श्रीमते रामानुजाय नमः ।
श्रीवादिकेसरिसौम्यजामातृमुनिविरचिता
तत्त्वदीपसंग्रहकारिका ॥
मूलमन्त्रप्रकरणम्
अथ मूलमन्त्रप्रकरणम् ।
अस्मद्गुरुमुखान्सर्वानभिवन्द्य गुरून् क्रमात्।
आद्यं लक्ष्मीपतिं देवमाश्रये परमं गुरुम्॥१॥
अस्मद्गुरुदयायातयतीन्द्राङ्गीक्रियान्वयः।
लभेय लब्धविज्ञानो लक्ष्मीपतिपदद्वयम्॥ २ ॥
सद्गुरुस्नेहवर्त्यन्तस्फुरितस्य विधीयते।
संविवेत्तुं रहस्यार्थं तत्त्वदीपस्य सङ्ग्रहः॥ ३ ॥
मूलमष्टाक्षरं मन्त्रं मन्त्ररत्नं दयाह्वयम्।
चरमश्लोक एतस्तु रहस्यत्रितयं विदुः॥ ४ ॥
तत्रादौ मूलमन्त्रार्थो यथावदनुवर्ण्यते।
स्वस्वरूपावबोधार्थं तत्त्वयाथात्म्यचिन्तकैः॥ ५ ॥
सप्रकारस्वरूपोक्तिसामर्थ्यान्मूलमन्त्रतः।
तत्त्वस्वरूपयाथात्म्यं वर्ण्यते तत्त्वदर्शिभिः॥ ६ ॥
निर्मलज्ञाननिर्वाणस्वरूपश्चेतनस्स्मृतः।
नित्यं ज्ञातृत्वकर्तृत्वभोक्तृत्वनिजधर्मभाक् ॥ ७ ॥
सोऽयं भगवदायत्तस्वरूपस्थितिवृत्तिकः।
तत्प्रकारतया सिध्दतच्छेषत्वस्वरूपवान्॥ ८ ॥
तद्दास्यैकरतिर्नित्यं तदेकानुभवप्रियः ।
तद्भोगजनितानन्दनित्ययोग्यः पुमानसौ॥ ९ ॥
तथाप्यनादिस्सृष्टैरविद्याकर्मवासना-
रुचिप्रकृतिबन्धैश्चेत्येतैर्बीजांकुरक्रमः॥ १० ॥
स्वस्वरूपतिरोधानाहंमानेन दूषितः।
अर्थकामाभिभूतोऽयमुन्मत्तश्ववृत्तिकः॥ ११ ॥
तदेकशेषमात्मानं तदेकशरणं तथा।
तदेकभोगं मन्त्रोऽयं प्रब्रवीति पदक्रमात्॥ १२ ॥
तस्माच्छेषं शरण्यञ्च भोग्यं च भगवानिति।
ज्ञानान्निहन्यते ज्ञानमहंकारार्थकामजम्॥ १३ ॥
एवं ज्ञातृत्वकर्तृत्वभोक्तृत्वमपि चात्मनः।
परायत्तमिति प्रोक्तमिति मन्त्रार्थसङ्ग्रहः॥ १४ ॥
ऋष्यादिकं च माहात्म्यं तत्त्वदीपेऽस्य वर्णितम्।
अर्थमात्रन्त्विदं तत्र सुग्रहत्वाय कथ्यते॥ १५ ॥
तत्राद्याक्षर ओङ्कारस्त्यक्षरः श्रुतिचोदितः।
अकारश्चाप्युकारश्च मकारश्च तथा स्मृतः॥ १६ ॥
अकारस्सर्ववर्णादिः कारणत्वस्य वाचकः।
यत एव त्वकारो वै सर्वा वागिति च श्रुतिः॥ १७ ॥
समानत्वादिति ब्रह्मेत्यस्य ब्रह्माभिधानता।
श्रूयते ब्रह्मणश्चापि जगज्जन्मादिलक्षणम्॥ १८ ॥
तस्मात् समस्तशब्दादेरकारस्य स्वभावतः।
समस्तकारणब्रह्मवाचित्वमुपपद्यते॥ १९ ॥
एतेन कारणत्वेन ह्युपादानत्वमिष्यते।
वाच्यवाचकयोस्सर्वप्रकृतित्वप्रसिद्धितः ॥ २० ॥
‘तस्य प्रकृतिलीनस्येत्यकारस्य च तच्छ्रुतम्।
‘प्रकृतिश्चेति सूत्रेण ब्रह्मणश्चोपपादितम्॥ २१ ॥
एवञ्च सत्युपादानं लयस्थानञ्च गम्यते।
‘इदमग्रे सदेवासीदेकमित्यादिवाक्यतः॥ २२ ॥
किञ्चावधातोः कर्र्त्रथक्विबुत्पादनरूपतः।
व्याकृतोऽयमकारोऽत्र सर्वरक्षकवाचकः॥ २३ ॥
एवं ब्रह्म जगज्जन्मलयस्थेमादिकारणम्।
विष्णुरेवेति च प्राहुरकारो विष्णुवाचकः ॥ २४ ॥
चतुर्थ्यर्थं तथा चास्य पदत्वं विद्यते ततः।
तादार्थ्ये प्रतिसम्बन्धिशेषिवाचकता मता॥ २५ ॥
तस्माद्विष्णुः परं ब्रह्म शेषीति प्रतिपादितः।
तस्य सर्वातिशयित्वं लक्ष्मीशत्वेन लक्ष्यते॥ २६ ॥
गुणसिद्धिनयाल्लक्ष्म्याः स्वरूपान्तर्गततत्त्वतः।
स्वरूपवाचिशब्दान्तर्भावसंस्थानजातिवत्॥ २७ ॥
एवमक्षररूपेण कारणत्वमिहोदितम्।
रक्षकत्वञ्च धात्वर्थाच्छेषित्वं पदरूपतः॥ २८ ॥
श्रीशत्वं वाच्यशक्त्या च युज्यते परमात्मनः।
तमुद्दिश्यात्मपारार्थ्यं विभक्त्या परिकीर्त्यते॥ २९ ॥
विभक्तेश्च चतुर्थीत्वं श्रुत्यैव प्रतिपादितम्।
‘त्वं ब्रह्मणेऽस्मै महसे युजीते’ति विधानतः॥ ३० ॥
इत्थं परस्योपायत्वमुपेयत्वं च सूचितम्।
सकारणत्वाद्रक्षित्वाच्छेषित्वाच्छ्रीपतित्वतः॥ ३१ ॥
रक्षकत्वमुपायत्वमर्थ्यपेक्षाविशेषितम्।
अभीष्टार्थनिदानत्वात् कारणत्वं तदन्वितम्॥ ३२ ।
शेषित्वमेवोपेयत्वं किञ्चित्कार्यत्वरूपतः।
श्रीशत्वं सर्वथोत्कर्षादुपेयत्वमपूरयत्॥ ३३ ॥
एवंरूपः परश्शेषी तस्मै पारार्थ्यवान् पुमान्।
अनन्यार्हस्वभावोऽयमित्युकारेण वर्ण्यते॥ ३४
‘तदेव भूतं तदु भव्यमिति स्थानमानतः।
अवधारणरूपत्वमुकारस्य प्रमीयते॥ ३५ ॥
ततः परमशेषित्वमनन्याश्रयमित्यतः।
शेषत्वञ्चाप्यनन्यार्हमित्येतदवधार्यते॥ ३६ ॥
तस्मात् सामान्यशास्त्रोक्तमन्यशेषत्वमात्मनः।
निरुपाधिकशेषस्य कर्मोपाधि निवार्यते॥ ३७ ॥
एवं सत्यपृथक्सिद्धप्रकारत्वं निरूपितम्।
आत्मनः परशेषत्वमित्युकारेण निश्चितम्॥ ३८ ॥
मकारेणोच्यतेऽथात्मा पञ्चविंशाक्षरेण वै।
‘पञ्चविंशक आत्मेति श्रुतं त्वक्षरसंख्यया॥ ३९ ॥
पृथिव्यादिप्रकृत्यन्तात् परः पुरुषः स्मृतः।
चतुर्विंशतिसंख्यातात् तत्त्वराशेर्विविच्यते॥ ४० ॥
मनधातोश्च कर्त्रर्थ उप्रत्ययटिलोपतः।
व्युत्पन्नोऽत्र मकारोऽयं ज्ञातृवाचक इष्यते॥ ४१ ॥
ज्ञातृस्वरूपवाचित्वात् स्वसंवेद्यत्वमुच्यते।
ज्ञातुर्ज्ञानाविलोपेन नित्यत्वं चापि लक्ष्यते॥ ४२ ॥
ज्ञानाश्रयस्वभावत्वात् अहंबुद्ध्यादिगोचरः।
आत्मा मोक्षदशायामप्यहमन्नमिति श्रुतेः॥ ४३ ॥
माङ्-मान इति धातोश्च व्युत्पत्त्या मानवत्त्वतः।
एवं शेषत्वधर्मीति प्राधान्येनोक्तमात्मनः॥ ४४ ॥
स्वरूपमुचितो यत्र तत्पारार्थ्योपलक्षितम्।
प्रकृत्याद्यतिरेकादप्यादौ पारार्थ्यमात्मनः॥ ४५ ॥
प्रधानत्वेन विज्ञेयं ज्ञातुः स्वोज्जीवनार्थतः ।
एवं दास्यस्वरूपत्वेऽप्यन्यथाप्रतिपत्तितः॥ ४६ ॥
सर्वपापनिदानन्तत् आत्मापहरणं भवेत्।
प्रायश्चित्तञ्च तस्यैतदीश्वरेणान्तरात्मना॥ ४७ ॥
अविवादात्मकं दास्यं न गङ्गाकुरुसङ्गमः।
इदं शेषत्वविज्ञानं पुण्यकर्मात्मकं मतम्॥ ४८ ॥
‘स सन् यज’ इति श्रुत्या यजनत्वप्रसिद्धितः।
ज्ञातव्यं ज्ञानमेवैतमिदमेवाप्युपासनम्॥ ४९ ॥
तत्रोत्तमैक्यमन्त्रोक्तं शेषत्वमपृथग्भवम्।
न्यासरूपमिदं ज्ञानं युंजीतेति नियोगतः॥ ५० ॥
अविभागमिदं दृष्टं दास्यमाविष्कृतं फलम्।
एवं सर्वाधिकं विष्णुं प्रत्यनान्यार्हलक्षणम्॥ ५१ ॥
शेषभूतोऽयमात्मेति वाक्यार्थः प्रणवोदितः।
अथ वायमुकारोऽत्र लक्ष्मीवाचक इष्यते॥ ५२ ॥
उद्धृता विष्णुना लक्ष्मीरुकारेणेति वाक्यतः।
तथावधारणत्वार्थमहिष्यादिपदक्रमात्॥ ५३ ॥
तत्रापि मिथुनस्यैव शेष आत्मेति सुस्थितम्।
प्रणवो भगवद्वाची प्राधान्यादर्थसंभवात्॥ ५४ ॥
शब्दतस्त्वात्मवाची स्यात् राजपुरुषशब्दवत्।
एवं स्वतः परार्थस्य स्वार्थत्वं दोषसम्भवम् ॥ ५५ ॥
परार्थ्यप्रतिबन्धित्वान्नमसात्र निवार्यते।
हेयोपादेयविज्ञानमूलं ज्ञातृत्वमात्मनः॥ ५६ ॥
तत्तत्प्रहाणोपादानचिकीर्षाकर्तृताश्रिया।
कर्तृत्वञ्च श्रिया सिद्धौ स्वातन्त्र्यमनुशासनात्॥ ५७ ॥
‘कर्ता शास्त्रार्थवत्त्वादि’त्यात्मनस्तच्च सूत्रितम्।
शक्तस्स एव शास्त्रेषु कर्तृत्वेन नियुज्यते॥ ५८ ॥
तस्मात् स्वातन्त्र्यरूपस्य कथं शेषत्वमात्मनः।
इत्याशङ्कानिवृत्त्यर्थं स्वाधीनस्वार्थकर्तृताम्॥ ५९ ॥
व्युदस्यति नमश्शब्दस्तादर्थ्यस्थैर्यमावहन्।
म इत्यनेन षष्ट्यन्तमकारव्यञ्जनेन वै॥ ६० ॥
ममत्वमहमर्थस्य न ज्ञातुर्नास्ति नोच्यते।
ममत्वमेव स्वार्थत्वमात्मात्मीयान्वयाद्द्विधा॥ ६१ ॥
तच्चाहङ्कारममतारूपमत्र निरस्यते।
न मह्यमिति वक्तव्ये न ममेत्युक्तिरिष्यते॥ ६२ ॥
षष्ट्यास्सम्बन्धसामान्यवाचित्वात् स्वार्थता भवेत्।
एवं निषिध्य स्वार्थत्वस्वातन्त्रस्वत्वधीमयम्॥ ६३ ॥
पारार्थ्यमेव प्रकृतं स्थापितं नमसात्मनः।
अतः कर्तृत्वमत्रास्य परायत्तमिति स्थितम्॥ ६४ ॥
‘परात्तु तच्छुते’रित्यत्रार्थे सूत्रोपपादनात्।
तथाविधिनिषेधेषु वैयर्थ्यं तन्न संभवम्॥ ६५ ॥
‘कृतप्रयत्नापेक्षं त्वित्यान्मनः प्रतिपादितम्।
इत्थं स्वार्थत्ववैधुर्यादस्याभीष्टार्थकारकः॥ ६६ ॥
परमात्मेत्यतस्तस्य ह्युपायत्वं च गम्यते।
उपायाद्यधिकारार्थमाकिञ्चन्यमपेक्षितम्॥ ६७ ॥
स्वरक्षणक्रियात्यागादत्रेव समुदीरितम्।
स्वरक्षणक्रियात्यागादत्रैव समुदीरितम्॥ ६८ ॥
त्यागोऽयममृतस्यैष सेतुश्रुत्येव दर्शितः।
‘त्यागश्च न्यासपर्याय इति शास्त्रसमीरितः॥ ६९ ॥
अतः स्वस्य स्वसंरक्षानन्वयप्रतिपादनात्।
स्वप्रवृत्तिनिवृत्त्यात्मपत्तिः प्रतिपादिता॥ ७० ॥
शरण्यवर्जनाकारनमनं शरणागतिः।
अन्तोऽस्य चानुकूलादि षडङ्गं शास्त्रदर्शितम्॥ ७१ ॥
अथ वोपायमात्मेशं ते न्यासात्मकं नमः।
शास्त्रे तथैवादेशाच्च न्यासो ब्रह्मेति च श्रुतेः॥ ७२ ॥
अनादिपरमेशो यरशक्तिमानच्युतः प्रभुः।
स्वप्राप्तये प्रधानोऽयं पन्था नमननामवान्॥ ७३ ॥
इत्येवं नमसरशास्त्रं परमार्थं प्रदर्शयन्।
नावसथयोपायभूतस्य नमस्त्वं समुपादितम्॥ ७४ ॥
शब्दतश्चार्थतश्चैवं नमसा प्रतिपादितम् ।
अनन्योपायरूपत्वमनन्याङ्गस्य चात्मनः॥ ७५ ॥
स्वरूपस्यानुरूपत्वात् भक्तेरप्यत्र सूचनम् ।
यतेर्नमस्कुर्वित्यस्य भजनत्वविधानतः॥ ७६ ॥
तथाप्ययं नमश्शब्दः प्रपत्तिप्रतिपादकः।
अनन्योपायतार्थत्वादात्मन्यासोक्तितोऽपि च॥ ७७ ।
अथोक्तार्थपरार्थत्वयुक्तये चरमं पदम्।
शरीरात्मत्वसम्बन्धं प्राहात्मपरमात्मनोः ॥ ७८ ॥
तत्र नारायणपदं समस्तत्वात् पदद्वयम्।
प्रोक्तं नारपदं तत्र नरसंघातवाचकम्॥ ७९ ॥
रि-क्षयेति क्षयार्थस्य उप्रत्ययटिलोपतः।
र इत्युक्त क्षयिष्ण्वर्थं निषेधो नेति चोच्यते॥ ८० ॥
नित्याक्षरात्मा तु नरो नारस्तत्सङ्घ उच्यते।
सङ्घाश्च बहवो बद्ध-नित्य-मुक्तविभागतः॥ ८१ ॥
इण्-धातोरय-धातोर्वा ल्युटोऽनादेशतोऽयनम्।
कर्मत्वकरणत्वोक्त्या प्राप्यं प्रापकमिष्यते॥ ८२ ॥
अयनं वासवाचित्वादाधारस्य च वाचकम्।
आधाराधेयनैयत्यमात्मदेहत्वलक्षणम्॥ ८३ ॥
एवं नारायणस्त्वात्मा सर्वेषामात्मनां सदा।
सर्वप्रकारप्राप्यश्च प्रापकश्चेत्युदीरितः॥ ८४ ॥
मातृपितृगृहक्षेत्रदारपुत्रधनादिकः॥
स्वर्गाद्याश्च तथा मोक्षः पुमर्थः प्राप्य ईरितः॥ ८५ ॥
साङ्गोपबृंहणं न्यायवेदार्थज्ञानपूर्वकः।
कर्मधीभजनं न्यासप्रमुखप्रापकस्तथा॥ ८६ ॥
सर्वात्मकस्सदा साक्षात् स एव भगवानिति।
सर्वशास्त्रार्थनिष्कर्षो नारायणपदोदितः॥ ८७ ॥
समासस्योत्तरपदप्रधानत्वान्नपुंसकम्।
पदं तत्पुरुषत्वे स्यादिति नात्र विचार्यता॥ ८८ ॥
‘करणाधिकरणयोश्चेति सूत्रानुशासनम्।
सञ्ज्ञारूपपदस्यास्य सञ्ज्ञी लिङ्गिप्रसिद्धितः॥ ८९ ॥
एवं तत्पुरुषत्वेऽपि पुंलिङ्गत्वोपपत्तितः।
नाराणामयनत्वाच्च नारायण इति स्मृतः ॥ ९० ॥
अथ वा नारशब्देन कार्यजातमुदीर्यते।
नरजातपदार्थानां नारत्वप्रतिपादनात्॥ ९१ ॥
नारा एवायनं वासो यस्य नारायणस्तु सः।
इति व्युत्पत्तितस्तस्य तदन्तर्वर्तितोदिता॥ ९२ ॥
‘तत्सृष्ट्वा च तदेवानुप्राविशं’च्च ततः परम्।
‘सच्च त्यच्चाभवच्चेत्याद्युक्तार्थो ऽत्रावगम्यते॥ ९३ ॥
तद्भावस्तु तदात्मत्वात्तद्रूपवचनान्वयात्।
यतस्तेषां शरीरत्वं तस्यात्मत्वमपि श्रुतम्॥ ९४ ॥
अत्र नारायणपदं नारशब्द इतीष्यते।
पर्यायेण प्रयुक्तोऽपि ‘जह्नुर्नारायणो नरः ॥ ९५ ॥
नरशब्दोऽर्थवाचित्वादविकारत्ववाचकः।
उपादानादिभावेऽपि ब्रह्मणः परमात्मनः ॥ ९६ ॥
एवं विकारदूरत्वात् व्याप्यादिगुणवैभवात्।
परस्योभयलिङ्गत्वं सर्वात्मत्वेन दृश्यते॥ ९७ ॥
अतो नारायणस्साक्षाज्जगज्जन्मादिकारणम्।
श्रुत्यादिषु स एवैको न बह्मा न च शंकरः ॥ ९८ ॥
उपादाननिमित्तैक्यादस्य ब्रह्मादिरूपतः।
सृष्ट्यादिकारणं तत्तत् कर्मत्वाच्चोपपद्यते॥ ९९ ॥
कारणत्वमकारोक्तं शेषित्वस्योपपादनम्।
आ व्याप्त्यर्थमुदितं पौनरुक्त्यमतो न च ॥ १०० ॥
समासद्वयतश्चैवं व्युत्पत्तिरुपपादिता।
व्याप्यैकदेशतात्पर्यवचनार्थानुसारतः॥ १०१ ॥
चेतनाश्रयरूपत्वमात्रं तत्पुरुषोदितम्।
कार्यमात्रशरीरत्वं बहुव्रीहौ च दर्शितम्॥ १०२ ॥
तथा नारायणपदं समस्तेष्वपि वस्तुषु।
अन्तर्बहिश्च व्याप्तिश्च संज्ञात्वेन श्रुतीरितम्॥ १०३ ॥
तत्र नारपदं नित्यवस्तुसंघाभिधायकम्।
स्वतः प्रवाहतश्चेति नित्यत्वञ्च द्विधोदिते॥ १०४ ॥
नित्यानामपि वस्तूनां नित्येष्टत्वात् परात्मना।
तद्गुणादिवदेवेह नित्यत्वमवगम्यते॥ १०५ ॥
अपृथक्सिद्धरूपेण नित्यं तत्पारतन्त्र्यतः।
परैकायत्तरूपत्वं नित्यानां श्रूयते परम्॥ १०६ ॥
परस्य गुणरूपे च भूषणान्यायुधानि च।
पत्न्यः परिजनस्थानमिति भोगविभूतयः ॥ १०७ ॥
विमोचकरणं कालः क्षेत्रज्ञः पुरुषस्तथा।
स्वतो नित्यमिदं संर्व प्रवाहेणान्यनित्यता॥ १०८ ॥
महानहंकृतिश्चैव पञ्चतन्मात्रकं तथा।
एकादशेन्द्रियं पञ्च भूतान्यण्डञ्च तद्भवम्॥ १०९ ॥
तदन्तर्वस्तुजातं यदण्डान्तरशतं च यत्।
संर्व नारपदेनोक्तमिति शास्त्रविदां मतम्॥ ११० ॥
अथ वा नरसम्बन्धि नारमित्यभिधीयते।
नरश्च भगवान्नित्यो नाराश्चिदचिदात्मकाः॥ १११ ॥
यस्यायनं ते तेषां य इति व्युत्पत्तिभेदतः।
अन्तर्बहिश्चेत्यत्रोक्तं व्याप्तिद्वयमुदीर्यते॥ ११२ ॥
तत्रान्तर्व्याप्तितस्तस्य नियन्तुः परमात्मनः ।
सर्ववस्तुशरीरत्वं सिद्धं सर्वान्तरात्मनः ॥ ११३ ॥
बहिर्व्याप्तेरनन्तस्य स्वरूपाल्पांशलेशतः।
सर्वाधारत्वरूपेण महार्थातिशयः स्पुटः ॥ ११४ ॥
एवं व्याप्तिद्वयाकारः श्रूयते परमात्मनः।
‘अणोरणीयान् महतो महीयानिति वाक्यतः ॥ ११५ ॥
नारायणस्य सर्वेषामणीयस्त्वमणीयसाम्।
समस्तानां महिष्ठानां महिष्ठत्वमपि श्रुतम्॥ ११६ ॥
तस्मानारायणः साक्षादचितां च चितामपि।
अन्तरात्मा च सर्वेषामाधारश्चोपपादितः॥ ११७ ॥
नारायणपदस्यास्य प्रोक्तोऽयं योजनाक्रमः।
व्याप्यसंकोचवृत्त्यैव पूर्णार्थप्रतिपादकः ॥ ११८ ॥
वासुदेवपदे व्यक्तं व्याप्तिद्वयमिदं समम्।
तत्र चाध्याहृतं व्याप्यमत्र नारपदोदितम्॥ ११९ ॥
पुरुषोत्तमशब्दश्च समानार्थे ऽवगम्यते।
क्षराक्षरोभयव्याप्तिभृतिस्वाम्यादिकस्तथा॥ १२० ॥
एवं समस्तशब्दानां परतत्त्वाभिधायिनाम्।
नारायणपरत्वञ्च वेदान्तेषु नियम्यते॥ १२१ ॥
प्रणवेन प्रतिज्ञातं परशेषत्वमात्मना।
तसिद्ध्यै स्वार्थताभावो नमसा प्रतिपादितः॥ १२२ ॥
तस्योपपत्तये ज्ञातुः परमात्मशरीरता।
नारायणपदेनोक्ता तत्पारार्थ्यैकलक्षणा॥ १२३ ॥
तस्मात्परैकशेषत्वं स्वरूपमिति चात्मनः।
उक्तं निगमयत्यत्र तादर्थ्यप्रत्ययः स्कुटम्॥ १२४ ॥
अतः पारार्थ्यसिद्ध्यर्थं ज्ञातुः स्वार्थत्ववारणम्।
युक्तं परशरीरत्वात्ततस्तच्छेषता स्थिता ॥ १२५ ॥
प्रथमेन स्वरूपस्य मध्यमेन स्थितेरपि।
चरमेण पदेनोक्ता प्रवृत्तेश्च तदर्थता ॥ १२६ ॥
स्वरूपस्थितिवृत्तीनामेवं तादर्थ्ययसंभवात्।
तदर्थवृत्तिरूपं तत् कैंकर्यं प्रत्ययोदितम् ॥ १२७ ॥
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा।
तत्कैंकर्यैकभागत्वमात्मनश्शास्त्रदर्शितम्॥ १२८ ॥
भोक्तृभोग्यार्थनित्यत्वादत्र भोगस्य नित्यता।
असङ्कोचपरिच्छेदात् सर्वत्र च समन्वयः॥ १२९ ॥
अपृथक्सिद्धरूपत्वात् सर्वावस्थात्वसंभवः।
सर्वप्रकारसम्बन्धात् सिध्दस्सर्वविधान्वयः॥ १३० ॥
एवं ज्ञातृत्वकर्तृत्वभोक्तृत्वमपि चात्मनः।
परायत्तमिति प्रोक्तं क्रमादत्र पदत्रये॥ १३१ ॥
साक्षाद्भोक्ता परश्शेषी शेषस्य ज्ञातृतान्वयात्।
कर्तृत्ववत्तदायत्तं भोक्तृत्वमपि च स्थितम्॥ १३२ ॥
भोग्यत्वादन्नभूतोऽहं मामदन्तं विपश्चितम्।
अत्तीति मुक्तस्यान्नत्वमन्नादत्वञ्च गीयते॥ १३३ ॥
तस्मादनन्यशेषोऽयमनन्यशरणस्तथा।
अनन्यभोगश्चात्मेति पदत्रयसमीरितम्॥ १३४ ॥
अतश्शेषी शरण्यश्च भोग्यश्च भगवानिति।
ज्ञानादपास्तमज्ञानमहङ्कारार्थकामनम्॥ १३५ ॥
एवं प्रकारसम्पन्नं मन्त्रेणानेन कृत्स्नशः।
आत्मस्वरूपयाथात्म्यं सामान्येनोपवर्णितम्॥ १३६ ॥
स्वानुसन्धानरूपत्वं मन्त्रस्यास्य यदीष्यते।
तदा नारायणायैव स्यामिति प्रार्थना मता॥ १३७ ॥
सर्वावस्थोचिताशेषशेषतैकरतिस्तव।
भवेयमिति कैंकर्यप्रार्थनावचनोदयात्॥ १३८ ॥
स्वांशशब्दार्थसंसर्गसिध्दवाक्यार्थबोधनात्।
पदत्रयस्य प्रत्येकं वाक्यत्वे संभवत्यपि॥ १३९ ॥
वाक्यैकवाक्यन्यायेन परस्परसमन्वयात्।
अत्रावान्तरवाक्यत्वे नैकवाक्यत्वमिष्यते॥ १४० ॥
परस्पराश्रयो वा स्यात् सर्वत्रान्योऽन्यदास्यतः।
इत्याशङ्का न कर्तव्या विषयस्य व्यवस्थितेः॥ १४१ ॥
शेषत्वमनुसन्धेयं स्वासाधारणमात्मनः।
शेषित्वं स्वेतराशेषतदीयाश्रयमित्यतः॥ १४२ ॥
एवं प्रत्येकतस्सिध्देर्न विरोधादिसंभवः।
तस्मात्तदीयशेषत्वमुपपन्नतरं भवेत्॥ १४३ ॥
अनन्यशेषतायुक्तमाकारत्रयमात्मनः।
शेषित्वादिपराकारत्रितयप्रतियोगिकम् ॥ १४४ ॥
तथा तदीयपारार्थ्ये ऽप्याकारत्रयमिष्यते।
शेषिणश्च शरण्याश्च प्राप्याश्चानेन ते मताः॥ १४५ ॥
एतेषामिदमाकारत्रयञ्चात्रावगम्यते।
तत्तदाकारसंयुक्तपराशक्तिप्रभावता ॥ १४६ ॥
अतः पदत्रयप्रोक्तमाकारत्रयमात्मनः।
तदीयान्वयपर्यन्तमित्येतत् प्रतिपादितम् ॥ १४७ ॥
एकवाक्यत्वपक्षेऽपि विशिष्टविषयत्वतः।
तदीयान्वयपर्यन्ततच्छेषत्वपरं नमः ॥ १४८ ॥
तस्मादितरसंसृष्टजनसंसर्गवर्जितम्।
तदीयदास्यं तत्त्वज्ञैः मन्त्रतात्पर्यमीरितम्॥ १४९ ॥
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात्।
विहितो मूलमन्त्रार्थस्तत्त्वदीपस्य संग्रहः॥ १५० ॥
इति तत्त्वदीपसंग्रहकारिकायां मूलमन्त्रप्रकरणं समाप्तम्।
द्वयप्रकरणम्
अथ द्वयप्रकरणम्।
अथाष्टाक्षरमन्त्रार्थतत्त्वयाथात्म्यवेदिनः।
हितः प्रपदनाकारो द्वयार्थस्संप्रदर्श्यते॥१॥
उपायोपेययाथात्म्यप्रत्ययानुपुरस्सरात्।
तत्तद्वरणनिक्षेपरूपार्थद्वयबोधनात्॥ २ ॥
वाक्यद्वयात्मकत्वाच्च द्वयमित्युच्यते बुधैः।
तदिदं मन्त्ररत्नं तु नाम पौराणिका जगुः॥ ३ ॥
खिले च कठवल्यादावखिले तन्त्रविस्तरे।
पाद्मादिके पुराणे च द्वयं तत्त्वेन वर्ण्यते॥ ४ ॥
उपायवरणं पूर्ववाक्येन प्रतिपाद्यते।
उत्तरेण फलेच्छाद्यवियुक्तात्मसमर्पणम्॥ ५ ॥
पूर्वत्र वाक्ये प्रथमं समस्तत्रिपदं पदम्।
तत्र श्रीमत्पदं त्वाद्यं प्रकृतिप्रत्ययात्मकम्॥६॥
श्रीरिति प्रथमं नाम लक्ष्म्यास्तन्निर्वचक्रमैः।
तत्स्वभावविशेषाणां यथार्थ्यमवगम्यते॥ ७ ॥
श्रयन्ती वैष्णवं भावं श्रीयमाणाखिलैर्जनेः।
शृण्वती तदपेक्षोक्तीः श्रावयन्ती च ताः परम्॥ ८ ॥
शृणाति निखिलान् दोषान् शृणाति च गुणैर्जगत्।
इत्यादिभिर्निरुता या सा श्रीरिति निगद्यते॥९॥
तस्याः पुरुषकारत्वादीश्वराश्रयणे नृणाम्।
एते स्वभावा विज्ञेया घटकत्वोपयोगिनः॥ १० ॥
‘अस्येशाना जगतो विष्णुपत्नीति च श्रुता।
लक्ष्मीरुभयसंबन्धाद् घटकत्वोचिता मता॥ ११ ॥
वात्सल्यगुणतः श्रुत्वा स्वार्थ्यपेक्षावचःक्रमम्।
स्वप्रेयसे च विज्ञाप्य वाल्लभ्याद्घटयत्यसो॥ १२ ॥
शरण्याश्रयणी पुंसां संशयादिव्युदस्य च।
विज्ञानव्यवसायादि करोति कमलालया॥१३॥
एवं कार्यकरत्वेन बहुव्युत्पत्तिभेदतः॥
लक्ष्म्याः पुरुषकारत्वं श्रीशब्देनोपपादितम्॥ १४ ॥
मतुपा प्रत्ययेनास्या नित्यसंयोग उच्यते।
स्वप्रेयसा शरण्येन शरणार्थ्युपकारकः ॥ १५ ॥
अनेन क्षणभंगिन्या रुचेरौत्पत्तिकक्षणे।
शरण्याश्रयणौचित्यं तत्सान्निध्येन दर्शितम्॥ १६ ॥
उदधेरिव च स्थैर्यं महत्तेव विहायसः।
प्रभेव दिवशेशस्य ज्योत्स्नेव हिमदीधितेः ॥ १७ ॥
स्वासाधारणरूपेण स्वरूपादिसमन्वयात् ।
सर्वातिशयिताकारा विष्णोः श्रीरनपायिनी॥ १८
एवं श्रीमत्पदेनैव घटकत्वानुरूपया।
श्रिया सदैव संयुक्तः शरण्य इति गम्यते॥ १९ ॥
भवेत् पुरुषकारस्तु शरण्यावर्जनाय चेत्।
न बिभेच्छरणागत्या तद्वशीकरणश्रिया॥ २० ॥
शरणागतिसामर्थ्याच्छरण्यगुणवैभवात्।
फलस्याव्यभिचारस्तु लोके वेदे च दृश्यते॥ २१ ॥
एवं विज्ञानतत्त्वानां शेषिसंश्रयणे नृणाम्।
कथं स्यादघटकापेक्षा पृथक्सिद्धेरभावतः॥ २२ ॥
इत्याशंका न कर्तव्या स्वातन्त्र्यादेव शेषिणा।
अस्यैव घटकापेक्षा स्वापराधभयान्नृणाम्॥ २३ ॥
अपि तत्त्वविदो पुंसामस्त्येव घटकार्थिता।
अनादावेव सम्बन्धेऽप्यपराधे क्षणाद्विभोः॥ २४ ॥
पितेव भगवान् पुंसां नित्यं हितपरत्वतः।
अकृत्यकरणादौ हि कलुषो दण्डमावहेत्॥ २५ ॥
उन्मदिष्णुं सुहत्वेन निगळाद्ये यथा पिता।
दण्डयेदेव मे वेगो नरकाद्यैरमार्गिकम्॥ २६ ॥
एषा मातेव वात्सल्यं जनयित्री प्रियाशये।
विस्मार्य दोषानखिलान् लक्ष्मीस्वजनयत्यमून्॥ २७ ॥
तस्मादात्मविदां पुंसां शरण्याश्रयणार्थिनाम्।
लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः॥ २८ ॥
एतद्व्यपेक्षसम्बन्धादन्येषाममलात्मनाम्।
देवीसूरिगुरूणाञ्च घटकत्वं न तु स्वतः ॥ २९ ॥
स्वसम्बन्धस्तु शेषत्वमेषां श्रीमति शेषिणि।
यतस्सर्वस्य सर्वेशे तच्छ्रीद्वारा समन्वयः॥ ३० ॥
अनयोर्मिलितं देवे गुणजातं निबोधयत्।
व्यक्त्याश्रयणीयत्वान्नारायणपदं ततः॥ ३१ ॥
तत्र सूपसदत्वार्थाः कार्यार्थाश्च द्विधा गुणाः।
वात्सल्यप्रमुखाः पूर्वे ज्ञानशक्त्यादयोऽपरे॥ ३२ ॥
वात्सल्यं स्वामिभावञ्च सौशील्यं सुलभत्वता।
ज्ञानं शक्तिश्च पूर्तिश्च प्राप्तिश्चेति गुणा मताः॥ ३३ ॥
वात्सल्यं दोषभोग्यत्वं स्वाम्यं स्वेष्वभिमानिता।
सौशील्यं मन्दसंश्लेषः सौलभ्यं नित्यसन्निधिः॥ ३४ ॥
निजापराधबन्धुत्वं नैच्यदूरस्थताभयम्॥
अपास्यतेऽर्थानामेतैश्शरण्यस्य गुणैः क्रमात्॥ ३५ ॥
ज्ञानादभीष्टदर्शित्वं शक्या तद्घटनक्रिया।
पूर्त्या स्वाधीनविश्वत्वं प्राप्त्या शेषित्वमुच्यते॥ ३६ ॥
स्वाज्ञानाशक्यपूर्वत्वप्राप्तिहानिनिबन्धना।
अर्थिनः कार्यवैघट्याशङ्कामीभिर्निवार्यते॥ ३७ ॥
अपि स्वकर्मफलदं ज्ञानादिकचतुष्टयम्।
अस्यार्थितार्थकरणे दयासाहित्यमिष्यते॥ ३८ ॥
सर्वकार्योपयोगिन्यप्यसावथ दया हरेः।
प्राधान्येन शरण्यस्य विज्ञेया शरणार्थिनाम्॥ ३९ ॥
अत्र माता पिता भ्राता निवासः शरणं सुहृत्।
गतिर्नारायणः श्रुत्यैवेत्येते दर्शिता गुणाः॥ ४० ॥
क्रमेणात्रोच्यते पूर्वं वात्सल्यादिचतुष्टयम्।
ज्ञानादिगुणजातञ्च सुहद्भावेन सूच्यते॥ ४१ ॥
मातृत्वादिह वात्सल्यं पितृत्वात् स्वामितोच्यते।
भ्रातृत्वेन च सौशील्यं सौलभ्यं च निवासतः॥ ४२ ॥
शरणत्वादुपायत्वं सुहृत्वाच्छुभकारिता।
गतित्वात् प्राप्यता चेति नारायणपदश्रुतिः॥ ४३ ॥
अस्मिन् पदे शरण्यस्य कारणत्वञ्च कथ्यते।
कारणस्य शरण्यत्वं श्वेताश्वतरदर्शितम्॥ ४४ ॥
उपास्यवच्छरण्येऽपि कारणत्वं विशेषतः।
अभीष्टार्थनिदानत्वादनुसन्धेयमर्थिनाम्॥ ४५ ॥
स्वरूपादिसमस्तार्थं परेऽप्येते तु साम्प्रतम्।
नारायणपदे ग्राह्याः शरण्यत्वोचिता गुणाः॥ ४६ ॥
एवं गुणविशिष्टत्वात् सौलभ्यातिशयादपि ।
अर्चावतारस्सर्वेषां सुशकाश्रयणं स्फुटम्॥ ४७ ॥
न परव्यूहविभवस्वान्तर्यामितया स्थितेः।
देशकालाक्षिदूरत्वात् शक्याश्रयणता नृणाम्॥ ४८ ॥
अथ वोपायवरणविश्वासप्रतिबन्धकम्।
हन्यते चित्तदोर्बल्यं श्रीमन्नारायणेत्यतः॥ ४९ ॥
विरोध्युपायोपेयानां भूयस्त्वाल्पत्वगौरवैः।
जातं विश्वासशैथिल्यं निरस्तव्यं तु नित्यशः॥ ५० ॥
अधिगम्यत्वसम्बन्धज्ञानशक्यादिसूचनात्।
व्युदस्यतेऽत्र शैथिल्यं श्रीमदादिपदद्वयात्॥ ५१ ॥
नाराश्चेतनसंघातास्तेषामयनमित्यतः।
कारणत्वादुपायत्वं शरण्यस्यात्र गम्यते॥ ५२ ॥
एवं नारायणपदे शरण्यत्वोपयोगिनः।
गुणाः सूपसादत्वार्थाः कार्यार्थाश्च निरूपिताः॥ ५३॥
एते पुरुषकारेण समुद्भाव्या गुणा यदि।
तद्युक्तोपायसाध्यत्वसापेक्षत्वं तदा भवेत्॥ ५४॥
उद्भावकत्वं सर्वत्र हेतृत्वमवगम्यते।
सत्कार्यवादानुमतेस्तथा श्रुत्यादिदर्शनात्॥ ५५ ॥
स्वाविर्भावात्मको मोक्षो हेतुसाध्यः स्फुटो मतः।
अतो हेतुव्यपेक्षस्य सिद्धत्वादि न सिध्यति॥ ५६ ॥
न केवलं हि वात्सल्यं प्रमुखस्यैव दृश्यते।
ज्ञानादेरप्यभीष्टार्थकारित्वे हेत्वपेक्षया॥ ५७ ॥
दयासाहित्यमात्रेण नैरपेक्ष्यं च मा स्म भूत्।
तस्याः पुरुषकारेण समुद्भाव्यत्वसिद्धितः॥ ५८ ॥
अन्यथा वत्सलत्वादेरुदयोऽपि न संभवेत्।
अतः पुरुषकारोऽत्र दयोद्भावक इष्यते॥ ५९ ॥
तदपेक्षतया साध्यस्योन्मुख्यमपि जृम्भते।
उपाये तु न सिध्दत्वनिरपेक्षत्वसंभवः॥ ६० ॥
इत्येतदसमीचीनं चोद्यमित्यवगम्यताम्।
अज्ञातोपायतत्त्वानां स्वबुद्ध्या कल्पितत्वतः॥ ६१ ॥
उपायोपेयभावश्च वस्तुसत्तासमन्वितः।
हेयप्रतिभटत्वाच्च कल्याणात्मतोऽपि च ॥ ६२ ॥
एवं परस्योपायत्वे स्वनिरूपकया श्रिया।
संभावितगुणोन्मेषात् सापेक्षत्वं न संभवेत्॥ ६३ ॥
श्रियः स्वात्मैकशेषत्वात् स देवो रत्नदीपवत्।
तदायत्तार्थितायामप्यनन्याधीनवैभवः॥ ६४ ॥
इत्याचार्योपदिष्टत्वाच्छास्त्रतात्पर्यतोऽपि वा।
परस्य श्रीनिवासत्वमपराधीनतावहम्॥ ६५ ॥
एवं गुणविशिष्टस्य शरण्यस्य शुभाश्रयः।
चरणावित्यनेनैव विग्रहञ्चोपलक्ष्यते॥ ६६ ॥
विग्रहस्य ह्युपायत्वं स्वरूपात्तद्गुणादपि।
सूच्यतेऽनेन तद्रूपं चिन्तयत्याश्च मुक्तिताः॥ ६७ ॥
अथवा शेषभूतस्य शरण्याश्रयणार्थिनः।
स्वत्योचितं संश्रुतव्यमेव तच्चरणद्वयम्॥६८॥
लोके च पादपतनं पाण्यादिग्रहणादपि।
दयाहेतुतया दृष्टमित्युक्तं चरणाविति॥ ६९ ॥
उक्तस्य गुणरूपादेरुपायेऽपि समन्वयान्।
ततश्शरणशब्दोऽयमुपायार्थत्ववाचकः॥ ७० ॥
‘उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम्।
वर्तते सांप्रतं चेष उपायार्थैकवाचकः॥ ७१ ॥
तस्माच्छरणशब्देन गुणरूपादिसंयुतः।
नारायणः स्वयं सिद्धेरुपाय इति दृश्यते॥ ७२ ॥
लक्ष्म्या विशेषणत्वेन शाब्देन च गुणादिवत्।
तद्वैशिष्ट्यमुपायस्य युक्तमित्यवगम्यते॥ ७३ ॥
तथा च वस्तुसामर्थ्याच्छ्रुतिस्मृत्यादिदर्शनात् ।
राक्षसीरक्षणाच्चापि दृष्टा ह्यस्या उपायता॥ ७४ ॥
वाचा परं प्रार्थयिता प्रपद्ये नियतश्रियम्।
‘तां पद्मनेमीं शरणं प्रपद्य इति च श्रुतेः॥ ७५ ॥
‘सर्वकामप्रदां रम्यां संसारार्णवतारिणीम्।
क्षिप्रप्रसादिनीं लक्ष्मीं शरण्यामुनचिन्तयेत्॥ ७६ ॥
अनेनैवं प्रपन्नस्य श्रियं देवीं सनातनीम्।
पापानुषङ्गस्सकलस्तत्क्षणादेव नश्यति॥ ७७ ॥
इति स्वायम्भुवोक्तिश्च देव्या श्रिय उपायताम्।
‘सर्वेषु पुरुषार्थेषु विदधाति विशेषतः॥ ७८ ॥
उपायं वृणु लक्ष्मीशं तमुपायं विचिन्तय ।
इत्यत्रिवचनेनापि वैशिष्ट्यं हि विधीयते॥ ७९ ॥
‘अहं मत्प्राप्त्युपायो वै साक्षाल्लक्ष्मीपतिः स्वयम्।
इति स्वेनैव चोक्तत्वात् विशिष्टोपायता स्थिता॥ ८० ॥
यच्च स्वरक्षणाशक्तिः काकवृत्तान्तलक्षिता।
यच्च रावणरुद्धायाः स्वविरोध्यनिवर्तनम्॥ ८१ ॥
यच्चापि गुणवन्नास्या रक्षकत्वेन निश्चयः।
तत्सर्वं स्वात्मपारार्थ्यस्वरूपानुविधानजम्॥ ८२ ॥
अन्यथानन्यथासिध्दवचःक्षोभो महान् भवेत्।
तस्माच्छ्रियःपतेरेव साधनत्वं व्यवस्थितम्॥ ८३ ॥
इत्थं लक्ष्मीविशिष्टस्य यद्यपि स्यादुपायता।
तथाप्यत्र विवेक्तव्यो विशेषः कश्चिदिष्यते॥ ८४ ॥
उपायकार्यकर्तृत्वप्राधान्यं भगवद्गतम्।
देव्यास्तत्रानुमोदेन विद्यतेऽनुविधायिता॥ ८५ ॥
अस्या नियतपारार्थ्यात् सर्वत्रैवं व्यवस्थितम्।
कारणत्वनियन्तृत्वभोगमोक्षविधौ हरेः॥ ८६ ॥
‘लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकः सर्वसिद्धान्ते वेदान्तेऽपि च गीयते’ ॥ ८७ ॥
इति कारुण्यरूपत्वमस्याः शास्त्रसमीरितम् ।
स्वसंश्लेषेण देवेऽपि करुणातिशयावहा ॥ ८८ ॥
एवन्तु करुणामूर्तिश्शरण्यस्यानुयायिनी ।
ततः कारुणिकत्वेन रक्षत्यखिलमीश्वरः ॥ ८९ ॥
सर्वत्र कर्तृव्यापारप्राधान्यं परमात्मनः ।
इयं तत्कार्यसंसिद्धिप्रीत्या तदनुमोदते ॥ ९० ॥
तस्मादस्याविशिष्टत्वेऽप्युपायस्यावगम्यते ।
विशेष्यांशप्रधानत्वमनुगत्वविशेषणे ॥ ९१ ॥
एवंविधस्योपायस्य प्रपद्य इति शब्दतः ।
अर्थानुष्ठानकालेऽर्थं भरणं प्रतिपाद्यते ॥ ९२ ॥
पदलीगतिवायित्वादुपायवरणात्मिका ।
मनोवाक्कायनिष्पाद्या त्रिविधा गतिरिष्यते ॥ ९३ ॥
मानसी तत्र विश्वासपूर्वकप्रार्थना मतिः ।
वाचिकी याचनोक्तिः स्यात् प्रणामादिस्तु याचिका ॥ ९४ ॥
गतिस्तृतीयमेतत्तु यत्र संभूय वर्तते ।
तत्र पूर्णप्रपत्तिः स्यात् साजात्येष्वेव संभवेत् ॥ ९५ ॥
एतदन्यतमा दृप्तेष्वत्र मुख्या तु मानसी ।
अमनस्का तदपरा वाचिकी कायिकी मता ॥ ९६ ॥
आर्तेष्वियं प्रपत्तिस्तु नित्यमाहुः फलप्रदा ।
दृप्तेषु स्वाभिसन्धानसमानफलदा मता ॥ ९७ ॥
आर्तोऽनिष्टस्य निश्शेषशीघ्रापनयनेच्छया ।
इष्टप्राप्त्यविळम्बार्थो दृप्तस्तदितरो मतः ॥ ९८ ॥
आर्तः पूर्णाधिकारी स्याद् दृप्तस्तद्विकलोऽप्यथ ।
सर्वात्मना शरण्येन रक्ष्यो हि शरणागतः ॥ ९९ ॥
अग्निविद्याङ्गवैधुर्याद्विशेषाश्रमिणामपि ।
सत्यादिवदियं व्याप्ता सर्वत्र शरणागतिः॥ १०० ॥
सैषा स्वे शेषिचरणशरणप्रार्थनात्मिका ।
स्वतःसिद्धस्वपारार्थ्यस्वभावनियतोचिता ॥ १०१ ॥
तत्प्रकर्षात् प्रशब्देन महाविश्वास ईरितः ।
प्रपत्तेर्वर्तमानत्वमत्रानुष्ठानकालजम् ॥ १०२ ॥
उच्यते ‘देवसदनं बर्हिर्दामी’ति वाक्यवत् ।
अत्रानुवृत्त्या वृत्तत्वे वक्तव्ये शरणागतेः ॥ १०३ ॥
सत्त्वात्प्रवृत्तिश्शास्त्रस्य शैथिल्यञ्च प्रसज्यते ।
अथ वात्र पदे त्वाद्ये समस्ते व्यस्ततां गते ॥ १०४ ॥
श्रीमन् नारायणेति स्यात् सम्बुध्यन्तं पदद्वयम् ।
शरण्यस्य तु सम्बुध्दिराभिमुख्यकरी मता ॥ १०५ ॥
ततः प्रत्यक्षसौलभ्यं परोक्षत्वाच्च युज्यते ।
तदानीं तवशब्दस्य तत्राध्याहार इष्यते ॥ १०६ ॥
चरणावित्यतः पूर्वं शास्त्रेष्वेवं च दृश्यते ।
श्रीमन्नारायण स्वामिन् अनन्यशरणस्तव ॥ १०७ ॥
चरणौ शरणं यात इत्याद्यैर्वचनैः स्फुटम् ।
समस्तत्वं च शास्त्रोक्तं षट्पदत्वोपदेशतः ॥ १०८ ॥
उभयं भाष्यकारेण गद्यद्वयसमीरितम् ।
तस्मात् पूर्वेण वाक्येन श्रीमन्नारायणस्य तु ॥ १०९ ॥
चरणौ शरणत्वेन वृणुते मतिमान्नरः ।
अथोत्तरेणोपायस्य फलप्रार्थनयान्वितः ॥ ११० ॥
तत्र स्वाम्यवियोगेन स्वात्मन्यास इतीर्यते ।
असावैश्वर्यकैवल्यभगवत्प्राप्तिदायिनी ॥ १११ ॥
आर्ताद्यधिकृतेर्भेदान् प्रपत्तिर्भक्तिवन्मता ।
प्रपत्त्याकारनिक्षेपपरेऽर्थेऽप्यस्य लक्षिते ॥ ११२ ॥
वाक्यस्य शब्दतात्पर्यं नित्यदास्यैकबोधने ।
तत्र श्रीमत्पदं त्वाद्यं नारायणविशेषणात् ॥ ११३ ॥
कैङ्कर्यप्रतिसम्बन्धिपूर्णत्वमवगम्यते ।
व्युत्पन्नः कर्तृकर्मार्थे श्रीशब्दः प्राह पूर्ववत् ॥ ११४ ॥
श्रियः परैकाश्रयणं निखिलाश्रयणीयता ।
यतः स्वसंश्लेषोत्कर्षात् परस्यातिशयावहा ॥ ११५ ॥
स्वयं चातिशयाकारा ततः श्रीरित्युदीर्यते ।
यथा परिमळाघ्रातुः पुष्पं श्लाध्यतरं मतम् ॥ ११६ ॥
यथा स्वया च दीप्त्यैव रत्नं याति महार्घताम् ।
तथा नित्यानपयिन्या स्वतो माङ्गल्यरूपया ॥ ११७ ॥
श्रिया भवति विश्वेशे मङ्गळानां च मङ्गळम् ।
अतः परस्य प्राप्यत्वं पूरयन्ती स्वसङ्गमात् ॥ ११८ ॥
प्राप्यभूता च सर्वेषां श्रुतेति श्रीर्निरुच्यते ।
‘श्रद्धया देवो देवत्वमश्नुते’ स्वश्रिया तु सः ॥ ११९ ॥
‘श्रद्धा प्रतिष्ठा लोकस्य देवी’ त्यत्र श्रुतिक्रमः ।
नित्यं श्रद्धेयरूपत्वात् श्रद्धेति श्रीः प्रकीर्तिता ॥ १२० ॥
श्रद्धा मे येति सूक्तेषु तत्तन्नाम्ना च संश्रिता ।
ईशस्य श्रीसमाश्लोषो महार्थातिशयावहः ॥ १२१ ॥
अस्या भगवदायत्ता सत्तेत्युक्ता परार्थता ।
इत्थं परार्थभावेन श्रीस्सा भगवदाश्रया ॥ १२२ ॥
नित्यं तदीप्साविषयः श्रीः श्रीपरमः पुमान् ।
अनया नित्यसंयोगः परस्य मतुपोदितः ॥ १२३ ॥
ततः सर्वातिशायित्वपूर्तिः प्राप्तिश्च गम्यते ।
एतेन देशकालादिष्वितरापेक्षवैभवात् ॥ १२४ ॥
पुरुषार्थान्तरादस्य मिथुनप्राप्यभावतः ।
तस्मान्मिथुनशेषस्य मिथुनप्राप्यभावतः ॥ १२५ ॥
स्वस्वरूपानुरूपत्वं पुरुषार्थस्य लभ्यते ।
एतदन्यतरस्यात्र विरहोऽनर्थ इष्यते ॥ १२६ ॥
मुख्याङ्गहानिनाशश्च शूर्पणख्याञ्च रावणे ।
प्राप्यस्य परमस्यास्य नारायणपदात्ततः ॥ १२७ ॥
स्वरूपरूपस्वगुणविभूत्यानन्त्यमुच्यते ।
तत्र नारपदेनोक्तं गुणरूपविभूतिषु ॥ १२८ ॥
नित्यैकरूपासंख्येयनिस्सीमत्वादिवैभवम् ।
येषामाश्रयभूतस्य कोट्यर्बुदलवांशतः ॥ १२९ ॥
स्वरूपस्य च माहात्म्यमुक्तं त्वयनशब्दतः ।
एवं नारायणस्यास्य श्रीमत्त्वपरिबृंहितम् ॥ १३० ॥
स्वरूपादिसमस्तार्थवैलक्षण्यं प्रतीयते ।
शान्तानन्तचिदानन्दस्वरूपं परमात्मनः ॥ १३१ ॥
स्वानुरूपस्वरूपश्रीश्रयणानन्दभाजनम् ।
अत्यद्भुतोज्ज्वलाकारदिव्यं नयननन्दनम् ॥ १३२ ॥
रूपं च तादृशाकारश्रीसंश्रितभुजान्तरम् ।
ज्ञानादयश्च शीलाद्याः कान्त्याद्या निखिला गुणाः ॥ १३३ ॥
दर्पणस्थायिनोऽन्योऽन्यं भोग्या श्रीश्रीशयोस्स्फुटम् ।
नित्यां विभूतिं परमां नित्यालोकोपबृंहितम्॥ १३४ ॥
निवेदयन्ती नाथाय देवी तत्रात्र सेवते ।
व्यूहेषु चावतारेषु सदा तस्यानपायिनी ॥ १३५ ॥
रूपाद्यैरनुरूपैः स्वैः संश्लिष्याह्लादकारिणी ।
जगत्सृष्ट्यादिलीलासु देवं श्रीर्मोदयत्यसौ ॥ १३६ ॥
अपाङ्गैरनुमोदाद्यैर्जगत्स्फुरणकारिणी ।
एवं नारायणस्य श्रीः सर्वभावानुगामिनी ॥ १३७ ॥
सर्वप्रकारभोग्यत्वं शेषित्वं पूरयत्यसौ ।
तस्मान्नारायणपदे श्रीमत्पदविशेषिते ॥ १३८ ॥
सर्वाधिकस्स सम्पूर्णो भोग्यः शेषीति बोध्यते ।
एवं सत्यनुरूपत्वं तद्दास्यस्यावगम्यते ॥ १३९ ॥
सेवा निषिद्धा ह्यन्यत्र विहिता भगवत्यसौ ।
तत्पूर्णानुभवोद्भूतप्रहर्षोत्कर्षकारितम् ॥ १४० ॥
फलं स्वमात्मनो दास्यं चतुर्थ्या प्रार्थ्यते ततः ।
स्वरूपस्थितिवृत्तीनां तादर्थ्यं निखिलस्य च ॥ १४१ ॥
शरीरात्मत्वसम्बन्धान्नारायणपदोदितम् ।
तस्मात्तादर्थ्यवाचिन्या चतुर्थ्यात्र प्रदर्श्यते ॥ १४२ ॥
वृत्तिपर्यन्ततादार्थ्यरूपकैङ्कर्यमात्मनः ।
सदा सर्वत्र सकलास्ववस्थास्वप्यशेषतः ॥ १४३ ॥
सिद्धिः कैङ्कर्यरूपस्य भोगस्यात्रावगम्यते ।
अस्मिन्नारायणपदे प्रोक्ता सर्वस्य नित्यता॥ १४४ ॥
भोक्तभोग्यपरत्वेन भोगनित्यत्वबोधिनी ।
आविर्भूतस्वरूपाणामसङ्कोचादिहात्मनाम् ॥ १४५ ॥
अखिलापाश्रयब्रह्मभोगस्सार्वत्रिको मतः ।
शरीरात्मत्वसंबन्धादपृथक्सिद्धलक्षणात् ॥ १४६ ॥
भोक्तभोग्यगतो भोगस्सर्वावस्थास्ववस्थितः ।
तत्सम्बन्धप्रयुक्तस्य शेषत्वस्यात्मनामिह ॥ १४७ ॥
सर्वप्रकारतस्सिद्धेर्भोगस्सर्वविधान्वितः ।
एतेन नित्यभोगेन यावदात्मानुवर्तिना ॥ १४८ ॥
कर्मसाध्यास्थिरैश्वर्यभोगो व्यावर्त्यते स्पुटम् ।
भोगेन सर्वलोकेष्वप्यसङ्कोचवतात्मनः ॥ १४९ ॥
स्वरूपाणुत्वतस्स्वल्पकैवल्यमपवारितम् ।
जगद्व्यापारसंमिश्रदुःखासहतान्वितान् ॥ १५० ॥
परानन्दादयं भोगस्सर्वावस्थाविलक्षणः ।
पराश्लेषैकसंपन्नलक्ष्मीभोगादिहात्मनः ॥ १५१ ॥
अखिलाकारसंयुक्तो भोगोऽत्यर्थं विशिष्यते।
एवं विशिष्टकैङ्कर्यभोगो यन्नित्यमात्मनः॥ १५२ ॥
तादर्थ्यप्रत्ययेनात्र स्वरूपमिति बोधितः।
आत्मान्तरात्मदेहात्मभावसिद्धापृथक्स्थितेः॥ १५३ ॥।
स्वात्मभोगात्मको भोगस्त्वविभागेन दृश्यते।
अयमेवाविभागो हि तादर्थ्यमवगम्यते ॥ १५४ ॥
अत एवात्मनः सिद्धा फले स्वाम्यवियुक्तता ।
तस्मात् तादर्थ्यसंवित्तिरूपं श्रीशसमर्पणम् ॥ १५५ ॥
फलेप्सासममत्रैव प्रतिपादितमात्मनः ।
अथात्मनो नमश्शब्दात् फले स्वाम्यनिबन्धनम् ॥ १५६ ॥
भोक्ताहं मम भोगोऽयमिति द्वन्द्वं निवर्त्यते ।
निरस्यतेऽत्र ममता स्वातन्त्र्यस्वत्वधीमया ॥ १५७ ॥
अहङ्कारममत्वात्मस्वत्मात्मीयसमन्वयात् ।
अथ वात्र चतुर्था तु नमःस्वस्त्यादिना मता ॥ १५८ ॥
ततः श्रीश्रीशयोस्सिद्धा शेषत्वप्रतियोगिता ।
अयमत्र नमश्शब्दश्शेषत्वप्रतिपादकः ॥ १५९ ॥
प्रह्वीभावाभिधायित्वात्तदेव फलमिष्यते ।
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥ १६० ॥
इति तस्य फलत्वेन शास्त्रेषु समुदीरणात् ।
अस्मिन्नेव द्वये सम्यक्छरणागतिसञ्ज्ञिके ॥ १६१ ॥
लक्ष्यते तद्विधा षट्कमानुकूल्यादिकं क्रमात् ।
उपायविनिवृत्त्यर्थमानुकूल्यादिपञ्चकम् ॥ १६२ ॥
अपराधभयान्निघ्नं श्रीमत्पदनिबोधितम् ।
विश्वासस्तु शरण्यस्य गुणवत्ता निबन्धनः ॥ १६३ ॥
तद्गुणोद्देशनिर्देशनारायणपदादितः ।
गोप्तृत्ववरणं प्रोक्तं पूर्ववाक्यादशेषतः ॥ १६४ ॥
उत्तरत्रात्मनिक्षेपं चतुर्थ्यन्तपदद्वयात् ।
कार्पण्यमुक्तं नमसा स्वातन्त्र्यस्य निवर्तनात् ॥ १६५ ॥
अतष्षडङ्गसम्पन्ना प्रपत्तिर्द्वयदर्शिता ।
तस्मादेतद्द्वयं मन्त्ररत्नं वेदान्तसम्मितम्॥ १६६ ॥
पूर्वाचार्यरुचिग्राह्यं पूर्णैव शरणागतिः ।
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात् ।
विहितो मन्त्ररत्नार्थतत्त्वदीपस्य संग्रहः ॥
इति तत्त्वदीपसंग्रहकारिकायां द्वयमन्त्रप्रकरणं समाप्तम्।
चरमश्लोकप्रकरणम्
अथ चरमश्लोकप्रकरणम् ।
अथ प्रपत्तिरूपस्य हितस्य विधितः स्वयम् ।
शरण्याभिमतत्वात्मश्लोकवर्यार्थ उच्यते ॥ १ ॥
शरण्याभिमतत्वं हि भजनाच्छरणागतेः ।
सर्वपापविमोकोक्त्या स्वयं संलक्ष्यतेतराम् ॥ २ ॥
इदानीं शब्दसिद्धोऽर्थः श्लोकस्यास्य निरूप्यते ।
तत्र संप्रतिपन्नं हि विधानं शरणागतेः ॥ ३ ॥
किं प्रपत्तिविधिस्तत्र भजनाङ्गतयोदितः ।
उत स्वतन्त्रोपायत्वतात्पर्येणेति चिन्त्यते ॥ ४ ॥
यद्यप्यत्रास्य भक्त्यङ्गभावः प्रकरणोदितः ।
तथाप्यनन्यसाध्यत्वसाधनत्वमिह स्थितम् ॥ ५ ॥
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायता याञ्चामतिर्हि शरणागतिः ॥ ६ ॥
अत्राप्यसावनेकत्र प्रपत्तिः प्रतिपादिता ।
तत्राभीष्टार्थसंसिद्धिसाधकत्वेन सम्मता ॥ ७ ॥
तस्मात् प्रपत्तेः सर्वत्र स्वत एव स्वतन्त्रता ।
भजनाद्यङ्गता तस्यास्तदपेक्षितसाधनात् ॥ ८ ॥
एवं स्वतन्त्ररूपायाः प्रपत्तेरङ्गभावतः ।
सर्वधर्मपरित्यागः श्लोकेऽस्मिन् प्रतिपाद्यते ॥ ९ ॥
अतस्स्वविधिभिस्त्यागविधिर्नात्र विरुध्यते ।
न ह्यन्यविधिनान्यार्थतस्त्यागस्य विरोधिता ॥ १० ॥
उभयत्राधिकारस्य भेद एव व्यवस्थितः ।
विधौ फलार्थत्यागे तु शरण्यार्थ्यधिका भवेत् ॥ ११ ॥
इत्थं सर्वत्र धर्मेषु वर्णाश्रमयुतेष्वपि ।
यथाधिकार एवोक्तस्वीकारत्यागसंभवः ॥ १२ ॥
तस्मादनेन श्लोकेन चरमेण विधीयते ।
सर्वधर्मपरित्यागपूर्वका शरणागतिः ॥ १३ ॥
धर्मशब्दोऽत्र शास्त्रोक्तकर्तव्यार्थप्रकाशकः ।
चोदनालक्षणार्थस्य धर्मत्वप्रतिपादनात् ॥ १४ ॥
प्रत्ययोक्तबहुत्वेन तद्द्वैविध्यं प्रकाश्यते ।
कर्म ज्ञानं च भक्तिश्चेत्युक्तधर्माभिधास्त्रिधा ॥ १५ ॥
एते त्रय उपायास्तु परस्परसमन्विताः ।
प्रत्येकं पुरुषार्थस्य बाधकत्वेन सम्मताः ॥ १६ ॥
ज्ञानभक्त्यन्वितं कर्म जनकादिषु दृश्यते ।
कर्मभक्त्यन्वितं ज्ञानं प्रायेण भरतादिषु ॥ १७ ॥
कर्मज्ञानान्वितां भक्तिं प्रह्लादप्रमुखाश्रया ।
तत्तत्साधनकर्तृणां भेदात् त्रित्वमिहोच्यते ॥ १८ ॥
अत एव हि शास्त्रेषु त्रित्वमेषां प्रदृश्यते।
तथा प्रपदनस्यात्र चतुर्थोपायतापि च॥ १९ ॥
उपायास्ते त्रयः पूर्वे कथिताश्चावधारिताः ।
व्याचक्षध्वं चतुर्थं तमुपायं परमित्यतः ॥ २० ॥
तथा चावान्तरो भेदः कर्मादीनाञ्च लक्ष्यते ।
प्रत्येकं निरपेक्षत्वात् पुरुषार्थस्य साधने ॥ २१ ॥
नित्यं नैमित्तिकं काम्यं प्रकृतिर्विकृतिस्तथा ।
सत्रं याग इति प्रोक्ता विविधा कर्मणोऽभिधा ॥ २२ ॥
विद्याविकल्पबाहुल्यात् ज्ञानयोगश्च भिद्यते ।
ध्यानार्चनप्रणामाद्यैर्भक्तियोगोऽपि तद्द्विधा ॥ २३ ॥।
अवताररहस्यञ्च पुरुषोत्तमवेदनम् ।
नामसङ्कीर्तनाद्यत्र त्रैराश्यं तद्गतं मतम् ॥ २४ ॥
तस्माद्बहुत्वं धर्मस्य प्रत्ययोक्तं विवक्षितम् ।
वक्ष्यमाणपरित्यागकर्मत्वं च द्वितीयया ॥ २५ ॥
सर्वशब्दोऽत्र धर्माणां विशेषणतया स्थितः ।
त्यागकर्मत्वयुक्तानां निश्शेषत्वं तदत्यसौ ॥ २६ ॥
अतो निरवशेषेण त्याज्या धर्मा मनीषिणाम् ।
नित्यं शरणजुष्टानामित्येतदवगम्यते॥ २७ ॥
एष त्यागप्रकारोऽथ परित्यज्येत्युदीर्यते ।
स्वार्थसाधकताबुद्धित्यागस्त्विह विवक्षितः ॥ २८ ॥
प्रत्ययादेशरूपेण ल्यपा त्यागस्य गम्यते ।
विधास्यमानस्वीकारस्याङ्गत्वेन विधीयते ॥ २९ ॥
ननु त्यागस्य वैधत्वं न स्यात् स्वेनैव सिद्धितः ।
विकलेन्यतरालम्बादन्यत्यागोऽर्थतो भवेत् ॥ ३० ॥
त्यागस्वीकारवैशिष्ट्यं विधेयमिति चेन्मतम् ।
तत्रापि न विधेयत्वं त्यागस्य स्वेन सिद्धितः ॥ ३१ ॥
शरणागतिमन्त्रस्य विधेयत्वे तथा भवेत् ।
तदङ्गत्वेन धर्माणां त्यागोऽप्यत्र विधित्सतः ॥ ३२ ॥
अत एव हि शास्त्रेष्वपरापायसंगमे ।
प्रायश्चित्तसमानत्वं प्रपत्तेः प्रतिपादितम् ॥ ३३ ॥
तस्मात् कर्माद्युपायानां परित्याग इहोदितः ।
मानान्तरैरनारूढो विरोधपदवीं गतः ॥ ३४ ॥
एतेनैव हि धर्मन्तु विहितांशे प्रतिष्ठितः ।
निषिद्धांशपरित्यागस्त्वपायस्सागदर्शितः ॥ ३५ ॥
एवं समस्तधर्माणां त्याज्यत्वेऽपि निरूपिते ।
नियतस्य परित्यागो न कदाचित् प्रसज्यते ॥ ३६ ॥
त्रैराश्यं कर्मणामुक्त्वा निषेधविधिभागिनाम् ।
तत्त्यागस्य प्रकारश्च शास्त्रेणात्र विविच्यते ॥ ३७ ॥
हिंसास्तेयादिको राशिरपायोऽनर्थकारकः ।
कर्म सांख्यादिको राशिरुपायो ह्यर्थसाधकः ॥ ३८ ॥
पूर्वो निष्टावहत्वेन संत्याज्यश्शरणार्थिनः ।
उपायवरणाङ्गत्वात् परित्याज्यस्तयोत्तरः ॥ ३९ ॥।
अनर्थपरिहारार्थे राशावपि तृतीयके ।
पूर्वाज्ञाताघभाव्यंशप्रायश्चित्तात्मकास्तथा ॥ ४० ॥
सर्वपापहरोपायनिष्ठस्यास्य मनीषिणः ।
साधनान्तरवन्नित्यं संत्यज्यत्वं व्रजेदिह ॥ ४१ ॥
योऽशस्त्वकरणे स्वस्य प्रत्यवायवहो मतः ।
आगम्यनर्थरोधित्वात् सोऽनुष्ठेयो विधीयते ॥ ४२ ॥
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते ।
अक्रियावदनर्थाय तत्तु कर्म समाचरेत् ॥ ४३ ॥
इत्यर्थानर्थहेतुत्वरहितस्यास्य कर्मणः ।
कर्तव्यत्वेऽप्यनुष्ठानमङ्गं स्यात् त्यागवन्न च ॥ ४४ ॥
उपायानुपयोगेऽपि प्रयोजनबहुत्वतः ।
वैदिकस्यैव धर्मस्य कर्तव्यत्वमिहोच्यते ॥ ४५ ॥
अविप्लवाय धर्माणां पाठनाय कुलस्य च ।
सङ्ग्रहाय च लोकस्य मर्यादास्थापनाय च ॥ ४६ ॥
प्रियाधममविष्णोश्च देवदेवस्य शार्डिणः ।
मनीषी वैदिकाचारं मनसापि न लङ्घयेत् ॥ ४७ ॥
यथा हि वल्लभा राज्ञो नदी राज्ञा प्रवर्तिताम् ।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ॥ ४८ ॥
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति ।
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम् ॥ ४९ ॥
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ।
उपायत्वग्रहं तत्र वर्जयेन्मनसेत्यतः ॥ ५० ॥
एवं ल्यपा तडागस्य प्रतिपाद्य विधेयताम् ।
परीति त्यागसाकल्यमुपसर्गादिहोच्यते ॥ ५१ ॥
स्वयत्नसाधितोपायसाध्यं वाञ्छितमात्मनः ।
लोके वेदे च दृष्टं यदतस्तद्वासनाबलात् ॥ ५२ ॥
कर्मादीनामुपायत्वबुद्धिः स्याच्चेन्मनीषिणः ।
प्रायश्चित्तत्वमात्रोक्तमपायकरणेष्विव ॥ ५३ ॥
यथा कर्मविदां कर्मप्रायश्चित्तं प्रकीर्तितम् ।
यथावा योगनिष्ठानां योग एव विधीयते ॥ ५४ ॥
प्रायश्चित्तं प्रपन्नस्य प्रपत्तिस्तद्वदुच्यते ।
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् ॥ ५५ ॥
प्रायश्चित्तिरियं सात्र यत्पुनः शरणं व्रजेत् ।
उपायानामुपायत्वस्वीकारोऽप्येतदित्यतः ॥ ५६ ॥
इत्थं सवासनात्यागः कर्तव्य इति निश्चितः ।
तस्मात् समस्तधर्माणां परित्यागो विधानवान् ॥ ५७ ॥
एवं धर्मपरित्यागविधेयं ल्यब्यदीष्यते ।
तदत्र शोकापनयवचनं स्यादसङ्गतम् ॥ ५८ ॥
कर्तव्यनिश्चयाद्धर्मास्त्यजतः कस्याचिन्न हि ।
धर्मत्यागोद्भवश्शोकः कदाचिदपि संभवेत् ॥ ५९ ॥
दुष्करत्वादिनोपायांस्त्यजतः स्वयमेव तत् ।
स्वाभीष्टोपायशून्यत्वात् शोकः सञ्जायतेतराम् ॥ ६० ॥
दुष्करत्वञ्च शास्त्रीये चिरसाध्ये विलम्बिन ।
उपाये फलशीघ्रेत्सा त्वरया कारितं भवेत् ॥ ६१ ॥
फलातिशयविज्ञानविलम्बाक्षमताबलात् ।
दुष्करोपायसन्त्यागः स्वत एव हि संभवेत् ॥ ६२ ॥
एवं दुष्करसन्त्यागमनूद्य सुकरां गतिम् ।
विधाय शोकापनयान्न विधित्यागमालभेत् ॥ ६३ ॥
किञ्च त्यागविधित्स्वत्र धर्मयोगस्य धर्मतः ।
शक्तं प्रति निषिध्दत्वात्तच्छास्त्रं स्यादनर्थकम् ॥ ६४ ॥
अनन्यथाभावमानशतसिद्धाः क्रियादयः ।
तत्परित्यागसंयुक्ता प्रपत्तिश्च तथाविधा ॥ ६५ ॥
तथाधिकारवैधुर्यात् कर्माद्यास्तु निरर्थकाः ।
तदसिद्धौ गुरूपाये नियमेनाप्रवृत्तितः ॥ ६६ ॥
यद्वापि च लघूपायो नोदीयाद्गुरुसन्निधौ ।
तस्मात् त्यागमनूद्यैव विहिता शरणागतिः ॥ ६७ ॥
एवं धर्मपरित्यागो यद्यपि स्वात्मतो मतः ।
तथाप्यत्रोदितस्त्यागो न तथाविध इष्यते ॥ ६८ ॥
साधनान्तरसंसर्गराहित्यं नैरपेक्ष्यतः ।
अस्य साधनरत्नस्य विधिज्ञेयं न तु स्वतः ॥ ६९ ॥
एतेन सर्वधर्माणां त्यागो विधिबलात् कृतः ।
न हि दौष्कर्यतस्सागे कृत्स्नत्यागस्य संभवः ॥ ७० ॥
एवं त्यागान्वितोपायवरणार्थमनन्तरम् ।
वरणीयविशेषस्तु मामित्यत्राभिधीयते ॥ ७१ ॥
अयं तु नित्यसिद्धत्वात् ज्ञानशक्त्यादियोगतः ।
समाभ्यधिकराहित्यादन्योपायविलक्षणः ॥ ७२ ॥
तस्मात् कर्माद्युपायानां सर्वेषामतिरिक्तता ।
अस्यैव न्यासशब्देन श्रूयते स्मर्यतेऽपि च ॥ ७३ ॥
एवं विलक्षणोपायभूतः कृष्णोऽत्र सम्मतः ।
‘एष नारायणः श्रीमानि’त्यादाववगम्यते ॥ ७४ ॥
ततो वात्सल्यमुख्याश्च ज्ञानाद्याश्च तथा गुणाः ।
विश्वासार्थमिह ज्ञेयाः कृष्णगीतासु दर्शिताः ॥ ७५ ॥
स्वधर्मबुद्धिमालक्ष्य रूपदोषानपेक्षणात् ।
परमार्थोपदेशेन वात्सल्यमुपदर्शितम् ॥ ७६ ॥
वैश्वरूप्यानुभावेन सद्यः स्वामित्ववैभवम् ।
सारथित्वे नियोज्यत्वात् सौशील्यं च प्रदर्शितम् ॥ ७७ ॥
दृष्टाद्भुतमहाकारगीतार्थार्थनावशात् ।
स्वाकाराविष्कृतैरेवं सौलभ्यमुपदर्शितम् ॥ ७८ ॥
‘वेदाहं समतीतानी’त्यत्र दृष्ट्वाखिलेक्षिता ।
दिवा निशाविष्काराद्यैश्शक्तिस्सर्वातिशायिनी ॥ ७९ ॥
सर्वात्मभावतो दृष्टं सर्वशेषित्वमुच्छ्रितम् ।
‘नानवाप्तमावाप्तव्य’मित्यत्रोक्ता च पूर्णता ॥ ८० ॥
एवंविधविशेषाद्यशरण्यनिरपेक्षता ।
अवधारणरूपत्वादेकशब्देन बोध्यते ॥ ८१ ॥
अवधारणरूपत्वमेकशब्दस्य विद्यते ।
स्थानप्रमाणान्मामेव त्वमेवेत्यादिवाक्यतः ॥ ८२ ॥।
उपायस्यैकतोक्त्यात्र तत्स्वीकर्तृतयोद्भवम् ।
द्वित्वं व्यावर्त्यते तद्वदुपायोपेययोरपि ॥ ८३ ॥
स्वीकारस्य ह्युपायत्वं स्वीकर्तुश्च तदन्वयः ।
स्वीकार्यस्यैव तद्भावश्शरण्योक्त्या प्रदर्श्यते ॥ ८४ ॥
उपायान्तरसन्त्याग एव स्वीकार्यवस्तुनः ।
उपायत्वं व्यनक्तीति यद्यप्याशङ्कनीयता ॥ ८५ ॥।
तथापि तस्य निष्कृष्टस्वीकाराङ्गत्वमित्यतः ।
व्युदस्य तदुपायत्वं स्वीकार्योपायता स्थिता ॥ ८६ ॥
ततस्त्यक्ताखिलोपायप्रतियोगितयेष्यते ।
साक्षात् स एव भगवान् न तु तच्छरणागतिः ॥ ८७ ॥
एवंविधस्योपायस्य वरणं तु विधीयते ।
व्रजेत्यनेन गत्यर्थात् करणत्रययोगिता ॥ ८८ ॥
विधिश्चायं स्वविषयधात्वर्थं फलसंश्रये ।
करणं बोधयत्येव विध्युपास्तिपर्यया ॥ ८९ ॥
तेन तेनाप्यते तत्तन्न्यासेनैव तृतीयया ।
करणत्वश्रुतेश्चात्र स्वीकारोपायतापि चेत् ॥ ९० ॥
तथाप्यत्र विशेषोऽयमनुष्ठानेऽपि दृश्यते ।
उपासनादिवैषम्यं तत एवेह संभवेत् ॥ ९१ ॥
यथा विकल्पे विद्यानां वेद्यरूपभिदोदिता ।
तथात्वनन्यसापेक्षा शरण्योपायतोदिता ॥ ९२ ॥
एवं विशेषतः सिध्दा शरण्योपायता स्वयम् ।
स्थगयेद्बुद्धिगत्यर्थात् तत्प्रपत्तेरुपायताम् ॥ ९३ ॥
फलदत्वेन हेतुत्वं नोपायत्वविवक्षितम् ।
किन्त्वत्र करणत्वेन साधकत्वं विशेषतः ॥ ९४ ॥
एतेन फलदस्यापि नेत्रत्वात् प्रापकत्वधीः ।
संभवेदिति संभूताशङ्कापि विनिवारिता ॥ ९५ ॥
इत्थमेकफलत्वेन सोऽयं विद्याविशेषवत् ।
भजनान्तर्गता च स्यात् प्रपत्तिरिति सम्मता ॥ ९६ ॥
प्रारब्धभङ्गरूपस्य फलस्याधिक्यसंभवात् ।
प्रपत्तेर्भजनादत्र पृथक्त्वं प्रतिपाद्यते ॥ ९७ ॥
भजनस्य प्रपत्तेश्च क्रियारूपविभेदतः ।
उभयोश्च पृथग्भावो विशेषेण प्रकीर्त्यते ॥ ९८ ॥
भजनादसकृत् कार्यात् भेदः प्रपदनस्य च ।
कर्मवत् ज्ञानरूपस्याप्युच्यतेऽत्र सकृद्विधिः ॥ ९९ ॥
एवं भक्तिप्रपत्त्योश्च रूपभेदविवक्षया ।
नानाशब्दादिभेदादित्युक्तवान् सूत्रकुन्मनिः ॥ १०० ॥
विकल्पो नैव तुल्यत्वविरहादुभयोरिह ।
व्यवस्थितौ च न स्याद्वा प्रपत्तिस्सर्वगामिनी ॥ १०१ ॥
इत्यत्र च समाधिस्तु पूर्वाचार्यनिरूपितः ।
रत्नवाणिज्यकृष्यादिदृष्टान्तार्थप्रदर्शनात् ॥ १०२ ॥
अर्थसाधनभूतेषु कृष्याद्या बहुळोद्यमाः ।
मन्दयत्नात्तथा रत्नवाणिज्याद्याश्च लक्षिताः ॥ १०३ ॥
एवं बहुप्रयासैर्वा स्वल्पायासैरथापि वा ।
स्वाभीष्टं साधयन्त्येव स्वभाग्यवशगा नराः ॥ १०४ ॥
तस्मात् भाग्यानुगुण्येन केषाञ्चिच्छरणागतिः ।
केषाञ्चित् कर्मयोगादि स्वरुचेर्गोचरो भवेत् ॥ १०५ ॥
नैवात्र रत्नवाणिज्यं सुकरस्य निदर्शनम् ।
तत्र रत्नपरीक्षार्थं शास्त्रेऽप्यायाससंभवात् ॥ १०६ ॥
तदशक्ताश्च कृष्यादौ गतिभाग्याधिकुर्वते ।
आत्मयोगाद्यशक्तांस्तु प्रपत्ताविति निश्चयात् ॥ १०७ ॥
वेदे गुरुलधूनां च फलवैषम्यसंभवात् ।
न तुल्यत्वं फलैक्ये च विषयस्य व्यवस्थितेः ॥१०८ ॥
तस्माद्भक्तिप्रपत्त्योश्च नैव तुल्यत्वसंभवः ।
इति नाशङ्क्यमात्रापि महाविश्वासगौरवात् ॥ १०९ ॥
विश्वासवासभूम्नैव समाने गौरवे सति ।
न्यासोपासनयोश्चैवं विकल्पो रुचिगोचरः ॥ ११० ॥
वैषम्येऽप्युभयोस्साम्ये प्रपत्तिस्तु गरीयसी ।
विश्वासगौरवाशक्या योगादिष्ववतारतः ॥ १११ ॥
यथारत्नपरीक्षादिष्वशक्तः कर्षणादिभाक् ।
तथायं बुद्धिदौर्बल्यादुपायान्तरभाग्भवेत् ॥ ११२ ॥
अत एवेह दृष्टान्तस्सामान्याकारतस्समः ।
अन्तरः फलभेदोऽत्र साधनाकारभेदजः ॥ ११३ ॥
प्रारब्धभङ्गादत्रापि फलाधिक्यस्य संभवे ।
भजनेऽपि फलाधिक्यमत्यर्थप्रीतिसंभवम् ॥ ११४ ॥
एवन्त्ववान्तराकारवैषम्यविरहा सती ।
मोक्षैकफलहेतुत्वात् विकल्पः कल्प्यते द्वयोः ॥ ११५ ॥
तत्र प्रपत्तियोग्यस्तु भाष्याधिकपरिग्रहः ।
अत एवास्य चाधिक्यं साधकेभ्यः प्रदर्शितम् ॥ ११६ ॥
सत्कर्मनिरताश्शुध्दास्सांख्ययोगविदस्तथा ।
नार्हन्ति शरणस्तस्य कलां कोटितमीमिति ॥ ११७ ॥
यद्वायासमनायासमेत्य गौरवलाघवात् ।
वक्तव्येऽतिविकल्पः स्यात् कर्तृभेदव्यवस्थितेः ॥ ११८ ॥
तद्भेदोऽकिञ्चित्वार्थशोकातिशयसंभवः ।
गोदानसमिदाधानश्राध्दकक्षप्रदाभवत् ॥ ११९ ॥
एवं सत्यनुकल्पत्वं प्रपत्तेरत्र संभवेत् ।
सोमाभावे च प्रतीकग्रहणस्य विधिर्यथा ॥ १२० ॥
‘शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्’ ॥ १२१ ॥
इत्यत्र चापिशब्दोक्ता प्रपत्तेरनुकल्पता ।
इति नैवात्र वक्तव्यमुभयोः फलसाम्यतः ॥ १२२ ॥
कर्तृभेदेन नियमान्न च दोषानुकल्पतः ।
अपिशब्दोऽनुकल्पत्वद्योतनश्चेन्न नेष्यति ॥ १२३ ॥
उपायान्तरशून्यत्वविरोध्यभिभवेऽपि च ।
प्रपन्नस्य फलसिद्धिमपिशब्दो व्युदस्यति ॥ १२४ ॥
इत्थं गद्यद्वये स्पष्टं भाष्यकारेण दर्शितम् ।
तस्माद्भक्तिप्रपत्त्योर्न मुख्यगौणत्वसंभवः ॥ १२५ ॥
एवं व्यवस्थिते चापि न सर्वाधिपतेर्हतिः ।
प्रवृत्तेस्सर्ववर्णेष्वप्याकिञ्चन्यस्य संभवात् ॥ १२६ ॥
एतेन परवी …..रुचिभेदपरिग्रहात् ।
विकल्पेऽप्यैकराश्यं स्यादपृथक्त्वं शरणागतेः ॥ १२७ ॥
अस्याश्च तुल्यतापक्षे रुचिभेदात् परिग्रहे ।
सिध्देऽप्यनितरोपायभावयोगात् पृथक्स्थितिः ॥ १२८ ॥
एवं सर्वेतरोपायत्याज्यत्वत्यागशोधनम् ।
वरणीयगुणाधिक्यं ततस्तन्निरपेक्षता ॥ १२९ ॥
तस्यैवोपायभावत्वसिद्धिस्तद्वरणस्य च ।
श्लोकस्यास्य यथातत्त्वं पूर्वार्धेनोपपादितम् ॥ १३० ॥
अथानिष्टनिवृत्तीष्टप्राप्तिरूपफलान्वयात् ।
शरणागतकार्यार्थमुत्तरार्धेन बोध्यते ॥ १३१ ॥
तत्र पूर्वमनिष्टस्य निवृत्तिं वक्तुमादितः ।
निवर्तकस्य याथात्म्यमहमित्यभिधीयते ॥ १३२ ॥
स्वीकृतस्येश्वरस्तत्र ज्ञानशक्तिदयादयः ।
गुणाश्चोपायकार्यार्थमुपदेशान्विता मताः ॥ १३३ ॥
अत्रैवं फलदा ह्येते पूर्वं विश्वासगोचराः ।
कः पुनः स्त्वाशङ्कात्र न कार्याकार्यभेदतः ॥ १३४ ॥
एवं सत्याशयोऽत्रायं यस्तु बन्धकरः पुरा ।
सोऽहं विमोचकः स्याच्चेत् को निषेध्दा भवेदिति ॥ १३५ ॥
स्वीकृतोपायशक्त्यैव स्वकपापनिबर्हणम् ।
निश्चितं निर्भरं ब्रूते त्वाशब्दः शरणागतम् ॥ १३६ ॥
शरण्योऽनन्यसापेक्षो निर्भरोऽर्थात्वकिञ्चनः ।
उभयोस्सदृशस्त्वेवं कार्यार्थे घटनक्रमः ॥ १३७ ॥
एवं निर्भरतासिद्धप्रपञ्चकृतकृत्यता ।
यज्ञरूपधरत्वेन प्रपत्तव्यनिरूपणात् ॥ १३८ ॥
कृतान्यनेन सर्वाणि तपांसि तपतां वर ।
सर्वे तीर्थास्सर्वयज्ञास्सर्वदानानि च क्षणात् ॥ १३९ ॥
कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः ।
इत्यहिर्बुध्यफणिते ततः पृच्छति नारदः ॥ १४० ॥
कथं तपांसि यज्ञाश्च तीर्थदानानि सर्वशः ।
तस्यैव न्यासमात्रेण सिध्यन्तीत्यत्र चोत्तरम् ॥ १४१ ॥
यानि निःश्रेयसार्थानि चोदितानि तपांसि वै ।
तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् ॥ १४२ ॥
समिस्ताधनकादीनां यज्ञानां न्यासमात्मनः ।
मनसा योऽकरोदेवे स स्वध्वर ईरितः ॥ १४३ ॥
योगसाधनभूतेन स्वात्मना चेज्यमीश्वरम् ।
अयजन्तानि धर्माणि प्रथमानीति च श्रुतम् ॥ १४४ ॥
यज्ञरूपधरं देवं यजते श्रद्धयैव यः ।
तेन सर्वे कृता यज्ञा भवन्तीह महात्मना ॥ १४५ ॥
एवंरूपं समभ्यर्च प्रक्षीणाशेषपातकः ।
अनुष्ठितत्वकृशतो भवेदेव न संशयः ॥ १४६ ॥
इत्येवं श्रुतिशास्त्रोक्तं प्रपन्नस्य महात्मनः ।
कृतकृत्यत्वनैर्भर्यं त्वाशब्दप्रतिपादितम् ॥ १४७ ॥
तस्मादेनं हनतपत्यकृत्यकरणादिकम् ।
सिध्दोपायनिवर्त्यत्वात्तदघानामशेषतः ॥ १४८ ॥
ततो निवर्तनीयस्य पापवर्गस्य सर्वशः ।
स्वरूपमिह बोध्दव्यं सर्वपापेभ्य इत्यतः ॥ १४९ ॥
पापशब्दस्त्वभीष्टार्थविरोधवचनो मतः ।
अतोऽत्र मोक्षरोधित्वात् पुण्यपापोभयान्वयः ॥ १५० ॥
पुण्यश्च सुखहेतोश्च पापत्वं मोक्षकांक्षिणः ।
स्वानिष्टभूतब्रह्मादिपदप्राप्तिप्रदानतः ॥ १५१ ॥
महिष्ठमपि मोक्षेच्छोऽरिष्टं बन्धकं सुखम् ।
स्वैरं जिगमिषो स्वर्णनिगळेन निरोधवत् ॥ १५२ ॥
श्रूयते चास्य सुकृतदुष्कृतोभयधूननम् ।
तत्तत्कर्मविभागश्च प्रियाप्रियजनाश्रयः ॥ १५३ ॥
पापेभ्य इत्यनिष्टस्य बहुत्वं प्रतिपाद्यते ।
अविद्याकर्मसङ्घातवासनारुचिभेदतः ॥ १५४ ॥
तत्राज्ञानमविप्रेति भिद्यते बहुधा च तत् ।
ज्ञानाभावान्यथाज्ञानविपरीतावबोधकः ॥ १५५ ॥
कर्माप्यकृत्यकरणकृत्याकरणरूपतः।
अपचाराच्च लक्ष्मीशे तदीयेष्वपि दुस्सहात् ॥ १५६ ॥
पूर्वोत्तराघशब्दैश्च बहुधा भिन्नमिष्यते ।
देहबन्धश्च देवादिभेदैर्बहुविधो मतः ॥ १५७ ॥
वासना च रुचिभिन्ना स्वहेतुविषयैस्तथा ।
एषामुद्देश्यरोधित्वसाम्यात् पापत्वनिश्चयः ॥ १५८ ॥
सर्वशब्देन साकल्यं निवर्त्यानां निबोधितम् ।
अत एव प्रपन्नस्य फलशैघ्यं प्रदर्श्यते॥ १५९ ॥
भाष्यकारेण गद्येऽपि कालत्रितयभाविनाम् ।
सर्वागसामशेषेण शरण्यक्षान्तिरर्थिता ॥ १६० ॥
अशेषेणाखिलं पापं क्षान्तं भगवता यदि ।
फलस्य त्वविलम्बेन प्रपत्तिक्षणसंभवात् ॥१६॥
शोच्यस्य तच्छरीरस्याप्यनुवृत्तिः कथं भवेत् ।
अन्यथात्र न संगच्छेच्छोकस्य विनिवर्तनम् ॥ १६२ ॥
इति चेन्नात्र कैवल्यादुपायस्य विळम्बने ।
यस्य चादुःखताबुद्धिस्तदेहस्य स्थितौ भवेत् ॥ १६३ ॥
अस्य शोकनिमित्तन्तु देहान्तरमपोह्यते ।
एवंविधविरोधिभ्यः प्रपन्नस्य विनिश्चितः ॥ १६४ ॥
मोक्षयिष्यामिशब्देन प्रोच्यते मोचनक्रमः ।
पूर्वाघस्योत्तराघस्य विनाशोऽश्लेषणं तथा ॥ १६५ ॥
प्रियाप्रियेषु संक्रान्तिः पुण्यापुण्यविशेषयोः ।
अधिकारिविशेषमारब्धांशनिबर्हणम् ॥ १६६ ॥
सर्वं क्रियापदे त्वत्र धात्वर्थो मोक्ष उच्यते ।
णिचात्रोपायभूतस्य प्रयोक्तृत्वं प्रमीयते ॥ १६७ ॥
अतो निरस्यं सान्निध्यात् पापमर्केऽन्धकारवत् ।
भविष्यद्वचनं तत्र सङ्कल्पस्यैव सूचकम् ॥ १६८ ॥
तत्तत्कर्म करिष्यामीत्यादिवाक्येष्विवेष्यते ।
भगवन्निग्रहत्वेन पापस्य निखिलस्य च॥ १६९ ॥
क्षमासङ्कल्प एवात्र युक्तो ह्यस्य निवर्तकम् ।
अतो यत्पापमुद्दिश्य वर्ततेऽस्य भयं पुरा ॥ १७० ॥
तद्देशेषु स्वयं भीत्या नश्येत् सङ्कल्पसन्निधौ ।
निवर्ताखिलपापस्य स्वाभीष्टप्राप्तिसंभवम् ॥ १७१ ॥
उन्नीयतेऽथ कर्ताख्यं शोकस्यात्र निषेधतः ।
पूर्वश्लोकोदितप्राप्तिरनुषङ्गोऽत्र चेत्यतः ॥ १७२ ॥
युक्तं तत्प्रतिबन्धस्य प्राधान्येन निवारणम् ।
समस्तहेयप्रध्वंसे स्वस्वरूपानुबन्धिनी ॥ १७३ ॥
भगवत्प्राप्तिरस्यैव स्वतो ह्याविर्भवेत्तथा ।
अतो विरोधिविध्वंससमनन्तरसंभवः ॥ १७४ ॥
शोकापनयनं त्विष्टं स्थललाभविभावितम् ।
फलासिध्दिविलम्बाभ्यां फलिनश्शोकसंभवः ॥ १७५ ॥
उपायोपेयदौष्कर्यान्निदानो वा निरूप्यते ।
त्यक्तसाध्येतरोपायात् सिध्दोपायपरिग्रहात् ॥ १७६ ॥
गुणवन्निरपेक्षत्वात् न दौष्कर्यव्यपायधीः ।
फलप्रदत्वशक्तेश्च निश्शेषापनिबर्हणात् ॥ १७७ ॥
फलासिद्धिविळम्बेनेत्यतश्शोकोऽत्र नोचितः ।
एवं त्वकिञ्चनस्यास्य शरणागतिशालिनः ॥ १७८ ॥
हस्ताहितफलप्राप्त्या निःश्लोकत्वमिहोदितम् ।
अत्र केचिदयं श्लोकः पूर्वश्लोकेन संहितः ॥ १७९ ॥
प्रपत्तिं स्वाङ्गसंपूर्ण विदधातीति मन्वते ।
अत्रोक्तनिखिलोपायविलक्षणतयोदितम् ॥ १८० ||
सर्वगुह्येतरोपायविधानं श्लोकयुग्मतः ।
‘इदं तु ते गुह्यतममि’ति प्रस्तुत्य पूर्वतः ॥ १८१ ॥
ज्ञानं नियमितं यत्तु गुह्याद्गुह्यतरं ततः ।
तद्वक्ष्यमाणोपायस्य सर्वगुह्यतमत्वतः ॥ १८२ ॥
इत्येवं ज्ञायते भूयश्शब्दोऽप्यत्रातिशायिभाक् ।
राजगुह्याच्च भवनाद्देवानां गुह्यभावतः ॥ १८३ ॥
सर्वगुह्यतमत्वं तु न्यासस्यैवात्र युज्यते ।
पूर्वोक्तभजनश्लोकसारूप्येण निगम्यते ॥ १८४ ॥
अनेन भजनत्वेन तदङ्गत्वविचार्यता ।
ध्यानार्चनप्रणामास्तु योगशेषतयोदिताः ॥ १८५ ॥
तत्र युक्त्वैवमात्मानमिति योगस्य दर्शनान्।
अन्योपायपरत्वेऽत्र मन्मनाभववाक्यतः ॥ १८६ ॥
तेन स्थैर्यविधानेन विश्वासोऽत्र प्रदर्श्यते ।
मद्भक्ता इत्यनेनान्यपुरुषार्थाभिलाषिता ॥ १८७ ॥
मद्याजीति प्रपन्नस्य समाचारविधिः क्रमः ।
अत्रोक्तमानुकूल्यञ्च प्रातिकूल्यविवर्जनम् ॥ १८८ ॥।
मां नमस्कुर्विति न्यासस्साक्षादत्र विधीयते ।
नमसो न्यासवाचित्वं मूलमन्त्रे प्रदर्शितम् ॥ १८९ ॥
शास्त्रे च नमसास्यैव प्रपत्तित्वं प्रकीर्तितम् ।
एवं विधाय निक्षेपं विश्वासादिविशेषितम् ॥ १९० ॥
प्राप्तिरूपं फलञ्चोक्तं ‘मामेवैष्यसि’ वाक्यतः ।
तस्यानपायस्सत्यं ते प्रतिजान इतीरितः ॥ १९१ ॥
प्रियोऽसि मयि वक्तव्या विषयीकारयोग्यता ।
ततस्तदितरोपायवरणं शरणस्य च ॥ १९२ ॥
विधायाघविलोपस्य प्राधान्यं च प्रदर्शितम् ।
तस्माच्छ्लोकद्वयेनात्र निक्षेपवरणात्मकम् ॥ १९३ ॥
अर्थद्वयमशेषाङ्गवाक्यद्वयवदीरितम् ।
निक्षेपस्य प्रधानत्वात् पूर्वत्वं वरणस्य च ॥ १९४ ॥
इदं ते नातपस्कायेत्यधिकारिविशोधनम् ।
य इदं परमं गुह्यमित्युपायस्य वैभवम् ॥ १९५ ॥
न च तस्य इति प्रोक्तं शरणागतगौरवम् ।
अध्येष्यते चेत्मारभ्य प्रबन्धस्य प्रशस्यते ॥ १९६ ॥
अतश्श्लोकद्वयाच्छ्रलोकाच्चरमाद्वापि केवलात् ।
सर्वोपायसमुद्रिक्तपरैकोपायतोदिता ॥ १९७ ॥
सौम्यजामातृमुनिना गुरुस्नेहदशान्वयात् ।
विहितश्श्लोकवर्यार्थस्तत्त्वदीपस्य संग्रहः ॥ १९८ ॥
इति तत्त्वदीपसंग्रहकारिकायां चरमश्लोकप्रकरणं समाप्तम्।
इति श्रीवादिकेसरिसौम्यजामातृमुनिकृतिषु
तत्त्वदीपसङ्ग्रहः समाप्तः ॥