अथ रहस्यत्रयकारिकावल्यां द्वयप्रकरणम् ॥
अष्टाक्षरे मूलमन्त्रे जीवयाथात्म्यबोधके।
मूलमन्त्राद्यतारोक्ता चिच्छेषत्वोचितन्तराम्॥ १ ॥
द्वितीयेन तृतीयेन पदेन प्रतिपादितम्।
उपायमप्युपेयञ्च विशिनष्टि द्वयं क्रमात् ॥ २ ॥
षट् पदं दशसंख्यार्थं पञ्चविंशतिवर्णकम्।
वाक्यद्वयसमायुक्तं तत्राद्यं प्राह साधनम्॥ ३ ॥
उपेयमुत्तरं वाक्यं श्रियः पुरुषकारता।
तन्नित्ययोगश्चेशेन गुणाश्चाश्रयणोचिताः॥ ४ ॥
हरेर्देहान्वयश्चापि तस्यैवोपायतापि च।
तत्स्वीकारप्रपदनं प्राप्यत्वं मिथुनस्य च॥ ५ ॥
स्वामित्वं प्रार्थना चापि विनिर्वृत्तिविरोधिनः।
इमे दशार्था भट्टार्यैरष्टश्लोक्यां प्रदर्शिताः ॥ ६ ॥
ननु लक्ष्मीविशिष्टस्योपायत्वं द्वयदर्शितम्।
‘अमृतं साधनं साध्यं कृष्णं धर्मं सनातनम् ॥ ७ ॥
इत्यादिना विशेष्यस्य हरेस्साधनता यथा।
‘कामवत्सामृतमिति संसारार्णवतारिणीम्॥ ८ ॥
वाचः परं प्रार्थयिता प्रपद्येन्नियतः श्रियम्।
‘आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ९ ॥
‘वेरिमारातपूर्वमेलिप्पाल विनै तीर्कु में।
इत्यादिभिः प्रमाणैस्तु श्रियश्चोपायता तथा॥ १० ॥
अतः पद्मेति घटका कथमभ्युपगम्यते।
इति चेदुच्यते लक्ष्मीर्घटका मानवैभवात्॥ ११ ॥
अहं मत्प्राप्त्युपायो वै साक्षाल्लक्ष्मीपतिस्स्वयम्।
लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः॥ १२ ॥
न चैव श्रीरुपायश्च घटका च भवत्विति।
वाच्यं यदन्यथासिद्धिसम्भावनविवर्जितम्॥ १३ ॥
तदेव साधकं मानं साध्यस्येति विनिश्चितम्।
इह साक्षादुपायत्वेनात्र तन्मानसम्भवः ॥ १४ ॥
अन्यानपेक्षोपायत्वाध्दरेर्लक्ष्म्यनुपायता।
यद्युपायो भवेल्लक्ष्मीस्तत्सापेक्षतया हरेः॥ १५ ॥
अन्यसापेक्षता तस्माच्छ्रियः पुरुषकारता।
अन्यानपेक्षता नाम ह्यन्यहेत्वनपेक्षता॥ १६ ॥
न चैवमन्यथासिद्धिर्घटकावलम्बिनी।
चितश्च सापराधत्वाध्दरेर्दण्डधरत्वतः ॥ १७ ॥
वात्सल्येन च जीवेषु वाल्लभ्येन च नायके।
अवश्यघटका सेति जीवेशाभ्यामपेक्ष्यते॥ १८ ॥
तस्माद्विना न घटकामीशः पात्यपराधिनः।
विनास्यास्साधनं शक्तं स्वतन्त्रः पाति वै हरिः॥ १९ ॥
एतत्सर्वमभिप्रेत्य वेदान्तार्यैरुदीरितम्।
‘अर्थस्वभावानुष्ठानलोकदृष्टिगुरूक्तिभिः॥ २० ॥
श्रुत्या स्मृत्या च संसिद्धं घटकार्थावलम्बनम्।
अर्थस्वभावः पूर्वोक्तोऽनुष्ठानं लक्ष्मणस्य च॥ २१ ॥
लोकदृष्टिस्तु सागस्कं नरं शुद्धान्तसेविनम्।
अचिन्तयित्वा चागांसि सम्मानयति भूपतिः॥ २२ ॥
गुरूक्तिरकलेत्यादिः पूर्वोक्ता च श्रुतिः स्मृतिः।
विशिष्टस्य च हेतुत्वे क्वचिदेव विशेषणम्॥ २३ ॥
हेतुः क्वचिदहेतुश्च तत्तन्मानानुसारतः।
बहिर्द्रव्यापरोक्षस्य महदद्भुतरूपिणः ॥ २४ ॥
कारणत्वं विशिष्टस्य हेतुरत्र विशेषणम्।
दण्डस्य घटहेतुत्वे दण्डत्वस्य न हेतुता॥ २५ ॥
अतश्श्रिया विशिष्टस्योपायत्वे यादृशी श्रियः।
उपायता मानसिद्धा ग्राह्या घटकतैव सा॥ २६ ॥
लक्ष्म्यास्तु मोक्षोपायत्वे जगत्कारणता भवेत्।
अङ्गीकारे तु तस्याश्च ब्रह्मतापि प्रसज्यते॥ २७ ॥
तदभ्युपगमे तावद्गुणतश्च स्वरूपतः ।
निस्सीमातिशयं तत्र बहुत्वं च प्रसज्यते॥ २८ ॥
न सम्भवति तत्तत्र सर्वेशत्वाद्यभावतः।
सर्वेश्वरत्वे लक्ष्म्याश्च व्याप्तिमीश्वरलक्षणम्॥ २९ ॥
स्वाधीनत्वं देशिकोक्तं तदुक्तं जीवलक्षणम्।
अतिव्याप्तं चेतनत्वं पारतन्त्र्येण संयुतम्॥ ३० ॥
निखिलराश्रिता नित्यमधीशं च समाश्रिता।
तेषामार्तध्वनीं श्रावयन्तीमधीशितुः ॥ ३१ ॥
मत्पादद्वन्द्वमेकं ये प्रपद्यन्ते परायणम्।
उद्धरिष्याम्यहं देवि संसारात् स्वयमेव तान्॥ ३२ ॥
इत्याद्युक्तप्रकारेण श्रुत्वोपायस्य वैभवम्।
‘विदितस्स हि धर्मज्ञः शरणागतवत्सलः॥ ३३ ॥
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।
एवमाद्युक्तरीत्या तद्वात्सल्यादिगुणोत्तमान्॥ ३४ ॥
श्रावयन्तीं परेषां च स्वेशाश्रयविरोधि च।
नाशयन्ती क्रियाजातं स्वाश्रितानां दयादिभिः॥ ३५ ॥
समाश्रयणसौकर्यरुचिपाकं च कुर्वतीम्।
घटकत्वोचितैरेवमादिभिर्भूषितां गुणैः॥ ३६ ॥
पतिना नित्यसंयुक्तां भास्करेण प्रभामिव।
श्रियं घटकभावेन संश्रित्य प्रथमं ततः॥ ३७ ॥
वत्सलत्वेशताशीलसौलभ्यज्ञानशक्तिभिः।
समाश्रयणयोग्यैश्च समेतस्याच्युतस्य च ॥ ३८ ॥
नारायणस्य चरणौ शरणत्वेन संश्रये।
किमुद्दिश्येत्यपेक्षायां वर्तते वाक्यमुत्तरम्॥ ३९ ॥
श्रिया नित्यं समेताय भोग्याय स्वामिने सदा।
सर्वत्र सर्वकैङ्कर्यं भवेत् स्वार्थत्ववर्जितम्॥ ४० ॥
ननु श्रीनित्ययोगोऽयं सर्वसाधारणो हि सः।
श्रियः कथं विशिष्योक्ता इति चेदुच्यतेऽत्र च ॥ ४१ ॥
सर्वेषामपि भूतानां स्वरूपेण सदान्वयः।
विग्रहेणापि लक्ष्म्यास्तु प्रोक्तोऽर्थोऽयं पराशरैः॥ ४२ ॥
‘देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी।
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि॥ ४३ ॥
अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ ४४ ॥
ननु श्रियो विभुत्वेन श्रीशस्य च तथात्वतः।
सर्वप्रदेशसम्बन्धो नित्ययोग इतीष्यते॥ ४५ ॥
‘यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम।
सर्वभूतस्थिते त्यादिश्श्रीविभुत्वे प्रमाणता॥ ४६ ॥
इति चेत्तन्न तद्वाक्यादविभुत्वेन च श्रियः।
शक्त्या सर्वत्र सान्निध्यात् सर्वगत्वमुदीरितम्॥ ४७ ॥
इति श्रीविष्णुचित्तार्यैर्व्याख्यानात्तु न साधनम्।
अन्यथा सर्वगत्वस्य जीवेऽपि प्रतिपादनात्॥ ४८ ॥
‘नित्यस्सर्वगतस्स्थाणुरित्यादेस्तत्र तद्भवेत्।
नेष्टापत्तिश्च राद्धान्तविरोधोऽणुत्वमानतः॥ ४९ ॥
वालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीवः’, ‘स वैषोऽणुरुत्क्रान्तीत्येवमादितः॥ ५० ॥
न चेयमीश्वरी तस्मात् सर्वभूतेति सार्थवत्।
नान्यथा तत्परा चेतीश्वरद्वित्वप्रसङ्गतः॥ ५१ ॥
अन्याधीनात्मतारूपचिल्लक्ष्म्यातिक्रमादपि।
न च लक्ष्मीरियं विभ्वी तत्त्वत्रयाविलक्षणा॥ ५२ ॥
विभुताचित्त्वशेषत्वैरिति वाच्यममानतः।
सर्वभूतस्थितिश्चैतन्मानं चेत्तच्च तत्समम्॥ ५३ ॥
भाष्याद्यध्यात्मशास्त्रेषु भाष्यकारादिदेशिकैः।
तत्त्वत्रयातिरिक्तात्मसद्भावस्यानिरूपणात्॥ ५४ ॥
‘यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः।
तथा व्याप्तमिदं सर्वं नियन्त्री च तथेश्वरी ॥ ५५ ॥
इति स्वरूपतो व्याप्तिश्श्रीविभुत्वप्रयोजिका।
इति चेन्न स्वरूपं किं स्वात्मा वा किं स्वविग्रहः॥ ५६ ॥
यदि स्वात्मा तदा तेन व्याप्या स्याद्विभुता श्रियः।
विभुत्वं जीवतेशत्वविकल्पेन पराहतम्॥ ५७ ॥
विग्रहाद्यैस्तथा विष्णुः पूरयत्यखिलं जगत्।
देवतिर्यङ्मनुष्यादिदिव्यमङ्गलविग्रहः ॥ ५८ ॥
तथैवानुजनिर्लक्ष्मीरित्यत्रार्थस्तथोदितः।
अयं चानुगृहीतोऽर्थो गिरा प्रकरणस्थया॥ ५९ ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम्॥ ६० ॥
एवमादि कथं तस्माद्देहयोगः श्रिया हरेः।
श्रीतदीशानयोरेव प्रीत्या स्वार्थत्ववर्जितम्॥ ६१ ॥
कैङ्कर्यमखिलं कर्तुमादावखिलमातरम्।
श्रियं घटकभावेन संश्रित्य तदनन्तरम्॥ ६२ ॥
तत्समेतस्य सततं वात्सल्यादिगुणाम्बुधेः।
नारायणस्य चरणै शरणत्वेन संश्रये॥ ६३ ॥
इति श्रीमन्त्ररत्नार्थसंग्रहोऽयं विनिश्चितः।
दीप-दीपप्रकाशादौ द्रष्टव्यं विस्तरोदितम्॥ ६४ ॥
इति रहस्यत्रयकारिकावल्यां द्वयप्रकरणम् ॥