य साक्षात्कार- विषयत्वस्य घटाभावे आरोपेणेत्येव हि वक्तव्यम् । तथैवेहापि शुक्तिगत साक्षात्कार- विषयत्वस्य रजते आरोप इति ।

रजत-स्मृति-कारणत्वायोग-विमर्शः

एतेन — असंनिकृष्टरजत प्रत्यक्षायोगादापणस्थरजते चक्षुरिन्द्रियसंनि- कर्षस्य दूरत्वव्यवधानयोः सत्वेऽप्यङ्गीकारे पुरुषापणमध्यगतानां पदार्थानां

ixxxix संनिकृष्टत्वाविशेषात् प्रत्यक्षापत्तिः । अतः संनिकर्षं विहाय रजतस्मृतिरूप- ज्ञानलक्षणाप्रत्यासत्या रजतप्रत्यक्षनिर्वाहे कुत्राप्यकृतायाः ज्ञानलक्षणाप्रत्यासत्तेः स्वीकारापातः । न हि सुरभि चन्दनमिति प्रत्यक्षेऽपि सौरभांशे ज्ञानलक्षणा प्रत्यासत्तिः प्रागपेक्षिता । यथायथं घ्राणचक्षुः संनिकर्षयोः सतोर्विशिष्टज्ञान- स्यैकस्याभ्युपगमसंभवात् इति वादोऽपि विमृश्यः । ‘चक्षुः संनिकर्षं विनैव रजतसाक्षात्कार’ इत्यस्याद्वैतिमतेऽप्यविशिष्टत्वात् ; अन्यथाख्यातिवादिनाऽपि संनिकर्षस्याकल्पनात् । घ्राणचक्षुषोः प्रत्येकं स्वस्वकार्यव्यापृततया सौरमं चन्दनञ्चेति कथञ्चित् समूहालम्वनकार्यस्वीकारसंभवेऽपि करम्बितकार्यरूप- विशिष्टज्ञानजननवर्णनायोगात् ज्ञानलक्षणाप्रत्यासत्तेस्तदर्थमपेक्षितत्वात् । यदि तत्र द्वेषः, कामं सा मा भूत् । तावतापि प्रत्यभिज्ञास्थले तत्तासंस्कारसचिव मिन्द्रि यमिव दोष-रजत संस्कारादिसहकृतं चक्षुरन्यथाख्यातिं कल्पयिष्यति ।

परोक्ष-भ्रमेष्व् अनिर्वचनीयायोगः

एवं प्रत्यक्षस्थल एव रक्तः स्फटिक इत्यादावन्यथाख्यातिमाचक्षाणैः, रजतं साक्षात्करोमीत्यनुव्यवसायवलात् कचिदेव प्रत्यक्षेऽनिर्वचनीयमभ्युपयद्भिः परोक्ष भ्रमेऽनुमित्यादावन्यथाख्यातिरेव स्वीकृतेत्यविप्रतिपन्नम् । न च धूलीपटले धूमत्वभ्रान्त्या वह्नयनुमितौ तदधीनप्रवृत्ते वह्निप्राप्तेरपि दर्शनात् न परोक्षभ्रम इति वाच्यम्—क्वचित् संवादस्येव क्वचिद्विसंवादस्यापि दर्शनात् । अतः प्रमात्मकपरामर्श एवानुमितिजनक इति वा, तादृशपरामर्श एव प्रमात्मकानुमितिजनक इति वा, भ्रमात्मकपरामर्शो भ्रमात्मकानुमितिमात्रजनक इति वा नियमो मा भूत् । सल्लिङ्गकपरामर्शो भ्रमानुमित्यजनक इति च काममस्तु । भ्रमात्म- कपरामर्शोऽपि प्रमात्मकानुमितेरेव जनक इति तु न सेत्स्यति । न च तस्या अनुमितेः कालान्तरस्थिताग्निमादायापि चारितार्थ्यान्न भ्रमत्वमिति वाच्यम्- धूमदर्शनेन वर्तमानविषयकेणानुमीयमानोऽग्निर्हि न वत्सरान्तरकालिको भवितु- मर्हति; किंतु क्वचिद् वह्निशमन समनन्तरमपि धूमपुञ्जदर्शनात् तत्क्षणस्थवह्नि- कत्वस्य कथश्चिदनुमानासंभवेऽपि विलक्षणधूमदर्शनेन कतिपयक्षणप्राग्भा- व्यग्न्यनुमितिसंभवेन धूलीपटले तादृशधूमत्वभ्रान्त्या जनिताऽनुमितिर्नात्यन्तव्य- बहितकालाग्निविषयिणीति, तत्र यत्कालावच्छिन्नत्वेनाग्निर्गृह्यते, तत्कालावच्छेदेन तत्र चेदग्निर्नाभूत्, तत्र तदनुमितिः कथं न भ्रमः ? यत्र धर्मिणि कदापि साध्यस्याभावः, यथा जले गन्धस्य, वायौ रूपस्य, अद्वैतिमते जगति पारमार्थ्यस्य, ब्रह्मण्यपारमार्थ्यस्य च, तत्र तदनुमितिः कथं न भ्रमः ! L Xc एतं शाब्दबोधोऽपि भ्रमात्मको द्रष्टव्यः । न हि तत्तद्वादिषु जायमानमुपनिषद्वाक्यार्थज्ञानं विभिन्नं सर्वमपि प्रमात्मकम् । तस्मादस्त्येव परोक्षभ्रमः । न च तत्र शब्दानुमानादि- स्थलेऽप्यनिर्वचनीयं कल्प्येत । 1 तथा सति रजतस्थले इन्द्रियसंनि- कर्षाभावेऽपि अन्तःकरणवृत्त्यभावेऽपि अविद्यावृत्तिमात्रेण रजतप्रत्यक्ष- त्ववत् इहापि तस्य प्रत्यक्षतापत्तेः । पर्वतेन्द्रियसंनिकर्षस्यापि सत्त्वेन, वह्निं साक्षात्करोमीति प्रतीत्यापत्तेश्च 1 ननु रूपाद्यग्रहणात् कथं तत्प्रत्यक्षमिति चेत् — चक्षुः संनिकर्षजन्यप्रत्यक्षस्य ह्येष स्वभावनियमः ; नाविद्यावृत्त्यात्मनः प्रत्यक्षस्येति । परोक्षे रूपाद्यग्रहणात् तत्र रूपाद्यभावे च तथाविधस्य वह्निवेऽपि प्रमाणाभावात् तदप्यनिर्वचनीयं न स्यात् । एवं मनो ब्रह्मेत्युपासीतेत्यादौ दृष्टिविधौ ब्रह्म भासमानं सत्यमनिर्वचनीयं वा । नाद्यः, अन्यथाख्यातिप्रसङ्गात् । नान्त्यः, अनिर्वचनीयत्रह्मोत्पादकस्य दुर्वचत्वात् । इतरज्ञानवत् साऽपि दृष्टिर्मान सक्रियात्मिकाऽपि ज्ञानरूपा सविषया चेति तत्रानिर्वचनीयं विना निर्वाहे सर्वत्र तथा स्यात् । एवमेकश्चन्द्र इति प्रत्यक्षसमनन्तरमङ्गुल्यवष्टम्भादिना यदा द्वौ चन्द्राविति भ्रमः, तत्र बाधकसत्वादनिर्वचनीयोत्पत्तिर्न तत्त्रान्यथाख्यातिरवर्जनीयेति सर्वत्र तथैव स्यात् अविशेषादिति । भवतीति

अख्यात्या निर्वाहोपपादनम् ।

तथैव एवं तावत् रक्तः स्फटिकः इत्यादिप्रत्यक्षविशेषेषु आनुमानिकाग- मिकभ्रमेषु अनिर्वचनीयं विना अन्यथाख्यानेनैव निर्वाहात् शुक्तिरजतादिप्रत्यक्षेऽपि निर्वाह उचित इत्युक्तम् अन्यथाख्यातिस्वीकारेण । अथ लाघवादख्यातिरेव सर्वत्रास्तु; नान्यथाख्यातिरपीति ब्रूमः । अन्यथाख्याति- कारणत्वेनावश्यस्वीकार्यमिदमर्थदर्शनम्, रजतस्मरणश्च तयोर्भेदाग्रहश्चेति तत एव संवलितात् प्रवृत्तिनिर्वहे किं विशिष्टज्ञानान्तरकल्पनयेति । ननु न भेदाग्रहः सुवचः । स किमिदमर्थस्य च रजतस्य च, किंवा ग्रहणस्मरणयोः । नाद्यः; रजतभेदस्येदमर्थनिष्ठस्याधिकरणस्वरूपत्वेनेदमर्थग्रहे तदग्रहायोगात् । अत एव नान्त्यः; ज्ञानस्य स्वयम्प्रकाशत्वेन इदमर्थग्रहणस्य रजतस्मरणस्य च ग्रहणत्वस्मरणत्व विशिष्टतयैव प्रकाशात् भेदग्रहधान्यादिति xci चेत् — न ; रजतभेदस्य शुक्तित्वरूपधर्मस्वरूपत्वात् शुक्तिग्रहेऽपि तद्धर्माग्रहात् । ज्ञानस्वयम्प्रकाशत्वेऽपि तद्गतप्रत्यक्षत्वस्मृतित्वादेरग्रहस्यानुभविकत्वात् । अत एव हिं पर्वतो वह्निमानित्यत्र पर्वतांशे ज्ञानस्यानुमितित्वं प्रत्यक्षत्वं वा, अघटं भूतलमित्यत्र घटाभावांशे प्रत्यक्षत्वमनुपलब्धिजन्यत्वं वा, सोऽयं घट इति प्रत्यभिज्ञायाः तत्तांशे स्मरणत्वमन्यादृशत्वं वेति वादिनो विवदन्ते । इदन्त्वं तु न रजतभेदः; पुरोवर्तित्वरूपेदन्त्वस्य स्मृतिविषयत्वावच्छिन्नभेद- देशान्तरवर्तित्वावच्छिन्नभेदादिरूपत्वेऽपि रजतत्वावच्छिन्नभेदरूपत्वायोगात् । अयोग्यस्थले च शब्दस्य विशिष्टज्ञानजनकत्वमख्यातिवादिभिर्देष्यते ; किं तु असंसर्गग्रह एव । न च रजतस्य देशान्तरस्थस्य स्मरणे देशान्तरा- देरपि स्मरणमावश्यकमिति निर्बन्धः ; यथा व्यवहारात् शक्तिग्रहकाले पदार्थस्य देशकालविशेषविशिष्टतया ग्रहणेऽपि एवं नानास्थलदर्शनात् पश्चात् व्यवहारान्तरे देशकालौ विहाय पदार्थमात्रस्मरणम्, अन्यथा देशकालयोरपि रजतादिपदात् स्मरणे शाब्दबोधे तद्भानापत्तेः —— तथेहापि रजतमात्रस्मृतिः स्मृतिप्रमोषरूपा वा तावन्मात्रानुभवाहित संस्कारजन्या वा भवितुमईतीत्यदोषात् । अतोऽख्याति - रेवास्तु | अद्वैतिपक्षे इदं रजतमित्यत्र इदमर्थेऽन्तः करणवृत्तिः, रजत विषये अविद्यावृत्तिरिति वृत्तिद्वयम्, अख्यातिपक्षेऽपि अनुभवस्मरणात्मकज्ञान- द्वयमित्यविशिष्टम् ।

प्राभाकरीय-यथार्थ-ख्याति-पक्ष निगमनम्

एवमन्यथाख्यातिं विहायाख्याति स्वीकारे सर्व ज्ञानं यथार्थमिति स्वतः सिद्धं भवतीति न स्वतः प्रामाण्यस्य ज्ञानगतस्य कुत्राप्यपवाद इति बौद्धसंमतास्याप्रामाण्यस्य सामस्त्येन निरासः । इदञ्च सर्वज्ञानयाथार्थ्यमुक्तं प्रकरणपश्ञ्चिकायां नयवीधीप्रकरणे शालिकनाथेन- “यथार्थ सर्वमेवेह विज्ञानमिति सिद्धये । प्रभाकरगुरोर्भीवः समीचीनः प्रकाश्यते ॥” इति ।

विशिष्टाद्वैतिपक्षस्यो विशेषः

अत्र विशिष्टाद्वैतिनः कञ्चिदुचितमर्थमुपक्षिपन्ति - अद्वैतिभिर्भमस्थले सर्वत्र नानिर्वचनीयमिष्यते ; किंतु शुक्तिरजतादिकतिपयस्थल एवेति प्रागेवावाचि । तत्र रजतकल्पनां विनैव रजतप्रत्यक्षं सूपपादमिति किं तेन ! तथाहि — यत्र यादृशसामग्रीसमवधाने यावद्विशेषणविशिष्टवस्तुविषयकमेकं xcii ज्ञानं विशिष्टज्ञानपदवाच्यमुत्पत्तुमर्हम्, तत्र तादृशसामग्रया तावद्विशिष्टवस्तु- ज्ञानमेकमेवेति तावत् अख्यातिवादिप्रभृति सर्वसंमतम् । अत एव रजते, इदं रजतमिति रजतत्व पुरोवर्तित्वविशिष्टवस्तुविषयकं ज्ञानं जायमानमेकमेव ; न तु विशेष्यादिभेदेन भिन्नम् । शुक्तौ तु इदं रजतमिति ज्ञानमेकं न भवितुमर्हति ; इदमर्थज्ञानस्य संनिकर्षाधीनप्रत्यक्षरूपत्वात्, रजतज्ञानस्य च संस्काराधीन- स्मृतिरूपत्वात् । तत्र तादृशज्ञानद्वयजन्याप्रमाभूतज्ञानान्तरस्वीकारापेक्षया च कारणीभूतज्ञानद्वयेनैव निर्वाह इति सर्वज्ञानयाथार्थ्य मख्यातिवाद्यभिमतम् । एवञ्च प्रमाभूतविशिष्टज्ञानस्यैकस्य सुवचत्वे ज्ञानद्वय क्लेशस्तत्र न सोढव्य इति संप्रतिपन्नमेव । भ्रमस्थले सर्वत्र प्रमात्मकविशिष्टज्ञानवर्णनासंभवेऽपि, प्रायेणाख्यातिपक्षस्यादरणीयत्वेऽपि च, कचित् क्वचिद्रमस्थले विशिष्टज्ञानं यथार्थमेकं सुवचमिति ईदृशी यथार्थख्यातिरप्यस्तीति । कथमेवमिति चेत् — इदमेव, “यथार्थं सर्वविज्ञानम्” इत्यादिना श्रीभाष्ये विशेषेण भाषितम् । तदत्र विविच्यते-

विशिष्टाद्वैत्युक्तविशेषे प्रमाणानि

श्रुतिस्मृतिमीमांसान्यायप्रत्यक्षप्रमाणकोऽयं यथार्थख्यातिपक्षः । तथाहि— श्रुतिस्तावत्, ‘तत् तेजोऽसृजते ‘त्यादिना भूतानां सृष्टिमुक्त्वा, ‘तासी त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति त्रिवृत्करणं वर्णयन्ती भूतानां मिथः संसृष्टत्वं ब्रवीति । अत्र श्रुतावुक्तं मिथो भूतमिश्रणं न तेजोबन्नरूपभूतत्रयमात्रविषयकम्, किं तर्हि, महदादिपृथिव्यन्त समष्टिसृष्टयन्तर्गत सर्वविकारविषयकमिति श्रीविष्णु- पुराणे, “नानावीर्याः – महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते” इति सृष्टिप्रकरणे व्यक्तमदर्शि । इदमेव समष्टिभूतमिश्रणं व्यष्टिगतमग्निमादाय श्रुत्या दर्श्यतेऽपि, ‘यदग्नेः रोहितं रूपं तेजसस्तद्रूपम्’ इत्यादिना । एवं तर्हि सर्वेषु भूतेषु सर्वभूतानुप्रवेशात् सर्वमपि पृथिवीशब्देनाबादिशब्देन चाविशेषेण व्यष्टौ व्यपदिश्येतेत्याशङ्कायाम्, “प्रयात्मकत्वात्तु भूयस्त्वात् " इत्यनेन भगवता वादरायणेन समाधानमसूत्रि । अयमर्थः – सर्वत्र सर्वां- शसद्भावेऽपि यदूभूतांशा यत्राधिका भवन्ति, तत्र तद्व्यपदेशः । अतोऽबादो पृथिव्याद्यंशानां न्यूनत्वात् पृथिव्यादिव्यपदेशा नैव क्रियन्त इति । तावता जलगतपार्थिवांशस्य पृथिवीत्वं नास्तीति वा, पृथिवीशब्दव्यवहार्यत्वं न भवतीति वा न मन्तव्यम्; समष्टिसमये तयोः स्थितत्वात् । किंतु अबंशभूयस्त्वे- नाल्पीयसां पृथिव्यंशानामभिभूतत्वेनानभिव्यक्तत्वात् तत्र तथा व्यवहारं नxciii कश्चित् करोतीत्येतावदेवेत्यध्यत्र ध्वनितम् । एवञ्च यदि कश्चित् कथमपि दोषवशात् कदाचिदग्नौ शुक्ललोहितभागादर्शनेन कृष्णभागमात्रं पश्यन् तत एव इयं पृथिवीति गृह्णीयात्, व्यवहरेच्च तत् तस्य ज्ञानं जातं यथार्थमेव, अग्निगतकृष्णरूपपृथिव्यंशमात्रम्, इयमिति गृहीत्वा तत्र तेन पृथिवीत्वग्रहणा- दित्यका मेनाप्युभ्युपगन्तव्यम् । एवं यदि कश्चिद् भौतिकविज्ञानी निपुणस्तत्र विशिष्टेन साधनेन अग्न्याद्यंशान् पृथक्कृत्य पृथिव्यंशं शेषयेत्, भगवान् वा प्रलयावसरे तत्तदंशपृथक्करणपरः स्यात्, तदा तत्र तत्र तत्तद्व्यवहारो हि प्रामाणिको निराबाधः । तथैवेदानामपीति मन्तव्यम् शुक्लां- शानां भूयसां ग्रहणे भूयोंशानुरोधी अन्यादृशो व्यवहार इत्यन्यदेतत् । एतावता एकस्मिन् भूते भूतान्तरप्रतीतिव्यवहारौ अन्यादृशभूतांशाग्रहण- समयभवौ प्रामाणिकाविति सिद्धम् । एतेन मृगतृष्णिकारूप प्रभापुञ्जे तोयप्रतीतिव्यवहारौ व्याख्यातौ तादृशतेजोन्तर्गततोयांशमात्र संनिकर्ष- मूलयोस्तयोः प्रामाणिकत्वौचित्यात् । एवं श्रुतिस्मृतिसूत्रपर्यालोचनया चेदमपि निश्चितम् यत् यत्र पदार्थे यदंशसत्तानिबन्धनौ यादृशप्रतीतिव्यवहारौ तद्भिन्नपदार्थेऽपि तदंशसत्ताबलेन तादृशप्रतीतिव्यवहारौ जातु जायमानौ प्रामाणिकाविति ।

तत्र पूर्वमीमांसोक्तीनामनुकूलता

अतश्च मीमांसकानामुक्तयः सुसंगता भवन्ति । ते ह्येवमाद्दुः- ‘यदि सोमं न विन्देत् पूतकानभिषुणुयात्’ इति श्रुतिः सोमयागानुष्ठानाय सोमलतारूपद्रव्यालाभे पूतीकद्रव्यं नियमयति । नायमपूर्वविधिः; किं तु ‘सोमेन यजेते’ति वाक्येन सोमस्य साधनत्वकथनात् सोमावयवानां सर्वेषां साधनत्वावगमात् भूयस्सोमावययकसोमव्यक्त्या यागानुष्ठानं मुख्यम् । तदभावे श्च कतिपय सोमावयवशालिद्रव्यान्तरग्रहणे औचित्यात् प्रसक्ते पूर्तीकविधिरयं पूतीकनियमं दर्शयन् सदृशद्रव्यान्तरग्रहणं प्रथमतः प्रसज्यमानं वारयति । तदत्र पूतीके पूतीकव्यक्तेर्वा सोमावयवविलक्षणावयवानां वा न करणता ; किंतु सोमेन यजेतेत्यत्र सोमपदोपात्त-पूतीकान्तर्गत सोमावयवानामेवेति । एवं व्रीहिभिर्यजेतेति वाक्येन त्रीहिन्यते ह्यवयवानाश्च साधनत्वावगमात्, यत्र व्रीहिव्यक्त्यलाभः, तत्र नीवारादेः प्रतिनिधित्वेन ग्रहणम् ; नीवारादिगतानां विलक्षणनीवारावयवानां साधनत्वप्रापकप्रमाणाभावेऽपि त्रीहिपदेन नीवारान्तर्गत- ब्रह्मवयवानामपि साधनत्वकथनात् तादृशावयवार्थमेव नीवारग्रहणसंभवात् । xciv तदवयवमात्रपृथक्कारस्य दुष्करत्वात्तु विलक्षणनीवारावयवानामपि सह निवेशः । न तावता तेषां साधनत्वमिति । ( ६-३ ११) शास्त्रदीपिकादिष्वयमर्थो विस्तरेण द्रष्टव्यः । शावर भाष्ये, ‘सामान्यं तचिकीर्षा हि’ (६-३-२७) इति सूत्रे, “व्यक्तेश्वाकृत्या विशेषाः परिच्छिद्यन्ते । यस्मिंश्च सदृशे गृह्यमाणे तेषां विशेषाणां केचित् संगृहीता भवन्ति” इति वाक्येन प्रतिनिधिद्रव्ये मुख्यगताकृतिपरिच्छेद्यावयवसद्भाव उक्तः । ’ न तदीप्सा हि’ (६-३-३४) इति सूत्रे च, " न हि पूतीकव्यक्तीनामीप्सा । पूतीकेषु यत् सोमसादृश्यम्, तन्नियम्यते” इत्यभाषि । ‘तादर्थ्याद्वा तदाख्यं स्यात् संस्कारैरविशिष्टत्वात् ’ इति सूत्रे च, “नैतदस्ति ऊह इति ; अविकारेण प्रयोगः । कुत: ? तादर्थ्यात् । तादयं वीह्यर्थता नीवाराणाम्” इति भाषितम् । प्रोक्षणादि- संस्कारापेक्षया व्रीह्यादिशब्दे विशेषाभावात् प्रतिनिधिषु प्रोक्षणाद्यन्वयवत् बीह्यादिशब्दान्वयोऽपि भवितुमर्हति । अतो नीवारादीनां व्रीह्याद्यर्थत्वात् व्रीह्माद्याख्याप्रयोग एव कार्यः; न नीवारादिशब्दप्रयोगः इत्येतत्सूत्रार्थः । एवमेतेषु सूत्रभाष्यादिषु परिशील्यमानेषु, ‘सदृशद्रव्येषु मुख्यद्रव्यावयवसद्भावः, तादृशावयवार्थतया मुख्यद्रव्यवाचिशब्दप्रयोगस्य युक्तत्त्रञ्च सिद्धयति । इदमेव चेह मीमांसाग्रन्थेषु स्पष्टमुक्तं श्रीभाष्ये भाषितम्, “श्रीभावे च नीवारग्रहणं व्रीहिभावतः । तदेव सदृशं तस्य यत् तद्द्द्रव्यैकदेशभाक्” इति ।

नवीनतान्त्रिकोक्तो विशेषः

अत्र च, ‘यत्र जातेरवयवावयविसाधारणता, तत्र पूतीकगतसोमावय- वानामपि सोमत्वजात्याक्रान्ततया सोमशब्दव्यपदेशयोगेऽपि, यत्र जातेरवयवि- मात्रवृत्तिता यथा व्रीह्यादौ, तुषतण्डुलाद्येकदेशे व्रीह्यादिपदाप्रयोगात्, तत्र नीवारादिगतव्रीह्मवयवादी व्रीहित्वजातिसखे प्रमाणाभावेन कथं व्रीहिशब्दप्रयोगः ’ इत्याशङ्कय सोमनाथखण्डदेवादिभिरेवं समाहितम्, ‘मन्त्राणां प्रयोगसमवेतार्थ- स्मारकत्वात् त्रीह्यादिगतात्रयवानामेव पुरोडाशादिसाधनतया प्रयोगसमवेतत्वात् तत्प्रकाशनाय, ‘व्रीहीणां मेघे’ ति मन्त्र व्रीहित्वादिजात्यवच्छेदन समर्थद्रव्यावयवा एव लक्षणया निर्देष्टव्या इति तादृशावयवत्वस्य नीवारादिगतव्रीह्माद्यवयवेष्व.. प्यक्षतत्वान्नं दोष:’ इति । XCV तथा च सोमादौ सोमत्वादि संस्थान संपत्त्यर्थं यादृशपरिणामं प्राप्य पृथिवीद्रव्यं सोमाद्यवयवभावेनावतिष्ठते, तादृशपरिणामं प्राप्यैव पूतीकादावपि तद्द्द्रव्यमवतिष्ठतं इति मिथः सौसादृश्यादेव ब्रीह्याद्यवयवत्वस्य पूतीकाद्यवयवेषु कथ्यमानत्वात् एकसोमगत सोमावयवानां सोमान्तरगतावयवानाञ्च यत् सौसादृश्यम्, तदत्राप्यस्ति । एवं सति सर्वैः पूतके सोमव्यपदेशाकरणं तु भूयोविजातीयग्रहणाभिभूततया तत्र तथात्वस्यानभिव्यक्तत्वादिति पूर्वोक्तमीमांसकवाक्यत एव व्यक्तम् । वेदान्तिमते च जातिरूपनि- व्यपदार्थानङ्गीकारात् जातिः, आकृतिः, संस्थानमिति पर्याया इति विशेषः । आकृत्यधिकरणादौ आकृतिपदेन जातिं गृह्णीयुमीमांसकाः; जात्याकृत्योर्भेदमपि ब्रूयुः । वेदान्तिनां पुनर्जातिराकृतिरेव संस्थाननाम- व्यपदेश्येति ।

त्रिवृत्-करण-मूल-सादृश्य-स्थलम्

तदेवं यत्रैकभूतकार्ययोरेव सादृश्यं समानावयवकत्वं भवति, यथा सोमपूतीकादौ, तत्र त्रिवृत्करणश्रुतेर्नोपयोगः । यत्र तु एकभूतकार्ये भूतान्तरकार्यसादृश्यप्रतीतिः, तत्र त्रिवृत्करणोपयोगः, यथा शुक्तिः पार्थिवी, रजतं तैजसमिति, तत्र शुक्तौ रजतसादृश्यानुभवः अन्यत्रेव रजतगतरजतावयव- सद्भावमूल एव । तथा च रजते तेजोद्रव्यं यादृशशुक्कभास्वरपरिणामं प्राप्य वर्तते, तथैव शुक्तावपि त्रिवृत्कृतपृथिव्यन्तर्गततेजो मागस्तादृशपरिणामो वर्तत इति ततस्तत्र सादृश्यप्रतीतिः ।

शुक्तौ रजतावयवस्थितिः

यद्यपि सहस्रगुणित शुक्तिदाहेऽपि रजतावयवाः स्वल्पा अपि कैरपि न प्राप्यन्ते - तथापि शुक्तिशकलेऽपि रजतात्रयवकल्पनं न निर्मूलम् ; सहरा प्रतिनिधिनियम सद्भात्रन्यायप्रत्यक्षादिमूलकत्वात् शुक्तौ रजतसद्भाववर्णनस्य । ओषधिविंशेष संपर्कात् रजतादेरपि भस्मीभावो लक्ष्यते । तद्वत् विलक्षणशुक्ति- शकलान्तर्गताः रजतांशा अपि ईदृशैरुपायैः पृथक्कारानही भवितुमर्हन्ति । विजातीयद्रव्योपश्लेषबलाच्च दाहे स्वरूपं विहाय रूपान्तरं प्रापितं भवेत् । पार्थित्रतेजोभाग एव किलैवं स्थित इति ब्रूमः । स स्वां प्रकृतिं दाहे प्राप्नोतीति युक्तो दाहवशात् रजतालाभः । न च रजतत्वजातिरवयविमात्रवृत्तिः, येन पशुत्वमनुष्यत्वादिवदेकदेशावृत्तिः स्यात् । सोमवती कस्त्रादिवत्तु xcvi मृत्सुवर्णरजतादीनामनेकेषां द्रव्याणामवयविसर्ववृत्तिजातिमत्त्वमेवाऽऽनुभविकम् । कामं कश्चित् शुक्तौ सर्वात्मना रजतांशो नास्तीति प्रत्यक्षादिविरोधमप्यवधीर्य साधयतु 1 एवमपि यथार्थख्यातिभ्रमस्थळे कचिद्भवन्ती न निवारयितुं शक्यते । पूतीकसंनिकर्षजे, अयं सोम इति ज्ञाने लोके भ्रान्तित्वेन संमन्यमान एव यथार्थख्यातेर्जागरूकत्वात् / नोदाहरणमादर्तव्यमिति च नीतिविदः । अन्यत्र पुनरख्यातिरेवेति ।

अग्रहस्य कारणत्वम्

; ननु भेदाग्रहस्य कारणत्वं न संभवति भेदग्रहस्य प्रतिबन्धकत्वेऽपि प्रतिबन्धकाभावस्याकारणत्वात् । सामग्रयां सत्यां कार्योत्पादविरोधित्वं हि प्रतिबन्धकत्वम् । सामग्री च सर्वकारणसमुदाय इति प्रतिबन्धकाभावातिरिक्ता- नामेव कारणत्वमानुभविकम् । एवं कराग्निसंयोगे सति मणिसमवधाने दाहानुत्पादः, मणिसंयोगाभावप्रथमक्षण एव दाहोत्पादश्चानुभवसिद्धः । अतः प्रतिबन्धकाभावस्य दाहपूर्ववृत्तित्वाभावान्न कारणत्वसंभव इति चेत् — एवमपि प्रतिबन्धकाभात्रस्यापेक्षितत्वं दुर्निषेधम् । तथा हि– प्रतिबन्धकाभावो न कार्यं प्रति कारणमिति वदता किं सत्येव प्रतिबन्ध के कार्यं भवतीत्युच्यते, उत न । आद्ये मणिसमवधानेऽपि दाहः स्यात् । अन्त्ये प्रतिबन्धकाभावापेक्षा नेति रिक्तं वचः । किञ्च प्रतिबन्धकाभावस्य किमिदं कार्योत्पत्तिविरोधित्वम् । यदि कार्यानुकूलशक्तिविघटकत्वम्, तर्हि प्रतिबन्धकाभावे सति शक्त्युत्पादे कार्योत्पाद इति तदपेक्षाऽस्त्येव । यदि कार्यानुत्पादप्रयोजकत्वं तंत्, तदापि कार्यानुत्पादस्य कार्यप्रागभावस्य स्वतः सिद्धत्वात् तस्य प्रतिबन्धकप्रयोज्यत्वा- भावेन कार्योत्पादस्य प्रतिबन्धकाभावस्य च स्थितः कार्यकारणभाव एव कार्यानुत्पाद· प्रतिबन्धकाभावाभावात्मक प्रतिबन्ध कयुगले समारोप्यमाणः प्रयोज्य - प्रयोजकभाव इत्युच्यते, कार्याभाव कारणाभावयोरिवेति मन्तव्यम् । ननु पूर्वक्षणे मणिसमवधानेऽपि दाहोत्पादकाले मण्यभावमात्रेण तद्दर्शनात् कथं तस्य कारणत्वमिति चेत् — यदि क्षणविलम्बमन्तरेण कार्योत्पादोऽनुभवसिद्धः, अविनश्यदवस्थमणिसंयोगः प्रतिबन्धकः; तदभावः कारणमिति स्वीक्रियताम् । अतो भेदग्रहाभावः प्रवृत्तिहेतुभवितुमहतीति । अथाख्यातिपक्षे इदं रजतत्वेन जानामीत्यस्य निर्वाह: कथम् ? इदमर्थविशेष्यकज्ञानस्य रजतत्वप्रकारकत्वाभावात् । न च इदमर्थज्ञानं रजत- xcvii ज्ञानश्च मेऽस्तीति तदर्थः; तथासति शुक्तिविषये शुक्तिरिति ज्ञाने रङ्गे रजतज्ञाने च सति शुक्ती, इदं रजतत्वेन जानामीति ग्रहापत्तेः । न च इदमर्थविशेष्यकं यत् रजतत्वप्रकारकं ज्ञानम् तद्वानहमित्येव तदर्थः । अथापि तस्य भ्रान्तसमवेतानुव्यवसायत्वात् नेदमर्थविशेष्यके ज्ञाने रजतत्व- प्रकारकत्वसाधकत्वमिति वाच्यम् तर्हि अनुव्यवसायस्यापि भ्रमत्वापत्तेः । अनुव्यवसायातिरिक्तं व्यवसायात्मकं ज्ञानं नास्तीति चेत् — अस्त्वेतत् । एवमपि शुक्तौ रजतभ्रमनिवृत्त्यनन्तरम्, ‘इदं रजतत्वेन प्रागनानाम्’ इति ज्ञानस्य एकज्ञाने शुक्तिविशेष्यकत्वरजतस्त्रप्रकारकत्वोभयसाधकत्वात् । इदं रजतमिति ज्ञानस्य नेदं रजतमिति बाघज्ञानोदयवत् इदं रजतत्वेन न जानामीति अख्यातिवादे अनुभवापत्तेः । इदमर्थज्ञानं न रजतविषयकमिति हि तेषामनुमत्रः संभवतीति चेत् — वस्तुन ईदृशानुव्यवसायस्यान्ययाख्यातिपक्षे स्वरसत्वेऽपि लाघत्रमूलकारूपानिपक्षेऽपि निर्वाहः संभवति ; इदं रजतत्वन जानामीत्यस्य इदमर्थविशेष्यकरजतत्वा संसर्गाप्रहविशिष्टरजतत्वप्रकारकज्ञानवानह- मित्यर्थसंभवात् । शुक्तिज्ञानरङ्गरजतज्ञानसरखे च शुक्तिविशेष्यकज्ञानं न रजतत्वासंसर्गप्रहविशिष्टम् । शुक्तित्वस्य रजतत्वासंसर्गात्मकतया शुक्तित्वेन शुक्तिज्ञाने सति रजतस्यासंसर्गामहाभावात् नाग्रहविशिष्टज्ञानमस्तीति । विभिन्न- ज्ञानीयविषयतयोरपि निरूप्यनिरूपकमात्रस्वीकारिणां मते तु शुक्तिविशेष्यता- निरूपितरजतत्वप्रकारताकज्ञानवानहमिति बोधवर्णनं सुकरमेव ।

स्वप्नविषयः

एवं स्वप्नज्ञानस्यापि यथार्थख्यातित्वसंभवादख्यातिस्वीकारोऽन्यत्रैवेति विशिष्टाद्वैतिनः 1 अथ स्वप्नस्य सत्यविषयकत्वे स्वमजागरयोरविशेषात्, " वैधर्म्याच्च न स्वप्नादिवत्” इति भगवता बादरायणेन स्वप्न जागरयोर्वै- धर्म्यवर्णनं न घटेतेति चेत् —

वैधर्म्य-सूत्र-निर्वाह-साम्यम्

उभयोर्मिथ्यार्थविषयकत्वमतेऽपि तन्न घटेतैव । अपि चाद्वैतभाष्यानु- रोधेनैतत्सूत्रसमाधेयः पूर्वपक्षस्तावत् – “यथा हि स्वप्नमायामरीच्युदकगन्धर्व- नगरा दप्रत्ययाः विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितद- शाभविनः संवाद सध्रीचीना अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते M xcviii प्रत्ययत्वाविशेषात्’ इत्येवंरूपः । अत्र जागरितज्ञानं न बाह्यालम्बनं विज्ञानत्वात् स्वाभादिज्ञानवदिति पूर्वपक्ष्यनुमानशरीरं रत्नप्रभायां निष्कृष्टम् । इदमनुमानं वैधर्म्यादिति सूत्रेण निराक्रियते । स्पष्टमिदं माष्येऽपि । स्वमज्ञानस्य, मिथ्या मयोपलब्धो महाजनसमागम इति प्रबोधे बाध्यमानत्वात्, ‘निद्राग्लानं तु मे मनो बभूत्र ; तेनैषा भ्रान्तिरुद्व मूत्रे ‘ति दुष्टकारणजन्यत्वेनावधार्यमाणत्वाच्च बाह्यर्थानालम्बनत्वं युक्तम् । नैवं जागरितज्ञानस्य बाध्यत्वादिकमस्तीति न बाह्यर्थानालम्बनत्वन् । अतो बाह्यार्थाः सन्तीति पूर्वपक्षनिराकरणप्रकारः । अयञ्चाद्वैतमते ऽभ्युपगमवादमन्तरा न संगच्छते । तैरपि विशिष्टाद्वैतिभिरिव स्वप्ने पदार्थसृष्टेरङ्गीकारात् । इयान् विशेषः – एकतरस्मिन् पक्षे तस्या ईश्वरकर्तृकत्वम्, अन्यतरम्भिन् जीत्रीयत्वमिति । एवञ्च स्वप्नदशानुभूयमान- देशकालवस्तुव्यापारादीनां सर्वेषां विज्ञानाकारव्यतिरेकेण वर्तमानत्वात् कथं स्वप्ने वाह्यार्थानालम्बनत्वम् ? अतः स्वासमतमपि बाह्यार्थानालम्बनत्वं स्वयमभ्युपगम्य सूत्रकारः स्वप्नवैधर्म्यं जागरिते दर्शयतीत्येव तैरपि वक्तव्यम् । तथैवाभ्युपगमवादः श्रुतप्रकाशिकायामप्युक्त इति न विशेषः । उपरि च सूत्र नाध्ये, “स्मृतिरेषा यत् स्वप्नदर्शनम् ; उपलब्धिस्तु जागरितदर्शनम्” इति वैधर्म्यान्तरं दर्शितम् । इदमपि न तन्मते युज्यते । स्वमेऽपि, ‘अद्राक्षं गजम्’ इति प्रबोधकालिकानुसंधानानुरोधेनानिर्वचनीय- सृष्टिमङ्गीकृत्य यथावस्थितोपलब्धेरेवेष्टत्वात् ।

सूत्रकारहृदयम्

अत्र स्वमादिवत् इति आदिपदं प्रयुञ्जानः सूत्रकारः पूर्वपक्षयुक्तमसत्य- विषयकत्वं स्वप्नस्याभ्युपगम्य स्वप्नवैधम्यं वदन्ननि आदिपदग्रायमायादिस्थलान्येव मुख्यवैधम्र्म्येौदाहरणत्वेन मन्यत इति सुवचम् । किञ्च श्रुतिं प्रमाणमनभ्यु- पगच्छन्तं बौद्धं प्रति श्रुतिप्रामाण्येन स्वाभिमतस्य स्वमसत्यत्वस्य प्रस्तावो नोचितः । श्रुतिं दूरे निक्षिप्य तर्कपरिकल्पिताः परमतप्रक्रियाः पराकर्तुं तर्कपादमारचयता सूत्रकृता तन्मध्ये श्रुतिमात्र सिद्धार्थनिरूपणं नैत्रौचित्य- मावहति । अतो लोकानुभवमनुसृत्य वक्तव्यमेव तत्र वक्तुमुचितम् ।

वैधर्म्य-सूत्र-निर्वाहविधान्तरम्

अन्यच्च व्यावहारिकदशाबाध्यत्वं स्वप्नेऽस्ति, न तु जाग इति वैधम्यं चेदू विवक्ष्यते, विशिष्टाद्वैतिभिरपि तत्काल मात्रानुभाव्यत्व– xcix तत्पुरुषमात्रानु भाव्यत्वतदभावप्रयुक्त वैधर्म्य सद्भावात् स्वप्ने मिध्यात्वानुमान- प्रसक्तिरस्ति, न त्वत्रेति तदेत्र वैधम्यं सूत्रकृदाहेति सुवचम् । एवं स्वप्ने पदार्थानां सत्यत्वेऽपि तेषां जागरपदार्थभिन्नत्वात् तत्र, अयमहं चैत्रः, अयं मे पिता, मातेयम्, मातुलोऽयमित्येवं चैत्रत्व- पितृत्वादिज्ञानं भ्रान्तिरेव । जागरसमयानुभाव्यशरीर संस्थान सरूप संस्थान- दर्शनमात्रादेवं धारिति तादृशबाध्यांशाभिप्रायेण स्वप्नवैधर्म्य सूत्रकृद् दर्शयतीति च भाव्यताम् ।

स्वप्नोपसंहारः

अनः श्रुतिप्रामाण्यमातिष्ठमानानां स्वामिकाः पदार्थाः सत्या एव । न च प्रातिभासिकेषु शुक्तिरजतादिषु लोके सृजतिशब्दः प्रयुज्यते ; श्रुतौ स्वप्नविषये ‘अथ रथान् रथयोगान् पथः सृजते स हि कर्ता’ इत्येवं सृजत्यादिः प्रयुज्यते, शक्तिश्च प्रतिपाद्यत इति न तत्र प्रातिभासिकतुल्यता, किं तु जागरवत् सत्यतैवेति तत्रापि यथार्थख्यातिर्दृश्यमानपदार्थविषये । पितृत्व मातृत्वा- दिघमांशे पुनः प्रकारान्तरेणानिर्वाह्ये स्यादख्यातिरिति । एवञ्च यत्र साक्षात्कारस्थले साक्षात्कारत्वनिर्वाहायानिर्वाच्यं किञ्चिदपूर्व कल्प्यते, तत्र तत्कल्पनां विनैव पारमार्थिकांशग्रहणेनैव निर्वाहं वर्णयन्तो विशिष्टाद्वैतिनो यथार्थख्यातिं ख्यापयन्ति । अन्यत्वन्यत्र ।

उदाहरणान्तरे विमर्शः

अथान्यदुदाह्रियते— “पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः | सोपि जम्बूफलभ्रान्त्या तमेतं हर्तुमिच्छति ॥”

अत्रालिशुकयोः पलाशमुकुलजम्बूफलरसास्वादप्रसङ्गः । अनिर्वचनी- ययोस्तयोरुत्पन्नत्वात् । अथ तत्र प्रतिभासमानवर्णकारमात्रवैशिष्टयाङ्गीकारेऽपि न रसगन्धस्पर्शादीतरांशसत्वमिति चेत् तर्हि यादृश्यादृशा साधारणांशवैशिष्टयं पलाशमुकुलजम्बूफलादाबायुर्वेदलोकानुभवसिद्धम्, तादृशांशवैशिष्टयं तत्र बाध- ज्ञानोदयात् प्रागांप यदि न भविष्यति, तर्हि तत् अपलाश मुकुलमजम्बूफलश्चेति अतस्मिंस्तत्प्रत्यय एव तत्र । तत्र तच्छन्दवाच्यत्वधीरपि भ्रान्तिरेव । साक्षिभास्ये तत्रेन्द्रियप्राह्मत्वादिधीरपि भ्रान्तिरेव । तन्निर्वादायैव हि तत्रानिर्वचनीयकल्पना । कल्पनेऽपि तदनिर्वाह एव । एवं शुक्तिरजतादावपि । परमार्थपरमार्थसंयोगाद्यभावाच्च, अत्र रजतमित्यादिकमपि न घटत इत्यादि भाव्यम् ।

मिथ्याज्ञानव्यवहारनिर्वाहः

तर्हि सर्वस्य ज्ञानस्य यथार्थः मिथ्याज्ञानमिति लोकव्यवहारः किमभि- प्रायक इति चेत् — उच्यते । अन्यथाख्यातिपक्षे तदभाववति तत्प्रकारकत्वरूपं ज्ञाने मिथ्यात्वम्, यद्देशकालावच्छेदेन यत्र यद् गृह्यते, तादृशगृह्यमाणदेश- कालावच्छेदेन गृह्यमाणविशेष्यावृत्तिप्रकारत्वं वस्तुनि मिथ्यात्वम्, पूर्वोक्तज्ञानजनकवाक्यत्वमेव वाक्ये मिथ्यात्वमिति मिथ्याज्ञानं, मिध्यावस्तु, मिथ्यावाक्यमिति पदानामर्थस्थितिः । अख्यातिपक्षे च ज्ञानस्य मिध्यात्वं नाम विद्यमानभेदाग्रहधर्मिग्रहो भय विशिष्ट किञ्चिज्ज्ञानत्वरूपम् । यथार्थख्यातिपक्षे तु वस्तुतः शुक्तिगतस्य गृहीतांशस्य रजतत्वात् अभिमतकार्यानुपयोग्यर्थ- विषयकज्ञानत्वं मिथ्याज्ञानत्वमिति वक्तव्यम्, शुक्तिभूयम्वबलेन तस्य रजतांशस्यापेक्षितकार्यनिर्वर्तकत्वाभावात् । भतश्च. सत्यमर्थक्रियाकारि, अतादृशं मिथ्येति निर्वचनमप्यनुसृतं भवतीति सर्वपक्षेऽपि मिथ्याज्ञानत्वं सूपपादमिति दिक् ।

अनिर्वचनीयकारणविमर्शः

. तदेवं श्रीभाष्ये अनिर्वचनीयस्यात्यन्तापरिदृष्टत्वमभिसंहितम् । एव- मकारणकत्वमपि । इदं रजतमिति प्रतीतिस्तावत् रजतसत्ताज्ञापिका ; न तु कारिका । कथञ्च कारकाभावादनुत्पन्नं रजतं ज्ञापकाभिमतः प्रत्ययः साधयेत् । शुक्तित्वाज्ञानं तु पुरुषगतं तंत्र शुक्तिज्ञानाधीनव्यवहाराभावं परं साधयेत् । शुक्तिगतं किञ्चित् शुक्तित्वाज्ञानं स्वनुभवानारूढम् । यदि तदा शुक्तौ काचिच्छक्तिः स्यात्, तर्हि ततो जायमानं रजतं मृद्घटादिवद् विनयदेव स्यात् ; न तु बाध्यम् । तिमिरादिदोषस्त्विन्द्रिये वर्तमान इन्द्रियकार्य- मन्यथा कुर्यात् ; न तु बहिः किंश्चिदुत्पादयेत् । न चोत्पन्नं रजत मिति कस्यचिदनुभवोऽस्ति । न च स्वप्न इव तत्र सृष्टेः स्थापकं श्रुतिप्रमाणं लक्ष्यते । प्रतीत्यन्यथानुपपत्त्या कारणमेकं कल्प्यत इति चेत्, कल्पनातः प्रागस्थितं कथं तद्रजतमुत्पादितवत् स्यादिति । तत् एवं यथार्थख्यातिं स्थितामत्र नयद्युमणौ निरूपयन् श्रीभाष्यादि- दर्शितान्युदाहरणानि बहूनि गृहीत्वा विचारं प्रवर्तयन्नयं ग्रन्थकारः 1. संशयविपर्ययतर्कभेदेन त्रेधा अयथार्थज्ञानस्य तार्किकैर्विभजनात् सर्वोदाहृत- विपर्ययस्थलेष्विव संशयतर्कविषये तत्परित्यक्तेऽपि स्वसिद्धान्तमनुरुध्य निर्वाहं निरूपयतीत्ययमस्ति विशेषः । एवं सर्वस्यापि ज्ञानस्य यथार्थत्वे लोके प्रमाभ्रमादिप्रतिनियतव्यवहार- नियामकं किमिति चेत् — उद्देश्य भूतकार्यनिष्पादक प्रवृत्तिहेतुज्ञानं प्रमा, तदनिष्पादक प्रवृत्तिहेतुर्भ्रम इत्येवं भाव्यम् ।

स्वतः प्रामाण्यम्

एवं सवं ज्ञानं प्रमेत्यवोचाम । एतद्गतं प्रामाण्यं किं स्वतः परत इत्यत्र तीर्थकरा विप्रतिपद्यन्ते । अत्रेदं सारभूतं संगृह्यते । प्रामाण्यमप्रामाण्यश्व स्वत इति सांख्याः । उभयं परत इति तार्किकाः । अप्रामाण्यं स्वतः, प्रामाण्यं परत इति बौद्धाः । प्रामाण्यं स्वतः, अप्रामाण्यं परत इति वैदिकाः ।

तत्रायं सांख्याशयः —— वस्तु उत्पद्यमानं ह्यसाधारणधर्मविशिष्टमेवोत्पाद्यते सामग्रयेति प्रमाणभूतं ज्ञानं प्रामाण्यविशिष्टमेवेोत्पद्यते, अप्रमाणभूतमपि ज्ञानं तथेति न धर्मोत्पत्ययं कारणान्तरमन्वेष्टव्यम् । यथैत्रं स्वतो जायते, तथा स्वत एव ज्ञायते च । ज्ञानस्य ह्ययं स्वभाव:, यद्वस्तु यथाऽस्ति, तथा तद् गृह्णातीति । एवञ्च प्रमाणभूते ज्ञाने गृह्यमाणे प्रामाण्यविशिष्टमेव गृह्यते, अप्रामाणभूतश्चाप्रामाण्यविशिष्टं गृह्यत इति । तार्किकास्तु प्राहुः — ज्ञानं तावद् द्विविधम् प्रमा भ्रमश्चेति । तत्र ज्ञानस्य सामान्यसामग्री, विशेषसामग्रीति द्वयं वाध्यम् । लोके सर्वत्र कार्ये तद्दर्शनात् । तत्र विशेषसामग्री विना सामान्यसामग्रीमात्रात् कार्यं कुत्रापि न भवतीति विशेषसामग्रयां सामान्यसामग्री निविशत इत्यन्यदेतत् । तथा च ज्ञानसामान्यसामग्री प्रमात्वादिविशेषनियामकांश संवलिता विशेषोत्पादिका भवति । अतः सामान्यसामग्रयतिरिक्तो गुणो दोषश्च यथाक्रमं प्रमाखे भ्रमत्वे च हेतुरित्युभयोरुत्पत्तिः परत एव ; तथा इप्तिरपि, सफलप्रवृत्तिहेतु- स्वादिनैव तद्ग्रहात् । स्वत एव चेद् गृह्यते, प्रमाणमप्रमाणं वेति संशयादि च नोपपद्यत इति । सर्वापलापप्रवृतेन तु बौद्धेन ज्ञानस्य स्वतः प्रमाण्ये वस्तुसिद्धिरापद्यत इति भीतेन स्वपक्षरक्षणमृषामोदकमक्षण प्रत्याशया अप्रामाण्यं स्वत इत्यास्थीयते । cit यद्येवं तत्स्त्रम्, लौकिकं सर्वमपि ज्ञानं स्वत एवाप्रमाणमवबुध्यमानो बौद्धो भोजनादावप्यप्रवृत्तः कथं प्राणान् धारयिष्यति ?

तार्किकवादतत्त्वम्

अत्र तार्किकोकं किञ्चिदप्रतिषेध्यमिव लक्ष्यते । तथाहि - प्रामाण्यं नाम किमिति निरूप्यैव, तद् ज्ञाने गृह्यमाणे सह गृह्यते न वेति वक्तव्यम् । यद् धर्मि, यश्च धर्मः तदुभयग्राहित्वमेव प्रामाण्यमित्युक्तौ इदं रजतमिति ज्ञानमपि प्रमाणं स्यात्, शुक्तिरूपधर्मिरजतत्वरूपधर्मोभयग्राहित्वात् । अतस्तद्वति तत्प्रकारकत्वं प्रामाण्यम् । रजतत्वाश्रयभूत एवेदं ज्ञानं रजतत्व - प्रकारकमिति रजतत्वविशिष्टवस्तुविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वरूप- प्रामाण्यग्रहणं तावत् इदं रजतं जानामीत्यनुव्यवसायतो न भवतीति परत एव ग्राह्यमिति । एवं तदभाववति तत्प्रकारकत्वरूपमप्रामाण्यमपि तदभाववद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपं परत एव ग्राह्यमिति । तदिदमस्माभिर्न्यायकुसुमाञ्जलिव्याख्याने निष्कृष्यादर्शि । वैदिकास्तु ज्ञाने गृह्यमाणे सह गृह्यत एव प्रामाण्यमिति प्राहुः । तत्र मीमांसकानां त्रिस्रो गतयः । ज्ञानमतीन्द्रियं ज्ञाततयाऽनुमेयमिति ज्ञाने अनुमानेन गृह्यमाणे प्रामाण्यमपि सह गृह्यत इति भाट्टाः । ज्ञानं मनइन्द्रियग्राह्यमेवेति अनुव्यवसायेन गृह्यते सह प्रामाण्येनेति मुरारिमिश्राः । ज्ञानं स्वयम्प्रकाशं ज्ञानान्तरनिरपेक्षमेव प्रकाशते; तदा प्रामाण्यमपि सहेति प्राभाकराः । वेदान्तिनः प्राभाकरपक्षमेव परिगृह्णन्ति । स्वयंप्रकाशत्वादेव ज्ञानस्य तदुचितमभिनीय दर्शयितुकामाः, अयं घट इति ज्ञानाकारमुपेक्ष्य, घटमहं जानामीति ज्ञानाकारमादित एवाभिलपन्ति । अस्य च, अहं घटविषयक - ज्ञानवानित्यर्थे भवेत् । इममहं घटं जानामीति वा ज्ञानाकार इष्यताम् । तदापि पुरोवर्तिविशेष्यकघटत्वप्रकारकज्ञानवानहमित्येव गृह्येत । न तु घटत्ववद्विशेष्यकत्यांशग्रहणम् । न हि विशेष्यं घटत्ववत्वेन तत्र भाति । इममित्यस्य पुरोवर्तिनमित्यर्थः स्यात् ; न तु घटमिति । न हि घटमहं घटं जानामीति तदर्थ इति । तथा च तार्किकोक्तस्य कथं स्वतोग्रहणमिति –

वेदान्त्याशयः

अत्रेदं बोध्यम् — घटत्ववद्विशेष्यकत्व विशिष्टघटत्वप्रकारकत्वरूपप्रामाण्ये तार्किको कानुव्यवसायसमान कारस्वयंप्रकाशज्ञानेन गृह्यमाणं किमिति विचार्यम् ।; धर्मिविशेष्यकत्व घटत्वप्रकारकत्वयोर्भानं तावदविवादम् । अत एव तादृश- विशेष्यकत्वावच्छिन्नत्वमपि तत्प्रकारकत्वे गृहीतमेव । किं तु ईदृशविशेष्यता वस्तुतो घटत्वसमानाधिकरणा न वेति प्रामाण्यसंशयपर्यवसानं वाच्यम् । तथा च प्रामाण्यग्रहणं नाम विशेष्यतायां तत्र घटत्वसामानाधिकरण्यग्रह एव खलु । स चास्ति । कथम् । घटमहं जानामि, ज्ञातो मया घट इत्युभयमे- कार्थम् । तत्र मदीयघटत्वप्रकारकज्ञान विशेष्यो घट इत्यर्थके विशेष्यतायां घटत्व सामानाधिकरण्यं भासत एव पर्वतो वह्निमानिति सामानाधि- करण्येनानुमितैौ वह्निपर्वतत्वयोः सामानाधिकरण्यं यथा । एवञ्च सर्वत्र तुल्यवित्तिवेद्यतानिबन्धनं तद्भानमवर्जनीयम् । अत इदमपि प्रामाण्यं गृहीतमेव । एतत्सूचनायैव प्राञ्चः, ‘प्रामाण्यं नाम विषयतथात्वम्’ इति व्यपदिदिशुः । अतो विषयनिष्ठस्य तस्य कथं ज्ञानगतप्रामाण्यरूपतेति न शङ्कथम् — प्रामाण्यमगृहीतमिति वदद्भिर्यदन्ततो गत्वा तत्रागृहीतमिति वक्तव्यम्, तत् ज्ञानविशेष्यता सामानाधिकरण्यं ज्ञानप्रकारीभूतघटत्वादिगतं यत् तदेवेति, तच्च गृहीतमेत्रेति निरूपयितुमेत्र विषयतथात्वमित्युच्यते अतः प्रामाण्यं प्रथमतो गृह्यत एव ।

अप्रामाण्यशङ्कासमर्थनम्

. एवमपि प्रचलप्रमाणेन बाधकेन कचित् प्रामाण्ये अपोदिते दृष्टे तद्वदेव ज्ञानत्वाविशेषात् गृहीतप्रामाण्यकेऽप्यप्रामाण्यशङ्का, प्राप्तगुरूपदिष्टार्थ- विश्वासस्यैव साधोः पश्चात् कुतर्कक्षोभकारिताप्रामाण्यशङ्केव, विपक्षे- च्छाबलादू व्यभिचारशङ्केव च संभाव्यत इति न संशयानुपपत्तिः । व्यभिचारज्ञानाभावसह कृतसहचारज्ञानं व्याप्तिग्रहोपाय इति वदद्भिर्नवीन नैयायिके- र्व्यभिचारसंशयस्यापि व्याप्तिनिश्चयप्रतिबन्धकत्वमिष्यते । तदत्रानुभवबलाया- तार्थस्वीकारे काऽनुपपत्तिः ? वस्तुतस्तत्र संशयस्य प्रतिबध्यस्य मणिमन्त्रा- दिनयेन निश्चयप्रतिबन्धकत्वकल्पनं न युक्तमिति, किंतु इच्छारूपशङ्काया एव प्रतिबन्धकत्वमानुभविकमिति च न्यायकुसुमाञ्जलिविस्तरे मूलग्रन्थस्वारस्य- प्रदर्शन पूर्वमस्माभिर्वर्णितमप्यत्रानुसंधेयम् । तथा च सत्यपि प्रामाण्यनिश्चये यावत् अप्रामाण्ये स्वीक्रियमाणे किश्चिदनिष्टं नापाद्यते, तावत् अप्रामाण्यशङ्का तादृशी प्राप्तावसरेति ध्येयम् । सा च शङ्का प्रामाण्यनिश्चयाधीनप्रवृत्ति विशेष- प्रतिबन्धिकाऽपि भवितुमर्हति । civ

स्वतः-प्रामाण्यग्रहे युक्त्य्-अन्तरम्

इदञ्च बोध्यम् — ज्ञानान्यथानुपपत्या सर्वत्र वस्तुसिद्धिः । अतो वस्तु- ग्रहणार्थतया कृप्तस्य, तस्य वस्तु यथाऽस्ति, तथात्वेन तदूग्राहकत्वमुत्सर्गः । पूर्वकर्मानुगुण्यात् तत् कदाचित् स्वभावमतिक्रम्यान्यथाग्राहकं भवति अत एवाननुभूतान्यथाभावानां बालानामुपदिश्यमाने सर्वत्र साहजिको विस्रम्भः । अत एव मुक्तानां विपरीतग्रहणप्रसक्त्यभावः । अत एव यावत् परक्षोभो वा चित्तचाञ्चल्यरूपप्रकृत्यास्कन्दनं वा न भवति, तावत् विषय- तथात्वात्रसायेन निष्कम्पा प्रवृत्तिर्निर्विलम्बमेव जायमाना जगत्यनुभूयते ।

प्रकाशपदार्थविवेचनम्

एवं ज्ञानस्य विषयस्य च विषयविषयिभावो नाम न स्वरूपा- दतिरिच्यते । नापि स्वयंप्रकाशं ज्ञानमित्यस्य स्वस्मिन् स्वयं विषयो भवतीत्यर्थः, येनाङ्गुल्यग्रेण स्वात्मस्पर्शवदशक्यमिदम्, कर्तृकर्मभावविरोध श्वेत्याशङ्का पदं निक्षिपेत् । किंतु “धर्मभूतज्ञानस्य विषयित्वं विशेषः” इति श्रीमद्रहस्य- त्रयसारोक्तरीत्या तस्यैव विषयवस्त्रं विषयसंबन्धित्वरूपमस्ति; न तु स्वप्रकाशस्यात्मनः; स्वस्य स्वसंयुक्तत्वरूपविषयवस्त्वायोगात् । तदत्र स्वप्रकाशता नाम स्वव्यवहारकारणत्वमेव । “प्रकाशो नाम व्यवहारानुगुण्यम्” इति हि भाष्यम् । तथाचात्मा इतरनिरपेक्षं स्वव्यवहारे कारणं भवति । धर्मभूतज्ञानञ्च घटादिव्यवहारे स्वयं कारणं भवत् स्वस्य स्वाविषयकत्वेऽपि स्वव्यवहारे स्वातिरिकं ज्ञानमनपेक्षमाणं स्वयमेव कारणं भवति, दीप इव स्वग्रहणे । अतश्च, घटमहं जानामीति घटघटत्वज्ञानाहमर्थानां प्रकाशः व्यवहारो भवति । व्यवहारे कृते श्रोतुस्तावद्विषयकज्ञानं जायत इति तावत्प्रकाशकत्वं नाम तावद्विषयकज्ञानान्तरहेतुशब्दप्रयोगयोग्यतैव तत्राहमर्थप्रकाशकोऽहमर्थ एव । ज्ञानप्रकाश कश्च संसर्गप्रकाशनश्च ताभ्यामेव । घटघटत्वप्रकाशकश्च ज्ञानम् । एवं भवन्तं सर्वप्रकाशमभिप्रेत्यैव, ‘ज्ञानं घटमहं जानामीत्यकारक ‘मित्युच्यते । न पुनर्ज्ञानेऽस्य सर्वस्यापि विषयत्वम् । ज्ञानम् । तयोः I तत्र धर्मधर्मिणोर्द्वयोग्रहणकाले तत्संबन्धोऽपि गृह्यते, यदि वस्तुगत्या सोऽस्ति । घटे घटत्वसंवन्ध एव प्रामाण्यम् । तदूग्रह एव प्रामाण्यग्रहः । भ्रमस्थले तु धर्मधर्मिणोर्वस्तुतः संबन्धाभावात् धर्मविषयज्ञानं धर्मिविषयक - CV ज्ञानञ्च विभिन्नमित्यख्यातिपक्षेणाङ्गीकारात् प्रामाण्यं न गृह्यते । ज्ञानत्वाविशेषात्तु ज्ञानैक्यभ्रमवत् प्रामाण्यं गृहीतमिति भ्रमः । शङ्कासंभवश्च प्रागेव दर्शितः । तद् ज्ञानद्वयं तु शोधने प्रत्येकं स्वस्वगृहीतांशे प्रमैवेत्यलमधिकेन । एतस्य स्वतः प्रामाण्यस्य निरूपणात् प्राक् अत्र ग्रन्थे अध्ययनविधि- निरूपणं यत् कृतमस्ति तत्रैतन्मतस्य सयुध्यनिर्णयस्य चेषदंशे स्थितो भेदस्तत्रोपक्रम एव टिप्पण्यामदर्शि ।

वाक्यार्थः

। अथ चतुर्थ वाक्यार्थप्रदीपं परिच्छेदमधिकृत्य किञ्चिदुपक्षिप्यते । तत्रादौ क्रियैव वाक्यार्थः, अपूर्वं वाक्यार्थ इत्यादीन् तीर्थकराणां पक्षान् निर्दिश्य तत्तन्निरसनेन स्वपक्षं (ब्रह्मवाक्यार्थ पक्ष) स्थापयति । अत्रेदं विमृश्यम् - क्रियावाक्यार्थवादिनस्तावत् वैयाकरणाः । तन्मते, चैत्रस्तण्डुलं पचतीत्यादौ चैत्रकर्तृकस्तण्डुलकर्मकः पाक इति बोधः । क्रिया नाम भावनेति मीमांसकाः । सा चाख्यातार्थः । तन्मुख्यविशेष्यको बोधस्तेषामिष्टः । तदा च चैत्रनिष्ठा तण्डुलकर्मिका पाकसंबन्धिक्रियेति बोधः । यद्यपि विधिस्थले लिंडाद्यर्थस्य शब्दभावनात्मिकायाः प्रवर्तनाया मुख्यविशेष्यत्वं प्राचामिष्टम्, अथापि सर्वाख्या- तसाधारण्याय नवीनमीमांसकैरर्थ भावना मुख्य विशेष्यक एव बोधः सर्वत्रेषितः । इमश्च पक्ष “भावनामपरे जगुः” इतीह निर्दिदेश । एवं बोधप्रकारान् गणयन्नयं तार्किकसंमतं प्रथमान्तार्थमुख्यविष्यकं बोधं कस्मादत्याक्षीदिति ।

ग्रन्थोक्तसमर्थनम्

अत्रोच्यते- नायं वाक्यमेकं गृहीत्वा तदर्थेषु कतमस्य मुख्यविशेष्यत्व- मितीमं विचारमिह प्रवर्तयति, येन नैयायिकपक्षमस्मरणमिति दोषः स्यात् । किंतु तत्तत्तीर्थकरैस्तत्र तत्र (भिन्नभिन्नवाक्य एव) वर्ण्यमानं स्वानभिमतं वाक्यार्थ प्रस्तुत्य स्वयं परमुखेन वा तं प्रदूष्यान्ते स्वसिद्धान्तं समर्थयते । यदि तावदेकस्मिन्नेव वाक्ये तान्त्रिकाणामर्थवर्णने स्थितं भेदमत्र प्रदिदर्शयिषुरयमिति स्यात्, तर्हि क्रिया वा अपूर्वं वा अखण्डेकरसं ब्रझ वा स्फोटो वा भावना वा इष्टसाधनं वा इष्टं वा चिदचिद्विशिष्टं ब्रह्म वा को वाक्यार्थ इत्येवमर्थमेदाः कुत्रैकस्मिन् वाक्ये प्रदश्येरन् ? न हि “यजेत स्वर्गकाम:” इत्यत्राखण्डैकर सब्रह्मप्रतिपत्तेः प्रसक्तिलवलेशोप्यस्ति । न च " सत्यं ज्ञानमनन्तं ब्रह्म” इत्यत्रापूर्व वा कार्य वा वाक्यार्थ इति कश्विन्मीमांसको N cvi विचारं प्रवर्तितवानस्ति । अतः पूर्वोक्त एव प्रकारों भाव्यः । तत्र क्रिया वाक्यार्थ इति न वैयाकरणमतनिरूपणाभिसंधिना । स्फोटवाक्यार्थपक्ष एव तु तदीयः प्रसिद्ध इष्टः, स्खण्डितश्च । किं तु विधिवाक्ये लिर्थ: क इति विचारेऽवतीर्य के चित् कार्यमर्थ इति निरूपयन्तः कार्यं तत् क्रियैवेति निष्कर्षन्ति, लोक- वेदसाधारण्यं वाक्यार्थस्य तदात्वे सेत्स्यतीत्याशयानाः यजेतेत्यत्रेव गामानयेत्यत्रापि हि क्रिया जागर्ति ; ममेदं कार्यमिति प्रतिपत्तेरत्रापि श्रोतुर्भा- वात् । अपूर्वं तु नैवं साधारणमिति । तत्पक्षः प्रथममुपन्यासि । अथ तु प्राभाकरस्य, यागादिक्रियायाः क्षणध्वंसितया चिरकाला- दनन्तरभाविफलसाधनत्वा योगेनानन्वयात् लिडर्थत्वा संभवमभिमन्यमानस्य, अत एव लोकव्यवहारावगतक्रियावाक्यार्थव्युत्पत्ति पश्चात् परित्यजतः, लौकिक- वाक्यानां पुरुषबुद्धयनुमापकत्वेनानुमानसिद्धार्थानुवादकतया प्रामाण्याभावमा- तिष्ठमानस्य, अत एव लोकवेदसाधारण्यं लिङर्थस्यानपेक्षितं मन्यमानस्य, यो वेदस्यैव शब्दप्रमाणतया वैदिकलिङाद्यर्थतयाऽवश्यमङ्गीकार्यस्यापूर्वस्यैव कार्यभूतस्य विध्यर्थत्ववर्णनपक्षः, स सर्वेतरपक्षप्रतिक्षेपेण प्रावर्ति । तथा च विधिवाक्येषु प्राभाकरपरिगृहीतापूर्ववाक्यार्थपक्षः स्वासमतत्वात् प्रस्तुत्यानेन दूषितः । अथ “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यत्राद्वैतिभिः सत्यत्वज्ञानत्वादिविशेषणांश- त्यागेन ब्रह्मरूपाखण्डैकपरत्वं यदिष्यते, विशिष्टस्यार्थत्वस्वीकारे एक- विशेषणविशिष्टस्यापर विशेषणविशिष्टस्य च विशेषणभेदप्रयुक्तविशिष्टताभेदा- द्भिन्नस्याभेदायोगादिरूपतर्कावलम्बनेन, तस्य स्वानभिमतस्य प्रस्तावः स्वयं परमुखेन वा तत्खण्डनाय । वैयाकरणैः सर्वत्रैव वाक्ये स्फोट एव बांक्यार्थ इष्यत इति तदनुवादस्ततः, तं खण्डयितुम् । विधिस्थल एव लिडादेरिष्टसाधनत्वमित्यादि यदुच्यते मण्डनमिश्रेण नैयायिकेन वा, तदुपन्यासो निरसनाय । अन्ततश्च स्वपक्ष उच्यते चिरचिद्विशिष्टं ब्रह्मैव वाक्यार्थ इति ।

सर्वत्र ब्रह्मणो वाक्यार्थत्वानुपपत्तिः

तत्र च यदि प्रतिवाक्यं ब्रह्मणो मुख्यविशेष्यत्वेन नियमेन भानमत्र प्रतिपिपादयिषितं स्यात्, ‘गामानय’, “यजेत स्वर्गकामः” इत्यादिषु लौकिकेषु वैदिकेषु च वाक्येषु सर्वत्र ब्रह्मणः शाब्दबोधे मानमेष्टव्यं स्यात् । न cvii “सत्यश्वा- हि कश्चिदेवं लोके प्रतिपद्यते । एवं ब्रह्मणो मुख्यविशेष्यतया भानावश्यग्भाव- वर्णनमात्रेण कतमस्य पदस्यार्थो मुख्यविशेष्यतया स्थापितः स्यादित्यपि न कथञ्चिदपि बुध्यते । सर्वाण्यपि हि पदानि “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि”, " तदनुप्रविश्य सच्च त्यच्चाभवत्”, नृतञ्च सत्यमभवत्”, “वचसां वाच्यमुत्तमम्” इत्यादि प्रमाणं शरीरवाचकशब्दानां शरीरिपर्यन्तार्थ कत्वन्यायश्चानुसृत्य ब्रह्मपर्यन्तबोधनक्षमाणि । एवम् “आग्नेयमष्टा- कपालं निर्वपति” इत्यादौ तत्तत्प्रकृतिप्रत्ययानां स्वार्थविशिष्टब्रह्मपरत्वे प्रकृत्यर्थस्य प्रत्ययार्थे, प्रत्ययार्थस्य च पदान्तरार्थेऽभेदेनैवान्वयो वाच्य इति भेद संबन्धे- नान्वयोऽखिलतान्त्रिकसंमतो न घटेत । लोकानुभवसिद्धः कार्यकारणभावः सर्वोऽपि त्यक्तः स्यात् । वेदान्तव्युत्पत्तिमन्महात्मबुद्धया कश्विद्वाक्यार्थः, ब्रह्मविषयव्युत्पत्तिरहित केवल लौकिकजन समूहदैनन्दिनानुभवापलापायोगेन ब्रह्म- रूपार्थपरित्यागेन चापरो वाक्यार्थ इति सर्वत्र द्वैधं स्यात् । अथ शास्त्रतर्कसिद्धब्रह्मार्थकत्वस्य निष्कर्षवित्रक्षाकृते प्रयोगेऽनङ्गीकारात्, लोके च ब्रह्मज्ञानविधुराणां प्रयोगेषु वक्तृतात्पर्यविरोधेन ब्रह्मरूपार्थवर्णनायोगात्, “यजेत स्वर्गकामः” इत्यादावपि लिडर्थस्य कर्तृव्यापारसाध्यत्वस्य वा, स्वर्गकाम- रूपकर्तुर्वा बोधस्य ब्रह्माविषयकस्यानुभविकस्य त्यागेन तत्तद्विशिष्टब्रह्मेत्यर्थ. वर्णनेन प्राप्यस्य फलविशेषस्यादर्शनात्, ब्रह्मणि तद्वैशिष्ट्यबोधनार्थतया तादृशवाक्यप्रवृत्त्यभावेन तथा वर्णनायोगाच्च यत्र यत्र लोके वेदे वा ब्रह्मणो बोधविषयत्वमवश्यमेषितव्यम्, तत्रैव ब्रह्मणो वाक्यार्थत्वमित्युच्यते यदि तर्हि ग्रन्थकारोऽयं कार्यापूर्वस्फोटा दिवाक्यार्थदूषणपूर्वकम्, कार्यपरवाक्यानामेव बोधकत्वम्, न तु सिद्धपरवाक्यानामित्येतन्निरसनपूर्वकम, तथा सिद्धपरवाक्य- स्वार्थप्रामाण्यस्वीकारेऽप्यखण्डब्रह्मपरत्वाभिमानिनामद्वैतिनां मतभ्युदासपूर्वकञ्च ब्रह्मप्रत्यायकं वाक्यं सर्वं यथायथं चिद्विशिष्टमचिद्विशिष्टं च ब्रह्मैव प्रतिपादयति, तु निर्विशेषम् ; यथायथं बद्धमुक्तनित्यरूप चेतन प्राकृत प्राकृतद्रव्य- कल्याणगुणाद्यचेतनरूपविशेषणविशिष्टब्रह्मण एव सर्वत्र प्रतीतेरित्येतावदेव विवक्षतीत्यस्तु । न 1 इदमत्र बोध्यम् — सर्वत्र विशिष्टब्रह्मण एव कारणत्वात् कार्यत्वाच्च यागादिसाध्यं स्वर्गाद्यपि तद्विशिष्टब्रह्मैव । ज्ञानं तु तावद्विषयकमनुष्ठातुर्नास्ती- त्यन्यदेतत् । अपिचायं ग्रन्थकारः प्राभाकरप्रतिपादितं लौकिकवाक्यानां पुरुषाभिप्रायानुमापकतया अनुवादकत्वमनुमानविधया प्रामाण्यं शब्दविधया प्रामा- cviii व्याभावश्च रोचयन् वेदरूपशब्दस्यैव शब्दविधया प्रमाणत्वमाशेते । परं तु कार्यपरवाक्यस्यैव सिद्धपरवाक्यस्यापि । तत्र च " सर्वे वेदा यत्पदमामनन्ति " इत्यादिवाक्यानुरोधेन सर्वत्र वाक्यार्थे अन्ततो ब्रह्मणो विशेष्यतया प्रतिपादनं शब्दस्वाभाव्यकृतमनुपेक्ष्य ब्रह्मणस्तत्र तत्र वाक्यार्थतया प्रतीतचेतना- चेतनान्तर्यामित्वरूपमहिमानुसंधानेन वेदार्थानुभवो वेदान्तव्युत्पतिशालिन। महाजनानां भवन् प्रशंसनीय एव भवतीति सर्वत्र वेदे चिदचिद्वि- शिष्टब्रह्मरूपार्थप्रतिपत्तिर्भवत्येवेत्यभिप्रतीति वर्णने तु न किञ्चिदनैौचित्यमिति । किश्च यद्यप्ययम्, आप्ताभिप्रायो विध्यर्थ इति पक्षमेकदेशिमत- I मित्युपेक्षते । अतो लिङः परब्रह्म प्रत्यायकत्वमपि नास्ति । अथापि कर्मकाण्डस्य कर्तृव्यापारसाध्यत्वं क्रियासु बोधयतोऽपि परदेवताप्रीणनेनैव कर्मणां फलसाधनत्वात् आराधनानामाराध्यप्रधानकत्वात् राजपुरुष इत्यादौ पुरुषस्य शाब्दप्राधान्येऽपि राज्ञ आर्थप्राधान्यवत् वाक्यानां यत्किश्चिदन्यार्थमुख्य- विशेष्यकबोधजनकत्वेऽपि सर्वकर्मसमाराध्यस्य सर्वान्तर्यामिणो ब्रह्मण एव परमार्थत्वसंभवात् तदैकार्थ्यमक्षतमित्यध्यवस्यति । उपनिषदां तु ब्रह्मनिरूप- णार्थमेव प्रवृत्ततया तत्र ब्रह्मैव मुख्यार्थः । तत्र च “सत्यं ज्ञानमनन्तं ब्रह्म” इति वाक्यं नाखण्डपरम् — भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति शाब्दिको क्तरीत्या तत्तत्प्रवृत्तिनिमित्तविशिष्टै- कार्यप्रतिपादकत्वात् समानाधिकरणवाक्यस्य । अन्यथा, ‘अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती’ त्यादावपि आरुण्यैकहायन । त्वपिङ्गाक्षीत्यादि सर्वविशिष्ट- व्यक्तिसाध्यत्वं सोमक्रयस्य न बुध्येत ; यत्किञ्चिद्वयक्तिमात्रेण सोमः क्रेयः स्यात् । न च विशेषणानां मिथोऽन्वयाभावेऽपि विशेष्ये सर्वविशेषण- वैशिष्टयप्रतिपादने काचिदनुपपत्तिरस्ति । अन्वयतो वा व्यतिरेकतो वा प्रवृत्तिनिमित्तस्य विभिन्नस्याविवक्षायाञ्च व्यर्थं सर्वं पदं स्यादिति परिशीलने ना द्वैति पक्षप्रतिक्षेपेणाह अनेकविशेषणविशिष्टं ब्रह्मैव मुख्यार्थ इति संप्रतिपन्नमिति वेदवाक्यार्थो ब्रह्मैवेति ।

बोधमुख्य विशेष्य विचारः

अस्तु तावदिदम् । वेदान्तिमते वाक्यजबोधे किं मुख्यविशेष्यमिति । उच्यते—नानासुबन्तैकाख्यातान्तपदकदम्बस्यैकवाक्यत्वात् तत्र सुबन्ताना- मनेकेषां मध्ये कस्यचित् प्राधान्ये विनिगमनाविरहाच्चाख्यातान्तप्राधान्ये औचित्यं cix लक्ष्यते । “प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः; तयोस्तु प्रत्ययः प्राधान्येन" इति स्मरणात् प्रातिपदिकापेक्षया सुविभक्त्यर्थानां कर्मत्वकरणत्वादीनां प्राधान्ये सिद्धे तेषाञ्च कारकाणां क्रियासपेिक्षतया क्रियान्वयस्य युक्ततया तेषां क्रियया वशीकार इष्यते । एवञ्चाकारकविभक्तिस्थलेऽपि विभक्त्यर्थस्या- विशेषादप्राधान्यं ग्राह्यम् । अतश्च षष्ठयादेखि प्रथमाया अपि पदान्त- रोपसर्जनत्वं युज्यते । यदा तु “अभिहितकारकवाचिनी प्रथमा” इति वार्तिककृतो मतमिष्यते, न तु प्रातिपदिकार्थ एव प्रथमार्थ इति पाणिनिमतम्, तदा कारकान्तरस्येव तस्यापि क्रियान्वयप्रतीतिः सुलभा । एवमाख्यातान्तप्राधान्ये सति तत्र तिङन्ते, किं प्रकृतेर्धातोरर्थः प्रधानं वैयाकरणमत इव किं वा तिङर्थो मीमांसकमत इवेति विमर्शे, प्रकृतिप्रत्यययोर्मध्ये प्रत्ययार्थप्राधान्यानु- शासनस्य तिङन्तव्यतिरिक्तविषयत्वेन संकोचे प्रमाणाभावात् लकारार्थस्यैव प्राधान्यमवसीयते ।

न्यायपरिशुद्धिदर्शितोऽर्थः

परं तु आख्यातार्थकृतौ धात्वर्थस्य करणत्वादिनान्वयो मीमांसकोको नेष्यते; किं तु साध्यत्वेनान्वयः । साध्यत्वमिदमुद्देश्यत्वातिरिक्तमुपादेयत्वरूपम् । फलस्य कृतिकर्मत्वं तु मीमांसकोक्तं न युक्तम्; ओदनं पचतीत्यादौ पाकेनौदनं करोतीति विवरणेऽपि, यागेन स्वर्ग करोतीत्यप्रयोगात् । अतो घटादेरिवौदनस्य कृतिसाध्यत्वात् कर्मत्वम्, न स्वर्गस्य ; तस्य यष्ट्रा निर्माणाभावात् । घटः कृत इतिवत् अङ्कुरः कृत इति न कश्चित् प्रयुङ्क इति च कुसुमाञ्जलावुदयनाचार्यः । अतः साध्यतातिरिक्ता उद्देश्यता फले । ओदनं पचतीत्यस्य ओदनमुद्दिश्य पाकं करोतीत्येव विवरणम् । ओदनो धात्वर्थ कर्म, न कृतिकर्म । तदिदं न्यायपरिशुद्धिग्रन्थादधिगन्तव्यम् । अत एव श्रीमति रहस्यत्रय सारे, “वाक्यं पश्चपदैर्युक्तमित्याख्यातप्रधानकम्” इति आख्यात- प्राधान्यं कण्ठोक्तमिति । एवमपि कर्तुराख्यातार्थत्वात् न कृतेः प्राधान्यम् ।

मुख्य-विशेष्यविचारविमर्शः

अत्र किञ्चिद् विम्रष्टव्यमस्ति — एकस्य पदार्थस्य पदार्थान्तरस्य च संबन्धोऽवश्यमस्ति, भासते च । तावता सर्वत्र निरूप्यनिरूपकभावापन्नविषयता- शालित्वं सर्वेषामर्थानां सिध्येत् । तत्र विशेष्यताप्रकारतानैयत्यं किमर्थम् ? किञ्चित्संबन्धावच्छिन्नविषयता प्रकारता, तदन्या संसर्गनिरूपित्तविषयता CX विशेष्यतेति विवेकेऽपि तुल्यवित्तिवेधतया सर्वप्रकारस्य भानस्य सर्वत्र प्रमेयैक्ये संप्रतिपत्तव्यत्वात् तान्त्रिकैः क्रियमाणः, किं मुख्यविशेष्यमिति कोलाहलो नोचित इति किं सुवचं भवेदिति । एवं ‘नामार्थयोर भेदेनान्वयः ’ इति व्युत्पत्तिर्न कल्प्या; अरुणयैकहायन्येत्यादौ युगपत् समानाधिकरणपदैरा- रुण्यैकहायनीत्वादिविशिष्टतया सकृदेव धर्मिप्रतीतिजननस्वीकारात् व्यक्ते - रनेकवारं भानस्य बोधे कल्पनाविरहात् । न चैवं राजपुरुष इत्यादौ षष्ठयर्थस्य संबन्धविधयैव भानमस्त्विति वाच्यम् ; नाम्नोभिन्न प्रवृतिनिमित्त- विशिष्टैकार्थपरत्वस्य व्युत्पन्नत्वात् ; राजपदस्य पुरुषगत प्रवृत्तिनिमित्ता- बोधकत्वे तद्विरोधात् । अस्तु वा षष्ठयर्थस्य संसर्गविधयैव भानम् । न च निषादस्थपत्यधिकरणविरोधः । तत्पुरुषे पूर्वपदे लक्षणाया अभावेऽपि निषादत्वाश्रयस्यैव स्थपतित्वाश्रयत्वस्वीकारे उपस्थितिकृतलाघवात्, व्यक्तिद्वयमानस्य द्विर्व्यक्तिमानस्य चाभावेन लाघवात्, उत्तरपदोत्तर- विभक्तेरेव पूर्वपदोत्तरमपि प्रतिसंघाने लाघवाच्च कर्मधारयस्य ज्यायस्त्वमित्यधि - करणतात्पर्य संभवात् । अतः “अरुणयैकहायन्या" इत्यादौ सर्वस्यापि विशेष्यभूतधर्मिपरत्वात् सर्वत्र समाना विभक्तिः ।

विशेष्यविशेषण-भावस्यानपलपनीयत्वम्

एतावता विशेषणविशेष्यभाव एव नास्तीति न ब्रूमः । आकृत्यधि- करणेन पदानां विशिष्टे शक्तिस्वीकारात् तत्र विशेषणविशेष्य संप्रतिपत्तेः । तस्याधिकरणस्य आकृतिमात्रे शक्तिपरत्वम्, आकृतिपदेन जातेर्विलक्षणाया ग्रहणश्च यत् मीमांसकानुयायीष्टम्, तद् वेदान्तिमिर्नेष्यते । न केवलमेतत् ; अरुणाधिकरणमपि श्रीभाष्ये तदुक्तप्रकारदूषणेनान्यथा व्याख्यातं भगवद्भाष्यकारैः । अयमपि नयधुमणिकारोऽत्रैव नयधुमणिकारोऽत्रैव वाक्यार्थप्रदीपप्रकरणे पश्वेकत्वाधिकरणं परिष्करोति । देवताधिकरणादीनामन्यथा व्याख्यतव्यत्वं तत्र तत्र प्रादर्शि । सेश्वरमीमांसादिश्रीमन्निगमान्त महादेशिका दिप्रन्याध्यायिनां बहुत्र मीमांसक- व्याख्यानपद्धतेरुपेक्ष्यत्वं सुगमं स्यात् । अत आकृत्यधिकरणं विशिष्टे शक्तिव्यवस्थापकम् । गमकसत्त्वे तु विशेषणमात्रेऽपि प्रयोग इष्यते ।

तत्र भाष्यसाक्षीकरणम्

एवं विशेषणविशेष्यभावस्यापलापाभावादेव, पश्चाग्निविद्यायां ब्रह्मप्रकार- कृस्वात्म विशेष्यकोपासनम्, अन्यत्र स्वात्मप्रकारकब्रह्म विशेष्यकोपासन मिति cxi भगवद्भाष्यकारदर्शिता व्यवस्था सुस्था । ननु " तथ इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इत्यत्र तच्छब्दस्य जीवपरस्याप्याकृत्यधिकरणन्यायेन विशिष्टब्रह्मपरत्वे स्वरसे किमिति जीवस्य विशेष्यत्ववर्णनमिति चेत् ; ब्रूमः – ‘ये’ ‘ये च’ इति पृथनिर्देशावैयर्थ्याय तत्पदं जीवपरम्, तपःपदं ब्रह्मपरं चाभ्युपगम्यते । एवमपि ब्रह्मे |पासनाभावे ब्रह्मप्राप्त्ययोगात् ब्रह्मोपासनेष्वपि शुद्ध जीवोपासनस्यात्याज्यत्वाच्च प्रथमोपासने : ब्रह्मणः, द्वितीयोपासनेषु जीवस्य चार्थात् प्रवेशे कार्ये सिद्धे, अर्थाक्षिप्तस्य ब्रह्मणो वाच्यार्थजीवोपसर्जनत्वमाद्यत्राक्ये, अर्थक्षिप्तस्य जीवस्य द्वितीयवाक्ये वाच्यार्थ - ब्रह्मोपसर्जनत्वं च भाने स्वीक्रियते । आक्षिप्तस्योपसर्जनतायाः, कण्ठोक्तस्य मुख्यतायाश्च युक्तत्वादिति । श्रीमद्रहस्यत्रय सारकारिका तु कैश्चिदव्याख्यातत्वात् अस्थानपतितत्वादिचिन्तया च प्रक्षेपशङ्कास्पदम् 1 किश्च तत्र आख्यातप्रधानकमित्युक्तिः तिङर्थमुख्यविशेष्यकत्वं बोधस्य न स्थापयेत् । तस्याः, मन्त्रस्यानुष्ठेयार्थप्रकाशनपरतया द्वये शरणागतिमन्त्रे शरणागतिरूपधा- स्वर्येदम्पर्यस्य प्रदर्शनार्थं प्रवृत्तत्वात् । न हि शाब्दबोधे कस्य मुख्य- विशेष्यत्वमित्यस्येह निरूपणप्रसक्तिरस्ति । एवं चैत्रः पचतीत्यादौ तिङः कर्तृ- वाचित्वस्यैव व्याकरणादिसिद्धत्वेन प्रथमया पुनः कर्तृबोधनस्य व्यर्थतया चैत्रादि- प्रथमान्तपदस्याख्यातसामानाधिकरण्यात् चैत्रत्खपाक कर्तृत्वोभयविशिष्टव्यक्ति- भानात् उभयोरपि विशेष्यपरत्वसंभवाच्च नाख्यातस्यैव प्राधान्यमित्येवं विमृश्य- मित्यलं विस्तरेण । तत् सिद्धं वाक्यघटकपदेषु येन केनापि परब्रह्मणो बोधनेऽप्य- न्विताभिधायिना तेन सर्वेण वाक्येनार्थप्राधान्यमप्रतिहतं वहतस्तस्य तद्वाक्यार्थे प्राधान्यमेकरूपं तदीयकल्याणगुणविशेषाविष्कारपूर्वकमुद्दिष्टं भवत्येवेति ’ यदि तु “लौकिक सर्ववाक्यानामपि ब्रह्मपरत्वेन मुख्यत्वात् ’ (११२ पु.) इति कथयतोऽस्य सर्वं विशिष्टबह्म परमित्येवाभिमतमित्युच्यते, तदा ब्रह्मणि वक्तृ- तात्पर्याभावेऽपि, देवतान्तरमात्राराधनेऽपि शास्त्रबलात् भगवतः प्रीतिभाक्त्ववत् वक्तृतात्पर्याभावेऽपि शब्दशक्तिबलात् तत्वविदः पुंसः विवक्षितवाक्यार्थविशिष्ट- ब्रह्मबोधः स्वयं शब्दतो भवत्येवेत्यभिमतमिति वक्तव्यम् ॥ अन्विताभिधानम् प्रकरणान्तरवैलक्षण्येनास्य प्रकरणस्य वाक्यार्थप्रदीपात्मक पूर्व प्रकरणेन सह संगतिरप्यस्तीति प्रथम श्लोकेना विष्कुर्वन् अन्विताभिधानं साधयितुं cxii प्रावर्तिष्ट । अन्विताभिधानवादोऽयं प्राभाकरसंमतः सिद्धान्तेऽपि स्वीक्रियते । अभ्यस्तु अभिहितान्वयवादो भाट्टानाम् । उभयमिदं खण्डयन्तस्तार्किकाः : प्रकारान्तरेण शाब्दं निर्वहन्ति । तत्प्रक्रिया च न्यायकुसुमाञ्जल्यादौ निष्कृष्टा । अभिहितान्वयाप्रतिषेधः अभिहितान्वयवादो भगवद्भाष्यकृद्भिर्न स्वीकृत इति स्थापनेऽर्वाच विप्रतिपद्यन्ते इति तत्वमुक्ताकलापतो विज्ञायते । यथेोच्यते अन्विताभिधानं पूर्व प्रसाध्य पुनरेवम् — “संसर्ग वाक्यवेद्यं स्फुटमभिदधते कानिचिद्भाष्यवाक्या- न्याचा व्युत्पत्तिरुक्ता प्रतिपदमिह च कापि नान्यस्य हानिः । इत्थं मत्वा सयूथ्याः कतिचिदभिहितान्योन्यसंसर्गमीषु- स्तत्तत्स्वारस्य लोकप्रतिपदनुगमात् तच्च नाधिक्षिपामः ||” इति । वेदान्तिमतविवेचनम् कार्यान्वित एव प्रथमव्युत्पत्तिर्व्यवहाराद् भवतीति कृत्वा कार्यान्वित एत्र शक्तिरित्यभिहितं प्राभाकरैः । सिद्धार्थपरवाक्यादपि बोधस्वीकारिणो, भाट्टास्ताकिंकाश्चैव वेदान्तिनः परंतु अन्विताभिधानं प्राभाकरा इवेच्छन्ति । तत्र कार्यान्वितेत्युक्तौ सर्वानुगमविरहात् सामान्यतोऽन्विता- भिधानमित्याहुः, न तु कार्यान्वितेत्येवं विशेषरूपेण । कार्यवाक्यार्थवादिभिः प्राभाकरैरपि कार्यान्वितेति न वक्तुं शक्यम् ; कार्यमात्रपरस्य लिङः कार्यान्वितवाचित्वामात्रात् पदसामान्यं कार्यान्विताभिधायीति नियमायोगात् । अतः सामान्यतो वक्तव्यमन्विताभिधानमिति 1 शब्दः प्रमाणमित्यत्र शब्दपदेन नैकं पदं गृह्यते, एकपदमात्रस्याप्रमाणत्वसंप्रतिपत्तेः । आप्तवाक्यं - शब्द इति तार्किका अध्याद्दुः । वाक्यंच संसर्गबोधकपदसमुदायः । अतः ‘शब्दप्रमाणमन्विताभिधायीत्युक्तौ सामञ्जस्यं लक्ष्यते । पक्षान्तरपरभाष्य निर्वाहः भाष्ये बहुत्रान्विताभिधानस्यादरणेऽपि जिज्ञासाधिकरणसिद्धान्तारम्भे पदमात्रेऽपि प्रथमव्युत्पत्तिदेर्शिता, अम्बानातशशिपशुप्रभृतिषु पदेषु बहुशोऽङ्गुलिनिर्देशपूर्वं शिक्षया शक्तिग्रहो भवति, अथ च अस्य शब्दस्यायमर्थ इति प्रकारान्तरेण शिक्षापीति । न हि तत्रान्वितोऽर्थcxiii इति शिक्ष्यते । अन्वयं विना केवलस्यैत्रार्थतया निर्देशात् शब्दानामन्वय- रहितेऽपि व्युत्पत्तिर्भवतीति ज्ञायते । अन्विताभिधानवादिना त्वस्य क्लेशेन निर्वाहः कार्यः । कथमिति चेत् — यद्यपि प्रथमत एवं गृह्णाति ; अथापि अनन्विताभिधायित्वे प्रमाणत्वायोगात् अन्वितपरत्व- स्यावश्यकत्वेऽवधृते प्रथमतो विशिष्टैकदेशव्युत्पादने पश्चाद् व्युत्पत्तिपूरणं वेदान्तव्युत्पत्या पदानां विशिष्टब्रह्मपरत्वनिश्चयेन भविष्यति, व्युत्पत्तिपूरणवदिति । पक्षद्वय पर भाष्यसूक्तिः अन्विताभिधानमनिच्छन्तस्तु अन्वयांशोऽन्यथासिद्ध इत्युक्त्वा अनन्य- लभ्यः शब्दार्थ इत्यातिष्ठन्ते । परमत्र भाष्ये उपरि “केनचित् पुरुषेण हस्त चेष्टादिना” इत्यादिना प्रकारान्तरेण व्युत्पत्तिः प्रदर्श्यते । तत्र ‘बुद्धि पूर्वव्युत्पच्या सिद्धपरत्वं प्रागुक्तम् ; यादृच्छिकव्युत्पत्तौ तदत्र प्रदर्श्यते’ इति विशेषो व्याख्यायामदर्शि । अभिहितान्वयानुगुणमुदाहरणं प्रागुक्तम् ; अन्विताभिधानानुगुणमुपरि प्रदर्श्यत इत्यपि सुत्रचम् | ‘पिता ते सुखमास्ते’ पदसमुदायरूपतयान्विताभिधायकत्वात् 1 अतो इत्यस्य जिज्ञासाधिकरणगतमुभयपक्षानुकूलम् । भाट्टतार्किकमतविवेकः ; भाष्यं एवमपि अभिहितान्वय इत्यत्र भाट्टङ्गी भगवद्भाष्यकृदिष्टा, किं वा तार्किकप्रक्रियेति विमृश्यम् । उदयनाचार्यो न्यायकुसुमाञ्चलावन्विताभिधान- वादिभिरभिहितान्वयपक्षे शक्तित्रयकल्पना गौरवं प्रसञ्जितं परिजहार । पदानां पदार्थबोधनशक्ति, पदार्थानां संसर्गबोधनशक्तिरिति द्वयमेव ; न त्रयम् । न च पदबोध्यतादशायामेव पदार्थानां संसर्गबोधकत्वात् पदार्थ- गत संसर्गबोधनशक्त्याधानशक्तिः पदेषु तृतीया कल्प्येति वाच्यम् त्वन्मते आप्तप्रोक्तपदानामेवान्विताभियकत्वात् पदेषु अन्विताभिधानशक्त्या विर्भाविका शक्तिराप्तेष्वेका हि प्रसज्यते । तत्र शक्तिकल्पनां विना आप्तोक्तत्वविशिष्टपदाना- मेवान्विताभिधानशक्तिरिष्यते चेत्; अभिहितान्ययपक्षेऽपि पदबोध्यत्वविशिष्टार्था- नामेवान्ववबोधन शक्तिमत्त्वमित्यस्तु इति तत्र कृतः परिहारप्रकारः । एवं वदन्नपि माहमङ्गीं नाभ्युपजगाम । अभिहिताः पदार्थ अन्वयं बोधयन्तीत्युक्ते शाब्दप्रमाकरणत्वमर्थेषु एषितत्र्यं स्यात् न चार्याः करणभू; अतीतानाम- cxiv नागतानां चार्थानां कारणत्वघटित करणत्वायोगात् । अतः शब्दः प्रमाणमित्येव सर्वानुभवात् पदार्थस्मरणद्वारा पदानामेव समभिव्याहारमहिना संसर्गबोध- रूपशाब्दबोधकरणत्वमिति अभिहितान्वयपक्षं प्रकारान्तरेण परिष्कृतवान् । तदप्यत्राभिमतं भवितुमर्हति । शब्दे वेदान्तिमतम् अन्विताभिधानमधस्ताद्वर्णितं यस्य स शब्दस्तदनन्तरं न्यरूपि । मीमांसकमते शब्दो नित्यः । तार्किकमते च “संयोगाद् विभागाच्छब्दाच शब्दनिष्पतिः” इति कणादसूत्राद्युक्तरीत्या अनित्यः द्विक्षणमात्रावस्थायी । नित्यस्य शब्दस्य व्यञ्जकत्वेन मीमांसकादिभिः कथ्यमानं तार्किकैः कारण त्वेनैवेष्यते । इमे पुनर्वेदान्तिनः शब्दस्याकाशादिगुणत्वम्, अत एवानित्यत्वम्, अथापि तार्किकरीत्या क्षणिकत्वे प्रमाणाभावात् अनेकसजातीयवर्णकल्पने गौरवाच्च आकाशोत्पत्तिसमन्तरमेव सर्वशब्दानामुत्पन्नत्वम् आप्रलयावस्था- यित्वम्, अत एव ताल्वादिव्यापाराणां व्यञ्जकत्वम् एवञ्च सजातीयाने क- कल्पने मानाभावात् गकारादिवर्णव्यक्तेरेकत्वं चाऽऽतिष्ठन्ते । एवंचोत्पत्त्यभि- व्यक्तिरूपार्थद्वयप्रतिपादकवचसां सामञ्जस्यमपि । वेदनित्यत्वनिष्कर्षः 9 स्थायित्वेन नन्वेवं सृष्टिकालारम्भप्रभृत्यवसानपर्यन्तं वर्णानां वर्णनित्यत्वव्यपदेशो देवानाममरत्वव्यपदेशवत् वाय्वादेरमृतवव्यपदेशवच्च निर्वोढव्य इति अत्रैव ग्रन्येऽभिप्रेततया वेदानुपूर्व्याः सृष्टयारम्भप्रभृति एकतयैव वेदनित्यत्वोपपत्तौ पूर्वानुपूर्वी समानानुपूर्वीकत्वरूपं नित्यत्वमिति किमर्थमुक्तमिति चेत् — न ; प्रतिकल्पमुत्पद्यमानस्य प्रतिप्रलयं नश्यतश्च वेदस्य नित्यत्वं सर्वकालवृत्तित्वरूपं कथंकारं घटतामित्याशङ्कायाम्, प्रतिकल्पं वेदव्यक्तिभेदेऽपि आनुपूर्व्याः साम्यप्रयुक्तैव नित्यत्ववाचोयुक्तिरित्यभिधानात् । किञ्च वेदो नाम न वर्णमात्रम् ; किंतु आनुपूर्वी विशेष विशिष्टवर्ण- समुदायः । वेदघटकवर्णानां च आसृष्टेः स्थिततया एकवर्णानन्तरं वर्णान्तरो- त्यत्तिरित्यस्याभावेन वर्णेष्वानुपूर्वी रूपक्रमकल्पनायोगात् तद्व्यञ्जकोच्चारण एव क्रमस्य वक्तव्यत्वात् उच्चारणभेदेनानूपूर्वी भिद्यत इति पूर्वपूर्वोच्चारणानु- पूर्वी समानानुपूर्वी कोच्चारणकत्वरूप नित्यत्वमेव वक्तव्यम् । आकल्यस्थायिवर्ण- कत्वमात्रेण नित्यत्वस्वीकारे तु कुमारसंभवादेरपि नित्यत्वापातः । अतः CXV अपूर्वानुपूर्वी कोच्चारणव्यङ्गयवर्णराशित्वं पूर्वानुपूर्वीनिरपेक्षेोच्चारणव्यङ्ग्यवर्ण- राशित्वं वा अनित्यग्रन्थत्वम् ; तद्भिन्नवर्णराशित्वमिह नित्यत्वमिति । “अत एव च नित्यत्वम्” इति सूत्रे चेदं विवक्षितम् । अनाधिकरणे अहङ्कारपरिणामत्वं शब्दस्य भाष्योक्तम् | उच्चारणादेर्व्यञ्ज- कत्वमस्वीकृत्य उत्पादकत्वमेवेष्ट्वा तदा तदा वर्णोत्पत्तिं वायुपरिणामताश्च स्वीकुर्वन्त्यन्य इत्यादिर्विशेषो न्यायसिद्धान्ञ्जनादधिगन्तव्यः । अथ श्रुतिलिङ्गादि पूर्वमीमांसातातीयाध्यायप्रमितं श्रुतिलिङ्गादि निरूपयितुमेकं प्रकरणम् । नूनं तत् नयप्रकाशिकाप्रतिज्ञातरीत्या मीमांसायामनधीर्तिनां तत्र व्युत्पत्तिसंपादनस्य कृते भवितुमर्हति । परं स्वधीतिनामपि उत्तरमीमांसा- विषयेष्वसंकीर्णमुदाहरणं स्वबुद्धया सुप्रहं न भवेत् । गृहीतेऽपि वैयाकुल्या न निकर्षः स्यात् । तदत्र ग्रन्थे तस्य तस्य शारीर कोदाहरणप्रदर्शनात् प्राज्ञानामपि भवत्येव बहुरुपकार इति माव्यम् । अथ यथार्थख्यातिर्न्यरूपिं, या प्रागेवात्र प्रत्यपादि । उपोद्घातविचारः तत उपोद्घातनिर्णयादिकं सयूष्यकलहेन प्रवृत्तम् । शारीरके उपक्रमे चतुःसूत्री चतुरधिकरण्यात्मा । तेष्वधिकरणेषु किं प्रथममेकमेव शास्त्रोपोद्घातः किं वा चत्वार्यपीति विवादः । अद्यत्वे चतुःसूत्र्या उपोद्घातत्वमेव सर्वे प्रतिपन्नाः । तदात्वे स्थितो विवाद इति अतोऽवसीयते । श्रीराममिश्राणा- मेतत्परमाचार्याणाम्, एतदाचार्याणां पितृपादानामात्रेयनाथसूरीणामेतदुपपा- दितया सरण्या प्रथमाधिकरणमात्रस्योपोद्धातत्वमेवाभिमतमिति मननायं भवति । श्रीराममिश्रवचनान्युदाहृत्य तत्स्थापने प्रयत्यते चात्र 1 श्रीवरदनारायणभट्टारकवचनं न्यायसुदर्शनगनमनुवाच्य, ‘नैतावता चतुः- सूत्रयुपोद्धानत्वं साम्प्रदायिकं मन्तव्यम् ; भगवद्भाष्यकारसूक्तिविरोधे सति तस्यार्थस्य तैरुपदेशप्राप्तव्येऽपि सांप्रदायिकत्वासिद्धे’ रित्याशयेन प्रत्युत्तरितमत्र । अन्यथा: चतुःसूल्या इव प्रथमाध्यायाधिकरणानां सर्वेषामपि ब्रह्मपरत्वप्रामाण्या- क्षेपपरत्वं तुल्यरीत्या सुवचमिति सर्वोऽप्युपद्धातः स्यादिति प्रत्यवस्थीयते च । श्रीमन्निगमान्तमहादशि कैरेषां पक्षमनूच चतुःसूत्रयुपद्धातत्वे भूयसामनुमतिं cxvi प्रदर्श्य, “अद्धा निर्धार्यतेऽतश्चतुरधिकरणी ब्रह्मचिन्तोपयुक्ता” इति सिद्धान्तः कृतः । परं भाण्यादिसूक्तीनां स्वपक्षानुकूलत्वमत्र प्रदर्श्यमानमुपपन्नं न भवतीति तैर्न व्यक्तमुक्तम्, नूनं विमर्शकाः सिद्धान्तानुगुणं सर्वं निर्वोढुं प्रभवन्तीति विभाव्य | अत्रैतन्निरूपणसरणिः किश्चित् परिशील्यते - ‘जन्माद्यधिकरणपूर्वपक्षे न तदारम्भाक्षेपः, अनेक ब्रह्मपरत्वेनापि वेदप्रामाण्यात् तदारम्भोपपत्तेः । शास्त्रयो- न्यधिकरणेऽपि नानारम्भशङ्का, उपासनपरवाक्य विचारारम्भाक्षेपासंभवात् । समन्वयाधिकरणेपि नोपासनादिविचारारम्भाक्षेपः’ इति उत्तरसूत्राणामुपोद्धा- तत्वासंभव इहोपपादितः । अत्रेदं विमृश्यम् - एवंरीत्या तु प्रथमाधिकरणस्याप्यारम्भाक्षेपकत्वं न भवेत् । सिद्धवस्तुनि शब्दप्रामाण्यासंभवाद्धि हेतोः सिद्धरूपब्रह्मपरवेदान्त- विचारानारम्भ उक्तः । वेदान्तस्य ब्रह्मोपासनरूपकार्यपरत्वसंभवान्न कार्य- वाक्यार्थवादिदृष्टयाप्यारम्भानुपपत्तिरिति हि प्रत्यवस्थानं संभवति । अतोऽत्र “अन्वारुह्योक्तिदैन्यं न हि सहत ऋजुः सूत्रकृद्वावदूकः” इति अधिकरण- सारावल्युक्तमेवात्र समाधानम् । तत् अधिकरणचतुष्टयस्याप्यविशिष्टमिति तत्रैव व्यक्तम् | किञ्च नात्र वेदान्तानामप्रामाण्यादनारम्भः पूर्वपक्ष्यत इति संप्रतिपन्नम् ; वेदप्रामाण्यस्य पूर्वमीमांसोपक्रम एव सिद्धेः । अत उपनिषदामूषरप्रायत्वात् पृथग्विचार्यार्थवत्वासंभवात् कर्मकाण्डशेषत्वमेव कर्तृस्वरूपनिरूपणादिपरत्वे- नाम्युपगम्य प्रामाण्यं समर्थनीयमिति पूर्वपक्षिणो हृदयम् । तत्र पूर्वकाण्डोक्त- कर्मशेषत्वानर्हसिद्धब्रह्मप्रतिपादकत्वं सिद्धव्युत्पत्तिसंभवादिनात्र समर्थ्यते पृथक्प्रामाण्यनिर्वाहाय । तत्र द्वितीयमधिकरणं न ब्रह्मणो बहुत्वमेकत्वं वेति विचारार्थ प्रवृत्तम् । किंतु “यतो वै” इत्यादिवाक्यस्य लक्षणतो ब्रह्मप्रतिपत्तिकर सिद्धान्ति संमतैकब्रह्मप्रतिपत्तिजननायोगात् अनेक- ब्रह्मपरत्वापत्तौ अनेक भूतस्रष्टृपालयित्रने कर्तृपरस्सहस्रप्रत्यक्षसिद्ध जीवबृन्द- परत्वमेव वरमिति न पृथग्विचार्यत्वमस्ति कर्मकाण्डार्थवादतया पूर्वशेषत्वादि- त्येवमादिगमनिकाप्रदर्शनाय प्रवृत्तमिति आरम्माक्षेप एव । शास्त्रयोनित्वाधि- करणमारम्भाक्षेपकमिति स्पष्टम् । तत्र ह्यनुमानेन ब्रह्मणोऽधिगतत्वात् किं शास्त्रेणेत्येवोच्यते । उपासनावाक्यविचारारम्भो नाक्षिप्यत इति चेत्; तावता तृतीयलक्षणान्तर्गतस्य तृतीयपादस्यारम्भविषयेऽनाक्षेपः सिध्येत् । ततः cxvil पूर्वाशानामारम्भस्त्वाक्षिप्त एव । एवं हि प्रत्यक्षानुमानरूपप्रमाणान्तरावधृतजीवे- श्वरानुवादरूपत्वात् सिद्धपरवाक्यविचारो नारभ्य इत्येव सिध्यति । अतः कार्यविधिशेषत्वं परित्यज्य सिद्धपरवाक्यानां विचार मैदम्पर्येण चिकीर्षूणां भगवतां भाष्यकृतां समन्वयाधिकरणान्तानि चत्वार्यधिकरणानि शास्त्रोपोद्घात- तथैवाभिमतानि । एवं तु शङ्केयत - अधिकरणचतुष्टयस्याप्यारम्भाक्षेपकत्व संभवेऽपि तावति तात्पर्यं मा भूत् । यथा पूर्वमीमांसायां प्राथमिकेनाधिकरणेना- रम्माक्षेपे शमिते, द्वैतीयीकमधिकरणं धर्म लक्षणतः प्रतिपादयितुम् ; अथ च तन्निमित्तपरीष्टौ प्रत्यक्षादेस्तत्रानवकाशनिरूपणेन वेदप्रमाणनिरूपणम् - तथा ब्रह्मजिज्ञासारम्भसमर्थनं जिज्ञासापदघटितसूत्रेणास्तु i उपरि ब्रह्मणो लक्षणविचारः; अथ तत्र प्रत्यक्षानुमानप्रमाणाभावेन शास्त्रक प्रमाणकत्वमर्णनम्, शास्त्रस्यापि तत्परत्वायोगशङ्कापरिहारेण समन्वयप्रतिपादनं पश्चादिति । अत्रोच्यते - आरम्भाक्षेप संभवेऽपि तत्र तात्पर्य मा भूदिति केयं राजाज्ञा! शास्त्रेण ब्रह्म लक्षणतः प्रतिपादयितुं न शक्यत इति पूर्वपक्षिणोके, ततः किमिति सिद्धान्तिप्रश्ने पूर्वपक्षिणावश्यमेव वक्तव्यम्, यस्य यन्मूला स्वरूपावगतिर्न भवति, तस्य कथं तदादाय विचार आरभ्यत इति । अतः फलफलिभावविमर्शे आरम्भाक्षेपपर्यवसानात् तत्र तात्पर्याभावः कथम् ? पूर्वमीमांसायामपि " चोदनालक्षणोऽर्थो धर्मः” इत्युक्ते कथमिदं चोदनालक्षणत्वमिव्याक्षेपे यस्माच्चोदनातिरिक्तेन धर्मो न गम्यते, चोदनया च गम्यते, अतः प्रामाण्यस्याज्ञातज्ञापन रूपत्वात् चोदनालक्षणत्वमस्तीत्येिव पर्य- धिकरणैरुपापादि । एवं चोदनाप्रमाणकत्वोक्त्या ‘कथंलक्षणकः’ इति प्रश्नसमाधानमुखेन, को धर्म इति स्वरूपप्रश्नोऽप्युत्तरितो भवतीति शास्त्रदीपि· कायां द्वितीयाध्ययारम्भेऽभ्यधायि । तत्र को धर्मः कथंलक्षणकश्चेति प्रश्नो यदि वेदाध्ययनानन्तरं धर्मविचारप्रतिज्ञायां प्रथमसूत्रकृतायां तदाक्षेपरूपेण प्रवृत्तः स्यात्, तर्हि विचागनारम्भपर्यवसानं फलफलिभावशोधने पूर्व- मीमांसायामपि भवत् ग्रन्थेऽनुक्तमपि कथं वार्येत ? तर्हि ब्रह्मजिज्ञासानारम्भ- शङ्का प्रथमाध्यायव्यापिनी स्यादिति चेत् — सत्यम् ; अथाप्यस्ति वैशेष्यम्, येन चतुरसूत्रीमात्रे तदिष्टिः । तदुक्तमधिकरणसारावली - " द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन् द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्धयोः" इति । cxviii अयं भात्रः - सामान्यतः सिद्धवस्तुन एत्र शब्दतः प्रतिपत्त्यसंभवान्न ब्रह्म- विचारः शक्य इति प्रथमाधिकरणे प्रत्यवस्थानम् | शब्दस्य सिद्धवस्तुबोधन- क्षमयेऽपि लक्षणनः परब्रह्मप्रतिपादनासंभवात् स न शक्य इति द्वितीयाधिकरणे । भवन्त्यपि प्रतिपत्तिलौकिकप्रमाणजन्यप्रतीति समानेति शास्त्रविचारो वैफल्यान्न कार्य इति तृतीयाधिकरणे । अस्याः प्रतिपत्तेर्लोकाजन्यत्वेऽपि नैष्फल्यात् वेदस्यापि तज्जननपरत्वायोगान्न कर्तव्य इति तुरीयाधिकरणे । तत्र सिद्धवस्तुपरत्वं शब्दस्य न भवतीति प्रथममेव कथनेऽन्यदपि किश्चित् कारणम्, यत् पूर्वमीमांसायामधीतिनः पूर्वमीमांसानन्तरमुत्तरमीमांसायां प्रवृत्ति परिशीलयतः शङ्केयं समुन्मिषति । तत्र ह्यादौ धर्मलक्षणाधिकरण एव ‘कार्यरूप एव वेदार्थः, न सिद्धरूपः; व्यवहारात् तत्राव्युत्पत्तेः’ इति प्राभाकरैरुपपादन- पूर्वकमधिकरणरचना कृनास्ति । तदिदं शास्त्रदीपिकायामप्यन्ववादि । अस्त्वेतत् । तत् सिद्धं चतुर्ष्वप्यधिकरणेष्वारम्भाक्षे पोऽस्तीति । यत् पुनः ईक्षव्यधिकरणादिष्वपि स्यादयमिति; तन्न — वैषम्यात् । चतुर्णामधिकरणानामपि हि सामान्यतो वेदान्तवाक्यं सर्वं विषयः । द्वितीयाधिकरणे औचित्यात् तैत्तिरीयमात्रोदाहरणेऽपि वेदान्तवाक्यजातं न प्रतिपादयितुं शक्नोतीत्येव हि विवक्षितम् । एवं सर्वत्र । ईक्षत्यविकरणादिषु तु तत्तद्वाक्यजातमात्रे विचारप्रवर्तनात् तत्तन्मात्रस्यान्यपरत्वकथंनमात्रेण सर्वात्मना ब्रह्मविचारानारम्यत्वस्य सहसा वक्तुमशक्यत्वात् तत्र तत्तात्पर्य- परित्यागः । किञ्च यत् कारणत्वलक्षणलक्षणीयं शास्त्रसिद्धम्, तत् प्रकृति- जीवतत्त्वयोरन्यतरदेवास्तु’ इत्यक्षेप ईक्षत्यधिकरणादिषु प्रवर्त्यमानः कथं कारण भूतोपनिषदतत्त्वविचाररूपशास्त्रारम्भप्रतिक्षेपक एक । आरब्धेन शास्त्रेणायमेव निर्णयः कार्य इति ह्याक्षेप इति । तदिदं सर्वम् “औचित्याने- कभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयम्” इत्यधिकरणसारावलो औचित्यपदेन समग्राहि । अन्यदप्यौचित्यम् — शास्त्रारम्भे विषयप्रयोजनसंबन्धाधिकारिरूपानु- बन्धिचतुष्टयं प्रदर्श्यारम्भं साधयित्वा विवक्षितं वक्तव्यमिति सर्वग्रन्थकार- संमतमेतत् । तदत्त्र प्रथमेऽधिकरणे अधीतवेदपूर्वमीमांसमुमुक्षुरूपोऽधिकारी दर्श्यते ; विषयो द्वितीये; प्रतिपाद्यप्रतिपादकभावः संबन्धस्तृतीये ; प्रयोजनं तुर्य इति एतावदूदूर्मवश्यमुपोद्धात इति । अथानेकभाष्यस्वरसोऽप्यस्तीत्युक्तम् । cxix

  • द्वितीयाधिकरणारम्भे, “किं पुनस्तद् ब्रह्म यज्जिज्ञास्यमुच्यते", इत्यत्र यत् जिज्ञास्यमित्यधिकभाषणं ब्रह्मस्वरूपनिरूपणस्याशक्यतया जिज्ञासी त्याज्येत्याक्षेपप्रदर्शनार्थमिति स्वरसगम्यम् । एवं तृतीयतुरीयाधिकरणयोरपि, ‘शास्त्रं ब्रह्म न प्रतिपादयति’ इति सामान्यतः शास्त्रं सर्वमेव गृहीत्वा आरम्भाक्षेपोऽवग मितः । अत्रानेक माध्येत्यनेन कतिपयभाष्यस्वारस्यं पक्षान्तरेऽपि स्यान्नाम — औचित्यसंप्रदायानेकभाष्यरूप भूयो नुग्रहेणान्यस्य सुनिर्वहत्वात् चतुःसूत्र्या उपोद्घातत्वं साधीय इत्यदर्शि । शेषं टिप्पण्यामेव द्रष्टव्यम् । ग्रन्थकर्तृदर्शितानि भाष्यदीपसारवाक्यानि न चतुःसूत्र्युपद्धातत्वपक्षप्रतिकूलानि लक्ष्यन्ते । प्रत्युत ‘प्रतिपादनं स्थिरीक्रियते’ ‘प्रतिपादयन्त्येवेति जन्माद्यधिकरणत्रयेणोपपा- दित’ इत्येवं भाषणेन प्रथमाधिकरणोपपादितप्रतिपत्तिभङ्गे ब्रह्मविषये प्रकारान्तरेण प्रसक्ते परिहारस्य कृतत्वज्ञापनात् तदधीनस्य आरम्भणीयत्वस्य स्थूणानिखनन- न्यायेन स्थापितत्वमेवावगम्यते । आरम्भस्थापनशेषतया लक्षण संभवशास्त्र- प्रमाणकत्वा युक्तावपि ब्रह्मणि जगत्कारणत्वादिसिद्धया, ब्रह्म कारणमेवेति, ब्रह्मैव कारणमिति च द्वितीयाधिकरणसिद्धमिति, तदुपपादनं पादत्रिपादीभ्यामिति च सुबचम्; उक्तं च तत् श्रुतप्रकाशिकायामिति । भाष्ये द्वितीयपादारम्भे “शास्त्रारम्भंसिद्धये” इति पदनिर्वाहोऽपि तत्रैव द्रष्टव्यः । कालः यथोपोद्घातविषये सगोत्रकलहः, तथा कालेऽपि । तत्र कालो न पृथग्द्रव्यमित्यदसीयः पक्षः । पृथगेवेति बहवः । ‘भाष्यादिषु कालस्य द्रव्यत्वाद्युक्त्यदर्शनात् न पृथग्द्रव्यत्वम् । सूक्तिरस्ति चेत, अवश्यं शिरसोह्यते विषयः’ इत्युक्त्वा प्रत्युत जैननिराकरणाधिकरणसूक्तिः कालरूपा- तिरिक्तद्रव्याभावे प्रामाणमिति निरूपयति । सा च सूक्तिः “कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्व नास्तित्वादयो न वक्तव्याः; न च परिहर्तव्याः । कालोऽस्ति, नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः” इति । एवम् “असंभवस्तु सतोऽनुप- पत्तेः” इत्यत्र महदाद्यचेतनद्रव्यैः सह कालो न दर्शितः; अंशाधिकरणे जीवस्येव, अहिकुण्डलाधिकरणे प्रकृतेरिव च कालस्य ब्रह्मांशत्वं न कुत्रापि न्यरूपि । अतः कालो न पृथग्द्रव्यम् । अतः पृथिव्यादिर्देश एवादित्य संयोगादिविशिष्टः, तद्देशगततत्संयुक्तत्वाद्यवस्था वा काल: । स्वधीनत्रिविधचेतन।चेतनेति चूर्णिकायां त्रैविध्यं चेतनमात्रान्वयि . 1 : CXX विष्णुपुराणादौ पृथक्कालकर्तिनम्, अव्यक्तःपेक्षया व्यक्तस्य पृथक्कीर्तनवन्नि- र्वाह्यमिति अस्य मतम् । अत्रेदं वक्तव्यम्—भगवतः प्रकृतिपुरुषात्मकरूपद्वयवत् " रूपान्तरं तद् द्विज कालसंज्ञम् " इति कालपार्थक्यं विस्पष्टमुक्तम् । “अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते" इति तस्य आद्यन्तरहितत्व भगवच्छरीत्व योश्च कथने विष्णुपुराणे जाग्रति, ‘कालो नातिरिक्तं द्रव्यम्’ इति यावत्कण्ठोक्या निषेधो भगवद्भाष्यकार श्रीसूक्तिषु न लक्ष्यते, तावत् तत्सद्धाव एव भाष्यादीष्ट इति स्वीकरणमेव वरम् । “सर्वे निमेषा जज्ञिरे" इत्यादिश्रुतिरपि दृश्यते । श्रुतिस्मृतिस्वरसगतिनिरोधेन तदुपजीविप्रन्थतात्पर्यवर्णनं चायुक्तम् । सूत्रकारेण कालानुक्तिस्तु नित्यविभूत्यनुक्तिवत् विस्पष्टविषये विचारणीयाभावात् तुल्यन्यायेन सिद्धिसंभवाश्च स्यात् । जैननिराकरणाधिकरण श्रीसूक्तितात्पर्यमेव तु विमृश्यम् । तस्यैतदूग्रन्थकर्त्रभिमतोऽर्थस्तावत् जात्यादिवत् कालस्य पदार्थविशेषणतयैव प्रतीयमानस्य न पृथग्द्रव्यत्वमिति । अत्र सूक्तौ कालनिराकरणं न प्रतीयते । किं तु ‘कालस्यास्तित्वनास्तित्वादिकं पृथङ् न वक्तव्यं जैनादिभिः, विशेष्यापेक्षया विशेषणस्य तत्पृथक्कथनमन- पेक्षितम् जात्यादेखि’ इत्येवोक्तं दृश्यते इति स्वयमेवोद्भाव्य, जात्यादीनां विशेषणानामपि धर्मिगतास्तित्वनास्तित्वातिरिक्तास्तित्वनास्तित्वाद्यभावः सर्वथा दुर्वच इत्युपपाद्य स्वाभिमत एव भाष्यार्थ इति चात्र ग्रन्थे विवृतम् । ‘अस्य भाष्यग्रन्थस्य कालद्रव्यनिषेधे न तात्पर्यम्, शास्त्र- स्वग्रन्थान्तर संप्रदायविरोधात् । किं तु कालस्य विशेषणतया सर्वलोकप्रतीतस्य बौद्धादिभिर्नास्तित्वं न वक्तुं शक्यम् । न वा जैनादिभिस्तस्यास्तिस्त्रं पृथक् स्थापनीयम् । पदार्थैः सह तस्यापि सिद्धेः’ इत्येव तात्पर्यमिति सर्वार्थसिद्धिर्दर्श- यतीति टिप्पण्यामीषत् प्रदर्शितमप्यत्रानुसंधेयम् । अत्र बौद्धादिभिरिति आदिना जैनस्यापि ग्रहणम् / न्यायसिद्धान्ञ्जनेऽपि भाष्यसूक्तिरनूदिता । श्रीमन्निगमान्तमहादेशिकैरेतदूग्रन्थ आलोडितः, विस्तरानादरेण प्रतिविहितश्चेति ज्ञायते । अथात्र किश्चिद्विशदीक्रियते – ‘अस्तित्वनास्तित्वादयो न वक्तव्याः, न च परिहर्तव्याः’ इत्थंशस्तावदत्रावधानमईति । अस्तित्व- नास्तित्वादिकं पदार्थान्तराणामित्र कालस्यापि विषये सप्तभङ्गीवादिभिजैन- रुक्तम् । पदार्थानां तादृशमनैकान्त्यं न भवतीत्यस्माभिः परिहर्तव्यम् । कालविषये तैस्तत् पृथड् न वक्तव्यम् अस्माभिरपि तत एव न पृथक् तत्परिहारयत्तो अतः cxxi विधेयः ; कालस्य पदार्थविशेषणतयैत्र प्रतीयमानत्वात् अस्तित्वनास्तित्वादेः पदार्थेऽन्वयं विना विशेषणेऽत्रान्वयाप्रतीतेः / तत्त्रास्तित्वनास्तित्वयोरेकत्र विरोधेऽत्रापि तद्विरोधोऽनक्षरमेवोक्तो भवतीति खल्वेतदर्थः । अत्रास्तित्ववत् नास्तित्वमपि गृहीतमस्ति । पृथगस्तित्वं न वक्तव्यमित्येतावता कालो न पृथगिति सिद्धयेदिति चेत् — पृथङ् नास्तित्वं न वक्तव्यमित्यपि ह्यक्तम् । तेन पृथग्द्रव्यत्वं लभेते ; G परं किं न सिध्येत् ? परिहारो न कर्तव्य इत्युक्त्या च पुनः क्षोभ एव स्यात् । अतोऽस्यायमर्थः- — कालस्य पृथगम्तित्वनास्तित्वादिवचनतत्परिहारौ नावकाशं कालस्य पदार्थविशेषणतैकस्वभावत्वात् । जैनैर्हि “जीवाजीवात्मकं जगदेत निरीश्वरम् ; तच्च द्रव्यात्मकम्" इति वदद्भिः ज्ञानादिजीवगुणानां पुद्गलाश्रितगन्धवर्णादिगुणजात्यादीनां जगदन्तर्गतानां पृथग्विभागो नाकारि । तत् कस्मात् ? तेषां द्रव्यविशेषणतया प्रतीयमानानां पृथगस्तित्वनास्तित्वादि न कण्ठतो वक्तव्यम् । सत्यपि तत्र गुणविषये द्रव्यविषये च तद्वैषम्ये यथायथं स्वयमेव सर्वं सुगममित्यत एव हि । एवञ्च कालस्यापि तथैव प्रतीयमानस्य तत्त्वे सति तद्विषये परं किमिति तद्वर्णनम् ? तत् त्यज्यतामेतद्वर्णनम् । वयमपि न तत्परिहरणे प्रयतेमहि । पृथगेतद्विषये परिहरणस्यास्माभिः कृतत्वात् जात्यादिविषये ऽनैकान्त्यमस्मदिष्टमिति न मन्तव्यम् । यत्रानैकान्त्यं युष्मदुक्तम्, तत्रैव तत्परिहारस्य प्रसक्तत्वात् । त्यज्यतां काले तद्वर्णनम् ; वयमपि जोषं भवेमेति । एवं च भाष्यमिदम् ’ कालस्याप्यनैकान्त्याभावः पदार्थवदेव - मन्तव्यः । स च कालो विशेषणतयैव प्रतीयमानत्वादनपलप्यः’ इत्येतावदेव ज्ञापयेत् । 7 कालस्याद्रव्यत्वाद्यसिद्धिः न च विशेषणतयैव प्रतीतिकथनमात्रेणाद्रव्यत्वं सिध्येत्; प्रभायाः धर्म- भूतज्ञानस्य च विशेषणतैकस्वभावत्वेऽपि द्रव्यत्वविकारित्वादेः संप्रतिपन्नत्वात् । विशेषणतैकस्वभावस्य विशेष्येण सहैव नियतप्रतीतितदभावौ एकसामग्रीवेद्य- त्वतदभावप्रयुक्तौ । यदि पृथगस्तित्वनास्तित्ववचनाद्यसंभवभाषणमात्रेण कालस्य क्लृप्तपदार्थान्तर्भाव एवेष्टः, तर्हि तुल्यन्यायात् जातिगुणादीनामपि क्लृप्तान्तर्भाव एवेष्टः स्यात् । अतस्तेषां धर्मिमात्रत्वापातः । प्रत्युतात्र भाष्ये, “कालोऽस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः” इत्यनेन जातिगुणादीनां दृष्टान्तीकरणात् जात्याद्यपेक्षया कालस्य भिन्नत्वमेव प्रतीयते । विशेषणतकस्वभावत्वकथनाच्च पृथिव्यादिरूपातत्स्वभाववस्त्वन्यत्वमपि P cxxii प्रतीयते । अतो वस्त्वन्तरत्वसिद्धिः । अत्र पूर्ववाक्ये अस्तित्वनास्तित्वादीति आदिपदप्रयोगात् जैनोक्ता सप्तभङ्गी विवक्षिता । तत्त्रास्तित्वं नास्तित्वमिति द्वयातिरिक्तं न कुत्राप्यानुभविकमिति ज्ञापनाय, " अस्तिनास्तीति व्यवहारो व्यवहर्तॄणाम्" इति द्वयमेव सोपस्करमुपरि गृहीतम् । अतो विशेषणतयैव कालप्रतीतिसाधकमिदं भाष्यं कालरूपद्रव्यान्तरवारकं कथंकारं भवितुमर्हति ? ; ननु सिद्धान्ते उत्यत्तिप्रध्वंसौ अवस्थाविशेषौ इत्यङ्गीकृतम् । सत्त्वा- सखे अप्येवं भवेताम्, असदेवेदमित्यादौ तद्दर्शनात् । तत्र जात्यादेरवस्थाव- स्वाभावात् पृथक्सत्त्वासत्त्वे यथा न स्तः, तथा कालेऽपीत्युक्तौ कालस्याद्रव्यत्व- सिद्धिरिति चेत्-न; तर्हि यथा जातेराकृतिरूपाया अस्मन्मते अवस्था- रूपता, तथा कालः कस्य द्रव्यस्यावस्था स्यात् ? ननु लोकप्रसिद्धा तत्तदवस्थैव केनचिदुपाधिना कालत्वेन व्यवह्नियत इति तदाशय इति चेत् न ; कलाकाष्ठा- देर्द्रव्यावस्थारूपत्वस्यानानुभविकत्वात् । द्रव्यं प्रतीव अद्रव्यभूतपदार्थं प्रत्यपि विशेषणतया कालस्य प्रतीयमानत्वात् तस्य विलक्षणत्वसिद्धेः । किं च सत्त्वादि- कमनेकप्रकारं भवितुमर्हति ॥ भवतु किमर्थं विशेषणतया प्रतीतिवर्णन मिति चेत् — उक्तमेव, पृथगनैकान्त्यवर्णनं निरासो वा न कार्य इति ज्ञापनार्थमिति । अन्यच्च ध्वनितमुक्तं श्रुतप्रकाशिकायाम्, “अनेन कालस्याणुत्वनिराकरणं फलितम्” इति । सर्वपदार्थविशेषणतया प्रतीयमानस्यास्य जैनैरणुत्वकथनं न घटते, किंतु विभुत्वमेवेति ज्ञापयदिदं भाष्यं कालस्य विभुद्रव्यत्वं साधयेदपि । अत्र च ‘अभूद् भवति भविष्यति’ इति प्रतीतिषु वस्तुनो वर्तमानत्वावर्तमानत्वे प्रतीयेते । तत्र तत्र कस्यचित् कालस्य प्रतीयमानत्वात् कालस्य प्रामाणि - कत्वमपि सिद्धम् । अतः कालस्य नास्तित्वं न केनापि सुवचमिति च श्रुतप्रकाशिकायामुक्तम् । अनेककालकल्पनं विना एकेनैव निर्वाहसंभवात् विभुरेकः काल इति च तत्र दर्शितम् । क्षणलवादिरूपेण कालद्रव्यपरिणामे स परिणामोऽपि विभु, सर्वपदार्थविशेषणत्वादिति च न्यायसिद्धान्ञ्जनादाववादि । महाप्रलये युगसंत्रत्सरादिगणना प्रामाणिकी । सा सूर्यगत्याद्युपाधिभिर्दुरुपपादा | कालद्रव्यस्य क्षणरूपेण परिण मे सुनिर्वहमेतत् । “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” इति वाक्यहृदयं तैत्तिरीयोपनिद्भाष्यपरिष्कारे अस्मदीये द्रष्टव्यम् । अस्त्विदम् ; विशेषणभूने काले नास्तित्त्रान्वयो भाष्योक्तः कथम् ; अभूत्, भविष्यतीत्यादौ तदप्रतीतेरिति चेत् — अतीतवस्तु इदानीं नास्ति इत्यादौ वस्तुनीव अतीतत्वादिरूपकालेऽपि जात्यादाविव नास्तित्वान्वयः ।. ċxxiii वस्तुतः काले पृथक् अस्तित्वादि न वक्तव्यम् । कालसंबन्धरूपास्तित्वस्य काले साक्षात् कथनायोगादित्यपि भाव्यम् । वादिसिंहकृते अर्चिरादिग्रन्थे प्रकृतिपुरुषवत् कालस्य प्रस्तावो न कृत इत्येतावन्मात्रेण कालद्रव्यस्य पार्थक्यं निषिद्धं न भवेत् । अपिचात्र तर्कपादे युक्त्या परमतं निराक्रियते ; न तु श्रुतिप्रदर्शनेन तद्विरोधान्निराकरणं वा तन्मूलं वस्तुस्थापनं वा क्रियते । अतो भगवद्भाष्य- कारैरत्र कालस्य श्रुतिस्मृत्यादिसिद्धद्रव्यविशेषत्वस्थापनप्रसक्त्यभावात् तन्न कृतम् । लोकानुभवानुरोधेन यद्रूपेण कालः सिध्येत्, तदधिकस्य तद्विरुद्ध णुत्वानैकान्त्यादिरूपस्य चांशस्य साधकं लौकिकं प्रमाणमपि नास्तीत्ये- तावदिह विवक्षितमिति ध्येयम् ॥ प्रमाणनिरूपणम् प्रत्यक्षानुमानशब्दरूप प्रमाणत्रयमेव भगवद्भाष्यकारमतमिति प्राचां पन्थाः । ततोऽपसरन्नयं कालपार्थक्य इव तत्र प्रमाणान्तरान्तर्भावे अतृप्यन् प्राभाकरवत् पाञ्चविध्यं प्रत्येति । एवं प्रमाणपञ्चकपरिगणना भगवद्भाष्य- कारकालसमीप कालवर्ति विष्ण्वार्यविरचितप्रन्येऽपि लक्ष्यत इति नयप्रकाशिका - यामनेन (१३४२ पुटे) प्राकाशि । केवलव्यतिरेकिविचारः केवलव्यतिरेक्यपि भगवद्भाष्यकारेणेष्यत इत्ययमाह | श्रीभगवद्यामु- नमुनिभिरेव आत्मसिद्धौ तदसंभवः प्रपश्चितः । अतो भाष्यस्य तात्पर्यान्तरवर्णनेन परमाचार्यैकरस्य संपादनेन केवलव्यतिरेकि नेच्छन्ति परे । तदनङ्गीकारे लक्षणनित्रहो न संभवतीत्येतन्मतम् । इदमेवाशङ्कय परिहृतं श्रीदेशिकचरणैः स्वग्रन्थेषु । अत्र च तस्त्रमुक्ताकलापे जीवसरस्य २७७ २७८, २७९ श्लोका द्रष्टव्याः । एवं न्यायपरिशुद्धिरपि । अस्माभिश्च वैशेषिकदर्शनवृत्तौ वैशेषिकरसायने कणाद महर्षिमते केवलव्यतिरेकिण एष्टव्यता नेति तृतीयेऽध्याये वायुप्रकरणे च प्रादर्शि । शब्दप्रमाणेऽपि विशेषः शब्दप्रमाणं च शास्त्रं वेदः । पौरुषेयत्राक्यानि तु अनुमानविषया प्रमाणानीति प्राभाकरसरणिरस्य ; यामन्ये विशिष्टाद्वैतिनो नानुमन्यन्ते । परंतु प्राभाकरवैलक्षण्यं सिद्धपरवाक्येऽपि बोधस्वीकारात् । CXXIV अधिकप्रमाणस्वीकारविमर्शः 1 उपमानार्थापत्ती तु द्वे अधिके प्रमाणे पूर्वमीमांसकोक्ते तच्छाययैव स्वीकृते भगवद्भाष्यकारेष्टे स्यातामित्येतावन्मात्रेण । न तत्र प्रमाणान्तरत्व- साधिका युक्तिः प्रादर्शि | प्रमाणान्तरत्वस्थापकं भाष्यं तुषमात्रमपि न लक्ष्यते । प्रागेव तत्र नैयायिकानुमतोपमानमार्गन्यक्कारेण मीमांसकोक्तस्वीकारे । केवलं सूत्रैकशास्त्रयमनुरुध्य व्याख्यातृषु आस्माकीनत्वाभिसंधिः कारणम् गोसादृश्यस्य गवये प्रत्यक्षानुभवे सति गवि गोसादृश्यग्रहणमर्थसिद्धमानुमानि - कं चेति किं न मन्येत । अर्थापत्तावपि देवदत्तो जीवन् गृहे नास्तीत्यत्र जीवत्व संदेहश्चेत्, बहि: सत्येऽपि संदेह एव । यदि तु जीवनकालें नियमेन गृह एव दृष्टत्वात् जीवन गृहसत्त्वयोर्व्याप्यव्यापकभाव संदेह प्रयुक्तो जीवनसंदेहः, तर्हि बहिःसतोऽपि जीवनस्यान्यपुरुषे दर्शनात् जीवनगृह- सत्त्वयोर्व्याप्यव्यापकभावभङ्गे विहिते तन्मूलजीवन संदेहव्यपायात् प्रकारान्तरेण जीवन संदेह सामग्रयमात्रे जीवन विशिष्टगृहासत्त्वेन बहि: सत्वस्यानुमानमिति सुवचम् । सर्वथासंदेहे त्रर्थापत्त्या कल्पनमप्यशक्यमेवेत्यादि भाग्यम् । ‘प्रत्यक्षमनुमानं च शास्त्रं व विविधागमम्’ इति प्रमाणानुरोधेनापि प्रमाणत्रित्वमेव सांप्रदायिकं विशिष्टाद्वैतिनाम् । अन्यथा हि “योग्यानुपलब्ध्यैवाभावः समर्थित इत्युपशाम्यतु भवान्” इति जिज्ञासाधिकरणमाप्यादि दृष्ट्रा अनु- पलब्धिरपि मानान्तरमेवेष्यताम् । एकस्यैव विधिरूपेण बोधनेऽन्यत् प्रामाणम्, निषेधमुखेन गमने तु मानान्तरमित्याद्युच्येत । तत्रान्यतात्पर्यकल्पने तु औचित्यात् प्रमाणत्रित्वमेव युक्तम् । अत एवोक्तयोग्यानुपलब्धि प्रस्तावान्य- वहितपूर्वमपि भाष्ये प्रत्यक्षानुमानशब्दमात्र निर्देशः; न स्वर्थापत्यादेः । अत्र विषये अस्मदीया परमार्थप्रकाशिकापि द्रष्टव्या । भेदकप्रमाणोदाहरणविमर्शः (२०९ पु.) अयमभ्यासरूपभेदकप्रमाणस्योदाहरणतयान्तर्यामिब्राह्मणं प्रदर्शयति । तत्र, “एष त आत्माऽन्तर्याम्यमृतः” इति अभ्यासाद् भेद इत्याह । पंरतु सद्विद्यायामपि " ऐतदात्म्यमिदं सर्वं तत् सत्यं स आत्मा तत्त्वमसि " इत्यभ्यासोऽस्ति । एवमपि तत्र विद्यैक्यमेवेष्टम् । यद्यपि सुबालोपनिषदि ईदृशस्थले भेद इष्यते, अथापि तत्र " सर्वभूतान्तरात्मा दिव्यो देवः” इत्युक्तस्यैव सर्वान्तरात्मत्वस्य क्वचिदुपास्याकारत्वेनेष्टस्यात्रापि स्वीकारेण तदुपपादनमेवेदं तत्र तत्र श्रुतावीषद्भेदेनेति किं न वक्तुं शक्यमिति विवेचनीयम् । एवं CXXV संख्याप्रकरणान्तरादावपि उदाहरण सौष्ठवमववाय विम्रष्टव्यम् । नामातिदेशोदा– हरणपरश्च आनन्दमयविद्यातोऽनिदेशं सत्यत्वादिस्वरूपनिरूपकधर्माणां विद्यान्तरेषु आशङ्का परिहारपूर्वकं स्थापयति । " इतरे स्वर्थसामान्यात्” इति सूत्रे धर्मिसामान्यात् धर्मितुल्यत्वात् धर्मिप्रतीतौ तदविशेषं नियमेन प्रत्येतव्यत्यात् सत्यत्वादीनामुपसंहार इत्युक्तम्, न पुर्नमैिक्येनातिदेश इत्युक्तम् । यथा सत्यत्वादीनां स्वरूपनिरूपकधर्मत्वात्र साथ औचित्यात्, तथा तेषां सर्वानु- वर्तित्वमपि स्वरूपनिरूपकत्वादेव, न तु नामश्रवणात् । अतोऽत्र प्रकृति- विकृतिभावाप्रसक्तेरतिदेशवचनमपि न मुख्यं भवितुमर्हति । प्रमेये अचेतनत्रैविध्याभावविमर्शः “स्वधीनत्रित्रिधचेतनाचेतन स्वरूपस्थितिप्रवृत्तिभेदम्” इति चूर्णिकाद- शितरीत्या चेतन इवाचेतनेऽपि त्रैविध्यं साम्प्रदायिकसंप्रतिपन्नमद्यत्वे । अयं पुनर्ग्रन्थकारोऽचेतने त्रैविष्यान्वयमनिच्छन् प्रकृतिनित्य विभूतिरूपेण द्वैविध्य- मेवा चेतने स्वीकरोति । तदिदं कालस्य पृथग्द्रव्यतायाः प्रागेव निषेधादु- दितमेव । एकोनविंशति संख्याविमर्शः प्रकृतिप्राकृतगणनायां च “चतुर्विंशति संख्यातुमव्यक्तम्” इति एतदुदाहृजामन्त्राधिकरणभाष्य दर्शितश्रुतिवाक्यतोऽप्यवसीयते । तथैवाद्यत्वे सर्वे मन्यन्ते । परमयमेकोनविंशतिधैत्र गणयत्यत्र । तथा नयप्रकाशिकाया- मपि । तन्मात्राणि पञ्च न गण्यन्ते । “महाभूतान्यहंकारो बुद्धिव्यक्तमेव च । इन्द्रियाणि दशैकंच पश्ञ्च चेन्द्रियगोचराः ||” इति गीतोक्तास्तावत् गोचराः शब्दादयो गुणा एवेति सत्वरजस्तमो- गुणा इव नेह द्रव्यसंख्याने सह संख्येया भवन्तीत्येतदाशयः । श्रुत्यादिषु तन्मात्राण्यपि श्रूयन्ते यथा “तन्मात्राणि भूतादौ लायन्ते" इति सुबालो- पनिषदादौ ! तत्र श्रीश्रुतप्रकाशिकाचार्य भाष्यादौ विस्तरेण तत्प्रकरणार्थो वर्णितोऽस्तीत्यलमत्राचिकेन । एतन्मतं श्रीतत्वम् श्रियः किं त्रिविध चेतनान्तर्गते नित्यविभागेऽन्तर्भावः, किं वा ईश्वर कोटौ प्रवेश इति विचिकित्सामूलो विचारश्चैतद्गन्येऽपि लक्ष्यते । CXXVI जीवकोटावन्तर्भावं नित्यविशेषत्त्रमेव चैष संमन्यते । “यथा सर्वगतो विष्णुस्तयै- वेयं द्विजोत्तम” इति विष्णुपुराणे (१-८- १७) विष्णुसाम्यस्य लक्ष्म्यामतिद्देशात्, उपदेशस्थलादतिदेशस्थले न्यूनतायाः यथा चन्द्रस्तथामुखमित्यादौ संप्रति- पन्नतया, न्यून प्रभावैव लक्ष्मीः । अस्याः सर्वशरीरित्वमपि नास्ति । मातृत्व- मध्यस्याः विष्णुपत्नीत्वप्रयुक्तं सर्वपत्नीसाधारणम् । मातृत्वपितृत्वादिकं सर्वं भगवत एव । " पिताऽहमस्य जगतो माता धाता पितामहः" इति चागायि । तदपि वितृत्वमातृत्वादिकं भगवति, लोके तत्तत्प्रजानिरूपित पितृत्व मातृत्वाश्रय चेतन- विशेषान्तर्यामितानिबन्धनमेव । तदप्यस्या न भवति, सर्वशरीरित्वाभावात् । एवंभूतायाः पुरुषकारत्वादिकं भगवता स्वयमभिमानेन विश्राणितं वैभत्रम्, विष्वक्सेने विन्यस्तसमस्तात्मैश्वर्यवत् । अस्या अपि धर्मभूत ज्ञान विभुत्वप्रयुक्तंत्र सर्वव्याप्तिरित्येतदुपपादनभङ्गी । चतुःश्लोकी माध्योक्तम् अस्याः श्रियो विषये अणुत्वम्, अन एव जीवकोटिप्रवेशं चैतद्देश्याः केचिदभिप्रयन्ति । विभुत्वमेव परे । तत्र कतिपये अणुचेतनत्वरूपं जीवलक्षण - मुपेक्ष्य परतन्त्रचेतनत्त्रमिति लक्षणकथंनन जीवकोटिप्रवेशं समर्थयन्ते I विभ्वी परतन्त्रा चेयं पतिपुत्रव्यावृतपत्नीन्यायेन जीवेश्वरकोटिविलक्षणेत्यपरे । विभूतिद्वय शेषित्वमीश्वरलक्षणमिति व्युत्पाद्य विळ्या अस्या ईश्वरकोटिप्रवेश- मितरे । एतेषु चतुर्ष्वपि पक्षेषु पत्यावत्रैश्वर्यविश्रमः । स्वतन्त्रपतिनित्ये च्छा सिद्धं पुनरस्याः सर्वमैश्वर्यम् । अन्ये पुनः सर्वभूतेश्वरत्वादिवचनसाम्यादस्याः पतिपारतन्त्र्यमुभयेच्छाप्रयुक्तमिति प्रतिपादयन्ति । चतुःश्लोकीमध्ये च श्रीदेशिक चरणैरिमान् पक्षान् उपन्यम्योपादोरी,- “पश्चस्त्रेतेषु पक्षेषु कश्चिदेकः प्रमाणवान् । सलक्ष्मीकस्य साम्राज्यं सर्वथा सुप्रतिष्ठितम् ॥ इहैवं कचिदंशे तु संशयेऽपि विपश्चिताम् । उपयुक्तांशवैशद्या दुपायफलसंभवः ॥” इति । तत्रत्रयाधिकारादौ च पञ्चमे पक्षे स्वयमादरः प्रादर्शि । न्यायसिद्धाखनोक्तम् न्यायसिद्धाञ्जने चेश्वरपरिच्छेदे – श्रियः श्रियः पतेश्च “ज्ञानानन्दा- ह्यत्यन्त साम्यात् जगज्जन करवशेषित्वश२०११वप्र यत्वादिसाम्याच्च साम्यगिरा cxxvii निर्वाहो व्यक्तः । एकत्ववादा अप्येवं द्वन्द्वरूपेणात्यन्तसमतया प्रकारैक्येन समस्तात्महविः प्रति उद्देश्यैकदेवतात्वादिवेषेण वा निर्वाह्याः” इत्यादिना जगत्कारणत्वोपायत्वादिकं स्वाभिमतं स्पष्टमदर्शि श्रीदेशिकचरणैः । श्रीविष्णुपुराणगतिः I “पुंनामा भगवात् हरिः । स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते परम्” इति श्रीविष्णुपुराणे नामभेदमात्रकृतो विभाग इत्यवगमादविशेष उभयोरिष्टः प्रतीयते । एवमत्र ‘नानयो:’ इति वाक्यस्य अनयोर्मध्ये परम् उत्कृष्टमेकं न विद्यते इत्यर्थभिधायकतया तौल्यमेव दम्पत्योर्विज्ञायते । न हि आम्यामन्यत् परं नास्तीत्येतादृशार्थप्रसक्तिरिहास्ति ; उदक्षरत्वात् । एवमर्थवर्णनेऽपि एनयोर्मध्ये यत् परम्, ततः परमन्यन्नास्तीति वक्तव्ये उभौ युगपद् गृहीत्वा आभ्यां परं नास्तीति वचनमेनयोः परत्वं तुल्यरूपमिति दर्शयेदेव । उपदेशस्थलादतिदेशस्थलस्य न्यूनत्वं यदत्र ग्रन्थे निरदेशि, नूनमिदमेव वा एतदनुरूपैकदेशिकथितं वा श्रीमति रहस्यत्रयसारे तत्रानूद्य तात्पर्यमदार्शि, " अत्र दण्डधरत्वं पुरुषकारत्वादयश्च भगवतो लक्ष्म्याश्च स्वकीयतया विभक्ता व्यापाराः । ’ उपदिश्यमानधर्माधारापेक्षया अतिदिश्यमानधर्माधारस्य विशेषः (वैषम्यं) स्वतः प्राप्तः’ इति मध्यस्थोक्तेरपि एवं विभागप्रयुक्ते वैषम्ये तात्पर्यम् । इदं ‘युवत्यादौ तुल्येऽपि’ इति श्लोके निर्णीतम्” इति । विष्णुचित्तीयम् अतिदेशवचनं तावत्, “यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम”, “नित्यं तद्धर्मधर्मिणी’ इत्यादि । तत्र प्रथमवचनव्याख्याने . श्रीविष्णुचित्तीये सर्वांशातिदेशाभिप्रायेण, “सर्वगतो विष्णुः यथा - यत्स्वभावः, इयमपि तथा — तत्स्वभावेति सर्वगतत्व सत्यज्ञानादिस्वरूप कल्याणगुणादीना- मतिदेशः” इति प्रथमं व्याख्याय, पश्चात् स्वरसगतिमनुरुध्य, “अथवा भगवान् विभुत्वेन सर्वगतः; इयं च सर्वगता” इति व्याख्यायि । “यो लोकत्रयमाविश्य” इत्यादाविव व्याप्तिवचनमिदं व्याप्तेर्नियमनार्थतया नियमनस्यापि प्रतिपादकम् । अत एव ‘यथा सर्वगतः’ इति वाक्यस्य उभयोरेकाभिप्रायतापरत्वं सिद्धोपायशोधनाधिकारेऽभिमतमासीत् । “अर्थों विष्णुरियं वाणी" इत्यादीन्युपरितनानि वचनानि अस्यार्थस्योपपादनाय प्रवृत्तानीति चक्षुष्मतां सुदर्शम् । इदमपि व्याख्याने प्रादर्शि, “तयोः सर्वात्मकत्वम्, अनपायिखं चोपपादयति अर्थ इति” इत्यवतरणमुखेन । cxxviii तदर्थविमर्शः तत्र प्रघट्टके स्त्रीलिङ्ग निर्दिष्टानामियमात्मा, पुंल्लिङ्गनिर्दिष्टानां भगवानात्मेति प्रतिपन्नम् । न केवलमेतत् ; एकमेव वस्तु पुंल्लिङ्गेन निर्दिश्य भगवदात्मकम्, स्त्रीलिङ्गेन निर्दिश्य लक्ष्म्यात्मकं चावाचि ! यथा “नीतिरेषा नयो हरिः " इत्यादि । अत्राप्यर्थभेद एवेति चेत्, काममत्र प्रयत्यताम् । यावदुक्तपदार्थ- निरूपितमात्मत्वं तावत् श्रिय एष्टव्यम्, आनुरूप्यात् । इदं चात्मत्वं शेषित्वाभावे. कथं स्यादिति शेषित्वम्, तदविनाभूनमाचारत्वं नियन्तृकं च निर्विचिकित्समभ्युपेत्यम् । यदा तु शब्दभेदमातेणैव विभागः, शोधने तु सर्वात्मत्वमेवोभयोरनयोर्भङ्ग्या निरुरूपयिष्यत इति विमृश्यते, तदा सर्वशेषित्वमपि सुस्थम् । नूनं शरीरवाचकानां शब्दानां शरीरिपर्यन्तत्वात् दिव्यदम्पत्योश्वाविशेषेण सर्वशरीरित्वात् तत्र शब्दोपात्तपुंस्त्वस्त्रीत्यैकत्वा- न्वयानुकूलं दम्पत्योरेकतरस्य शब्दतो विवक्षितत्वमस्तु | अन्यतरलाभस्तु तयोगीढोपगूढत्वादार्थिकः स्यादवश्यमपेक्षायाम् ’ इति बोधयितुमेवं विभागेन भाव्यमित्यप्यालोचनीयं भवति । एवंच भगवदविशेषमियमप्याराध्यापि भवतीत्याद्यन्यदेतत् । एवं स्त्रीणां तदभिमन्यमानत्वं वस्तुतः पुंसां भगवदभिमन्य. मानत्वं च तत्र तत्र स्त्रीत्व पुंस्त्वप्रयुक्तन्र दिनस्वातन्त्र्यादिगुणजात संपत्स्यर्थमित्यपि स्यात् । तथा चोपरि विष्णुपुराणग्रन्थे विभागप्रदर्शनात् तदनुरोधेन श्रीदेशिक- चरणैर्मध्यस्थवचनस्य विभागविषयकत्वतात्पर्यं वर्णितम् । अत्र मध्यस्था इत्युक्त्या त एवं वक्तारः संप्रति एतद्देशप्रसिद्धस्व संबन्धि श्रीवैष्णव संप्रदायैकदेशि- संप्रदायोभयसबन्धिगुरु परम्पराद्वयेऽप्यनिविष्ठा इति विवक्षितमित्र । स्वरूपरूपादिषु एनयोरतिगाढः संश्लेषविशेषश्च, “व्यापकावतिसंश्लेषादेकत स्वमेवोदितौ " इति प्रमाणसिद्धः श्रादेशिकचरणै: ख्यापितः 1 अयमतिसंश्लेष एव नित्यसूरिनिवहापेक्षया अस्या वैलक्षण्योपयोगि विभुत्वं व्यनक्ति । " सर्वाणि तान्याहुः स्वैरनुरूपरूपत्रिमत्रैर्गाढोपगूढानि ते” इति इदमदर्शि श्रीभगवद्यामुन- मुनिभिः । श्रुतिष्वेकतस्तया व्यवहारः अत्यन्तावैलक्षण्यप्रयुक्त इति स्वल्चत्र “एकतत्त्वमिवोदितौ” इत्यनेन प्रत्यबोधि । उपदेशातिदेशवैषम्य विचारः उपदेशादतिदेशे वैषम्यमितीदमपि तावद्विमर्शमर्हति । उपमानापेक्षयो- पमेये आधिक्यसद्भावेऽपि, ‘यथातथा’ प्रयोगो दृश्यते । ‘इयुद्गच्छति सविता’ इति हि प्रयुक्तम् । ‘समुद्र द्वव गाम्भीर्ये’ इति श्रीरामो वर्ण्यते । ‘राजीवलोचनः ’ cxxix इत्यादि च । एवम्भूतस्थलेषु हि उपमेये उत्कर्षो निर्विवादः । एवमपि दृष्टान्त- प्रदर्शनं बुद्धयारोहाय । विवक्षितांशे दिक्प्रदर्शनमात्रमेतत् । अतोऽतिदेशे निकर्ष एवेति न नियमः । यत्र तावत् कर्मविधिः प्रकृतिविकृतिभाव इष्टः, तत्रातिदि- श्यमानधर्माधारे उपदिश्यमानधर्माधारापेक्षया औपदेशिकानेकविशेषान्तराणामपि सद्भावान्मुखान्तरेण प्रकर्ष एव निष्प्रकपोऽस्ति । अतः श्रुतिषु परमपुरुषस्यैव विशेषतः श्रावितत्वात् ज्ञातं वस्तु यथेति प्रदर्श्य ज्ञापनीयस्य तथेति प्रतिबोधनमित्यस्य निश्चप्रचत्यात्, तत्साम्यं लक्ष्म्यां बोध्यते पुराणादिषु श्रुत्यन्तरमूलेषु । पतिपत्नी मात्रादिमूलस्वातन्त्र्यपारतन्त्र्ययोः स्वयमेव तयोरिष्टत्वात् श्रुतिः परमपुरुषं प्राधान्येन निर्दिशति दम्पत्योवनात्वे ईश्वरद्वित्वादिदोष- शङ्काप्रसङ्गपरिहाराय । “पुम्प्रधानेश्वरेश्वरीम्” इति भगवन्तं प्रति ईश्वरत्वं प्रणयित्वनिबन्धनं सर्वेष्टम् । यदि पुनः ‘यथा विष्णुः तथेयम्’ इत्यनिदेशप्रकारं विहाय प्रकारान्तरेण श्रीरियं विशेषेण वर्खेत, – सर्वज्ञा सर्वव्यापिनी, सर्वकारणमित्यादिरीत्या, तदा अनन्तगरुडब्रह्मरुद्रेन्द्रनयेनेयमपि स्तूयत इति केचिन्मन्येरन्, तदा चास्या यथावस्थितं माहात्म्यमनभ्युपगतं भवेदिति बिम्यदेव विष्णु- पुराणादिकमस्या भगवत्साम्यं पुष्कलमवगमयितुम्, ‘यथा विष्णुस्तथेयम्; न पुनरनौपचारिकार्थग्रहणं युक्त’ मिति प्रतिबोधयितुमेवातिदेशप्रणालीमाद्रियत इंति सहृदयैर्भाव्यम् । न च स्तुतिवचनानां स्वार्थे तात्पर्य नास्तीति वयं वक्तुं प्रभवामः । कबन्धमीमांसकमतं हि तत् । असति बाधे यथाश्रुतार्थपरत्वं हि स्तुतिवचनानां भगवद्भाष्यकृदिष्टम् । व्यक्तमिदं देवताधिकरणे । न ह्यसता गुणेन कथितेन नुतिर्भवतीति नः सिद्धान्तः । अस्य ग्रन्यकृतः परमाचार्याः श्रीराम मिश्रा एव " उभयाधिष्ठानं चैकं शेषित्वम्” इति यदेव शेषित्वं भगवति, तदेव देव्यामस्यामपीति दर्शयन्तः, तस्यैकस्य शेषित्वस्य भगवतीव लक्ष्म्यामप्यात्मस्व प्रयोजकत्वमाविष्कुर्वन्ति । अन्यथा हि विष्णुपुराणादिकृताः समानाधिकरणनिर्देशाः सर्वे कदर्थिताः स्युः । उत्पादकत्वविशिष्टपुंस्त्वरूपं पितृत्वं परस्य पुंसः, तादृशस्त्रीत्वरूपं च मातृत्वमस्या मुख्यमेव भवितुमर्हति ; न पुनरन्यदिव्यमहिष्यविशेषमौपचारिकं मातृत्वमित्यपि विभाव्यम् । अधिकमन्यत्र । श्रीप्रभावविषये भगवद्भाष्यकारांणामाशयं तन्निरन्तरपरिचरणपरायण सार्वकालिकसंनिधान भाग्यधन्य- वेदान्तोदयनोपाख्या- त्रिख्यातवैदुष्यातिशयश्रीमदात्रेयप्रणतार्तिहराचार्यवर्यमुखात् यथावदधिगन्तुं

CXXX श्री पराशरभट्टार्यप्रधान शिष्याणां श्रीनञ्जीयर् प्रभृतीनामाचार्याणां यत् सौकर्यम्, तन्मन्ये देशविप्रकर्षादिना एतद्ग्रन्थकारपूर्वपुरुषाणां नासीदिति । अथवा पूर्वपुरुषाणां तदासीदेव ; यतः श्रीराममिश्रसूक्तिर्मितगम्भीरा न्यायसिद्धञ्जने निर्णयायोदाहारि । श्रीतत्त्वसिद्धाञ्जननामनि च निबन्धे साक्षात्स्वामीतिविख्यातै ज्ञानानुष्ठानवैराग्यशेवधिवेदान्तरामानुजयतीन्द्रैः श्रीमन्निगमान्तमहादेशिकाभिमतपक्षनिर्धारणं निष्प्रकम्पं निरटङ्कि | कैवल्यम् पुरुषार्थेषु अचिदनुभवरूपमैश्वर्यमिव, परिपूर्णब्रह्मानुभवरूपं नि.श्रेय- समिव च आत्मानुभूतिरूपं कैवल्यमपि फलं सांप्रदायिकम् । एवंश्च तत्येष्विव तदनुबन्धिषु पुरुषार्थेष्वपि त्रित्वं साम्प्रतं वर्णितं भवति । तत्र कैवल्यमपि परममोक्षवत् स्थिरम् ; तदश्नुवानस्य न पश्चान्नि श्रेयस प्रसक्तिरिति केचित् । प्रकृतेखि आत्मनः स्थिरत्वेऽपि ऐश्वर्यमिव कैवल्यमप्यस्थिरमिति न्यरूपि श्रीमन्निगमान्तमहादेशिकैः । श्रीगीताभाष्ये सप्तमे, “आत जिज्ञासुरर्थार्थी” इत्यत्र जिज्ञासुरात्मावाप्तिरूपकैवल्यच्छुरपि भगवद्भक्तको दर्शितः । तेन भक्त्या कैवल्यप्राप्तिरिति सिध्यति । कैवल्य कामस्यास्य पञ्चाग्निविद्योक्तक्रमेणोपासनम्, अर्चिरादिगतिः, “स एनान् ब्रह्म गमयति” इत्युक्त्या ब्रह्मप्राप्तिः, अत एव ब्रह्मात्म- कस्वात्मोपासनञ्चाष्टमे स्पष्टमभाषि । एवमपि त्रयोदशारम्भ अवतरणिकायाम्, “आत्मकैवल्यमात्रापेक्षाणाश्च” इति कैवल्यम त्रस्य भक्तिसाध्यत्वमन्वभाषि । सति ब्रह्मानुभवे, कैवल्यमात्रेति मात्रशब्दप्रयोगो नूनम् ‘प्रथमं कैवल्य- मानानुभवः कञ्चित् कालम्, अथ ब्रह्मानुभवोऽपि’ इत्यभिप्रायेणेति मन्ये विमृश्य कैवल्यस्यान्तरालिकफलत्वं श्रीदेशिकचरणरदर्शि । केवलकैवल्याक्षेपः अत्रैवं विमर्श उदेति - एवं गीताभाष्यदर्शितान्तरालिक कैवल्यातिरिक्तके- वलकैवल्यमात्रसाधक उपायोऽस्तीत्यत्र किं प्रमाणम् ? न तावत् श्रुति: ; सा किं प्रजापतिवाक्यम्, किं वा भूमविद्यातर्गतप्राणविद्या, यद्वा “विज्ञानं ब्रह्म चेद्वेद” इति तैत्तिरीयम, आहो “अध्यात्मयोगाधिगमेन देवं मत्वा” इति कठोपनि- अन्यद्वेति । आद्यं दहर विद्याशेषभूतं परभक्त्युप योग्यात्मावलोकन साध- बत्, नपरमिति भाष्ययोः स्पष्टम् । 1 अतस्तत्र ऊर्ध्वलोके प्रेत्य प्रत्य- किंचिद्गमकमस्ति | किंच तत्र अपहृतयात्मत्वादिसत्य कामत्व सत्य संकल्पत्य विशिष्टजीवोपासनस्यैव विहितत्त्रात् गात्मानुभव उच्यत इत्यत्र न cxxxi तत्क्रतुनयेन तावद्धर्मप्राप्तिरूपफलस्यावश्यकत्वेन तस्य चापवर्ग एत्र संभवेन केवलकैत्रल्यप्राप्तिस्ततो न घटते । न च प्राणविद्या; तत्र श्रुतौ नामाद्युपासने- ष्विव फलविशेषस्या कीर्तनात् तस्या अपि सत्यभूतपरमात्मोपासनाङ्गत्वस्यैवाव- धारणात् । नापि तैत्तिरीयम; तत्रापि " शरीरे पष्मनो हित्वा” इति मुक्ति- कथनात् तदुपासनस्य तच्छेषत्वात् । न च ब्रह्मदृष्टयोपासनस्यैव तत्र, “विज्ञानं ब्रह्म चेद्वेद” इत्यनेनोक्तत्वात् कथं दृष्टेर्मुक्तिरिति शङ्कयम् ; फलस्योक्त- त्वादेव दृष्टिविधित्वा स्वीकारात् ; पश्चाग्निविद्यावदेव तदर्थोपपत्तेः । कठश्रुतिस्तु अङ्गभूतात्मोपमनपरेति व्यक्तम् । अन्यदपि वचनमीदृशंमेव संभाव्यते । श्रीगीताप्रथमषट्कोक्तकर्मयोगाद्यनुरोधेन स्मृत्यनुमेया श्रुतिरपि न केवलकैवल्यं साधयेत् । अनुमापकस्मृतिवचने पूर्वषट् के ऐहिकादात्मावलोकन | दन्यस्य तादृश- फलस्य कीर्तनादर्शनात् । किंच श्रीकृष्णार्पणबुद्ध्या सात्त्विकत्यागपुरःसर- कर्मानुष्ठानस्यैव तत्र विधानात् तस्य भगवत्प्राप्तौ पर्यवसानमेव साम्प्रतम् ; न तु कैवल्यमात्रे विश्रमः । अतो मा भूत् केवलकवल्यमिति । तत्स्थापना अत्रोच्यते - सर्वतीर्थकर संमतस्य केवल कैवल्यस्य सिद्धान्तेऽपि स्वीकारे न काचित् क्षतिः । “कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति” इति वचनात् श्रीमदष्टाक्षरत्य कैवल्यमपि फलं स्वीकार्यम् । श्रीभगवद्यामुनमुनिभिश्व ‘” आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः" इति कर्मयोगादिमात्रसाध्यं कैवल्यमपि समग्राहि । अत एव श्रीगीतास्वपि तादृशं फलमभिमतमिति स्वीकारो वरम् । चतुर्दशाध्यायान्ते च, “ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ इति चकारत्रयसूचितं क्रमात् कैवल्यैश्वर्यपवर्गरूपफलत्रयमिति यथावद् माध्येण सह परामृशतां सुगमम् | परमा गतिः कैवल्यरूपेति, “अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् " इत्यत्र विदितम् । अत ऐहिकस्यात्मानुभवस्यैत्र पूर्व प्रायो ग्रहणेऽपि षष्ठ निगमने, “अनेकजन्मसंसिद्धस्ततो याति परां गतिम्” इति तत्पदप्रयोगात् ऐहिकशुद्धात्मानुभववत् आमुष्मिकतदनुभवोऽपि विवक्षितुं युक्तः । अतस्तदनुरूप उपाय उन्नेयः । अविद्वत्कर्तृकः कर्मयोगः, विद्वत्कर्तृककर्मयोगेऽपि, “मयि सर्वाणि कर्माणि संन्यस्य” इति भगवदर्पण त cxxxii इति इव “गुणा गुणेषु वर्तन्ते” इति गुणेषु कर्तृव्यारोपघटितोऽपि कश्चिदुक्तोऽस्ति । श्रीषट्सहस्रिकायां च प्रथमद्वितीयपश्चमगाथाव्याख्याने, (१-२-५ विषयसङ्गत्यागे प्रकृतिविनिर्मुक्तः सुखरूप आत्मा अनुभूयत एव । स्थिरपुरुषार्थलिप्सायां तु आदौ विषयसङ्गवेलायामेव भगवन्तमाश्रित्य विषयास्त्याज्या: ’ इत्युपदेष्टम् । भगवदाश्रयणं विनापि वैराग्यपूर्वकं किञ्चिदनुडाने कैवल्यमुक्तिर्भवतीत्यर्थस्येते ऽवगमात् तदनुष्ठानम्, “गुणा गुणेषु वर्तन्ते” इत्युक्तरीत्या स्यादिति भाव्यते । अस्तु तावदविशेष एव कर्मयोगाद्यनुष्ठाने; कैवल्यसिद्धये अमानित्वादेखि, “मयि चानन्ययोगन भक्तिरव्यमिचारिणी”, “मांच योऽव्यभिचारेण भक्तियोगेन सेवते” इत्यविशेषेण भगवद्भक्तेरप्यावश्यकत्वस्य, प्राधान्यस्यैव वा प्रतीयमानत्वात् । अतो गाथा- तद्भाष्यदितात्पर्यं तावत् न भगवदाश्रयणं विनापि कैवल्यं सुलभमित्येवंरूपम् ; किंतु आकर्षके आत्मानुभवे यथा मे न पातः स्यात्, तथा मुख्यमाक्षे मां प्रेरयेति विशिष्य भगवदाश्रयणमादौ कार्यमित्येवेति । अथापि केवलकैवल्य- कामस्यात्मस्वरूपचिन्तने सर्वजीवात्मसाम्यजीत्रपरमात्मसाम्याद्यनुसंधान सध्रीची- नेऽपि परमात्मशेषत्वाद्यनुसंधानासंवलनाद् भेदो भवितुमर्हति । कति कति सन्ति कर्मकाण्डविहितानि कर्माणि, यानि अङ्गोपाङ्गप्रधानांशेष्वनुष्ठाने मात्रयापि भेदवैधुर्येऽपि कामनाभेदमात्रेण विचित्रं फलन्ति । अतो विनियोगपृथक्त्वबलात् सर्व संपद्यत इति किमत्र बहुना ? मा भूत् प्रजापतिवाक्यमत्र प्रमाणम् ; प्राणविद्या तु भवितुमर्हति ; पूर्वपूर्वोपासनेषु फलश्रवणादत्रापि तदौचित्यात् । अत एव “विशेषं च दर्शयति” इति सूत्रे माध्ये प्राणविद्याया अप्यन्यत् फलं श्रुत्यभिमतत्वेन भाषितम् । “अतोऽन्यदार्तम्” इति तत्र श्रुतिवाक्ये तत्फलमपि संगृहीतं मन्तव्यम् । शेषं तत्रास्मदीयोपनिषद्भाष्यपरिष्कारे । तैत्तिरीयवाक्येऽपि " तस्माच्चेन्न प्रमाद्यति” इति श्रवणात्, यदि प्रमादेन भगवत्प्राप्तिमनुद्दिश्य विज्ञान ब्रह्मोपासनं कुर्यात्, स न मुक्ति लभेतेत्यवगमनात् कैवल्यमात्र फलकं दृष्टयपासनादिकमिति सूचितं भवति । एवंभूतोपासनस्थितिश्च कार्याधिकरण- भाष्य एव व्यक्ता । अतोऽस्त्येव केवलं कैवल्यमपि । पुनर्गीता मवलम्ब्यैवाक्षेपः अथ स्यात् — द्विविधो जीवात्मानुभवः ऐहिक आमुष्मिकश्च । उभयोऽपि आत्मप्राप्तिरिति व्यवहियते गीतासु । अष्टादशे हि -cxxxiii “ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||” इति भगवद्भक्त्यङ्गभूतमात्मावलोकनं ब्रह्मभूयायेत्यादिशब्देन निरदशि । ततः प्राक्, “सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे” इति ब्रह्मप्राप्तिरूपमुक्तम् सिद्धिश्च तत्रोक्ता नैष्कर्म्यसिद्धिः सर्वेन्द्रियकर्मों- परतिरूाध्यानयोगात्मिकेति तत्पूर्वश्लोकादवगम्यते । इयं सिद्धिः इयं ब्रह्मप्राप्तिश्चैव षष्ठान्तेऽपि “अनेकजन्मसंसिद्धस्ततो याति परां गतिम् " इत्यत्रोच्यत इति औचित्यादिसिद्धम् । एवंच ततः प्राक् पञ्चमाध्याये च “ब्रह्मनिर्वाणमधिगच्छति” इत्यादिनोक्तमप्येवम्भूतमेवेति नूनमयमात्मानुभव ऐहिक एव स्थूल देहेन ध्यानोपयुक्तेनैवेोत्पाद्यमानः । अन्यस्तु आमुष्मिकोऽष्टमाध्या- यतोऽवगम्यते । तत्र हि, “जरामरणमोक्षाय मामाश्रित्य यतन्ति ये” इति जरामरणमोक्षात्मकं कैवल्यं प्रस्तुत्य, “प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः” इति प्रायणकालिक योगसाध्यत्वं तस्य यत् सप्तमे कीर्तितम्, तद्विवरणरूपे- Sध्याये, “अन्तकाले च मामेव स्मरन् मुक्त्वा कलेबरम्” इत्यन्यभक्ताविशेषं जिज्ञासोरपि प्रायणकालिक भगवत्स्मरणमुपवर्ण्य, विशिष्य च “मूयधायात्मनः प्राणमास्थितो योगधारणाम् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् " इति परमगतित्वेन प्रसिद्धात्मानुभूतिः देहावसानानन्तरभाविनी निगदिता । तथा “यत्र काले त्वनावृत्तिमावृत्तिं चैत्र योगिनः” इति गमनमार्गो Sप्यदर्शि । तत्रामुष्मिकस्यात्मानुभवस्य “यं प्राप्य न निवर्तन्ते तद्धाम परमं मम” इति अपुनरावृत्तिरूपत्वकथनात् जीवात्मनः परमात्मनो वा भवतू- पासनम्, आमुष्मिकं फलमुभयत्र । विशिष्टमिति ज्ञायते । अत एव सा ‘परमा गतिः’ इति गीयते । द्वादशे चाध्याये भगवदुपासकस्य जीवोपासकस्य वा योगवित्तमत्वमिति प्रश्न समाहितम् — जीवोपसका ये, “ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः” इति । एवमुभयेषामपि भगवत्प्राप्तिमुक्त्वा " क्लेशोऽधि- कतरस्तेषामव्यक्तासक्तचेतसाम् " इति जीवोपासकस्य क्लेशाधिक्यमित्येतावदेव वैषम्यमदर्शि, न फले वैषम्यम् । अपहतपाप्मत्वादिसत्य का मत्व सत्य संकल्पस्व- पर्यन्तगुणविशिष्टजीवात्मध्यानरूपज्ञानयोगलम्भनीयश्चात्मप्राप्तिरूपोऽनुभव ऐहिको यद्यपि स्वरूपलाभात्मको मा भूत्, आमुष्मिकस्तु स्वरूपाविर्भावरूप एव युक्त इति कथं तस्याविर्भूतब्राह्मरूपस्य परममुक्तवैलक्षण्यम् अतः cxxxiv कैवल्यमिति पृ”कूफलं किञ्चिदरतीत्यत्र न प्रमाणम् । युक्तश्च प्रकृतेर्नित्यत्वेऽपि ऐश्वर्यस्य प्रकृतिपरिणामसाध्यत्वादनित्यत्वम् । न तु कैवल्यस्यापरिणतात्मगो- चरस्येति– आक्षेपपरिहारः उच्यते— कैवल्ये अपुनरावृत्तिश्रवणमात्रात् कैवल्य भगवत्प्राप्तयोरैक्यं कथं सिध्येत् ! फलभेदेऽपि तत्संभवात् । परंतु अपुनरावृत्तिश्रवणस्य जिज्ञासुविषयकत्वात् जिज्ञासोश्च पञ्चाग्निविद्यानिष्ठत्वात् तस्य च ब्रह्मप्राप्तेः श्रुतौ स्पष्टतया तद्विषये श्रुत्युक्तत्रापुनरावृत्तिरिहापि गीयत इति न दोषः । तर्हि ब्रह्मप्राप्तिसद्भावात् फलैक्यमेवेति चेत् किमिदं गीताषष्ठान्ताध्यायकथितो- पायनिष्ठविषये, उत सप्तमोक्तजिज्ञासु विषथे ? नाद्यः, तत्र परब्रह्मप्राप्तिरूपफलस्य ज्ञानयोगादिसाध्यत्वेनावर्णनात् । तत्र चतुष्प्रकारा विपाकदशा वर्णिता । ततो ज्ञानानन्दस्वरूपत्वम्, अपहतपाप्मत्वादि, असंकुचितज्ञानत्वम्, औपाधिकाकारानुपसृष्टत्वं चेत्यंशचतुष्टयवत्तया आत्मध्यानमवगम्यते, न तु परब्रह्म- शेषत्वस्यापि ध्यानमावश्यकमिति । जिज्ञासुस्तु सप्तमोक्तः पञ्चाग्निविद्यानिष्ठो ब्रह्मशेषतैकरसस्वात्मानुसंधानपरो ब्रह्मप्राप्तिरूपफलभागिति संप्रतिपन्नम् । “यदक्षरं वेदविदो वदन्ति”, “ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्” इति च व्यक्तमगायि तस्य भगवदुपासनमिश्रत्वम् । पञ्चाग्निविदः फलवैलक्षण्यस्यावश्यकता अस्तु तर्हि पूर्वषट्कोक्तोपायनिष्ठस्यैहिकात्मानुभवमात्रं फलम् ; जिज्ञासोश्च भक्तान्तराविशेषं परममुक्तिरूपं कैवल्यगर्भं फलम् । ततश्च न पृथक् कैक्ल्यं नाम किञ्चिदस्तीति । न ; उपासनवैलक्षण्यात् फलेऽपि वैलक्षण्यस्या- वसायात् । ननु दहरवैश्वानरादिविद्यानामत्यन्तवैलक्षण्येऽपि “विकल्पोऽवि- शिष्टफलत्वात्” इति फलवैषम्याभावः संप्रतिपन्नः । सत्यम् । तत्र सर्वत्रोपासने विशेष्यभूतस्य ब्रह्मण एकत्वात् फलैक्यम् ; इह तु विशष्यं जीवात्मस्वरूपमिति विशेषात् फलवैलक्षण्यमेष्टव्यम् । कथं विशेष्यभेदोऽवसीयत इति चेत् " तद् य इत्थं विदुर्ये चेमे” इति पृथनिर्देशादित्युक्तमेत्र भाष्यादौ । ननु कस्याश्विद् विद्यायाः प्रस्तावावसरे, ‘य इमां विद्यां विदुः, ये चान्यामन्ये, ते उभये फलमिदं प्राप्नुवन्ति’ इति वचनमङ्गीं विना कथमन्यथा सर्वविद्या- कोडाकारेण वचनप्रवृत्तिः स्यात् ? अतः पृथनिर्देशः एकस्या विद्यायाः प्रस्तुतत्वमात्रादुपपद्यत इति नेदमुपासनाविशेष्यभेदव्यवस्थापकमिति चेत्— CXXXV स्यादेवम् । यदि ‘य इत्थं विदुः ये चान्यथा’ इति निर्दिश्येत । इह तु परत्र, " श्रध्दा तप इत्युपासते”, “श्रध्दां सत्यमुपासते” इति तपःसत्यपदद्वयाभिधेयस्य कस्यचित् कथनात् “तथ इथं विदुः " इति पूर्ववाक्ये तपआदिपदवाच्यार्थ- विशेष्यकत्वाभावस्यावगमात् किमन्यदुपास्यं स्यादिति विमर्शे जीवस्वरूप- निरूपणैदम्पर्यस्य पञ्चाग्निविद्यायां निर्धारितत्वात् जीवात्मविशेष्यकोपासन- ‘मत्रेत्यवसीयत इति । एत्रमपि ब्रह्मप्राप्तिरूपफलश्रवणाद् ब्रह्मणो जीवात्मविशेष- णतयापि वा अन्तत उपास्यत्वमूरीकर्तव्यमासीत् । अतः फलवैलक्षण्यं युक्तम् । तत्र जीवात्मप्रधान कोपासनरूपोपायानुरूपं तत्प्राप्तिरूपं फलमेवेष्यते । अर्चिरादिगत्यादिश्रवणाच्च परमं फलमपि पश्चादित्युच्यते । सर्वयैौगपद्ये च पुनरविशेष एव स्यात् । अत एव त्रयोदशारम्भे गीताभाष्ये कैवल्य मात्रा - पेक्षाया जिज्ञासौ कीर्तनमपि प्रथमं कश्चित् कालं भगवदनुभवविधुरात्मानु- भत्र चिकीर्षापरमुपपद्यते । ननु द्वादशे अक्षरोपासनस्य, ते प्राप्नुवन्ति मामेव’ इति ब्रह्मप्राप्तिरेव फलं गीयते, एवकारात् । तत् एवकारात् । तत् कथं पृथक् कैवल्यमपि फलमिति चेत् — तत्र ‘ते मां प्राप्नुवन्त्येव’ इति हि योजना क्रियते नन्वेवमपि केवलकैवल्यमात्रफलस्याभाव एव; अक्षरोपासन सामान्यस्य मामिति भगवत्प्रापकत्वावधारणादिति चेत् न; मामित्यस्य मत्सधर्माणं जीवात्मानमित्यर्थ- वर्णनात् तस्य चात्मानुभवस्य सर्वाक्षरोपासक साधारण्यात् । द्वादशाध्याय प्रश्नविषयविवेकः नन्विदं प्रकरणं न सर्वविधाक्षरोपासक विषयम् ; शुद्धजीवोपासकस्य परमात्मोपासकस्य चोपास्यवैलक्षण्याधीनस्य तारतम्यस्य स्वत एव सुग्रहत्वात् । षष्ठान्ते, “स मे युक्ततमो मतः” इति कथितत्वाच्च, ‘के योगवित्तमाः’ इति कथं जिज्ञासा ? अतः पञ्चाग्निविद्यानिष्ठविषयकत्वमेव “ये चाप्यक्षरमव्यक्तम्” इति प्रश्नस्य वक्तव्यम् । अत इह जीवात्मोपासकसामान्यग्रहणमयुक्तमिति चेन्न - उपास्यवैलक्षण्यप्रयुक्तस्य वैशेष्यस्य प्रागेव सिद्धत्वेऽपि किं जीवात्मोपासकस्य तत्फलं कैवल्यं शीघ्रं भवति, उत परमात्मोपासकस्य तत्फलं निःश्रेयसं शीघ्रमिति फलशैघ्रयप्रयुक्ततारतम्यस्यैवात्र जिज्ञासिततया, तस्य च पूर्वमज्ञाततया प्रश्नोपपत्तेः । कथमिदमवगम्यत इति चेत्-समाधानप्रन्ये CXXXVI “भवामि नचिरात् पार्थ”, “क्लेशोऽधिकतर तेषाम् " इति रौघ्रय विलग्वयोर्यथाक्रमं निर्देश त् । अन्यत्राप्येवं जातीयः प्रश्नो दृष्टचरः । यथा कर्मयोगज्ञान- योगयोर्मध्ये कर्मयोगस्य सुकरत्वाप्रमादत्वादिना ज्यायस्त्वस्य तृतीय एव व्यक्तत्वेऽपि षष्ठे ‘यच्छ्रेय एतयेोरेकम्’ इति पुनः प्रश्नः । तत्र “योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति”, “संन्यासस्तु महाबाहो दु- खमाप्तुमयोगतः” इति फलशै प्रयतदभावयेयिथाक्रमं कर्मयोगज्ञानयोगयोर्वर्णनात् प्रश्नस्तद्विषय इति यथा, तथेहापीति । प्रश्नवैयर्थ्यशङ्का ननु विषमो दृष्टान्तः । तत्र हि कर्मयोगापेक्षया ज्ञानयोगस्य शीघ्रफलव- मुचितम् आत्मावलोकनस्य मनस्समाधान साध्यतया तत्र चिन्तारूपज्ञानयोगस्य अञ्जसोपयोगादित्याशङ्कायाम्, ज्ञानयोगस्य दुःसाधत्वात् कर्मयोगस्य सुकरत्वाच्चात्रैव फलशैघ्रयमिति प्रदर्श्य ज्ञानयोगत्यागेन कर्मयोग पुरुषः प्रत्रर्त्यत इति युक्तम् । इह तु मुमुक्षोर्जीवात्मोपासनस्य भगवदुपासनस्य चोभयोरपिं तत्तत्फलार्थमनुष्ठानं क्रमेणावश्यकमित्येकतरस्याप्यपरित्यागात्, फलशैघ्रय निर्णयेन कर्तव्यस्य कस्यचिदभावेन, उभयस्यापि शैघ्रये विलम्बे वा, एकतरस्य कस्यापि शैघ्रये विलम्बे वा सर्वथा उभयानुष्ठानस्यावश्यकतया तद्विचारो व्यर्थ एवेति । तर्हि द्वादशाध्यायोपक्रम श्लोकस्य किं भवद्भक्त्या कैवल्यं लिप्सोः कैवल्यं शीघ्रं भवति, किं वा भवद्भक्तिं सर्वथा संत्यज्य अक्षरोपासनया तल्लिप्सोरित्यर्थः कैवल्यविषयोऽस्थिति चेन्न — सर्वथा

भगवन्तमपुरस्कृत्य उपासनपरस्य कैवल्यप्राप्तेरप्रामाणिकत्वात् । द्वादशे द्वितीयषट्कप्रस्तुतमोक्ष- तदर्थभक्तित्यागेनार्थान्तरवर्णने असामञ्जस्यात् । समाधानग्रन्थाञ्जस्याभावाच्च । अतः पूर्वरीत्यनुसारे तत्रापि विचारवैयर्थ्यमेवेति— (द्वादशाध्यायगत) प्रश्नतात्पर्यवर्णनम् अत्रोच्यते - अयमत्र फलशैघ्रय प्रश्नाशय उन्नेयः—ज्ञानयोगात् कर्मयोग एव ज्यायानिति तत आत्मावलोकनं संपाद्य भक्तियोगेऽवतरेदित्युच्यते । अल्पपुरुषार्थहेतुभूतस्य ज्ञानयोगस्यैव दुष्करत्वे महापुरुषार्थहेतुभूतस्य सुसूक्ष्मार्थविषयकस्य भक्तियोगस्य दुष्करतरत्वमेव स्थास्यति । एवञ्च ज्ञानयोगात् यावता विलम्बेनात्मावलोकनं फलम्, ततोधिकविलम्बेनैव स्यात् भक्तिफलम्, यदि तु कर्मयोगं विहाय ज्ञानयोग एवात्मावलोक- cxxxvil नार्थेऽनुष्ठीयेत, तदा मनस्समाधान पाटवस्यादित एव संपादितत्वात् भक्तियोगः शीघ्रं फलं प्रसुवीत । एवञ्च, ‘मत्कर्मकृन्मत्परमः’ इत्युक्तरीत्या कर्मयोगपुरस्सर - भक्तियोगसाध्यं फलं ज्ञानयोगसाध्यात्मावलोकनापेक्षया यदि विलम्बेन भवति, तर्हि ज्ञानयोगेन तत् फलं संपाद्य मनस्समाधान सौकर्येण भक्तियोगं शीघ्रमनुष्ठाय तत्फलं त्वरया लभेत ; न तु कर्मयोगस्य ज्यायस्त्वेपि तत्पूर्वक - भक्तियोगम् । अथवा ज्ञानयोगेन कर्मयोगानुष्ठानोपदेशवत् मनस्समाधानादि- सापेक्षभक्तियोगत्यागेन ज्यायोभूतस्योपायान्तरस्योपदेशः क्रियतां शीघ्रलब्धये । किश्च कर्मयोगेऽवतीर्णस्य भक्तियोगः पूथगनुष्ठेयो भवति । ज्ञानयोगेऽवतरंस्तु प्रथमतः पञ्चाग्निविद्यारूपेणैव तदनुष्ठाने प्रवृत्तः सन् एकेनैवोपायेन प्रथममात्मावलोकनं क्रमेण भगवः साक्षात्कारश्च लभेतेति उपायद्वयस्यानुष्ठेयत्वा- भावात् सौकर्यातिशयोऽपीति । समाधानगतिः अत्र समाधिर्द्वादशे उच्यते – ज्ञानयोगेनात्मावलोकनमतिक्लेशसाध्यम् । कर्मयोगेन शीघ्रमेवात्मानमवलोकितवता भक्तियोगे क्रियमाणे स भक्तियोगः स्वफलं शीघ्रमेव दास्यति न तु ज्ञानयोग आत्मावलोकनमिव विलम्बेन । अतः केवलज्ञानयोगं वा पञ्चाग्निविद्यारूपमात्मोपासनं वा नानुष्ठेयं त्वरमाणेन ; किंतु कर्मयोगः पूर्वम्, ततो भक्तियोगश्चेति । उद्घाटितपूर्वमेव प्रष्टुर्हृदयं मनसिकृत्य भगवान् उत्तरवचने, ‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ’ इति कर्मयोगं घटयति; ज्ञानयोगं च त्यजति । अशक्तस्याधस्तनपर्वणि स्थितिवर्णनावसरेऽपि ज्ञानयोगं परित्यज्य, ‘सर्वकर्मफलत्यागं ततः कुरु’ इत्यवोचत् । ’ श्रेयो हि ज्ञानमभ्यासात्’ इति श्लोकेऽपि कर्मयोगपश्चाद्भावी लक्ष्यभूतयोग एवोक्तः; न ज्ञानयोगः । ‘भक्तियोगस्थाने कर्म किञ्चिदुच्यताम्, ज्ञानयोगस्थाने कर्मयोगवत्’ इति प्रष्टुराशयं परिहर्तुमेव च, ‘यद्यप्यस्ति मत्कर्मनामा पाश्चरात्रादिप्रसिद्धः कश्चिदुपायः; सोपि अभ्यासनामकमन्यं द्वारीकृत्य व्यवधानेनैव भक्तियोगद्वारेव फलं दद्यात् ; न कर्मयोगः आत्मावलो कनमिव परमात्मलाभं साक्षात् ’ इति प्रकाशयितुम्, ‘अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय । अभ्यासप्यसमर्थोऽसि मत्कर्मपरमो भव’ इत्यगासीत् । मत्कर्म चेदम्, मत्कर्मकृदिति प्रागुक्तकर्मयोगो नेति संदर्भात्, उपरि, ‘अथैतदप्यशक्तोसि सर्वकर्मफलत्यागं ततः कुरु’ इति एतत्कर्म विहाय कर्मयोगे प्रवृत्तिविधानाच्च स्फुटीभवति । R

अतो CXxxviii प्रश्नाशयसारः द्वादशे प्रष्टुरर्जनस्यान्तराशयस्तावत् — कर्मयोगसाध्यस्य भक्तियोगस्य विलम्ब्य फलहेतुत्वात् तदनुष्ठात्रापेक्षया ज्ञानयोगानुष्ठायी योगवित्तरः; कर्मयोगानुष्ठानपेक्षया शीघ्रमात्मावलोकन रूपफलभाक्त्वाभावेऽपि तन्मूलभक्तियोगानुष्ठात्रपेक्षया शीघ्रं स्वफलभाक्त्वात् ; एवम्भूतपुरुषानुष्ठेयस्य भक्तियोगस्य शीघ्रफलप्रदत्वसंभवाच्च । अतः कर्मयोगं विहाय ज्ञानयोगं ततो भक्तियोगश्चानुष्ठातुं साम्प्रतमिति । ननु प्रारब्धकर्मवसानभाविनो भक्तियोगफलस्य ज्ञानयोगफलापेक्षया शैघ्रयं किं नामेति चेत् — भक्तियोगफलमिति अनुपोष्यामृतत्वं प्रीतिरूपदर्शन- समानाकारतारूपदशैव वाऽत्र विवक्ष्यते ; न तु मोक्ष इति । वैयर्थ्य परिहारोपसंहारः " एवञ्च प्रश्नस्य साभिप्रायत्वाद् विचारोऽयं न व्यर्थः । एतद्विचारणैव पञ्चाग्निविद्यानिष्ठापेक्षयाऽपि भक्तिमार्गीन्तरनिष्ठस्य योगवित्तमत्वमर्थसिद्धमिति न तत् पृथग्वक्तव्यम् । एवं सत्यपि पञ्चाग्निविद्यायाः कैश्चिदनुष्ठानम् अवान्तर- फलभूत कैवल्यलिप्सयेति तद्रीत्या तन्मात्रलिप्सायामन्तरात्माविषयका चेतनभोग्य- रूपैश्वर्यानुभववत् केवलात्मानुभवोऽपि प्रमाणतर्कसंप्रदाय सिद्धो न निषेध - मईतीत्यलं बहुना । ग्रन्थकारपक्षनिगमनम् अत्रायं ग्रन्थकारो वाक्यार्थ प्रदीपप्रकरणे स्वर्गादिविशिष्टब्रह्मण एव संसारिणः प्रति फलत्वेऽपि ब्रह्मांशज्ञानं तेषां नास्तीति निरूपणावसरे कैवल्ये प्रस्तुते, “वस्तुतो न कैवल्यस्य मोक्षत्वम् ; भगवत्प्राप्तेरेव मुक्तित्वाभिधानात् । अत एव नार्चिरादिगतिस्तन्निष्ठस्य । ‘स एनान् ब्रह्म गमयति’ इति तस्या भगवद्गमयि- तृत्व श्रवणात्” इति वर्णयन् अर्चिरादिगतिश्चिन्तनप्रसक्तिरहितम् अत एव परमपदप्राप्तिविधुरं किञ्चिदस्तीति स्वाभिमतिमाविष्करोति यथा, तथा प्रमेयपरिच्छेदेऽपि (२५४. पु.) श्रीभाष्यगीताभाष्ययोः प्रदर्शनेन प्रागुक्तमनु- वर्णयति । एवं कैवल्यं प्राप्तश्च न सर्वकर्मविनिर्मुक्त इति वेदार्थसंग्रहादवगम्यते । “सर्वकर्मविनिर्मुक्तात्मस्वरूपावाप्तिर्हि भगवत्प्राप्तिगर्भा; ‘त इमे सत्याः काम cxxxix अनृतापिधानाः’ इति भगवतो गुणगणस्य तिरोधायकत्वेन अनृतशब्देन स्वकर्मणः प्रतिपादनात्” इति हि भगवद्गुणाननुभवः कर्मवेष्टननिबन्धन इति स्पष्टमभ्यधायि । नन्वेवमपि तत् कैवल्यं नित्यं किं न स्यात् ; नित्यात्मानुभवरूपत्वेन नित्यत्वस्य युक्तत्वात् । यद्यप्यस्य नार्चिरादिगतिः; नतराश्च परब्रह्मलेोकप्राप्तिः- अथापि प्रकृतिमण्डलेऽपि नित्यकैवल्यानुभवस्वीकारे न किञ्चित् हीयते । तन्नित्यत्वपरस्य पौराणिकवचनस्य पूर्वैरनुदाहृततया प्रक्षेपशङ्कया प्रतिक्षेप्यत्वेऽपि तत्रतत्र गीताभाष्य स्वारस्यमप्रतिक्षेप्यम् । स्पष्टमेव च चतुर्दशारम्भे “यद् ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च” इति कैवल्यानुभवस्य नित्यत्वमगायि । इदं हि संदर्भानुसारात् भाष्यबलाश्च कैवल्यपरमितीदमप्रकम्प्यम् ; ब्रह्म सायुज्यरूप- श्रौतपरमसाम्यविलक्षण केवलसाम्य- परत्वादस्य वचनस्य । अत्रायं श्रीदेशिकचरणानामाशयः - न खलु कैवल्यकाम आसुरप्रकृतिः; किंतु विशिष्टदैवसंपत्कः । नो खल्बतिघोरनरकयातनापादकदुष्कर्मपरीतानामपि कालक्रमेण परिपूर्णस्वानुभवरूपपरम साम्यप्रदानपरः परमकारुणिको रमारमणो भगवान् योगभ्रष्टानपि यथायथमनुगृह्वन् प्राकृतभोगेषु दोषसमीक्षणेन परमुच्छ्रायं प्राप्तं कैवल्यविषये किञ्चिञ्चलित चित्तमपि स्वभक्तं सर्वथोपेक्षिष्यते । अतः प्रकृतिनित्यत्वेऽपि प्राकृतानुभवादिव आत्मनित्यत्वेऽपि तन्मात्रानुभवरूपा- दल्पास्वादादवश्यमेव मोचयिष्यति । अवश्यश्च पश्चाग्निविद्याफलमान्तरालिकं कैवल्यमनित्यम् । स्मर्यते च सर्वे च्यवनधर्माण इति । “जरामरणमोक्षाय, " " सर्गेऽपि नोपजायन्ते” इत्यादिकं त्वस्य केवलस्य सूक्ष्मदेह मात्र भाजो महाप्रलयप्राप्तेः प्राक् देहेन्द्रियक्षयप्रसक्त्यभावात् स्यूलदेहसंश्लेषविश्लेष- रूपजननमरणभागिता ब्रह्मरात्रिभूतेष्ववान्तरप्रलयेषु सृष्टिमध्ये च न भवतीत्येवमर्थकम् । अत एव कैवल्यप्रस्तावे अपुनरावृत्तिपदं गीताभाष्ये अपुनरा- वृत्तिरूपमात्मानमिति आत्मविशेषणतयोपवर्ण्यते । ब्रह्माण्डादेरनित्यतया स्थल- विशेषावच्छिन्नात्मानुभवाभावेपि, आत्मानुभव प्राप्तस्य, ‘नेहाभिक्रमनाशोऽस्ति’ इत्युक्तरीत्या मनस्समाधानेनानायासेनात्मानुभवस्य न कदापि भङ्ग इत्येतावतापि तन्नित्यत्यगिरां निर्वाहः स्यात् । अतोऽकृत्स्नानुभवस्तद्रूप एव सन्न नित्य इत्यलं विस्तरेण । अचर्वितस्याधिगमनार्थमेतावदुक्तम् । परत्र तु पराक्रान्तं पूर्वैरिति ॥ cxi दिव्यमङ्गलविग्रहः परव्यूह विभवहार्दाचभेदेन भगवतः पाञ्चविध्यवर्णनं तदीयदिव्यमङ्ग- लविग्रहमादायेति सर्वसंप्रतिपन्नमेतत् । तत्र परवासुदेवरूपं परमे पदे स्थितं नित्यमित्यपि निर्विवादम् । तत एव सर्वेषां भगवद्रूपाणां प्रादुर्भावः । व्यूहरूपेषु पूर्वपूर्वमुत्तरोत्तरस्य कारणम् । ‘कृष्णरूपाण्यनन्तानि’, ‘अर्चारूपी भगवान् आगमान्ताचार्यरूपेणाविर्बभूवे’ त्यादिप्रमाणसंप्रदायबलात् अवताररूपाद- प्यनेकानि रूपाणि सति संकल्पे भवन्तीति ज्ञायते । तत्रात्र ग्रन्थे किश्चिदुक्तमव- धेयम् — “स नित्यः, ‘सदैकरूपरूपात्ये’ त्यादौ तद्रूपस्यैकरूप्यप्रतीतेः । (रूपशब्दद्वयप्रयोगात् वचनमिदं न स्वरूपविषयम्, किं तु दिवमङ्गलविग्रह- विषयमित्याशयः । व्यक्तमिदं श्रुतप्रकाशिकायाम् ) कृष्णाद्यवतारेष्वपि तद्देहस्याविर्भावतिरोधानमात्रम् । न च कथं विकाराद्यभावे रामादिनाना- रूपत्वमिति ; तद्देहस्यापि शक्तिमयत्वेन सर्वप्रकारेण दर्शनयोग्यत्वात् यथा धृतराष्ट्रार्जुनाभ्यां तद्देहस्यैव विश्वाधारत्वादिदर्शनम् अत एव हि ‘दर्शयामास पार्थाय परमं रूप’ मित्युक्तिः । अन्यथा ‘सृष्टवान्’ इत्युक्तिः स्यात् । यथा विश्वाधाररूपस्य तिरोधानम्, तथा कृष्णाद्यवतारेष्वपि तिरोधानप्रकार- विशेषाः……..” इत्यादि । अनेन सर्वमपि रूपं नित्यमिति निरूप्यत इव । अर्चारूपविषयेऽप्येवमेवायं मन्ये मन्यत इति । उपसंहारः ॥ श्रीराममिश्राः …….. एवं श्रीभगवद्रामानुजस्वामिपादसिध्दान्तप्रमेयनिरूपणप्रवणस्यास्य प्रायः श्रीराममिश्रनामधेयस्वपरमगुरुप्रदर्शितेन पथा संचरणमेव समीहितं लक्ष्यत इति अत्र ग्रन्थे तत्रतत्र, ‘तदुक्त’ मिति निर्दिष्टाः कारिकाः नूनं तदीया एव स्युः । ते च श्रीराममिश्राः श्रीभाष्यकृदन्तेवासिनः तन्नियमितेषु चतुःसप्तति संख्यातेषु सिंहासनाधिपतिष्वन्यतमभूता इति प्रभावग्रन्थतोऽवगम्यते । तत्र तेषां तनियन् श्लोक एवमदर्शि - “नौमि लक्ष्मणयोग/न्द्रपादसेवैकधारकम् । श्रीरामं क्रतुनाथायें श्रीमाण्यामृतसागरम् ॥ इति । पीठाधीशानां सर्वेषां साधारणं तनियन्पद्यश्च— 99 गुरुपरम्परा- “रामानुजार्याच्छुतिमौलिभाष्यमर्थं रहस्यं द्रमिडश्रुतीनाम् । संप्राप्य तेनैव गुरूकृतांस्तान् भजे चतुस्सप्ततिपीठसंस्थान् ॥” cxli

इत्येवम् । एवं श्रीभाष्यकारेभ्योऽधिगतश्रीभाष्याद्यर्था एव सन्तस्ते श्रीराममिश्राः उभयवेदान्तसिंहासनाधीश- द्रमिडोपनिषद्भाष्यकार - श्री यतिराजामृतोदधिचन्द्रभूत श्री कुरुकेश्वर श्रीपादसेवां विधाय तेषु लघुनव्यग्राम (4) निवासनिरतेषु, त्रिः श्रीभाष्यं ततः श्रुतवन्तः तेषु तं देशं विहाय प्रस्थितेषु हितोपदेशं प्रार्थितवन्तः एवं तैरुपदिष्टाः, ‘भाट्टप्राभाकरमीमांसा- प्रमेयनिरूपणनैपुण श्रीभाष्यार्थव्याख्याप्रपञ्चनपाटवञ्च स्वात्मन्यनुसंधाय समुन्नतिर्न वोढव्या । श्रीभाष्यकारचरणमेव शरणमिति दृढाध्यवसायेन भाव्यम्” इति च कस्मिंश्चित् गुरुपरम्पराप्रभावग्रन्थे (१८२- पु) लिखितं लक्ष्यते । एवं श्रीराम मिश्रविषय इव सर्वेषामपि गुरूणां विषये तैस्तैः पूर्वैर्हितोपदेशः ईदृश एव कृतस्तत्र निबद्धोऽस्ति । अनेन श्रीराममिश्राणां पूर्वमीमांसापारदृश्वता प्रस्फुटमवगम्यते ; तथैव तदनुयायिनि प्रकृतग्रन्थकारेऽपि । अयं श्रीभग- वद्रामानुजस्वामिपादप्राचण्ये सर्वान् अयमतिशिश्ये इति साम्प्रदायिकवाक्यतो विज्ञायते, यद् व्यलेखि द्रमिडभाषायाम्, “ii, ULLi, gwi வடக்குத்திருவீதிப்பிள்ளை இவர்களும், ‘சரமபர்வநிஷ்டர் களில் சோமாசியாண்டானுக்கு ஈடானவர்களில்லை. அவர் திருவாக்கால் எம்பெருமானார் என்றால் திருநாமம் நிறம் பெறும்’ काढणीinion” इति । ईडुग्रन्थे च, “G FIT LOINT FIT LIT 6ठा எம்பெருமானாரென்றால் திருநாமம் நிறம்பெறுமா போலேயும்” इति सूक्तिर्जागर्ति” इत्याहुः । 1 । श्रीकुरुकेश्वरदेशिकपदप्रावण्यञ्च तात्कालिक सर्वगुरुसाधारणम् ; श्रीपरा- शरभट्टपादा अपि स्वशिष्येभ्यो वेदान्तियतिभ्यो भगवद्विषय इति प्रसिद्धां श्री कुरुकेशप्रणीतां श्रीषट्सहस्रिकां सम्यगध्यापयामासुरिति, तेऽपि तत्र प्रवणा एव सन्तः नवसहस्रिकां नित्रबन्धुरिति च (२४१- पु .) तत एवावगम्यते । श्रीकुरुकेश्वराः श्रीक्रतुनाथार्यप्रभृतीनां सर्वेषां द्रामिड- सूक्त्यर्थोपदेष्टार इत्यत्र न कश्चिद् विवदेत । श्रीदेशिक परिचयः सोमाशियाण्डान् इति द्रामिडोपनामधेयाः श्रीराममिश्रास्त इमे श्रीमद्वेदान्तदेशिकैः बहुत्र सप्रशंसं समुत्कीर्तिताः सन्ति । अभयप्रदानसारे ( 8 ), " सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥” cxli इति श्रीमद्रामायण श्लोके ‘सर्वभूतेभ्य’ इतीदं पञ्चम्यन्तमिति केचिद्व्याचख्युः; (सोमाशियाण्डान् ) श्रीक्रतुनाथपर्यन्तास्तु चतुर्थ्यन्तं निरवहन् । द्वयोरपि पक्षयोः स्थितानि गुणदोषतत्समाधानानि तत्तद्ग्रन्थत एव द्रष्टव्यानि । तत्र पञ्चमीपक्षे, प्रपन्नायेत्यस्य संकोचाभावात् प्रपत्तेः सर्वाधिकारत्वं सिद्धयेत् । चतुर्थीपक्षे सर्वाधिकारत्वं कण्ठोक्तम्’ इत्यादि वर्णयन्त एतत्पक्षे मनागादरमपि दर्शयन्तीव । चरमश्लोकाधिकारे, “अधिकार पुरस्कृत्योपायस्य निरपेक्षताम् एकशब्देन वक्तीति केचिद् वाक्यविदो विदुः” इतीदमपि स्यादेतदभिप्रायम् | इमे हि प्रसिद्धाः वाक्यविदः – मीमांसकाः । न्यायसिद्धाज्ञ्जने च आकाशादिघट्टे, व्यष्टिशरीरप्रस्तावे, अनन्तत्वनिरूपणे, सुषुप्तिदशाधर्मभूतज्ञानविषये, स्पर्श- प्रस्ताव, जातिघट्टे एवमन्यत्र च विवरणषडर्थसंक्षेपग्रन्थदर्शितार्थकीर्तनेन युक्तायुक्तवैशद्यमाविरकारि । विस्तरेण च श्रीविषये तेषामाशये षडर्थसंक्षेपग्रन्थं तथैवानूद्य रैकरस्यं व्युदपांदि । एवं ग्रन्थान्तरेऽपि । 1 मेघनादाविंशः एतद्वंशप्रसूतस्य प्रकृतस्य मेघनादारिसूरेर्विषये यावल्लामं वैशद्यमधि. गमयितु मुचितोऽयमवसर इति विभाव्य, तद्वंशीयाः संप्रति बेङ्गळूर नगरादिषु नुग्गुहल्लि इति कुलव्यपदेशेन विलसन्तीति च विज्ञाय तेष्वन्यतमाः सर्वतो - मुखवैदुष्याः बहोः कालात् परिचिता: श्री. उ. वे श्रीनारायणार्या मया पत्रिकामुखेन एतद्विषये यावदधिगमं वैशद्यमधिगमयितुमभ्यार्थ्यन्त । तदाखे तेषां तत्रासंनिधानं ग्रामान्तरगमनश्च आवेदयतैव विद्वद्वरेण तेषां पुत्रेण महागुणेन विशदं पत्रं मह्यमलेखि । पुनश्च विशेषान्तराणि पुनः पृष्टवता मया तत एत्र पत्रिकामुखेन विदितानि । एवं ततः पत्रद्वयमुखेन समधिगतमर्थं तस्यैव विशदमधुरवाङ्मय - मिश्रया सरण्या प्रियवाचकेभ्यो निवेदयन् प्रकृतनयद्युमणिकारविषये किमपि वैशद्यं विधित्सामि । श्रीमदहीन्द्रपुराभ्याशे (क्री श्रीराममिश्रादिचरितम् श्रीवैष्णवसम्पत्समृद्धिशालिनि श्रीमङ्गलाख्ये அருகில் திருமங்கலம்) अग्रहारे (opধ চিকীম4ম♚জী♚জ भववर्षेऽवतीर्णः श्रीराममिश्रः । अस्य पिता आत्रेयान्वयतिलकः श्रीमान् यज्ञदीक्षितः । हारीतान्वयचन्द्रमसः सर्वक्रतुदीक्षितस्य केशवसोमयाजिनः (भगवद्भाष्यकाराणां पिता हारीतान्वय आसूरिकेशव सोमयाजीति सुप्रसिद्धमेतत् ।)cxliii पुत्री श्रीमङ्गावली अस्य जननी । वेदवेदाङ्गकाणादजैमिनादिदर्शनपारदृश्वान- मात्मनः कुमारं श्रीयज्ञदीक्षितः श्रीरङ्गमध्युषितवतोऽधिगतमातुलभावस्य भगवद्रानुजाचार्यस्य संनिधि प्रेषयामास परब्रह्मविद्याधिगमाय । पाण्डित्यं प्रतिभां प्रवचनप्रावीण्यञ्च प्रत्यक्षीकृत्य परमया प्रीत्या श्रीभाष्यस्य प्रवचने व्याख्याग्रन्थविधाने च भगवद्भाष्यकारनियुक्तः सन् यथानिदेशमनुतिष्ठन् विरराजैष सूरिः । आचार्यप्रेरणया श्रीकुरुकेश्वरस्य श्रीषट्सहस्त्री संख्यद्रमिडो- पनिषद्भाष्यकृतः संनिधौ अधीतद्राविडाम्नायसर्वार्थ एषः । आचार्याणामादेश- मवतं सितवानेष श्रीयादवाद्रौ (& Gibn Tirumn 4 rii) भगवदालये दिव्यसूक्त्युपक्रम (Bijojo IT ঘउँग @ कृळ) कैङ्कर्यरतिरुवास । अद्यापि तद्वंश्यैः कैङ्कर्यमिदमविच्छिन्नं निर्वर्त्यते । शिष्यैर्भक्त्या परमया प्रशस्य मुक्ताकिरीटधारणमयं कारितो विशेषेण बहुमानित आसीत् । कदाचित् कावेरी परिसरे विधिवदनुष्टितक्रतुं श्रौतप्रक्रियायामपि परं नैपुणमधिगतवन्तमेन- माचार्याः क्रतुनाथ इति विरुदेन संभावयामासुः । तदारभ्य सोमाशियाण्डान् इति द्रामिडनाम्ना प्रथां प्राप । वादाहवेषु विशेषतो जयसंपदा संभूषितमेनमनु- गृह्णाना आचार्यः क्षुद्रेोपद्रवशमनचणं श्रीनारसिंहमन्त्रमुपदिश्य श्रीभूसहितां योगनृसिंह मूर्तिमदुः ; या तद्वंश्यैरद्याप्याराध्यमानाऽस्ति । एतद्विषये ऽनुसंधीयमानाः श्लोकास्तावत् – (मङ्गलमालिकायाम् )

“श्रीभाष्यं शतशो येन सत्पात्रेषु प्रवर्तितम् | यत्रीन्द्रशासनात् तस्मै श्रीरामायास्तु मङ्गलम् ॥” " शासनाद् यतिराजस्य स्थिताय यदुभूधरे । षडर्थादिग्रन्थकर्ते श्रीरामायास्तु मङ्गलम् ||” “भक्या शिष्यैः कृतं मुक्ताकिरीटममलं सदा । प्रीत्या घृतवत तस्मै यज्वनाथाय मङ्गलम् | " इति । अद्यापि श्रीराममिश्रविग्रहे किरीटरत्नं संदृश्यत इति चातुः । | एवञ्च गुरुतल्लजोऽयं श्रीराममिश्रः क्रतुनाथः सार्वभौमत्र दुष्य संपन्नो महानुभावो भगवद्भाष्यकार भागिनेयभावमान्यः इति, यथा श्रीकुरुकेश्वरदेशिको द्रमिडोपनिषद्भाष्यस्य प्रणेता, यथा मुदलियाण्डान् इति प्रसिद्धः श्रीदाशरथिः, यथा CT & Tripourळा इति प्रसिद्धः श्रीविष्णुचित्तः प्रमेयसंग्रहविष्णुपुराण- व्याख्यानादेर्विरचयिता, यथा च L इति प्रसिद्धो वरद, cxliv विष्णुमिश्रो मानयाथात्म्यनिर्णयस्य निर्माता, “ज्ञानोत्तमोद्धतिनिराकरण प्रतुष्यद्रामानुजार्य करुणापरिणाहपात्रम् । वत्सान्ववायतिलकं वसतिं गुरूणां वन्दामहे वरदविष्णुगुरुं वरेण्यम्” इति तनियन्पद्यभाजनम् – तथाऽयं श्रीराममिश्रोऽपि तदात्वे सर्वमानितः मुप्रसिद्धश्चेति च प्रतिपन्नम् । अनेन निर्मिताश्च निबन्धाः -

१. श्रीभाष्यविवृतिः, ९. आह्निकम्, २. वेदार्थसंग्रहविवरणम्, १०. श्रीभगवद्रामानुजदयाशतकम्, ३. षडर्थसंक्षेपः, ११. गुरुगुणावली,

  1. तत्त्वसारः, १२. गुरुपरम्परानुसंधानम् ’ ५. तत्त्वदीपिका, १३. प्रपन्नगायत्रीशतकम्, ६. वेदान्तसंग्रह, १४. रामानुजपदयुगली, ७. द्रमिडसंहिता, १५. रङ्गस्तुतिः ८. यागनिर्णयः, १६. शरणागतिशास्त्रम् इति षोडशेत्याहुः । कतिपयदिव्य प्रबन्धविषये तत्तत्कर्तृविषयाणि तनियन्पद्यानि गाथात्मकानि प्रसिद्धानि अन्यानि चैतत्कृतानीति वदन्ति —— यथा — गोदासूक्तेः ‘C&&&f Fion z’ इति, महाश्रीसूक्ते : ‘LDI ’ संगीCw’ इति, Quinor & फ्रাpps प्रबन्धस्य, இனி யென் குறை श्रीविष्णुचित्तदिव्यप्रबन्धस्य च ‘BLCL कंक्री का ?’ इति । इति, परंतु नैकोऽपि ग्रन्थ इदानीमुपलभ्यते । केवलं श्रीमद्वेदान्तदेशिका नूदित- कतिपयभागदर्शनेन ग्रन्थशैल्याः अवधारणं भवति । ततो गभीरसंक्षिप्त महिष्ठ वचोगुम्मनोऽयमिति विज्ञायते । अस्य श्रीराममिश्रस्य पुत्रशिष्यपरम्परा चैवं प्रथते- अस्य ज्येष्ठस्तनयः- ८. श्रीमान् नतार्तिहद्देशिकः २. श्रीमान् वरददेशिकः ९. श्रीवामनार्यः ३. पुण्डरीकाक्षः १०. गोविन्दार्यः 99

राममिश्राध्वरी ११. " श्री वासार्यः ५. श्रीरङ्गनाथः १२. श्रीनृसिंहार्यः "” "” ६. नाथार्यः १३. अप्ययार्यः "” "" मेघनादारिः १४. ११ श्रीमान् रमावासार्यः १५. श्रीमान् श्रीनिवासदेशिकः cxlv २०. श्रीमान् गोपालार्य: १६. "" १७. श्रीमल्लक्ष्मणयोगी गोपालार्य देशिकः २१. श्री वेंकटार्यः " 59 २२. जनार्दनार्यः 79 १८. श्री शैलदेशिकः २३. श्रीनिवासार्यः "" १९. रमावासार्यः २४. " " गोपालार्यः इत्येवम् । इतः, प्रकृतो मेघनादारिसूरिः श्रीराममिश्रात् सप्तम इति विज्ञायते । अनेन विद्वद्वरिष्ठेन विरचिताश्चत्वारः प्रबन्धा इति स्पष्टमाहुः, १. नयप्रकाशिका, ३. श्रीभाष्यभावाङ्कुरः, २. नयधुमणिः, ४. मुमुक्षूपाय संग्रहश्चेति । अन्ये च केचित् प्रबन्धाः प्राणायिषत; परं नाम्नापि न बुध्यन्त इति चाहुः । शरणागतिशास्त्रमेतत्कूटस्थ कृतमेनेन साक्षादवालोकि न वेति न जानीमः । प्रपत्त्यादिविषये अस्याभिप्रायमेवं वर्णयन्ति मोक्षसाधन- विद्यात्वाविशेषात् भक्तिरिव प्रपत्तिरपि नियताधिकारिविषयैवेति त्रैवर्णिकाना- मेवाधिकारः; न सर्वेषाम् । त्रैवर्णिकस्त्रीणां पत्युरनुमतौ सत्यां विद्यास्वीकारो घटते । गार्गीमैत्रेयीप्रभृतयः स्त्रियो विद्याधिकृता हि श्रूयन्ते । नूनं प्रणवोच्चारणे तासामपि अधिकारो व्यवस्थापितः । दर्शपूर्णमासादिकर्मानुष्ठाने तासां मन्त्रोच्चारणाधिकारदर्शनात् अष्टाक्षरादिमन्त्रोच्चारणं न दुष्यति । प्रणवरहीनस्य चाष्टाक्षरादेर्मन्त्रत्वमेव न विद्यते । तदा च केवल भगवन्नामो- पदेशः स्यादित्येवं भक्तेरिव प्रपत्तेरप्यसकृदनुष्ठेयतामयमातिष्ठते । अत एव मन्त्ररत्ने प्रपद्ये इति वर्तमाननिर्देशः । श्रीभगवद्रामानुजस्वामिपादैश्च, “द्वयमर्थांनुसंधानेन सह सदैवं वक्ता” इति, " ततश्च प्रत्यहमात्मोज्जीवना- यैवमनुस्मरेत्" इति च ह्यन्वग्राहि । अतो भक्तिविषये आवृत्तिपरं सर्वं शास्त्रमत्राप्यतिदेष्टव्यमिति एतन्निरूपणप्रक्रिया । सर्वमिदं मुमुक्षूपायसंग्रहे स्यात् । अत एव श्रीमति रहस्यत्रयसारे स्थिरीकरणभागादौ एवमादीन् विषयान् विचार्य स्वस्वपूर्वसिद्धान्तमाचार्याः प्रमाणपुरस्सरमुपापादयन्निति वक्तव्यं भवति । एतद्विषयं तनियन्पद्यं तावत् - “आत्रेयनाथगुरुवर्य कृपात्तवेद- युग्मान्तसारमतुलाद्भुतसच्चरित्रम् | cxlvi टीकाकृतं यतिपुरन्दरभाष्यसूक्तेः श्री मेघनादरिपु सूरिमहं प्रपद्ये ॥ " इति । अन्यच्च प्रशस्तिपद्यम् — “मेघनादारिगुरवे करवाम नमस्क्रियाम् । यदुक्तिशरजालेन वादिशकारयो जिताः ॥ " इति । आञ्जनेयवन्दनमेतत्कृतं वैष्णवसंमतं न वेति विप्रतिपद्यन्ते । परमै - कान्तिनां प्रपन्नानाममुमुक्षुजनवन्दनमनुचितमिति केचिन्मन्यन्ते । ’ वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद् भुवि’ इति वचने जागरूके मुमुक्षुबुभुक्षुभेद- कल्पनया कतिपयवर्जनमनुचितम् । न चामुमुक्षुराञ्जनेय इति सुसाधम् । भक्तिमार्गी अपि मधुविद्यादयोऽवान्तरैश्वर्यसंवलितममृतं फलन्ति । अन्यथा खलु भक्तप्रपन्न – आर्तदृतादिभिदाकल्पनयाऽपि वैष्णवाः केचिदपुरस्कार्याः स्युः । किं बहुना — सर्व संशयितार्थ स्थेय भूताः भगवद्भाष्यकार बहुमताः श्रीकूरनाथा एव आञ्जनेयं प्रणतवन्तोऽस्माकं मार्गदर्शिनो भवन्तीत्यन्येषामाशयः । एवं तावदस्य प्रन्थकर्तुविषये यावदधिगमं वैशद्यं व्यधायि । एतत्संतव्यादिविशदावगमौपयिकपत्रिकाद्वय विलेखनेन सुबहूपकृतवति एतद्वंश्ये श्री. उ. वे. श्रीनिवासार्ये सुतरां कृतज्ञोऽस्मि । नूनं यथाधिगमं तत्तद्वंश्य- पूर्वपुरुषवृत्तान्तं यदि श्रीवैष्णवाः, किमेवं संकोचेन, सर्वेपि तत्तत्संप्रदायस्थाः प्रचारयितुमद्य वा प्रवर्तेरन् विना वितथैतिह्यकल्पनं तत्त्वमात्रकीर्तनेन तदा सनातनधर्मनिष्ठमहाजनचरित्रसेवनेन सर्वे धन्या भवेयुः । उक्तरीत्या श्रीभगवद्रामानुजार्यभागिनेयभूतात् श्रीराममिश्रतः सप्तमः श्रीमेघनादारिश्यम् ; श्रीभगवद्रामानुजार्यप्रियभागिनेयस्य श्रीभाष्यसिंहासनाधिपतेः BLITjpour इति प्रथितस्य श्रीवरदविष्णुमिश्रस्य पौत्रात् नडादूर् अम्माल् इति सुप्रसिद्धात् श्रीवात्स्यवरदार्यात् अधिगतश्रीभाष्यस्य श्रीमदात्रेयवादिहंसाम्बुदाचार्यस्य श्रीरामानुजनामधेयस्य शिष्यश्च श्रीमद्वेदान्तदे- शिक इति निरूपणे श्री मेघनादारेः श्रीमद्वेदान्तदेशिकस्य च नातीव काल- विप्रकर्षः – अथापि श्रीमेघनादारिः पूर्व इति पूर्वदर्शिताधिकरणसारावल्या- दिमिवगम्यते ।

cxlvii अनेन च विस्तरेणैतस्थितिकालोऽपि ज्ञातप्राय एव । श्रीभगवद्रामा- नुजस्वामिपादा हि संयमिसप्तशत्या चतुःसप्ततिसंख्यकैश्च पीठैः संसेविताः श्रीरङ्गमध्यासतेत्याद्दुः । ततस्तदीयग्रन्थरत्नानामर्थवैशद्य विधानाय, वेदार्थ- व्युत्पादनायाङ्गोपाङ्ग भूतानि विद्यास्थानानि विशिष्टानीव, विविधानि निबन्धनानि निखिलतन्त्र निष्णातैः शिष्यैर्निबबन्धिर इति ज्ञायते । नैतश्च्चि- तम्, यत् श्रीभाष्यकृतामन्तेवासिनः तद्प्रन्थानां सार्वभौमं प्रचारमध्यवसाय बहुप्रकारमुद्युयुजिर इति; यतः तदाचार्यतल्लजा अपि स्त्रात्मक्लेशमपि सोढ्वा श्रीभाष्यकृतामभ्युदये बद्धपरिकरा एव प्रथिताः, तथाच तदचार्यश्री पराङ्कशा- भिधानमहनीय महापूर्णविषयो मान्यः श्लोकः- “आचार्यात् यामुनेयादधिगतनिगमान्तार्थजातं प्रपत्ति - चोपादिक्षद्रहस्यान्यपि यतिपतये किञ्च तद्रक्षणार्थम् | चोलेन्द्रं प्राप्य चोक्त्वा सदसि, ‘परपुमान् श्रीपतिर्हे’ ति पीडां शारीरीं तत्कृताञ्चाप्यसहत, मनवै तं महापूर्णमार्यम् ॥” इति । श्रीमहापूर्णाः श्रीभाष्यकृतः प्राणापायशङ्कया स्थलान्तरं प्रस्थाप्य स्वयं तत्स्थाने स्थित्वा श्रीपतिपारम्यं शैवस्य राज्ञः पुरस्तात् प्रतिपादयामासुः, तन्मूलां दूराजकृतां हिंसाञ्च विषेहिरे । शारीरपीडामप्यनुभूय शारीरकपरमार्थ- स्थापनमादधिर इति । अत एव हि श्रीनिगमान्तमहा देशिकैरित्थमकथि— " पत्युः संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिध्यमानविभवान् धन्यांस्तथान्यान् गुरून् इति ॥ यस्य बहुश्रुतस्य भगवद्रामानुजस्वामिपाद सर्वप्रबन्ध तदर्थसमग्रधारण- संपन्नस्य सर्वतन्त्र सार्वभौमविचारसरणिसञ्चरणचणस्य महनीयस्यास्य मेघना - दारिसूरेः श्रीनामधेयमपि विशिष्टाद्वैत सिद्धान्तनिष्णातैरपि न सम्यगवधृत- मासीत् - तथा ह्यधिकरणसारावलिव्याख्याने अधिकरणचिन्तामण्यादौ प्रसक्त- निर्देशमपीदं नामधेयं पश्चिमैर्मेघनाद इत्येवालेखि चामुद्रि च । तन्नूनमिन्द्र- जितो राक्षसस्य नामेति निर्ज्ञाय दैवप्रकृतिकलोकधार्यतामसंभावितामालो- चितवद्भिरिवान्यैः मेघनाथेति परिष्कृत्यामुद्रि – तत्र का कथा तस्य ग्रन्थदर्शने । केवलं पुनरस्मत्प्रियसुहृन्मुद्रितानवसितस्य सर्वव्याख्यासमेत- श्रीभाष्यकोशस्य अदसीयनयप्रकाशिकाप्रन्यसहितस्य दर्शनाद्वा बङ्गलुर- cxlviii प्रान्तवासितद्वंश्यविद्वत्संसर्गवशाद्वा, एवम्भूतेन मार्गान्तरेण वा मेघनादारिरिति समग्रं नाम समधिगन्तव्यमासीत् - तस्यास्य श्रीमद्वेदान्तदेशिकचरणाद्या- चार्यानप्यपेक्ष्य प्राचीनस्य न्यायसुदर्शन कारवरदनारायण भट्टारकाद्यर्वाचनस्य महात्मन ं इदं तादात्विकीं श्रीवैष्णवसिद्धान्तप्रचारपरिस्थिति प्रत्यक्षयद् ग्रन्थरत्नं प्राच्यग्रन्थप्रकाशनपरमोत्साहैः मान्यैर्मद्रनगरराजकीय प्राच्यग्रन्थ- भाण्डागाराधिकृतैः परिष्कृत्य मुद्रयितुमिष्टं हस्ते मेऽर्पितमासीत् । अथ च तद्भाण्डागारस्थ कोशद्वयम्, अडयारकोशालयस्थं कोशमेकञ्च मातृकां कृत्वा अप्रचारात् अत्यन्तं लेखकप्रमादाच्च अशुद्धिबहुलम् अनेकशास्त्रार्थ- विचाररूपतया दुरवगाहश्च सदपि यथाशक्ति परिष्कृत्य संयोजित टिप्यणी- कमेवं प्राकाश्यं प्राप्यते; यत्र मे वेंकटाद्रिहाराभिजना एतन्नगरवास्तव्याः विद्वद्वराः श्री. उ. वे. कृष्णमाचार्याः मङ्गलश्लोकनिर्माणेन टिप्यणमारभ्य कतिपयटिप्पणांशसंयोजनशोधनिकासमीक्षणादिना साचिव्यं विधाय सहैव सर्वं यथावन्निरवर्तयन् । अत्यन्ताशुद्धेषु स्थलेषु तत्तच्छास्त्रमर्यादानुरोधेन मनाक् स्वातन्त्र्यमवलम्ब्य शोधनं कर्तव्यमापतितं ग्रन्थसामीचीन्यसंपिपाद- विषया नोपेक्षितम् ; एवमपि यत्र क्लेशेनापि कथश्चिदर्थवर्णनस्यावसरो ऽभ्यूहपदमासीत्, तत्र साहसं सर्वथा परित्यक्तमिति संतोष्टव्यम् । उभयोर्मुद्रयितृत्वाच्चोभयाभिमतमिबान्यतराभिमतमपि टिप्पणे संयोजितमेव । मातृका भूतग्रन्थ लेखकोऽपि सुबहु परिश्रम्यालेखीदिति अन्ते तेन कृतविनिहितः कश्चन श्लोक एव नः प्रतिबोधयति, योऽप्यन्ते टिप्पण्यामस्माभिः समयोजि । सर्वशास्त्रवैदुष्यसमृद्धस्याप्यस्य ग्रन्थकृतो निर्णयाः केचिदर्वाचीनैरभिज्ञैर्नातीवाss- दृता इति, एतस्य कालात् पश्चादत्र विशिष्टाद्वैत सिद्धान्ते कियती अभिवृद्धि- रासीदिति चात्र भूमिकायां यथामति विज्ञापितवानस्मि । प्राज्ञाः प्रमाणम् । तदिह भगवान् श्रियःपतिः स्वप्रेरितप्राज्ञमहाजनपुरस्सरः सुप्रीतः स्यादित्याशास्यत इति शम् । राजकीय प्राच्य कोशभाण्डागारं समेधताम् । भारतप्राच्यसिद्धान्तसमाचारप्रचारकम् ॥ इति वीरराघवार्यः कृतनयतन्त्रागमान्तनै कक्कृतिः । श्रीरङ्गलक्ष्मणमुनेः शिष्यो व्यमृशन्नयधुमणिम् ॥

उत्तमूर् - ति. वीरराघवाचार्यः