०१ मूलमन्त्रप्रकरणम्

अस्मद्गुरूंस्तदाचार्यान् परमानखिलानपि।
रामानुजार्य करुणावात्सल्यवरुणालयम्॥ १ ॥
श्रीशांघ्रिहेमसम्मोहतृणीकृततदन्यकम्।
शठकोपपदद्वन्द्वदृढविन्यस्तमानसम्॥ २ ॥
पूर्णयामुनरामाब्जदृङ्नाथशठवैरिणः।
सतां यदप्ंघ्रियुगलं मातृतातसुताङ्गनाः॥ ३ ॥
सेनेशश्रीतदीशांश्च नत्वा तेषां प्रसादतः।
रहस्यत्रितयार्थोऽयं चिन्त्यते दृढताप्तये॥ ४ ॥
रहस्यत्रितयं ज्ञेयं चेतनेन मुमुक्षुणा।
ज्ञातव्यमखिलं तस्य यस्मादत्राभिधीयते॥ ५ ॥
रहस्यत्रितयं प्रोक्तं महानष्टाक्षरो मनुः।
द्वयाभिधमन्त्ररत्नं चरमश्लोक इत्यमी॥ ६ ॥
तत्राद्यस्त्रिपदो मन्त्रः तत्राद्यं प्रणवः पदम्।
एकाक्षरं द्वितीयं तु नम इत्यक्षरद्वयम् ॥ ७ ॥
नारायणायेति तृतीयं पञ्चवर्णकम्।
समस्तस्त्वेकवर्णोऽपि व्यस्तस्तारस्त्रिवर्णकः॥ ८ ॥
अकारः प्रथमो वर्ण उकारस्तदनन्तरः।
मकारस्तु स्वरस्यास्य तृतीयो वर्ण इष्यते॥ ९ ॥
पदवर्णक्रमश्चायं ‘ओमित्यग्र इति श्रुतिः।
प्रत्यगानन्दमित्येतच्छ्रुतेरपि विनिश्चितः॥ १० ॥
प्रणवाद्यं नमोमध्यं नारायणपदान्तिमम्।
मन्त्रमष्टाक्षरं विद्यात्सर्वसिद्धिकरं त्विति॥ ११ ॥
तत्र विष्णुरकारार्थः सृष्टिस्थित्यन्तकारणम्।
अक्षराणामकारोऽस्मीत्यकारो विष्णुवाचकः॥ १२ ॥
अ निषेधे पुमान् विष्णाविति स्मृतिनिघण्टुतः।
अष्टाक्षरशरीराङ्गप्रणवाद्यक्षरेण तु॥ १३ ॥
अकारेणाखिलाधारः परमात्माभिधीयते।
समस्तशब्दमूलत्वादकारस्य स्वभावतः॥ १४ ॥
समस्तवाच्यमूलत्वाद्ब्रहाणोऽपि स्वभावतः।
वाच्यवाचकसम्बन्धस्तयोरर्थात् प्रतीयते॥ १५ ॥
इत्यकारस्य जगतां कारणेश्वरवाचिता।
जगत्कारणताक्षिप्तं ज्ञेयं सर्वज्ञतादिकम्॥ १६ ॥
अव-रक्षण इत्यस्माद्धातोर्व्युत्पत्तिमानयम्।
अकारः प्राह सर्वेषां रक्षकं पुरुषोत्तमम्॥ १७ ॥
अत्र रक्षकताक्षिप्तं भाव्यं वत्सलतादिकम्।
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया॥ १८ ॥
रक्षकश्चेति शास्त्रेण चिन्तनीयो रमान्वयः।
श्रीवादिकेसरिसोम्यजामातृमुनिलपुकृतयः
तत्र लुप्ता चतुर्थी तु जीवतादर्थ्यवाचिका॥ १९ ॥
सामानाधिकरण्ये तु ब्रह्मजीवैकता भवेत्।
तथा चेच्छ्रुतयो बह्व्यः प्रकुप्येयुरतो न तत्॥ २० ॥
अनन्वयान्न कर्तृत्वं हेतुत्वं च तृतीयया।
पञ्चम्या च न तद्ग्राह्यं प्रकृत्यैवाभिधानतः॥ २१ ॥
आधारत्वं तु सप्तम्यां नारायणपदोदितम्।
नापि सम्बन्धसामान्ये षष्ठी चाप्यनपेक्षया॥ २२ ॥
अपेक्षितत्वात् तादर्थ्यचतुर्थी त्वत्र युज्यते।
शेषत्वाश्रयजीवात्मवाचकस्यात्र सम्भवात्॥ २३ ॥
‘पतिं विश्वस्य’ वाक्येन जीवशेषत्वमीरितम्।
‘ब्रह्मणे त्वे ति वाक्येन ब्रह्मण्यात्मसमर्पणम्॥ २४ ।
वदता विहितं तारमन्त्रत्वं तत्तथा भवेत्।
यद्वानुष्ठीयमाणार्थप्रकाशकपरो भवेत्॥ २५ ॥
एवमेव ह्यनुष्ठानं ब्रह्मणेऽहं न मे त्विति।
उकारस्त्वेवकारार्थः स्थानमानबलादिह॥ २६ ॥
‘तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदिति श्रुतेः।
अयोगस्यान्ययोगस्य व्यवच्छेदं करोत्ययम्॥ २७ ॥
न च श्रीपत्यशेषश्च नान्यशेष इतीरितः।
यद्वोकारश्श्रियो वाची तदेवं योजना भवेत्॥ २८ ॥
लक्ष्मीतदीशयोः शेषः प्रत्यगात्मेति कीर्तितः।
लक्ष्मीशेतरशेषत्वव्यवच्छेदोऽर्थतो भवेत्॥ २९ ॥
सर्वं वाक्यमिति न्यायादवधारणसंयुतम्।
शब्दादेव हि कर्तव्यमन्यशेषत्ववारणम्॥ ३० ॥
तस्मादुकार एवार्थस्तदर्थश्श्रीसमन्वयः।
चतुर्थीप्रतिपन्नस्य शेषत्वस्य क आश्रयः॥ ३१ ॥
इत्याशंक्य प्रयुक्तोऽत्र मकारस्तदनन्तरः।
मकारवाच्यो जीवात्मा ‘पञ्चविंश इति श्रुतेः ॥ ३२ ॥
भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च।
टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा॥ ३३ ॥
मनः पकारेणैवोक्तः फकारेण त्वहङ्कृतिः।
बकारेण भकारेण महान् प्रकृतिरुच्यते॥ ३४ ॥
आत्मा तु स मकारेण पञ्चविंशः प्रकीर्तितः।
मकारं जीवभूतं तु शरीरे व्यापकं न्यसेत्॥ ३५ ॥
मन-ज्ञानेऽपि च मन-अवबोधन इत्यतः।
धातोर्मकारो निष्पनो ज्ञानज्ञात्रात्मवाचकः॥ ३६ ॥
मसि-परिणाम इति धातोरण्वात्मवाचकः।
विज्ञानमिति वाक्येन जीवस्य ज्ञानरूपता॥ ३७ ॥
ज्ञानानन्दमयस्त्वात्मा शेषो हीति स्मृतेरपि।
‘न विज्ञातुश्च विज्ञातेर्जानात्येवेति च श्रुतेः॥ ३८ ॥
ज्ञातृत्वं तेन कर्तृत्वं भोक्तृत्वं चात्मनः श्रुतम्।
प्रकृतेरेव कर्तृत्वं साङ्ख्याः प्राहुर्न चात्मनः॥ ३९ ॥
भोक्तृत्वकर्मवश्यत्वाभावापत्तेरसाधु तत्।
ज्ञातृत्वस्याभिधानेन नात्मनो ज्ञातता भवेत्॥ ४० ॥
ज्ञानस्वरूपतोक्त्या च जडवादो निराकृतः।
‘एषोऽणुरिति च श्रुत्या ह्यणुत्वं प्रतिपादितम्॥ ४१ ॥
तेनात्मविभुतापक्षः तार्किकाणां निराकृतः।
एवं मकारे ज्ञानत्वज्ञातृत्वाणुत्वयोगतः॥ ४२ ॥
स्थूलाज्जरादबोधाच्च देहाव्यावृत्तिरीरिता।
तथा हेतुत्वगोप्तृत्वश्रीशत्वानन्वयाद्विभोः॥ ४३ ॥
मकारस्यैकवचनं जात्येकवचनं भवेत्।
‘नात्मा श्रुतेरित्यत्रेव ह्येको व्रीहिरितीव च॥ ४४ ॥
तस्मान्मकारे जीवात्मबहुत्वं च विवक्षितम्।
श्रीशैकशेषजीवार्हपुमर्थोचितसाधनम्॥ ४५ ॥
भगवन्तं प्रपदनं तद्वशीकारकारणम्॥
प्रतिपादयितुं प्रोक्तं तारस्यानन्तरं नमः ॥ ४६ ॥
तारेण स्वेन चान्त्येन त्रिभिरेतैस्समन्वितम्।
स्वरूपोपायगम्यानि सम्यक् शोधयति क्रमात्॥ ४७ ॥
तारान्वितेन नमसा न ममेत्यर्थवादिना।
श्रीशैकशेषभूतोऽहं न ममेत्यर्थ ईरितः॥ ४८ ॥
परेशानैकशेषस्य मदीयं न ममेति वा।
परानन्यार्हशेषस्य स्वातन्त्र्यं न ममेति वा॥ ४९ ॥
तस्माच्चितः स्वशेषत्वं स्वकीयान् प्रति शेषता।
स्वातन्त्र्यं चापि नास्तीति तारयुङ्नमसोदितम्॥ ५० ॥
तस्माच्छ्रीशैकशेषात्मस्वरूपं तेन शोधितम्।
त्वदेकपरतन्त्रस्य न मे कर्मादिसाधनम्॥ ५१ ॥
अज्ञानादप्यशक्तेश्च स्वरूपस्य विरोधतः।
सूक्ष्मार्थोऽयं समुद्दिष्टो नमसा द्विपदेन हि॥ ५२ ॥
मे नेत्येवं समीचीनबुध्या सात्र निवर्त्यते।
इति ते सूक्ष्म उद्दिष्ट इत्यस्यात्र प्रमाणता॥ ५३ ॥
अतः प्रधानोपायो मे त्वमेव परमेश्वर।
नमसा त्रिपदेनायं परोऽर्थ इति निश्चितः॥ ५४ ॥
‘पन्था नकार उद्दिष्टो मः प्रधान उदीरितः।
विसर्गः परमेशो यस्तत्रार्थोऽयं निरूप्यते॥ ५५ ॥
अनादिः परमेशोऽयं शक्तिमान् पुरुषोत्तमः।
तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान्॥ ५६ ॥
इति श्लोकद्वयं तत्र प्रमाणत्वेन भाव्यताम्।
‘त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः॥ ५७ ॥
शरणागतिरित्युक्ता नमसैकपदेन हि।
स्थूलार्थोऽयं समुद्दिष्टस्तत्र मानं च विद्यते॥ ५८ ॥
‘नामयत्यपि वा देवं प्रह्वीभावयति स्वयम्।
प्रह्वीभवति नीचो हि परे नैच्यविलोकनात्॥ ५९ ॥
अतो वा नम उद्दिष्टं यत्तन्नामयति स्वयम्।
वाचा नम इति प्रोच्य मनसा वपुषा च यत्॥ ६० ॥
तन्नमः पूर्णमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते।
गच्छध्वमेवं शरणं पुरुषं पुरुषर्षभाः॥ ६१ ॥
इत्युक्तास्ते त्रयः पार्थ यमौ च भरतर्षभौ।
‘द्रौपद्या सहितास्सर्वे नमश्चक्रुर्जनार्दनम्॥ ६२ ॥
समित्साधनतादीनां यज्ञानां न्यासमात्मनः।
नमसा योऽकरोद्देव स स्वध्वर उदीरितः॥ ६३ ॥
इत्यादीनि प्रमाणानि भाव्यान्यत्र बहूनि च।
त्वदेकोपायतादित्वात् पारतन्त्र्योचितत्वतः॥ ६४ ॥
त्वदुपायान्तरस्थाननिवेशो परतत्त्वतः।
नोपायश्च प्रपत्तिर्मे तद्वशीकारकारणम्॥ ६५ ॥
नमो नम इति स्वेन युक्तेन नमसा ततः।
अन्यानपेक्षो भगवान् सिद्धोपायविशोधितः॥ ६६ ॥
ननु कर्माद्युपायोऽपि विहितत्वेन शास्त्रतः।
स्वरूपस्य विरोधीति जीवस्येशस्य वा कथम्॥ ६७ ॥
इति चेदुच्यते तत्र ह्यत्यन्तपरतन्त्रता।
जीवस्यातो विरोधीति साधनान्तरमुच्यते॥ ६८ ॥
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य देहिनः।
स्वरक्षणेऽप्यशक्तस्य को हेतुः पररक्षणे॥ ६९ ॥
अत एव हि वैदेह्याप्युक्तं रामायणे पुरा।
‘शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः॥ ७० ॥
मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्।
असन्देशात्तु रामस्य तपसश्चानुपालनात्॥ ७१ ॥
न त्वा कुर्मि दशग्रीव भस्म भस्मार्हतेजसा।
इष्टस्य प्रापणं तस्मादनिष्टस्य निवर्तितम्॥ ७२ ॥
परतन्त्रस्य कुर्वीत स्वतन्त्रः पुरवान्न तु।
उपासकस्तु नात्यन्तपरतन्त्रो यतो भरम्॥ ७३ ॥
नार्पयत्यखिलेशाने स्वफलं निक्षिपन्नपि।
यदुक्तं विहितत्वेन न विरोधीति तन्न सत्॥ ७४ ॥
निषिद्धकाम्ययोश्चैवं प्रसज्येताविरोधिता।
यथानन्यार्हशेषत्वं स्वरूपं प्रत्यगात्मनः॥ ७५ ॥
यथानन्यपुमर्थत्वमनन्योपायता तथा।
तस्माद्यथान्यशेषत्वं विरुद्धं प्रत्यगात्मनः॥ ७६ ॥
यथा प्रयोजनञ्चान्यत्तथैवेतरसाधनम्।
कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्॥ ७७ ॥
अनन्तरेणाञ्जंलि बध्वा लक्ष्मणस्य प्रसादनात्।
प्रपत्तेरनुपायत्वेऽनुष्ठानं नेति चेन्न तत्॥ ७८ ॥
ईशोपायान्तरस्थानविवेशायैव तत्कृतेः।
साधनत्वे प्रपत्तेश्च साधनद्वयमापतेत्॥ ७९ ॥
प्रपत्तिर्भगवांश्चेति नैवं भक्तौ तु साधने।
साधनं भक्तिरेवैका केवलं फलदो हरिः॥ ८० ॥
भक्तस्येव प्रपन्नस्य फलदोऽस्तु श्रियःपतिः ।
नोपायस्तेन नोपायद्वित्वमत्र प्रसज्यते ॥ ८१ ॥
इति चेत्तन्न मानेन फलदत्वातिरेकतः।
अकिञ्चने जने तस्योपायत्वप्रतिपादनात्॥ ८२ ॥
‘उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम्।
वर्तते साम्प्रतञ्चैष उपायार्थैकवाचकः॥ ८३ ॥
प्रपत्तेरनुपायत्वं प्रमाणे न प्रदर्शितम्।
चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः॥ ८४ ॥
विपर्यये तु नेवास्य प्रतिषेधाय पातकम्।
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत्॥ ८५ ॥
पुरुषं परमुद्दिश्य न मे सिद्धिरतोऽन्यथा।
प्रपत्तेरनुपायत्वं पारतान्त्र्यार्हतामपि॥ ८६ ॥
ईशोपायान्तरस्थाननिवेशोपायतामपि।
एवकारव्यवच्छिन्नोपायताकत्वमेव च ॥ ८७ ॥
विरुद्धत्वञ्च भक्त्यादेः प्राहुर्वेदान्तदेशिकाः।
‘आर्तेष्वाशुफला तदन्यविषयेऽप्युच्छिन्नदेहान्तरा।
वह्न्यादेरनपेक्षणात्तनुभृतां सत्यादिवद्व्यापिनी ।
श्रीरङ्गेश्वर यावदात्मनियतत्वत्पारतन्त्र्योचिता
त्वय्येव त्वदुपायधीरविहितस्वोपायभावास्तुमे ॥
(न्यासतिलकम्)
‘इयं केवललक्ष्मीशोपायत्वप्रत्ययात्मिका ।
स्वहेतुत्वधियं रुन्धे किं पुनः सहकारिणाम्॥
(न्यायसिद्धाञ्जनम्)
‘भरन्यासबलादेव स्वयत्नविनिवृत्तये ।
अत्रोपायान्तरस्थाने रक्षको विनिवेशितः॥
(रहस्यत्रयसारः)
अन्त्यान्वितेन नमसा कैंकर्यजनितं फलम् ॥ ९१ ॥
न ममेत्युच्यते तस्मात्फलं सम्यक् विशोधितम्।
यत्प्रयोजनमुद्दिश्य साधनं प्रतिपादितम्॥ ९२ ॥
नारायणायेति पदं स्पष्टमाचष्ट तत्फलम्।
रिङ्-क्षये त्विति यो धातुस्तज्जः क्षय्यार्थको हि रः॥ ९३ ॥
नञ्समासे कृते तत्र नरो नित्यस्य वाचकः।
नित्यञ्च द्विगुणं लोके स्वरूपेण प्रवाहतः॥ ९४ ॥
जीवो प्रकृतिः कालश्चत्वारस्ते स्वरूपतः।
अन्यत्सर्वं प्रवाहेण नारास्तेषां चयास्स्मृताः॥ ९५ ॥
ज्ञानानन्दामलत्वादिदयाशीलक्षमादयः।
दिव्यमङ्गलदेहश्च सौन्दर्ययुवतादयः॥ ९६ ॥
किरीटादिविभूषाश्च चक्रादीन्यायुधानि च।
श्रीभूनीलादिदेव्यश्च शेषशेषाशनादयः॥ ९७ ॥
अन्ये च नित्यमुक्ताश्च तेषां स्थानं परं पदम्।
कालश्च प्रकृतिस्तस्या विकाराः महदादायः॥ ९८ ॥
यत्कार्यमण्डजातं च तत्रत्या देवदानवाः।
ब्रह्मादिस्तम्बपर्यन्ताः स्थावराश्चापि जङ्गमाः॥ ९९ ॥
चेतनाचेतनं सर्वं विष्णोर्यद्व्यतिरिच्यते।
तत्सर्वं नरशब्दोक्तं नारास्तेषां चयस्स्मृतः॥ १०० ॥
नारो नराणां सङ्घातः इत्यस्यात्र प्रमाणता।
नरा यस्यायनं वासस्तेषां योऽयनमेव वा॥ १०१ ॥
‘नाराणामयनं वासः ते च यस्यायनं त्विति।
प्रमाणमेतद्विज्ञेयं पक्षयोरुभयोरपि॥ १०२ ॥
बहुव्रीहित्वपक्षे तु विष्ण्वन्तर्यामितोदिता।
यदीयते तदयनमिति व्युत्पत्तिसंश्रये॥ १०३ ॥
नाराणां व्याप्यतोक्तातो विष्णोर्व्यापकतापि च।
व्यापकत्वानुगुण्येन सूक्ष्मादपि च सूक्ष्मता॥ १०४ ॥
व्यापकत्वे प्रमाणं तु ‘व्याप्य नारायणस्स्थितः।
‘अणोरणीयानित्यादेः सूक्ष्मतायां प्रमाणता॥ १०५ ॥
अन्तर्यामितयात्मत्वं प्रमाणं तत्र वै श्रुतिः ।
‘अन्तःप्रविष्टः शास्ता च ‘स त आत्मेवमादिका॥ १०६ ॥
बहुत्वं चापि नाराणां भिन्नत्वं च परस्परम्।
‘एको बहूनामित्यादिश्रुतेरत्र प्रमाणता । । १०७ ॥
देहात्मभावप्रमुखैर्भेदसिद्धिश्चिदीशयोः।
पक्षे तत्पुरुषस्यास्य नाराणामयनन्त्विति॥ १०८ ॥
सर्वाधारत्वमादिष्टमीयते येन योऽथ वा।
उपायत्वमुपेयत्वं ब्रह्मणः प्रतिपादितम्॥ १०९ ॥
‘एष सेतुर्विधरणो’, ‘विश्वात्मानं परायणम् ।
‘यस्यायुतायुतैकांशे विश्वमेतद्व्यवस्थितम् ॥ ११० ॥
अथ वा नारशब्दस्य ‘ जह्नुर्नारायणो नरः ।
इति मानानुसारेण विष्णुरेवार्थ उच्यते॥ १११ ॥
‘नयत्यखिलविज्ञानं नाशयत्यखिलं तमः ।
नरिष्यति च सर्वत्र नरस्स पुरुषोत्तमः ॥ ११२ ॥
एतत्प्रमाणादीशस्य ज्ञानदत्वमुदीरितम्।
अज्ञाननाशकत्वं च निर्विकारत्वमेव च॥ ११३ ॥
नराज्जाताश्च नाराः स्यात्तत्र मानमुदीर्यते।
‘नाराज्जातानि तत्त्वानि नाराणीति ततो विदुः ॥ ११४ ॥
नारायणायेति या तु चतुर्थी वरिवस्यनम्।
शेषत्वद्वारतो वक्ति तन्मे स्यादिति पूरणम्॥ ११५ ॥
जगत्कारणभूताय ज्ञानशक्त्यादिशालिने।
रक्षकाय च सर्वेषां वात्सल्यादिगुणाब्धये॥ ११६ ॥
श्रिया नित्यं समेताय शेषिणे निस्समाय च ।
तुभ्यमेव हि शेषोऽहं त्वदीयेभ्यस्तथैव च॥ ११७ ॥
ज्ञानानन्दस्वरूपश्च ज्ञानानन्दगुणान्वितः।
अणुर्नित्यो न मे शेषः स्वकीयान् प्रति शेषता ॥ ११८ ॥
स्वातन्त्र्यमपि नो तस्मात् मद्रक्षासाधनानि च।
अतो मेऽकिञ्चनस्य त्वमेवोपायो भवाच्युत॥ ११९ ॥
स्वरूपेण प्रवाहेण नित्यानामुचितं चिताम्।
नाराणां च समूहानामाधारायान्तरात्मने ॥ १२० ॥
नारायणाय ते नित्यं सर्वञ्च वरिवस्यनम् ।
सर्वावस्थासु मे भूयात् त्वत्प्रियैकप्रयोजनम्॥ १२१ ॥
इत्येवं मूलमन्त्रार्थश्चिन्तितोऽयं यथाश्रुतः।
दीप-दीपप्रकाशादौ द्रष्टव्यं विस्तरोदितम्॥ १२२ ॥
श्रीशोऽयं निस्समः शेषी शरणं शरणार्थिनाम्।
सर्वाधारश्च सर्वात्मा सेव्य इत्यत्र संग्रहः ॥ १२३ ॥
श्रीशैकशेषी जीवात्मा तदेकोपायवानपि।
तदेकभोग्य इत्यत्र संग्रहो जीवगोचरः ॥ १२४ ॥

इति रहस्यत्रयकारिकावल्यां मूलमन्त्रप्रकरणं संपूर्णम्।