अथ रहस्यत्रयकारिकावल्यां चरमश्लोकप्रकरणम्॥
विश्वास-प्रस्तुतिः
श्रीमदष्टाक्षरप्रोक्तस्वात्मयाथात्म्यवेदिने।
मन्त्ररत्नेन कर्तव्यं साङ्गप्रपदनं सकृत्॥ १ ॥
मूलम्

विधत्ते चरमश्लोकः षट्पदाभ्यां समन्वितः।
पूर्वोत्तराभ्यामर्धाभ्यामुपायोपेयतत्परः॥ २ ॥

अपारकरुणाम्बोधिर्भगवान् पार्थसारथिः।
व्याजीकृत्य पृथापुत्रं जगदुज्जीवनेच्छया॥ ३ ॥

परिनिश्श्रेयसोपायन् निगूढान् श्रुतिसागरे।
धर्मान् क्रिया-धी-भक्त्याख्यान् गीतायामुपदिष्टवान्॥ ४ ॥

श्रुत्वार्जुनस्तानालोच्य दुर्विज्ञेयांश्च दुश्शकान्।
ईशैकोपायताकत्वस्वस्वरूपविरोधिनः॥ ५ ॥

विलम्बितफलांश्चेति शोकाविष्टमवेक्ष्य सः।
सुबोधं सुशकं शीघ्रफलञ्चोचितमात्मनः॥ ६ ॥

तदेकोपायभूतस्य रहः प्रपदनं जगौ।
नित्यं नैमित्तिकं कर्म कर्म-धी-भक्तिसंज्ञकान्॥ ७ ॥

नामोक्तिं देशवासं च पुरुषोत्तमवेदनम्।
अवताररहस्यस्य ज्ञानं दीपादिकल्पनम्॥ ८ ॥
मूलम्
नामोक्तिं देशवासं च पुरुषोत्तमवेदनम्।
अवताररहस्यस्य ज्ञानं दीपादिकल्पनम्॥ ८ ॥
विश्वास-प्रस्तुतिः
धर्मानशेषानेतांस्तु प्रीत्या कुर्वन् यथाबलम्।
शरणत्वेन सन्त्यज्य सुलभं भक्तवत्सलम्॥ ९ ॥

मामेव शरणं गच्छ ज्ञानशक्तिदयाम्बुधिम्।
प्राप्तश्शेषी स्वतन्त्रोऽहं ज्ञानशक्तिविवर्जितम्॥ १० ॥

अप्राप्तमस्वतन्त्रं त्वां मदेकोपायताधियम्।
पूर्वोत्तरेभ्यः पापेभ्यो दुर्मोचेभ्योऽन्यतस्स्वतः॥ ११ ॥

अङ्गीकृतप्रारब्धाघव्यतिरिक्तेभ्यएव च।
सर्वेभ्यो मोक्षयिष्यामि क्लेशांस्त्वं मा कृथा इति ॥ १२ ॥

ननु नाखिलधर्माणां परित्यागो विधीयते।
एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा॥ १३ ॥

अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम्।
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते॥ १४ ॥

अक्रियावदनाय तत्तु कर्म समाचरेत्।
इत्यादिभिश्च सच्छास्त्रैर्भाव्यनर्थविरोधिनाम्॥ १५ ॥

नित्यनैमित्तिकादीनां कर्तव्यत्वोपपादनात्।
उपवीतशिखापुऩ्ऱगुरुत्यागप्रसङ्गतः॥ १६ ॥

निषिद्धवर्जनादेरप्यनुष्ठानप्रसङ्गतः।
तस्माद्धर्मस्वरूपस्य परित्यागो न शक्यते॥ १७ ॥

धर्माणामपरित्यागे चाकिञ्चन्यं न सिध्यति।
तत्त्यागपूर्वशरणवरणञ्च न सिध्यति॥ १८ ॥

न चाशक्त्यादिना प्राप्तो धर्मत्यागस्त्वनूद्यते।
दुश्शकानामपि त्यागे शक्यधर्मान्वयादपि॥ १९ ॥

नाकिञ्चन्यं प्रपत्तुस्स्यात् तत्त्यागोऽपि सुदुर्लभः।
इति चेदुच्यते तत्र त्यागस्साधनताधियः॥ २० ॥

सर्वेष्वपि च धर्मेषु सम्मतो दोषवर्जितः।
अनुष्ठितेषु धर्मेषूपायत्वत्यागमात्रतः॥ २१ ॥

न स्वरूपपरित्यागो नाकिञ्चन्यविहीनता।
न चोपायत्वधीत्यागे धर्मानुष्ठानमापतेत्॥ २२ ॥

कृतेष्वेव स्वधर्मेषु त्याज्या साधनतामतिः।
अतोऽनुष्ठाननियमाद्धर्मे न्यासाङ्गता भवेत्॥ २३ ॥

अतस्सर्वाधिकारत्वभङ्गो न्यासस्य सम्भवेत्।
किञ्चाकिञ्चनता न स्यात् प्रपत्तुश्चेति चोद्यताम्॥ २४ ॥

यच्छक्यं यदशक्यं च शास्त्रीयं मुक्तिसाधनम्।
कृतं करिष्यमाणं वा तत्सर्वं मे न साधनम्॥ २५ ॥

तदेकोपायताबुद्धिरित्ययं त्याग उच्यते।
एतादृशस्य त्यागस्यानुष्ठानेऽपि सम्भवात्॥ २६ ॥

न्यासाङ्गत्वं न धर्माणामाकिञ्चन्यं च युज्यते।
अन्यथा कर्ममत्यङ्गभावत्यागो न सिध्यति॥ २७ ॥

एतत्सर्वमभिप्रेत्य यामुनार्यैरुदीरितम्।
‘निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ॥२८ ॥
उपायतां परित्यज्य न्यसेदेवे तु तामभीः॥
(गीतार्थसंग्रहः)

‘सदृशोपायवैधुर्यं साक्षाद्भगवतो विदन्।
सर्वज्ञं शरणं याति योगमार्गपराङ्मुखः॥
(प्रपन्नपारिजातम्)
मूलम्
‘सदृशोपायवैधुर्यं साक्षाद्भगवतो विदन्।
सर्वज्ञं शरणं याति योगमार्गपराङ्मुखः॥
(प्रपन्नपारिजातम्)
विश्वास-प्रस्तुतिः
अज्ञसर्वज्ञभक्तानां प्रपत्ताविति च स्मृतिः।
नाथयोगी च सन्त्यज्य क्रियादिभजनादिषु।
उपायत्वं परे न्यस्य प्रपन्न इति कीर्तितः ॥ ३१ ॥

न विलम्बक्षमत्वेन नाथादेस्त्यागसंश्रयः।
अवताररहस्यादिज्ञानेन तदसम्भवात्॥ ३२ ॥
मूलम्
न विलम्बक्षमत्वेन नाथादेस्त्यागसंश्रयः।
अवताररहस्यादिज्ञानेन तदसम्भवात्॥ ३२ ॥
विश्वास-प्रस्तुतिः
एकशब्दः स्थानमानादेवकारार्थवाचकः।
तेनोपायत्ववरणोपायत्वं विनिवर्तितम्॥ ३३ ॥

रक्ष्यतानेन जीवस्यानन्यसाधनता हरौ।
अन्योपायानपेक्षैवं मोक्षसाधनतापि च॥ ३४ ॥

अन्यथा साधनद्वित्वं प्रपत्तिर्भगवानिति।
न च भक्तेऽप्ययं दोषो भक्तिरेव हि साधनम्॥ ३५ ॥

फलप्रदस्तु भगवान्नैवं प्रपदने भवेत्।
त्यक्तोपायान्तरस्थाने न प्रपत्तिर्निवेशिता॥ ३६ ॥

निविष्टो भगवानेव मानेन च तथोदितम्।
उपाये गृहरक्षित्रोश्शब्दः शरणमित्ययम्॥ ३७ ॥

वर्तते साम्प्रतञ्चैष उपायार्थैकवाचकः।
तस्मात् फलप्रदातृत्वव्यतिरिक्ता ह्युपायता॥ ३८ ॥

साधारणी चिदचितोश्चेतनस्यैव चेतरत्।
प्रपत्तेरनुपायत्वं वेदान्तार्यैरुदीरितम्॥ ३९ ॥

मूलमन्त्रप्रकरणे तत्स्पष्टमुपपादितम्।
प्रपत्तिरनुपायश्चेत् नानुष्ठेयेति चेन्न तत्॥ ४० ॥

त्यक्तोपायान्तरस्थाननिवेशोपायभावतः।
तदुक्तं वेदचूडार्यै रहस्यत्रयसारके॥ ४१ ॥

‘भरन्यासबलादेव स्वयत्नविनिवृत्तये।
अत्रोपायान्तरस्थाने रक्षको विनिवेशितः॥ ४२ ॥

(द्वयाधिकारः)
विश्वास-प्रस्तुतिः
चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः।
विपर्यये तु नैवास्य प्रतिषेधाय पातकम्॥ ४३ ॥

इत्यादिमानादाचार्यसूक्तेहेतुद्वयान्वयात्।
ईशोपायान्तरस्थाननिवेशो परतत्त्वतः॥ ४४ ॥

स्वानन्योपायताभङ्गात् प्रपत्तेरनुपायता।
रक्षितृत्वातिरेकेणोपायत्वप्रतिपादनात्॥ ४५ ॥

त्यक्तोपायान्तरस्थाननिवेशाद्धेतुता हरेः।
ननु भक्त्या प्रपत्त्या वा प्राप्योऽहमिति वाक्यतः॥ ४६ ॥

भक्तितुल्यमुपायत्वं प्रपत्तेरिति चेन्न तत्।
प्रपत्तेरनुपायत्वे सिद्धे पूर्वोक्तहेतुभिः॥ ४७ ॥

प्रपत्त्येति तृतीयात्र प्रयोजकविवक्षया।
यद्वा प्रपत्तिशब्दोऽयं प्रपत्तव्येश्वरार्थकः॥ ४८ ॥

अत्र न्यास इति ब्रह्म प्राहुर्न्यास इतीति च।
श्रुतिवाक्यं मानतया ग्राह्यं श्रुत्यर्थवेदिभिः॥ ४९ ॥

‘अकर्तरीत्यधिकृतो ‘स्त्रियां क्तिन्निति सूत्रतः।
कर्मणि क्तिन्विधानेन प्रपत्तव्यार्थता क्षमा॥ ५० ॥

जीवैः प्रपद्यत इति प्रपत्तिस्स प्रकीर्तितः।
गत्यादिशब्दो दृष्टान्तकोटिमाटीकतेऽत्र च॥ ५१ ॥

ईदृशार्थाविवक्षायां कुप्येयुर्देशिकोक्तयः।
अथाखिलांहसां मोक्षे स्याद्ब्रह्मप्राप्तिरेव वा॥ ५२ ॥

स्वात्मलाभः परब्रह्मलाभो वेति विचिन्त्यते।
तत्राहुः केचिदाचार्याः सर्वकर्मविमोचने॥ ५३ ॥

ब्रह्माप्तिरेव भवति न कैवल्यं प्रजायते।
सर्वकर्मविनिर्मोके मुक्तिभेदः कथं भवेत्॥ ५४ ॥

कर्मैकदेशशेषे तु न मुक्तिर्मुक्तिभेदवत्।
अमुक्तित्वादनित्यत्वप्रमाणञ्चात्र विद्यते॥ ५५ ॥

चतुर्विधा मम जना भक्ता एव हि ते श्रुताः।
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः॥ ५६ ॥

अहमेव गतिस्तेषां निराशीः कर्मकांक्षिणाम्।
ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः॥ ५७ ॥

सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्।
तस्मादनित्यं कैवल्यं बहिर्भूतं विमुक्तितः ॥ ५८ ॥

अपरे तावदाचार्याः कैवल्यं मोक्षमूचिरे ।
‘स्वात्मानुभूतिरिति या किल मुक्तिरुदीरिता’॥ ५९ ॥

इति कैवल्यमुक्तित्वं श्रीवत्सांकैरुदीरितम्।
अर्चिरादिगतिस्तावत् कैवल्यस्यापि वर्णिता॥ ६० ॥

गीताभाष्ये भाष्यकारैः ‘ना मुक्तेरस्ति सा गतिः’ ।
सञ्जीविनीति व्याख्याने व्याख्यातं व्याससूरिभिः॥ ६१ ॥

उज्जीवनं जीवनं यत् संसारोन्मोचकं हि तत्।
तत्केवलस्याप्यन्यस्य सम्मतत्वात् समित्यतः॥ ६२ ॥

तद्व्यावृत्तिं वदद्भिश्च केवलो मुक्त ईरितः।
बहून्यपि प्रमाणानि ज्ञापयन्त्यस्य नित्यताम्॥ ६३ ॥

ऐश्वर्याक्षरयाथात्म्येऽप्युक्तंयामुनयोगिभिः।
‘ऐश्वर्यमक्षरगतिं परमं पदमित्यपि॥ ६४ ॥

श्रीपराशरभट्टार्यैः वेदाचार्यैश्च कीर्तितम्।
अत्रामुत्र च भोगञ्च सुखमक्षयमेव च॥ ६५ ॥

मोक्षं चेति शठारातिश्रीवागुक्त्याप्युदैर्यत।
‘कुरुकानीलाविरूतिकूडावित्यादिवाक्यतः॥ ६६ ॥

प्राप्तानामथ कैवल्यं पुनरावृत्तिशून्यता।
अपरिच्छिनधीकत्वमचिन्मुक्ततया स्थितिः॥ ६७ ॥

‘यत् प्राप्य न निवर्तन्ते तद्धाम परमं त्विति।
एतदर्थत्रयं गीतमिति भाष्ये निरूपितम्॥ ६८ ॥

श्रीवागुक्तिप्रबन्धस्य कुरुकेशादिदेशिकैः।
व्याख्यातृभिश्च कैवल्यं नित्यमित्येव वर्णितम्॥ ६९ ॥

विरजापरमव्योम्नोरन्तरा केवलन्त्विति।
पाद्मेन नित्यभूतिस्थं कैवल्यमिति दर्शितम्॥ ७० ॥

स्तुतिर्यदि हि मुक्त्युक्तिरक्षरत्वादिवच्ची।
चिरकालस्थायितार्थतात्परेति तदा कथम्॥ ७१ ॥

ब्रूयुः श्रीभाष्यकारश्च कैवल्यस्याचिरादिकाम्।
पुनरावृत्तिराहित्यमपरिच्छिन्नबुद्धिताम्॥ ७२ ॥

तृतीयनियतिस्थानं तावच्चाचिद्विमुक्तिजम्।
‘चतुर्विधा मम जना’ इत्येतदपि सङ्गतम्॥ ७३ ॥

देवतापितृभूतानां मम भक्ताश्च ये जनाः।
तेषां मद्याजिनः श्रेष्टाः त्रयोऽप्यन्येऽन्यदेवताः॥ ७४ ॥

अतश्च्यवनधर्माण इति तस्यार्थवर्णनम्।
केवलस्यापि सर्वेषां कर्मणामपि संक्षये॥ ७५ ॥

ब्रह्मानुभवराहित्यं तत्क्रतुन्यायसम्भवम्।
ये यथोपासते वस्तु प्राप्नुवन्ति तथैव तत्॥ ७६ ॥

प्रधानत्वेन जिज्ञासुरुपास्ते स्वकमेव तत्।
स्वमेवानुभवन्नास्ते प्रधानत्वेन नेश्वरम्॥ ७७ ॥

इति पक्षद्वयं सम्यक् समदर्शि यथाश्रुतम्।
मत्प्राप्त्यर्थतयोक्तेषु त्यक्त्वा साधनताधियम्॥ ७८ ॥

निवेशयाहं निष्प्रापं कुर्यां त्वां मा कृथाश्शुचम्।
इति श्रीचरमश्लोकसंग्रहार्थो विचिन्तितः॥ ७९ ॥

सन्तश्श्रीमूलमन्त्रोक्तस्वाकारत्रयवेदिनः ।
गीतान्त्यार्थद्वयोक्तार्थमहाविश्वासशालिनः॥ ८० ॥

श्रीशानेकेष्टकैङ्कर्यसिद्ध्यै त्यक्तान्यसाधनाः।
मन्त्ररत्नाश्रितश्रीशपदपद्मैकसाधनाः॥ ८१ ॥
उत्तमाङ्गं स्वपादाब्जमालाभिर्भूषयन्ति मे।

इति रहस्यत्रयकारिकावल्यां चरमश्लोकप्रकरणं सम्पूर्णम्।
इति श्रीमद्वादिकेसरिसुन्दरजामातृमुनिविरचिता
रहस्यत्रयकारिकावली समाप्ता।