श्रीमते रामानुजाय नमः ।
श्रीमल्लोकाचार्यैरनुगृहीतं श्रीवचनभूषणम् ।
विश्वेशदेवशिखामणि-श्रीमदवरवरमुनिप्रणीतव्याख्यासंवलितम् । भाषाटीकोपेतं च ।
इदं च पंडितैः संस्कृत्य संशोध्य श्रीराजगोपालमठाधीश्वरैः श्रीमन्महंतश्रीगदाधररामानुजस्वामिभिः श्रीवैष्णवसम्प्रदायनित्यश्रीमहोत्सवार्थं श्रीराजगोपालमठे स्थापिते स्वकीये श्रीरघुनन्दनमुद्रणालये श्रीनिवासाचार्यद्वारा मुद्रयित्वा प्रकाशितम् । पुरी ।
सन् १९२६ ALL RIGHTS RESERVED.
लघुप्रस्तावः ।
विदितमेव सर्वेषां श्रीवैष्णवसम्प्रदायनिष्ठानां यदिदं श्रीवचनभूषणाख्यं रहस्यं सर्वेष्वपि सम्प्रदायग्रन्थेषु श्रेष्ठतममिति । यद्यप्यस्य बृहत्प्रस्ताव एतद्व्याख्यातृभिः श्रीमद्वरवरमुनिभिः प्रणीतो विराजतेऽस्यादौ तथापि बहूनां सहृदयानां प्रार्थनेनास्मिन् विषये किञ्चिल्लिख्यते-
‘असारमल्पसारं च सारं सारतरं त्यजेत् । भजेत् सारतमं शास्त्रं रत्नाकर इवामृतम् ॥’
इत्यस्य श्लोकस्य सारतमतया प्रतिपाद्यं शास्त्रमिदमेवेति ज्ञायते । तथाहि-असारमित्यनेन ब्रह्मादिस्तम्बपर्यन्तैहिकामुण्डिकसुखप्राप्तय उपायोपेयप्रतिपादकं शास्त्रं बोध्यम् । अल्पसारमित्यनेनात्मानुभवरूपकैवल्यात्मकमुक्तिप्रतिपादकं शास्त्रं वेद्यम् । सारमित्यनेन कर्मज्ञानसहकृतभक्तिरूपोपायप्रतिपादकं शास्त्रं बोध्यम् । सारतरमित्यनेन स्वगतस्वीकाररूपप्रपत्त्युपायप्रतिपादकं शास्त्रं वेद्यम् । एतच्चतुष्टयं चाहंकारगर्भितात्मभिः स्वतन्त्रात्मवेदिभिरनुष्ठेयत्वात् फलाविनाभावे संशयग्रस्तमिति हृदयालुभिस्त्याज्यमित्युक्तम् । सारतममित्यनेन परगतस्वीकाररूपप्रपत्त्युपायप्रतिपादकं शास्त्रमिति ज्ञायते । तच्च शास्त्रमिदमेवेति लोकाचार्यैरुद्घुष्यते । तत्तथैवावगम्यतेऽस्माभिरपि-यतोऽस्मिन् शास्त्रे आत्मस्वरूपयाथात्म्यात्यन्तपारतंत्र्यविद्भिः पूर्वैः सूरिभिराचार्यैश्च कठवल्ल्युपनिषत्प्रतिपादितमार्जारकिशोरन्यायेन ‘यमेवैष वृणुते तेन लभ्यः’ इत्यादिना परगतस्वीकारात्मकप्रपत्तिरेवाविलम्बेन देहांते भवबंधात्मकमोक्षप्रदातृतयाऽङ्गीकृत्यानुष्ठिता च दरीदृश्यते । अतस्तदनुयायिभिः सर्वैरस्माभिरपि लुप्तसर्वधर्मेऽस्मिन् कराले कलियुगेऽविलम्बेन भगवल्लाभायेदमेव शास्त्रमधीत्य तन्निष्ठावद्भिर्भवितव्यमिति ।
एतच्च मणिप्रवालनामकद्राविडसंस्कृतमिश्रितभाषया लिखितं मूलं कारुणिकस्तत्रभवद्भिः श्रीमद्गोवर्द्धनरङ्गाचार्यस्वामिभिस्तद्भाषाऽनभिज्ञानामप्यविहानये गैर्वाण्या वाण्याऽनूदितममुद्रितपूर्वञ्च । बहुभिः सहृदयैः प्रार्थिताः श्रीराजगोपालामठाधीश्वरश्रीमन्महंतश्रीर्गदाधररामानुजस्वामिनो बहुधनव्ययेन भाषावेदिभिर्विद्वद्भिः परिष्कृत्य रमणीयनिर्णयसागराक्षरसाक्षरैः सुस्निग्धपत्रेष्वंकयित्वा प्राकाश्यं नीतम् ।
अन्यच्चैतन्महद्वैभवप्रतिपादकाः श्लोकाः-
एतद्व्याख्यातृभिः श्रीशैलेशदयापात्रैर्धीभक्त्यादिगुणार्णवैर्विश्वविदितविशदतमज्ञानैः श्रीमद्रम्यजामातृमुनींद्रैः कात्स्न्र्येन संस्कृतवेदस्य द्राविडवेदोद्धरणे सूत्रं पातयित्वोपसंहृतशेषावताराणां श्रीभगवद्रामानुजाचार्याणां हृदयभूतैः कार्त्स्न्येन द्राविडवेदोद्धारकै रष्टदिग्गजप्रतिष्ठातृभिरहरहरनुसंधेयतया प्रणीतोपदेशरत्नमालाख्यप्रबंधे परिदृश्यन्ते ।
ते यथा:—
१. को वा प्रबन्ध इह लोकगुरुप्रवर्यैः सादृश्यमेति सकलेष्वपि वाङ्मयेषु । तत्रापि किं वचनभूषणतुल्यमन्यद् ग्रंथोऽस्ति नो वनभुवीति विनिश्चितं वेहि सत्यम् ॥ २. प्राचां प्रपत्तिपदवीमयतद्गुरूणां रोचिष्णुना वचनरत्नकदंबकेन । यत्कृतोऽयमखिलार्थ हितस्ततोऽभूत् तेनाभवद्रचनभूषणनाम तस्य ॥ ३. भूषणं वारिराशेस्तु धार्यं सदा हृदि सतामभिधेयरत्नम् । ये तत्प्रदर्शितपथेन च संचरंति यः कोऽपि संभवति चेद्विरलो हि तज्ज्ञः ॥ ४. उग्राद्भवाब्धिकुहरादुतमुत्तितीर्षा जायेत वो यदि जनाः सदुपाय एषः । आलोच्यतां वचनभूषणमात्मनीनं तिष्ठीयतां च नियमेन तदुक्तिमार्गे ॥ ५. ये देशिकादधिगतान्युपदेशवर्त्मान्यासज्ज्य चेतसि तदाचरितुं यतते । ते यततो वचनभूषणगूढमर्थं नैवाचरंति परिशील्य हि कस्य हेतोः ॥ ६. संप्रदायसुधिया सततोपलाल्या लभ्येत चेद्वचनभूषणचारुटीका । सा व्यञ्जयंती सकलमस्य पदार्थजातं मध्यस्थयैव दशया ननु भावनीया ॥ ७. वाचा वदामि यदि वाचनभूषणीयाः सार्थाः स्मरामि यदि ता मनसा ममेमाः । आर्याः कथं नु भवतां मनसि प्रथेरन् भूम्ना धियो हि विषयातिशयावगाहः ॥
गच्छतः स्खलनं नित्यमिति न्यायेनास्मिन् मुद्रणे कानिचित्स्खलित्यानि यद्युपलभ्येरन् तथापि ‘क्षमाशीला हि साधवः’ इति न्यायात् क्षमाविषयाण्येव स्युः ।
अनुक्रमणिका ।
| विषयः | पृष्ठांकाः |
|---|---|
| अस्यादावनुसंधेयश्लोकाः | १ |
| उपोद्घातः… | ३ |
| वेदार्थनिर्णयप्रकरणम् | १४ |
| पुरुषकारवैभवः …. | २८ |
| उपायवैभवः | ६७ |
| उभयसाधारणवैभवः | ७८ |
| अधिकारिशोधनम् …… | ८४ |
| उपायांतरदोषप्रकरणम् …. | १०१ |
| सिद्धोपायाधिकारप्रकरणम् | १५६ |
| सिद्धोपायनिष्ठानां वैभवप्रकरणम् | १६७ |
| प्रपन्नदिनचर्याप्रकरणम् …. | १८० |
| सदाचार्यलक्षणप्रकरणम् | २३४ |
| सच्छिष्यलक्षणप्रकरणम् …. | २५६ |
| भगवन्निर्हेतुकविषयीकारकरणम् | २६७ |
| निर्हेतुककृपावैभवप्रकरणम् …. | २९० |
| चरमप्राप्यप्रापकप्रकरणम् | ३०५ |
श्रीशैलेशदायापात्रं धीभक्त्यादिगुणार्णवम् । यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरंपराम् ॥ यो नित्यमच्युतपदांबुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणं प्रपद्ये ॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् ॥ आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥ भूतं सरश्च महदाह्वयभट्टनाथश्रीभक्तिसारकुलशेखरयोगिवाहान् । भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥ लोकगुरुं गुरुभिः सह पूर्वैः कूरकुलोत्तमदासमुदारम् । श्रीनगपत्यभिरामवरेशं दीप्रशयानगुरुं च भजेऽहम् ॥ पिल्लान्पिळ्ळै लोकाचार्यं वन्दे कृष्णपादस्य सूनवे । संसारभोगिसंदष्टजीवजीवातवे नमः ॥ लोकाचार्यकृपापात्रं कौण्डिन्यकुलभूषणम् । समस्तात्मगुणावासं वन्दे क्रूरकुलोत्तमम् ॥ नमः श्रीशैलनाथाय कुन्तीनगरजन्मने । प्रसादलब्धपरमप्राप्यकैंकर्यशालिने ॥ लोकाचार्यपदांभोजराजहंसायितांतरम् । ज्ञानवैराग्यजलधिं वन्दे सौम्यवरं गुरुम् ॥ श्रीजिह्वावदधीशदासममलमशेषशास्त्रविदम् । सुंदरवरगुरुकरुणाकन्दलितज्ञानमन्दिरं कलये ॥ पुरुषकारवैभवं च साधनस्य गौरवं तदधिकारिशोभनं सतां च सद्गुरूक्तिसेवनम् । हरिदयामहेतुकीं गुरोरुपायतां च यो वचनभूषणेऽब्रवीद्गुरुं तमाश्रये ॥ सांगान्विलिख्य द्रविडसंस्कृतरूपवेदसारार्थसंग्रहमहारसवाक्यजातम् । सर्वज्ञलोकगुरुनिर्मितमार्यभोग्यं वंदे सदा वचनभूषणदिव्यशास्त्रम् ॥ आकण्ठोत्कण्ठवैकुण्ठप्रियाणां कण्ठभूषणम् । गुरुणा जगतामुक्तं व्याप्तं वचनभूषणम् ॥ लोकाचार्यकृते लोकहिते वचनभूषणे । तत्त्वार्थदर्शिनो लोके तन्निष्ठाश्च सुदुर्लभाः ॥ जगदाचार्यरचिते श्रीमद्वचनभूषणे । तत्त्वज्ञानं च तन्निष्ठां देहि नाथ यतीन्द्र मे ॥
उपोद्घातः
अष्टाक्षरीमंत्रः सकलवेदानां सारः । तत्र प्रणवनमःनारायणायेति पदत्रयप्रतिपाद्यस्यानन्यार्हशेषत्वानन्यशरणत्वानन्यभोग्यत्वरूपस्याकारत्रयस्य सर्वात्मसाधारणत्वात् ‘यत्रर्षयः प्रथमजा ये पुराणाः’ इति श्रुत्युक्तनित्यसूरिवत् शुद्धसत्त्वमये परमपदे नित्यासंकुचितज्ञाना निरंतरभगवदनुभवजनितनिरतिशयानंदतृप्ताः संतः स्थातुं योग्या भवंति, तथापि ‘अनादिमायया सुप्तः’ इत्युक्तप्रकारेण तिलतैलवद्दारुवह्निवद् दुर्वेिवेच्यत्रिगुणदुरत्ययानादिभगवन्मायातिरोहितस्वप्रकाशेषु अनाद्यविद्यासंचितानंतपुण्यापुण्यकर्मानुगुणसुरनरतिर्यक्स्थावरयोनिषु पर्यायेणानेकवारं जनित्वा देहात्माभिमानस्वातंत्र्यान्यशेषत्वरूपगर्तेषु पतित्वा तत्तदनुगुणसाध्यसाधनेष्वत्यंतमवगाह्य यत्किंचिदवलंबनेन व्यावृत्तिव्रतमारोप्य प्राप्तशेषिणः परमप्राप्यप्रापकभूतात् अत्यंतविमुखेषु गर्भजन्मबाल्ययौवनवार्धक्यमरणनरकरूपास्ववस्थासु सप्तसु निरंतरविततविविधदुःखान्यनुभूय संचरत्स्वेतेषु संसारिचेतनेषु येषां केषांचिज्जायमानकालभगवत्कटाक्षविशेषेण रजस्तमोऽभिभवे सत्त्वोद्रेके मोक्षरुच्युत्पत्तावपि तत्त्वहितपुरुषार्थान्यथार्थत्वेन ज्ञात्वैवोज्जीवनं भवति, तेषां शास्त्रेण ज्ञाने संपादिनीये शास्त्रेषु प्रधानभूतस्य वेदस्य ‘अनंता वै वेदाः’ इत्यनंतत्वेन स्वार्थनिर्णये सर्वशाखाप्रत्ययन्यायादिसापेक्षत्वेनाल्पमतीनां तदवगाहनेनार्थनिर्णयस्य दुष्करत्वात्, तादृशवेदपारगैः स्वयोगमाहिमसाक्षात्कृतपरावरतत्त्वविभागैः परमर्षिभिः प्रणीतेषु वेदोपबृंहणस्मृतीतिहासपुराणेषु च सारासारविवेकचातुर्यमंतरेण तात्पर्यांशस्य दुर्ज्ञेयत्वात्, तद्विलक्षणस्य संसारिचेतनोज्जीवनकामेन सर्वेश्वरेण स्वयमाचार्यभूतेन प्रकाशितस्य सकलवेदसारभूतस्य रहस्यत्रयस्यातिमहत्त्वान्निगूढार्थकत्वात्, भगवदाकस्मिककटाक्षविशेषेणाज्ञानशून्यपरमभक्तिरूपज्ञानं प्राप्तैः सकलवेदशास्त्रतात्पर्यं करतलामलकवत्साक्षात्कृतवद्भिः परांकुशपरकालप्रभृतिदिव्यसूरिभिः प्रणीतानां द्राविडवेदांगोपांगानां सर्वेषामर्थदर्शनस्य परिमितानां दुष्करत्वाच्च चेतनानां स्वरूपच्युतिरेव स्यादिति दिव्यसूरिनियुक्तकटाक्षेण लब्धदिव्यज्ञानाः नाथमुनिप्रभृतयः सत्संप्रदायसिद्धाः सकलशास्त्रनिपुणाः परमदयालवः पूर्वाचार्यास्तेषु वेदादिष्वर्थान् संगृह्य मंदमतीनां सुग्रहणाय प्रबंधीकृत्योपदिदिशुः । तथैव संसारिचेतनप्रच्युतिमसहमानपरमकृपया तदुज्जीवनाय स्वयमपि बहुप्रबंधानुक्त्वा कृष्णपादलोकाचार्यः आचार्यपरंपराप्राप्तेष्वर्थेषु तैर्गौरवातिशयेन रहस्यत्वेनोपदिष्टान् दुर्लभस्वभावत्वाच्चेतः स्वेनाप्यप्रकाशनेन गोपितान् सर्वानर्थविशेषान् पश्चात्त्नानां चाप्राप्तिर्न स्यादिति स्वकृपातिशयोपरि भगवता स्वप्ने नियमितत्वाच्च वचनभूषणरूपैतत्प्रबंधमुखेन प्रकाशयामास । तथाहि-वरदराजस्वामी स्वनिर्हेतुककृपया मणपाकग्रामे वर्तमानस्य नंबियाररिति कस्यचिच्छ्रीवैष्णवस्य विशेषकटाक्षं कृत्वा शरणभूतान् कांश्चिदर्थविशेषान् स्वयमेव स्वप्ने उक्त्वा भवान्नदीद्वयमध्ये तिष्ठतु पुनरपि भवत एतदर्थविशेषान् सर्वान्विशदतया तत्र वयं ब्रूम इत्यभ्यधात्, तच्छ्रुत्वा सोऽप्यत्रागत्य स्वामिनं सेवमानः स्वस्य तत्र पूर्वमुपदिष्टानर्थविशेषानतिरहस्यतयाऽनुसंधान एकांते कस्मिंश्चिद्देवमंदिरेऽवर्तत । तदानीमेकस्मिन् दिवसे श्रीपादांतरंगैर्ज्ञानाधि-कैः सह लोकाचार्यः तस्मिन् मंदिरे यादृच्छिकमागत्य तस्य स्थानस्यैकांतत्वात्तेषां तेषां रहस्यार्थानुपदिशन्नतिष्ठत् । तदा भगवता स्वस्योपदिष्टरूपत्वात्सोऽतीव विस्मितः सन् ततो बहिर्निर्गत्याऽऽगत्य लोकाचार्यचरणयोर्निपत्य स एव किं भवानित्यपृच्छत्, तत्किमिति तेन पृष्टो नंबियारः वरदराजस्य स्वस्यैतदर्थप्रसादप्रकारं श्रीरंगगमननियमनप्रकारं पुनस्तत्रैव विशदतया वयं ब्रूम इत्युक्तप्रकारं च व्यजिज्ञपत्, तच्छ्रुत्वा सोऽतीव हृष्टस्तमप्यंगीचक्रे, सोऽपि तस्यातीवांतरंगस्सन्नवर्तत । तस्मिन्काले भगवान् रङ्गनाथः स्वप्ने आगत्यैतदर्थानामरक्षणार्थं प्रबंधीकरणाय लोकाचार्यं भवानित्याज्ञापयामास, सोऽपि भगवन्निर्देशप्रकारं निवेदितवान्, तर्हि तथा कुर्यामिति मनसि विचार्यानंतरममुं प्रबन्धं निर्ममे इति प्रसिद्धम् । यथा रत्नमधुरं भूषणं रत्नभूषणमित्यभिधीयते तथा पूर्वाचार्याणां वचनामृतैरनुसंधातॄणामाज्ज्वल्यकरत्वाच्चास्य श्रीवचनभूषणमिति श्रीनाम भवति । अस्मिन् प्रबंधे ‘वेदार्थो निश्चेतव्य’ इत्यारभ्य ‘तस्मात् स पूर्वपतित’ इति वक्ष्यमाणार्थनिर्णायकप्रमाणस्य निर्देशात् प्रबंधोपोद्घातः । ‘इतिहासश्रेष्ठ’ इत्यारभ्य ‘प्रपत्त्युपदेशश्चैतदर्थं कृत’ इत्येतदंतं सापराधचेतनानां सर्वापराधान् सर्वेश्वरं प्रति क्षमयित्वा रक्षयितृत्वैकस्वरूपपुरुषकारवैभवः, तादृशपुरुषकारश्रियाऽधिको यथा स्यात्तथाविधोपायवैभवश्चोच्यते । ‘प्रपत्तेः’ इत्यारभ्य ‘एकांती व्यपदेष्टव्यः’ इत्यंतमेतदुपायस्वीकरणरूपायाः प्रपत्तेर्देशकालनियमाभावं, विषय-नियमं, आश्रयविशेषं, अस्याः प्रपत्तेः साधनत्वेन स्वीकारे भवदवद्यं, एतत्स्वरूपांगादीनि चोक्त्वा प्रपत्तव्य एवोपाय इति साधितत्वेन पूर्वोक्तोपायशेषत्वादुपायप्रकरणम् । अत्र ‘प्राप्तेः प्रसन्नः स एव’ इत्यंतं प्रधानप्रकरणं भवति, उपरि प्रासंगिकं भवति । ‘उपायस्य’ इत्यारभ्य ‘उपेयविरोधिनश्च स्युः’ इत्यंतमनेनोपायेनोपेयं प्राप्स्यतः कस्यचिच्चेतनस्योपायोपेयाधिकारप्रधानापेक्षितानामुपायांतरत्यागहेतूनामन्यत्याज्योपादेयानां च विस्तरेण कथनादधिकारिनिष्ठाक्रम उच्यते । ‘स्वेन हितोपदेशकरणसमये’ इत्यारभ्य ‘प्रीतिरुपकारस्मृतिश्च वर्तितव्ये’ इत्यंतं हितोपदेशसमये स्वाचार्यपारतंत्र्यादिसदाचार्यलक्षणस्य सच्छिष्यलक्षणस्य तदुभयवर्तनप्रकारस्य दुष्टमनोनिवर्तकस्वाचार्यविषये शिष्यस्योपकारस्मृतिक्रमस्य च कथनात्सिद्धोपायनिष्ठस्याधिकारिणः स्वाचार्यनुवर्तनक्रम उच्यते । ‘स्वदोषानुसंधानं भयहेतुः’ इत्यारभ्य ‘निवर्तकज्ञानमभयहेतुः’ इत्यंतमस्याधिकारिणोऽद्वेषादिप्रतिफलकैंकर्यपर्यन्तानां प्राप्यानां हेतोः स्वकर्मभयानिवर्तिकाया भगवन्निर्हेतुककृपायाः प्रभाव उच्यते । ‘स्वतंत्रमुपायत्वेन स्वयं यदा स्वीकरोति’ इत्यारभ्योपरि सर्वं परमवैदिकवेदतात्पर्यार्थभूता चरमपर्वनिष्ठा स्पष्टमुच्यते । ‘वेदार्थो निश्चेतव्यः’ इत्यारभ्यास्मिन्नर्थे समाप्तत्वादस्मिन् प्रबंधे चरमप्रकरणप्रतिपाद्यमानोऽर्थो वेदतात्पर्यविषय इति संप्रतिपन्नम् । श्रीगीतायाश्चरमश्लोकवदस्य प्रबंधस्य चरमप्रकरणम् । तत्र साध्योपायानुपदिशन्स्वस्वातंत्र्यभीतस्य तान्निषिध्य सिद्धोपायमुपदिदेश । अत्र सिद्धोपायं वदन्नीश्वरस्वातंत्र्यभीतस्य प्रथमपर्वं निषिध्य चरमपर्वमुपदिदेश । एवं षड्भिः प्रकरणैः षडर्थप्रतिपादको भवति । अथवा नवभिः प्रकरणैर्नवार्थप्रतिपादकश्च । तस्मिन् पक्षे प्रथमप्रकरणं पूर्ववत् । ‘प्रपत्तेः’ इत्यारभ्य ‘भगवद्विषयप्रवृत्तिरुचिता’ इत्यंतं पूर्वप्रकरणोक्तोपायशेषत्वादुपायप्रकरणम् । ‘प्रापकांतरपरित्यागस्य’ इत्यारभ्य ‘तस्मात् सुखरूपा भवति’ इत्यंतमुपायांतरदोषप्रकरणम् । अस्मिन् प्रकरणे प्रपत्त्युपायवैलक्षण्यकथनं प्रासंगिकम् । ‘अयं तं प्राप्तुमिच्छति चेत्’ इत्यारभ्य ‘गोपिकाऽपि प्राप्तवती’ इत्यंतं सिद्धोपायनिष्ठानां वैभवप्रकरणम् । ‘एवं सर्वप्रकारेण’ इत्यारभ्य ‘उपेयविरोधिनश्च भवति’ इत्यंतं प्रपन्नदिनचर्याप्रकरणम् । ‘स्वेन हितोपदेशकरणसमये’ इत्यारभ्य ‘चेतनानां रुच्यागतत्वात्’ इत्यंतं सदाचार्यलक्षणप्रकरणम् । ‘शिष्यः’ इत्यारभ्य ‘उपकारस्मृतिर्वर्तितव्या’ इत्यंतं सच्छिष्यलक्षणप्रकरणम् । ‘स्वदोषानुसंधानम्’ इत्यारभ्य ‘निवर्तकज्ञानमभयहेतुः’ इत्यंतं भगवन्निर्हेतुकविषयीकारप्रकरणम् । ‘स्वतंत्र’ इत्यारभ्योपरि सर्वमपि चरमप्राप्यप्रापकप्रकरणम् । एतत्क्रमद्वयमभिप्रेत्य ‘फलदात्री’, ‘श्रीमहालक्ष्मी’ इति गाथाद्वयमवातरत् । तस्मात्प्रकारद्वयानुसंधानमपि सुसंगतम् । अयं प्रबंधो दीर्घशरणागतिभूतसहस्रगीतिवद् द्वयविवरणम् । कथमिति चेदित्थम् । सहस्रगीत्यां प्रथमशतकत्रयेणोत्तरखंडार्थं, उपरि शतकत्रयेण पूर्वखंडार्थं चोक्त्वोपरि शतकचतुष्टयेन तादृशोपायोपयोगिनां गुणानां, आत्मात्मीयेषु स्वस्य संगाभावस्य, तेन सह स्वस्य विद्यमाननिरुपाधिकसंबंधस्य, स्वप्रार्थनाप्रकारेण प्राप्तिप्रकारस्य च प्रतिपादनात् तदनुरूपार्थानुक्त्वा निगमनं कृतम् । एवमत्र च प्रथमं पुरुषकारस्यानन्तरमेतदुपायाधिकारिनिष्ठायाश्चोक्तत्वात्पूर्वखंडार्थं, तदधिकारिनिष्ठाकथनसमय उपायाधिकारापेक्षितकथने उत्तरखंडार्थं चोक्त्वोपरि प्रबंधशेषेण तदुपदेष्ट्राचार्यविषयेऽस्यावश्यापेक्षितप्रतिपत्त्यनुवर्तनप्रकारान्, एतन्महाविश्वासहेतुभूतभगवन्निर्हेतुककृपाप्रभावं, वाक्यद्वयोक्तोपायोपेयचरमावधिं चोक्त्वा निगमितत्वादिति ज्ञेयम् । नवार्थप्रतिपादकत्वपक्षे च पूर्ववाक्ये ‘प्रपद्ये’ इति क्रियापदोक्तस्य स्वीकारस्योपायांतरपरित्यागपूर्वकत्वनियमात्, दिनचर्यायाश्चैतत्पदोक्तेऽधिकारिण्येव विद्यमानत्वात्, सदाचार्यलक्षणस्य द्वयोपदेष्ट्राचार्यलक्षणत्वेनोक्तत्वाच्च द्वयविवरणत्वेन निर्वाहस्य न विरोधः । एवं द्वयविवरणभूतेऽस्मिन् द्वयार्थवदन्यरहस्यद्वयार्थाश्च संग्रहेणोक्ताः । तथाहि-‘अहंमर्थस्य’ इत्यारभ्य ‘दास इति हि’ इत्यंतं स्वरूपप्रयुक्तं दास्यं प्रधानमिति प्रणवार्थ उक्तः । ‘स्वयत्ननिवृत्तिः’ इत्यादिना ‘स्वस्य स्वेनैव विनाशकरणं नाम’ इत्यारभ्य ‘एवं सर्वप्रकारेण’ इत्यतः प्राग्ग्रंथेन च नमःशब्दार्थ उक्तः । ‘परप्रयोजनप्रवृत्तिः’ इत्यादिना ‘उपेयस्य बालस्वामिवत्’ इत्यादिना ‘कैंकर्यं भक्तिमूलम्’ इत्यादिना च तृतीयपदार्थ उक्तः । ‘अज्ञानेन’ इत्यादिना ‘प्रापकान्तरपरित्यागस्य’ इत्यादिना चोपायान्तरपरित्यागस्य सहेतुकमुक्तत्वात् तत्त्याज्यत्यागप्रकारप्रतिपादकपदद्वयार्थ उक्तः । ‘अस्याः स्वरूपम्’ इत्यादिना ‘प्राप्तेरुपायस्तदिच्छा’ इत्यादिना च ‘मामेकं शरणम्’ इति पदानामर्थ उक्तः । ‘तमयम्’ इत्यारभ्य ‘स्वातंत्र्यप्रयुक्तं पारतंत्र्यं प्रबलम्’ इत्यंतं सर्वपापान् दूरीकृत्यांगीकर्तुरीश्वरस्य स्वातंत्र्यस्य कृपाफलमवश्यमनुभाव्यमिति फलसिद्धेरबाधितत्वस्य चोक्तत्वादुत्तरार्धार्थश्चोक्तः ।
इति श्रीमद्वरवरमुनिप्रणीतश्रीवचनभूषणव्याख्योपोद्घातः समाप्तः । श्रीकृष्णपरब्रह्मणे नमः ।
1
मूलम्
वेदार्थो निश्चेतव्यः स्मृतीतिहासपुराणैः ॥ १ ॥
श्लोक
वेदवेदांततत्वार्थों निश्चेतव्यो मनीषिभिः । स्मृतीतिहासवाक्येन पुराणवचनेन च ॥ १ ॥
टीका संस्कृता
वेदार्थ इत्यादि । प्रमाता प्रमाणेनैव हि प्रमेयं निश्चिनोति, तादृशप्रमाणानि प्रत्यक्षादिरूपेणाष्टविधानि वदन्ति, अत्र ‘प्रत्यक्षमेकं चार्वाकाः’ इत्यत्रायुक्तबाह्यकुदृष्टिवैलक्षण्येन प्रत्यक्षानुमानागमरूपाणि त्रीण्यपि प्रमाणतयाऽङ्गीकृत्योपमानादि पंचकं तेषु यथायोग्यमन्तर्भाव्य तत्र च प्रत्यक्षमिन्द्रियग्रहणयोग्येषु अनुमानं प्रत्यक्षसिद्धव्याप्तिग्रहणानुरूपं कतिपयपरोक्षार्थेषु च प्रमाणत्वेन अतीन्द्रियार्थे शास्त्रमेव प्रमाणमिति च निष्कर्षयित्वा तत्रापि ‘वेदे कषंभावाद् बलवति हि नयैस्त्वन्मुखे नीयमाने तन्मूलत्वेन मानं तदितरदखिलं जायते’ इत्युक्तप्रकारेण स्वप्रामाण्यस्य मूलसापेक्षपौरुषेयशास्त्रापेक्षया स्वतः प्रामाण्यविशिष्टो वेद एव प्रबलप्रमाणमिति निश्चिन्वता स्वस्य परमवैदिकत्वादस्मिन्प्रबंधे स्वोक्ताः सर्वे अर्था वेदप्रतिपाद्या इति ज्ञापयितुं प्रथमं वेदं प्रमाणत्वेनांगीकृत्य तदर्थनिर्णयक्रममनेन वाक्येनाह- वेदार्थ इति । अखिलहेयप्रत्यनीकत्वकल्याणैकतानत्वाभ्यामीश्वरो यथाखिलप्रमेयविलक्षणो भवति तथाऽपौरुषेयत्वनित्यत्वाभ्यां वेदोऽखिलप्रमाणविलक्षणः । वेदस्यापौरुषेयत्वादि ‘वाचा विरूप नित्यया’ इत्यादिश्रुत्या ‘अनादिनिधना ह्येषा वागुत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः॥’ इति स्मृत्या च प्रतिपादितं । आभ्यां श्रुतिस्मृतिभ्यां नित्यत्वस्योक्त्या च पौरुषेयत्वं सिद्धम् । अत एव भ्रमविप्रलम्भप्रमादाशक्तिरूपदोषचतुष्टयसंभावनागंधरहितो भवति । पौरुषेयत्वं खलु तन्मूलं । अत एतदतिशयितं किंचिच्छास्त्रं नास्ति । अत एव— ‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥’ इत्यैतिहासिकैः पौराणिकैश्चैककण्ठ्येनोक्तम् । एतदाधिक्यं सर्वमभिप्रेत्य खलु ‘तेजसातिशयिता श्रुतिः’ इति परांकुशसूरिभिरनुगृहीतम् । तदनुयायिनोऽभियुक्ताग्रेसरा भट्टार्याश्च ‘आदौ वेदाः प्रमाणं’ इत्यवदन् । अयं च ‘वेदः’ इत्यभिधीयते ‘वेदयतीति वेद’ इति व्युत्पत्त्या बुभुत्सूनामास्तिकानां स्वार्थप्रकाशकत्वात् । एवंरूपो वेदः प्रतिपाद्यार्थविशेषेण भागद्वयात्मकः । सोऽत्रोभयभागसामान्यवाचिना वेदशब्देन साकल्येनोच्यते । अर्थ इति । पूर्वभागप्रतिपाद्यकर्म उत्तरभागप्रतिपाद्यब्रह्म चोच्यते । पूर्वोत्तरमीमांसयोः ‘अथातो धर्मजिज्ञासा’ ‘अथातो ब्रह्मजिज्ञासा’ इति ह्युपक्रमः । अतो भागद्वयप्रतिपाद्यमाराधनरूपं कर्माराध्यवस्तु ब्रह्म च । कर्मणो भगवदाराधनत्वं ‘स आत्मा अङ्गान्यन्या देवता:’ इति सकलदेवताश्च भगवच्छरीराणीति शास्त्रेणोक्तत्वात्सिद्धम् । अमुमाकारं ज्ञात्वाग्नीन्द्रादिदेवतांतर्यामिसमाराधनत्वेनानुष्ठितस्य भगवदाराधनत्वं सुस्पष्टम् । अमुमाकारमजानंतस्तत्तद्देवतोद्देशेन ये पुनरनुतिष्ठंति तथापि कर्म वस्तुगत्या भगवदाराधने पर्यवस्यति । तदुक्तं- ‘ये यजंति पितॄन्देवान् ब्राह्मणान्स हुताशनान् । सर्वभूतांतरात्मानं विष्णुमेव यजंति ते॥’ इत्युक्तं हि । ‘येऽप्यन्यदेवताभक्ता यजंते श्रद्धयान्विताः । तेऽपि मामेव कौंतेय यजंत्यविधिपूर्वकम् ॥’ इति स्वयमेवावोचत् । अतः सर्वप्रकारेणापि कर्मणो भगवदाराधनत्वं सिद्धम् । एवमाराधनरूपे कर्मण्याराध्यवस्तुब्रह्मणि च ज्ञाते त्याज्योपादेयसकलपदार्थानां ज्ञातुं शक्यत्वाद्भागद्वयार्थः कर्म ब्रह्म चेत्युक्तं, तत्कथमितिचेत्-कर्म बुभुक्षूणामैश्वर्यसाधनं, मुमुक्षुषु भक्तिनिष्ठानामुपासनाङ्गं, प्रपन्नानां कैंकर्यरूपं च भवति । एवंभूतकर्मस्वरूपे ज्ञाते अनंतस्थिरफलब्रह्मप्राप्तिकामानामुपासकानामुपासनांगत्वेनोपादेयं, ऐश्वर्यार्थिनामुपादेयभूतेनाकारेण त्याज्यमिति ज्ञातुं शक्यम् । अनन्यसाधनानामनेन साधनीयस्यार्थस्याभावात्कैंकर्यरूपेणोपादेयं, उपासकानामुपादेयभूतेनाकारेण त्याज्यं भवतीति ज्ञातुं शक्यम् । यदा ब्रह्म ज्ञातव्यं तदा तत्स्वरूपरूपगुणविभूतीनां ज्ञातव्यत्वात् विभूतिभूतचेतनाचेतनस्वरूपं ज्ञातुं शक्यं, तत्रच ज्ञानानन्दलक्षणचेतनस्वरूपवैलक्षण्येन हेतुनाऽऽगतत्वात्कैवल्यवेषश्च ज्ञातुं शक्यते । ब्रह्मणः शेषित्वप्राप्यत्वयोर्ज्ञातयोस्तदनुभवादयः पुरुषार्थ इति ज्ञातुं शक्याः । तदुपास्यत्वशरण्यत्वयोर्ज्ञातयोस्तत्प्राप्तिसाधनविशेषौ ज्ञातुं शक्यौ । साध्यांतरसाधनांतराणां त्याज्यता, ब्रह्मणो निरतिशभोग्यता, अनन्यसाध्यत्वं तत्प्रकारतया परतंत्ररूपे स्वस्वरूपे च दृष्टे सुस्पष्टं ज्ञायते । एवञ्च सति भागद्वयस्य प्रतिपाद्यमाराधनरूपं कर्माराध्यवस्तु ब्रह्मेति वक्तुं न विरोधः । त्वदर्चाविधिमुपरि परिक्षीयते पूर्वभागः । ऊर्ध्वो भागस्त्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाब्ज इति भट्टार्य आहुः । एवं भागद्वयप्रतिपाद्ययोरनयोरर्थयोर्निर्णयो नाम कर्मस्वरूपांगफलादीनां ब्रह्मस्वरूपरूपगुणाविभूत्यादीनां संशयविपर्ययनिरासपूर्वकं निर्णयः । सच सकलशाखाप्रत्ययन्यायेन सकलवेदान्तप्रत्ययन्यायेन च कर्त्तव्यः । तत्र सकलशाखाप्रत्ययन्यायो नामैकस्मिन् वाक्य एकोऽर्थ उक्तश्चेत्तस्याङ्गोपाङ्गानि साक्षाज्ज्ञातुं शाखान्तरेषु संचरित्वा तत्रोक्तार्थेषु ज्ञानं संपाद्य तेषामर्थानामन्योन्यविरोधं शमयित्वा स्वाभिमतेनाङ्गनोपसंहार्याणामर्थानामुपसंहारः । सकलवेदान्तप्रत्ययन्यायोनामैकस्मिन्वेदान्ते एकेन वाक्येनैकार्थः प्रतिपन्नश्चेदन्येषु वेदान्तेषु संचरित्वा तत्रोक्तानामर्थानामन्योन्यविरोधी यथा न स्यात्तथा विषयविभागं कृत्वा स्वाभिमतेनार्थेनोपसंहार्याणामर्थानामुपसंहारः । अयं महर्षीणामेव शक्यः इतरेषां तु दुःशक इत्युपबृंहणैरेव निश्चयः कर्तव्यः, तस्मात्तन्निर्णायकान्याह-स्मृतीतिहासपुराणैरिति । स्मृतयश्चाप्तैर्मनुविष्णुहारीतयाज्ञवल्क्यादिभिरभिहितानि धर्मशास्त्राणि । इतिहासाः पुरावृत्तप्रतिपादकाः श्रीरामायणभारतादयः । पुराणानि सर्गादिपञ्चलक्षणोपेतानि ब्राह्मपाद्मवैष्णवादीनि । वेदार्थो निश्चेतव्य एतैरिति नियमोक्तिः, एतैर्विना स्वबुद्ध्या निर्णयकरणेऽल्पश्रुतस्य विप्रतिपत्तेः संभवात् वेदकालुष्यहेतुः स्यादित्यभिप्रायेण । अयं च नियमः-‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रतारयिष्यति ॥’ इति बार्हस्पत्यस्मृतौ महाभारते चोक्तः । एतदुपक्रमवाक्यप्रक्रिया पुरुषकारवैभवमारभ्याचार्याभिमानपर्यन्तमस्मिन्प्रबंधेऽनेनोक्ता वेदार्थाः सर्वे उपबृंहणेनैव निश्चिता इति ज्ञायते । अयमर्थस्तत्तदर्थनिरूपणसमये सम्प्रतिपन्नः।
टीका हिन्द्या
वेदार्थ को स्मृति इतिहास-पुराणों से निश्चय करना चाहिये ॥ १ ॥ प्रमाता पुरुष प्रमाण से ही प्रमेय को निश्चय करता है । तादृश प्रमाण प्रत्यक्षादि रूपसे ८ प्रकारके हैं । इन प्रमाणों में ‘प्रत्यक्षमेकं चार्वाकः’, इस उक्ति के अनुसार प्रत्यक्ष एक ही को प्रमाण मानने वाले बाह्यकुदृष्टियों की अपेक्षा प्रत्यक्ष, अनुमान और आगम रूप तीन प्रमाणों को मानकर इन ही तीन प्रमाणों में शेष पांच प्रमाणों को भी वैदिक लोग अंतर्गत करते हैं । उनमें प्रत्यक्ष प्रमाण इन्द्रियों से ग्रहण कियेजानेवाले पदार्थों में अनुमान प्रत्यक्षसिद्ध व्याप्तिज्ञानानुगुण किसी २ अप्रत्यक्ष विषय में और शास्त्ररूप प्रमाण को इन्द्रियागोचर वस्तुओं में प्रमाण मानते हैं ॥ वेद में कर्ता आदि नहीं होनेसे उसको मुख्य प्रमाण तदितर प्रमाणों को वेदाधीन प्रमाण मानते हैं । स्वतः प्रमाण वेद ही को प्रबलप्रमाण मानने वाले परमवैदिक होनेसे इस प्रबंध में स्वयं अपने कहे हुए सब अर्थ वेदप्रतिपाद्य हैं ऐसा जनानेके लिये पहिले वेद को प्रमाण मानकर उस के अर्थ का निश्चय करनेके क्रमको ‘वेदार्थ’ इस वाक्य से कहते हैं । जैसा ईश्वर सर्वदोष रहित और कल्याण गुणाकर होनेसे संपूर्ण पदार्थों में श्रेष्ठ है तैसा पुरुषनिर्मित न होनेसे और नित्य होनेसे वेद सब प्रमाणों में श्रेष्ठ है । वेद पुरुषनिर्मित नहीं इत्यादि - ‘हे विरूप नित्यवाणी से’ (ईश्वर को जान सक्ते हैं) ‘इत्यादि श्रुति और जिस वेद से संपूर्ण भूतों की उत्पत्ति ज्ञात होती है ऐसे उत्पत्तिनाश रहित इस वेदरूप दिव्य विद्या को आदि सृष्टि में परमात्माने प्रकट किया’ इत्यादि स्मृति से कहा जाता है । इन श्रुति-स्मृतियों से वेद का नित्यत्व कहे जाने से वेद का पुरुषनिर्मित नहीं होना सिद्ध हुआ । इससे ही भ्रांति, वंचना, प्रमाद और अशक्ति रूप इन चार दोषों के संभावना मात्रसे रहित है । इस कारण इस वेद से परे कोई शास्त्र नहीं है । इस कारण ‘वेदशास्त्रसे परे शास्त्र नहीं एवं केशव से परे देवता नहीं इस बात को मैं भुज को उठाकर वारंवार सत्य कहता हूं।’ ऐसा इतिहासवेत्ता और पौराणिकोंने एक स्वर से कहा है । इन संपूर्ण माहात्म्यों को विचार कर ही ‘तेजोऽधिक श्रुति’ ऐसा श्रीशठकोपसूरि जी अनुग्रह किये हैं । उनके अनुयायी परम आप्त श्रीपराशर भट्टार्य भी ‘प्रथम प्रमाण वेद ही है’ ऐसा कहे हैं । इस को जाननेकी इच्छा वाले आस्तिकों को अपने अर्थ को प्रकाश करनेसे ‘वेदयतीति वेद:’ इस व्युत्पत्तिके अनुसार इस को ‘वेद’ कहते हैं । एवंभूत वेद प्रतिपाद्य अर्थ भेद से दो भागों में विभक्त है । वह भागद्वयरूप वेद इस सूत्र में उभयभाग का सामान्यबोधक ‘वेद’ शब्द से कहाजाता है । अर्थ ‘अर्थ’ यह पद पूर्वभाग से कहेहुए कर्म और उत्तरभाग से कहे हुए ब्रह्म को कहता है । पूर्वमीमांसा का प्रारंभ ‘अथातो धर्म जिज्ञासा’ और उत्तरमीमांसा का प्रारंभ ‘अथातो ब्रह्मजिज्ञासा’ से है । इस कारण दोनों भागों का प्रतिपाद्य आराधन रूप कर्म और आराध्यरूप ब्रह्म है । ‘वह आत्मा है और अन्य देवता अंग हैं’ इस सूक्ति से अग्नि इंद्रादि सकल देवता भगवान के शरीरभूत है ऐसा कहेजानेसे कर्म का भगवदाराधनत्व सिद्ध हुआ । इस आकार को जानकर अग्नि इन्द्रादि देवतांतर्यामी के समाराधनरूप से अनुष्ठान करनेवालों में इस का भगवदाराधनत्व सुस्पष्ट है । जो लोग इस आकार को नहीं जानकर उन उन देवतामात्र का उद्देश कर कर्मानुष्ठान करते हैं वह कर्म भी वस्तुगत्या भगवदाराधन में अंतर्गत होता है । ‘जो लोग पितर देवता ब्राह्मण और अग्नि की आराधना करते हैं वे भी सर्वभूतों के अंतर्यामी विष्णु का ही आराधना करते हैं’ ऐसा कहा है । ‘और हे अर्जुन जो लोग अन्य देवताओं के भक्त हो श्रद्धापूर्वक आराधन करते हैं वे भी विधिरहित मेरा ही उपासना करते हैं’ ऐसा स्वयं श्रीकृष्ण भगवान ने कहे हैं । इस कारण सर्व प्रकार से भी कर्म का भगवदाराधनत्व सिद्ध होता है । इस प्रकार आराधनरूप कर्म और आराध्यरूप ब्रह्म ये दोनों के जानने पर त्याज्योपादेयरूप सकल अर्थों को जानसक्ते हैं इसलिये भागद्वय प्रतिपाद्य कर्म और ब्रह्म ऐसा कहागया । सो कैसे ऐसी आकांक्षा में-कर्म बुभुक्षुओं का ऐश्वर्य साधनरूप, मुमुक्षुओं में भक्तों को उपासना का अंग रूप और प्रपन्नों को कैंकर्यरूप होता है । एवं प्रकार कर्म के स्वरूप को जानने पर अनंत स्थिर फल वाले ब्रह्म की प्राप्ति के कामनावाले उपासकों को उपासना के अंग रूप से कर्म उपादेय होता है और ऐश्वर्यार्थियों के उपादेयरूप ऐश्वर्यसाधनाकार से त्याज्य है ऐसा जानसक्ते हैं । उपायांतर रहित प्रपन्नों को इस कर्म से साधनयोग्य प्रयोजन के अभाव से कैंकर्य द्वारा उपादेय होता है और उपासकों के उपादेयरूप उपासनांगत्वाकाररूप से त्याज्य है ऐसा जान सक्ते हैं । जब ब्रह्म को जानना चाहते हैं तब उनका स्वरूप रूप गुण और विभूतियों को जानना आवश्यक होने से उनका विभूतिरूप चेतन अचेतन का स्वरूप जानाजासक्ता है । उस विभूति में ज्ञानानंदलक्षण चेतन के स्वरूपवैलक्षण्य द्वारा आया हुआ कैवल्यवेष जानाजासक्ता है । ब्रह्म का शेषित्व प्राप्यत्व ये दोनों के जाननेपर भगवदनुभवादि को पुरुषार्थतया जानसक्ते हैं । ब्रह्म का उपास्यत्व शरण्यत्व ये दोनों के जाननेसे ब्रह्म की प्राप्ति और साधनविशेष जानाजासक्ता है । भगवान के शरीरतया परतंत्रभूत आत्मस्वरूप के जाननेपर ऐश्वर्यादि साध्यान्तर भक्त्यादि साधनान्तर की त्याज्यता, ब्रह्म की अपरिमित भोग्यता और अनन्यसाध्यता जानीजाती है । ऐसा होनेसे ही वेद के भागद्वयप्रतिपाद्य आराधनरूप कर्म और आराध्यरूप ब्रह्म है ऐसा कहना असंगत नहीं है । ‘वेद का पूर्वभाग आपके पूजनविधि का प्रतिपादन में समाप्त होता है और उत्तर भाग आप की चेष्टा गुण और विभूतियों के जनाने में और तद्द्वारा आप के चरणारविन्दकी प्राप्ति में समाप्त होता है’ ऐसा श्रीपराशरभट्टार्य स्वामीजी ने कहे हैं । निश्चय करना इत्यादि । एवं भागद्वय प्रतिपाद्य इन अर्थों को निश्चय करना माने-कर्म के स्वरूप, अंग और फल आदि, और ब्रह्म के स्वरूप रूप गुण विभूत्यादि को संशय वैपरीत्य विना निश्चय करना । निश्चय करने के बखत सकलशाखाप्रत्ययन्याय और सकलवेदान्तप्रत्ययन्याय इन दोनों से कर्तव्य है । उनसे सकलशाखाप्रत्ययन्याय माने-एक वाक्य में एक अर्थ को कहने पर उस का अंगोपांगादियों को साक्षात् जाननेके लिये और शाखाओं में सर्वत्र विचारकर उन में कहे जाने वाले अर्थों में ज्ञान पैदा होकर उन अर्थों के अन्योन्यविरोधों को नाश कर अपना अभिमत अंगी के साथ मिलनेयोग्य को मिलाना । सकलवेदांतप्रत्ययन्याय माने एक वेदांत में एक वाक्य एक अर्थ को कहने पर और वेदान्तों में विचारकर उन में कहे जानेवाले अर्थों को अन्योन्य विरोध नहीं होनेके लिये विषय विभाग कर अपने अभिमत अर्थों के साथ मिलनेयोग्य को मिलाना । यह काम महामति महर्षियों के बिना औरों को अशक्य होनेसे इतिहासपुराणरूप उपब्रह्मण लेकर ही निर्णय करना है । इस हेतु से उस अर्थ के निर्णय करनेवाले इत्यादि को कहते हैं-स्मृतीतिहासपुराणों से इति । स्मृति माने-आप्त मनु, अत्रि, विष्णु, हारीत और याज्ञवल्क्यादिकों से निर्मित धर्मशास्त्र । इतिहास माने-पूर्ववृत्तप्रतिपादक श्रीमद्रामायण महाभारतादि । पुराण माने सृष्टि, प्रलय राजवंश, राजचरित्र और मन्वंतर इन को प्रतिपादन करनेवाले ब्राह्म, पाद्म, वैष्णव आदि । वेदार्थ को इन से निश्चय करना इस नियम उक्ति-इन के बिना अपनी बुद्धिसे निश्चय करनेपर अल्पज्ञ पुरुष को विपरीत ज्ञान होकर वेद कालुष्यहेतु होगा ऐसा समझ कर कीगयी है । यह नियम ‘इतिहास पुराणों से वेद के अर्थका निश्चय करे, नहीं तो हम को अपार्थ करवंचना करेगा ऐसा वेद अल्पज्ञ से डरता है’ । ऐसा बार्हस्पत्य स्मृति और महाभारत में कहा है । इस उपक्रमवाक्यप्रक्रिया से पुरुषकार वैभव को लेकर आचार्याभिमान पर्यंत इस प्रबंध में इन से कहे जानेवाले संपूर्ण वेदार्थ उपबृंहण अर्थात् इतिहासपुराणों को लेकर ही निश्चय करते हैं ऐसा भान होता है । इस बात को उन उन अर्थों के कहने के स्थल में स्पष्टतया जान सक्ते हैं ।
मूलम्
स्मृत्या पूर्वभागार्थो निर्णीयते, अन्याभ्यां द्वाभ्यामुत्तरभागार्थो निर्णीयते ॥ २ ॥
श्लोक
तत्र निर्णीयते स्मृत्या पूर्वभागार्थगह्वरम् ॥ इतिहासपुराणाभ्यामुत्तरार्थप्रकीर्तनम् ॥ २ ॥
टीका संस्कृता
एवमनेन वाक्येन सकलप्रमाणेषु वेद एव प्रबलप्रमाणमित्यर्थः, तदर्थनिर्णायकक्रमश्चोक्ताः । केन वाक्येन कस्यार्थो निर्णीयते इत्यत आह- स्मृत्येत्यादि । यथोपबृंहणीयस्य वेदस्य प्रतिपाद्यार्थविशेषेण भागभेदो जातस्तथोपबृंहणानामपि प्रतिपाद्यविशेषेण भेदोऽस्ति । तत्र स्मृतीनां पूर्वभागोपबृंहणत्वेनेतिहासादीनामुत्तरभागोपबृंहणत्वेन निर्मितत्वात् तत्तदुपबृंहणैरेव तत्तद्भागार्थो निश्चेतव्यः । तस्मादाचारव्यवहारप्रायश्चित्तानां प्रतिपादकधर्मशास्त्रैः कर्मप्रतिपादकपूर्वभागार्थो निश्चेतव्यः । भगवत्स्वरूपरूपगुणविभूतिचेष्टितानां प्रतिपादकाभ्यामन्याभ्यामितिहासपुराणाभ्यां द्वाभ्यां ब्रह्मप्रतिपादकोत्तरभागार्थो निर्णीयतव्य इत्याह । एवमुभयविधोपबृंहणैः क्रियमाण उभयभागार्थनिर्णयो नाम- अनधीतशाखार्थानां च प्रतिपादकैरेतैरधीतशाखार्थानामपेक्षितविशेषैः सह निश्चयः । स्मृतिषु ब्रह्मप्रतिपादकांशस्येतिहासादिषु कर्मप्रतिपादकांशस्य च सत्वेपि स्मृतिषु ब्रह्मप्रतिपादनस्य कर्मणां तदाराधनरूपत्वज्ञापनार्थत्वात्, इतिहासपुराणेषु कर्मप्रतिपादनस्य कर्मणामुपासनांगत्वज्ञापनार्थत्वाञ्चैवं विभागो नानुपपन्नः । ‘प्रायेण पूर्वभागार्थपूरणं धर्मशास्त्रतः । इतिहासपुराणाभ्यां वेदान्तार्थः प्रकाश्यते ॥’ इत्युक्तम् ।
टीका हिन्द्या
तथाच — इस सूत्र सकल प्रमाणों में वेद ही प्रबल प्रमाण है और उस के अर्थनिर्णय करनेका क्रम यह है ऐसा कहागया । उपबृंहणों में किस से किस भाग का अर्थ निश्चय करना चाहिये ऐसी जिज्ञासा में कहते हैं- ‘स्मृति से’ इत्यादि । स्मृति से पूर्वभागार्थ को निश्चय करते हैं, शेष दोनों से उत्तरभागार्थ को निश्चय करते हैं । जैसे व्याख्येय (व्याख्या करने योग्य) वेद का प्रतिपाद्य अर्थों के भेद से ही भागों का भेद हुआ वैसे ही उपबृंहण (व्याख्यानों) का प्रतिपाद्यविशेष से भेद होता है । उन में स्मृति पूर्वभाग का व्याख्यानरूप, इतिहासादि उत्तर भाग का व्याख्यानरूप बनाया गया है । उन उन उपबृंहणों को लेकर ही उस उस भाग का अर्थ निश्चय कियाजाता है । इस हेतु से आचार व्यवहार और प्रायश्चित्तादियों को प्रतिपादन करनेवाले धर्मशास्त्रों से कर्मप्रतिपादक पूर्वभाग का अर्थ निश्चय कियाजाता है । भगवत्स्वरूप रूप गुण विभूति चेष्टितों को प्रतिपादन करनेवाले इतिहास और पुराणों से ब्रह्मप्रतिपादक उत्तरभाग का अर्थ निश्चय कियाजाता है । एवं उभयविध उपबृंहणों से उभय भागार्थ का अर्थ निश्चय करना माने-अध्ययन नहीं कियाहुआ और शाखाओं को प्रतिपादन करनेवाले इन से अध्ययन कियाहुआ शाखाओं के अर्थों को अपेक्षित विशेषों के साथ निश्चय करना । यद्यपि स्मृतियों में ब्रह्म का प्रतिपादन और इतिहासों में कर्म का प्रतिपादन होने पर भी स्मृतियों में ब्रह्मप्रतिपादन-कर्मों का ब्रह्माराधनरूपत्व को जनानेके लिये । इतिहासों में कर्म प्रतिपादन-कर्मों के उपासनांगत्व को जनानेके लिये । अत एव ऐसा कहना असंगत नहीं । ‘प्रायः धर्मशास्त्र से पूर्वभाग का अर्थ पूर्ण होता है, इतिहासपुराणों से वेदांतार्थ पूर्ण होता है’ ऐसा कहा है ।
मूलम्
अनयोरुभयोर्मध्ये इतिहासः प्रबलः ॥ ३ ॥
श्लोक
इतिहास: प्रधानः स्यादितिहासपुराणयोः ॥ ३ ॥
टीका संस्कृता
नूत्तरभागार्थोपबृंहणद्वयस्य मिथस्तारतम्यमस्ति, उतोभयमपि तुल्यमित्यत आह- अनयोरुभयोरिति । यद्वैकभागविषयोपबृंहणद्वय इदं प्रबलमिति ज्ञापनीयमिति स्वयमेव मनसि विचार्याह-अनयोरुभयोरिति । श्रेष्ठभागोपबृंहणत्वप्रयुक्तसाहचर्ययोरुभयोर्मध्ये प्रामाण्ये पुराणादितिहासस्य प्राबल्यमस्तीत्यर्थः । पुराणादितिहासस्य प्राबल्यं परिग्रहातिशयः, मध्यस्थत्वं कर्तुराप्ततमत्वमित्येतैः । अत्र परिग्रहो नाम - शास्त्रपरिग्रहः ‘वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥’ ‘मतिमंथानमाविध्य येनासौ श्रुतिसागरात् । जगद्धिताय जनितो महाभारतचन्द्रमाः ॥’ ‘व्यासवाक्यांबुजातोत्थं कुतर्केक्षविदारणम् । बेदरीलावतीर्णेन विरजस्का मही कृता॥’ विभेति गहनाच्छास्त्रानरस्तीव्रादिवौषधात् । भारतः शास्त्रसारोऽयं नतः काव्यात्मना कृतः॥ ‘विष्णो वेदेषु विप्रेषु गुरुषु ब्राह्मणेपु च । मतिर्भवति कल्याणी भारतादेव धीमताम् ॥’ इत्यादिभिः पुराणविशेषेष्वितिहासः साधितः । मध्यस्थता नाम ‘यस्मिन्कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥’ इति सर्वपुराणस्य प्रवर्तको ब्रह्मा, तस्य यस्मिन्कल्पे गुणत्रये यो गुणः प्रवृद्धः, तादृशगुणानुगुणदेवताया माहात्म्यस्य तत्पुराण उक्तत्वात् पक्षपाति भवति पुराणम् । अस्य तु लौकिकवैदिकसकलपदार्थनिर्णयेऽधिकृतत्वात्कस्मिंश्चिद्विषये पक्षपाताभावः । [[कर्तुरातत्ततं|कर्तुराप्ततमत्वं]] नाम-प्रबंधकर्तुर्यथादृष्टार्थवादिनामत्यन्तवैशिष्ट्यम् । ‘अथेतिहासपुराणयोरितिहासा बलीयांसः-परिग्रहातिरेकात्, सर्वत्र माध्यस्थ्येन भूतार्थशंसित्वात्, वचनसौंदर्यात् कर्तुराप्ततमत्वावगतेश्च’ इत्यारभ्य परिग्रहातिशयादिकं वदद्भिरुद्यत्कौंडिन्याचार्यैस्तत्वनिर्णये सामान्येनेतिहासस्य प्राबल्यमुक्तम् । ‘महाभारतं हि परिग्रहविशेषेण बलवत्तरम्’ इत्यारभ्य ‘यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्’ इति लौकिकवैदिकसकलार्थनिर्णयाधिकृतत्वेन क्वचिद्विषयेऽपक्षपातित्वाच्च पुराणेभ्य इतिहासविशेषस्य महाभारतस्य [[विद्यानं पावल्यं श्रीaseena श्रीभार्यैरपि प्रत्यादि|विद्यास्थानप्राबल्यं श्रीसहस्रनामभाष्ये श्रीभट्टार्यैरपि प्रतिपादि]] ।
टीका हिन्द्या
इन दोनों में इतिहास प्रबल है ॥ ३ ॥ उत्तरभागोपबृंहण भूत इतिहासपुराणों में तारतम्य है या नहीं इस जिज्ञासा में कहते हैं- इन दोनों में इति । अथवा एक भाग को प्रतिपादन करने वाले दो उपबृंहणों में यह प्रबल है ऐसा दिखाना आवश्यक समझकर कहते हैं—इन दोनों में इति । श्रेष्ठभाग का उपबृंहण होनेसे आया हुआ तुल्यता वाले इन दोनों में प्रामाण्य की अपेक्षा होनेपर पुराणापेक्षया इतिहासका प्राबल्य है । पुराणापेक्षया इतिहास का प्राबल्य-परिग्रहातिशय, मध्यस्थता और कर्ता की आप्ततमता है । इन में परिग्रह माने-शास्त्रपरिग्रह । ‘वेद से वेद्य परमात्मा दशरथ पुत्ररूप से जन्म लेनेपर वह वेद वाल्मीकिमहामुनि द्वारा साक्षात् रामायण रूपसे हुआ ।’ ‘जिस व्यासजीने वेदरूप समुद्र को बुद्धिरूप मंथनदण्ड द्वारा मथकर जगत हितके लिये महाभारतरूप चंद्रमा को उत्पन्न किया ।’ ‘व्यासवाक्यरूप जलप्रवाह से खिलने वाला कुधर्मरूप वृक्षों को उखाडने वाला व्यासवाक्यरूप जलप्रवाह से भूमि रजोरहित की गयी ।’ ‘मनुष्य तीव्र औषध के तरह गहनशास्त्र से डरता है, इस कारण शास्त्र का सार भूत यह भारत काव्यरूप से किया गया ।’ ‘बुद्धिमानों को विष्णु, वेद, विद्वान्, गुरु और ब्राह्मणों में कल्याणकारी मति भारत से ही होती है।’ इत्यादि से पुराणापेक्षा इतिहास प्रशंसित है । मध्यस्थता माने-‘पूर्वकाल में ब्रह्मा से जिस कल्प में जो जो पुराण कहा गया उस उस का माहात्म्य उसके स्वरूपसे वर्णन कियाजाता है ।’ ऐसा सर्वपुराणों के प्रवर्तक ब्रह्मा जिस कल्प में गुणत्रय में जो गुण अधिक होता है उस गुण के अनुसार देवता को पुराणों में कहे हैं । इस कारण पुराण पक्षपाती होते हैं, ऐसा न होकर लौकिक वैदिक सर्व अर्थों के निर्णय करने में प्रवृत्त होनेसे इतिहास किसी विषय में पक्षपाती नहीं हैं। कर्ता की आप्ततमता माने प्रबंधकर्ता यथार्थदर्शी और यथादृष्टार्थवादी होना । ‘अब इतिहास-पुराणों में इतिहास प्रबल है । कारण उन के बहुत लोगों के परिग्रह करनेसे, सर्वत्र माध्यस्थ्येन भूतकाल के अर्थ की प्रतिपादन करनेसे, वचनसौंदर्य से और कर्ता के आप्ततम होनेसे’ ऐसा प्रारम्भ कर परिग्रहातिशय से पुराण की अपेक्षा इतिहास का प्राबल्य तत्वनिर्णय ग्रन्थ में उद्यत्कौंडिन्याचार्य ने सामान्यरीति से कहा है । ‘महाभारत परिग्रहातिशय से श्रेष्ठ होता है’ ऐसा आरम्भ कर ‘हे पाण्डव धर्म, अर्थ, काम और मोक्ष के विषय में इस भारत में जो है सो अन्यत्र भी है । जो इस में नहीं है सो कहीं भी नहीं है ।’ ऐसा लौकिक वैदिक सकल अर्थों के निश्चय करने में प्रवृत्त होने से, किसी विषय में पक्षपाती न होनेसे पुराणों की अपेक्षा भारत प्रबल है’ ऐसा सहस्रनामभाष्य में श्रीपराशर भट्टार्य प्रतिपादन किये हैं ॥ ३ ॥
मूलम्
तेन स पूर्वं भवति ॥ ४ ॥
श्लोक
प्रधानत्वाश्च सर्वत्रेतिहासः पूर्वसंस्थितः ॥ ४ ॥
टीका संस्कृता
तत्प्राबल्यं संघटयति-तेनेति । तत्प्राबल्येन ‘इतिहासपुराणं पंचमम्’ ‘इतिहासपुराणाभ्याम्’ इति च श्रुतिस्मृत्योरुभयोरेकत्रोपादानसमये इतिहासः पुराणात्पूर्वमुक्तः । [[द्वंद्वराना|द्वंद्वसमासे]]ऽल्पाच्तरं वाऽभ्यर्हितं वा पूर्वं स्यात्, तत्राल्पाच्तरत्वाभावेऽपि पूर्वनिपातोऽभ्यर्हितत्वेन । एवमभ्यर्हितत्वस्य मूलमेतत्प्राबल्यमिति तात्पर्यम्। अथवा ‘स्मृतीतिहासपुराणैः’ इति भागद्वयोपबृंहणेषु समस्तत्वेनोच्यमानेषु ‘इतिहासाश्च पुराणानि चेतिहासपुराणानि [[स्मृत्यपुराणानि|स्मृतयश्चेतिहासपुराणानि]]’ इति लोकाचार्यविवक्षितसमासस्य विवक्षितत्वादल्पाच्तरस्य पुराणस्य पूर्वमितिहासे उक्त इति तात्पर्यम् ‘अनयोरुभयो:’ इत्यादिनेति स्यात् । अस्यां योजनायां ‘तेन पूर्व:’ इत्यस्य तेन प्राधान्येन हेतुनेत्यर्थः स्यात् । ‘इतिहासपुराणैः’ इत्यत्र समस्तपदे इतिहास उक्त इत्यर्थो भवति । एवं वेदार्थनिर्णयः कर्तव्यः, तत्र च तदुपबृंहणैरेव कर्तव्यः, तत्र च पूर्वोत्तरभागोपबृंहणभेदः, उत्तरभागोपबृंहणेवितिहासपुराणयोर्मध्ये इतिहासः प्रबल इति चोक्तत्वात् उपरि स्वेन वक्ष्यमाणानामर्थानां प्रमाणव्यवस्थामकरोत् ॥
टीका हिन्द्या
उससे वह पहले कहागया है ॥ ४ ॥ इतिहास की प्रबलता को साधन करते हैं-उस से इत्यादि । उस से प्रबल होनेसे ‘इतिहास और पुराण पांचवां वेद है’ और ‘इतिहास और पुराणों से’ ऐसा श्रुतिस्मृतियों में दोनों का इकट्ठा कहने के समय इतिहास पुराण के पहिले कहा गया । द्वंद्वसमास में अल्प स्वरवाला या श्रेष्ठ पद पहिले होता है । यहांपर अल्प स्वरवाला नहीं होनेपर भी श्रेष्ठ होनेसे पहिले कहा गया । इस श्रेष्ठता का कारण उस का प्राबल्य है । अथवा ‘स्मृतीतिहासपुराणों से’ इति भागद्वय उपवृंहणों को इकट्ठा कहने के समय ‘इतिहासाश्च पुराणानि च इतिहासपुराणानि स्मृतयश्च इतिहासपुराणानि च स्मृतीतिहासपुराणानि’ इति लोकाचार्यस्वामी जी के विवक्षित होनेसे अल्प स्वरवाले पुराण के पहिले इतिहास को कहा है इस तात्पर्य को ‘इन दोनों में’ इत्यादि से कहते हैं । तथाच वेदार्थ निर्णय उपबृंहणों से ही करना चाहिए । उस में पूर्वभाग और उत्तरभाग के उपबृंहण ये हैं, उत्तरभागोपबृंहणभूत इतिहासपुराणों में इतिहास प्रबल है, ऐसा कहने से आगे लोकाचार्यस्वामीजी से कहेजाने वाले अर्थों का प्रमाण दिखाये हैं ।
मूलम्
इतिहासश्रेष्ठेन श्रीरामायणेन कारागृहवासकर्त्र्या वैभव उच्यते ॥ ५ ॥
श्लोक
इतिहासप्रधानेन श्रीमद्रामायणेन च ॥ कारागृहनिवासिन्याः सीताया वैभवः स्मृतः ॥ ५ ॥
टीका संस्कृता
‘प्रथमं ‘वेदार्थ’ इत्यादिना वेदतदर्थतदुपबृंहणानां साकल्येनोपादानं कृत्वा तादृशवेदस्य भागविभागतदुपबृंहणविभागानां कृतत्वेपि चेतनोज्जीवनस्यापेक्षितार्थान्वक्तुमधिकृतत्वात्, तस्य च पूर्वभागवेद्यत्वाभावेनोत्तरभागवेद्यत्वात्, पूर्वभागे मुमुक्षूणां ज्ञातव्यांशस्य सत्यप्युत्तरभागार्थानां स्वरूपोपायपुरुषार्थानां प्रतिपादनस्थलेषु तत्तदनुगुणत्याज्योपादेयकथनमुखेन ज्ञापयितुं शक्यत्वाच्चोत्तरभागार्थनिर्णये प्रवृत्तः, तत्र च भगवत्स्वरूपरूपगुणविभूतीनां भगवदुपासनादीनां च विस्तरेण प्रतिपादनस्थलेषु सारासारविवेकपूर्वकं तात्पर्यार्थान् संगृह्य संशयविपर्ययराहित्येन चेतनप्रतिपत्तियोग्यान् प्रतिपादयत्युपरि । तत्र प्रथममुत्तरभागोपबृंहणद्वये प्राबल्येनोक्तयोरितिहासयोः श्रीरामायणस्य प्राबल्यं प्रकाशयन् तत्प्रतिपाद्यविशेषमाह-इतिहासश्रेष्ठेनेत्यादिना । श्रीरामायणस्येतिहासश्रेष्ठत्वं- ‘वाल्मीकये महर्षये संदिदेशासनं ततः । ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ॥’ इति सकललोकपितामहेन ब्रह्मणा संभावितेन भगवता वाल्मीकिना प्रणीतत्वात्, ‘न ते वागनृता काव्ये काचिदत्र भविष्यति ।’ इति ब्रह्मणानुगृहीतत्वेनात्र चोक्तानां सर्वेषामर्थानां यथार्थत्वात्, ‘यावत्स्थास्यंति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ।’ इति सकललोकपरिग्रहस्य सत्वाच्च-इतिहासांतरेभ्यः प्रबलप्रमाणं भवति । उक्तञ्चायमर्थो मध्यश्रीवीथीभट्टार्यैः-तत्त्वत्रयप्रबंधे प्रमाणाधिकारे । किंच ‘वेदवेद्ये परे पुंसि’ इत्यादिरीत्या यथा सर्वस्मात्परः सर्वेश्वरः संसारे चेतनरक्षणार्थमितरसजातीयोऽवतारं कृतवान् तथा प्रमाणोत्कृष्टो वेदश्च तदवतारगुणचेष्टितप्रतिपादनमुखेन संसारिणां तदाश्रयणरुच्युत्पादनेन रक्षितुं श्रीरामायणरूपेणावतीर्ण इत्युक्तत्वादस्य वैभवः संप्रतिपन्नो हि । लक्ष्म्या इत्यनुक्त्वा ‘कारागृहवासकर्त्र्या’ इत्युक्तिः कृपातिशयं प्रकाशयितुम् । देवदेवदिव्यमहिषीत्वरूपस्वोत्कर्षं कारागृहवासस्यापकर्षं चापश्यंती देवी देवस्त्रीणां बंधनं निवारयितुं स्वयं बंधनेऽतिष्ठत्कृपापारवश्यादेव । प्रजायां कूपे पतंत्यां सहपतंती मातेवैतच्चेतनपतनस्थाने संसारे स्वयमपि सहैव जनित्वैतैरनुभूयमानं क्लेशमनुभूय रक्षति । तस्मान्निरुपाधिकमातृत्वसंबंधस्य तत्प्रयुक्तनिरतिशयवात्सल्यस्य च प्रकाशकोऽयम् । तादृशगुणाधिक्यप्रकाशनार्थं श्रीपरांकुशैरपि ‘असहायकारागारे प्रसिद्धिं प्रापितायाः शुकभाषिण्याः’ इत्यभिहितम् । तेषां दिव्यसूक्तिरेवास्यैवं वक्तुं मूलम् । कारागृहवासस्यापकर्षः कर्मनिबंधनत्वे हि, आश्रितदेवस्त्रीगंधर्वविमोचनार्थं स्वानुग्रहेण स्वेनैव बलात्कारेण कृतत्वादुत्कर्षहेतुत्वमेव । संसारिभिः सहाविशेषेण गर्भे वसित्व जायते–इतीदं ‘बहुजन्मविशिष्टतेजोविशिष्टः’ इत्युक्तरीत्या सर्वेश्वरस्य तेजस्करं भवति कर्मनिबंधनत्वाभावेनानुग्रहनिबंधनत्वात् । एवं च सति-अयं चानुग्रहनिबंधनत्वादस्यास्तेजस्करो भवति । अयं रावणबलात्कारेणागत इति मन्यमाना एतच्छक्तिविशेषमजानंतः क्षुद्राः । ‘शीतो भव’ इत्युक्तवती ‘नष्टो भव’ इति वक्तुं नासमर्था । अतोऽयं स्वानुग्रहेण पररक्षणार्थं कृतो व्यापारः । तस्मादयमेवास्था दयादिगुणानां प्रकाशक इत्यभिप्रायेण ‘कारागृहवासकर्त्र्या’ इत्यवोचन् । श्रीरामायणं सर्वमस्या वैभवं प्रतिपादयतीति ‘काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।’ इति भगवान् वाल्मीकिः स्वयमेव मुखपत्रलेखनमकरोत् । ‘श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे’ इति भट्टार्याः ॥
टीका हिन्द्या
श्रीरामायण से कारागार में वास कर्त्री का वैभव कहा जाता है ॥ ५ ॥ प्रथम ‘वेदार्थ’ इत्यादि से वेद, वेदार्थ और उपबृंहणों को समग्रतया कहकर वेद का भाग विभाग और उस का उपबृंहण विभाग किये हैं, तो भी चेतनों के उज्जीवन के लिये अपेक्षित अर्थों को पूर्व भाग से जानने के योग्य न होकर उत्तरभाग से जाननेके योग्य होने से, पूर्वभाग में मुमुक्षुके ज्ञातव्य अंश होने पर भी उत्तरभागार्थ स्वरूप, उपाय और पुरुषार्थ के प्रतिपादन करने के स्थलों में तदनुगुण त्याज्योपादेय कथन द्वारा जनानेके योग्य होनेसे, उत्तरभागार्थ निर्णय में प्रवृत्त हुए । उसमें भगवत्स्वरूप रूप गुण विभूति और भगवदुपासनादियों को विस्तार पूर्वक प्रतिपादन करने के स्थलों में सारासार विवेक पूर्वक तात्पर्यार्थों को संग्रह कर संशय और विपरीत ज्ञान बिना चेतनों के ज्ञान का विषय होनेके लिये कहते हैं ॥ ४ ॥ उस में पहिले उत्तरभागोपबृंहणरूप इतिहास-पुराणों में प्रबलतया कहेहुए इतिहासों में श्रीरामायण की प्रबलता को प्रकट करते हुए तद्विषयविशेष को कहते हैं-इतिहासश्रेष्ठ इत्यारभ्य । श्रीरामायण की इतिहास श्रेष्ठता ‘वाल्मीकि महर्षि को ब्रह्मा जी आसन दिये हैं । ब्रह्माजी की अनुज्ञा पाकर वह आसन में बैठे हैं ।’ इति सर्वलोकपितामह ब्रह्मा से संभावित होकर श्रीवाल्मीकि महामुनि श्रीरामायण को बनानेसे, ‘इस रामायणरूप काव्य में आपकी एक भी बात असत्य नहीं होगी’ । ऐसा ब्रह्माजी के अनुग्रह करनेसे इस में कहे हुए सब अर्थ सत्य होनेसे, ‘जहांतक रामायण की कथा का लोक में प्रचार रहेगा’ इति सकल लोकपरिगृहीत होनेसे, अन्य इतिहासों की अपेक्षा श्रीरामायण ही प्रबल प्रमाण होता है । इस विषय को मध्यश्रीवीथी भट्टार्य तत्त्वत्रयप्रबंध के प्रमाणाधिकार में कहे हैं । और ‘वेदवेद्य परम पुरुष’ इस वचन से सर्वस्मात्पर सर्वेश्वर संसारीचेतनों की रक्षाके लिये मनुष्य रूप से अवतीर्ण होनेपर सब प्रमाणों से उत्कृष्ट वेद उस अवतार के गुण चेष्टितों के प्रतिपादन द्वारा श्रीरामावतार के आश्रयणरुचि को संसारियों में उत्पादन कर रक्षा करनेके लिये श्रीरामायण रूप से अवतीर्ण हुआ ऐसा कहेजानेसे इस की श्रेष्ठता सिद्ध हुई ! सूत्र में महालक्ष्मी नहीं कहकर ‘कारागार में वास करने वाली’ ऐसा कहने का अभिप्राय लक्ष्मीजी के अतिशय दया को प्रकट करनेके लिये । देवदेवदिव्यमहिषी रूप अपने वैभव को कारागार वास रूप नीचता को भी न देखकर देवस्त्रियों को कारागार वास से मुक्त करनेके लिये आपही कारागार में वास करना दया का ही कार्य है । बालक के कूप में गिरनेपर उस के संग कूदकर निकालनेवाली माता के सदृश यह चेतनके गिरे हुए इस संसार में आप स्वयं जन्म लेकर इन के दुःखों को आप भी भोगकर रक्षा करनेसे निरुपाधिक मातृत्व संबंध से होनेवाले अवधिरहित वात्सल्य गुण का प्रकाशक है । इस गुणाधिक्य को प्रकट करनेके लिये ही परमाचार्यभूत श्रीशठकोप सूरि ‘अकरुण कारागार में वास करनेवाली’ ऐसा प्रसिद्ध शुकवाणी’ ऐसा कहे हैं । उन का दिव्यसूक्ति ही लोकाचार्यस्वामीजी का इस प्रकार कहनेका कारण है । कारागार वास की नीचता कर्म मूल होनेसे ही होती है । आश्रित देवस्त्रियों को कारागार वास से मुक्त करनेके लिये अपने अनुग्रह से स्वयमेव कारागार वास करना उत्कर्षता का ही हेतु है । संसारियों के समान गर्भ में वास कर जन्म लेना ‘बहुत जन्म लेकर तेजस्वी होते हैं’ ऐसा सर्वेश्वर को तेजस्कर होनेका कारण कर्म निबंधन विना अनुग्रह मूल होनेसे ही है । ऐसा होनेपर यह भी अनुग्रह मूल होनेसे लक्ष्मीजी को तेजस्कर होता है । इस को रावण के बलात्कार से आया हुआ समझने वाले लक्ष्मीजी के शक्ति को न जाननेवाले क्षुद्र हैं । ‘शीतल हो’ ऐसा कहनेवाली ‘नष्ट हो’ ऐसा नहीं कहसकती थीं क्या ? तस्मात् यह कारागार वास अपने अनुग्रह से पररक्षणार्थ करनेसे यह ही इनके दयादिगुणों को प्रकाशक है ऐसा समझकर श्रीलोकाचार्य ‘कारागार में वास करनेवाली’ कहे हैं । सम्पूर्ण श्रीरामायण इनके वैभव को कहता है, इस बात को ‘महाकाव्य श्रीरामायण संपूर्ण सीताजी का महत् चरित्र है ।’ ऐसा वाल्मीकि भगवानने स्वयमेव कहा है । ‘श्रीमद्रामायण भी आप के चरित्र प्रतिपादन करने में जीता है’ ऐसा भट्टार्य स्वामी कहे हैं ।
मूलम्
श्रीमहाभारतेन दौत्येन गतवतो वैभव उच्यते ॥ ६ ॥
श्लोक
महाभारतग्रंथेन दूतत्वेन गतस्य हि ॥ उपायस्य हरेरेव वैभवः सम्यगीरितः ॥६॥
टीका संस्कृता
अनन्तरं महाभारतप्रतिपाद्यमाह- महाभारतेनेत्यादिना । ‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥’ एवंविधं भारतं तु प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षाद् व्यासरूपी महामुनिः ॥’ इति भगवदावेशावतारत्वेन ‘स होवाच व्यासः पाराशर्यः’ इत्याप्ततमत्वेन च प्रसिद्धेन श्रीवेदव्यासेन भगवता-‘वेदानध्यापयामास महाभारतपंचमान् ।’ इति रीत्या पंचमवेदत्वेन प्रणीतं, अनेकपुराणप्रशस्तं महाभारतं च श्रीरामायणतुल्यतया प्रबलप्रमाणम् । इदं च मध्यश्रीवीथीभट्टार्यैरुक्तम् । भट्टार्यैश्च श्रीसहस्रनामभाष्योपोद्घाते श्रीरामायणवन्महाभारतमपि शरणमित्युक्तम् । सर्वेश्वरस्येत्यनुक्त्वा ‘दौत्येन गतवतः’ इत्युक्तिस्तस्याश्रितपारतंत्र्यं प्रकाशयितुम् । देवदेवस्य स्वस्योत्कर्षं क्रियमाणकृत्यस्यापकर्षं चापश्यन् पाण्डवनिमित्तं कण्ठे पत्रिकां बद्ध्वा दौत्येनागमत्प्रणतपारतंत्र्यरुचिविवशः सन्नेव हि । इदं चास्याश्रयणसौकर्यापादकस्वभावनिदानवात्सल्यादीनां सर्वेषां प्रकाशकं भवति । अस्मिन् गुणाधिक्ये विद्धः ‘अमुकदूत इति वक्तुं योग्यतयाऽवस्थितः’ इति ‘छत्राधिपतिमध्ये गच्छन् दूत’ इंति च श्रीपरकालसूरिरभ्यधात् । तद्दिन्यसूक्तिरस्यैवं वक्तुं मूलं, कथितस्य कथनमेव ह्येतेषामुत्कर्षः । दौत्येन गमनमपकर्षः स्यात्-कर्मवश्यतयागतं चेत्, ऐच्छिकमाश्रितविषये क्रियमाणं नैच्यं सर्वमुत्कर्षोपयुक्तं भवति । ‘स उ श्रेयान् भवति जायमानः’ इति परार्थत्वान्तेजस्करमिति श्रुत्युक्तं जन्म परार्थं स्वेच्छया क्रियमाणं सर्वमस्य तेजस्करमित्यस्योपलक्षणम् । एतत्कृतदौत्यं मौढ्यहेतुत्वेन जानंतो बुद्धिभ्रष्टेषु शिरोमणयः । बुद्ध्यवधिनिष्ठानां ‘कीदृशम्’ इति मोहहेतुतया वर्तते । एवंभूतस्यैतत्स्वभावोत्कर्षस्य प्रकाशनार्थं ‘दौत्येन गतवत’ इत्युक्तम् । महाभारतस्य सर्वस्यैतदाधिक्यप्रतिपादकत्वेन तत्परत्वादेव हि महाभारतकथां वक्तुमारभमाण:-‘नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ इत्युक्तवान् ॥ एवमेतत्प्रबंधद्वयस्यापि प्रधानप्रतिपाद्यमेतदिति प्रकाशितम् ।
टीका हिन्द्या
श्रीमहाभारत से दौत्य करने वाले का वैभव कहा जाता है ॥ ६ ॥ अनंतर महाभारत के प्रतिपाद्य को कहते हैं-महाभारत से इत्यादि । ‘कृष्णद्वैपायन श्रीव्यासजी को स्वयं प्रभु नारायण समझो, हे मैत्रेय ! भूमि में भारत को करनेवाला और कौन होगा ।’ ‘इस प्रकार के भारत को जिस महात्माने कहा वह व्यासरूपी महामुनि साक्षात् नारायण ही हैं ।’ इस प्रकार भगवदावेशावतार, ‘वह पराशर के लडके व्यासमहर्षि कहते हैं’ ऐसा आप्ततमतया प्रसिद्ध श्रीवेदव्यास भगवान ने ‘पांचवां वेद महाभारत के साथ वेदों को पढाया’ इस उक्ति के अनुसार पञ्चमवेदतया रचा है । और अनेकपुराण प्रशस्त महाभारत भी श्रीरामायण के सदृश ही प्रबल प्रमाण है । यह विषय को मध्यश्रीवीथी भट्टार्य स्वयं कहे हैं । और पराशर भट्टार्य श्रीसहस्रनामभाष्योपोद्घात में ‘श्रीरामायण के सदृश महाभारत प्रमाण है’ ऐसा कहे हैं । सर्वेश्वर न कहकर ‘दूतकृत्य करनेवाले’ ऐसा कहना-उन के आश्रितपारतंत्र्यगुण को प्रकाश करनेके लिये । देवदेवरूप अपनी महिमा और क्रियमाण व्यापार की नीचता को भी न देखकर पांडवों के लिये कंठ में पत्र बांधकर दूतकृत्य करना-पारतंत्र्यरुचि के परवश होकर ही है । यह इन का आश्रयणसौकर्यापादक स्वभाव वात्सल्यादि सर्वगुणों का प्रकाशक है । इस गुणाधिक्य में विद्ध होकर ही ‘कहलाने का दूत ऐसा कहलाया’ इति । ‘छत्रपति राजाओं के बीच में जानेवाले दूत’ ऐसा परकालसूरि कहे हैं । वह श्रीसूक्ति श्रीलोकाचार्यस्वामी के कहनेका मूल है, कहेहुए को कहना ही इन आचार्यों की श्रेष्ठता है । दूतकृत्य की नीचता कर्ममूल होनेसे ही, इच्छा से आश्रितविषय में किये जानेवाले समस्त नीचकृत्य उत्कर्ष का ही मूल है । ‘वह परमात्मा जन्म लेते हुए श्रेष्ठ होता जाता है’ इस तरह परार्थ जन्म लेनेसे तेज बढता है एसा श्रुति प्रतिपादन करती है, इस से परार्थ स्वइच्छा से क्रियमाण समग्र कृत्य इन को तेजस्कर है । इन के दूतकृत्य को निहीन समझनेवाले ज्ञानहीन हैं । कारण-ज्ञानियों में श्रेष्ठ भी ‘यह कौन गुण है’ ऐसा मोहित होगये हैं । एवंभूत सौशील्यगुण के उत्कर्ष को प्रकट करनेके लिये यह लोकाचार्यस्वामी ‘दूतकृत्य करनेवाले’ ऐसी कहे हैं । संपूर्ण महाभारत श्रीकृष्ण के उत्कर्ष को कहने में तत्पर होने से महाभारतकथा के प्रारंभ में ‘भगवान् व्यासजी को नमस्कार करता हूं, जिस के अनुग्रह से मैं इस नारायणकथा को कहता हूं’ ऐसा कहा है । तथाच — इन दो प्रबंधों से प्रधानप्रतिपाद्य वस्तु को प्रकट किये हैं ।
मूलम्
एतद्द्वाभ्यां - पुरुषकारवैभव उपायवैभवश्चोक्तः ॥ ७॥
श्लोक
एतद्द्वाभ्यां प्रमाणाभ्यां प्रमेयकथनं त्विदम् ॥ उपायवैभवोऽथापि पुरुषाकारवैभवः ॥७॥
टीका संस्कृता
उपबृंहणमुखेन वेदांततात्पर्यं निष्कर्षयित्वोज्जीवननिदानार्थं वक्तुं खलूपक्रांतं, तत्रेदानीमुक्तेन को वार्थ उक्त इत्याकांक्षायामाह–एतद्द्वाभ्यामित्यादिना । एतद्द्वाभ्यां — कारागृहवासकर्त्र्या वैभवो दौत्येन गतवतो वैभवश्चेत्येतद्द्वाभ्याम् अपराधभूयिष्ठानां चेतनानामाश्रयणीयतायामखिलजगन्मातृरूपसंबंधेन कृपादिभिश्च मध्ये पुरुषकारान्तरमनपेक्ष्याश्रयितुं योग्याया अपराधान् दृष्ट्वा क्रुद्धस्य ‘क्षिपामि’ ‘न क्षमामि’ इति च वदत ईश्वरस्य हृदयं विशोध्य तेषामंगीकारयित्र्याः पुरुषकारभूताया वैभवः, अंगीकारानंतरं तस्यामेव छिद्रं वदत्यां ‘महात्मानस्तन्न कुर्युः’ इति प्रतिद्वंद्वीभूत्वा स्वयं दृढतया स्थित्वा रक्षितुरुपायभूतस्य वैभवश्चोक्त इत्यर्थः ॥ पुरुषकारेत्युपायेति चास्य निरूपकत्वेनोक्तिर्लक्ष्म्याः पुरुषकारत्वमीश्वरस्योपायत्वं चासाधारणमिति ज्ञापयितुम् । अमुमर्थं- ‘मत्प्राप्तिं प्रति जन्तूनां संसारे पततामधः । लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः । ममापि च मतं ह्येतन्नान्यथा लक्षणं भवेत् ।’ इति । ‘अहं मत्प्राप्युपायो वै साक्षान्नारायणः स्वयम् । लक्ष्मीः पुरुषकारेण वल्लभा प्राप्तियोगिनी ॥ एतस्याश्च विशेषोऽयं निगमांतेषु शब्द्यते ॥’ ‘आकिंचन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । मत्पादांभोरुहद्वंद्वं प्रपद्य प्रीतमानसाः ॥ लक्ष्मीं पुरुषकारेण धृतवंतो वरानने । मत्क्षमां प्राप्य सेनेश प्राप्यप्रापकमेव माम् । लब्ध्वा कृतार्थाः प्राप्स्यंते मामेवानन्यमानसाः ॥’ इति भगवच्छास्त्रे स्वयमेवावोचत् । अवशिष्टदिव्यमहिषीणां सूरिप्रभृतितदीयानां चैतत्संबंधप्रयुक्तं पुरुषकारत्वं, अस्या इव स्वतः सिद्धं न भवति । अत एव ‘एतत् सापेक्षसंबंधादन्येषाममलात्मनाम् । देवीसूरिगुरूणां च घटकत्वं नतु स्वतः ।’ इति दीपसंग्रहे यतिभिरुक्तम् । उपायत्वं च ‘कृष्णं धर्मं सनातनम्’ इति सनातनधर्मत्वेनोक्तस्य तस्यैव स्वतः सिद्धं, तदीयानां तदासत्तिहेतुकमेव भवति, तस्माल्लक्ष्म्याः पुरुषकारत्वं, ईश्वरस्योपायत्वं च निरूपकमिति निर्बाधम् । अमुमर्थं प्रकाशयितुमयं चैवमवोचत् ॥ एवमुपबृंहणभूतेन प्रबंधद्वयेन प्रतिपादितं पुरुषकारत्वमुपायत्वं चोपबृंहणीयवेदांतसिद्धे द्वये पूर्ववाक्ये उभयं च सम्यगुक्तम् । नन्वस्य चेतनस्योभाभ्यां संबंधस्य सत्वेनेश्वरसमाश्रयणेऽस्याः पुरुषकारत्वं किमर्थमिति चेत्, न; मातृत्वप्रयुक्तवात्सल्यातिरेकात्, तद्वत्काठिन्यमार्दवयोः सामानाधिकरण्याभावेन केवलमार्दववत्त्वात्, अन्यदुःखसंकोचदर्शनाशक्तिप्रकृतिकत्वात्, विमुखानाभिमुखान् कर्तुं कृषिकरणाच्चापराधभूयिष्ठानामपि निर्भयमागत्य पादपतनयोग्यत्वात् पुंस्त्वप्रयुक्तकाठिन्येन सह पितृत्वप्रयुक्तहितपरत्वेन विशिष्टत्वात्, अपराधान् दशदशैव परिगणय्य करदंडकरणात्, अपराधभूयिष्ठानामग्रगमनमपि भयावहं यथा स्यात्तथा स्थितमीश्वरमुचितोपायैरपराधान् सर्वान् विस्मार्य घटयंत्याऽपराधैकवेषस्यास्य चेतनस्य तदाश्रयणसमयेऽनया पुरुषकारेण भवितव्यम् । अतएवास्योपायत्वेन वरणसमये इयं पुरुषकारत्वेन पुरस्क्रियते ।
टीका हिन्द्या
इन दोनों से पुरुषकार वैभव और उपाय वैभव कहे गये हैं ॥ ७ ॥ उपबृंहणद्वारा वेदांततात्पर्य को निष्कर्ष कर उज्जीवन के उपयुक्त अर्थों को कहनेके लिये उपक्रम किये हैं । उस में इन सूत्रों से वेदांत के कौनसे अर्थ कहे गये हैं ! ऐसी आकांक्षा में कहते हैं-इन दोनों से इत्यादि । कारागार में वास कर्त्री सीताजी का वैभव, दूतकृत्य करनेवाले श्रीकृष्णजी का वैभव इन दोनों से अपराधभूयिष्ठ चेतनों के आश्रयणयोग्य होनेके समय अखिलजगन्मातृस्वरूप संबंध से और कृपादि गुणों से बीच में एक पुरुषकार की अपेक्षा विना आश्रयणकरनेके योग्य हो अपराधों को देखकर कुपित होकर ‘क्षिपामि’ ‘न क्षमामि’ ऐसा कहनेवाले ईश्वर के हृदय को शोधनकर उन चेतनों को अंगीकार करनेवाले पुरुषकारभूत महालक्ष्मी का वैभव, अंगीकारानंतर वह लक्ष्मी स्वयंमेव चेतनों के दोष को दिखाने पर भी ‘हमारे दास ऐसा नहीं करेंगे’ ऐसा प्रतिवाद कर आप दृढ होकर रक्षा करने वाले उपायभूत नारायण का वैभव भी कहागया । लक्ष्मीजी को पुरुषकारत्व और ईश्वर को उपायत्व ये दोनों दोनों के असाधारण गुण हैं ऐसा समझाने के लिये पुरुषकार और उपाय ऐसा कहे हैं । इस विषय को–‘संसार में अधः पतित जंतुओं को हमारी प्राप्तिके लिये महर्षि लोग लक्ष्मी को पुरुषकार कहे हैं, हमारा भी यही मत है इसका और लक्षण नहीं’ । इति, ‘स्वयं लक्ष्मीपति मैं अपनी प्राप्ति के लिये उपाय हूं मेरी प्रिया लक्ष्मी प्राप्ति कराने वाली है, इन का यह वैभव वेदांतों में कहा गया’ । इति । ‘आकिंचन्य ही शरण है जिनको ऐसे भाग्याधिक लोग लक्ष्मी को पुरुषकारतया वरणकर हमारी क्षमाके विषय हो और हमको प्राप्यप्रापक समझ कर कृतार्थ हो हम ही को प्राप्त होते हैं’ । ऐसा भगवत् शास्त्र में आपही कहे हैं । अन्यदेवियों को और सूरि प्रभृति तदीयों को लक्ष्मीजी के संबंध द्वारा ही पुरुषकारता है । इन के सदृश स्वतः सिद्ध नहीं । इस कारण से ही ‘इनके संबंध से ही अन्य देवी सूरि गुरुओं को पुरुपकारत्व है, स्वतःसिद्ध पुरुषकारत्व नहीं’, ऐसा दीपसंग्रह में जीयर (वेदांती) कहे हैं । उपायत्व ‘कृष्ण ही सनातन धर्म हैं’ इति सनातनधर्मतया कहेजानेवाले श्रीकृष्ण को स्वतःसिद्ध है । तदीयों को तत्संबंधद्वारा ही उपायत्व है । तस्मात् महालक्ष्मी को पुरुषकारत्व, ईश्वर को उपायत्व निरूपक धर्म हैं-ऐसा कहने में असंगत नहीं । इस अर्थ को प्रकट करनेके लिये ही श्रीलोकाचार्यस्वामी जी इस प्रकार कहे हैं । इस प्रकार उपबृंहणरूप दोनों प्रबंधों से प्रतिपाद्यमान पुरुषकारत्व और उपायत्व को उपबृंहणीयभूत वेदांत में कहां कहा है ऐसी आकांक्षामें-कठवल्ल्युपनिषत् सिद्ध द्वयमंत्र के पूर्ववाक्य में दोनों को अच्छीतरहसे कहा है । इस चेतन को दोनों के साथ संबंध समान होते हुए ईश्वर के समाश्रयण में लक्ष्मीजी को पुरुषकारतया क्यों आश्रयण करें-इस आकांक्षा में कहते हैं-मातृत्व प्रयुक्त वात्सल्याधिक्य से, भगवान के जैसा काठिन्य और मार्दव ये दोनों गुण न होकर केवल मार्दवगुण मात्र होने से, चेतनों के दुःख को न देखसकने की स्वभाववाली होनेसे, विमुखों को भी अभिमुख बनानेके लिये कृषि करनेवाली होनेसे, अपराधियों को भी निर्भीक हो चरणों में गिरने योग्य होनेसे, पुरुषत्व प्रयुक्त काठिन्य के साथ पितृत्व प्रयुक्त हितपरत्ववाले, अपराधों को गिनकर दंड देनेवाले, अपराधियों को सामने जानेमें डरानेवाले ईश्वर को उचितोपायों से सब अपराधों को भुलाकर मिलानेवाली होनेसे, अपराधस्वभाववाला यह चेतन ईश्वर को आश्रयण करनेके समय लक्ष्मीजी को पुरुषकार होना चाहिये । इस कारण ही ईश्वर को उपायतया स्वीकार करनेके समय लक्ष्मीजी को पुरुषकारतया आगे करते हैं ।
मूलम्
पुरुषकारभवनसमये कृपा पारतंत्र्यमनन्यार्हत्वं चापेक्षितम् ॥ ८ ॥
श्लोक
पुरुषाकारताकाले गुणत्रयमपेक्षितम् ॥ दीने दया परे पारतन्त्र्यमनन्यार्हते सति ॥ ८ ॥
टीका संस्कृता
अनंतरं पुरुषकारप्रकारान् विस्तरेणोपपादयितुं मनसि विचार्य प्रथमं पुरुषकारत्वस्यावश्यापेक्षितान् गुणानाह-पुरुषकारभवनसमय इत्यादिना । पुरुषकारभवनसमय इति-— पुरुषकारभवनस्थल इत्यर्थः । कृपा-परदुःखासहिष्णुत्वम् । पारतंत्र्यम्-तदधीनत्वम् । अनन्यार्हत्वम्- तव्यतिरिक्तविषयार्हत्वाभावः । एतानि पुरुषकारत्वस्यावश्यकाङ्क्षानीति कथमितिचेत्, चेतनैः संसारेऽनुभूयमानं दुःखं दृष्ट्वा तदपि श्रोतुमप्युक्तं क्षमां कर्तुमीश्वरेण सह यतितव्यत्वात्कृपाऽपेक्षिता । स्वतंत्रं स्वं वशीकृत्य तदनुवर्त्तनेन शक्यत्वात् पारतंत्र्यमपेक्षितम् । ‘अस्मद्व्यतिरिक्तस्य कस्यापि विषयेऽनर्हत्वेनास्माकमतिशयकरवस्तुत्वादस्मत्कार्यमेव वदति’ इत्युक्तप्रकारेण कर्तुमुपयुक्तत्वादनन्यार्हत्वमपेक्षितम् । तस्मादेतत्त्रयं पुरुषकारत्वस्यावश्यापेक्षितम् । ईश्वरकृपाऽपेक्षयाऽस्याः कृपायाः को विशेष इति चेत्-ईश्वरस्य निरंकुश स्वतंत्रत्वात् निग्रहानुग्रहयोर्निर्वाहकत्वात् चेतमानां कर्माणि तोलयित्वा खंडयित्वा भोगयितृत्वाच्च तस्य कृपा स्वातंत्र्येण निमग्ना कासुचिद्दशासूद्भवति । अस्या अनुग्रहैकशीलत्वात् एतत्कृपाया अन्येन केनचिदभिभवस्याभावात् सदैकरूपा भवति । तस्मादेतत्कृपाऽऽप्लुततया तिष्ठति । संबंधे व्यावृत्तिवत्कृपायां व्यावृत्तिः । एवं भूतत्वादेनामाश्नयतां पुरुषकारान्तरं न मृग्यम् । ईश्वरविषयेऽस्याः पारतंत्र्यानन्यार्हत्वे स्वरूपप्रयुक्तत्वमात्रं विना ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ ‘विष्णुपत्नी’ इत्युक्तपत्नीत्वप्रयुक्ते च । ‘अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ।’ इति ‘श्रीवत्सवक्षा नित्यश्रीः’ इति चोक्तस्वरूपनिरूपकत्वादिसिद्धानन्यत्वप्रयुक्ते च भवतः । एवं स्थितत्वान्मिश्रमिथुनशेषत्वमस्या एकस्यास्तदेकशेषत्वं च भवति । एतदव्यवधानसंबंधेन हि अस्या ईश्वरवशीकरणसमये पुरुषकारो नापेक्षितः ।
टीका हिन्द्या
पुरुषकार होनेके समय कृपा-पारतंत्र्य और अनन्यार्हत्व अपेक्षित हैं ॥ ८ ॥ अनंतर पुरुषकार के गुणों को विस्तारपूर्वक कहने की इच्छा से पहिले पुरुषकारत्व के अवश्यापेक्षित गुणों को कहते हैं—पुरुषकार होनेके समय इत्यादि से । पुरुषकार होनेके समय-पुरुषकार होनेके स्थल में । कृपा-परदुःख नहीं सहना । पारतंत्र्य-पराधीनत्व । अनन्यार्हत्व-ईश्वर को छोडकर अन्य के न होना । ये तीनों गुण पुरुषकार में कैसे अवश्यापेक्षित हैं इस आकांक्षा में कहते हैं-चेतन के संसार में पाते हुए दुःख को देख न सहकर ईश्वर के साथ कह क्षमा दिलाने को यत्न करनेके लिये कृपा की आवश्यकता है । स्वतंत्र ईश्वर को वश करके उन के अनुवर्तन की आवश्यकता होने से पारतंत्र्य की अपेक्षा है । ‘हमसे व्यतिरिक्त किसी विषय के अर्ह न हो हम को अतिशय करनेवाली होनेसे हमारे कार्य को ही कहती है’ ऐसा विचार जैसा कहेगी वैसा करनेके उपयुक्त होनेसे अनन्यार्हत्व चाहिये । इस कारण ये तीनों गुण पुरुषकारत्व के अवश्यापेक्षित हैं । ईश्वरकी कृपा की अपेक्षा लक्ष्मीजी की कृपा कैसी अधिक है ? इस आकांक्षा में कहते हैं । ईश्वर निरंकुश स्वतंत्र, निग्रहानुग्रह दोनों का करनेवाला, चेतनों के कर्मों को तोलकर टुकडे टुकडे कर भुगाने वाले होनेसे उन की कृपा स्वातंत्र्य से डूबकर किसी किसी दशा में प्रकट होती है । लक्ष्मी जी अनुग्रहैकस्वभाव वाली होनेसे उन की कृपा को तिरस्कार करनेवाले स्वातंत्र्यादिगुण न होनेसे सदा एक प्रकार रहती है । इस कारण इन की कृपा अवधिरहित है । संबंध में जैसा भेद है तैसा ही कृपा में भेद है । ऐसा रहने से ही इनके आश्रय करने वालोंको और किसी पुरुषकार की अपेक्षा नहीं है । ईश्वर के विषय में इनके पारतंत्र्य अनन्यार्हत्व यह दोनों स्वरूपप्रयुक्त मात्र नहीं किंतु ‘भूमिदेवी लक्ष्मी दोनों आप की पत्नी हैं’ इति ‘विष्णु की पत्नी’ इति कहे जानेवाले पत्नीत्व से आयेहुये, ‘मैं उस ब्रह्म की सदाकी अहन्ता हूं’ इति, ‘लक्ष्मी जी से चिह्नित वक्षवाले’ ‘नित्यश्री’ इति कहे जाने वाले स्वरूपनिरूपकत्वादि से होने वाले अनन्यत्व से भी आये हुए हैं । ऐसा रहने से ही और सर्व चेतनों को मिथुनशेषत्व है लक्ष्मीजी को तो नारायण का ही शेषत्व है । इस अव्यवधान संबंध से इन के ईश्वर की वशीकरण में पुरुषकार की अपेक्षा नहीं है ।
मूलम्
लक्ष्म्याः प्रथमविश्लेषः स्वकृपाप्रकाशनार्थम् ॥ ९ ॥
श्लोक
पंचवट्यां महालक्ष्म्या आद्यविश्लेष ईरितः । ततोऽसुरपुरीं गत्वा स्वकृपा प्रकटीकृता ॥९॥
टीका संस्कृता
एतेषु त्रिषु गुणेषु कृपा ‘श्रीञ् सेवायाम्’ इति धातोर्निष्पन्ने श्रीशब्दे श्रीयते इति कर्मणि व्युत्पत्त्या पारतंत्र्यानन्यार्हत्वे श्रयते इति कर्तरि व्युत्पत्त्या नित्ययोगवाचकमतुपा च सिध्यंति । एतत्त्वादित्रयं च सर्वे यथा जानीयुस्तथा स्वयमेव प्रकाशितं वैभवं श्रीरामायणेऽस्या उक्तेन विश्लेषत्रयेण प्रदर्शयत्युपरि-लक्ष्म्या इति । ‘देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥’ इत्युक्तप्रकारेण नायकस्य सर्वेश्वरस्य तत्तदवतारसजातीयविग्रहं परिगृह्यावतरणात् ‘राघवत्वे भवेत्सीता’ इत्युक्तप्रकारेण तस्य चक्रवर्तितनयावतारे तदनुरूपं स्वयमपि जनकराजपुत्रीत्वेनावतीर्य लक्ष्म्या दंडकारण्यस्थितिसमये रावणकृतविश्लेषच्छल इति व्याजेन प्रथमं भगवद्विश्लेषेण स्थितिः । ‘देव्या कारुण्यरूपया’ इति तद्गुणसारत्वेन कारुण्यं स्वयमेवेति वक्तुं योग्यायाः स्वस्याः परमकृपां प्रकाशयितुमित्यर्थः । देवस्त्रीणां बंधनं मोचयितुं स्वस्य कारागृहे स्थितत्वात्, तत्र स्थित्वास्नानं रात्रिंदिवं सर्वं क्रूरं पीडयंतीषु क्रूरराक्षसीषु रावणः पराजितः स्वामी विजयभूदिति त्रिजटास्वप्नदर्शनेन भीतासु कंपमानासु ‘भवेयं शरणं हि वः’ इति युष्माकं दुःखतोऽहं वर्तामि खलु यूयं मा भैष्ठेत्यभयप्रदानकरणात् तस्योक्तिमात्रं विना रावणवधानंतरं शोभनं वृत्तांतमागत्य हनूमति तासां वधं कर्तुं पश्येति वदति तेन सह विवदित्वा ‘राजसंश्रयवश्यानाम्’ इत्यादिभिस्तासां दोषं गुणत्वेनोपपाद्य ‘नर्षयामीह दुर्बला’ इति परदुःखं दृष्ट्वाऽसहिष्णुहृदयस्य स्वस्याभावं पुरस्कृत्य । ‘कार्यं करुणमार्येण न कश्चिन्नापराध्यति । इति तस्यापि क्षमामकृत्वा स्थितिर्यथा न स्यात्तथोपद्दिश्य, एवंरीत्या स्थित्वा कृतप्रतिज्ञानुगुणमार्द्रापराधानां राक्षसीनां रक्षणाच्च स्वस्याः कृपायाः प्रकाशयितुं हि ।
टीका हिन्द्या
सीताजी का पहिला विश्लेष अपनी कृपा को प्रकट करनेके लिये हुवा ॥ ९ ॥ इन तीनों गुणों में से कृपागुण ‘श्रीञ् सेवायां’ इस धातु से होनेवाले श्री शब्द में श्रीयते इस कर्मणिव्युत्पत्तिसे सिद्ध होता है । पारतंत्र्य अनन्यार्हत्व ये दोनों ‘श्रयते’ इस कर्तरिव्युत्पत्ति से नित्ययोगवाचक मतुप् से भी सिद्ध होते हैं । इन कृपादि तीनों गुणों को सब के जाननेके लिये आप ही प्रकट किये हैं इस वैभव को श्रीरामायण में इन के विषय में कहे हुए तीनों विश्लेषों से दिखलाते हैं-सीताजी का इत्यादि वाक्यत्रय से ॥ सीताजी का इत्यादि । ‘परमात्मा देवरूप धारण करनेपर लक्ष्मीजी देवरूप धारण करती हैं, मनुष्यरूप धारण करनेपर मनुष्यरूप धारण करती हैं यह लक्ष्मी अपने रूप को विष्णु के रूप के सदृश बनाती है ।’ इति नायक सर्वेश्वर के उस उस अवतार के सदृश शरीर को धारण कर अवतार लेनेवाली होनेसे, ‘रामरूप लेनेपर सीताजी हुई हैं’ इस उक्ति के अनुसार चक्रवर्ती श्रीकुमार होनेपर तदनुरूप आप श्रीजनकराजनंदिनी हो दण्डकारण्य में विराजने पर रावणकृत विश्लेषके बहाने से पहिले रामजी से विश्लेष पाकर लंका को पधारना ‘करुणारूपिणी देवी से’ इति तद्गुणसारत्वन्याय से करुणागुण ही आप हैं ऐसा कहने के योग्य अपनी परमकृपा को प्रकट करनेके लिये इत्यर्थः । यह कैसे इस आकांक्षा में कहते हैं- देवस्त्रियों को कारागार से मुक्त करनेके लिये आप कारागार में वास करने से उस समय अपने को रातदिन डराते हुए काटखाने वाली क्रूर राक्षसियों के, रावणका पराजय और रामजी का जीत को स्वप्न में देखी वाली त्रिजटा के वाक्य सुनकर अत्यन्त भीत हो कंपायमान दशा में “तुमलोगों को मैं रक्षा करूंगी’ ऐसा ‘आप की पीडित दशा में मैं रहती हूं मत डरो’ ऐसा अभयप्रदान करने से, वह उक्तिमात्र न होकर रावणवध के बाद शुभ वृत्तांत सुनाने को आये हुए मारुति ‘इन राक्षसियों को वध करने के लिये मुझे सौंपदो’ ऐसा कहनेपर उन के साथ वाद विवाद कर ‘राजाश्रित अतएव राजवश्य लोगों को’ इत्यादि से उन के दोषों को गुणतया दिखाकर ‘दुर्बल हो मैं सब को सहती हूं’ ऐसा ‘अन्यों के दुःख देखकर सहनेका कठिन चित्त हमारा नहीं है’, ‘गुणज्ञ पुरुष को अपराधियों के ऊपर कृपा करनी चाहिये अपराध के बिना कोई नहीं है’ ऐसा कहकर मारुति को दयावान बनाकर अविच्छिन्न प्रकार से अपनी पहिली प्रतिज्ञा के अनुसार तत्काल अपराधि राक्षसियों की रक्षा करने से भी अपनी कृपा को प्रकट की हैं ।
मूलम्
मध्यमविश्लेषः पारतंत्र्यप्रकाशनार्थम् ॥१०॥
श्लोक
वाल्मीकाश्रमसान्निध्ये मध्यविश्लेषकं च यत् । तद्राघवपराधीनप्रकाशनप्रयोजकम् ||१०||
टीका संस्कृता
मध्यमेत्यादि । मध्यमविश्लेषो नाम-पुनर्भगवता सहागत्याोध्यायां गर्भिणीत्वेन स्थितिसमये-‘अपत्यलाभो वैदेहि ममायं समुपस्थितः । किमिच्छसि सकामा त्वं हि सर्वं वरानने ॥’ इति तव किमपेक्षितमिति पृष्टया-‘तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । गंगातीरनिविष्टानि ऋषीणां पुण्यकर्मणाम् ॥ फलमूलाशिनां वीर पादमूलेषु वर्तितुम् । एष मे परमः कामो यन्मूलफलभोजिषु । अप्येकरात्रं काकुत्स्थ वसेयं पुण्यकीर्तिषु ॥’ इति स्वस्य विद्यमानवनवासरसवांछायां विज्ञपितायां तदर्थं प्रेषयन्निव लोकापवादपरिहारार्थं भगवता वनं प्रति प्रेषणे कृते विश्लेषः ॥ एतद्विश्लेषस्य प्रयोजनं भगवतांतःपुरे रक्षणे स्थापनसमये वने प्रेषणसमये चाविशेषेण तच्चित्तानुवर्तनकर्तव्यताप्रयोजकस्वपत्नीत्वप्रयुक्तपारतंत्र्यप्रकाशः । तथाहि गंगातीरारोहणानन्तरं बालखामिन्यत्यंतक्लेशवता भगवदभिप्रेतकार्यं विज्ञापयति तच्छ्रुत्वात्यंतं प्रलापं कृत्वा । ‘न खल्वयैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राघवे वंशे भर्तुर्मा परिहास्यति ॥’ इत्यवोचत् खलु । अनेन व्यसनातिशयेन मरणेन जीवनस्य मृग्यत्वेपि तदकृत्वा स्वामिचित्तमनुसृत्य स्वप्राणरक्षणं कृत्वा स्थातव्यरूपं पारतंत्र्यं हि प्रकाशितम् । अन्यार्थं जीवतां परतंत्राणां मरणं मृग्यमपि न संभाव्यते- ‘मरणप्रकारं न जानामि प्रबलपापा स्त्री जनित्वा’ इति परांकुशैरवाचि । प्रथमविश्लेषे दशमासेष्वतिदुःसहक्लेशाननुभूतवती-‘पतिर्हि दैवतं नार्याः पतिर्बंधुः पतिर्गतिः । प्राणैरपि प्रियं तस्मात् भर्तुः कार्यं विशेषतः ॥’ इति स्वोक्तिप्रकारेण पतिचित्तानुविधानमेवास्माकं स्वरूपमिति पारतंत्र्यबुद्ध्या खल्वनेकसंवत्सरान्स्वस्थाऽतिष्ठत् । एवमस्मिन् विश्लेषे स्वपारतंत्र्यं प्रकाशयामास ।
टीका हिन्द्या
मध्यम विश्लेष पारतंत्र्य को प्रकट करने के लिये ॥ १० ॥ मध्यम विश्लेष-लौटकर रामजी के साथ श्रीअयोध्या में विराजते हुए गर्भावथा में ‘हे जानकि ! हम को पुत्र लाभ उपस्थित हुआ है तुम क्या इच्छा करती हो वह सब कहो’ इति तुम को वांछित क्या ऐसा पुछने पर —‘हे राघव गंगातीरवर्ती पुण्यप्रद तपोवनों को देखनेकी इच्छा करती हूं और पुण्यात्मा फलमूल भोजन करनेवाले ऋषिलोगों के चरणतलों में वास करने की इच्छा करती हूं’, ‘फलमूल के आहार करनेवाले पुण्यकीर्तिवाले ऋषिलोगों की सन्निधि में एक रात्र तौभी वास करूंगी यह ही मेरी परम कामना है ।’ ऐसा आपके वनवास करने की इच्छा को निवेदन करने पर उसके लिये भेजनेवाले के तरह लोकापवाद को दूरकरने के लिये श्रीरामचन्द्र जी कर्तृक अरण्य को विदा करना । इस विश्लेष का प्रयोजन-श्रीरामचन्द्रजी के अंतःपुर में रखनेपर या अरण्य में छोडनेपर भी एकरूप से उन श्रीरामजी की इच्छा को अनुवर्तनके योग्य स्वपत्नीत्व से प्राप्त पारतंत्र्य का प्रकाश करना है । गंगाके तीर पहुंचने पर बालस्वामी (लक्ष्मणजी) अत्यंत दुःखित हो श्रीरामजी के परित्याग करने के अभिप्राय को श्रीजानकीजी से निवेदन करनेपर इस बात को जान अत्यंत प्रलाप कर-‘हे लक्ष्मण ! स्वामी से प्राप्त यह रघुवंश स्वामीके वंश में तिरस्कृत न हो इस लिये ही मैं प्राणों को गंगाजी के प्रवाह में परित्याग नहीं करती हूं ।’ ऐसा सीताजी कही हैं । इस से विश्लेषदुःख की अधिकता से मरण अपेक्षित होनेपर भी ऐसा नहीं करसकीं । श्रीरामजी की इच्छा को अनुवर्तन कर अपने प्राणों को बचाकर रखने से पारतंत्र्य गुण प्रकट हुआ ऐसा जानना, औरों के लिये जीनेवाले परतंत्र चेतनों को प्राणत्याग की अपेक्षा होनेपर भी त्याग नहीं कर सकते ‘प्रबल पापिष्ठा मैं स्त्री होनेसे मरणप्रकार को नहीं जानती’ ऐसा श्रीशठकोपसूरि भी नायिका अवस्था में कहे हैं । प्रथम विश्लेष में दश महीने के भीतर संपूर्ण दुःख का अनुभव करनेवाली सीताजी ‘स्त्रीका पति ही देवता, बंधु और गति है, अतः प्राणों के व्यय से भी पति का प्रिय करना चाहिये ।’ इस प्रकार अपनी उक्ति के अनुसार पति के चित्त का अनुवर्तन करना ही हमारा स्वरूप है । ऐसी पारतंत्र्यबुद्धि से ही अनेकवर्ष पर्यंत दुःख को सहन करती रही । इस प्रकार इस मध्यम विश्लेष में अपनी पराधीनता को प्रकाश की ।
मूलम्
अनन्तरविश्लेषोऽनन्यार्हत्वप्रकाशनार्थम् ॥ ११ ॥
श्लोक
नैमिषारण्यमध्ये योऽपरो विश्लेष उच्यते । सोऽनन्यार्हत्वरूपस्य स्वगुणस्य प्रकाशकः ॥११॥
टीका संस्कृता
अनन्तरमित्यादि । अनन्तरविश्लेषो नाम-पुनरागत्य भगवत्सन्निधौ वर्तमानदशायां विश्लिष्य जन्मगृहप्रवेशः । अस्य विश्लेषस्य प्रयोजनं-‘अनन्या राघवेणाहं’ ‘अनन्या हि मया सीता’ इत्युभयसंमतस्य स्वानन्यत्वप्रयुक्तानन्यार्हत्वस्य सर्वसंप्रकाशः । तथाहि स्वामिनाश्वमेधयागसमये श्रीवाल्मीकिना भगवतो नियोगेन कुशलवयो रामायणगानं श्रुत्वा तौ श्रीमातुः संचरणात्स्वात्मनश्चरणात्स्वात्मनिवाससन्निधौ विशेषतयान्सर्वानवगाह्य तद्गानं शृण्वति तदा तौ जानक्याः पुत्राविति ज्ञात्वा जानकीं मनसा स्मृत्वा स्वात्मसाक्षिकं शुद्धा यदि शीघ्रमेतत्सदसि समागत्य प्रत्ययपूर्वं शुद्धिं ज्ञापयत्विति दूतमुखेन महीयित्वायांचकार, तथैव श्रीवाल्मीकं भगवंतं पुरस्कृत्य तस्यां महापरिषदि भगवत्सन्निधानाय संकोचेन स्थितायां वाल्मीकावपीयं शुद्धेति बहुमुखेन वदति, स्वयमपीयं शुद्धेत्यहमपि जानामि महर्षियुक्तिरेवालं तथापि लोकापवादपरिहारार्थं कश्चन प्रत्ययोऽस्मिन्सदसि कर्तव्य इति वदति–‘सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्रांजलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥’ इत्युक्तप्रकारेण सांजलिहस्ताऽधोमुखी सती स्थित्वा-‘यथाहं राघवादन्यं मनसापि न चिंतये । तथा मे माधवी देवी विवरं दातुमर्हति ॥ मनसा कर्मणा वाचा यथा रामं समर्थये । तथा मे माधवी देवी विवरं दातुमर्हति ॥ यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च । तथा मे माधवी देवी विवरं दातुमर्हति ॥’ इति शपथं कुर्वत्यां-‘तथा शपत्यां वैदेह्यां प्रादुरासीन्महाद्भुतम् । भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् || तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनंद्यास्मिन्नासने चोपवेशयत् ॥ तामासनगतां दृष्ट्वा प्रविशंतीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥’ इति तदानीं भूमेः किंचित् सिंहासनं प्रादुर्भूतं तत्र भूमी देवी इमां स्वागतप्रश्नपूर्वकं बाहुभ्यामादाय समवेशयत् । आसनगतां रसातलं प्रविशंतीमिमां दृष्ट्वा दिव्यपुष्पवृष्टिर्निरंतरमपतदित्युक्तत्वादस्मिन् विश्लेषे स्वानन्यार्हत्वं प्रकाशयामास । एवमस्मिन्नवतारे विश्लेषत्रयस्य हेतुरेतेषां गुणानां प्रकाशनम् । अन्यथानपायिन्या अस्याः कर्मवश्यस्यैवैवं विश्लेषस्य हेतुर्नास्ति हि । स्वस्याः पुरुषकारत्वोपयोगिगुणान् पुरुषकारत्वं च प्रकाशयितुं खल्वयमवतारः । अत एवोक्तम्-‘सीतावतारगुणान्यदुदाहरंति सीतावतारमुखमेतदमुष्य योग्यम्’ इति भट्टार्यैः ।
टीका हिन्द्या
तीसरा विश्लेष अनन्यार्हत्व प्रकाश करनेके लिये हुआ ॥ ११ ॥ तीसरा विश्लेष माने-वाल्मीकि महर्षि के आश्रम से लौटकर स्वामी के सन्निधि में रहनेपर विश्लेष पाकर जन्मगृह (पृथिवी) में प्रवेश करना । इस विश्लेष का प्रयोजन—‘सूर्यका साथ प्रभा जिस तरह नहीं छोडती उसी तरह श्रीरामचन्द्र का साथ मैं नहीं छोडती’ ‘हमारा साथ सीता नहीं छोडती’ इस तरह उभयसंमत अपना अनन्यत्व प्रयुक्त अनन्यार्हत्व को सबों के जाननेके योग्य प्रकाश करना है । तथाहि—श्रीरामजी अश्वमेध याग करनेपर श्रीवाल्मीकि भगवान की आज्ञा से कुशलव रामायण को गान करनेपर श्रीरामजी सुनकर अपनी सन्निधि में बुलाकर बडे बडे ज्ञानीलोगों के साथ उनके गान को सुनने के समय उन दोनों को सीताजी का लडके जानकर सीताजी को स्मरण कर सीताजी शुद्ध हो तो शीघ्र इस सभा में आकर प्रतिज्ञा पूर्वक अपनी शुद्धता को प्रकट करें ऐसा दूत के हाथ श्रीरामजी के वाल्मीकि जी और सीताजी के जनानेपर, तैसा ही श्रीवाल्मीकि भगवान् को आगे कर उस महासभा में श्रीरामजी के सन्निधि में आकर संकोच से एक स्थानपर खडे होनेपर श्रीवाल्मीकि भगवान्-सीताजी शुद्धा है ऐसा बहुत प्रकार कहते भये । श्रीरामजी सुनकर सीताजी शुद्धा है इस बात को मैं भी जानता हूं, महर्षि का वचन ही बहुत कुछ है, तौभी लोकापवाद दूर करने के लिये इस सभा में एक प्रतिज्ञा की आवश्यकता है ऐसा अभिप्राय को प्रकट किये । अनंतर–‘काषायवस्त्रधारिणी सीताजी आये हुए सभी सदस्यों को देख पृथिवीतल को देखती हुई हाथ जोड इस बातको कहीथी ।’ ‘यदि मैं श्रीरामजी के अतिरिक्त और किसीको मन से भी चिंतवन न की हूं तो भूमिदेवी मुझ को स्थान देगी । यदि मन वचन और काय से श्रीराम को ही मैं समर्थन की हूं तो भूमिदेवी मुझ को स्थान देगी । श्रीराम से अतिरिक्त और किसी को भी मैं नहीं जानती यह बात सत्य हो तो भूमिदेवी मुझ को स्थान देगी ।’ इस प्रकार सभा में शपथ करने पर-‘इस प्रकार जानकीजी के शपथ करनेपर अत्यद्भुत, दिव्य, उत्तमोत्तम, सर्वरत्नविभूषित और बडे पराक्रमी नागगणों द्वारा मस्तकों से धृत सिंहासन भूमि से प्रकट हुआ, उस सिंहासन में भूमिदेवी सीताजी का स्वागत कर भुजाओं से आलिंगन कर बैठाई । उस सिंहासन में बैठ कर पाताल में प्रवेश करती हुई सीताजी के ऊपर विच्छेद रहित पुष्पवृष्टि देवताओं ने की ।’ इस प्रकार कहने से इस विश्लेष में सीताजीने अपने अनन्यार्हत्व को प्रकाश की । तथाच—इस अवतार में सीताजी के विषय में कहे हुए तीनों विश्लेषों का हेतु कृपादि तीनों गुणों का प्रकाश करना है, ऐसा न होतो कभी न छोडने वाली कर्म के वश कभी न होनेवाली सीताजी को कर्मवश्यों के तरह अलग होनेका हेतु नहीं है । अपने पुरुषकारत्वोपयोगि गुणको और पुरुषकारत्व को प्रकट करनेके लिये ही यह अवतार है, इस कारण-‘सीतावतार के मूल जिन कृपादिगुणों को कहते हैं वे भी इस रंगनायकी में हैं’ ऐसा भट्टर स्वामी कहे हैं ।
Of course. I will continue processing the text starting from Sutra 12.
मूलम्
संश्लेषविश्लेषयोरुभयोश्च पुरुषकारत्वं भासते ॥ १२ ॥
श्लोक
देव्याः संश्लेषविश्लेषकालयोरुभयोरपि । पुरुषाकारता शुद्धा भासते कार्यकारिणी ॥१२॥
टीका संस्कृता
एवं चेतनविषयेऽनुग्रहस्य निदानकृपायाः ईश्वरमुपसृत्य वशीकर्तुं निदानस्य पारतंत्र्यादेः स्वेनैव प्रकाश:- शास्त्रेषु श्रवणं विनानुष्ठानपर्यंतदर्शनेन स्वं पुरुषकारत्वेनाश्रयतां रुचि-विश्वासदार्ढ्यार्थं कृतः । एवंभूतगुणविशिष्टाया अस्याः पुरुषकारत्वं क्व प्रकाशत इत्यत आह– संश्लेषविश्लेषयोरिति । पुरुषकारत्वं नाम-घटकत्वं, तच्चास्यास्तेन सह संश्लेषदशायां विश्लेषदशायां च प्रकाशत इत्यर्थः । संश्लेषदशायां बालस्वामिना स्वामिनि वनं प्रति गमनसमये एनं विहाय गंतव्यमिति विचारयत्यहमपि सहैव नेतव्य इति- ‘स भ्रातुश्चरणौ गाढं निपीड्य रघुनंदनः । सीतामुवाचातियशा राघवं च महाव्रतम् ॥’ इत्युक्तप्रकारेण शरणवरणकरणसमये । पंचवट्यां स्थितिसमये जलछायाभ्यां समृद्धे कस्मिंश्चिद्देशे-पर्णशालां रचयेति स्वामिन्यभिदधति मयि यदा स्वातंत्र्यमारोपयत्तदा मामत्यजदिति विकृतेन–‘एवमुक्तस्तु रामेण लक्ष्मणः संयतांजलिः । सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥’ इत्युक्तप्रकारेण स्वपारतंत्र्यं लब्धुं सांजलिहस्तेन प्रार्थना कृता तदा च लक्ष्मीं पुरुषकारत्वेन पुरस्कृत्यैव स्वापेक्षितस्य प्राप्तत्वात्, आसुरप्रकृतौ जयंते काकरूपं गृहीत्वागत्य जननीविषयेऽकृत्ये प्रवृत्ते सति- ‘कः क्रीडति सरोषेण पंचवक्त्रेण भोगिना ।’ इति स्वामिना तदुपरि क्रुद्धेन मस्तकं च्छेत्तुं ब्रह्मास्त्रे प्रयुक्ते सति ‘स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥’ इत्युक्तप्रकारेण सर्वत्र सर्वतो भ्रमित्वा कुत्राप्याश्रयाभावेन निराश्रये शरणागते सति-‘स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥’ इति ‘पुरतः पतितं देवी धरण्यां वायसं तदा । तच्छिरः पादयोस्तस्य योजयामास जानकी ॥ प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसम् । त्राहि त्राहीति भर्तारमुवाच दयया विभुम् ॥ तमुत्थाप्य करेणाथ कृपापीयूषसागरः । ररक्ष रामो गुणवान् वायसं दययैक्षत ॥’ इति श्रीरामायणपद्मपुराणयोरुक्तप्रकारेणैतत्पुरुषकारेण स्वामिना रक्षितत्वाच्च । विश्लेषदशायां च-‘इह संतो न वा संति सतो वा नानुवर्तसे । तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥’ इत्यादिना विपरीतबुद्धिं रावणं स्वामिनश्चरणयोर्घटयितुमुपायस्य दृष्टत्वात् रावणवधानंतरं राक्षसीषु चित्रवधं कर्तुमुद्युक्तं हनुमंतं प्रति- ‘पापानां वा शुभानां वा वधार्हाणां प्लवंगम । कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥’ इति तत्कृपोद्भवनाय वाच उक्त्वा क्षमापयितृत्वाच्च-उभयोर्दशयोरस्याः पुरुषकारत्वं ज्ञायते । ननु हनूमति राक्षस्योऽपराधानुगुणं दंडनाय देया इति वदति लक्ष्मीस्तेन सह विवदित्वाऽरक्षत्खलु । ‘मा मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया रक्षंत्या पवनात्मजाल्लघुतरा रामस्य गोष्टी कृता । काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः सा नः सांद्रमहागसः सुखयतु क्षांतिस्तवाकस्मिकी ॥’ इति पवनात्मजादरक्षदिति भट्टार्यैरप्युक्तम् । तत्र पुरुषकारत्वं कथमिति चेन्न–बलात्कारेण विना-तदनुसरणेन क्षमापयितृत्वात्पुरुषकारत्वमुच्यते । ‘हनुमंतं क्षमापयंती स्वोक्तिमार्गे आगच्छन्तं क्षमापयतीति न वक्तव्यं खलु’ इति हनुमद्विषये पुरुषकारत्वं स्वयमेवाभ्यधात् । अत उभयदशायामप्यस्याः पुरुषकारत्वं ज्ञायते इत्येतावन्मात्रकथनरूपेऽस्मिन् वाक्येऽस्याप्युदाहरणे न विरोधः ।
टीका हिन्द्या
संश्लेष और विश्लेष इन दोनों में पुरुषकारता भासती है ॥ १२ ॥ इस प्रकार चेतन के विषय में अनुग्रह करने का हेतु कृपा और ईश्वर को वश करने का हेतु पारतंत्र्य और अनन्यार्हत्व इन तीनों गुणों को आप ही प्रकाश करना शास्त्रों में श्रवण करने की अपेक्षा अनुष्ठान पर्यंत देखकर लक्ष्मीजी को पुरुषकारतया आश्रयण करनेवालों की रुचि और विश्वास होनेके लिये ही है । एवंभूत गुणवाली सीताजी की पुरुषकारता कहां दीखती है इस [[अकांक्षा|आकांक्षा]] में कहते हैं-संश्लेष और विश्लेष इन दोनों में इत्यादि । पुरुषकारत्व-घटकत्व । वह घटकत्व परमात्मा के साथ वर्तमान दशा और परमात्मा से अलग रहनेकी दशा में भी भासता है । [[संपदशा|संश्लेषदशा]] में बालस्वामी वन को जानेके समय श्रीरामजी हमको छोड जाते हैं ऐसा जान मुझे भी संग लेजाना चाहिये ऐसा समझ-‘वह महा यशस्वी लक्ष्मणजी भ्राता के चरणों में गिर सीताजी और दृढव्रत रामजी से कहते भये ।’ इस उक्ति के अनुसार शरणागति करने के समय । और पंचवटी में पहुंचनेपर जल और छाया के प्रदेश को देखकर पर्णशाला को बनाओ ऐसा रामजी के कहने पर मेरे शिर में स्वातंत्र्य को रखनेसे श्रीरामजी हमको छोडदिये ऐसा दुःखित हो-‘इस प्रकार श्रीरामजी के कहनेपर लक्ष्मण जी हाथ जोड सीताजी के सामने श्रीरामजी से कहते भये-हे राघव ! आप की सत्ता जहांतक रहेगी वहांतक मैं परतंत्र हूं, आप ही अपने इच्छित सुंदर स्थान को दिखाकर मुझे बनानेकी आज्ञा दीजिये ।’ इस उक्ति के अनुसार अपने पारतंत्र्य को पानेके लिये हाथ जोड़ खडा हो अपेक्षा करने के समय सीताजी को पुरुषकारतया आगे कर अपने अपेक्षित को लक्ष्मण जी पाये हैं । असुरप्रकृति-जयंत काकरूप धारण कर सीताजी के विषय में अकृत्य करनेको प्रवृत्त होनेपर-‘रोषविशिष्ट पंचमुख सर्प के साथ कौन खेलता है ।’ इस तरह श्रीरामजी उसपर क्रुद्ध हो शिरश्छेदन करने के लिये ब्रह्मास्त्र का प्रयोग किये । ‘वह पिता (इन्द्र), देवता और महर्षियों से परित्यक्त हो तीनों लोक में घूमकर अन्तमें श्रीरामजी के ही शरण में आया ।’ ‘वह दयासागर सर्वरक्षक श्रीरामजी शरणागत भूमि में गिरा हुआ वध करनेयोग्य उस जयंत काक को अपनी कृपा से रक्षा किये ।’ इति ‘उस समय श्रीजानकी अपने आगे भूमि में गिरा हुआ उस वायस के शिर को श्रीरामजी के चरणारविन्दों में लगाती भयी । प्राण छूटने का भय करनेवाला उस वायस को देख दयार्द्रचित्त हो जानकीजी रक्षा करो रक्षा करो ऐसा अपने स्वामी से कहती भयी । अनंतर कृपासागर श्रीरामजी अपने हाथ से उस काक को उठा दयादृष्टि से देखते हुए रक्षा किये ।’ ऐसा श्रीरामायण और पद्मपुराणों में कहे हुए प्रकार सीताजी के पुरुषकार से श्रीरामजी रक्षा किये, इस कारण संश्लेषदशा में [[पुरुकारत्व|पुरुषकारत्व]] का भान होता है । विश्लेषदशा में भी-‘हे रावण ! जिस कारण तुमारी बुद्धि आचारभ्रष्ट और विपरीत है उस कारण मैं समझती हूं कि-इस तुमारे लंका में सत्पुरुष नहीं हैं या होनेपर भी तुम उन का अनुवर्तन नहीं करते हो ।’ इत्यादि से विपरीत बुद्धि रावण को स्वामी के चरणारविन्द में मिलानेके लिये उपाय को शोची थी । और रावणवध के अनंतर राक्षसियों को चित्रवध करनेके लिये उद्यत हुए मारुति के प्रति-‘हे वानर ! पापी हो, पुण्यात्मा हो, या वध के अर्ह हो उनके ऊपर श्रेष्ठ पुरुष को दया करना चाहिये, कोई भी पुरुष अपराध से मुक्त नहीं है ।’ ऐसा हनुमानजी से दयाजनक वचन कह श्रीसीताजीने क्षमा करवाई है । इस कारण विश्लेषदशा में भी पुरुषकारत्व जानाजाता है । हनुमानजी अपराधानुसार दण्ड देनेके लिये राक्षसियों को हमारे [[सिपुर्द|सिपुर्द]] करो ऐसा कहनेपर सीताजी उन के साथ विवाद कर राक्षसियों की रक्षा की । ‘हे मातः ! हे मैथिलि ! तात्कालिक अपराधी राक्षसियों को मारुति से रक्षा करानेवाली आपकी कृपा की अपेक्षा शरणागत काकासुर और विभीषण को रक्षा करने वाले श्रीरामजी की कृपा लघु होती है, वह आप का निर्हेतुक कृपा अत्यंत महापापी [[मादृश|मादृश]] जनों को सुखी करें ।’ इस बात को श्रीपराशरभट्टार्य भी कहे हैं । राक्षसियों की रक्षा करने में पुरुषकारत्व कैसे भान होता है, इस शंका में कहते हैं-बलात्कारके विना मारुति का अनुसरण कर क्षमा करानेसे पुरुषकारत्व भान होता है । स्वयं श्रीलोकाचार्य स्वामी भी [[मुमुक्षुप्पडि|मुमुक्षुप्पडि]] में ‘हनुमानजी से क्षमा करानेवाली अपने वचनानुसार चलनेवाले स्वामी से क्षमा कराती इस बात में क्या कहना ।’ ऐसा मारुति के विषय में पुरुषकारत्व को कहे हैं । इस कारण संश्लेष और विश्लेष दोनों दशाओं में लक्ष्मीजी का पुरुषकारत्व भान होता है—ऐसा इस अर्थ को कहनेके समय राक्षसियों को मारुति से सीताजीने पुरुषकार हो रक्षा की, इस उदाहरण को देने में कोई दोष नहीं ।
मूलम्
संश्लेषदशायामीश्वरं वशीकरोति विश्लेषदशायां चेतनं वशीकरोति ॥ १३ ॥
श्लोक
हरिसंश्लेषकाले तु वशीक्रियते हरिः । तद्विश्लेषकाले च चेतनं वशयत्यसौ तथा ॥१३॥
टीका संस्कृता
अनयोरुभयोरपि दशयोरस्याः पुरुषकारप्रकारः कीदृश इत्याकांक्षायामाह-संश्लेषदशायामित्यादि । ईश्वरवशीकरणं नाम-अपराधादेव हन्तुं ‘क्षिपामि न क्षमामि’ इति स्थितस्य स्थितेर्विपर्ययेणांगीकारोन्मुख्यकरणम् । चेतनवशीकरणं नाम- अकृत्यकरणादिशीलस्य भगवद्विमुखस्य तादृशाकारं दूरीकृत्याऽऽश्रयणौन्मुख्यकरणम् । संश्लेषदशायां बालस्वामिनिमित्तमीश्वरविषये, विश्लेषदशायां राक्षसीनिमित्तं हनुमद्विषये च पुरुषकारत्वस्य, उभयदशायामपि पुरुषकारत्वं ज्ञायत इत्येतावन्मात्रस्य निदर्शितत्वेऽपि, प्राकरणिकोर्थः-संसारिचेतनस्येश्वरस्य च घटनमिष्ट्वेस्य वाक्यस्यैवार्थः । तस्मादीश्वरेण स्वसंश्लेषदशायां चेतन आश्रयणोन्मुख आगते सति पूर्वापराधान् दृष्ट्वेश्वरेऽनंगीकृत्य स्थिते च सति तत्स्वातंत्र्यमहिम्ना स्वगुणाविर्भावं कृत्वैतदंगीकारोन्मुख्यकरणम् । विश्लेषदशायां चेत्ऽवज्ञया वैमुख्य आगतेऽस्मिन् चेतने कर्मानुगुणं विमुखे च सति तद्वैमुख्यं दूरीकृत्य रुचिमुत्पाद्याश्रयणौन्मुख्यकरणं चानया क्रियमाणमुभयवशीकरणम् । एवमंगीकारविरोधि स्वातंत्र्यं दूरीकृत्यांगीकारोपयुक्तकृपादीनामुद्भावितत्वादाश्रयणविरोधिवैमुख्यं दूरीकृत्याश्रयणरुच्यादीनां जनितत्वाच्च ‘शॄ हिंसायाम्’ इति धातोः ‘श्रु विस्तारे’ इति धातोश्च निष्पन्ने श्रीशब्दे शृणाति [[शृणातीति|शृणाति इति]] व्युत्पत्तिद्वयार्थश्च ज्ञायते । ‘शृणाति निखिलान् दोषान् शृणाति च गुणैर्जगत्’ इत्येतद्व्युत्पत्तिद्वयस्य च चेतनप्रतीतावपीश्वरं च वशीकरोतीत्यत्राप्येतन्न्यायस्य भानादेवं वक्तुं न विरोधः ।
टीका हिन्द्या
संश्लेषदशा में ईश्वर को वश करती हैं विश्लेष दशा में चेतन को वश करती हैं ॥ १३ ॥ ईश्वर को वश करना माने—अपराध ही को देखकर ‘क्षिपामि’ ‘न क्षमामि’ ऐसे कहने वाले ईश्वरका स्वातंत्र्य को हटाकर अंगीकार करनेको उन्मुख बनाना, चेतन को वश करना माने—अकृत्यकारी और भगवद्विमुख इस चेतन के दोषों को दूर कर आश्रयण करनेको अभिमुख कराना । तथाच इस प्रकार अंगीकार का विरोधी स्वातंत्र्य गुण का हटाकर अंगीकारके उपयुक्त कृपादि गुणों को प्रकटकराने से, आश्रयणविरोधी विमुखता को हटाकर आश्रयण रुचि को उत्पादन करनेसे, ‘शॄ हिंसायाम्’, ‘श्रु विस्तारे’ इन धातुओं से निष्पन्न हुआ श्रीशब्द में शृणाति, शृणाति, इन दोनों व्युत्पत्ति का अर्थ इस स्थल में भान होता है । ‘सब दोषों को नाश करती है, गुणों से जगत को विस्तार करती है ।’ यह दोनों व्युत्पत्ति यद्यपि चेतन के विषय में होनेपर भी ईश्वर के विषय में भी यह न्याय भान होता है, इस कारण ऐसा कहना असंगत नहीं ।
मूलम्
उभयोरुपदेशेन ॥१४॥
श्लोक
जीवेशयोर्वशीकार उपदेशेन सुज्यते ॥१४॥
टीका संस्कृता
उभयोर्वशीकरणं केनोपायेनेत्याकांक्षायामाह-उभयोरित्यादि- ईश्वरवशीकरणम्- ‘अस्य चेतनस्यापराधान् परिगणय्य भवता निष्कास्य कपाटं विधीयते चेदस्यान्यः को वाऽऽश्रयः । त्वयोश्च विद्यमाने संबंधविशेषे- ‘संबंधस्तु आवयोर्निवर्तयितुं न भवति’ इत्युक्तप्रकारेण घटजले लवणवदपि न गच्छति खलु । स्वभूतस्यास्य लाभः स्वामिनो भवतः खलु फलं, सर्वत्र व्याप्तिं कृत्वा वर्तनादस्माभिः किं वक्तव्यं रक्षणसापेक्षतयागतस्यास्य रक्षणमकृत्वा स्थितावीश्वरस्य सर्वरक्षकत्वं विकलं स्यात् । ‘अनादिकालमतिलंघनं कृत्वास्मत्क्रोधविषयभूतस्यास्यापराधोचितं दंडमकृत्वांगीकारे कृते शास्त्रमर्यादा नष्टा स्यात्’ इति हि भवताभिप्रायः । तस्य रक्षणमकृत्वापराधानुगुणं नियमने कृतेपि भवतः कृपादिगुणानां जीवनप्रकारः कथं, कृपादीनां जीवनमेतद्रक्षणेनैव स्यात्, ‘निय मनाभावे शास्त्रं न जीवति रक्षणाभावे कृपादयो न जीवंति किं कुर्याम्’ इति चेन्न वयं शास्त्रं विमुखविषयं कृत्वा कृपादिकमभिमुखविषयं कुर्याच्चेदुभयमपि जीवेत् । एवं सत्यमुं रक्षतु’ इत्युपदेशेन । अयमुपदेशः श्रीलोकाचार्योक्ते परंदपडिरहस्ये, श्रीकृष्णपादोक्ते परतत्त्वरहस्ये च विस्तरेण द्रष्टव्यः । ‘पितेव स्याज्जननि ! परिपूर्णागसि जने हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः । किमेतन्निर्दोषः क इह जगतीति त्वमुचितैरुपायैर्विस्मार्थ स्वजनयसि माता तदसि नः ॥’ इत्यपराधपरिपूर्णचेतनविषये हितपरस्य सर्वेश्वरस्य हृदये कोप उत्पन्ने तत्कोपावतारं तदशायामस्य कोपस्य मूलं किमिति पृष्टेऽनेन सम्यक्कृतोपराध इति तस्मिन् वदति शर्करौदने शिलान्वेषणं कुर्वसि किम् ? अस्मिन् जगत्यपराध रहितः क इत्युचितोपायैरपराधान् विस्मार्थ लक्ष्म्या घटयितृत्वप्रकारस्योक्तत्वादुपदेशेनेश्वरवशीकरणप्रकारं च संग्रहेण भट्टार्या अवोचन् । अवतारदशायां च- ‘प्राणसंशयमापन्नं दृष्ट्वा सीताथ वायसम् । त्राहि त्राहीति भर्तारमुवाच दयया विभुम् ॥’ इति वाचामगोचरं महापराधं कृतवंतं काकं प्रति शिरश्छेदाय प्रेरितस्य ब्रह्मास्त्रस्य कांचन नेत्रच्युतिं कल्पयित्वा भगवान् रक्षत्वेतदुपदेशेनेति पद्मपुराण उक्तम् । चेतनवशीकरणं-’ त्वदपराधातिशये दृष्टे तव कुत्रापि गत्यंतरं नास्ति, ईश्वरश्च निरंकुश स्वतंत्रत्वादपराधान् दशदश दृष्ट्वा विभज्य नाशयति, एतदनर्थपरिजिहीर्षायां तच्चरणयोर्नतशिरस्कत्वं विना मार्गांतरं नास्ति, अपराधपूर्णं मां स कथमंगीकुर्यात् दंडयेदेवेति मा भीः, आभिमुख्यमात्रेऽपराधान् क्षंतुं भोग्यत्वेन स्वीकर्तुं चोपयुक्तैर्गुणैः स पुष्कल इति लोके प्रसिद्धः । एवं च सति त्वं सुखेन स्थातुमिच्छसि चेत्तमाश्रय’, इति परमहितोपदेशेन ॥ तथा कुत्र दृष्टमिति चेत्पापिष्टं दुर्मार्गे प्रवृत्तं रावणं प्रति-‘मित्रं कर्तुं रामः स्थानं परिगृह्यताम् ॥ वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः ॥ विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ॥’ इति ‘स्वामिना संबंधकरणं तव प्राप्तम् । तथा कर्तुं नेच्छसि चेन्मार्गे वधैर्यं कुर्वतामपि पृथिव्यां पादं विधाय शौर्यं कार्यं तव किंचिद्वासस्थानमपेक्षितं चेत्स आश्रयणीयः, तत्स्वत्वरहितं किंचिदपि स्थानं नास्ति, दैन्येन शत्रुचरणयोः पतित्वा जीवितस्थितेर्मरणमेव श्रेय इति यदि मन्यसे तथापि त्वां चित्रवधेन विना समीचीनवधेन हिंसितुं स आश्रयणीयः । कृतापराधं मां कथं स्वीकुर्यादिति विचारं माकुरु-आभिमुख्ये कृते पूर्वकृतं दृष्ट्वा कोपननैच्यं तस्य नास्ति, स पुरुषोत्तमः, शरणागतिः परमधर्मः इति जानाति, शरणागतदोषमपश्यन् वत्सल इति सर्वैरपि ज्ञातुं योग्यः प्रसिद्धः स्वामी, त्वं जीवितव्यमितीच्छसि चेत्तेन सह तव संबंधः कर्तव्यः’ इति भयं प्रदश्योंपदिदेश । तस्य वश्यत्वाभावोऽस्या उपदेशन्यूनतया न भवति किंतु तस्य पापप्राचुर्येण । एवमुभावपि वशीकरोतीत्युक्तत्वात् ‘श्रु श्रवणे’ इति धातोर्निष्पन्ने श्रीशब्दे शृणोति श्रावयतीति व्युत्पत्त्योः श्रावयतीति व्युत्पत्त्यर्थ उक्तः । श्रावयतीत्यस्येश्वरविषयत्वेन पूर्वं बहुस्थलेषु दृष्टत्वेऽपि ‘अथवा विमुखानामपि भगवदाश्रयणोपदेशश्रावयितृत्वं- ‘विदितः सहि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवतुमिच्छसि ॥’ इति रावणं प्रत्युपदेशात्’ इति तत्त्वदीपे चेतनविषयत्वमपि यतिभिरुक्तम् । अतोऽत्रापि चेतनविषयत्वोक्तौ न विरोधः ।
टीका हिन्द्या
दोनों को उपदेश से वश करती हैं ॥ १४ ॥ दोनों को किस उपाय से वश करती हैं इस शंका में कहते हैं दोनों को इत्यादि । ईश्वरवशीकरणं—‘इस चेतन के अपराधों को गिनकर आप इस को हटाकर कपाट बंद किये तो इस चेतन का और कोई रक्षक है क्या ? आपके साथ इस के विद्यमान संबंध देखने पर ‘संबंध को हम दोनों छोड़ नहीं सकते।’ इस गोदादेवी के वचनानुसार जलपूर्णघट को फोडने से भी दूर नहीं होगा, अपने वस्तु को प्राप्त होना मालिक आप का ही फल है। चेतनों को वश करनेके लिये सामने सर्वत्र संचार करनेवाले आप को हम क्या कह सकतीं ? रक्षा की अपेक्षा से आया हुआ इस चेतन की रक्षा न करे तो आप के सर्वरक्षकत्व का भंग न होगा क्या ? ‘अनादिकाल से हमारी आज्ञा को न मानकर हमारे क्रोध का लक्ष्य होनेवाले इस चेतन के अपराध के अनुगुण दंड न दे क्षमा कर अंगीकार करनेपर शास्त्रमर्य्यादा नष्ट होजायगी।’ ऐसा आप के हृदय में भान होता है, इस चेतन की रक्षा न कर अपराधानुगुण दंड देनेसे आप के कृपादिगुण कैसे जीवेंगे ? दंड न देनेसे शास्त्र नहीं जीवेगा, रक्षा न करनेपर कृपादि नहीं जीयेंगे क्या करूं ! ऐसा मत डरो - शास्त्र को आप के विमुखों के विषय में, कृपादियों को आप के अभिमुखों के विषय में करनेसे दोनों ही जीयेंगे । ऐसा होनेपर इस की रक्षा करो’ ऐसा लक्ष्मीजी उपदेश कर ईश्वर को वश करती हैं । इस उपदेश क्रम को श्रीलोकाचार्यस्वामीजी के परंदपडि रहस्य में [[आच्चान्धकै के परवरहख|आच्चान्पिळ्ळै के परतत्त्वरहस्य]] में भी विस्तारक्रम से देख सकते हैं । ‘हे जननि ! परिपूर्ण पापी चेतन के विषय में हित करनेके लिये पिता के तरह आप के पति काचित् कुपित होते हैं, उन समय आप ‘यह क्या हुआ ? इस जगत में निर्दोष कौन है ?’ एसा उचित उपायों से ईश्वर को भुलाकर इस चेतन को अपनाती हो, इस कारण आप हम लोगों की माता होती हो ।’ ऐसा उपदेश से ईश्वर को वशकरनेके प्रकार को श्रीपराशरभट्टार्य ने कहा है । अवतारदशा में भी ‘प्राणसंशय प्राप्त हुए वायस को रक्षा करो रक्षा करो ऐसा पति से कहतीभयो ।’ ऐसा वाचामगोचर महापराध करनेवाले काक की प्रति प्रयोग किया हुआ ब्रह्मास्त्र को एक नेत्र से अंधा कर छोड दिये यह इन के उपदेश से ही, ऐसा पद्मपुराण में कहा है । चेतन को वश करना देखकर ‘तुमारे अपराधों की अधिकता को देख कहीं पद रखने स्थान नहीं, निरंकुश स्वतंत्र ईश्वर एक एक अपराधों को गिन गिन कर दंड देंगे इस अनर्थ से बचनेकी इच्छा हो तो उन के चरणों में सिर झुकाओ और कोई उपाय नहीं, अपराध से परिपूर्ण मुझ को वह दंड न दे अंगीकार करेंगे क्या ? ऐसा मत डरो आभिमुख्य मात्र से सब अपराधों को क्षमाकर तुम को भोग्यतया स्वीकार करनेके उपयुक्त गुणों से वह पूर्ण हैं । इस लिये तुम सुखी होना चाहो तो ईश्वर का आश्रयण करनेका विचार करो,’ ऐसा उत्तम हितोपदेश से लक्ष्मीजी चेतन को वश करती हैं । यह कहां देखे हैं इस आशंका में कहते हैं— पापिष्ठ दुर्मार्गप्रवृत्त रावण को उद्देशकर— ‘हे रावण ! तुमारे लंका को बचाने की इच्छा हो तो और घोर वध न चाहो तो उस पुरुषोत्तम का आश्रयण करो । ‘वह शरणागति रूप धर्म को जाननेवाल और शरणागत वत्सल है । जीने की इच्छा है तो उन के साथ मित्रता करो’ ऐसा स्वामी के साथ संबंध करना ही तुमको उचित है, यह न बने तो रास्ते में लूटने वालों को भी पृथिवी में पांव को स्थिर रखकर ही लूटना चाहिये, तुम को रहनेके लिये एक स्थान की अपेक्षा हो तो उन का आश्रयण करो उन के बिना कोई स्थल नहीं है।’ ‘ दीन हो शत्रु के चरण में गिर बचने की अपेक्षा मरना ही अच्छा है, ऐसा समझते हो क्या ? तौभी चित्रवध न कर समीचीन वध करने के लिये भी उनका आश्रयण करना चाहिये’ ‘ऐसा अपराधी मुझ को वह अंगीकार करेंगे क्या ? ऐसा मत सोचो, अभिमुख होनेवालों के पूर्व अपराधों को देख कर क्रुद्ध होने की नीचता उन में नहीं, वे पुरुषोत्तम हैं शरणागती को परम धर्म जानते हैं और शरणागत वंदन के दोष को न देख भोग्य माननेके लिये वात्सल्य गुण उनमें है यह सब प्रसिद्ध है, यदि तुम को जीनेकी इच्छा हो तो उन के साथ तुम को संबंध रखना चाहिये’ ऐसा डराकर रावण को उपदेश की । रावण के रामजी का आश्रयण न करनेका कारण सीताजी के उपदेशकी न्यूनता नहीं किन्तु उस के प्रबल पाप ही कारण हैं । इस प्रकार चेतन और परमात्मा दोनों को उपदेश द्वारा वश करनेसे ‘श्रु श्रवणे’ इस धातु से निष्पन्न श्रीशब्द में शृणोति श्रावयति, इन व्युत्पत्तियों में ‘श्रावयति’ इस व्युत्पत्ति का अर्थ कहागया । ‘श्रावयति’ यह ईश्वर विषयतया ही पूर्वाचार्यों के ग्रंथों में देखा जाता है तो भी तत्त्वदीप ग्रंथ में ‘अथवा विमुखों को भगवदाश्रयणोपदेश को करना’, ‘वह शरणागत धर्मज्ञ और शरणागत वत्सल हैं तुम को जीने की इच्छा होतो उन का आश्रयण करो’ ऐसा रावण को उपदेश करने से’ इस तरह जीयर स्वामी चेतन के विषय में भी कहे हैं । इस प्रबंध में भी चेतन के विषय में कहने से कुछ विरोध नहीं ।
मूलम्
उपदेशेनोभयोरपि कर्मपारतंत्र्यं नश्यति ॥१५॥
श्लोक
उभयोरुपदेशो हि कर्मतन्त्रत्वनाशकः ॥१५॥
टीका संस्कृता
एतत्दुपदेशेनोभयत्रापि फलितमाह-उपदेशेनेत्यादिना । एवमुभयोरपि तत्तदनुगुणमनया क्रियमाणेनोपदेशेन पुण्यपापयोर्वशे आकृष्यमाणस्य भगवद्विमुखस्य संचरतोऽस्य चेतनस्य कर्मपारतंत्र्यं एतत्कृतं कर्म प्रधानं कृत्वैतदनुगुणमेव कुर्यामित्येतद्रक्षणविमुखस्य सत ईश्वरस्य कर्मपारतंत्र्यं च निवृत्तं भवतीत्यर्थः । चेतनस्य कर्मपारतंत्र्यमनाद्यचित्संबंधकार्यभूताविद्यानिबंधनम्, ईश्वरस्य कर्मपारतंत्र्यं निरंकुशस्वातंत्र्यकार्यनिबंधनम्, एतदुभयमप्यनाद्यपि मातृसंबंधेन चेतनस्याप्ततया [[महिषित्वसम्बन्धेन|महिषीत्वसम्बन्धेन]] ईश्वरस्याभिमततयाऽनयोरुभयोरपि हृदयं चार्द्रं कृत्वाऽऽश्रयणांगीकाराभिमुखं यथा स्यात्तथा क्रियमाणेन चोपदेशेन निवृत्तं भवतीत्यत्र न विरोधः ।
टीका हिन्द्या
उपदेश से दोनों का कर्मपारतंत्र्य जाता रहेगा ॥१५॥ इस उपदेश से चेतन और ईश्वर में क्या फलैगा इस [[आशंका|आकांक्षा]] में कहते हैं- उपदेश से इत्यादि । इस प्रकार दोनों को तत्तदनुगुण क्रियमाण लक्ष्मीजी के उपदेश से पुण्यपापों के वश में खींचाजाकर भगवद्विमुख हो संचार करने वाले चेतन का कर्मपारतंत्र्य और चेतन कृत कर्म को प्रधान समझ उस के अनुगुण फल देंगे ऐसा इस का रक्षण में विमुख होने वाले ईश्वर का कर्मपारतंत्र्य यह दोनों निवृत्त होते हैं । चेतन का कर्मपारतंत्र्य अनादि अचित् संबंध द्वारा होनेवाले अज्ञान से हुआ है, ईश्वर का कर्मपारतंत्र्य निरंकुश स्वातंत्र्य कार्यभूत अपने संकल्प से आया हुआ है । इन दोनों के कर्मपारतंत्र्य अनादि होनेपर भी मातृत्व संबंध से चेतन को आप्त और महिषीत्व से ईश्वर को अभिमत होनेवाली लक्ष्मीजी के चेतन और ईश्वर को आर्द्रचित्त हो आश्रयण और अंगीकार के अभिमुख होनेके लिये क्रियमाण उपदेश से निवृत्त होने में बाधक नहीं ।
Here is the continuation, starting from Sutra 16.
मूलम्
उपदेशेनानिवृत्तौ चेतनं कृपया वशीकरोति, ईश्वरं सौन्दर्येण वशीकरोति ॥१६॥
श्लोक
उपदेशे कृतेऽपीत्यनुभयोरनिवर्तने । स्ववशे कृपया जीवान् सौन्दर्येणेश्वरं नयेत् ॥१६॥
टीका संस्कृता
एतदुपदेशेनैतयोर्निवर्तनाभावे किं क्रियत इत्यत आह—उपदेशेनेत्यादि । चेतनस्यानिवर्तने मूलं- ‘अनादिकालं यत्किंचिदवलंब्य व्यावृत्तिव्रतम्’ इत्युक्तप्रकारेण भगवद्विमुखस्य विषयांतरप्रावण्येन भ्रमतो दुर्वासनादयो भवति । ईश्वरस्यानिवर्तने हेतुः-अपराधानुगुणमयं शिक्षणीय इत्यभिसंधिना स्वस्थितेश्च्युतिं विना स्थातुं निदानं निरंकुशस्वातंत्र्यम् । एताभ्यां हेतुभ्यामुभयोरपि स्वोपदेशेन स्वस्व कर्मपारतंत्र्यानिवर्तनाभावे-चेतनस्य कृपया वशीकरणं नाम-हंतास्य दुर्बुद्धिर्निवृत्ता स्यादनुकूला बुद्धिः स्यादिति तद्विषये स्वेन क्रियमाणया ‘पंकजवासिन्याः श्रीकृपा’ इत्युक्तया परमकृपयाऽस्य पापबुद्धेर्निवृत्त्या भगवदाभिमुख्यसंपादनम् । ईश्वरस्य सौन्दर्येण वशीकरणं नाम-ओं तवेदं कार्यमित्युपदेशानंगीकारे नेत्रतिर्यक्करणं कंचुकश्लथनं कृत्वा स्वसौन्दर्येण व्यामोहयित्वा स्वोक्तिप्रकारेणाकृत्वा स्थातुमशक्तो यथा स्यात्तथा कृत्वांगीकारोन्मुख्यकरणम् ।
टीका हिन्द्या
उपदेश से नहीं लौटने पर चेतन को कृपा से वश करती हैं, ईश्वर को सौंदर्य से वश करती हैं ॥ १६ ॥ चेतन के न लौटनेका कारण-अनादिकाल से ‘किसी एक व्रत को अवलंबन कर अलग होता है’ इस वचन के अनुसार भगवद्विमुख और विषयांतरप्रवण होनेसे आये हुए दुर्वासनादि हैं । ईश्वर के न लौटनेका कारण—अपराधानुगुण इस चेतन की शिक्षा करूंगा ऐसी इच्छा से अपनी स्थिति को नहीं छोडने के योग्य निरंकुश स्वातंत्र्य है । इन हेतुओं से दोनों अपने उपदेश से स्व स्व कर्मपारतंत्र्य से नहीं लौटने पर-चेतन को कृपा से वश करना माने-‘हाहा इस की दुर्बुद्धि निवृत्त हो अनुकूल बुद्धि हो’ ऐसा उस के विषय में लक्ष्मीजी से कीजानेवाली परमकृपा के द्वारा पापबुद्धि नष्ट हो भगवदभिमुख होनेके योग्य करना । ईश्वर को सौंदर्य से वश करना माने-‘हांजी जाइये तुमारा यही काम है’ ऐसा कह उपदेश को न मानने पर नेत्रों को घुमाना, चोली को ढीला करना इत्यादि से अपने सौंदर्य दिखा उन को पागल बना अपनी बात को काट न सकें ऐसा कर अंगीकारोन्मुख बनाना ।
उपायवैभवः ।
मूलम्
अज्ञातार्थान् साकल्येन ज्ञापयित्वाचार्यकृत्यस्य पुरुषकारकृत्यस्योपायकृत्यस्य च स्वेनैव स्वोपर्यारोपितत्वान्महाभारत उपायवैभव उक्तः ॥ १७॥
श्लोक
अज्ञातान् सकलानर्थान् ज्ञापयित्वोपदेशतः । श्रीगुरुत्वोपायत्वानि स्वस्मिन्नारोपणात्स्वयम् । महाभारतशास्त्रार्थे चोपायोत्कर्षः प्रकीर्तितः ॥१७॥
टीका संस्कृता
एवं ‘पुरुषकारभवनसमये’ इत्यारभ्येतावत्पर्यंतं पुरुषकारोपयोगिगुणविशेषाः तेषां स्वेनैव प्रकाशनप्रकारः संश्लेषविश्लेषयोरुभयोः पुरुषकारत्वं तत्प्रकारविशेषाश्चोक्ताः । कृपादिगुणानां प्रकाशनप्रकाराकथनादेव श्रीरामायणे पुरुषकारवैभवरूपकथनप्रकारमुपपादितवान् । अनंतरं महाभारते उपायवैभवोक्तिप्रकारमुपपादयति-अज्ञातेत्यादिना । अज्ञातज्ञापनमाचार्यकृत्यं नतु शरण्यकृत्यं, अत एव ‘ममोत्पादकमाता पिता’ इति प्रियकरत्वहितकरत्वरूपमातापितृकृत्ये स्वयमेव त्वमस्मत्स्वाकरोदिति तदुपकारमुक्त्वाऽऽचार्यकृत्यं विशेषोपकारं च स्वयमेव स्वस्माकरोदिति वदन् परांकुशः ‘अज्ञातानां ज्ञापक’ इत्यवोचत् । अत्रोच्यमानं वाक्यं तादृशश्रीसूक्तेः सूचकम् । अज्ञातार्थानां साकल्येन ज्ञापनं नाम-तत्त्वविवेकमारभ्य प्रपत्तिपर्यंतमर्जुनस्य पूर्वमज्ञातसर्वानर्थानां ज्ञापनं । देहात्माभिमानिनो देहानुबंधिषु बंधुष्वस्नेहार्हे युद्धरंगे स्नेहं कुर्वाणस्य स्थितस्यास्य प्रकृत्यात्मविवेकादिवैशद्यस्य कर्तव्यत्वात्-‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहांतरप्राप्तिर्धीरस्तत्र न मुह्यति ॥’ इत्यादिभिः प्रकृत्यात्मविवेकमादौ पश्चात्परमात्मविवेकरूपतत्त्वविवेकं च ‘अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥’ इत्यादिभिरात्मनित्यत्वं देहानित्यत्वे च प्रथममुपदिश्य, एतत्स्वातंत्र्यभ्रमं निवर्तयितुं-‘भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥’ इत्युक्तप्रकारेण चेतनाचेतनशरीरिणः-‘सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च’ इति, ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यंत्रारूढानि मायया ॥’ इति चोक्तप्रकारेण सर्वजनहृदयस्थस्य सकलप्रवृत्तिनिवृत्तिकारयितृत्वरूपं स्वस्य नियंतृत्वं, तथा सर्वनियंतृत्वेन सर्वस्मात्परस्यैव–‘परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥’ इत्यवतारप्रयुक्तं स्वस्य सौलभ्यं, ‘समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः’ इति स्वस्याश्रयणीयत्वे साम्यं, ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥’ इत्यहंकारदोषं, ‘यततो ह्यपि कौंतेय पुरुषस्य विपश्चितः । इंद्रियाणि प्रमाथीनि हरंति प्रसभं मनः ॥’ इतीन्द्रियप्राबल्यं, ‘असंशयं महाबाहो मनो दुर्निग्रहं चलम् ॥’ इति तादृशप्राबल्ये इंद्रियांतरेभ्यो मनसः प्राधान्यं च प्रादर्श्यदित्याश्रयणविरोधिनः, ‘तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥’ ‘यतो यतो निश्चरति मनश्चंचलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥’ इत्याश्रयणोपकरणबाह्याभ्यंतराणां करणानां स्वाधीनत्वेन नियमनप्रकारं, ‘चतुर्विधा भजंते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥’ इत्याश्रयणाधिकारिणां चातुर्विध्यं, ‘द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवी सम्पद्विमोक्षाय निबंधायासुरी मता ॥’ इति स्वाज्ञानुवर्तनपरा देवास्तदतिवर्तनपरा असुरा इति देवासुरविभागं, ‘हंत ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यंतो विस्तरस्य मे ॥’ इत्यारभ्यास्यां विभूतौ समस्तपदार्थानां वाचकशब्दानां स्वपर्यंतपर्यवसानप्रकारं, एतत्सर्वं स्वप्रकारत्वेन स्वीकृत्य व्याप्य स्थितिप्रकारं, ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ।’ इति दिव्यचक्षुर्दत्त्वा, ‘पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥’ इत्यादिना स्वविश्वरूपं दृष्ट्वा यथा वदेत्तथा कृतत्वात् स्वानुग्रहविषयाणां दिव्यज्ञानं दत्त्वा स्वप्रकारान् प्रदर्शयतीत्यमुमर्थं, ‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥’ इत्येवं स्थितपरत्वसौलभ्ययुक्तस्वचरणप्राप्तिरूपपरमपुरुषार्थस्योपायभूतां कर्मज्ञानरूपांगसंहितां भक्तिं, ‘मामेव ये प्रपद्यंते मायामेतां तरंति ते ।’ ‘तमेव चाद्यं पुरुषं प्रपद्ये’ ‘तमेव शरणं गच्छ सर्वभावेन भारत ।’ इति तादृशप्रपत्तिं चरमश्लोकेन तादृशभक्तेर्दुष्करत्वादीनि ज्ञात्वा शोचतां सुकरः स्वरूपानुरूपोपायः प्रपत्तिरित्यर्थं च स्वयमेव ज्ञापयामास । एवमज्ञातानामर्थानां सर्वेषां ज्ञापनात् आचार्यकृत्यमारोपितवानित्युच्यते । अथ पुरुषकारकृत्यं च शरण्यस्य न भवति किंतु लक्ष्म्याः कृत्यं । ‘मत्प्राप्तिं प्रति जंतूनां संसारे पततामधः । लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः ॥ ममापि च मतं ह्येतन्नान्यथा लक्षणं भवेत् ।’ इत्यादिभिरमुमर्थं भगवच्छास्त्रेषु स्वयमप्यवोचत् । अस्य तत्त्वज्ञानादीनामुत्पादनीयत्वादाचार्यकृत्यमारोपितवान् पुरुषकारकृत्यारोपणं किमर्थमंगीकारे को दोष इति चेत्–अंगीकारस्यास्याप्यवश्यापेक्षितत्वात् । तथाहि–अस्योपायस्य पुरुषसापेक्षतेव पुरुषकारसापेक्षताप्यस्ति । एतदुभयसापेक्षता चोपायवरणरूपे पूर्ववाक्ये प्रथमचरमपदयोर्द्रष्टव्या । श्रीशब्देन पुरुषकारस्तूत्तमेनाधिकार्युच्यते । तस्माच्चेतने स्वस्योपायत्वेनाश्रयणसमये स्वापराधभयेन लक्ष्मीं पुरुषकारत्वेन पुरस्कुर्वति, तस्यामेतदपराधनिबंधनं स्वहृदये कोपं दूरीकृत्य घटयंत्यां, स्वीकारस्यौचित्ये तथा विनैतदपराधनिबंधनं स्वहृदयकालुष्यं स्वयं विहायास्यांगीकारात् तदपि करणसमयेऽर्थित्वनिरपेक्षं कृतत्वात्पुरुषकारकृत्यं च स्वयमेवारोपितवानित्युच्यते । अथोपायकृत्यस्य स्वासाधारणत्वेऽपि स्वस्मिन्नारोपितमित्युक्तिः-‘त्वमेवोपायभूतो मे भव’ इत्यस्मिन्प्रार्थयति स्वस्य कार्यकरणमुचितम् । एवं च सति अहमेवास्योपायः सन्ननिष्टनिवृत्यादिकं कुर्यामिति स्वयमेव विचार्य ‘मामेकं शरणं व्रज’ ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इत्युक्तत्वात् । अन्यथा ‘उपायोपेयत्वे तदिह तव तत्त्वं नतु गुणौ’ इत्युक्तस्योपायकृत्यमागंतुकं न भवति, उभयलिंगविशिष्टत्वादुपायोपेयत्वमुभयमपि स्वतः सिद्धं खलु वर्तते । केचिदुपेयभूतस्य स्वस्योपायकरणादुपायकृत्यमारोपितमित्युच्यत इत्याहुः, तत्क्षीरस्यौषधवत् अस्योपायभवनस्थले सर्वत्र विद्यत इत्यर्जुनस्येदानीमसाधारण्येन कृतत्वाभावात् उपायमिति वस्तु निर्दिश्य तद्वैभवस्योक्तिप्रकरणत्वाच्चात्रानुचितम् । अतः पूर्वोक्त एवार्थः । आचार्यकृत्यारोपणविषये—‘कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥’ इत्यस्यार्थित्वेनान्यकृत्यस्य स्वस्मिन्नारोपितत्वमात्रस्य विवक्षितत्वात्, पुरुषकारकृत्यारोपणविषयेऽन्यकृत्यारोपणस्य तत्रार्थित्वनिरपेक्षितत्वस्य च विवक्षितत्वात्, स्वकृत्यारोपणविषयेऽर्थित्वनिरपेक्षत्वमात्रस्य विवक्षितत्वाच्चारोपितेत्यस्य कृत्यत्रये च यथायोगमन्वयः कार्यः । आचार्येऽज्ञातज्ञापनं कुर्वति लक्ष्म्यां पुरुषकारे सति स्वमुपायत्वेन स्वीकुर्वतोऽनिष्टनिवृत्यादिकरणस्यौचित्ये एतेषां सर्वेषां स्वोपर्यारोपणं वैभवः खलु । ‘आरोपितत्वान्महाभारते उपायवैभव उक्त’ इति आरोपणस्य प्रतिपादितत्वादुक्त इत्यर्थः ।
टीका हिन्द्या
अज्ञात अर्थों को पूर्णतया जनाकर आचार्यकृत्य, पुरुषकारकृत्य और उपायकृत्य को आप ही अपने ऊपर आरोपण कर लेने से महाभारत में उपायवैभव कहा गया ॥ १७॥ तथा-‘पुरुषकार होने के समय’ इस सूत्र से लेकर यहां तक पुरुषकारत्व के उपयुक्त गुणविशेषों को उन गुणों को आप ही प्रकाश करनेके प्रकार को, संश्लेष और विश्लेष इन दोनों में क्रियमाण पुरुषकार को और उस पुरुषकार के प्रकारों को कहे हैं । उपायवैभव । कृपादि गुणों को प्रकट की है ऐसा कहने से श्रीरामायण में कहा हुआ पुरुषकार वैभव को प्रतिपादन किये, आगे महाभारत में कहा हुआ उपाय वैभव को कहते हैं-अज्ञात अर्थों को इत्यादि । अज्ञात अर्थ को जनाना आचार्यकृत्य है ईश्वरकृत्य नहीं इस लिये ही ‘हमारे उत्पादक माता और पिता होकर’ इस तरह प्रियकरत्व हितकरत्व रूप मातापितृकृत्यों को आप ही अपने विषय में किया है इस उपकार को अनुसंधान कर अनंतर आचार्य के कर्तव्य विशेषोपकार को आप ही हम को किये हैं ऐसा कहनेवाले श्रीशठकोपसूरि ‘अज्ञात अर्थों को जनानेवाले’ ऐसा कहे हैं । इस स्थल में लोकाचार्य स्वामीजी का यह वाक्य उस दिव्यसूक्ति का सूचक है । अज्ञात अर्थों को पूर्णतया जनाना माने-तत्त्वविवेक से लेकर प्रपत्ति पर्यंत अर्जुन का पूर्व अज्ञात संपूर्ण अर्थों का जनाना । देह को आत्मा समझकर, देहसंबंधी बंधुओं में स्नेह के अयोग्य युद्ध स्थल में स्नेह करनेवाले अर्जुन को प्रकृति और आत्मा के स्वभाव को कह प्रबुद्ध करना आवश्यक होनेसे–‘भूतकाल में मैं था, तुम और ये राजा लोग भी थे और हम सभी इसके बाद होयेंगे ।’ ‘देह में जीवात्मा को जैसा कौमार यौवन और जरा अवस्था प्राप्त होती हैं वैसे ही अन्य देह की प्राप्ति भी होती हैं इस विषय में बुद्धिमान मोहित न होगा ।’ इत्यादि से प्रकृति और आत्मा का विवेक तथा परमात्मा का विवेकरूप तत्त्वज्ञान को, ‘नित्य, अविनाशी और प्रमाणों से अपरिच्छिन्न आत्मा के ये देह नश्वर हैं इस लिये हे अर्जुन युद्ध करो’, ‘यह उत्पत्तिशून्य सदा रहनेवाला पुराना है चेतन काचित् न जन्मता है न मरता है पहिले हुआ था पीछे होगा ऐसा नहीं कह सकते शरीर नाश होनेपर भी जीव नाश नहीं होता ।’ ‘जैसे मनुष्य पुराने वस्त्रों को त्याग कर नूतन वस्त्रों को पहनता है वैसे ही जीर्ण शरीरों को छोड कर आत्मा अन्य नवीन शरीरों को लेता है’ इत्यादि से आत्मा का नित्यत्व और देहके अनित्यत्वको पहिले उपदेश कर अर्जुन के स्वातंत्र्य भ्रम को दूरकरनेके लिये-‘भूमि, जल, अग्नि, वायु, आकाश, अहंकार, महत् और प्रकृति ये आठ हमारे अचेतन शरीर हैं ।’ ‘जिस जीवरूप हमारे शरीर से जगत् धारण कियाजाता है वह पूर्वोक्त शरीर से श्रेष्ठ समझो ।’ इस वचन के अनुसार चेतनाचेतन दोनों का शरीरी हो-‘सबके हृदय में मैं वास करता हूं मेरे से ही स्मरण, ज्ञान और विस्मृति होते हैं ।’ इति, ‘परमात्मा संपूर्ण भूतों के हृत्प्रदेश में रहते हैं, माया से सर्वप्राणियों को यंत्र में चढाकर घुमाते हैं ।’ इति च उक्त प्रकार सर्वजनहृदयस्थ सकलप्रवृत्तिनिवृत्तियों को करानारूप अपनी नियमनशक्ति को, एवं सर्व नियंता और सर्वस्मात्पर होकर रहते हैं इतना ही नहीं किंतु–‘साधुओं की रक्षा दुष्टों का विनाश और धर्म के स्थापन के लिये प्रतियुग में अवतार लेता हूं ।’ ऐसा अवतार प्रयुक्त अपने सौलभ्य को, ‘संपूर्ण प्राणियों के विषय में मैं समान हूं, मेरे को प्रिय और अप्रिय कोई नहीं ।’ इस तरह आप को सब ही आश्रयण कर सकते हैं, इस समता को भी, ‘प्रकृति के सत्त्व रज तमोगुणों से किये जानेवाले संपूर्ण कर्मों के प्रति अहंकार से मोहित यह चेतन मैं करता हूं ऐसा मानता है ।’ इस प्रकार अहंकार के दोष को, ‘यह बुद्धिमान् चेतन इंद्रियों को रोकनेका यत्न करनेपर भी इंद्रियगण मन का अपहरण कर बलात्कार से अपने वश कर लेते हैं ।’ इस प्रकार इंद्रियों के प्राबल्य को, ‘हे अर्जुन ! चंचल मन को रोकना अशक्य है इसमें संशय नहीं ।’ ऐसा इंद्रियों की अपेक्षा मन की प्रबलता को दिखाये हैं । ऐसा आश्रयणविरोधियों को ‘उन इंद्रिय और मन को रोक कर हमारे विषय में लगाना चाहिये, जिस के वश में इंद्रिय हैं उसका ज्ञान स्थिर होता है ।’ ‘चंचल अत एव अस्थिर मन जिस जिस विषय में चरता है उस उस विषय से रोक आत्मा के वश लाना चाहिये ।’ ऐसा आश्रयणोपकरण बाह्य और आंतर इंद्रियों को अपने वश में लाने के प्रकार को, ‘हे अर्जुन ! आर्त्त (नष्ट धन को चाहने वाला) जिज्ञासु (आत्माको चाहने वाला) अर्थार्थी (नूतन ऐश्वर्य को चाहने वाला) और ज्ञानी (हमें चाहनेवाले) ये चारों सुकृतिलोग हमारा भजन करते हैं ।’ ऐसा आश्रयण करने वाले अधिकारियों का चार प्रकार को, ‘इस लोक में देवप्रकृति आसुरप्रकृति नाम से दो प्रकार प्राणियों की सृष्टि होती है, देवप्रकृति (दैवी संपत्) मोक्ष के लिये होती है आसुरप्रकृति (आसुरी संपत्) संसार के लिये होती है ।’ अपनी आज्ञानुवर्तन करने वाले देवता हैं और आज्ञा उल्लंघन करने वाले असुर हैं इस प्रकार देवासुर विभाग को, ‘हे कुरुश्रेष्ठ ! हमारी विस्तृत विभूति का अंत नहीं है इस लिये प्रधान और शुभ विभूतियों को मैं कहूंगा ।’ ऐसा आरंभ कर इस विभूति में समस्त पदार्थों का वाचक शब्द हम में पर्यवसान होते हैं, शरीर भूत इन विभूतियों में अपने व्याप्ति प्रकार को, ‘तुम को दिव्य चक्षु देता हूं हमारी नियमनशक्ति को देखो’ इस तरह दिव्य चक्षु को देकर, ‘हे देव ! आप के देह में संपूर्ण देवताओं, समस्त प्राणिसमूह तथा चतुर्मुख ब्रह्मा, ब्रह्मा के गोद में बैठे हुए महादेव को देदीप्यमान सब ऋषियों और देदीप्यमान सर्पों को मैं देखता हूं ।’ इत्यादि से अपने विश्वरूप को देखकर कहें जैसा करने से अपने भक्तों को दिव्यज्ञान दे अपने प्रकारों को दिखाते हैं, इसबात को, ‘हमारे विषय में मन लगाओ हमारे भक्त बनो हमारी आराधना करो और हमारे को नमस्कार करो इस प्रकार आत्मा को हमारे अधीन कर आश्रयण करोगे तो हमारे को ही प्राप्त होओगे ।’ इस प्रकार परत्व और सौलभ्य युक्त अपने चरणारविंदों में प्राप्ति रूप परमपुरुषार्थ के उपायभूत कर्मज्ञान सहित भक्ति को, ‘हमारे ही शरण में आने वाले इस माया को तरते हैं ।’ ‘उस आदि पुरुष को ही आश्रयण करता हूं ।’ ‘हे अर्जुन ! संपूर्ण भावसे उस परमात्मा के ही शरण जाओ’, इस रीति से भक्त्यंग प्रपत्ति को, चरम श्लोक से उस भक्तिरूप उपाय करने को अशक्य समझ कर शोचने वालों को सहज और स्वरूपानुरूप उपाय प्रपत्ति ही है, इस बात को भी स्वयं श्रीकृष्णने अर्जुन को जनाया हैं । इस तरह अज्ञात सब अर्थों को जनानेसे आचार्यकृत्य को आप ही भगवान् ने किया है । अनंतर पुरुषकारकृत्य रक्षकभूत सर्वेश्वर का नहीं किंतु लक्ष्मीजी का कृत्य है-‘संसार में अधः पतित प्राणियों को हमारी प्राप्ति के लिये लक्ष्मीजी पुरुषकार हैं ऐसा परमर्षि लोग दिखाये हैं हमारा भी वही मत है और दूसरा इस का लक्षण नहीं है ।’ इत्यादि से लक्ष्मीजी पुरुषकार हैं इस प्रकार पंचरात्र में भगवान् ही कहे हैं । अर्जुन को तत्त्वज्ञानोत्पादन करने के लिये आचार्यकृत्य को अपने ऊपर श्रीकृष्णने लिया परंतु पुरुषकारकृत्य को अपने ऊपर लेनेका प्रयोजन क्या ? विना पुरुषकार अंगीकार क्यों नहीं किया इस शंका में कहते हैं–अंगीकार करने के लिये पुरुषकार की आवश्यकता है । इस उपाय को जैसे पुरुषकी अपेक्षा है वैसे ही पुरुषकार अपेक्षा भी है, इन दोनों की आवश्यकताको उपायस्वीकार रूप द्वयमंत्र के पूर्ववाक्य में प्रथम और चरम पदों से देख सकते हैं । श्रीशब्द से पुरुषकार को प्रपद्ये इस उत्तम पुरुष से अधिकारी को भी कहते हैं । इस कारण चेतन ईश्वर को उपायतया आश्रयण करने के समय अपने अपराध के भयसे लक्ष्मीजी को पुरुषकारतया आगे करनेसे वह लक्ष्मी चेतन के अपराध से हुआ ईश्वरके कोप को शांत कर मिलावे तो ईश्वर स्वीकार करते हैं । इस क्रम को छोडकर चेतन के अपराधानुसार अपने हृदय के कालुष्य को आप ही क्षमा कर इसको अंगीकार किये हैं ऐसा करने के समय चेतन की प्रार्थना के विना स्वयं करने से पुरुषकारकृत्य को आप ही अपने ऊपर लिया है । अनंतर उपायकृत्य अपना ही होते हुए उस कृत्य को अपने ऊपर लेना माने-‘हमारा उपाय आप ही होओ’ ऐसा इस चेतन के प्रार्थना करनेपर ईश्वर को कार्य करना उचित है । इस प्रकार न कर हम हीं इस चेतन का उपाय हो अनिष्टनिवृत्ति आदि को करेंगे ऐसा अपने ऊपर लेना । ‘हम ही को उपाय मानो सब पापों से तुम को मुक्त करूंगा’ इस उक्ति से जान सकते हैं । ‘उपायभाव और उपेयभाव आपके स्वरूप हैं गुण नहीं’ इस प्रकारके कहे जानेवाले ईश्वरके उपायकृत्य आगंतुक नहीं हैं उभयलिंगविशिष्टता से उपाय और उपेयत्व ये दोनों स्वतः सिद्ध हैं । अथवा उपेयभूत आप को उपाय करने से उपायकृत्य अपने ऊपर लिये हैं ऐसा भी अर्थ करते हैं । यह अर्थ ‘दूध जैसे औषध होता है’ तैसे यह परमात्मा सर्वत्र उपायभूत होनेसे, अर्जुन के लिये उस वखत विशेषपूर्वक नहीं किया हुआ होनेसे ‘उपाय’ ऐसा इस वस्तु को निर्देश कर उस का वैभव कहनेका प्रकरण होनेसे इस स्थल में उचित नहीं । इस कारण पहिले कहा अर्थ ही ठीक है । आचार्यकृत्य को अपने ऊपर लेनेपर-‘कृपारूप दोष द्वारा मैं मेरे स्वभाव से अलग हो धर्म के विषय में मोहितचित्तवाला हो आप से पूछता हूं, जो हम को श्रेय हो वह आप निश्चय कर कहिये, मै आप का शिष्य और प्रपन्न हूं, हमें आप शासन कीजिये’ ऐसा अर्जुन की प्रार्थना करनेपर आचार्यकृत्य को अपने ऊपर लिया यहीं कहनेका अभिप्राय है, पुरुषकारकृत्य को अपने ऊपर लेनेपर अन्यकृत्य को अपने ऊपर लेना, और उसका विना प्रार्थना किये अपने ऊपर लेना भी विवक्षित होनेसे, अपने कृत्य को अपने ऊपर लेनेपर विना प्रार्थना ही लिये हैं यह अर्थ विवक्षित होने से, ‘आप ही अपने ऊपर लेनेसे’ यह तीनों कृत्यों में यथोचित अन्वित होता है । आचार्य के अज्ञात ज्ञापन करनेपर, लक्ष्मीजी पुरुषकार करनेपर यह चेतन ईश्वर को उपायतया श्रवण करता है तो इस चेतन के अनिष्ट को दूर कर और इष्ट प्रदान करना उचित है ऐसा न कर आप ही तीनों कृत्यों को अपने ऊपर लेना वैभव ही है । इस विषय को प्रतिपादन करने से महाभारत में उपायवैभव कहा गया ।
उभयसाधारणवैभवः ।
मूलम्
पुरुषकारस्योपायस्य च वैभवो नाम-दोषं गुणहानिं च दृष्ट्वाऽनुपेक्षणमात्रं विनांगीकारस्य तयोरेवोपदात्वेन स्वीकारः ॥ १८ ॥
श्लोक
उत्कर्षः साधनस्यास्य तथा पुरुषकारतः । यद्दोषं गुणहानिं च दृष्ट्वापि जीवतस्त्यजन् । अपि स्वीकारकरणे तत्रोपायनकल्पनम् ॥१८॥
टीका संस्कृता
एवं पुरुषकारोपाययोरुभयोरसाधारणवैभवमवादीत् अधोभयसाधारणवैभवमाह-पुरुषकारस्येवादिना ॥ तत्तदसाधारणवैभवस्य कथनात्पुरुषकारस्योपायस्य च पृथगुपादानमकरोत् प्राक्, अथ वैभवस्योभयसाधारणत्वात्पुरुषकारस्योपायस्य च तंत्रेणोपादानं करोत्यत्र । उभयोरप्यसाधारणवैभवकथनस्थलेषु ‘उभावपि वशीकरोति’ इत्यादिना शाब्दं पुरुषकारस्वरूपं, ‘उपायकृत्यस्य स्वेनैवारोपितत्वात्’ इत्यादिना अर्थादुपायस्वरूपं चोक्तम् । अधोभयस्वरूपकथनपूर्वकं वैभवमाह-दोषं गुणहानिं च दृष्ट्वाऽनुपेक्षणमात्रं विनांगीकारस्य तयोरेवोपदात्वेन स्वीकार इति । दोषोऽकृत्यकरणादिनिषिद्धानुष्ठानं, गुणहानिर्विहिताकरणम् । एतद् द्वयमपि ‘मनोवाक्कायैः’ इत्यादिचूर्णिकया भाष्यकृदवोचत् ॥ इदं कुर्विदं मा कार्षीरिति विधिनिषेधात्मकं शास्त्रं भगवदाज्ञारूपं खलु वर्तते ‘श्रुतिस्मृतिर्ममैवाज्ञा’ इति स्वेनैवोक्तम् । एवंभूते शास्त्रे निषिद्धस्यानुष्ठानं विहितस्याननुष्ठानं च ह्यनादिकालं ‘क्षिपामि’ ‘न क्षमामि’ इति भगवन्निग्रहविषयतायाः कारणम् । एतद् द्वयमपि दृष्ट्वाऽनुपेक्षणमात्रं विनेति-आश्रयणोन्मुखचेतनगते एतद् दृष्ट्वायं माभूदितीममपरित्यज्यांगीकारमात्रं विनेत्यर्थः । अंगीकारस्य तयोरेवोपदात्वेन स्वीकारो नाम—एवंभूतदोषगुणहान्योरेवांगीकारोपयुक्तोपहारत्वेन स्वीकारः । अनुपेक्षणस्य हेतुर्दयाक्षांती । उपदात्वेन स्वीकारस्य हेतुर्वात्सल्यम् । गोमूत्रादियुक्तस्थले तृणमनश्नंती गौर्योनिनिष्क्रांतस्य वत्सस्य शरीरे हेयद्रव्यविशेषं यथा भोग्यत्वेन स्वीकरोति तथाविधो गुणः । एतद्गुणसदृशो न कश्चिद्गुणः । अत एव ‘असदृशो गुण’ इति परांकुशैरुक्तम् । भाष्यकृदपि ‘अपारकारुण्यसौशील्यवात्सल्य’ इति गुणांतरैः सहाप्येतद्व्यावृत्तिज्ञापनार्थं पुनः ‘आश्रितवात्सल्यैकजलधे’ इत्यवोचत् । इदं च वात्सल्यं मातृत्वसंबंधेनेश्वराल्लक्ष्म्यामतिशयितम् । अत एवोभावपि स्वयमंगीकारसमयेऽस्य चेतनस्य दोषगुणहानिमुपदात्वेन स्वीकुरुत इति भावः ।
टीका हिन्द्या
पुरुषकार और उपाय का वैभव माने दोष और गुणहानि को देख उपेक्षा न कर अंगीकार करनेके लिये उन को ही भेंट मानना ॥ १८ ॥ इस प्रकार पुरुषकार और उपाय दोनों के असाधारण वैभव कहा गया । अब दोनों के साधारण वैभव को कहते हैं—उस उस के असाधारण वैभव कहने से पुरुषकार और उपाय को पृथक् पृथक् लेकर कहे हैं, अब इस सूत्र में दोनों के साधारण वैभव को कहने से ‘पुरुषकारोपाय’ ऐसा इकठ्ठा लेते हैं, दोनों के असाधारण वैभव कहने के स्थल में ‘दोनों को वश करना’ इत्यादि से शाब्दतया पुरुषकारस्वरूप, और ‘उपायकृत्य को आप ही अपने ऊपर लेनेसे’ इति आर्थतया उपायस्वरूप भी कहागया । यहां उभयस्वरूप कथन पूर्वक वैभव को कहते हैं—दोष इत्यादि । दोष माने-अकृत्यकरणादि निषिद्धानुष्ठान गुणहानि माने विहित को न करना इन दोनों को ‘मन वचन और काय से’ इत्यादि चूर्णिका से श्रीरामानुजस्वामीजी कहे हैं । ‘इस को करो’ ‘इस को मत करो’ ऐसा विधिनिषेध स्वरूप शास्त्र भगवान का आज्ञा रूप है । ‘श्रुति और स्मृति हमारी ही आज्ञा है’ ऐसा प्रभु आप ही कहे हैं । एवंभूतशास्त्र में निषिद्ध को कर विहित को न करना ही अनादि काल ‘क्षिपामि’ ‘न क्षमामि’ ऐसा भगवन्निग्रह का विषय होनेका कारण है । ‘इन दोनों को देख उपेक्षा न कर’ माने-आश्रयणोन्मुख चेतन गत इन दोनों को देख ‘यह चेतन हम को नहीं चाहिये’ ऐसा कह उसे परित्याग न कर केवल अंगीकार करना मात्र नहीं प्रत्युत उन दोष और गुणहानि को उपहार समझना । उपेक्षा न करनेके हेतु दया और क्षमा हैं । भेंट समझनेका हेतु वात्सल्य है । गोमूत्रादि लगा हुआ स्थल में घास न खाने वाली गौ अपने योनिप्रदेश से निकला हुआ वत्स का ऊपरके मलको भोग्यतया जैसे आदर से चाटती है तैसा आश्रितों के दोष को भगवान भोग्यत्वेन स्वीकार करते हैं । इस गुण के सदृश और कोई गुण नहीं । इस कारण से ही ‘सदृश रहित गुणवाले’ ऐसा श्रीशठकोपसूरिजी कहे हैं । श्रीरामानुजस्वामीजी भी ‘अपार कारुण्य सौशील्य वात्सल्य’ ऐसा और गुणों के साथ वात्सल्यगुण को कह ‘आश्रितवात्सल्यैकजलधे’ ऐसा पृथक् वात्सल्यगुण की प्रशंसा किये हैं । यह वात्सल्य गुण मातृत्व संबंध से ईश्वर की अपेक्षा लक्ष्मी में अधिकतया रहता है । इस कारण दोनों अपने अपने अंगीकार करनेके समय इस चेतन के दोष और गुणहानि को भेंट समझकर अंगीकार करते हैं ।
मूलम्
उभयमप्युभयमपि निवृत्तं स्यादिति तिष्ठति यदि—उभयोरप्युभयमपि प्रसज्येत् ॥ १९ ॥
श्लोक
दोषस्य गुणहानेश्च निवृत्तिः स्यादिति स्थितौ ॥ उभयत्र प्रसज्येत गुणहानिश्च दूषणम् ॥ १९ ॥
टीका संस्कृता
एवं पुरुषकारोपायौ दोषगुणहानिनिवृत्तेः पूर्वं किमित्यंगीकुरुतः तन्निवृत्त्यनंतरमंगीकर्तव्य इति तिष्ठतश्चेत् किं स्यादित्यत आह-उभयमपीत्यारभ्य :- उभयमपीति-पुरुषकारोपायौ । उभयमपि निवृत्तं स्यादिति स्थितिर्नाम-एतदंगीकारसमये एतद्दोषगुणहान्योर्निवृत्तावंगीकार्य इति विचार्याश्रयणोन्मुखमेनमनंगीकृत्य स्थितिः । एवं स्थितावुभयोरप्युभयमपि प्रसंगो नाम-पुरुषकारस्योपायस्य च दोषगुणहान्योरुभयोरपि प्रसंगः । तथा हि-दोषस्य प्रसंगो नाम-‘त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।’ ‘अखिलजगन्मातरं’ ‘पितासि लोकस्य चराचरस्य’ इत्युक्तप्रकारेण सकलचेतनानां च निरुपाधिकमातापितृत्वादेतच्चेतनस्य गुणदोषौ यथा स्वीयौ स्यातां तथाविधे संबंधे सति गुणहानी दृष्ट्वांगीकाराकरणात्तादृशसंबंधस्य हानिप्रसंगः । गुणहानिप्रसंगो नाम-एतद्दुःखं दृष्ट्वा कृपाया अभावात्, दोषस्य भोग्यत्वेन स्वीकाराभावाच्च कृपावात्सल्यादीनां हानिप्रसंगः । अथवोभयमपि प्रसज्येदित्यत्र दोषगुणहानी नाम-अकृत्यकरणं, कृत्याकरणं । पुरुषकारस्याकृत्यकरणम्-ईश्वरोऽपि यथादोषं न पश्येत् तथा कर्तव्याया दोषनिवृत्तिं विना नांगीकुर्यामिति स्थितिः । कृत्याकरणं नाम-एतद्दोषादिकमदृष्ट्वैवैनं स्वीकृत्येश्वरेण घटयितृत्वस्य स्वकृत्यस्याकरणम् । ईश्वरस्याकृत्यकरणम्-संसारिचेतनानां दोषं दृष्ट्वाऽपरित्यज्य स्वाभाविकसंबंधहेतुनाऽद्वेषादिकमुत्पादयितुं परिवार्य संचरतः सर्वभूतसुहृदोऽस्यैतच्चेतनांगीकारसमये एतद्दोषादिनिवृत्तिं विना नांगीकुर्यामिति स्थितिः । कृत्याकरणं नाम-एतद्दोषादिकमदृष्ट्वांगीकृत्य स्वकृत्यानिष्टनिवृत्याद्यकरणम् । इदं च चेतनस्योक्ताकृत्यकरणादिवत् शास्त्रमवलंब्य नोच्यते एतत्स्वभावपर्यालोचनयोक्तम् । यद्यपि विमुखानामपि दोषगुणहानी उपदानत्वेन स्वीकृत्यांगीकारस्वभाववतोरभिमुखचेतनानामंगीकारसमये दोषादिनिवृत्तिः स्यादिति स्थितेरेव प्रथमतोऽसंभावितत्वादेतत्प्रसंगस्यावकाशो नास्ति, तथाप्येतदर्थतत्त्वानभिज्ञानामाश्रयणोन्मुखचेतनगतदोषगुणहानी निवर्तनीये इति स्थितिं विना ताभ्यां सहांगीकार एतयोरवश्यकरणीय इति ज्ञापनायैवमुक्तम् ।
टीका हिन्द्या
दोनों दोनों निवृत्त हो ऐसा मानने पर दोनों को दोनों होयंगे ॥ १९ ॥ इस प्रकार पुरुषकार और उपाय दोष और गुणहानि के रहते हुए अंगीकार क्यों करते हैं ? वह दोनों निवृत्त होनेपर ही अंगीकार करेंगे ऐसा समझकर रहेंगे तो कौन दोष होगा ? इस आकांक्षामें कहते हैं- दोनों माने-पुरुषकार और उपाय । दोनों निवृत्त हो ऐसा रहने पर माने-इस चेतन को अंगीकार करने के समय इस का दोष और गुणहानि ये दोनों निवृत्त होना चाहिये ऐसा समझकर आश्रयण उन्मुख इस चेतन को अंगीकार न करना । ऐसा रहनेपर दोनों को दोनों होयंगे माने-पुरुषकार और उपाय ये दोनों को दोष और गुणहानि दोनों होना । यह कैसे इस आकांक्षा में कहते हैं-दोष का होना माने-‘आप सबलोगों की माता और देवदेव हरि पिता हैं’ ‘अखिलजगन्माता को’, ‘लोक का पिता हो’ इस वचनानुसार सकल चेतनों के निरुपाधिक माता और पिता होने से और अपना ही हो जैसा संबंध रहनेपर इस चेतन के दोषगुणहानि को देख अंगीकार न करनेसे तादृश संबंध की हानि होगी । गुणहानि होना माने-इस चेतन के दुःख को देख कृपा न करनेसे, दोष को भोग्यतया स्वीकार न करनेसे कृपा वात्सल्य आदि गुणों की हानि होना । अथवा दोष और गुणहानि माने-अकृत्य को करना और कृत्य को न करना । पुरुषकार का अकृत्यकरण माने-ईश्वर से भी अधिक हो चेतन का दोष देख दोष निवृत्ति न होनेपर अंगीकार न करूंगी ऐसा समझकर रहना । कृत्याकरण माने-इस चेतन के दोषादि को न देखकर इस को स्वीकार कर ईश्वर के साथ मिलाना इस अपने कृत्य को न करना । ईश्वर का अकृत्यकरण माने-संसारी चेतन की नीचता को देख न छोड स्वाभाविक संबंध रूप हेतु से अद्वेषादि गुणों को उत्पादन करने को सन्मुख घेरते हुए संचार करने वाले सर्वभूतसुहृद् आप के इस चेतन को अंगीकार करनेके समय इस के दोषादि निवृत्त न होने से अंगीकार न करूंगा ऐसा समझ रहना । ईश्वर का कृत्याकरण माने-इस चेतन के दोषादि को न देख इस को स्वीकार कर स्वकृत्य रूप अनिष्टनिवृत्यादि न करना । यह चेतन के विषय में कहा हुआ अकृत्यकरणादि के सदृश शास्त्र दृष्टि से नहीं कहा जाता है परंतु लक्ष्मीनारायण के स्वभाव को देखकर कहे हैं । विमुख चेतनों के भी दोष और गुणहानि को भेंट मानकर स्वयं स्वीकार करने के स्वभाव वाले इन दोनों को, अभिमुख चेतनों के अंगीकार करने के समय दोषादि निवृत्त हो ऐसा रहना असंभव होनेसे इन दोनों में दोष और गुणहानि आनेका अवकाश नहीं । तथापि ऐसा कहना-इस अर्थस्वभाव के न जाननेवाले चेतनों को आश्रयणोन्मुख चेतनगत दोष और गुणहानि निवृत्तहोना चाहिये ऐसा न रह उन दोष और गुणहानि के साथ ही अंगीकार करना इन दोनों के अवश्य कर्तव्य है-ऐसा जनानेके लिये ।
मूलम्
उभयमपि निवृत्तमिति स्थितावस्योभयमपि प्रसज्येत् ॥ २० ॥
श्लोक
दोषस्य गुणहानेश्च निवृत्तिरस्ति चेतने ॥ स्थिते सति प्रसज्येत गुणहानिश्च दूषणम् ॥ २० ॥
टीका संस्कृता
एवं दोषादिनिवृत्तिं विना नांगीकुर्यादिति तिष्ठतो यदि तयोस्तदुभयं स्यादित्युक्त्वा दोषादिनिवृत्त्यनंतरं स्वामानंगीचकारेति स्थितावस्योभयं प्रसज्येदित्याह-उभयमपि निवृत्तमित्यादिना । उभयमपि निवृत्तमिति स्थितिर्नाम-एतावत्कालपर्यंतं मामनंगीकृत्येदानीमंगीचक्रतुर्दोषादिनिवृत्तेरेव हि तस्मान्मम ते निवृत्ते इत्यनुसंधाय स्थितिः । एवं स्थितावस्योभयोः प्रसंगो नाम-अकृत्यकरणस्य कृत्याकरणस्य च प्रसंगः । तथा हि-अस्याधिकारिणोऽनादिकालमंगीकरणमकृत्वा स्थिताविदानीमंगीचक्रतुरस्मद्दोषगुणहान्योर्निवृत्त्येत्यनुसंधानमस्याकृत्यकरणं भवति तत्करणात्, ‘नीचः पूर्तिरहितः’ ‘अमर्यादः’ ‘बुध्वा च मूढ:’ ‘अतिक्रामन्नाज्ञाम्’ इत्यादिप्रकारेणास्माकं दोषगुणहान्योः किंचिदपि न निवृत्तमिति एवं सत्यपि दोषादिकमुपदात्वेन स्वीकृत्यास्मानंगीचकारेति चानुसंधानं कृत्यं तदकरणादुभयोरपि प्रसंगः स्यात् ।
टीका हिन्द्या
दोनों निवृत्त हुए ऐसा मानें तो इस चेतन को दोनों होते हैं ॥ २० ॥ इस प्रकार दोषादि नष्ट न होनेपर अंगीकार न करेंगे ऐसा रहे तो लक्ष्मी और नारायण को दोषादि होवें ऐसा कह अनंतर चेतन दोषादि न होनेसे ही हम को अंगीकार किये हैं ऐसा माने तो इस चेतन को दोष और गुणहानि होंगे इस बात को कहते हैं—दोनों निवृत्त इत्यादि । दोनों निवृत्त हुए ऐसा मानना माने-इतना दिन हमको अंगीकार न करनेवाले आज अंगीकार किए इसका कारण हमारे दोषादि दुर्गुण निवृत्त होना ही है, इस से मैं दोषरहित हूं ऐसा समझ रहना । ऐसा माननेपर चेतन को दोनों होते हैं माने-अकृत्यकरण और कृत्याकरण इन दोनों का होना । वह इस प्रकार से-इन हमारे दोनों निवृत्त होनेसे ही अनादिकाल से अंगीकार न करने वाले अब अंगीकार किये हैं, ऐसा समझना इस अधिकारि को अकृत्य है इस को करने से अकृत्यकरण रूप दोष होता है । ‘नीच हूं’ ‘कोई गुण नहीं है’ ‘जानकर वा न जानकर’ ‘आज्ञाका उल्लंघन करनेवाला’ इत्यादि प्रकार से हमारे दोष और गुणहानि आज किंचित् भी निवृत्त न हुए ऐसा होनेपर भी दोषादि को भेंट समझकर हमको अंगीकार किये हैं ऐसा अनुसंधान करना कृत्य है, इस को नहीं करनेसे कृत्याकरणरूप दोष आता है ।
मूलम्
राक्षसीनां दोषः प्रसिद्धः ॥२१॥
श्लोक
लंकायां राक्षसीनां तु दोषराशिः प्रसिध्यति ॥ २१॥
टीका संस्कृता
एवं पुरुषकार उपायश्च दोषगुणहानी उपदानत्वेन स्वीकृत्य कुत्रांगीचक्रतुरित्यपेक्षायां तत्तदंगीकारं प्राप्तानां राक्षसीनामर्जुनस्य च दोषेषु प्रदर्शितेषु तस्सिद्धिर्भवतीति विचार्य प्रथमं राक्षसीनां दोषं प्रदर्शयति—राक्षसीनामित्यादिना । एकाक्ष्येककर्णादिप्रभृतयः शतं राक्षस्यः परहिंसालाभे आहारमपि त्यजंत्यः प्रकृष्टपापस्वभावास्तर्जनभर्त्सनादिकं दशमासपर्यंतमेकरीत्याऽकुर्वन् । दोषः प्रसिद्ध इति-श्रीरामायणप्रचारदेशे सर्वेऽपि जानंतीत्यर्थः । एवंभूतानां ‘राजसंश्रयवश्यानां’ ‘पापानां वा शुभानां वा’ इति दोषमेव गुणत्वेन प्रतिपाद्य हनूमता विवदित्वा रक्षणात् दोषमेवोपदात्वेन स्वीकृत्यांगीकारः कृत इति सिद्धमिति भावः । गुणहान्यनुक्तिर्दोषस्योपदात्वे गुणहानेस्तथात्वं कैमुत्यसिद्धमित्यभिप्रायेण । आसां गुणहानिः-निरंतरं क्लेशकरणसमये इयं वयमिव स्त्रीजातिः खल्विति वा विस्मृत्याप्यस्य हृदये दयाया अभावः, ‘भवेयं शरणं हि वः’ इत्युक्त्यनंतरं क्लेशकरणसमये हंतैवमवदत् खल्विति किंचिदपि हृदये वैक्लव्याभाव इत्यादिकम् ।
टीका हिन्द्या
राक्षसियों के दोष प्रसिद्ध हैं ॥ २१ ॥ इस प्रकार पुरुषकार और उपाय अर्थात् लक्ष्मी और नारायण दोषादियों को भेंट समझकर कहां अंगीकार किये हैं इस आकांक्षा में उन उन के अंगीकार पाये हुए राक्षसियां और अर्जुन इन के दोषों को दिखानेसे ही वह सिद्ध होगा ऐसा समझकर प्रथम राक्षसियों के दोष को दिखाते हैं—राक्षसियों के इत्यादि । एकाक्षी एककर्णी प्रभृति सात सौ राक्षसियां परहिंसा प्राप्त होनेपर अपने खाना तक को छोडने वाले पापस्वभाव वाले दशमहीना एक रीति से सीताजी को तर्जन भर्त्सन कर पीडा दिये हैं । इन का दोष प्रसिद्ध है माने—श्रीरामायण का प्रचार जिस देश में हैं उस देशवासी सभी जानते हैं । एवंभूत राक्षसियों को देख ‘राजा के आश्रित अत एव राजा के वश्य’ ‘पापी हो या पुण्यवंत हो’ ऐसा दोष को ही गुणतया प्रतिपादन कर हनुमानजी से विवाद कर रक्षा की है । इस से दोष ही को भेंट मानकर अंगीकार करना प्रसिद्ध हुआ । गुणहानि को न कहनेका कारण दोष ही को भेंट माननेवाले गुणहानि को भेंट मानेंगे इसमें कहना ही क्या ? । इन राक्षसियों की गुणहानि माने-विच्छेद विना निरंतर सीताजी को दुःख देनेके समय यह भी हमारे सदृश स्त्री है इनको दुःख देना उचित नहीं ऐसा भूलकर भी कृपा न करना । ‘हम तुम लोगों की रक्षा करेंगी’ इस बात के अनंतर अहो ऐसा हमलोगों की रक्षा करने की प्रतिज्ञा की है इन को दुःख देना उचित नहीं ऐसा समझकर कृपा करना उचित होनेपर भी दुःख ही दे रहीं ।
मूलम्
जितेंद्रियेषु मस्तकस्यास्तिकाग्रेसरस्य ‘केशवस्यात्मा’ इति कृष्णस्य धारकस्यार्जुनस्य दोषः क इति चेत्-बंधुषु स्नेहः कारुण्यं वधभीतिश्च ॥ २२ ॥
श्लोक
जितेंद्रियास्तिकाचार्ये श्रीकृष्णाराधकेऽर्जुने ॥ दोषः क इति चेत्-बन्धुस्नेहभीकरुणादयः ॥ २२ ॥
टीका संस्कृता
एवं दोषप्रसिद्धेरर्जुनेऽभावाद्गुणप्रथाया एवं सत्वादस्य दोषः को वेति शंकामनुवदन् तद्दोषान् दर्शयति–जितेंद्रियेष्वित्यादिना । जितेंद्रियेषु मस्तकस्येति–‘आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः । उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥’ इत्युक्तवैलक्षण्यविशिष्टायामुर्वश्यामाग्रहेणाभिलषंत्यां मातृत्वसंबंधमुक्त्वा नमस्कृत्य दूरतः स्थितत्वादिंद्रियजयकृत्सु स्वोत्कृष्टरहितस्येत्यर्थः । आस्तिकाग्रेसरस्येति-धर्माधर्मपरलोकेश्वरचेतनादीनां प्रतिपादकेषु शास्त्रेषु प्रामाण्यबुद्धियुक्तानामग्रेसरस्येत्यर्थः । ‘केशवस्यात्मा’ इति कृष्णस्य धारकस्येति-‘अर्जुनः केशवस्यात्मा कृष्णश्चात्मा किरीटिनः’ । इत्यन्योन्यं प्राणभूतौ वर्तेते इत्युक्तत्वादेतद्विश्लेषे यथा कृष्णस्य धारणमेव न संभवति तथाऽभिमतविषयत्वेन स्थितस्येत्यर्थः । एवं स्थितस्यार्जुनस्य दोषः क इति शंका, चेदिति तदनुवादः । दोषा उच्यंते-बंधुष्वित्यादिना । एतेषु स्नेहकारुण्ययोर्दोषत्वमस्थाने कृतत्वात्, वधभीतेर्दोषत्वं स्वधर्मेऽधर्मबुद्ध्या कृतत्वात् । ‘अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम्’ । इति यामुनाचार्याः । ‘धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः’ इत्युक्तप्रकारेण युद्धेच्छयोभयसैन्य आगत्य स्थिते सति अनंतरं युद्धमेव कर्तव्यं तद्दशायाम्-‘न कांक्षे विजयं कृष्ण ! न च राज्यं सुखानि च । किं नो राज्येन गोविंद ! किं भोगेर्जीवितेन वा ॥ येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥’ इत्यादिप्रकारेणैतान् हत्वा जीवामीति जीवनं कीदृशमिति बंधुषु कृतः स्नेहः स्ववर्णविरुद्धत्वान्निषिद्धः । ‘तान्समीक्ष्य स कौंतेयः सर्वान् बंधूनवस्थितान् । कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्॥’ इत्युक्तप्रकारेण तद्दशायां कृतं कारुण्यं यागालंभने कारुण्यवन्निषिद्धं हि । ‘कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ! ॥’ इत्यारभ्य-‘अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः ॥’ इत्यंतं स्ववर्णधर्मे वधेऽधर्मबुद्ध्या कृता भीतिश्च तथैव हि ।
टीका हिन्द्या
जितेंद्रियों में प्रधान, आस्तिकाग्रेसर, ‘केशव के आत्मा’ ऐसा कृष्ण का धारक अर्जुन को दोष क्या ? ऐसी शंका में-बंधुओं के ऊपर स्नेह, करुणा और वधभीति ये दोष हैं ॥ २२ ॥ इस तरह के दोष अर्जुन में नहीं हैं और गुण भरे हैं तो भी इन में दोष क्या ? इस शंका में उनके दोषों को दिखाते हैं—जितेंद्रियों में प्रधान इत्यादि । जितेंद्रियों में प्रधान माने-‘उस ऊर्वशी का शरीर आभरण का आभरण और अलंकार का अलंकार उपमान का उपमान है’ इस वचनानुसार सौंदर्यवती ऊर्वशी स्वयं आकर ऊपर गिरनेपर भी मातृत्व संबंध को कह प्रणाम कर हट गया है, इस कारण इंद्रियजय करनेवालों में अर्जुन से अधिक और कोई नहीं है । आस्तिकाग्रेसर माने-धर्म अधर्म परलोक चेतन ईश्वर आदि के प्रतिपादक शास्त्रों को प्रमाण मानने वालों में प्रधान होना । केशव के आत्मा माने-‘अर्जुन केशव का आत्मा है कृष्ण अर्जुन का आत्मा है’ ऐसा परस्पर प्राणभूत होने से अर्जुन के विश्लेष को कृष्ण नहीं सह सकते, इस प्रकार अभिमत विषय होने से अर्जुन को दोष क्या हैं ? यही शंका का अभिप्राय है । अब अर्जुन के दोषों को कहते हैं,-बंधुओं के ऊपर इत्यादि । इन में स्नेह और करुणा अस्थान में होनेसे दोष हुए हैं । वधभीति स्वधर्मरूप युद्ध में अधर्मबुद्धि करने से हुई है, इस लिये यह भी दोष मानीजाती है । यामुनाचार्य स्वामी जी–“अस्थान में स्नेह करुणा और धर्म में अधर्मबुद्धि से व्याकुल हुआ अर्जुन को ।’ ऐसा कहे हैं । ‘धर्मक्षेत्र कुरुक्षेत्र में युद्ध करनेकी इच्छासे मिले हुए’ ऐसा युद्ध इच्छा से दोनों तरफ की सेना आ खड़े होनेपर युद्ध करना आवश्यक है ऐसा होनेपर भी–‘हे कृष्ण ! मैं विजय, राज्य और सुख को नहीं चाहता । हे गोविंद ! राज्य भोग और जीवित से हम को क्या प्रयोजन ? ॥ जिन के लिये हम राज्य, भोग और सुख को चाहते हैं वे युद्ध में धन और प्राणों को छोड कर खड़े हैं’ इस तरह इन को संहारकर हम कैसे जी सकते हैं ऐसा बंधुओं के प्रति स्नेह करना अपने क्षत्रधर्म के विरुद्ध होनेसे निषिद्ध है । ‘वह अर्जुन युद्ध करनेके लिये उपस्थित समस्त बंधुओं को देख अत्यंत कृपा से युक्त हो शोचते हुए इस बात को कहता भया ।’ ऐसा युद्ध के समय किया हुआ कारुण्य याग में पशुहिंसा करने में करुणा करने के तरह निषिद्ध है । ‘हे जनार्दन ! कुलक्षय करने से होनेवाला दोष को देखते हुए हम लोग इस पाप से हटने को क्यों नहीं जानते ।’ ऐसा आरंभ कर-‘राज्यसुख के लोभ से अपने बंधुओं को मारने के लिये उद्यत हुए हमलोग महत्पाप करनेको तयार हुए हैं यह खेद की बात है ।’ इत्यंत स्वरूपधर्म वध में अधर्मबुद्धि से की हुई भीति भी दोष ही है ।
मूलम्
द्रौपदीपरिभवं दृष्ट्वा स्थितिः कृष्णाभिप्रायेण प्रधानदोषः ॥२३॥
श्लोक
सभायां द्रौपदीवस्त्रकर्षणादिपराभवम् ॥ दृष्ट्वा पार्थस्थितिर्दोषप्रधानं कृष्णसंमतम् ॥२३॥
टीका संस्कृता
एतत्सर्वमप्रधानं, अथ प्रधानदोषोऽन्य इत्याह–द्रौपदीत्यादिना । पूर्वं द्रौपदीं दुर्योधनादिभिः परिभूयमानां दृष्ट्वापि द्यूतेऽपजयं स्मृत्वा धर्मभीत्या क्षमया स्थितावपि-‘गोविंद ! पुण्डरीकाक्ष ! रक्ष मां शरणागताम्’ । इति कृष्णविषयकशरणागत्यनंतरं परिभवकरणसमये भगवदाश्रितानितरेषु परिभवत्सु पश्यन् शक्तश्चेन्निवारयेदशक्तश्चेद्दुःखेनान्यत्रापसर्वेदिति विशेषमर्यादां दृष्ट्वा वा स्वस्मिन् कृष्णस्य विद्यमानस्नेहपक्षपातौ विचार्य तच्छरणागतायां परिभूयमानायां पश्यन् स्थितोऽहं तन्मुखं श्वः कथं द्रक्ष्यामीति वा शीघ्रमुत्थाय निवारणं कर्तव्यं तदकृत्वा पूर्वापेक्षया कंचन विशेषं विनाऽतिष्ठत् । अयमेवास्य सर्वेभ्यो दोषेभ्यः प्राधान्येन कृष्णहृदये स्थितः । अत एव ‘कृष्णाभिप्रायेण प्रधानदोष’ इत्युच्यते । दोषस्य प्राधान्यं क्रौर्येण भवति । ‘न क्षमामि’ इति वक्तुं योग्यतया स्थितो दोषोऽयमेव ॥
टीका हिन्द्या
द्रौपदी का परिभव को देखते रहना श्रीकृष्ण के अभिप्राय से प्रधान दोष है ॥ २३ ॥ यह सभी दोष अप्रधान हैं इन से भी अधिक प्रधान दोष और है ऐसा कहते हैं-पहिले द्रौपदी को दुर्योधनादि कर्तृक परिभव को देखते हुए भी द्यूत में अपनी हार को याद कर धर्मभीति से सहनेपर भी-‘हे गोविन्द ! हे पुण्डरीकाक्ष ! शरणागत मुझ को रक्षा करो ।’ ऐसा श्रीकृष्ण के चरण में शरणागति करनेके बाद द्रौपदी के परिभव करनेपर भगवदाश्रितों के अन्यलोग कर्तृक परिभव को देखकर समर्थ हो तो रोकना चाहिये, असमर्थ हो तो दुःखित हो हट जाना चाहिए ऐसा विशेषशास्त्र की मर्यादा को विचार कर या अपने विषय में श्रीकृष्णजी का स्नेह और पक्षपात आदि को स्मरण कर उन का शरणागत द्रौपदी अपमानित होनेपर देखते रहे तो श्रीकृष्ण के मुख को [[कल्ह|कल]] मैं कैसे देख सकूंगा इति वा शीघ्र उद्यत होकर रोकना उचित है ऐसा न कर पहिलेके माफक मुख विकार रहित रहा है । यही अर्जुन में सब दोषों से प्रधानदोषतया श्रीकृष्णजी समझते हैं । इस लिये ‘श्रीकृष्णाभिप्राय से प्रधान दोष’ ऐसा श्रीलोकाचार्यस्वामी भी कहे हैं । दोष का प्राधान्य क्रौर्य से ही है । भागवतापचाररूप दोष और दोषोंके माफक नहीं ‘न क्षमामि’ ऐसा भगवान भी कहे हैं ।
मूलम्
पांडवानां च निरसनस्य प्राप्तौ स्थापनं द्रौपदीमंगलसूत्रार्थम् ॥ २४ ॥
श्लोक
पांडवानां निराकृत्यां प्राप्तायां स्थापनं च यत् ॥ द्रौपद्याः शुभसूत्रस्य रक्षणार्थं तदुच्यते ॥ २४ ॥
टीका संस्कृता
एतद्दोषक्रौर्यमुपपादयति-पांडवानां चेत्यादि । अथवाऽयं दोषः पंचानामपि तुल्यः, अत एतेषामपि निरसनं विना स्थापनं कथमिति शंकायामाह–पांडवानां चेत्यादि । प्राथमिकसंगतावर्जुनस्येत्यनुक्त्वा पांडवानामित्युक्तिरयं दोषः पंचानामपि तुल्य इति ज्ञापनायेति योजनीयम् । अनंतरसंगतौ स्वत एव संगता । परिभवितृदुर्योधनादिवत्परिभवं दृष्ट्वा स्थिता एते च निरसनीया इति चशब्देनोच्यते । निरसनस्य प्राप्तौ स्थापनमिति-एतैः कृतस्य क्रौर्यस्य मस्तकच्छेदे प्राप्ते प्राणविशिष्टत्वेन स्थापनमित्यर्थः । द्रौपदीमंगलसूत्रार्थमिति-तस्या अभिमतमंगलसूत्रानपगमार्थमित्यर्थः । [[स्वस्तकेशमस्तकदर्शनाशक्तः|विकीर्णकेशमस्तकदर्शनाशक्तः]] केवलकंठं द्रष्टुं न शक्नोति । अनेनाश्रितपरिभवितृवत्तं दृष्ट्वा स्थिता अपि निरसनीया इत्यर्थः, त एवाश्रितैः सहात्याज्यसंबंधविशिष्टाश्चेत्तदर्थं तेन रक्ष्यंते इत्यर्थश्च प्रकटितः । तथा सति एवं निरसनीयस्य नीचकृत्यं, परमरहस्योपदेशश्च किमिति कृत इत्यत आह–अर्जुनस्येत्यादि ।
टीका हिन्द्या
पांडवों को भी निरसन करना उचित होनेपर भी उनकी रक्षा करना द्रौपदी के मंगलसूत्र के लिये है ॥ २४ ॥ इस दोष की प्रधानता को उपपादन करते हैं–पांडवों को भी इत्यादि । ‘पांडवों को भी’ कहने से परिभव करनेवाले दुर्योधनादियों के सदृश परिभव को देखनेवाले पांडव भी निरसन करने योग्य हैं ऐसा अभिप्राय है । निरसन करना उचित होनेपर भी रक्षा करना माने-इन के अपराधों का उचित दंड शिरश्छेद होनेपर भी जीवित रखना । द्रौपदी का मंगलसूत्र के लिये माने-उन के अभिमत मंगलसूत्र नहीं टूटनेके लिये । विखरे केश न देख सकनेवाले शून्य कंठ को नहीं देख सकते हैं । इस से आश्रितों को परिभव करनेवालों के बराबर उस परिभव को देखते रहनेवाले भी निरसन करने योग्य हैं, वे लोग यदि आश्रितलोगों के अवर्जनीय संबंधवाले हों तो उन के लिये परमात्मा से रक्षित होवेंगे ऐसा जानना । तथा सति इस प्रकार निग्रह के पात्र अर्जुन को परमात्मा क्यों नीचकृत्य कर परमरहस्य का उपदेश किये हैं ? ऐसी आकांक्षा में कहते हैं—अर्जुन को इत्यादि ।
मूलम्
अर्जुनस्य दूत्यसारथ्यकरणं प्रपत्त्युपदेशकरणं चैतदर्थम् ॥ २५ ॥
श्लोक
पार्थस्य दौत्यसारथ्यप्रपत्त्यादिविनिरूपणम् ॥ कृष्णेन द्रौपदीभव्यसूत्रपालनहेतवे ॥ २५ ॥
टीका संस्कृता
दौत्येन गमनं – कृत्रिमबंधुत्वमुक्त्वा संधाय विरोधिबुद्धिभेदं जनयित्वा युद्धं प्रवर्तयितुम् । सारथ्यकरणं-आयुधधारणं न कर्तव्यमित्युक्तत्वाद्वधपरिकर रहितमश्वप्रवर्तनरूपं वधपरिकरं कृत्वा भारतयुद्धे समस्तसेनां च महापृथिव्यां शमयितुम् । प्रपत्त्युपदेशकरणं च-‘न योत्स्यामि’ इति स्थितं यथा ‘करिष्ये वचनं तव’ इति वदेत्तथा तं कृत्वा युद्धे प्रवर्तयितुम् । एतत्सर्वं शरणागताया अस्याः संकल्पप्रकारेण दुर्योधनादीन्नाशयित्वैतत्केशबंधनार्थं कृतम् । तस्मादर्जुनविषये कृतं दूत्यादित्रयं चैतदर्थमकरोदित्युक्तम् । पांडवानां चेत्यारभ्यैतावता पूर्वोक्तप्रधानदोषक्रौर्यमुपपादितम् । तथाचैवमस्थानस्नेहकारुण्यादिषु शरणागतपरिभवं दृष्ट्वा स्थितिरूपे महादोषे चास्य सत्सु-‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥’ इत्येतद्विषये प्रीतिपूर्वकमुक्तत्वादेतद्दोषस्योपदात्वेन स्वीकारेणांगीकारः सिद्ध इति भावः । गुणहान्यनुक्तिर्दोषस्योपदात्वे गुणहानेरुपदात्वस्य किंपुनर्न्यायसिद्धत्वात् । अस्य गुणहानिर्नाम-‘तस्माद्युध्यस्व भारत’ इत्युक्ते तदानीमेव ‘करिष्ये वचनं तव’ इत्युत्थाय स्वकृत्यस्य युद्धस्याकरणं, कृष्णशरणागतायाः परिभवं दृष्ट्वा स्थितोऽहम्-इति च मनस्यनुतापलेशाभाव एतत्प्रभृतयः । दूत्यसारथ्यकरणं प्रपत्त्युपदेशकरणं चैतदर्थं यदि, एतद्दोषमुपदात्वेन स्वीकृत्यांगीचकारेति न संभवतीति चेत्तत्र न विरोधः–एतत् कार्यार्थममुद्दिश्यैतेषां करणेऽप्येतद्दोषं दृष्ट्वा मुखविकारं विना प्रीतियुक्तत्वात् । अर्जुनविषये आचार्यकृत्यादीनामारोपणसमये तद्दोषमुपदात्वेन स्वीकृत्य सारथित्वेन निरंतरं मिलित्वा कार्यकरणप्रभृतीनां सत्वात्-अज्ञातार्थानित्यादिना-आश्रयणसौकर्यापादका वात्सल्यादिगुणाः सूचिताः । अत्र दूत्यसारथ्यकरणमित्यनेन-‘अस्मान् वेत्थ परान् वेत्थ वेत्थार्थान् वेत्थ भाषितुम् । यद्यदस्माद्धितं कृष्ण ! तत्तद्वाच्यः सुयोधनः ॥’ इत्युक्तप्रकारेण कार्याकार्यज्ञस्य स्वस्य गमनेन विना कार्यसिद्धिर्न स्यादित्यनुं रक्षितुं स्वस्य दौत्येन गमनस्य, आयुधग्रहणं न कर्तव्यमित्युक्तत्वात् सारथ्ये प्रवृत्तेन कृतस्य रथचरणेन प्रतिपक्षनाशनस्य च भानादाश्रितकार्यापादका ज्ञानशक्त्यादयः सूचिताः । किंच, प्रपत्त्युपदेशकरणं चेत्युक्त्या—चरमश्लोके ‘माम्’ ‘अहम्’ इति पदाभ्यामुच्यमान उभयविधगुणश्च सूचितः । अतः पुरुषकारवैभवोक्तिस्थले श्रीमत्पदार्थवदुपायवैभवकथनस्थले नारायणपदार्थः प्रकटितः । उपायत्वकथनात् ‘चरणौ शरणम्’ इत्येतदपि सूचितम् । एवमितिहासश्रेष्ठेत्यारभ्यैतावत्पर्यंतं श्रीरामायणमहाभारतोक्ताः पुरुषकारोपायवैभवास्तत्तत्स्वरूपाभ्यां विशदं प्रतिपादिताः ।
टीका हिन्द्या
अर्जुन को दूत्यसारथ्य कर प्रपत्त्युपदेश करना द्रौपदी के लिये है ॥ २५ ॥ दूत्य करना-‘असत्य संबंध को कहते हुए जाकर बुद्धिभेदकर युद्ध करानेके लिये’ । सारथ्य करना-आयुध नहीं लेना ऐसा कहने से आयुध न होने वाले चाबुक को हिलाकर भारतयुद्ध में सब सेना को भूमि में गिरानेके लिये है । प्रपत्त्युपदेश करना-‘युद्ध न करूंगा’ ऐसा कहने वाले अर्जुन को ‘आपके वचनानुसार करूंगा’ ऐसा कहवाकर युद्ध में प्रवृत्त करने के लिये है । यह सब करना-शरणागता द्रौपदी के संकल्पानुसार दुर्योधनादियों को नाश कर द्रौपदी के केश को बांधने के लिये ही है । तथा च अर्जुन के विषय में किये हुए दूत्य आदि तीनों द्रौपदी के लिये किये हैं ऐसा समझना । पांडवों को इत्यादि एतत्पर्यंत पूर्वोक्त प्रधानदोष का क्रौर्य कहागया । तथाच इस प्रकार अस्थानस्नेहादि, और आश्रित परिभव को देखते रहना रूप महादोष अर्जुन में होनेपर भी-‘हे अर्जुन ! तुम हमारे प्रिय हो और दृढ हो इस लिये तुमारे हित, सब रहस्यों में श्रेष्ठ हमारे उत्तम वचन को सुनो ॥ हमारे में मन को लगाओ, हमारे भक्त होओ, हमारी आराधना करो; हम को प्रणाम करो हम ही को प्राप्त होओगे तुम हमारे प्रिय हो, मैं प्रतिज्ञा करता हूं ।’ ऐसा अर्जुन के ऊपर प्रीति से कहे हैं । इस कारण इन के दोषों को भेंट समझकर अंगीकार किये हैं । गुणहानि नहीं कहना-दोष ही भेंट होनेपर गुणहानि का भेंट होना कैमुत्यसिद्ध है । इस की गुणहानि-‘इस कारण हे अर्जुन ! युद्ध करो’ ऐसा गीता के द्वितीय अध्याय के प्रारंभ में कहने के बखत ही ‘आप की वचनानुसार मैं करूंगा’ ऐसा उद्यत होकर अपने कृत्य युद्ध को न करना, श्रीकृष्ण के शरणागत द्रौपदी के परिभव को हम देखते रहे ऐसा स्वल्प अनुताप भी मन में न होना आदि । दूत्यसारथ्य कर प्रपत्त्युपदेश करना द्रौपदी के वास्ते हो तो ‘अर्जुन के दोष को भेंट मानकर स्वीकार किया’ ऐसा कहना असंगत है, इस आकांक्षा में कहते हैं—द्रौपदी के कार्यार्थ अर्जुन को उद्देशकर सब कुछ करनेपर इन के दोषों को देख मुखविकार रहित संतोषपूर्वक करनेसे विरोध नहीं । अर्जुन को उद्देश कर आचार्यकृत्यों को अपने ऊपर लेनेके समय उनके दोष को भेंट मान, सारथी हो अविरूप से मिलना इत्यादि होनेसे-‘अज्ञात अर्थों को’ इत्यादि से आश्रयणसौकर्यापादक वात्सल्यादि गुण सूचित हैं । यहांपर ‘दूत्य सारथ्य करना’ इस से ‘हम को जानते हो और शत्रुओं को जानते हो अर्थ को जानते हो भाषण करने को जानते हो, हे कृष्ण ! जो जो हमारा हित है वही सुयोधन से कहो’ इस वचनानुसार कार्य और अकार्य को जाननेवाले आप के गये बिना कार्य सिद्ध न होगा ऐसा समझ पांडवों की रक्षा करनेके लिये दूत्य करना, आयुध नहीं लेना ऐसा कहनेपर सारथ्यकृत्य में प्रवृत्त हो रथ के चक्र से शत्रुओं का नाश करना भी सूचित होनेसे आश्रितकार्यापादक ज्ञानशक्त्यादि गुण सूचित हैं । ‘प्रपत्त्युपदेश करना’ ऐसा कहने से चरमश्लोक के ‘माम्’ ‘अहम्’ इन पदों से कहे जानेवाले उभयविध गुण भी सूचित हैं । इस कारण पुरुषकारवैभव कहनेके स्थल में ‘श्रीमत्’ पद का अर्थ जैसे प्रकटित हुआ वैसे उपायवैभव कहने के स्थल में नारायणपद का अर्थ भी सूचित हुआ । उपायत्व कहने से ‘चरणौ शरणम्’ इनका अर्थ भी सूचित हुआ । तथाच ‘इतिहासश्रेष्ठ’ ऐसा प्रारंभकर यहां तक श्रीरामायण और महाभारत में कहे हुए पुरुषकार और उपाय का वैभव उन उन के स्वरूपों के साथ विशदतया कहेगये हैं ।
मूलम्
प्रपत्तेर्देशनियमः कालनियमोऽधिकारिनियमः फलनियमश्च नास्ति ॥ २६ ॥
श्लोक
देशकालाधिकर्तॄणां फलप्रकारयोस्तथा ॥२६॥ प्रपत्तौ नियमो नास्ति विषयस्य तु विद्यते ॥२७॥
टीका संस्कृता
पूर्वोकोपायस्य स्वीकाररूपायाः ‘प्रपत्त्युपदेशकरणम्’ इति प्रासंगिकत्वेन प्रस्तुतायाः प्रपत्तेः प्रकारं विस्तरेण वदत्युपरि । तत्र प्रथममर्जुनस्य प्रपत्त्युपदेशकरणसमये युद्धभूम्यां कंचन कालविशेषं चाविचार्य स्नानादिकं च विना स्थितस्योपदेशं कथमकरोत्, अस्य देशादिनियमा न संति किमिति शंकायामाह-प्रपत्तेरित्यादिना । प्रपत्तिर्नाम-भगवच्छरणवरणम् । देशनियमो नाम-पुण्यदेशेषु कर्तव्याऽन्यदेशेषु नेति नियमः । कालनियमो नाम-संक्रांत्यादिकालेषु कर्तव्याऽन्यकालेषु नेति नियमः । प्रकारनियमो नाम-स्नानपादप्रक्षालनादिपूर्वकं कर्तव्या प्रकारांतरेण नेति नियमः । अधिकारिनियमो नाम-त्रैवर्णिका अधिकारिणोऽत्रैवर्णिका न संभवंतीति नियमः । फलनियमो नाम-दृष्टादृष्टफलेष्वस्य फलस्य साधनमन्यस्य न भवतीति नियमः । देशकालसागुण्यवैगुण्यप्रयुक्तातिशयानतिशययोरभिन्नत्वात्, तीर्थेऽवगाहनसमये शुद्धाशुद्धविभागं विना यथावगाहनयोग्यो भवति, एवं स्वयं पवित्रत्वेन शुद्धाशुद्धविभागं विना स्वेनान्वययोग्यत्वात्, वर्णाद्यनुपाधिलक्षणत्वेन स्वरूपानुरूपत्वात्, चेतनरुच्यनुगुणफलविशेषसाधनत्वाच्चैते नियमा न संतीत्यर्थः । ‘न जातिभेदं न कुलं न लिंगं न गुणक्रियाः । न देशकालौ नावस्थां योगो ह्ययमपेक्षते ॥’ ‘ब्रह्मक्षत्रविशः शूद्राः स्त्रियांत्यजातयः । सर्व एव प्रपद्येरन् सर्वधातारमच्युतम् ॥’ इति प्रपत्तेर्देशकालप्रकाराधिकारिनियमाभावो भारद्वाजसंहितायाम्, ‘प्रपत्तेः क्वचिदप्येवं परापेक्षा न विद्यते । सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥’ इति फलनियमाभावः सनत्कुमारसंहितायां चोक्तः ।
टीका हिन्द्या
प्रपत्ति का देशनियम, कालनियम, प्रकारनियम, अधिकारिनियम और फलनियम भी नहीं हैं ॥ २६ ॥ पूर्वोक्त उपाय का स्वीकाररूप ‘प्रपत्त्युपदेश करना’ इस प्रसंग से प्रस्तुत प्रपत्ति के प्रकार को विस्तारपूर्वक कहते हैं, उस में प्रथम अर्जुन को प्रपत्त्युपदेश करने के समय युद्धस्थल में कालविशेष को न देख स्नानादिनियमरहित अर्जुन को उपदेश कैसे किये, प्रपत्ति के लिये देशकालादि का नियम नहीं है क्या ? ऐसी शंका में कहते हैं—प्रपत्ति का इत्यादि । प्रपत्ति माने-भगवान् को उपायतया स्वीकार करना । देशनियम माने-पुण्यदेशों में करना अन्यदेशों में न करना । कालनियम माने-संक्रांत्यादिकालेषु करना और कालों में न करना । प्रकारनियम माने-स्नान पादप्रक्षालन पूर्वक करना अन्यप्रकार से न करना । अधिकारिनियम माने-त्रैवर्णिक ही करसक्ते हैं अत्रैवर्णिक नहीं करसक्ते ऐसा नियम होना । फलनियम माने-दृष्टादृष्टफलों में अमुकफल का साधन होना और फल का साधन न होना । देशकालसागुण्यवैगुण्य हेतु से होनेवाले अतिशय और अनतिशय रहित होने से तीर्थ में स्नान करनेके समय शुद्ध हो वा अशुद्ध हो सभी जैसे स्नान करते हैं तैसे शुद्धाशुद्ध विभाग बिना प्रपत्ति करने के योग्य होनेसे, वर्णाश्रमानुरूप न हो स्वरूपानुरूप होनेसे चेतनोंकी रुचि अनुसार फलों का साधन होनेसे पूर्वोक्त नियम इस को नहीं हैं । ‘यह प्रपत्ति जातिभेद, कुल, आश्रम, शमदमादि, कर्मानुष्ठान, देश, काल और बाल्यादि अवस्थाओं को नहीं चाहती है ।’ ‘ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, स्त्री और [[अवतरजाति|अंत्यजाति]] यह सभी सब के सृष्टिकर्ता परमात्मा की प्रपत्ति करसकते हैं’ ऐसा प्रपत्ति का देश काल प्रकार अधिकारि नियमाभाव को भारद्वाज संहिता में कहा है । ‘प्रपत्ति को कहीं भी और उपायों के तरह परापेक्षा नहीं है । यह प्रपत्ति सर्वदेश में सर्वकाल में सब लोगों को सर्वाभीष्ट फल देती है ।’ ऐसा फलनियमाभाव को सनत्कुमार संहिता में कहा है ।
मूलम्
विषयनियम एवास्ति ॥ २७ ॥
श्लोक
देशकालाधिकर्तॄणां फलप्रकारयोस्तथा ॥२६॥ प्रपत्तौ नियमो नास्ति विषयस्य तु विद्यते ॥२७॥
टीका संस्कृता
एतदभावेऽन्ये केचन नियमाः संति किमत आह-विषयेत्यादि-अस्मिन् विषये कर्तव्येति नियम एवास्या अस्तीत्यर्थः । एतत्सर्वं स्वयमेवोपपादयिष्यति । अस्या एतेषामभावे पुनः कस्यैते संतीत्यत आह-कर्मण इत्यादि ।
टीका हिन्द्या
विषय नियम ही है ॥ २७ ॥ ये नियम न होने पर भी और कोई नियम इस प्रपत्ति को है क्या ? इस आकांक्षा में कहते हैं-विषय नियम इत्यादि । विषय नियम माने-अमुक विषय में कर्तव्य ऐसा नियम ही इस का है । यह सब बातें श्रीलोकाचार्य स्वामी स्वयं आगे कहेंगे । इस प्रपत्ति को ये नियम नहीं हैं तो और किस को यह सब नियम हैं ? इस आकांक्षा में कहते हैं–कर्म का इत्यादि ।
मूलम्
कर्मणः पुण्यक्षेत्रं वसंतादि कालः शास्त्रोक्तास्तत्तत्प्रकारास्त्रैवर्णिका इत्येते सर्वे व्यवस्थिताः ॥ २८ ॥
श्लोक
पुण्यदेशः सुकालश्च प्रकाराः शास्त्रचोदिताः ॥ त्रैवर्णिका इतीमे हि कर्मणि सुव्यवस्थिताः ॥२८॥
टीका संस्कृता
कर्म-ज्योतिष्टोमादयः । पुण्यक्षेत्राणि नाम-शास्त्रेषु पावनतयाऽभिहिता देशाः । वसंतादीत्यत्रादिना-ग्रीष्मशरच्छुक्लपक्षकृष्णपक्षपूर्वाह्नापराह्नादिकाला उच्यंते । ‘वसंते वसंते ज्योतिषा यजेत’ इत्यादिना कालनियम उक्तः । शास्त्रोक्तास्तत्तत्प्रकाराः-शौचाचमनस्नानव्रतजपादिरूपेण तत्तत्कर्मानुगुण्येन शास्त्रविहितास्तत्तत्प्रकाराः । त्रैवर्णिका इति-उपनयनसंस्कारपूर्वकं वेदाधिकारिणामेव वैदिककर्माधिकारित्वात् । इदं च गृहमेधित्वकृष्णकेशित्ववेदवेदांगयुक्तत्वादीनामुपलक्षणम् । व्यवस्थिता इति-नियता इत्यर्थः ।
टीका हिन्द्या
कर्म का पुण्यक्षेत्र, वसंतादि काल, शास्त्रोक्त तत्तत्प्रकार और त्रैवर्णिक कहे हैं ऐसा ये सब व्यवस्थित हैं ॥ २८ ॥ कर्म माने-ज्योतिष्टोमयागादि । पुण्यक्षेत्र माने-शास्त्रों में कहे जानेवाले देश । ‘वंसतादि’ आदि शब्द से ग्रीष्म शरत्, शुक्लपक्ष, कृष्णपक्ष, पूर्वाह्न, अपराह्न आदि कालों को जानना । ‘प्रतिवसंत में अग्निष्टोमयाग करें’ इत्यादियों से कालनियम कहागया । शास्त्रोक्त तत्तत्प्रकार माने-शौच, आचमन स्नान, व्रत, जपादिरूप से तत्तत्कर्मानुगुण शास्त्रविहित तत्तत्प्रकार हैं । उपनयन संस्कार पूर्वक वेद के अधिकारियों को ही वैदिककर्माधिकार होनेसे ‘त्रैवर्णिक’ ऐसा कहा । यह गृहस्थत्व, कृष्णकेशित्व और वेदवेदांगयुक्तत्व को भी दिखाता है । व्यवस्थित हैं माने-नियत कर्तव्य हैं ।
मूलम्
‘स एष देशः कालश्च’ इत्युक्तत्वादस्या देशकालनियमो नास्ति ॥ २९ ॥
श्लोक
स एष देशः कालो वेत्यादिवाल्मीकिवाक्यतः । प्रपत्तौ देशकालाभ्यां नियमो न प्रकाशते ॥ २९ ॥
टीका संस्कृता
प्रपत्तेरेषु कोऽपि नास्तीति पूर्वं कृतां प्रतिज्ञामुपपादयितुं प्रवृत्तः प्रथमं देशकालनियमभावमुपपादयति-स एष इत्यारभ्य । ‘बद्धवैराच्च पापाच्च राक्षसेंद्राद्विभीषणः । अदेशकाले संप्राप्तः सर्वथा संशय्यतामयम् ॥’ इति पूर्वं श्रीजांबवता महाराजेन च भगवंतं प्रति विज्ञापितं पक्षं दूषयन् मारुतिः–‘अदेशकाले संप्राप्त इत्ययं स विभीषणः । विवक्षा चात्र मेऽस्तीमां तां निबोध यथामति ॥ स एष देशः कालश्च भवतीह यथातथा । पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि ॥ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि । युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥’ इति रावणादवमानितः स्वनिकर्षं पुरस्कृत्य शरणमित्यागतो विभीषणसूरिरदेशकाले चागत इति भवतो मंत्रिभिर्यदुक्तमस्मिन् पक्षे विशिष्य ममेय विवक्षा जाता-स आगमनसमये यस्मिन् देशे यस्मिन् काले चागतः तस्यागमनस्य स एव देशश्च स एव कालश्च स्याद्यथा तादृशी विवक्षा मया ज्ञातव्येति विज्ञापनमाना श्रोतव्या । कथमिति चेत्-तमः प्रकृतिकत्वात्परहिंसैकयात्राद्रावणाद्विलक्षणे सत्त्वोत्कृष्टत्वात्पररक्षणैकयात्रे भवति प्राप्यत्वेन बुद्धिं कृत्वा, तथैव तं विहायानागमने तत्कृत्यस्य सहकारित्वेन तस्यातिकूल्येन नाशरूपं दोषं धार्मिकस्य तव संगत्या तत्फलं भवच्चरणयोः कैंकर्यं प्राप्याभिवृद्धिरूपं गुणं च बुध्वा तथैव भवद्धृदये व्रणं यथा स्यात्तथाऽपराधं पूर्णं कृत्वा स्थितस्य रावणस्य दौरात्म्यं, दुरात्मनोऽनायासेन नाशयितुं शक्तस्य भवतः पुंस्त्वं च पश्यति चेत् विशेषज्ञस्यास्येदमागमनं प्राप्तं, न्याये संचरतोऽस्य बुद्धेः सदृशमित्यवोचत् । एवमेतादृशभावशुद्धिमतः श्रीविभीषणस्य शरणमित्यागमनदेशकालयोर्न्यूनता न द्रष्टव्या तस्यागमनमेव देशकालश्चेति शरणागतिधर्मज्ञेन हनूमता निर्णीतत्वात्प्रपत्तेर्देशकालनियमो नास्तीत्यर्थः ।
टीका हिन्द्या
‘वही यह देश और काल हैं’ ऐसा कहने से इस को देशकालनियम नहीं ॥ २९ ॥ प्रपत्ति को इनमें कुछ आवश्यक नहीं, ऐसा की हुई प्रतिज्ञा को उपपादन करनेके लिये प्रवृत्त हो पहिले देशकालनियमाभाव को कहते हैं—‘वही यह’ इत्यादि । ‘बद्धवैर पापी रावण से विभीषण अदेश और अकाल में प्राप्त हुआ इस लिये सर्वथा संदेह करनेके योग्य है ।’ ऐसा प्रथम श्रीजाम्बवान् और सुग्रीव श्रीरामजी से विज्ञापन किये थे । इस पक्ष को दूषण करनेवाले हनुमान-‘वह विभीषण अदेश और अकाल में प्राप्त हुआ है इस विषय में मुझे कुछ कहने की इच्छा है उस को आप सुनिये ।’ ‘जैसा वही देश और वही काल होता है वैसा एक पुरुष से दूसरे पुरुष को प्राप्त हो दोष और गुण होते हैं ।’ ‘रावण में दोष देख और आप में पराक्रम देख विभीषण का आगमन उचित है और उस के बुद्धि के अनुगुण भी है ।’ ऐसा रावण से अपमानित हो अपनी नीचता को आगे कर शरण लिया हुआ विभीषणसूरि अदेश और अकाल में आया है ऐसा आपके मंत्रियों से कहागया इस पक्ष में हम को कहने की इच्छा होती है, विभीषण आनेके समय जिस देश और काल में आया है, उस का आगमन का वह देश यही है, वह काल यही है इस बात को यथामति मेरे विज्ञापन करनेपर आप श्रवण करेंगे । तथाच–तामसप्रकृति होनेसे परहिंसा को ही देहयात्रा माननेवाले रावण की अपेक्षा सत्त्वोत्कृष्ट होनेसे पररक्षण ही को देहयात्रा माननेवाले आपको प्राप्य समझकर, वैसा ही रावण को नहीं छोडनेपर उस के अकृत्य का सहकारी हो उस के प्रातिकूल्य के साथ मैं नष्ट होजाऊंगा ऐसा इस दोष को भी, धर्मात्मा आप के साथ मिलनेपर उस का फल आप के चरणों में कैंकर्य प्राप्त हो उज्जीवित होऊंगा रूप गुण को भी विचार कर, तैसा ही आप के हृदय में दुःख हो जैसा अत्यंत पापी रावण की दुष्टता को, दुरात्माओं को अनायास से नाश करनेके समर्थ आप की वीरता को भी देखनेपर विशेषज्ञ विभीषण का यह आगमन उचित है और न्याय में चलनेवाली उस की बुद्धि के अनुरूप भी है ऐसा हनुमानजी ने कहा है । तथाच-इस प्रकार शुद्ध भाववाले विभीषण शरण कह आया हुआ देशकालों में दोष नहीं देखना चाहिये, उस विभीषण का आगमन ही देश और काल है ऐसा शरणागतिधर्मज्ञ हनुमान के निर्णय करनेसे प्रपत्ति का देशकाल नियम नहीं यह सिद्ध हुआ ।
मूलम्
अयमर्थो मंत्ररत्ने प्रथमपदे द्रष्टव्यः ॥३०॥
श्लोक
मंत्ररत्नाद्यपादे यन्मतुपा योग उच्यते । तच्छ्रीसांनिध्यभावेन सुदेशादेरमृग्यता ॥३०॥
टीका संस्कृता
अयं च प्रपत्त्यनुष्ठानरूपे द्वये प्रथमपदे ज्ञातुं शक्य इत्याह-अयमर्थ इति । सकलोपनिषत्सारत्वात्सर्वाधिकारत्वादविलंबेन फलप्रदत्वात्सर्वेश्वरस्यात्यंताभिमतत्वात्सर्वमंत्रांतरेभ्य उत्कृष्टतया ‘द्वयेन मंत्ररत्नेन’ इत्युक्तप्रकारेण मंत्ररत्नाख्यं भवति द्वयम् । तादृशवैभवस्फोरणार्थं द्वय इत्यनुक्त्वा मंत्ररत्न इत्याह । तत्र प्रथमपदे मतुबर्थपुरुषकारोपायनित्ययोगस्य प्रयोजनं यस्मिन् कस्मिंश्चिद्देशे यस्मिन् कस्मिंश्चित्काले यस्य कस्यचिच्चेतनस्य भगवत्समाश्रयणरुच्युत्पत्तौ ‘चंचलं हि मनः’ ‘स्थितप्रकारेणातिष्ठन्मनः’ इत्युक्तप्रकारेण वात्यावत्परिभ्रमति मनसि क्षेत्रे सत्यंकुरितायाः क्षणभंगुराया रुचेः शोषणात्पूर्वं तदुत्पत्तिक्षण आश्रयणयोग्यत्वम् । अतएव प्रपत्तेर्देशकालनियमराहित्यं तस्मिन्पदे सम्यक्प्रकाशते इत्याह ।
टीका हिन्द्या
यह अर्थ मंत्ररत्न के प्रथमपद में स्पष्ट है ॥ ३० ॥ यह प्रपत्त्यनुष्ठानरूप द्वयमंत्र के प्रथम पद में देख सकते हैं ऐसा कहते हैं-यह अर्थ इत्यादि से । सकलोपनिषत्सार, सर्वाधिकार, शीघ्रफलप्रद, सर्वेश्वर के अत्यंत अभिमत होनेसे सब मंत्रों में उत्कृष्टतया ‘द्वयरूप मंत्ररत्न से’ ऐसा मंत्ररत्ननाम से द्वयमंत्र प्रसिद्ध है । उस वैभव को जनाने के लिये द्वय ऐसा न कह ‘मंत्ररत्न’ कहा । उस के प्रथमपद में मतुबर्थ पुरुषकार और उपाय के नित्यसंबंध का प्रयोजन-किसी देश किसी काल में किसी संसारी चेतन को भगवत्समाश्रयण की रुचि उत्पन्न हो तो ‘मन चंचल है’, ‘स्थितप्रकार में मन नहीं रहता’ ऐसा [[झंझामारुत|झंझावात]] के सदृश घूमनेवाला मनरूप क्षेत्र में अंकुरित क्षणभंगुर रुचि नष्ट होनेके पहिले रुच्युत्पत्तिक्षण में आश्रयण करनेके योग्य होना । इस कारण से प्रपत्ति का देशकालनियमाभाव है ऐसा उस पद में स्पष्ट मालूम होता है ।
मूलम्
प्रकारनियतिर्नास्तीत्यर्थः सर्वत्र द्रष्टुं शक्यते ॥ ३१॥
श्लोक
प्रकारनियतिर्नास्ति द्रष्टुं सर्वत्र शक्यते ॥ ३१ ॥ द्रौपदी स्नानहीना हि प्रपत्तिमकरोत्सती । नीचमध्ये च शुश्राव पार्थोऽमुमर्थगह्वरम् ॥३२॥
टीका संस्कृता
प्रकारनियमराहित्यं प्रदर्शयति-प्रकारनियतिरित्यादिना । सर्वत्र द्रष्टुं शक्यत इति-अस्यां प्रपत्तावनुष्ठातृषु श्रोतृषु सर्वत्र द्रष्टुं शक्यत इत्यर्थः ।
टीका हिन्द्या
प्रकारनियमरहितता को सर्वत्र देख सकते हैं ॥ ३१ ॥ प्रकारनियमाभाव को दिखाते हैं—प्रकारनियम इत्यादि से । सर्वत्र देख सकते हैं-प्रपत्ति करनेवाले और सुननेवाले सब लोगों में देख सकते हैं ।
मूलम्
द्रौपदी स्नाता न खलु प्रपत्तिमकरोत्, अर्जुनो नीचमध्येष्वमुमर्थमशृणोत् ॥३२॥
श्लोक
प्रकारनियतिर्नास्ति द्रष्टुं सर्वत्र शक्यते ॥ ३१ ॥ द्रौपदी स्नानहीना हि प्रपत्तिमकरोत्सती । नीचमध्ये च शुश्राव पार्थोऽमुमर्थगह्वरम् ॥३२॥
टीका संस्कृता
स कुत्र दृष्ट इत्यतः पूर्वप्रकृतविषययोर्दर्शयति-द्रौपदीत्यादिवाक्यद्वयेन । स्नाता न खलु प्रपत्तिमकरोदिति-दुःशासनाकृष्टायाः सभाप्रवेशसमये । ‘रजस्वलैकवस्त्राहं न मां नेतुमर्हसि । गुरूणां पुरतः स्थातुं सभायां नाहमुत्सहे ॥’ इत्यशुद्धा सत्यपि स्नानमकृत्वा प्रपत्तिमकरोदित्यर्थः । अनेन प्रपत्त्यनुष्ठातृषु प्रयतैः कर्तव्येति नियमाभावो दर्शितः । नीचमध्येऽमुमर्थमशृणोदित्यत्र नीचेति ‘महावैभवानभिज्ञाः परास्त एव नीचा’ इति दिव्यसूर्युक्ताः शौरिविषयविमुखा हेया उच्यंते । ‘विष्णुभक्तिविहीनस्तु यतिश्च श्वपचाधमः ॥’ ‘विप्राद् द्विषड्गुणयुतादरविंदनाभ-पादारविंदविमुखाच्छ्वपचं वरिष्ठम् ॥’ इति भगवद्विमुखाः श्वपचाधमा उक्ताः । तदुपरि शरणागतां परिभाव्य शरणागतपाण्डवविषये उपद्रवान् कृत्वा वर्तमानत्वात् ‘सद्यश्चांडालतां भजेत्’ इत्युक्तप्रकारेण कर्मचंडालाः खलु मिलित्वा स्थिताः । ‘नीचमध्ये’ इत्युक्तत्वान्नीचस्पृष्ट्याऽस्यागताऽशुद्धिर्नीचप्रकाशा इत्यर्थश्च ज्ञायते । अनेन प्रपत्तिश्रवणं नीचमध्ये न संभवतीति नियमभावो दर्शितः ।
टीका हिन्द्या
द्रौपदी स्नान करके नहीं प्रपत्ति को की है, अर्जुन नीचों के बीच में इस अर्थ को सुना है ॥ ३२ ॥ वह कहां देखे हैं इस आकांक्षा में पूर्वप्रस्तुत विषयों में दिखाते हैं-द्रौपदी इत्यादि से । स्नानकर नहीं प्रपत्ति की है माने-दुःशासन से खिंची हुई सभा में आनेके समय-‘मैं रजस्वला और एक वस्त्र हूं हमें सभा में नहीं लेजाओ मैं वहां बड़ों के सामने खड़ी होने योग्य नहीं हूं ।’ ऐसा अपवित्र द्रौपदी स्नान के विना ही प्रपत्ति की है, इस कारण प्रपत्ति का अनुष्ठान करने वालों को शुद्ध हो प्रपत्ति करना इस नियमाभाव को दिखाये हैं । नीचों के बीच में इस अर्थ को सुना है, इस वाक्य में नीच माने-‘महावैभव को न जाननेवाले ही नीच हैं’ ऐसा परकालसूरि से कहे हुए परमात्मा के विमुख और हेय चेतन हैं । ‘विष्णुभक्ति रहित यति (संन्यासी) भी श्वपच (चांडाल) से नीच है ।’ ‘षड्गुण (अध्ययन अध्यापन यजन याजन दान और प्रतिग्रह) विशिष्ट कमलनाभ के पादारविंदयुगल से विमुख ब्राह्मण के अपेक्षा चांडाल को श्रेष्ठ मानना ।’ ऐसा भगवद्विमुखों को चांडाल से नीच कहा है । तदुपरि शरणागता द्रौपदी को परिभव कर शरणागतपांडवों के विषय में बुराइयां करने से ‘उसी वखत चांडालता को प्राप्तहोता है’ इस वचनानुसार सब ही कर्मचांडाल इकट्ठा हुए हैं । ‘नीचों के बीच में’ ऐसा कहनेसे-नीचस्पर्श से अर्जुन को हुई अशुद्धि नीचसमीप में हुई जानना । इस से प्रपत्ति का श्रवण नीचों के बीच में नहीं करना चाहिये इस नियम के अभाव के दिखाये हैं ।
मूलम्
तस्माच्छुध्यशुद्धी उभे अपि न संपाद्ये, स्थितप्रकारेणैवाधिकारी भवति ॥३३॥
श्लोक
शुध्यशुद्धी न संपादये तस्मात्स्वस्मात्कदाचन । स्थितप्रकारेणैवात्राधिकारी सर्वसंमतः ॥ ३३ ॥
टीका संस्कृता
निगमयति-तस्मादित्यादि ॥ अनेन फलितं वदन् तस्मादिति-अनुष्ठानदशायां श्रवणदशायां चैताभ्यां द्वाभ्यामेवं कृतत्वादित्यर्थः । शुद्ध्यशुद्धी उभे अपि न संपाद्ये इति-प्रपत्तावन्वयसमयेऽशुद्धस्य सतः शुद्धिर्न संपाद्या, शुद्धस्य सतोऽशुद्धिर्न संपाद्येत्यर्थः । अशुद्धिर्न संपाद्येति पूर्वोक्तयोरुभयोरशुद्धिदशायां प्रपत्तावन्वयस्योक्तत्वादशुद्धिरस्या अपेक्षिता किमिति शंकानुदयार्थम् । स्थितप्रकारेणैवाधिकारी भवतीति-प्रपदनकाले शुद्धो वाऽशुद्धो वा यादृशप्रकारेण तिष्ठति तादृशप्रकार एवाधिकारी भवतीत्यर्थः । द्रौपद्यर्जुनयोः प्रपत्त्यनुष्ठानतच्छ्रवणदशयोस्तदंगत्वेन शुद्धिसंपादनाभाववदशुद्धिसंपादनं न दृश्यते, स्थितप्रकारेणैवाधिकारिणावभवताम् ।
टीका हिन्द्या
इस कारण शुद्धि और अशुद्धि को नहीं देख स्थितप्रकार से ही अधिकारी होता है ॥ ३३ ॥ इस का प्रयोजन कहते हुए इस अर्थ को समाप्त करते हैं-इस से इत्यादि । इस से अनुष्ठानदशा में और श्रवणदशा में ये दोनों (द्रौपदी और अर्जुन) ऐसा करने से शुद्धि और अशुद्धि को नहीं देखना-प्रपत्ति करने के समय अशुद्ध को शुद्धि की अपेक्षा न करना, शुद्ध को अशुद्धि की अपेक्षा न करना । पूर्वोक्त दोनों अशुद्ध दशा में प्रपत्ति में संबंध रखने से अशुद्धि की अपेक्षा करें क्या ? ऐसी शंका न होनेके लिये अशुद्धि को नहीं देखना कहा है । स्थितप्रकार से अधिकारी होता है-प्रपदनकाल में अशुद्ध या शुद्ध जैसा रहा है वैसा ही प्रपत्ति का अधिकारी होता है । द्रौपदी और अर्जुन प्रपत्त्यनुष्ठानप्रपत्तिश्रवणदशाओं में तदंगतया शुद्धि की अपेक्षा जैसे नहीं किये तैसे ही अशुद्धि की भी अपेक्षा नहीं किये हैं, स्थितप्रकार से अधिकारी हुए हैं ॥
मूलम्
अत्र वेल्वेट्टप्पिल्लैइत्यस्य कलिवैरिदासोक्ता वार्ता स्मर्तव्या ॥ ३४॥
श्लोक
वेल्वेट्टपिल्लैइत्यस्य कलिवैरिप्रसादिता । स्मरणीयात्र वार्ता सा रामप्रपदनात्मिका ॥ ३४ ॥
टीका संस्कृता
एतदर्थविषय आप्तवचनं स्मारयति-अत्रेत्यादिना ॥ वेल्वेट्टिप्पिलैआचार्ये भगवता समुद्रशरणागतिसमये प्राङ्मुखत्वादिनियमोपेतेन शरणागतेरनुष्ठितत्वादितरोपायवत्प्रपत्तेरपि केचन नियमा अपेक्षिताः किमिति कलिवैरिदासान् पृच्छति, स्वामिविषये दृष्टो नियमोऽस्योपायस्य स्वाभाविकत्वेनागतो न भवति, उपायपरिग्रहकर्तुस्तस्य स्वभावेनागतः । स्वामिनः-‘समुद्रं राघवो राजा शरणं गंतुमर्हति’ इत्युपदिदेश श्रीविभीषणः, स भगवद्विषयशरणागतिसमये समुद्रे स्नात्वा नागतः । अनेनोक्ता भवति स्वामिन इक्ष्वाकुवंशीयत्वेनाचारप्रधानत्वात्स्वनियमैः शरणं गतः, अस्य राक्षसजातीयत्वात् स्थितप्रकारेण शरणं गतः, तस्माद्योग्यस्यायोग्यता न संपाद्या, अयोग्यस्य योग्यता न संपाद्या स्थितप्रकारेणाधिकारी भवतीति वार्ता ।
टीका हिन्द्या
इस स्थल में वेल्वेट्टपिल्लै से कलिवैरिदासजी की कही हुई वार्ता को स्मरण करें ॥ ३४ ॥ इस अर्थ के विषय में आप्तवचन को स्मरण कराते हैं-इस स्थल में इत्यादि से । वेल्वेट्टप्पिल्लै-‘श्रीरामजी समुद्र के शरण लेनेपर पूर्वमुख आदि नियमविशिष्ट हो शरणागति किये हैं इसलिये इतरोपायों के तरह प्रपत्ति को भी किसी नियम की अपेक्षा है क्या’ ? ऐसा कलिवैरिस्वामीजी से पूंछनेपर ‘श्रीरामजी में देखा हुआ नियम इस उपाय का स्वाभाविक नहीं उपायस्वीकार करनेवाले श्रीरामजी के स्वभाव से आया है । श्रीरामजी को-‘राजा राघव समुद्र की शरणागति करें’ ऐसा विभीषणसूरि उपदेश किये हैं, वह विभीषणसूरि स्वामीजी के शरण में जानेपर समुद्र में स्नान कर आया है ऐसा नहीं दीखता है । इस से यह तात्पर्य है कि, स्वामी इक्ष्वाकुवंश्य और आचारप्रधान होनेसे अपने नियमों के साथ शरणागति किये हैं, यह विभीषण राक्षसजातीय होनेसे स्थितप्रकार से शरणागति किया, इस लिये योग्य को अयोग्यता की अपेक्षा नहीं, अयोग्य को योग्यता की अपेक्षा नहीं स्थितप्रकार से अधिकारी होते हैं’ ऐसा कलिवैरिस्वामीजी की वार्ता ।
मूलम्
अधिकारिनियमाभावः कथमिति चेत् ॥ ३५ ॥
श्लोक
कथंकारोऽधिकर्तॄणां नियमो नात्र वर्तते । इति चेत्पृच्छ्यते तत्र नियमो नैव दृश्यते ॥३५॥
टीका संस्कृता
अनंतरमधिकारिनियमाभावमुपपादयिष्यन् तज्जिज्ञासुप्रश्नमनुवदति-अधिकारिनियमाभाव इत्यादिना ।
टीका हिन्द्या
अधिकारिनियम का अभाव कैसा ? ॥ ३५ ॥ अनंतर अधिकारिनियमाभाव को उपपादन करने की इच्छा से तज्जिज्ञासुकर्तृक प्रश्न को अनुवाद करते हैं ।
मूलम्
धर्मपुत्रादयः द्रौपदी काकः कालियः श्रीगजेंद्रः श्रीविभीषणः स्वामी बालस्वामी एतत्प्रभृतयः शरणं गता इत्यधिकारिनियमो नास्ति ॥ ३६ ॥
श्लोक
द्रौपदी काककालियश्रीगजेन्द्रविभीषणाः । धर्मपुत्रादयः स्वामिबालस्वामिप्रमुखाः शुभाः । प्रपन्ना अधिकर्तॄणां नास्त्यतो नियमः क्वचित् ॥ ३६ ॥
टीका संस्कृता
तस्योत्तरमाह– धर्मपुत्रादय इति । ‘द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम्’ इति क्षत्रिया धर्मपुत्रादयः, ‘शंखचक्रगदापाणे! द्वारकानिलयाच्युत ! । गोविंद ! पुंडरीकाक्ष ! रक्ष मां शरणागताम् ॥’ इति स्त्री द्रौपदी, ‘स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । त्रीन् लोकान् संपरिक्रम्य तमेव शरणं गतः ॥’ इति देवतारूपमाच्छाद्य महापराधकृत्काकः, ‘सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च । सामर्थ्यवान् कृपामात्रमनोहरः प्रसीद मे ॥’ इति तिर्यग्योनिजः प्रतिकूलः कालियः, ‘परमापदमापन्नो मनसा चिंतयद्धरिम् । स तु नागवरः श्रीमान् नारायणपरायणः ॥’ इति तिर्यग्जन्मानुकूलः श्रीगजेंद्रः, ‘सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥’ इति राक्षसजातीयः श्रीविभीषणः, ‘बाहुं भुजगभोगाभमुपधायारिसूदनः । अंजलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥’ इति सर्वशरण्यः स्वामी, ‘स भ्रातुश्चरणौ गाढं निपीड्य रघुनंदनः । सीतामुवाचातियशा राघवं च महाव्रतम् ॥’ इति तच्छेषत्वैकनिरूप्योऽनुसृत्य कैंकर्यं कर्तुमागतो बालस्वामी च । प्रभृतय इत्युक्तत्वात्-‘सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किंचित् । संसारश्रमपरितापितचेता निर्वाणं परिणतधाम्नि साभिलाषः ॥’ इति मुचुकुंदः, ‘मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसक्तम् । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश ! त्वां स्तोतुमंबुजभवोऽपि हि देव नेशः ॥’ इति क्षत्रबंधुः, ‘भगवंतं प्रपन्ना सा भगवंतमवाप ह ।’ इति माधवी, ‘तं प्रभिन्नशिरोग्रीवमास्येभ्यः स्रुतशोणितम् । विलोक्य शरणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥’ इति कालियपत्न्यः, ‘प्रणामप्रवणा नाथ ! दैत्यसैन्यपराजिताः । शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥’ इतींद्रादिदेवाः, ‘राक्षसैर्वध्यमानानां वानराणां महाचमूः । शरण्यं शरणं याता रामं दशरथात्मजम् ॥’ इति श्रीवानरसेना । एतत्प्रभृतीनां शरणागतत्वात् प्रपत्तेरेवमधिकारिण इति नियतिर्नास्ति, रुचिभाजः सर्वेऽधिकारिण इत्यर्थः ।
टीका हिन्द्या
धर्मपुत्रादि, द्रौपदी, कालिय, काकासुर, श्रीगजेन्द्रसूरि, श्रीविभीषणसूरि, श्रीरामजी और लक्ष्मण प्रभृति शरणागति करनेसे अधिकारिनियम नहीं है ॥ ३६ ॥ उसका उत्तर देते हैं–धर्मपुत्रादि इत्यादि से । ‘द्रौपदी के सहित पांचों पांडव जनार्दन श्रीकृष्णजी के शरण में गये हैं’ ऐसा क्षत्रिय जाति धर्मपुत्रादि, ‘हे शंखचक्रगदापाणे ! हे द्वारकावासिन् ! हे अच्युत ! हे गोविंद ! हे पुंडरीकाक्ष ! शरणागता मेरी रक्षा करो’ ऐसा स्त्रीजाति द्रौपदी, ‘वह पिता देवता, महर्षियों से तिरस्कृत हो तीनों लोक में भ्रमण कर उन श्रीरामजी के ही शरण में गया ।’ ऐसा देवरूप को छिपाकर महापराधी काकासुर, ‘हे देवदेवेश ! आप की अर्चना और स्तुति आदि करने में मैं समर्थ नहीं हूं केवल निर्हेतुक कृपा से मेरे ऊपर अनुग्रह करो ।’ ऐसा तिर्यक्जातीय प्रतिकूल कालीय, ‘परम आपदा को प्राप्त हो श्रीनारायणपरायण श्रीगजेन्द्रसूरि मन से श्रीहरि का स्मरण करता भया ।’ इस प्रकार तिर्यक्जातीय अनुकूल श्रीगजेन्द्रसूरि; ‘मैं उस रावण से कठोर वचन सुन दास की तरह अपमानित हो पुत्र और दाराओं को छोडकर श्रीराघव के शरण में आया हूं ।’ एवं प्रकार राक्षसजातीय विभीषणसूरि, ‘सर्प के सदृश बाहु को मस्तक के नीचे रख शत्रुनाशक श्रीरामजी पूर्वाभिमुख हो हाथ जोड समुद्र का शरण लिये ।’ ऐसा सर्वरक्षक श्रीरामजी, ‘वह लक्ष्मण भ्राता के चरणों को गाढालिंगन कर सीता और श्रीरामजी से कहता भये,’ ऐसा नित्यविभूति में सदा अनुचर हो कैंकर्य करनेवाले श्रीलक्ष्मणजी भी, प्रभृति कहने से-‘अपार उपमारहित आप को संसारश्रमरूप ताप से तप्तचित्त आनंदलक्षण मुक्ति को चाहते हुए शरणागति करता हूं आप की अपेक्षा परमपद कोई चीज नहीं ।’ ऐसा मुचुकुन्द, ‘यह मूढ अल्पमति और अल्पचेष्टित है इस का मन विषयों से क्लेशित हुआ हमारे में नहीं लगा ऐसा समझ हे अखिलेश ! प्रणत मेरे ऊपर कृपा करो आपकी स्तुति करनेको ब्रह्मा भी समर्थ नहीं ।’ ऐसा क्षत्रबंधु, ‘भगवान् के शरण में गई वह भगवान को प्राप्त हुई’ ऐसा माधवी, ‘टूटे हुए शिर और कंठवाला मुखों से चूताहुआ रक्तवाला उस कालीय को देख उस की पत्नी श्रीकृष्णजी के शरण में गयी ।’ ऐसा कालीयपत्नी, ‘हे नाथ दैत्यसैन्य से पराजित हो प्रणाम करतेहुए संपूर्ण देवता समूह आप के शरण में आये हैं ।’ ऐसा इंद्रादि देवता, ‘राक्षसों से मारी जाकर वानरों की महासेना रक्षक दशरथकुमार श्रीरामजी के शरण में गयी ।’ ऐसा श्रीवानरसेना । इत्यादि सब ही शरणागति के करनेसे प्रपत्ति का अमुक ही अधिकारी है ऐसा कोई नियम नहीं, रुचिविशिष्ट सभी अधिकारी हैं ।
मूलम्
फलनियमाभावः कथमिति चेत् ॥३७॥
श्लोक
को हेतुरितिचेत्पृच्छा फले नियमवर्जने ॥ ३७ ॥
टीका संस्कृता
अनंतरं फलनियमाभावप्रश्नमनुवदति-फलेत्यादि ।
टीका हिन्द्या
फलका नियमाभाव कैसा ? ॥ ३७ ॥ अनंतर फलनियमाभाव कैसा ? इस प्रश्न का अनुवाद करते हैं-
मूलम्
धर्मपुत्रादीनां फलं राज्यं, द्रौपद्याः फलं वस्त्रं, काककालिययोः फलं प्राणः, श्रीगजेंद्रस्य फलं कैंकर्यं, श्रीविभीषणस्य फलं रामप्राप्तिः, स्वामिनः फलं समुद्रतरणं, बालस्वामिनः फलं रामानुवृत्तिः ॥ ३८ ॥
श्लोक
पांडवानां फलं राज्यं द्रौपद्या वस्त्रवर्धनम् ॥ काककालिययोः प्राणः श्रीगजेंद्रस्य दास्यता । विभीषणस्य रामस्य प्राप्तिः फलतयोच्यते ॥ समुद्रतरणं ज्ञेयं स्वामिनो राघवस्य च । फलं रामानुवृत्तिश्च बालस्वामिन इष्यते ॥ ३८ ॥
टीका संस्कृता
तस्योत्तरमाह-धर्मपुत्रादीनां फलमित्यादिना । अनेन पूर्वमधिकारिनियमाभावोपपादनार्थमुक्तैर्धर्मपुत्रादिप्रभृतिभिः प्रपत्तृभिः राज्यार्थं, वस्त्रार्थं, प्राणार्थं, कैंकर्यार्थं, रामप्राप्त्यर्थं, समुद्रतरणार्थं, रामानुवृत्त्यर्थं च प्रपत्तेः कृतत्वात् प्रपत्तेः फलनियमो नास्तीत्युक्तमासीत् ।
टीका हिन्द्या
धर्मपुत्रादियों का फल राज्य, द्रौपदी का फल वस्त्र, काक और कालीय का फल प्राण, श्रीगजेन्द्रसूरि का फल कैंकर्य, श्रीविभीषणसूरि का फल श्रीरामप्राप्ति, श्रीरामजी का फल समुद्रतरण, और लक्ष्मणजी का फल श्रीरामानुवृत्ति है ॥ ३८ ॥ पहिले अधिकारिनियमाभाव के लिये दिखाये हुए धर्मपुत्रादि प्रपन्नजन राज्यार्थ, वस्त्रार्थं, प्राणार्थ, कैंकर्यार्थ, श्रीरामप्राप्त्यर्थ, समुद्रतरणार्थ, और रामानुवृत्त्यर्थ प्रपत्ति करने से प्रपत्ति का फल नियम नहीं ऐसा दिलाया गया ।
मूलम्
विषयनियमो नाम-गुणपूर्तिमत एव विषयत्वम् ॥ ३९ ॥
श्लोक
विषयनियमो नाम-विषयो गुणपूर्तिमान् ॥ ३९ ॥
टीका संस्कृता
एवं प्रपत्तेर्देशकालादिनियमापेक्षा नास्तीति प्रतिज्ञामुपपादितवान् । अथ विषयनियम एवास्तीति प्रतिज्ञामुपपादयति-विषयनियमो नामेति । गुणपूर्तिमत एव विषयत्वमिति-परत्वादिपंचसु सौलभ्यादिगुणपूर्तिमत एव विषयत्वमित्यर्थः ।
टीका हिन्द्या
विषयनियम माने-गुणपूर्तिमान ही विषय है ॥ ३९ ॥ इस प्रकार ‘प्रपत्ति को देशकालादिनियमापेक्षा नहीं है’ इस प्रतिज्ञा को उपपादन किये हैं । अब ‘विषयनियम ही है’ इस प्रतिज्ञा को उपपादन करते हैं—विषयनियम माने इत्यादि से । गुणपूर्तिमान ही विषय है-परत्वादि पांचों में सौलभ्यादि गुणपूर्तिवाले ही विषय हैं ।
मूलम्
गुणपूर्तिश्चावतारें ॥४०॥
श्लोक
अर्चास्थले हि तत्पूर्तिर्दृश्यते वेंकटादिषु ॥ ४० ॥
टीका संस्कृता
तादृशगुणपूर्तिः कुत्रेत्यतो गुणपूर्तिश्चावतार इत्याह-गुणपूर्तिरित्यादिना । ‘अवतारविषये मयाप्युद्देशतस्तथा । उक्ता गुणा न शक्यंते वक्तुं वर्षशतैरपि ॥’ इति स्वतः सर्वज्ञेन स्वेनापि कार्त्स्न्येन वक्तुं न शक्या खल्वर्चावतारगुणपूर्तिः ।
टीका हिन्द्या
गुणपूर्ति अवतार में है ॥ ४० ॥ तादृश गुणपूर्ति किस में है ? इस आकांक्षा में ‘गुणपूर्ति अर्चावतार में’ ऐसा कहते हैं-गुणपूर्ति इत्यादि से । ‘अवतार के विषय में मैं भी उद्देश से गुणों को कहा हूं सैकडों वर्षों तक कहने पर भी पूर्णतया नहीं कह सकता ।’ ऐसा स्वतः सर्वज्ञ सर्वेश्वर भी अर्चावतार की गुणपूर्ति नहीं कह सकते हैं ।
Of course. Here is the rest of the text, starting from Sutra 41 and continuing to the end.
मूलम्
दिव्यसूरयो बहुस्थलेषु प्रतिपत्तिं चावतारेंऽकुर्वन् ॥४१॥
श्लोक
अर्चावतारे भूयिष्ठस्थलेऽकुर्वन्त सूरयः ॥ ४१ ॥
टीका संस्कृता
एतद्गुणपूर्ति मदर्चावतार एव प्रपत्तेरनुरूपविषय इत्यर्थं प्रपन्नजनकूटस्थानामनुष्ठानेन प्रकाशयति-दिव्यसूरय इत्यादिना । अज्ञाननिवृत्तिपूर्वकमतिरूपापन्नज्ञानप्राप्त्या परत्वादिकं सर्वं करतलामलकत्वेन दृष्टवंतो हि दिव्यसूरिणः । एवंभूताः प्राप्यत्वरातिशयेन बहुवारं प्रपत्त्यधिकरणसमये बहुस्थलेष्वर्चावतार एतां प्रपत्तिमकुर्वन् स्थलांतरे कादाचित्की । तथाहि–सूरीणामग्रेसरः परांकुशः ‘उपायं त्वच्चरणावेव शरणमददाः’ ‘तौ चरणावेवोपायत्वेन स्वीकुर्वन्’ ‘अस्मत्स्वामिनः चरणयोः क्षेमं स्वीकुर्वन् कुरुकापुरीनिर्वाहकः शठकोपः ।’ ‘त्वच्चरणयोरधस्तात्सम्यक्प्रविष्टोऽस्मि’ इति बहुषु स्थलेषु प्रपत्तिमकरोदर्चावतारे हि । ‘जन्मप्रकार’ इत्येकस्मिन्नेवावतारे शरणं गतः । परकालसूरिश्च-‘आगत्य त्वच्चरणावाश्रितो नैमिषारण्येऽस्मत्स्वामी ।’ ‘परिमलपूर्णवेंकटनाथ नीच आगत्याश्रितः ।’ ‘कावलंबाडिदिव्यदेशे वर्तमान कृष्णोपायस्त्वमेव ।’ ‘समुद्रवर्ण त्वच्चरणयुग्मं प्राप्तवानस्म्यतिनिविडोद्यानश्रीरंगनाथ’ इत्येवमर्चावतारे बहुषु स्थलेषु प्रपत्तिमकरोत् । अन्येषां सूरीणामप्येवं तत्तत्प्रबंधेषु द्रष्टव्यम् । प्रपत्तिं चेति ‘च’ शब्देन ‘गुणपूर्तिः’ इति पूर्वोक्ताः समुच्चीयते ।
टीका हिन्द्या
दिव्यसूरिंगण बहुस्थलों में प्रपत्ति अवतार में किये हैं ॥ ४१ ॥ इस गुणपूर्तिवाले अर्चावतार ही प्रपत्ति का अनुरूप विषय है, इस अर्थ को प्रपन्नजनकूटस्थों के अनुष्ठान से दिखाते हैं दिव्यसूरिंगण इत्यादि से । अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] को प्राप्त होनेसे परत्वादि सब को करतलामलकवत् देखनेवाले सूरिगण प्राप्यत्वराधिक्य से बहुवार प्रपत्ति करने के समय बहुस्थलों में अर्चावतार के विषय में ही प्रपत्ति किये हैं और स्थलों में कहीं कहीं किये हैं । तथाहि-सूरियों में प्रधान श्रीशठकोपसूरि-‘उपायतया आप अपने चरणों को ही मुझ को दिये हैं ।’ ‘उन ही चरणों को शरणतया स्वीकार करनेवाले ।’ ‘हमारे स्वामी के चरणों में क्षेम को पानेवाला कुरुकापुरी का शठकोप ।’ ‘आप के चरणों के नीचे सम्यक् प्रवेश किया हूं ।’ ऐसा बहुस्थलों में अर्चावतार में ही प्रपत्ति किये हैं । ‘जन्मप्रकार’ इस एक ही दशक में कृष्णावतार में शरणागति किये हैं । परकालसूरि भी ‘नैमिषारण्यवासिन् ! स्वामिन् ! दास आप के चरणों को प्राप्त हुआ ।’ ‘परिमलपूर्ण श्रीवेंकटनायक नीच मैं आप को आश्रयण किया हूं ।’ ‘कावलं[[बांड|पाडि]] दिव्यदेश में वर्तमान हे कृष्ण ! उपाय आपही हो ।’ ‘समुद्रवर्ण निविडोद्यान श्रीरङ्गवासिन् ! आप के चरणयुग्म को प्राप्त हूं ।’ इस प्रकार अर्चावतार में ही प्रपत्ति किये हैं । और सूरियों का भी प्रपत्ति अनुष्ठान अर्चावतार में ही है, इस बात को उन के प्रबंधों में देख सक्ते हैं ।
मूलम्
पूर्णमित्युक्तत्वात्सर्वे गुणाः पुष्कलाः ॥४२॥
श्लोक
पूर्णमित्युक्तवेदाच्च पुष्कला गुणराशयः ॥ ४२ ॥
टीका संस्कृता
एवमेतैः सूरिभिः प्रपत्तिकरणस्थले परत्वादिषु सर्वेषु सत्सु अर्चावतारे करणस्य हेतुरेतद्गुणपूर्तिः खलु तां गुणपूर्तिं सप्रमाणमाह-पूर्णमित्यादिना । पूर्णमित्युक्तत्वादिति । ‘इदं पूर्णमदः पूर्णं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥’ ‘सर्वं पूर्णं सहोम्’ इति प्रोक्तत्वादित्यर्थः । सर्वे गुणाः पुष्कला इति । सौकर्यापादका आश्रितकार्यापादकाः सर्वे कल्याणगुणा अस्मिन् विषये संपूर्णा इत्यर्थः ।
टीका हिन्द्या
‘पूर्ण’ ऐसा कहने से सब गुण पूर्ण हैं ॥ ४२ ॥ इस प्रकार ये सूरिंगण प्रपत्ति करनेके बखत परत्वादि सब रहते हुए अर्चावतार में करनेका कारण अर्चावतार की गुणपूर्ति ही है । उस गुणपूर्ति को प्रमाणसहित कहते हैं—पूर्ण इत्यादि से । ‘पूर्ण का पूर्ण लेकर पूर्ण ही बचता है’, ‘सब पूर्ण है’ इति श्रुतेः । सकलकल्याणगुण इस विषय में पूर्ण हैं–आश्रयणसौकर्यापादक गुण, आश्रितकार्यापादक गुण ऐसा विभाग विना सकलकल्याणगुण इस विषय में पूर्ण हैं ।
मूलम्
प्रपत्तेरपेक्षिताः सौलभ्यादयोऽन्धकारव्याप्ते गृहे दीपवत्प्रकाशंतेऽत्र ॥४३॥
श्लोक
अंधकारगृहे यद्वद्दीपादीनां प्रकाशनम् ॥ सौलभ्यादिगुणास्तद्वत्प्रकाशंतेऽत्र शोभनाः ॥ ४३ ॥
टीका संस्कृता
तर्हि ‘वासुदेवोऽसि पूर्णः’ इत्युक्तपरत्वादन्यत्र किं वाधिक्यमित्यत आह-प्रपत्तेरित्यादि । प्रपत्तेरपेक्षिता इति । उपायत्वेनाश्रयणसमये अपेक्षिता इत्यर्थः । सौलभ्यादयो नाम-दृष्ट्वाश्रयितुमुपयुक्तं सौलभ्यं, उत्कर्षं दृष्ट्वानपगमहेतुः सौशील्यं, कार्यं कुर्यादिति विश्वासोपयुक्तं स्वामित्वं, दोषं दृष्ट्वाऽभयोपयुक्तं वात्सल्यं । ‘असदृशगुण’ इत्यादिनैतांश्चतुरो गुणान् किल परांकुशोऽवोचत् । अंधकारव्याप्ते गृहे दीपवत्प्रकाशंतेऽत्रेति परत्वे गुणानां सर्वेषां सत्वेऽपि परमसाम्यापन्नानां मुखं दत्त्वा वर्तमानदेशत्वादिवसे दीपवत्प्रकाशरहिताः संति, अर्चावतारेऽपकर्षसीमाभूतानां संसारिणां मुखं दत्त्वा वर्तमानत्वात् अंधकारे दीपवत्युज्ज्वलं प्रकाशते इत्यर्थः । विषयसद्भावस्थले हि गुणाः प्रकाशंते । तत्रत्याः शीलादिगुणाननुभवितुमत्र खल्वागच्छंति । सौलभ्यपूर्वकमुक्तिः-दृष्ट्वाश्रयितुमुपयुक्तं सौलभ्यं प्रपत्तेः प्रधानापेक्षितमिति ज्ञापयितुम् ।
टीका हिन्द्या
प्रपत्ति के अपेक्षित सौलभ्यादिगुण अंधकारविशिष्ट घरमें दीपक के सदृश अर्चावतार में प्रकाशते हैं ॥ ४३ ॥ ऐसा हो तो-‘वासुदेव आप पूर्ण हो’ इस परत्व की अपेक्षा अर्चावतार की अधिकता कौनसी है ? इस आकांक्षा में कहते हैं-प्रपत्ति के इत्यादि । प्रपत्ति के अपेक्षित-उपायतया स्वीकारकरनेके समय अपेक्षित । सौलभ्यादि माने–देखकर आश्रयण करनेके लिये सौलभ्यगुण, परत्व देख नहीं हटने के लिये सौशील्यगुण, कार्य करेंगे ऐसा विश्वास के लिये स्वामित्वगुण, दोष को देख न डरनेके लिये वात्सल्यगुण । ‘उपमारहित गुणवाले’ इत्यादि से ये चारगुणों को ही श्रीशठकोपसूरि कहे हैं । अंधकारविशिष्ट घर में दीपक के सदृश अर्चावतार में प्रकाशते हैं-परत्व में ये संपूर्णगुण होनेपर भी परमसाम्यापन्न नित्यमुक्तों को दर्शन देनेके स्थल होनेसे दिवादीप के सदृश प्रकाशरहित होते हैं । अर्चावतारस्थल में अतिनीच संसारियों को दर्शन देनेसे अंधकार में दीपक के तरह अत्युज्ज्वल हो प्रकाशते हैं । जहां विषय हैं वहां ही गुण प्रकाशते हैं । वहां रहनेवाले भी शीलादिगुणों को अनुभव करनेके लिये यहां आते हैं । सौलभ्य को पहिले कहनेका कारण-देखकर आश्रयण करनेको सौलभ्य ही प्रपत्ति का प्रधानापेक्षित है ऐसा जनानेके लिये ।
मूलम्
पूर्तिं स्वातंत्र्यं च त्यजन् सन् स्वानादर्तृन् स्वयमादृत्य स्थितस्थलम् ॥४४॥
श्लोक
स्वातंत्र्यपूर्तिमारभ्य त्यजन् स्वीयगुणान् प्रभुः ॥ स्वानादॄन् स्वयं तत्र सम्यगादृत्य तिष्ठति ॥४४॥
टीका संस्कृता
एते गुणाः प्रकाशंतेऽत्रेत्युक्तमुपपादयति-पूर्तिमित्यादिना । पूर्तिः-अवाप्तसमस्तकामत्वं, तत्त्यजनं नाम-एतदर्पितं गृहीत्वा यथा तृप्तः स्यात्तथा सापेक्षत्वेन स्थितिः । स्वातंत्र्यं–स्वाधीनस्वरूपादिमत्वं, तस्य त्यजनं नाम-आश्रिताधीनस्वरूपस्थित्यादिमत्वम् । ‘तदिच्छया महातेजा भुंक्ते वै भक्तवत्सलः । स्नानं पानं तथा यात्रां कुरुते वै जगत्पतिः ॥ स्वतंत्रः सन् जगन्नाथोप्यस्वतंत्रो यथा तथा । सर्वशक्तिर्जगद्धाताप्यशक्त इव चेष्टते ॥’ इत्युक्तं हि । ‘अर्चकपराधीनाखिलात्मस्थितिः’ इति भट्टार्याः । स्वेच्छयेतत्द्वयत्यजनस्य हेतुं विना त्यजन् सन्नित्युक्तम् । स्वानादर्तृन् स्वयमादृत्य स्थितिस्थलमिति-स्वस्मिन्नेवं सौलभ्येन स्थितोऽस्मद्भाग्याद्दुर्लभः सुलभो जात इत्यादृत्याश्रयणं विना सौलभ्यहेतुना स्वोपेक्षकाणां संसारिणां त्यागाशक्तिमात्रं विना तान्विना स्वस्य धारणासामर्थ्यमपि प्रकटयित्वा स्थितस्थलमर्चावतार इत्यर्थः । पूर्तिस्वातंत्र्यत्यागात्सौलभ्यसौशील्ये, स्वानादर्तृनादृत्य स्थितत्वात्स्वामित्ववात्सल्ये च प्रकाशंते । यद्वा पूर्तिमित्यारभ्येतद्वाक्येन गुणचतुष्टये प्रधानं सौलभ्यमेव प्रतिपादयति । तदानीमस्य विषयस्य सौलभ्यातिशयं प्रदर्शयतीति वाक्यसंगतिः । नेत्रविषयतायोग्यत्वाय नित्यसंनिधिकरणमात्रं विना सर्वप्रकारपरिपूर्णनिरंकुशस्वतंत्रमात्मानं सापेक्षं परतंत्रं च कृत्वा स्वानादर्तृन् संसारिण आदृत्य स्थितस्य स्थित्यपेक्षयाऽतिशयितं सौलभ्यं नास्ति । ‘एवं पंचप्रकारोऽहमात्मनां पततामधः । पूर्वस्मादपि पूर्वस्माज्ज्यायांश्चैवोत्तरोत्तरः ॥ सौलभ्यतो जगत्स्वामी सुलभो ह्युत्तरोत्तरः ।’ इति परत्वादिषु पंचसु च सौलभ्ये सत्यपि पूर्वपूर्वापेक्षयोत्तरोत्तरं सौलभ्यमतिशयितमिति स्वेनैवोक्तत्वात्सौलभ्यस्य सीमाभूमिरर्चावतारः ।
टीका हिन्द्या
पूर्ति और स्वातंत्र्य को छोड अपने को अनादर करनेवालों को आप आदर करते हुए स्थित स्थल है ॥ ४४ ॥ “ये गुण यहां प्रकाशते हैं’ इस को उपपादन करते हैं-पूर्ति इत्यादि से । पूर्ति माने-अवाप्तसमस्तकामत्व । उस को छोडना माने-इस चेतन के द्वारा समर्पित वस्तु से तृप्त हो जैसे सापेक्ष होना । स्वातंत्र्य माने-स्वरूपादि अपना अधीन होना । उस को छोडना माने-आश्रितों के अधीन स्वरूप और स्थितिवाले होना । ‘अर्चक की इच्छा से महातेजस्वी भक्तवत्सल भगवान स्वीकार करते हैं तथा अर्चक की इच्छा से स्नान, पान और यात्राओं को जगत्पति करते हैं । स्वतंत्र होते हुए भी जगन्नाथ परतंत्र के तरह रहते हैं । सर्वशक्ति होतेहुए जगद्वाता अशक्तके तरह रहते हैं ।’ ऐसा कहा है । ‘संपूर्ण अपनी स्थिति को अर्चक के अधीन करते हैं’ ऐसा भट्टार्यस्वामी कहे हैं । अपनी इच्छा विना इन दोनों को छोडने में दूसरा हेतु नहीं है ऐसा समझानेके लिये ‘पूर्ति और स्वातंत्र्य को छोड’ ऐसा कहते हैं । अपने को अनादर करनेवालों को आप आदर करते हुए स्थितस्थल-आप इस प्रकार सुलभ होनेपर ‘दुर्लभ सुलभ हुआ’ ऐसा समझ अत्यादर करना चाहिये ऐसा न कर उस सौलभ्य के कारण ही उपेक्षा करनेवाले संसारियों को छोड़ नहीं सकना इतना ही नहीं किंतु संसारिचेतन विना रह नहीं सकनेका स्थल अर्चावतार है । पूर्ति और स्वातंत्र्य को छोड रहनेसे सौलभ्य और सौशील्य, अपने को अनादर करनेवालों को आप आदर करनेसे स्वामित्व और वात्सल्य भासते हैं । या–पूर्ति इत्यादि इस संपूर्ण वाक्य से गुणचतुष्टय में प्रधानभूत सौलभ्यगुण को ही कहते हैं । उस निर्वाह में अर्चावतार का सौलभ्यातिशय को दिखाते हैं ऐसा वाक्य की संगति समझना । नेत्र के विषय हो नित्यसंनिधि करते हैं इतना ही नहीं किंतु सर्वप्रकार परिपूर्ण निरंकुशस्वतंत्र अपने को सापेक्ष और परतंत्र बना अनादर करनेवाले संसारियों को आदर करतेहुए रहने की अपेक्षा अधिक सौलभ्य नहीं है । ‘अधः पतित चेतनों के लिये ऐसा पांच प्रकार से मैं हूं पूर्व पूर्व की अपेक्षा उत्तरोत्तर श्रेष्ठ है, जगत् के मालिक सौलभ्यगुण से उत्तरोत्तर सुलभ होते हैं ।’ ऐसा परत्वादि पांचों में सौलभ्य होते हुए भी पूर्वपूर्व की अपेक्षा उत्तरोत्तर में सौलभ्य अधिक है ऐसा आप ही कहने से सौलभ्य की सीमाभूमि अर्चावतार ही है ।
मूलम्
भूगतजलवदंतर्यामित्वं, आवरणजलवत्परत्वं, क्षीरार्णववद् व्यूहः, प्रवहन्नदीवद्विभवः, तत्र स्थिता हृदा इवाचवतारः ॥ ४५ ॥
श्लोक
भूगतांबुसमानत्वमंतर्यामित्वमुच्यते । परत्वं विरजातुल्यं व्यूहः क्षीरसमुद्रवत् ॥ सरिद्वद् दृश्यते चात्र विभवो भगवान् स्वयम् । तत्र स्थिता हृदा यद्वदर्चामूर्तिस्तथा स्मृता ॥ ४५॥
टीका संस्कृता
परत्वादीनां दौर्लभ्यमर्चावतारस्य सौलभ्यं च दृष्टांतमुखेन प्रदर्शयति-भूगतजलवदित्यादिना । तृषार्तस्य देशांतरगमनापेक्षां विना स्थितस्थले सत्यपि खनित्रादीनादाय खननं विनाऽपेयभूतं भूगतजलवत् दृष्ट्वाऽऽश्रयणं कर्तव्यमित्याशावतः पुंसो हृदये वर्तमानत्वेपि ‘नेत्रस्य नास्ति विषयः’ इत्युक्तप्रकारेण नेत्रविषयत्वाभावेनाष्टांगयोगरूपयत्नेन द्रष्टव्यमंतर्यामित्वं, तृषार्तस्यांडाद्बहिः प्रवाहित्वा स्थितमावरणजलमिव अस्य च ‘बहिः कारणतया स्थितापरिच्छेद्यपूर्णामृत’ इत्युक्तप्रकारेण लीलाविभूतेर्बहिः स्थितं परत्वं, तथातिविप्रकृष्टत्वाभावेनांडांतर्भूततया स्थितत्वेपि तस्य दुष्प्राप्यक्षीरार्णव इव स्यापि ‘क्षीराब्धौ तव शयनसौंदर्यं श्रुतमात्रम्’ इत्युक्तप्रकारेण श्रवणमात्रं विना गत्वा द्रष्टुमयोग्यतया स्थितो व्यूहः, तथाऽत्यंतसमीपत्वेपि तत्कालवर्तिनामुपजीव्यः पाश्चात्यस्य दुर्लभा प्रवहन्नदीवत् ‘भूम्युपरि संचरसि’ इत्युक्तप्रकारेण भूम्युपर्यवतीर्य संचरन् तत्कालवर्तिनानाश्रयणीयः पश्चात्कालवर्तिनोऽस्य दुष्प्राप्यो विभवः, पूर्वोक्तवैलक्षण्येनास्य तृषानिवृत्तिर्यथा स्यात्तथा पानयोग्याः प्रवहन्नद्यां स्थिता हृदा इव अस्य च देशकालकरणविप्रकर्षं विनाऽऽलयेषु गृहेषु च सदा सर्वेषामपि नेत्रविषयतया स्थितः ‘पश्चात्तनानामाश्रयणीयो ज्योतीरूपोऽर्चावतारः’ । ‘भौमनिकेतनेष्वपि कुटीकुंजेषु’ इत्युक्तप्रकारेण बहुषु स्थलेषु संनिधिं कृत्वा स्थितस्य प्रकारमनुसंधाय हृदा इवेति बहुवचनेनाभ्यधात् । अवतारगुणानां सर्वेषामर्चावतारे परिपूर्णत्वात्, अवतारविग्रहानेवार्चारूपेण बहुषु स्थलेषु परिगृह्य स्थितत्वाच्च तत्र स्थिता हृदा इवेत्युक्तम् ।
टीका हिन्द्या
भूगतजल के सदृश अंतर्यामित्व, आवरणजलसदृश परत्व, क्षीराब्धिवत् व्यूह, बहनेवाली नदी के तरह विभव हैं, उन नदियों में हृदों के सदृश अर्चावतार हैं ॥ ४५ ॥ परत्वादि दुर्लभ हैं अर्चावतार सुलभ हैं इस को दृष्टांत द्वारा दिखाते हैं—भूगतजल इत्यादि से । प्यासे को देशांतर में न जाकर स्थितस्थल में होनेपर भी खनित्रादि ले खोदे बिना पीने को दुर्लभ भूगतजलवत् देखकर आश्रयण करेंगे ऐसी अभिलाषावालों के हृदय में विराजने पर भी ‘नेत्र के गोचर नहीं हो’ ऐसा नेत्र का विषय न हो अष्टांगयोगरूप यत्न से देखने के योग्य अंतर्यामित्व; प्यासे को अंडावरण जलवत् ‘बाहर कारणतया स्थित अपरिच्छेद्यपूर्णामृत’ ऐसा लीलाविभूति से परे रहने वाले परत्व, तैसा अतिदूर में न हो अंडांतर्गत होने पर भी चेतन के दुष्प्राप्य क्षीराब्धि के सदृश ‘क्षीराब्धि में आप के शयनसौंदर्य को सुने हैं’ ऐसा सुनने के योग्य विना जा देखने को दुर्लभ व्यूह, समीप में होते हुए तत्काल वर्तमान लोगों को आश्रयण करने के योग्य [[पश्चत्कालीन|पश्चात्कालीन]] चेतन के दुर्लभ बढती हुई नदी सदृश ‘भूमि में अवतार लिये हो’ ऐसा भूमि में अवतीर्ण हो संचार करते हुए तत्काल चेतनों के आश्रयण करने योग्य पश्चात्कालवर्तियों के दुर्लभ विभव, पूर्वोक्त के सदृश न हो प्यासे को जलपान करा तृप्त करानेवाले प्रवहन्नदियों में जल भरा हुआ [[ह्रद|ह्रद]] जैसे चेतन को देश, काल, करण आदि से दूर विना मंदिर और गृहों में सर्वत्र एक प्रकार से सब के नेत्रों के गोचर हो पश्चात्कालीन लोग भी आश्रयण करने योग्य तेजोरूप अर्चावतार, ‘भूमि के दिव्यदेशों में और कुटी कुंजों में’ ऐसा बहुस्थलों में सन्निधि करते हुए रहने की स्थिति को स्मरण कर हृदोंके तरह ऐसा बहुवचन से कहे हैं । अवतार के संपूर्ण गुण अर्चावतार स्थलों में परिपूर्ण होनेसे, अवतारविग्रहों को अर्चारूप से बहुस्थलों में स्वीकार कर रहनेसे ‘प्रवहन्नदी के हृद’ ऐसा कहे हैं ।
मूलम्
अयं च शास्त्रैर्वशीकरणायोग्यानां विषयांतरेषु निमज्ज्य विमुखानां चेतनानां वैमुख्यं दूरीकृत्य रुचिमुत्पादयति, रुच्युत्पत्तावुपायो भवति, उपायपरिग्रहे कृते भोग्यो भवति ॥ ४६ ॥
श्लोक
शास्त्रवश्यविहीनानां विषयांतर्निमज्जताम् ॥ विमुखानां च वैमुख्यं [[हापयित्वा|नाशयित्वा]] प्रयत्नतः । स्वस्मिन् रुचिं च संपाद्योपायो भवति शाश्वतः ॥ उपाये संगृहीते तु स्वयं भोग्यः प्रजायते ॥ ४६ ॥
टीका संस्कृता
एवमुत्पन्नाश्रयणरुचीनामाश्रयणीयत्वे सौलभ्यमात्रं न भवति किंतु रुचिजनकत्वादिकं चास्यार्चावतारस्यास्तीत्येतद्वैभवमाह-अयं चेत्यादिना । अयं च-प्रकृतसौलभ्यादिगुणयोग्यं मनसि निधाय ‘अयं च’ इति परामृशति । शास्त्रैर्वशीकरणायोग्यत्वं नाम-हितानुशासनपरैः श्रुतिस्मृत्यादिशास्त्रैररुच्युत्पादनायेतरविषयाणां दोषाधिक्यस्य, रुच्युत्पादनाय भगवद्विषयगुणाधिक्यस्य च उपदेशे कृतेपि तेनेतरविषयान् त्याजयित्वा एतद्विषयमवलंबयितुमशक्यत्वम् । दुर्वासनाबलमुपदेशं निरर्थकीकरोति हि । ‘जन्मांतरसहस्रेषु बुद्धिर्या भाविता नृणाम् । तामेव लभते जंतुरुपदेशो निरर्थकः ॥’ इत्युक्तं हि । विषयांतरेषु निमज्ज्य विमुखत्वं नाम-‘मंजीरादिशरीरसितासितायतनेत्रस्त्रीनिम्नो धर्ममेव विस्मृत्येंद्रियैरवगाह्य भोग्यं भोगमेव वर्द्धयित्वा’ इति ‘वक्रेक्षणकानां युवतीनां विषये उत्कंठां वर्द्धयित्वा स्वैरसंचारं कुर्वन्’ इति च ‘अत्यंतयुवतीनां मत्स्यसदृशनेत्रपाशबद्धं निमग्नं माम्’ इत्युक्तप्रकारेणेतरविषयेष्वत्यभिनिवेशेन यत्किंचिदवलंब्य व्यावृत्तिव्रतमारोप्य भगवद्विषयमाश्रयितुमनंगीकारः । एतादृशानां चेतनानां वैमुख्यं दूरीकृत्य रुच्युत्पादनं नाम-‘आगच्छेत्युक्त्वा हृदये प्रविश्य स्वविषये आदरं प्रवाहयन् सौन्दर्यवान्’ इत्युक्तप्रकारेण सौन्दर्यादिभिश्चित्तापहारं कृत्वा स्वं न पश्याम इति स्थितानां स्थितिं विना परव्यावृत्त्यशक्यत्वापादनम् । रुच्युत्पत्तावुपायत्वं नाम-एवं स्ववैलक्षण्यदर्शनेन स्वं नित्यमनुभवितव्य इति रुच्युत्पत्त्यनंतरमुपायप्रदानसमये ‘त्वच्चरणावेवोपायत्वेनाददाः’ इत्युक्तप्रकारेण संसारनिवृत्तिपूर्विकायाः स्वप्राप्तेः स्वयमुपायत्वम् । उपायपरिग्रहे कृते भोग्यत्वं नाम-स्वस्मिन्नुपायत्वेन परिगृहीते उपेयसिद्धेर्देशविशेषे गमनपर्यंतं प्रतीक्षामनपेक्ष्य ‘सुंदरश्रीरंगस्य निर्वाहकं ममामृतवद्भोग्यभूतं पश्यती चक्षुषी अन्यन्न पश्यतः-’ ‘मम मधु क्षीरम् इक्षुरसखंडः श्रीमान् वनाद्रिनाथः’-इत्युक्तप्रकारेण निरतिशयभोग्यत्वेन स्थितत्वात् स्वयमुपेयत्वेन स्थितिः । एवमनेनोपायोपेयौ द्वावपि स्वयमेव भूत्वा स्वेतरविषयविरक्तिपूर्वकं स्वविषयरुचिमुत्पादयन् सर्वसुलभः स्वप्रकारान् त्यक्त्वा स्वानादर्तृनप्यादरन् प्रपत्त्यपेक्षितगुणोज्ज्वलः समस्तगुणसंपूर्णः प्रपन्नजनकूटस्थानामुपायवरणविषयोऽर्चावतार एव प्रपत्तेर्नियतविषय इत्युक्तम् । अनेन सर्वसुलभोऽर्चावतार एवाश्रयणीय इत्युक्तम् । प्रपत्तेर्देशादिनियम इत्यारभ्यैतावता उपायवरणात्मिकायाः प्रपत्तेर्देशादिनियमाभावः विषयनियमश्चादर्शि ।
टीका हिन्द्या
यह शास्त्रों से शिक्षित न हो विषयांतरों में मग्न हो विमुख होनेवाले चेतनों के वैमुख्य को दूर कर रुचि को उत्पादन करते हैं, रुचि होनेपर उपाय होते हैं, उपायस्वीकारानंतर भोग्य भी होते हैं ॥ ४६ ॥ इस प्रकार आश्रयणरुचिवालों को आश्रयण करने को सुलभ होना इतना ही नहीं किंतु रुचि को उत्पादन करना आदि कृत्य भी इस अर्चावतार का है, ऐसा इसके वैभव को कहते हैं-यह इत्यादि । यह—प्रकृत सौलभ्यादिगुणविशिष्टता का उद्देश कर अर्चावतार का परामर्श करते हैं । शास्त्रों से शिक्षित न होना माने-हितानुशासन करनेवाले श्रुतिस्मृत्यादिशास्त्र अरुचि होनेके लिये इतरविषयों के दोषाधिक्य को, रुचि होनेके लिये भगवद्विषय के गुणाधिक्य को उपदेश करने पर भी उस से इतरविषयों को छोड भगवद्विषय का आश्रयण अशक्य होना । दुर्वासना का बल उपदेश को निरर्थक करदेता है । ‘सहस्रजन्मों में लोग जिस बुद्धि की भावना करते हैं उसी बुद्धि को पाते हैं, उपदेश निरर्थक है ।’ ऐसा कहा है । विषयांतरों में मग्न हो विमुख होना माने-‘घुंघुरालंकृतपाद, काले और दीर्घ नेत्रवाली स्त्रियों में मग्न हो धर्म को भूल इंद्रियों के भोग्यभोगों को बढाकर’ ऐसा, ‘वक्रकेशवाली युवतियों के विषय में आशा को वढा यथेष्ट संचार करते हुए’, ‘अत्यंतयुवतियों के मत्स्यसदृश नेत्ररूप पाश में बद्ध और निमग्न मुझ को’ इस उक्ति के अनुसार इतरविषय में अत्याशा से जिस किसी को अवलंबन कर अलग होनेके व्रत को ऊपर लेकर भगवद्विषय का आश्रयण करनेको अंगीकार न करना । इस प्रकार के चेतन का वैमुख्य को दूर कर रुच्युत्पादन करना माने-‘आओ ऐसा कह हृदय में प्रवेश कर अपने विषय में आदर को बढानेवाले सुंदर’ ऐसा सौन्दर्यादियों से चित्त को अपहारकर अपने को नहीं देखेंगे ऐसा रहनेवाले चेतनों की स्थिति को नाशकर निर्निमेष देखने योग्य बनाना । रुचि होनेपर उपाय होना माने-इस प्रकार अपना वैलक्षण्य को देखने से अपने को ‘नित्यानुभव करना’ ऐसा रुचि होनेपर उपाय दिखानेके समय ‘आप के चरणों को ही उपायतया दिये हो’ ऐसा संसारनिवृत्तिपूर्वक अपने प्राप्ति के लिये आप ही उपाय होना । उपायस्वीकारानंतर भोग्य होना माने-अपने को उपायतया स्वीकार करनेपर फलसिद्धि के लिये परमपद जाने पर्यंत प्रतीक्षा न कर ‘सुंदर श्रीरङ्गनाथ, हमारे अमृतवत् भोग्यभूत स्वामी को देखनेवाले नेत्र और को देख नहीं सकते हैं ।’ ‘श्रीमान् सुंदरबाहु भगवान् हमारा मधु, क्षीर और इक्षुरसखंड हैं ।’ इन वचनों के अनुसार अत्यंत भोग्य होनेसे स्वयं फलभूत होना । तथाच—प्रपत्ति को गुणपूर्तिवाले ही विषय हैं, तादृश गुणपूर्ति अर्चावतार में है, इस कारण सूरिंगण अर्चावतार में ही प्रपत्ति किये हैं, इस विषय में सब गुण पुष्कल हैं, विशेषरूप से प्रपत्ति के अपेक्षित गुण अच्छी तरह से अर्चावतार में ही प्रकाशते हैं, यह अपने निरपेक्षतादियों को छोड अपने को अनादर करनेवालों को आप आदर करते हुए रहनेका स्थल है, परत्वादि एक एक प्रकार से दुर्लभ हैं यह सर्वप्रकार से सुलभ हैं, इतना ही नहीं, यह विषय रुचिजनक और उपायोपेय भी है ऐसा प्रतिपादन किये हैं ॥
मूलम्
अत्र प्रपत्तिकर्तारोऽधिकारिणस्त्रयः ॥ ४७ ॥
श्लोक
अत्र प्रपत्तिकर्तारस्त्रिविधाः परिकीर्तिताः ॥४७॥
टीका संस्कृता
एवं विषयविशेषं प्रदश्यनंतरं भगवच्छास्त्रादिसिद्धाधिकारिविशेषांश्च प्रदर्शनीया इत्यभिप्रेत्याधिकारिविशेषनाह-अत्रेत्यादिना । सौलभ्यादिगुणपूर्त्या प्रपत्तेर्नियतविषयेऽस्मिन्नर्चावतारे प्रपत्तिकर्तारोऽधिकारिणः प्रपदनहेतुभेदेन त्रिप्रकारा इत्यर्थः ।
टीका हिन्द्या
इस में प्रपत्ति करनेवाले अधिकारी तीन हैं ॥ ४७ ॥ इस प्रकार विषयविशेष को दिखानेके पश्चात् भगवच्छास्त्र (पांचरात्र) में सिद्ध अधिकारिविशेषों को भी दिखाना उचित समझ अधिकारीविशेष को दिखाते हैं—इस में प्रपत्ति करनेवाले अधिकारी तीन हैं इत्यादि । सौलभ्यादि गुणपूर्ति से प्रपत्ति का नियत विषय इस अर्चावतार में प्रपत्ति करने वाले अधिकारी प्रपदन हेतु के भेद से तीन प्रकार हैं ।
मूलम्
अज्ञाश्च ज्ञानाधिकाश्च भक्तिपरवशाश्च ॥४८॥
श्लोक
अज्ञा ज्ञानाधिकाश्चैव भक्तेः परवशास्तथा ॥ ४८ ॥
टीका संस्कृता
ते के इत्यपेक्षायामाह-अज्ञाश्चेत्यादि । अज्ञा नाम-भगवल्लाभार्थं साधनानुष्ठानं कर्तुमुपयुक्तज्ञानरहिताः । अज्ञानमशक्तेरप्युपलक्षणं, ‘प्रापकांतरपरित्यागस्य चाज्ञानाशक्ती न’ इत्युपरि स्वयमेव वक्ष्यति । ज्ञानाधिका नाम-ज्ञानशक्त्यादिसत्वेऽपि भगवदत्यंतपरतंत्रस्वरूपयाथात्म्यदर्शनेन उपायांतराणि स्वरूपविरुद्धानीति तत्त्यागोपयुक्तज्ञानपूर्तिमंतः । भक्तिपरवशा नाम-एकमपि क्रमेणानुष्ठातुमक्षमा भगवत्प्रेमातिशयेन शिथिलितकरणाः ।
टीका हिन्द्या
अज्ञ, ज्ञानाधिक और भक्तिपरवश ॥ ४८ ॥ वे कौन हैं इस आकांक्षा में कहते हैं-अज्ञ इत्यादि से । अज्ञ माने-भगवत्प्राप्ति के लिये साधनानुष्ठान के उपयुक्त ज्ञानरहित लोग । अज्ञान कहने से अशक्ति को भी जानना । ‘प्रापकांतर को छोडने में अज्ञान और अशक्ति कारण नहीं है’ ऐसा आगे यह लोकाचार्यस्वामी ही कहते हैं । ज्ञानाधिक माने—कर्माद्यनुष्ठान करने को ज्ञान और शक्ति होने पर भी भगवदत्यंतपरतंत्रभूत अपना स्वरूप को यथार्थ देखने से ‘उपायांतर स्वरूपविरुद्ध है’ ऐसा समझ छोडने के उपयुक्त ज्ञानपूर्तिवाले । भक्तिपरवश माने-किसी एक भी उपाय को अनुष्ठान करने में अशक्त भगवत्प्रेमातिशय से शिथिल होनेवाले ।
मूलम्
अज्ञानेन प्रपन्ना अस्मदादयो, ज्ञानाधिक्येन प्रपन्नाः पूर्वाचार्याः, भक्तिपारवश्येन प्रपन्ना दिव्यसूरयः ॥४९॥
श्लोक
अज्ञानेन वयं सर्वे ज्ञानेन पूर्वदेशिकाः ॥ प्रपन्ना भक्तियोगेन दिव्यसूरिमुखाः किल ॥४९॥
टीका संस्कृता
एवमेतदज्ञानादिहेतुना प्रपत्तिमनुतिष्ठंतोऽमुक इति ज्ञातुं शक्यते किमित्याकांक्षायामाह-अज्ञानेनेत्यादि । अज्ञानेन प्रपन्ना इति-इतरोपायानुष्ठानार्थं प्रथमतो ज्ञानाद्यभावादनन्यगतयः संतो भगवद्विषये भरन्यासकृत इत्यर्थः । अस्मदादय इति-स्वनैच्यानुसंधानेन मंदाधिकारिभिः स्वमेकीकृत्याह । ज्ञानाधिक्येन प्रपन्ना इति-उपायांतराणि स्वरूपनाशकानीति कंपप्रयोजकस्वरूपयाथात्म्यदर्शनेनागतज्ञानपूर्त्याऽनन्यगतिकाः संतः स्वरूपानुरूपं भगवति न्यस्तभरा इत्यर्थः । पूर्वाचार्याः-नाथयामुनयतिवरादयः ॥ भक्तिपारवश्येन प्रपन्नाः-भगवत्प्रेमपौष्कल्येन ‘पादौ स्तब्धौ मनः शिथिलं भवति चक्षुर्भ्रमति’ ‘पादौ हस्तौ च निश्चेष्टौ’ इत्युक्तप्रकारेण शिथिलकरणत्वेन साधनानुष्ठानयोग्यताभावादनन्यगतिकाः संतस्तस्मिन् भरसमर्पणकृतः । भक्तिपरवशानां साधनानुष्ठानं दुःशकमिति ‘त्वद्दर्शनाशायां पतित्वाहं कस्यचित्प्रयोजनयोग्योपि न’ ‘किं स्वीकुर्याम्’ इत्यादिगाथासु सूरयः स्पष्टमवादिषुः ।
टीका हिन्द्या
अज्ञान से प्रपन्न अस्मदादि, ज्ञानाधिक्य से प्रपन्न पूर्वाचार्य, भक्तिपरवशता से प्रपन्न दिव्यसूरिंगण ॥ ४९ ॥ इस प्रकार इन अज्ञानादि द्वारा प्रपत्ति करनेवाले अमुक हैं ऐसा जान सकते हैं क्या ? इस आकांक्षा में कहते हैं-अज्ञान से इत्यादि । अज्ञान से प्रपन्न—इतरोपायानुष्ठान करने के लिये ज्ञानादि न होनेसे अनन्यगति हो भगवत्चरणों में भरन्यास करनेवाले । अस्मदादि-स्वनैच्यानुसंधान से मंदाधिकारियों के साथ अपने को भी मिलाकर कहते हैं । ज्ञानाधिक्य से प्रपन्न माने-उपायांतर स्वरूपनाशक है ऐसा समझ कंप जैसा स्वरूपयाथात्म्यदर्शन से होनेवाली ज्ञानपूर्ति से अनन्यगति हो स्वरूपानुरूप भगवान में भरन्यास करनेवाले । पूर्वाचार्य माने-नाथ यामुन यतिवरादि । भक्तिपरवशता से प्रपन्न माने-भगवत्प्रेमाधिक्य से ‘पांव स्तब्ध होते हैं मन गलजाता है नेत्र घूमते हैं’, ‘चित्रलिखित के तरह हाथ पांव न हिलाते हैं ।’ इन वचनानुसार शिथिलकरण होनेसे साधनानुष्ठान करनेको असमर्थ अनन्यगति हो भगवत्चरणों में भरन्यास करनेवाले । भक्तिपरवश साधनानुष्ठान नहीं कर सकते इस विषयको ‘आप को देखने की अभिलाषा में डूबा हुआ मैं किसीका भी योग्य नहीं’, ‘आप को छोड और किस को मैं स्वीकार करसकता हूं ?’ ये दो गाथा में श्रीशठकोपसूरि सुस्पष्ट कहे हैं ।
मूलम्
एवमुक्तिराधिक्यमपेक्ष्य ॥ ५० ॥
श्लोक
अज्ञानात्वाद्यधिकं दृष्ट्वा कथनं तत्र सांप्रतम् ॥ ५० ॥
टीका संस्कृता
एवमज्ञानादिष्वेकैकस्यैव प्रपदनमूलमित्युक्तेर्मूलमाह-एवमित्यादिना । अज्ञानाशक्ती, स्वरूपयाथात्म्यज्ञानं, भगवद्भक्तिरित्येतेषु त्रिषु त्रयाणामन्वयसत्वेऽप्येकैकमेतेषां प्रपदनहेतुरित्युक्तिरेकैकस्यैवैतेष्वधिकारिष्वधिकत्वादित्यर्थः । अनेन पूर्वोक्तेष्वज्ञानिषु ज्ञानभक्ती उभे अल्पे अज्ञानमेवाधिकं वर्तते । मध्याधिकारिष्वज्ञानमल्पं भक्तिश्च परिमिता ज्ञानमेवाधिकं वर्तते । पश्चादुक्तेष्वज्ञानमत्यल्पं स्वरूपज्ञानस्यान्यूनतया स्थितावपि प्रेमोत्कूलंकषतया वर्तते । तस्मात्सर्वेषां सर्वेषु सत्वेऽप्यल्पयोः सतोर् अधिक एव तेषां प्रपदनहेतुरित्युक्तम् । अस्यां योजनायाः कश्चन दोषोऽस्ति-निर्हेतुककृपालब्धज्ञानानां सूरीणामप्यज्ञानं किंचिद्वर्तत इत्यंगीकारावश्यकत्वात् । स हि कथमिति चेत्-‘आधिक्यमपेक्ष्य’ इति मूलमनुसंधानपरं कृत्वा योजनायां न विरोधः । तदा ‘एवम्’ इत्यादेः-अज्ञानाशक्ती स्वरूपयाथात्म्यज्ञानं भगवद्भक्तिरित्येतेषां त्रयाणामनुसंधानस्य त्रिष्वपि येन केनचित्प्रकारेण सत्वेऽप्येकैकमेवैषां प्रपदनहेतुरित्युक्तिः-तेष्वेकैकस्याधिकारिषु अनुसंधानस्याधिक्यमपेक्ष्येति संगतिः । तथाचानन्यगतित्वपूर्वकं प्रपत्त्यर्थमज्ञानाद्यनुसंधानस्य त्रिष्वपि सत्त्वेऽपि तेषां मध्ये यदेवाधिकं तदेव स्वस्य स्वस्यानन्यगतित्वपूर्वकप्रपत्त्युपायहेतुत्वेनानुसंहितत्वात्तन्मुख्यं भवतीत्यर्थः । अत्र प्रथमाधिकारिणामज्ञानानुसंधानं स्वतः प्रामाणिकमध्यमोक्तानां सर्वज्ञत्वादज्ञानस्य सवासननिवृत्तेरसंभवादज्ञानानुसंधानमुचितं, पश्चादुक्तानां निर्हेतुककृपालब्धज्ञानत्वादज्ञानानुसंधानं नैच्यनिबंधनमात्रम् ।
टीका हिन्द्या
इस प्रकार कहनेका कारण अधिकता है ॥ ५० ॥ इस प्रकार अज्ञानादियों में एक एक ही को इन के प्रपत्ति करने में हेतुतया कहनेका कारण अमुक है ऐसा कहते हैं-इस प्रकार इत्यादि । अज्ञानाशक्ति, स्वरूपयाथार्थ्यज्ञान और भगवद्भक्ति इन तीनों में अज्ञानी, ज्ञानी और भक्तिपरवश ये तीनों को भी संबंध रहते हुए एक एक ही इन के प्रपत्ति करने में हेतुतया कहना-इन में एक एक ही इन अधिकारियों में अधिकतया रहनेसे । इस से-अज्ञानियों में ज्ञानभक्ति ये दोनों अल्प हो अज्ञान ही अधिक है । ज्ञानाधिकों में अज्ञान और भक्ति ये दोनों अल्प हो ज्ञान ही अधिक है । भक्तिपरवशों में अज्ञान अत्यल्प हो स्वरूपज्ञान पूर्ण होनेपर भी प्रेम कूलंकष है । इस कारण सब सब में होनेपर भी अल्पापेक्षया अधिक ही प्रपत्ति करनेका कारण होता है ऐसा समझना । इस योजना में एक न्यूनता है-अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] को प्राप्त हुए सूरियों को भी अल्प अज्ञान है ऐसा मानना आवश्यक होनेसे । तब कैसा योजना करें ? इस आकांक्षा में कहते हैं-अधिकता है इस को अनुसंधान में मिला योजना करनेसे विरोध नहीं है । इस प्रकार इत्यादि–अज्ञानाशक्ति स्वरूपयाथात्म्यज्ञान और भगवद्भक्ति रूप इन तीनोंका अनुसंधान तीनों अधिकारियों में किसी न किसी प्रकार होने पर भी एक एक ही इन के प्रपत्ति करनेका हेतुतया कहना-इन में एक एक का ही इन अधिकारियों को अधिकतया ज्ञान होना । तात्पर्य यह है कि-अनन्यगति हो प्रपन्न होने के लिये अज्ञानादि त्रयानुसंधान तीनों को होनेपर भी अज्ञानादि तीनों में जो अधिक है उस ही को अपने अपने के अनन्यगति हो प्रपत्ति करने का हेतुतया अनुसंधान करने से वही मुख्य मानाजाता है । इन में अज्ञानियों को अज्ञानानुसंधान स्वतः है । प्रामाणिक ज्ञानाधिकों को सर्वज्ञत्वाभाव से अज्ञान की सवासननिवृत्ति असंभव होनेसे अज्ञानानुसंधान संगत है । भक्तिपरवश अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] को प्राप्त होनेसे अज्ञानानुसंधान केवल नैच्यानुसंधान प्रयुक्त जानना ।
मूलम्
एतत्त्रयं च तत्त्वत्रयमवलंब्यागच्छति ॥५१॥
श्लोक
तत्त्वत्रयं समालंब्य त्रयमेतत्प्रवर्तते ॥ ५१ ॥
टीका संस्कृता
एतदज्ञानादित्रयस्य च कारणमेतदित्याह-एतत्त्रयं चेत्यादिना । तत्त्वत्रयमवलंब्यागच्छतीति-साधनानुष्ठाने ज्ञानाशक्त्योर्हेतुः कर्मनिबंधनाचित्संबंधोऽतोऽज्ञानमचित्संबंधमवलंब्यागच्छति । इतरसाधनानि स्वरूपविरुद्धानीति तत्परित्यागोपयुक्तज्ञानपूर्तेर्हेतुर्मध्यमपदे उक्तमात्मस्वरूपयाथात्म्यदर्शनं, अतो ज्ञानाधिक्यमात्मतत्त्वमवलंब्यागच्छति । एकस्यापि क्रमेणानुष्ठानाशक्त्यापादककरणशैथिल्यावहभक्तिवृद्धेः कारणं ‘भक्तिं समुद्रवदपारां वर्धयन्मेघसदृशश्यामदिव्यमंगलविग्रहविशिष्टः’ इत्युक्तं भगवद्विग्रहवैलक्षण्यं, अतो भक्तिपारवश्यं भगवत्तत्त्वमवलंब्यागच्छतीत्यर्थः ।
टीका हिन्द्या
ये तीनों तीन तत्त्वों को अवलंबनकर होते हैं ॥ ५१ ॥ इन अज्ञानादि तीनों का कारण बताते हैं-ये तीनों इत्यादि । तीन तत्त्वों को अवलंबन कर होते हैं—साधनानुष्ठान में अज्ञानाशक्तियों का कारण कर्मनिमित्तभूत अचित्संसर्ग होनेसे, अज्ञान-अचित्संबंध को अवलंबन कर होता है । इतर साधन को स्वरूपविरुद्ध समझ परित्याग करने के लिये ज्ञानपूर्ति का कारण मध्यमपद (नमः) में कहे जानेवाले आत्मयाथात्म्यदर्शन होनेसे, ज्ञानाधिक्य-आत्मतत्त्व को अवलंबन कर होता है । किसी एक साधन को भी क्रम से अनुष्ठान नहीं करसकनेका कारण शिथिलता है । वह शिथिलता का मूल भक्तिवृद्धि का कारण ‘भक्ति को समुद्रसदृश बढाने वाले मेघसदृश विग्रह’ इस वचनानुसार भगवद्विग्रह का सौंदर्य होनेसे, भक्तिपरवशता भगवत्तत्त्व को अवलंबन कर होती है ।
मूलम्
‘किमहं कुर्याम्’ इत्यत्रैतत्त्रयमप्यस्ति ॥ ५२ ॥
श्लोक
किं कुर्यामहमित्यत्र त्रयमेतत्प्रकाशते ॥ ५२ ॥
टीका संस्कृता
अधिकारित्रयस्याज्ञानादित्रयेष्वन्वये सत्यप्येकैकस्यैव प्रपदनहेतुत्वोक्तिः-आधिक्यमपेक्ष्येति खलूक्तम् । एवमेकस्मिन्नधिकारिणि एतत्त्रयमप्यस्तीत्यत्र किं प्रमाणमित्यत आह-किमहं कुर्यामित्यादि । भगवता स्वस्यार्तिं दृष्ट्वा कृपाऽकरणात्स्वप्राप्तौ किंचित्साधनमनुष्ठानं कर्तव्यमिति स्थित इति विचार्य उपायांतरानुष्ठानस्य योग्यता यथा न स्यात्तथा ‘अज्ञोऽहं किं कुर्याम् ।’ ‘ज्ञानमददाम’ इति भगवद्दत्तज्ञानेन स्वरूपपारतंत्र्यं ज्ञात्वा साधनानुष्ठानमप्राप्तमिति स्थितोऽहं किं कुर्याम् । स्वरूपाप्राप्तमपि त्वत्प्राप्तिसाधनं चेदनुष्ठेयं स्याद्धि विज्ञानमात्रं दत्तवांश्चेत्, भक्तिरूपापन्नज्ञानप्रदानादेकमपि क्रमेणानुष्ठातुमक्षमत्वावहभक्तिपरवशोऽहं किं कुर्याम् । इत्युक्तत्वादेतत्त्रयमपि परांकुशस्य विवक्षितमतोऽत्रैतत्त्रयमप्यस्तीत्यर्थः । तस्मादिदं प्रमाणमिति भावः ।
टीका हिन्द्या
‘क्या मैं कर सकता हूं’ इस स्थल में ये तीनों हैं ॥ ५२ ॥ तीनों अधिकारियों को अज्ञानादि तीनों में संबंध होनेपर भी एक एक ही को प्रपत्ति करने का कारणतया कहना ‘अधिकता है’ ऐसा पहले कहा है, इस प्रकार एक अधिकारि में ये तीनों का होना कहां देखसकते हैं ? इस आकांक्षा में कहते हैं-क्या मैं इत्यादि । भगवान् अपनी आर्ति देख कृपा न करने से अपनी प्राप्ति के लिये किंचित् साधनानुष्ठान की अपेक्षा है ऐसा भगवान् का अभिप्राय समझ उपायान्तरानुष्ठान के लिये योग्यता रहित अज्ञानी मैं क्या करसकता हूं ? ‘हम आप को ज्ञान दिये हैं’ ऐसा भगवान् के कहने पर, आप के दिये हुए ज्ञान से हमारे स्वरूप को परतंत्र जान साधनानुष्ठान के अयोग्य समझ रहने वाले हम क्या कर सकते हैं ? स्वरूप का उचित न होनेपर भी आप की प्राप्ति के कारण हो तो उस साधनांतर को भी कर सकते यदि ज्ञानमात्र दिये होते ऐसा न कर भक्तिरूपापन्न ज्ञान को देनेसे किसी एक साधन को भी क्रम से अनुष्ठान नहीं करसके तादृश भक्तिपरवश मै क्या कर सकता हूं ऐसा ये तीनों श्रीशठकोपसूरि में रहने से उन में देखना ।
मूलम्
तत्रैकमवलंब्य वर्तते ॥ ५३ ॥
श्लोक
अज्ञानज्ञानभक्तीनां मध्ये ह्येकमवलंब्य वर्तते ॥ ५३ ॥
टीका संस्कृता
तत्त्रयमप्यत्र प्रपत्तिकारणं कुतो न भवतीत्यतस्तत्रैकमवलंब्य वर्तत इत्याह-तत्रैकमित्यादिना । तत्र प्रपदनं त्रिष्वाधिक्येन स्थितं भक्तिपारवश्यमेव स्वहेतुत्वेन स्वीकृत्य वर्तत इत्यर्थः ।
टीका हिन्द्या
वहां एक को अवलंबन कर रहती है ॥ ५३ ॥ तब ये तीनों शठकोपसूरि के प्रपत्ति करनेका कारण होता है क्या ? इस आकांक्षा में कहते हैं वहां एक को अवलंबन कर इत्यादि । वहां-श्रीशठकोपसूरि में । प्रपत्ति-अज्ञानाशक्ति ज्ञानाधिक्य और भक्तिपरवशता इन तीनों में मुख्यतया भक्तिपरवशता को अपने हेतुतया अवलंबन कर रहती है ।
मूलम्
मुख्या सैव ॥५४॥
श्लोक
भक्त्यंगिका प्रधाना स्यादितरे न तथा मते ॥ ५४ ॥
टीका संस्कृता
एतद्धेतुत्रयकप्रपदनेषु मुख्यं किमित्याकांक्षायामाह- मुख्येत्यादि । भक्तिपारवश्यहेतुकप्रपदनकरणसमये प्राप्यरुचेर्निर्बाधतया स्थितत्वात्तदेव मुख्यमित्यर्थः ।
टीका हिन्द्या
मुख्य वही है ॥ ५४ ॥ इन तीनों हेतुओं से होनेवाली प्रपत्तियों में मुख्य कौन है ? इस आकांक्षा में कहते हैं—मुख्य वही है इत्यादि । भक्तिपरवशता द्वारा प्रपत्ति करनेपर प्राप्यवस्तु में रुचि निरातंक परिपूर्ण होनेसे वही मुख्य है ।
मूलम्
‘अविद्यातः’ इति श्लोके एतत्त्रयमप्युक्तम् ॥ ५५ ॥
श्लोक
अविद्यात इति श्लोके त्रयमेतदपि स्मृतम् ॥ ५५ ॥
टीका संस्कृता
एवमेतदधिकारित्रये प्रमाणं किमित्यपेक्षायां प्रथमं भट्टार्योक्तं कंचन श्लोकमुदाहरति–‘अविद्यातः’ इत्यादिना । ‘अविद्यातोऽथ वा ज्ञात्वा परिवृढतया वा विदितया स्वभक्तेर्भूम्ना वा जगति गतिमन्यामविदुषाम् । गतिर्गम्यश्चासौ हरिरिति जितंताह्वयमनो रहस्यं व्याचख्यौ स खलु भगवान् शौनकमुनिः ॥’ अस्य श्लोकस्यार्थं जितंताव्याख्यानोपोद्घाते-प्रपत्तेरधिकारिणोऽज्ञाः, सर्वज्ञाः, भक्तिपरवशाश्चेति त्रिविधा इति भट्टार्या अवदन्नित्यारभ्य, अज्ञो नाम भगवल्लाभाय स्वस्मिन् ज्ञानशक्तिरहितः । सर्वज्ञो नाम-देशकालवस्तुभिरपरिच्छेद्यवैभव ईश्वर इति स्थितत्वादनन्यसाध्य इति स्थितः । भक्तिपरवशो नाम-ज्ञानशक्त्योः सत्वेपि क्रमेणानुष्ठातुमशक्तः । एतत्त्रयोऽपि भगवद्विषयं विनान्योपायोऽस्तीति ज्ञानरहिताः । एतेषां प्रापकश्च प्राप्यश्च भवति सर्वेश्वर एवेति ‘जितंते’ इति नामविशिष्टमंत्ररहस्यस्य सर्वज्ञः शौनकभगवान्व्याख्यानमकरोदिति वदंतीति श्रीमत्कृष्णपादा अवदन् । ‘ज्ञानाधिक्येन प्रपन्नाः’ इत्यत्र स्वरूपयाथात्म्यज्ञानं प्रपदनहेतुत्वेनोक्तं, अस्मिन् श्लोके भगवदनन्यसाध्यत्वज्ञानं प्रपदनहेतुत्वेनोक्तं, तस्मादुभयमपि ज्ञानाधिकारिणोऽनन्यगतित्वपूर्वकप्रपदनहेतुर्भवतीत्यंगीकार्यम् । पूर्वमप्ययमेवार्थः स्यादिति चेन्न; एतत्त्रयमपि तत्त्वत्रयमवलंब्यागच्छतीत्यनेनानन्वयापत्तेः ।
टीका हिन्द्या
‘अविद्यातः’ इस श्लोक में ये तीनों प्रपत्तियां कही गयीं ॥ ५५ ॥ इन तीनों अधिकारियों के विषय में प्रमाण है क्या ? इस आकांक्षा में पहिले भट्टार्यस्वामीजी के एक श्लोक को उदाहरण देते हैं—अविद्यातः इत्यादि । ‘अविद्या (अज्ञान) से परमात्मा की प्रपत्ति करते हैं । ज्ञानीलोग समर्थ होनेपर भी परमात्मा की प्रपत्ति करते हैं । अपनी भक्ति की अधिकता से परमात्मा की प्रपत्ति करते हैं । ये तीनों अधिकारि जगत् में और कोई उपाय को नहीं देखते हैं । इन तीनों को भगवान् ही उपाय और उपेय हैं । ऐसा जितंते नामक मंत्र का रहस्य को शौनकभगवान् व्याख्यान किये हैं ।’ इस श्लोकका अर्थ जितंतेव्याख्यान के उपोद्घात में प्रपत्ति के अधिकारी अज्ञ, सर्वज्ञ और भक्तिपरवश ऐसा तीनप्रकार भट्टार्य कहे हैं । अज्ञ माने-भगवल्लाभ के लिये ज्ञानशक्ति रहित । सर्वज्ञ माने-देशकालवस्तुओं से अपरिच्छेद्य वैभववाले सर्वेश्वर ऐसा समझ रहने से परमात्मा साधनांतरों से साध्य नहीं ऐसा माननेवाले । भक्तिपरवश माने-ज्ञानशक्ति होनेपर भी क्रम से अनुष्ठान नहीं कर सकनेवाले । ये तीनों भगवान को छोडकर और उपायों को नहीं जानते हैं । इन को उपाय और उपेय रूप से सर्वेश्वर ही हैं । ऐसा जितंते नामक मंत्ररहस्य का व्याख्यान सर्वज्ञ शौनकमुनि किये हैं यह हमारे भाग्य ही है ऐसा भट्टार्य विद्ध होते हैं । ऐसा श्रीमत्कृष्णस्वामी कहे हैं । ‘ज्ञानाधिक्य से प्रपन्न’ इस स्थल में स्वरूपयाथात्म्यज्ञान प्रपत्ति का हेतुतया कहागया । पूर्वोक्त श्लोक में भगवान् को और किसी उपाय से प्राप्त न होसकते ऐसा समझना प्रपत्ति का हेतुतया कहागया । तथाच दोनों को ज्ञानाधिकों के अनन्यगतित्वपूर्वक प्रपत्ति करने को हेतुतया जानना ।
मूलम्
‘इदं शरणमज्ञानाम् ॥’ ५६ ॥
श्लोक
इदं शरणमज्ञानामिदमेव विजानताम् । इदं तितीर्षतां पारमित्यादिकं वचः ॥ ५६ ॥
टीका संस्कृता
अनंतरमेतदर्थविषयमखिलजगन्मात्राप्ततमया लक्ष्म्या लक्ष्मीतंत्रोक्तं वचनमुपादत्ते-इदमित्यादिना । ‘इदं शरणमज्ञानामिदमेव विजानताम् । इदं तितीर्षतां पारमिदमानंत्यमिच्छताम् ॥’ अस्मिन् श्लोके इदमिति परामृशति पूर्वोक्तां शरणागतिम् । ‘उपायापायनिर्मुक्ता मध्यमां स्थितिमास्थिता । शरणागतिरग्र्यैषा संसारार्णवतारिणी ॥’ इति खलु पूर्वमुक्तम् । लिंगव्यत्ययः शरणशब्दविवक्षया । अज्ञसर्वज्ञयोः स्फुटमुक्तत्वादुपरि भक्तिपरवशा उच्यंते इत्यंगीकार्यम् । इदं तितीर्षतां पारमिति-शीघ्रमनिष्टनिवृत्तिः स्यादिति त्वरायुक्तानामित्यर्थः । आनंत्यमिच्छतामिति-स्वरूपप्राप्तपरिपूर्णभगवदनुभवप्राप्तिमंतरा धर्तुमशक्यानामित्यर्थः । एतद्द्वयमपि भक्तेर्भूम्नाऽऽगच्छति । भक्तिपारवश्यमुपायांतरानुष्ठानेऽशक्तेः प्रयोजकम्, अनिष्टनिवृत्ताविष्टप्राप्तौ च विलंबाक्षमताया मूलं भवति । तत्र विलंबाक्षमताया मूलभूत आकारोऽस्मिन् श्लोके उच्यते । तर्हि पूर्वमशक्तेर्मूलतया खलूक्तं तस्येदं प्रमाणं कथं भवेदिति चेत्-अधिकारित्रैविध्यप्रदर्शनमात्रस्यात्रापेक्षितत्वादिदं प्रमाणमित्युक्तौ न विरोधः । ‘अविद्यातः’ इति श्लोके ज्ञानाधिक्यस्य मूलतयोक्तस्य पूर्वोक्तस्य च भिन्नत्वेऽप्यधिकारित्रैविध्यस्य प्रमाणत्वेन तत्कथनवत् ।
टीका हिन्द्या
‘यह अज्ञों को उपाय है’ ॥ ५६ ॥ अनंतर इस अर्थ के विषय में अखिलजगन्माता आप्ततमा महालक्ष्मी से लक्ष्मीतंत्र में कहा हुआ वचन को दिखाते हैं-यह अज्ञों को उपाय है इत्यादि । ‘यह अज्ञों को उपाय है, यही ज्ञानियों को भी उपाय है, यह पारहोने की इच्छा और भगवदनुभव में त्वरावालों को उपाय है ।’ इस श्लोक में ‘इदं’ शब्द से शरणागति को कहते हैं|-‘उपाय और अपाय से रहित मध्यम स्थिति को आश्रयण करनेवाली शरणागति श्रेष्ठ और संसारसमुद्र को तराने वाली है ।’ ऐसा लक्ष्मीतंत्र में कहने से इस में अज्ञसर्वज्ञ स्पष्टतया कहे जानेसे आगे भक्तिपरवशों को कहते हैं समझना । पार होनेकी इच्छावाले माने-शीघ्र अनिष्टनिवृत्ति के लिये त्वरावाले । भगवदनुभव में त्वरावाले माने-परिपूर्ण भगवदनुभव को पाये विना धारण नहीं करसकने वाले । ये दोनों भक्ति की अधिकता से होते हैं । भक्तिपरवशता उपायान्तरानुष्ठान में अशक्ति का कारण और अनिष्टनिवृत्ति इष्टप्राप्ति में त्वरा करने में भी कारण होती है । इस श्लोक में विलंब नहीं सहने के आकार को कहते हैं । पहिले अशक्ति का कारणतया कहा, उस को यह कैसे प्रमाण हो सका है ? इस आकांक्षा में कहते हैं-अधिकारी तीन प्रकार के हैं ऐसा दिखाने इस स्थल में अपेक्षित होनेसे यह प्रमाण हो सकता है । ‘अविद्या से’ इस श्लोक में ज्ञानाधिक्य का कारणतया कहा हुआ और पूर्वोक्त ये दोनों अलग होनेपर भी अधिकारी तीन प्रकार के हैं इस में प्रमाणतया जैसा लिया है तैसा ही यह भी जानना ।
मूलम्
भक्त्यवस्थाभेदोत्पत्तौ इयं नष्टा भवति ॥ ५७॥
श्लोक
भक्त्यवस्थाविभेदे प्रपत्तिर्नाशमेष्यति ॥ ५७॥
टीका संस्कृता
एवं प्रपत्त्यधिकारित्रैविध्यस्य प्रमाणं प्रादर्शयत् । एतत्त्रिविधप्रपत्तिषु भक्तिपारवश्यप्रपत्तिरेव मुख्येति खलु पूर्वमुक्तं, एवंभूतप्रपत्तिनिष्ठानां तन्निष्ठानाशे सति भगवल्लाभार्थं स्वयत्नेऽन्वये सति तस्मिन्नागते तदुपेक्षणस्य किं निदानमित्यत आह-भक्तावित्यादिना । भक्त्यवस्थाभेदोत्पत्तिर्नाम-करणशैथिल्येन स्वयत्नाक्षमाणां तमेवोपायत्वेनाव्यवस्यतां तदागमनप्रतीक्षणावस्थामात्रं विना नेत्रभ्रमेण येन केनचित्प्रकारेण वेदानीमेव प्राप्तव्य इत्यतिमात्रत्वरावस्थाया उत्पत्तिः । इयमिति प्रपत्तिरुच्यते । तादृशावस्थोत्पत्तौ प्रपत्तिनाशो नाम-‘किमहं कुर्याम्’ इति स्वप्रवृत्तावन्वयं विहाय भगवति न्यस्तभरतया स्थितस्थितेर्नाशः ।
टीका हिन्द्या
भक्ति के अवस्थाभेद होनेपर यह प्रपत्ति नष्ट होती है ॥ ५७ ॥ तथाच-प्रपत्त्यधिकारी तीन प्रकार हैं इस में प्रमाण दिखा, इन तीन प्रपत्तियों में भक्तिपरवशता के कारण की जानेवाली प्रपत्ति ही मुख्य ऐसा पहिले कहे हैं । एवंभूत प्रपत्तिनिष्ठ अधिकारी उस निष्ठा को छोड भगवल्लाभ के लिये स्वयत्न में लगना, सर्वेश्वर आनेपर उन को उपेक्षा करना इत्यादि का कारण क्या ? इस आकांक्षा में कहते हैं-भक्ति के अवस्थाभेद होनेपर इत्यादि । भक्ति के अवस्थाभेद होना माने-करणों की शिथिलता से स्वयत्न में असमर्थ हो सर्वेश्वर ही को उपायतया विश्वास कर उन के आगमन की प्रतीक्षा करना रूप अवस्थापर्यंत न हो नेत्र घूमने पर किसी एक प्रकार से उन को अब ही प्राप्त होवेंगे ऐसा अतिमात्रत्वरावस्था होना । यह प्रपत्ति । तादृशावस्था होनेपर प्रपत्ति नष्ट होना माने—‘क्या मैं करूंगा’ ऐसा स्वप्रयत्न में संबंध छोड भगवान के ऊपर अपना भार रख निर्भर होनेकी अवस्था नष्ट होना ।
मूलम्
स्वमलंकारयति धारयति च ॥ ५८ ॥
श्लोक
स्वेनालंक्रियते स्वेन धार्यते भक्तिभेदतः ॥ ५८ ॥
टीका संस्कृता
एवं प्रपत्तिनिष्ठानाशकतयोत्पन्नभक्तेरवस्थाभेदेनापाद्यमाह-स्वमित्यादिना । स्वमलंकारयतीति-‘कंठभूषणविशेषं धत्ते’ इत्यादिप्रकारेण तदागमनस्य हेतुतया स्वमलंकुर्वती प्रेरयतीत्यर्थः । भगवल्लाभार्थं स्वयत्ने प्रेरयतीति यावत् । इदं मंडलूरहणप्रभृतिषु प्रेरणस्य चोपलक्षणम् । धारयतीति-अर्धक्षणमपि तं विना धारणासामर्थ्यात् तदागमनहेतुतया स्वयत्ने प्रेरकः स एव तस्मिन्नागते विलंबरोषेण ‘गच्छ पूर्ण’ ‘अस्मद्गोष्ठीं नारोह’ इति तमुपेक्ष्य निष्कास्य धारणयुक्तां करोतीत्यर्थः । एवमेतद्द्वाभ्यां ‘किमहं कुर्याम्’ इति ‘धर्तुं न शक्नोमीतः परम्’ इति च स्थितेः प्रतिकोटिमापादयतीत्युक्तम् । तस्मादेतत्प्रपत्तिनिष्ठानाशनेन स्वप्रवृत्त्याद्यवगाहनमूलं भक्तेरवस्थाभेद इति भावः ।
टीका हिन्द्या
अपने को अलंकृत कराती है, धारण कराती है ॥ ५८ ॥ इस प्रकार प्रपत्तिनिष्ठा को नाशकरनेवाली भक्ति के अवस्थाभेद को कहते हैं-अपने को इत्यादि । अपने को अलंकृत कराना माने-‘कंठभूषण धारण करती है’ इस वचनानुसार परमात्मा के आगमन के लिये अलंकृत कराना । भगवल्लाभ के लिये स्वयत्न में लगाना । इस से मंडल ग्रहण करना इत्यादि में लगाना भी सूचित होता है । धारण करना माने-अर्धक्षण भी उस के विश्लेष में धारण नहीं कर सकनेसे उस के आगमन के लिये स्वयत्न में लगाने वाली वही भक्ति उस के आनेपर विलंबरोष से ‘जाओ हे पूर्ण !’ ‘हमारी गोष्ठी में मत आना’ ऐसा उस को उपेक्षा कर हटाकर धारण करने योग्य बनाना । तथाच इन दोनों से ‘मैं क्या करूंगा’ ‘इस के बाद धारण नहीं कर सकता हूं’ ऐसी स्थिति को नाशकरती है समझना । इस लिये प्रपत्तिनिष्ठा नष्ट हो स्वप्रवृत्त्यादि में लगनेका कारण भक्ति का अवस्थाभेद समझना ।
मूलम्
एतौ स्वभावविशेषौ कल्याणगुणेष्वपि, श्रीशरेष्वपि श्रीनामस्वपि वेणुनादे च द्रष्टुं योग्यौ ॥ ५९ ॥
श्लोक
एतौ स्वभावभेदौ वै श्रीनामसु शरेषु च ॥ कल्याणगुणरत्नेषु द्रष्टुं योग्यौ वेणुध्वनौ तथा ॥ ५९ ॥
टीका संस्कृता
स्वमलंकारयति धारयति चेति भगवदागमनहेतुतया कृषीकरणं, आगते सति तदुपेक्षणं चेति परस्परविरुद्धस्वभावावापादयतीति प्रकारो ह्युक्तः । एवं भक्त्या स्वावस्थाविशेषैश्चेतनानामापाद्यमानौ परस्परविरुद्धस्वभावौ केवलं तद्विषये न भवतः किंतु तत्संबंधिवस्तुविषये च द्रष्टुं योग्य इत्यत आह-एतावित्यादिना । एतौ स्वभावविशेषौ इति पूर्वोक्तावेव नोच्येते किंतु एवंभूतौ स्वभावविशेषौ इत्यर्थः । तौ चानुभाव्यविषयस्यैकरीत्या स्थितावपि तमनुभवतां धारकत्वेन भानं बाधकत्वेन भानं च । कल्याणगुणेष्वित्यादि-‘गोविंदगुणं गात्वा प्राणं रक्षामि’ इति धारकत्वेन, ‘प्रबलपापिन्या मां बाधमानगुणविशिष्ट’ इति बाधकत्वेन चोक्तत्वात् कल्याणगुणविषये च । ‘शरेषु व्यापृतशीतलकमलसदृशनेत्रविशिष्टं विना मम हृदयं साभिलाषं न तिष्ठति’ इति धारकतया, ‘शराण्येव क्रूरतया हिंसंति’ इति बाधकतया चोक्तत्वाच्छरविषये च । ‘श्रियःपतिं गायति श्रुत्वा भव्यं शुकमंजलिं कृत्वा नमश्चकार’ इति धारकत्वेन, ‘कृष्णस्य नामान्येवाक्रमेण हिंसंति’ इति बाधकत्वेन चोक्तत्वात् श्रीनामविषये च । ‘अस्मदर्थमेवैकस्मिन् दिवसे वादयितुं तव वेणोर्मधुरस्वरो नागच्छति’ इति धारकत्वेन, ‘तस्य क्रूरस्वरो वेणुर्हिनस्ति’ इति बाधकत्वेन चोक्तत्वात् श्रीवेणुनादविषये च द्रष्टुं योग्यावित्यर्थः । सदैकप्रकारेण भोग्यभूतानां कल्याणगुणादीनां धारकत्वेन भानं, बाधकत्वेन भानं चानुभवितृणामेषां प्रेमस्वभावविशेषैर्हि नतु गुणादीनां स्वरूपभेदेन, अतो भक्त्यवस्थाविशेषजनितस्वभावविशेषौ तत्तद्वस्तुविषये च द्रष्टुं योग्यावित्युच्यते । यद्यपि गुणादीनां धारकत्वेन बाधकत्वेन चोक्तस्थले उभयोरप्येकोक्तित्वं नास्ति तथापि सूरीणां सर्वेषामेकप्रकृतिकत्वात् सर्वेषामपि भक्तेर्भगवत्प्रसादलब्धपरभक्तिरूपत्वात् तादृशभक्तिस्वभावविशेषाणां प्रदर्शनमात्रस्यापेक्षितत्वाच्च न विरोधः । ननु ‘शराण्येव क्रूरतया हिंसंति’ इति पराजितराक्षसानां वचनं खलु तस्य ‘शरेषु व्यापृत’ इत्यस्य प्रतिकोटित्वं कथमिति चेन्न-रामविजयस्य स्वेष्टत्वात्तद्विजयविषयाणां पराजितराक्षसानां दशोत्पत्त्या, महिषीणां दशोत्पत्त्या यथा वदति तथा स्वस्वरूपभावेन विना पराजितराक्षसवचनेन विजयमुक्त्वाऽनुभवतीति खलु तद्दशकस्य व्याख्यानं कुर्वद्भिराचार्यैरक्तं, तस्मात्स्वप्रेमस्वभावेन तदवस्थाप्राप्त्यनंतरं श्रीशराणां बाधकत्वस्य च स्वस्यैव भानेनोक्तत्वात् तथोक्तौ न विरोधः । अथवा ‘स्वमलंकारयति धारयति च’ इति द्वाभ्यां स स्वयमेव यावदागच्छति तावद्धारणासामर्थ्येनागमनहेतुत्वेन यत्नं कारयति, आगते प्रणयरोषेणोपेक्ष्य धृत्वा स्थितिं कारयतीति ह्युक्तं, एवं विरुद्धस्वभावावेकैवापादयतीति अन्यत्रापि कचिद्विषयेषु दृश्यते किमित्यत आह-एताविति । एतादृशस्वभावविशेषौ गोविंदगुणं गात्वेत्यारभ्य पूर्वोक्तप्रकारेण एकस्यां दशायां धारकत्वोक्तिः एकस्यां दशायां बाधकत्वोक्तिश्चेत्येवमेतेषां धारणबाधनरूपविरुद्धस्वभावावापादयत्सु कल्याणगुणादिष्वपि द्रष्टुं योग्यावित्यर्थः । एवं प्रपत्तेरित्यारभ्यैतावत्पर्यंतं प्रपत्तिवैभवं तद्विषयवैभवं तदधिकारित्रैविध्यं त्रिविधप्रपत्तिषु भक्तिपारवश्यहेतुकप्रपत्तेर्मुख्यत्वं, तद्धेतुभूतभक्त्यवस्थाभेदेन प्रयुक्तं नाशं तादृशभक्त्यवस्थाभेदेन क्रियमाणप्रशंसं चाभ्यधात् ।
टीका हिन्द्या
ये स्वभावविशेष कल्याणगुण, बाण, श्रीनाम और श्रीवेणुगान में भी देखे जाते हैं ॥ ५९ ॥ ‘अपने को अलंकृत कराती है, धारण कराती है’ ऐसा भगवान् के आगमनके लिये यत्न करना, उस के आनेपर उस को उपेक्षा करना इस प्रकार परस्पर विरुद्ध स्वभावों को उत्पादन करती है ऐसा कह, अनंतर-केवल भगवद्विषय में ही नहीं किंतु भगवत्संबंधि वस्तुओं के विषय में भी भक्ति के अवस्थाविशेष परस्पर विरुद्ध स्वभावों को उत्पादन करता है ऐसा दिखाते हैं-ये स्वभावविशेष इत्यादि । ये स्वभावविशेष—पूर्वोक्त से भिन्न स्वभावविशेष । वे कौन हैं ? इस शंका में कहते हैं-अनुभाव्य विषय एकरीति होनेपर भी उस के अनुभव करनेवाले इन सूरियों को धारकतया बाधकतया भान होना । कल्याणगुणों में इत्यादि-‘गोविंद के गुण गानकर प्राण को रक्षा करती हूं’ इति धारकतया, ‘प्रबलपापिन्या मुझ को बाधक गुणवाले’ ऐसा बाधकतया भी कहने से कल्याणगुणों के विषय में, ‘बाणों को प्रयोग करनेवाले शीतल कमलनेत्र के बिना मेरा मन झुकता नहीं’ ऐसा धारकतया, ‘बाण ही क्रूर हो पीडा करते हैं’ ऐसा बाधकतया भी कहने से बाणों के विषय में, ‘श्रियःपति को गानेपर सुन भव्य शुक को हाथ जोड प्रणाम की है’ ऐसा धारकतया, ‘कृष्ण के नामों को ही बक कर मार दिये हो’ ऐसा बाधकतया भी कहने से श्रीनामों के विषय में, ‘हमारे लिये ही एक दिन आ बजाने को तुझारे वेणु के स्वर नहीं आता है’ ऐसा धारकतया, ‘उस का क्रूर वेणु बाधक है’ ऐसा बाधकतया भी कहने से श्रीवेणुगान के विषय में भी देख सकते हैं । सदा एकरीति से भोग्यभूत कल्याणगुणादि धारकतया और बाधकतया भान होना-अनुभव करने वाले इन सूरियों के प्रेमभावविशेषों से ही है न तु गुणादियों के स्वरूपभेद से । इस कारण भक्त्यवस्थाभेद से होने वाले स्वभावविशेष पूर्वोक्त वस्तुओं के विषय में भी देख सकते हैं । गुणादियों को धारकत्वेन भोग्यत्वेन कहने के स्थल में एक ही सूरी की वार्ता न होनेपर भी सब सूरिलोग एक स्वभाववाले होनेसे सब की भक्ति भगवत्प्रसादलब्ध होनेसे और तादृश परभक्ति के स्वभावविशेष को दिखाना ही यहां पर अपेक्षित होनेसे विरोध नहीं । ‘बाण ही अतिक्रूर हो बाधक होते हैं’ यह हारनेवालों के वचन हैं इस को ‘बाणों को प्रयोग करनेवाले’ इस का प्रतिकोटि (विरोधी) कैसे कह सकते हैं ? इस आकांक्षा में कहते हैं-‘राम का विजय अपना इष्ट होनेसे तादृश विजय के लक्ष्य होनेवाले राक्षसों की दशा उत्पन्न हो, महिषीदशा उत्पन्न होनेपर जैसे बात करते हैं तैसे अपने को भूल राक्षसों के वचनों से विजय को कह अनुभव करते हैं ।’ ऐसा परकालसूरि की सूक्ति का व्याख्यान करने वाले कहे हैं । इस कारण अपने प्रेमस्वभाव से तादृशावस्थाविशिष्ट होनेपर बाणों का बाधकपना अपने को भान हो कहने से विरोध नहीं है । अथवा ‘अपने को अलंकृत कराती है धारण कराती है’ इन दोनों से सर्वेश्वर आने तक धारण नहीं कर यत्न में लगाना, आनेपर प्रणयरोष से निकाल कर धारण करना यही पूर्व कहे गये हैं । इस प्रकार विरुद्धस्वभावों को एक ही वस्तु उत्पन्न करता है यह विषय अन्य वस्तुओं में देख सकते हैं क्या ? इस आकांक्षा में कहते हैं-‘ये स्वभाव’ इत्यादि । ये स्वभावविशेष ‘गोविंद के गुण गानकर’ इत्यादि पूर्वोक्त प्रकार एक दशा में धारकतया और एक दशा में बाधकतया कहने के योग्य उन को धारण और बाधनरूप विरुद्धस्वभावों को उत्पन्न करनेवाले कल्याणगुणों में भी देखसकते हैं ऐसा समझना । तथा च ‘प्रपत्ति को’ ऐसा आरंभ कर यहां तक-प्रपत्तिवैभव, उस का विषयवैभव, उसके अधिकारियों की त्रिविधता, त्रिविधप्रपत्ति में भी भक्तिपरवशता के कारण की जानेवाली प्रपत्ति की मुख्यता, उस का कारण भक्त्यवस्थाभेद से होनेवाले प्रपत्ति का भंग, और उस अवस्थाभेद से उत्पन्न होनेवाले अनुभवों को भी कहे हैं ।
मूलम्
अस्याः प्रपत्तेः ‘धर्मपुत्रादय’ इत्यारभ्य पूर्वोक्तेष्वधिकारिषु साधनतयानुष्ठानस्य दर्शनात् कर्मज्ञानभक्तिप्रपत्तय इति उपायैः सह पठितत्वात् —-
टीका संस्कृता
‘यद्येन कामकामेन न साध्यं साधनांतरैः । मुमुक्षुणा यत्सांख्येन योगेन न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते पुनः । तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ! | परमात्मा च तेनैव साध्यते पुरुषोत्तमः ॥’ इति ‘इदं शरणमज्ञानाम्’ इति चैवं शास्त्रैरस्याः साधनत्वेनोक्ततया चोपायत्वप्रतिपत्तियोग्यतायाः सत्त्वात्तद्व्यावर्तनाय तन्निदानं बह्वर्थजातमाह, तत्र प्रथममियं प्रपत्तिरुपायत्वेन दृष्टा चेत् जायमानमवद्यं दर्शयति-इयमित्यादिना ।
टीका हिन्द्या
‘धर्मपुत्रादि’ ऐसा आरंभकर पूर्वोक्त अधिकारियों में इस प्रपत्ति को साधन मानकर अनुष्ठान दीखनेसे और कर्मज्ञानभक्तिप्रपत्ति ऐसा उपायों के साथ कहे जानेसे, ‘ऐश्वर्यार्थी को जो ऐश्वर्य साधनांतरों से नहीं प्राप्त होता है, मुमुक्षु को पुनरावृत्तिरहित जो कैवल्य कर्मज्ञानभक्तियोगों से नहीं प्राप्त होता है, उस उस अधिकारी को वह वह पुरुषार्थ प्रपत्ति से ही प्राप्त होता है, और परमात्मा पुरुषोत्तम भी प्रपत्ति से ही प्राप्त होता है ।’ ऐसा, ‘यह अज्ञों को उपाय है’ ऐसा भी शास्त्रों में प्रपत्ति को साधनतया कहेजानेसे भी उपायतया जानने योग्य होनेसे-उपायभाव को हटानेके लिये तदनुगुण हेतुओंको विस्तारपूर्वक कहते हैं । उस में पहिले इस प्रपत्ति को उपाय माननेपर होनेवाले दोष को दिखाते हैं—इस को इत्यादि ।
मूलम्
इयं दृष्टा चेत् पितुः पुत्रेण लेखनस्वीकारवद्वर्तते ॥ ६० ॥
श्लोक
उपायत्वेन चेदेषा दृष्टा स्याज्जनकस्य हि ॥ पुत्रेण लेखस्वीकारसदृशं वर्तते तदा ॥ ६० ॥
टीका संस्कृता
इयं दृष्टा चेदिति–एतच्चेतनेनेश्वरविषये क्रियमाणा प्रपत्तिरुपायत्वेन दृष्टा चेदित्यर्थः । अथवा ईश्वरः स्वं रक्षितुं हेतुत्वेनैतच्चेतनेन क्रियमाणा प्रपत्तिर्निरूपिता चेदित्यनध्याहारेण योजना स्यात् । तदा चार्थस्तुल्य एव । पितुः पुत्रेण लेखनस्वीकारवद्वर्तत इति-उत्पादकाद्धितैषिणः स्वाज्ञानदशायामपि स्वरक्षितुः पितुः पुत्रेण स्वज्ञानदशायां मां त्वं रक्षेति लेखनस्वीकारे कृते उभयोरपि विद्यमानस्य संबंधस्य न्यूनतावत्सत्ताकारणभूतस्य सर्वदशायामपि रक्षकस्याकारवाच्यस्येश्वरस्य मकारवाच्यस्यास्य च विद्यमानस्य शेषशेषिभावसंबंधस्य हानिकारी स्यात् । लेखनस्वीकारो नाम-रक्षकनामलेखनम् ।
टीका हिन्द्या
इस को देखनेपर पिता से पुत्र लिखवाने के सदृश है ॥ ६० ॥ इस को देखने पर माने-इस चेतन के सर्वेश्वर विषयमें क्रियमाण प्रपत्ति को उपायबुद्धि से देखने पर । यद्वा ईश्वर अपने को रक्षाकरनेके कारणतया इस चेतनकर्तृक प्रपत्ति को निरूपण करनेपर-ऐसा भी अर्थ होता है । पिता से पुत्र लिखवाने के सदृश है माने-उत्पादक होनेसे हितैषी हो अपने अज्ञानदशा में भी अपने को रक्षा करनेवाले पिता से पुत्र अपनी ज्ञानावस्था में ‘हम को आप रक्षा करना चाहिये’ ऐसा लिखवानेपर दोनों का संबंध में जैसा दोष लगेगा तैसा सत्ता का कारणभूत सर्वदशा में रक्षक अकारवाच्य सर्वेश्वर के साथ मकारवाच्य जीवात्मा के संबंध में दोष लगेगा । लिखवाना माने-रक्षक का नाम को अपने छाती में लिखवाना ।
मूलम्
अस्याः स्वरूपं स्वासहिष्णुत्वम् ॥ ६१ ॥
श्लोक
स्वासहिष्णुत्वमस्याः स्यात्स्वरूपं शास्त्रसंमतम् ॥६१॥
टीका संस्कृता
तर्ह्यस्याः स्वरूपं किमित्यत आह-अस्या इत्यादिना । अस्याः स्वरूपमिति-अस्याः प्रपत्तेरसाधारणाकार इत्यर्थः । स्वासहिष्णुत्वं नाम-उपायवरणात्मिकायाः स्वस्या उपायोक्त्यसहत्वं तच्च आपातप्रतीतिं विना याथातथ्येन निरूपणे स्वस्मिन्नुपायत्वप्रतिपत्त्ययोग्यत्वमित्यर्थः । अथवा स्वासहिष्णुत्वमित्यत्र चोपायत्वेन प्रतीतस्यासहिष्णुत्वमित्यनध्याहारेण योजनीयम् । एवमुक्तावपि स्वस्मिन्नुपायत्वप्रतिपत्त्यसहत्वमेवार्थो भवति हि ।
टीका हिन्द्या
इस का स्वरूप अपने को न सहना ॥ ६१ ॥ ऐसा होतो इस का स्वरूप क्या ? इस आकांक्षा में कहते हैं—इस का इत्यादि । इस का स्वरूप माने-प्रपत्ति का असाधारण आकार । अपने को न सहना माने-उपायस्वीकाररूप अपने को उपायतया न सहना । ऊपरी आकारको छोड यथार्थ निरूपण करने पर अपने में उपायत्वबुद्धि करने का योग्य न होना । यद्वा-अपने को न सहना-उपायतया प्रसिद्ध अपने को न सहना । इस अर्थ में भी अपने में उपायत्वबुद्धि करने का योग्य न होना यही अर्थ होता है ।
मूलम्
अंगं स्वव्यतिरिक्तासहिष्णुत्वम् ॥ ६२ ॥
श्लोक
अंगं स्वव्यतिरिक्तस्यासहिष्णुत्वं प्रचक्षते ॥ ६२॥
टीका संस्कृता
चरमश्लोकेऽस्य सांगतया विधानात् ‘यद्यत्सांगं तत्साधनं’ इति न्यायोऽस्य प्रसज्यते किमिति शंकायामंगस्वरूपदर्शने स न्यायोऽत्र नावतरतीति विचार्य तदाह-अंगमित्यादिना । स्वव्यतिरिक्तासहिष्णुत्वं-स्वीकारस्वरूपस्वव्यतिरिक्तचेतनप्रवृत्तिष्वेकस्याप्यसहिष्णुत्वम् । साधनरूपसकलप्रवृत्तीनां च सवासनत्यागो ह्यस्या अंगम् । ‘यद्यत्सांगम्’ इत्यत्र प्रवृत्तिरूपांगसहितमेव हि साधनतयोच्यते, एतदंगस्य निवृत्तिरूपत्वादिदमेवास्यानुपायत्वसूचकमिति भावः ।
टीका हिन्द्या
अंग अपने से व्यतिरिक्त को न सहेगा ॥ ६२ ॥ चरमश्लोक में इस को अंगसहित विधानकरने से ‘जो जो अंगसहित होता है वह वह साधन होता है’ यह न्याय यहांपर न होगा क्या ? इस शंका में-अंगस्वरूप को दिखानेपर वह न्याय यहां न लगेगा ऐसा विचार कहते हैं-अंग इत्यादि से । अपने से व्यतिरिक्त को न सहेगा माने—स्वीकाररूप अपने को छोड चेतनप्रवृत्तियों में किसी को भी न सहना । साधनरूप सकलप्रवृत्तियों के सवासनत्याग ही इस का अंग होता है । ‘जो जो अंगसहित होता है’ इस स्थल में जो प्रवृत्तिरूप अंगसहित हैं उन को साधनतया कहते हैं । वैसा न हो इस प्रपत्ति का अंग निवृत्तिरूप होनेसे यही इस का उपायत्वाभाव को दिखाता है, ऐसा तात्पर्य समझना ।
मूलम्
उपायः स्वं सहते । उपायांतरमुभयमपि सहते । इयमुभयमपि न सहते ॥ ६३ ॥
श्लोक
सिद्धोपायस्वरूपो यः परमात्मा व्यवस्थितः ॥ स्वरूपं सहते नान्यत् पूर्णस्वातंत्र्यतः सदा ॥ उपायांतररूपा ये कर्मज्ञानादयो मताः । स्वस्वरूपं स्वभिन्नं च सहते पारतंत्र्यतः ॥ प्रपत्तिस्तूभयं नैव सहते पापनाशिनी ॥ ६३ ॥
टीका संस्कृता
एतदनुपायत्वदृढीकरणाय सिद्धसाध्योपायप्रकारानुक्त्वा तदुभयापेक्षयाऽस्या विद्यमानव्यावृत्तिमाह-उपाय इत्यादिना । उपायः स्वं सहत इति-सिद्धोपायभूतः सर्वेश्वर इष्टानिष्टप्राप्तिपरिहारयोः स्वयमेव निर्वाहकत्वात् स्वस्योपायत्वेन स्वीकारे तदौचित्येन तिष्ठतीत्यर्थः । ‘उपायोपेयत्वे तदिह तव तत्त्वं नतु गुणौ’ इत्युपेयत्ववद्वस्तुनः स्वरूपं खलूपायत्वमपि । ‘ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदंति महात्मानं कृष्णं धर्मं सनातनम् ॥ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः । अमृतं साधनं साध्यं संपश्यंति मनीषिणः ॥’ इत्युक्तं हि । स्वं सहत इत्येतावन्मात्रस्योक्तत्वात्स्वव्यतिरिक्तासहत्वमर्थात्सिद्धं, अयं सिद्धोपायः सहायांतरसंसर्गासहिष्णुर्हि वर्तते-अस्योपायविशेषस्य स्वव्यतिरिक्तासहत्वाद्धि । आनुकूल्यादीनामुपायांगत्वं विनाऽवघातस्य स्वेदवत्संभावितस्वभावत्वमित्यमुमर्थं परंदपडिरहस्येऽयं स्वयमेवावोचत् । उपायांतरमुभयमपि सहत इति-सिद्धोपायेतरसाध्योपायः स्वपारतंत्र्यज्ञानरहितानां स्वयत्नपराणां मोक्षसाधनतया शास्त्रविहितत्वात्स्वस्मिन्नुपायत्वप्रतिपत्तिं सहते । स्वोत्पत्यादिषु प्रवृत्तिरूपांगसापेक्षत्वात् स्वव्यतिरिक्तानपि सहत इत्यर्थः । ‘भक्त्या लभ्यस्त्वनन्यया’, ‘उभयपरिकर्मितस्वांतस्यैकांतिकात्यंतिकभक्तियोगेन लभ्यः ।’, ‘जन्मांतरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥’ इत्युक्तं हि । इयमुभयमपि न सहत इति-सिद्धोपायवरणरूपा निवृत्तिसाध्या अधिकारिविशेषणभूता स्वरूपानतिरेकेयं प्रपत्तिरुभयासहेत्यर्थः । अतः सिद्धसाध्योपायव्यावृत्तवेषाया अस्याः प्रपत्तेरुपायत्वमसंभावितमित्यर्थः । तर्हि सांगतया शास्त्रविहिताया अस्याः प्रपत्तेः स्वरूपं किमस्या अंगं किमित्यपेक्षायां तदुभयमपि क्रमेण दर्शयत्यस्या इत्यादिवाक्यद्वयेन । तर्हि स्वं सहमानः क इत्यपेक्षायामाह-उपाय इत्यादि । स्वं स्वव्यतिरिक्तं च सहमानं किमित्यपेक्षायामाह-उपायांतरमित्यादि । एतत्सिद्धसाध्योपायाभ्यां प्रपत्तेर्विद्यमानां व्यावृत्तिं दर्शयन्नुक्तार्थं निगमयति-इयमुभयमपीत्यादि । एवं संगतिः स्यात् । अथवा एतस्या अनुपायत्वं साधयितुमस्याः स्वरूपांगे स्वयमेवाह-अस्या इत्यादिवाक्यद्वयेन । एतदनुपायत्वं स्पष्टयितुं सिद्धसाध्योपायप्रकारौ प्रदर्शनीयावित्यभिप्रेत्य प्रथमं सिद्धोपायप्रकारमाह-उपाय इत्यादि । अनंतरं साध्योपायप्रकारमाह-उपायांतरमित्यादिना । एतद्द्वाभ्यां प्रपत्तेर्विद्यमानां व्यावृत्तिमाह-इयमुभयमपीत्यादिना । एवं संगतिः स्यात् । एतदुभयसंगत्योरपि वाक्यानामर्थः पूर्ववत् ।
टीका हिन्द्या
उपाय अपने को सहेगा । उपायांतर दोनों को सहेगा । यह प्रपत्ति दोनों को न सहेगी ॥ ६३ ॥ इस का अनुपायत्व को दृढ करनेके लिये सिद्ध और साध्य उपायों के प्रकारों को कह उन दोनों की अपेक्षा इस की श्रेष्ठता को कहते हैं-उपाय इत्यादिसे । उपाय अपने को सहेगा माने-सिद्धोपायभूत सर्वेश्वर इष्टप्राप्ति अनिष्टनिवृत्ति इन दोनों को स्वयं करनेसे अपने को उपाय माने तो सह सकेगा । ‘उपायत्व और उपेयत्व ये दोनों आपका स्वरूप है गुण नहीं’ ऐसा उपेयत्व के तरह उपायत्व भी ईश्वर का स्वरूप है । ‘जो ब्राह्मण वेद को जानते हैं और जो आत्मा को जानते हैं वे महात्मा कृष्ण को सनातन धर्म कहते हैं ।’ ‘देवता और महर्षिगण आप को रक्षक और उपाय जानते हैं । ज्ञानी लोग नाशरहित मोक्ष, उपाय और उपेय जानते हैं ।’ ऐसा कहा है । ‘अपने को सहेगा’ इतना ही कहनेसे अपने से व्यतिरिक्त को न सहना अर्थात् सिद्ध होता है । यह सिद्धोपाय और किसी सहाय को न सहता है । इस लिये ही ‘आनुकूल्यसंकल्पादि उपायांग न हो धान्यकूटने से पसीने के तरह स्वभावसिद्ध होते हैं ।’ ऐसा इस अर्थ को परंदपडि रहस्य में श्रीलोकाचार्यस्वामी ही कहे हैं । उपायांतर दोनों को सहेगा माने-सिद्धोपाय से व्यतिरिक्त साध्योपाय स्वपारतंत्र्यज्ञानरहित स्वयत्नपर लोगों को मोक्षसाधनतया शास्त्र में कहे जानेसे अपने में उपायत्वबुद्धि को सहेगा, और आप सिद्ध होनेके लिये प्रवृत्तिरूप अंग की अपेक्षा करनेसे स्वव्यतिरिक्तों को भी सहेगा । ‘अनन्य भक्ति से प्राप्त होने योग्य हैं’, ‘ज्ञान और कर्मों से जिन का मन निर्मल हुआ है उन की अनन्य भक्ति से सर्वेश्वर प्राप्त होते हैं’, ‘हजारों जन्मों में कर्म और ज्ञानयोगों से जिनके पाप दूर हुए हैं उन को कृष्ण में भक्ति होती है’ ऐसा कहा है । दोनों को न सहेगी माने-सिद्धोपाय स्वीकाररूप निवृत्तिसाध्य अधिकारिविशेषण और स्वरूप से अभिन्न यह प्रपत्ति दोनों को न सहेगी । अर्थात् चेतनों की प्रवृत्ति और अपने में उपायत्वबुद्धि ये दोनों को न सहेगी । इस कारण सिद्ध और साध्य उपायों से भिन्न यह प्रपत्ति उपाय न हो सकती है ।
मूलम्
फलस्यात्मज्ञानमप्रतिषेधश्चैवापेक्षितः ॥ ६४ ॥
श्लोक
रक्षणाप्रतिषेधस्य स्वात्मज्ञानस्य चानयोः । फलप्राप्तावपेक्षास्ति सिद्धोपायप्रभावतः ॥ ६४ ॥
टीका संस्कृता
एवं प्रपत्तेरनुपायत्वे फलसिद्ध्यर्थमेतस्मिन्नपि किंचिन्नापेक्षितं किमित्यत आह—फलस्येत्यादि । फलस्येति-फलसिद्धेरित्यर्थः । आत्मज्ञानं-स्वस्वरूपज्ञानं, तच्च तदेकशेषत्वतदेकरक्ष्यत्वयोर्ज्ञानम् । अप्रतिषेधो नाम-निरुपाधिकरक्षकेन तेन क्रियमाणस्य रक्षणस्य प्रतिषेधाभावः । स च स्वरक्षणे स्वान्वयनिवृत्तिः । अवधारणेनैतद्वयव्यतिरेकेण न किंचिदपेक्षितमित्यर्थः । चरमपदोक्तस्य फलस्य प्रथमपदोक्तमात्मज्ञानं मध्यमपदोक्तोऽप्रतिषेधश्च खल्वपेक्षितौ ।
टीका हिन्द्या
फल के लिये आत्मज्ञान और अप्रतिषेध ही अपेक्षित हैं ॥ ६४ ॥ इस प्रकार यह प्रपत्ति उपाय न होतो, फलसिद्धि के लिये इस चेतन के पास भी कुछ होना आवश्यक नहीं है क्या ? इस आकांक्षा में कहते हैं-फल के लिये इत्यादि । फलके लिये-फलसिद्धि के लिये । आत्मज्ञान माने-स्वस्वरूपज्ञान, तदेकशेषत्वतदेकरक्ष्यत्वज्ञान । अप्रतिषेध माने-निरुपाधिकरक्षक सर्वेश्वर रक्षा करनेपर न रोकना, अपने रक्षण में अपने संबंध को छोडना । ही कहने से इन दोनों के अतिरिक्त और किसी की अपेक्षा नहीं । चरमपद (नारायणाय) में कहे जानेवाले फल के लिये प्रथमपद (प्रणव) में कहे जानेवाले आत्मज्ञान और मध्यमपद (नमः) में कहे जानेवाले अप्रतिषेध भी अपेक्षित हैं ।
मूलम्
अन्यथा बंधस्य पूर्तेश्च न्यूनता स्यात् ॥ ६५ ॥
श्लोक
संबंधस्यान्यथा पूर्तेर्न्यूनता परिकीर्तिता ॥ ६५ ॥
टीका संस्कृता
एवं विना फलसाधनतयाऽनेनापि कानिचित्कर्तव्यानीत्युक्तौ को वा दोष इत्यत आह–अन्यथेत्यादि । अन्यथेति-एतावद्विना फलहेतुत्वेनानेन कानिचित्कर्तव्यानीत्युक्तावित्यर्थः । बंधस्य पूर्तेश्च न्यूनता नाम-अस्य रक्षणं यथा तत्फलं स्यात्तथाविधस्य तस्य निरुपाधिकशेषित्वरूपसंबंधस्य अस्य प्रवृत्तिष्वेकस्याप्यपेक्षाराहित्यरूपनिरपेक्षोपायत्वस्य चावद्यम् ।
टीका हिन्द्या
ऐसा न होतो संबंध और पूर्ति में दोष लगेगा ॥ ६५ ॥ इस प्रकार न हो फल के लिये यह चेतन भी कुछ करना चाहिये ऐसा मानने पर क्या दोष ? इस शंका में कहते हैं-ऐसा न होतो इत्यादि । ऐसा न होतो-फल के लिये चेतन भी कुछ करना चाहिये ऐसा समझनेपर । संबंध और पूर्ति में दोष लगना माने-इस चेतन का रक्षण को अपना फलमानने के योग्य परमात्मा का निरुपाधिक शेषित्वरूप संबंध में, इस चेतन की प्रवृत्तियों में किसी को भी न अपेक्षा करनेवाले निरपेक्षोपायत्व में भी दोष लगना ।
मूलम्
आपदं दूरीकुर्म इति भ्रमित्वा तद्वर्धनाद् व्यावृत्तिरेवापेक्षिता ॥ ६६ ॥
श्लोक
आपदं नाशयामीति भ्रमित्वा तस्य वर्धनात् । व्यावृत्तिरेव कार्यात्र तस्यापेक्षास्ति रक्षणे ॥ ६६ ॥
टीका संस्कृता
तथाप्यनंतक्लेशभाजने संसारे निमज्जतो व्याकुलस्य स्वस्यापदि दृष्टायामापत्सखमीश्वरं स्वप्रपत्त्या वशीकृत्य तत्प्रसादेनायं न निवर्तनीयः किमित्यत आह-आपदमित्यादिना । सर्वेश्वरचरणयोः प्रपत्तिं कृत्वा संसाररूपापदं दूरीकुर्म इति स्वकृतप्रपत्त्या स्वापदं दूरीकुर्म इति भ्रमित्वा तदेकपारतंत्र्यरूपस्वरूपहानिरूपापद्वर्धनाद् व्यावृत्तिरेव तन्निवृत्तयेऽस्यापेक्षिता इत्यर्थः । एकामापदं परिहर्तुमुपक्रम्यैकापद्वर्धनं विनास्मिन् स्वयत्रानिवृत्त ईश्वरः स्वयमेव रक्षतीति भावः । तदित्यापत्सामान्याभिप्रायेणोक्तं नतु प्रकृतापदेव परामृश्यते ।
टीका हिन्द्या
आपदा को हटाते हैं ऐसा भ्रांत हो उस को उत्पादन न करलेना ही अपेक्षित है ॥ ६६ ॥ तथापि अनंतक्लेशों के स्थानभूत संसारसागर में डूब व्याकुल होनेवाले यह चेतन अपनी आपदा को जानने पर आपत्सखा ईश्वर को स्वकर्तृकप्रपत्ति से वश कर उन के अनुग्रह से इस आपदा को हटाना आवश्यक नहीं है क्या ? इस शंका में कहते हैं-आपदा को इत्यादि से । सर्वेश्वर के चरणों में प्रपत्ति कर संसाररूप आपदा को हटालेते हैं ऐसा समझ अपने क्रियमाण प्रपत्ति से तदेकपारतंत्र्यरूप स्वरूप की हानिरूप आपदा को उत्पादन न करलेनाही अपेक्षित है । एक आपदा को परिहार करने में प्रवृत्त हो और एक आपदा को न संपादन कर यह चेतन स्वयत्न से निवृत्त होनेपर सर्वेश्वर आप ही रक्षा करेंगे इति तात्पर्य है ।
मूलम्
रक्षणायापेक्षिता रक्ष्यत्वानुमतिरेव ॥ ६७ ॥
श्लोक
रक्षणायेक्ष्यते तेन रक्ष्यत्वानुमतिः सदा ॥ ६७ ॥
टीका संस्कृता
‘तथापि रक्ष्यापेक्षां प्रतीक्षते’ इति रक्षकः सर्वेश्वरो रक्ष्यभूतस्यास्य चेतनस्यापेक्षां प्रतीक्षत इत्युक्तत्वात् तेन क्रियमाणस्य रक्षणस्यैतदपेक्षाप्यावश्यकी खल्वित्यत आह-रक्षणायेत्यादि । निरुपाधिकरक्षकेण तेन क्रियमाणस्य रक्षणस्यैतच्चेतनविषयेऽपेक्षिता ‘त्वं मम रक्ष्य इत्युक्तौ न भवामीत्यनुक्त्वा क्रियमाणा स्वरक्ष्यत्वानुमतिरेवेत्यर्थः । रक्ष्यापेक्षामित्यत्रोक्तापेक्षा रक्ष्यत्वानुमतिद्योतिकेति भावः । ‘याच्ञा प्रपत्तिः’ ‘प्रार्थनामंतिः’ इति स्वीकारोऽप्रतिषेधद्योतक इति स्वयमेवावोचत् ।
टीका हिन्द्या
रक्षण के लिये अपेक्षित ‘रक्ष्य हूं’ ऐसा अनुमति ही है ॥ ६७ ॥ तथापि ‘रक्ष्यभूत चेतन की अपेक्षा को प्रतीक्षा करते हैं’ ऐसा रक्षकभूत सर्वेश्वर रक्ष्यभूत इस चेतन की अपेक्षा को प्रतीक्षा करते हैं कहनेसे सर्वेश्वर कर्तृक रक्षा के लिये इस चेतन की अपेक्षा भी अपेक्षित है, ऐसी शंका में कहते हैं-रक्षण के इत्यादि । निरुपाधिक रक्षक सर्वेश्वरकर्तृक रक्षण के लिये इस चेतन में अपेक्षित ‘तुम हमारे रक्ष्य हो’ ऐसा कहने पर ‘नहीं हूं’ ऐसा न कह अपना रक्ष्यत्व को अंगीकार करना ही अपेक्षित है । ‘रक्ष्यभूत चेतन की अपेक्षा को प्रतीक्षा करते हैं’ इस वाक्य में अपेक्षा का अर्थ रक्ष्यत्वानुमति ही है । ‘याचना प्रपत्ति है’, ‘प्रार्थना की बुद्धि’ इस वचनानुसार उपायस्वीकार को अप्रतिषेधद्योतक ऐसा यही लोकाचार्यस्वामी जी कहे हैं ।
मूलम्
सर्वेषामुपायानां साधारणत्वाच्चैतन्यकार्यत्वात्प्राप्तिदशायां चानुवर्तमानत्वात्स्वरूपातिरेकित्वाभावाच्चाचिद्व्यावृत्तवेषः साधनीकर्तुं न शक्यते ॥ ६८ ॥
श्लोक
सर्वोपायसमानत्वाच्चैतन्यप्रभवात्तथा । स्वस्वरूपाविनाभावात् प्राप्तदेशानुवर्तनात् । अचिद्व्यावृत्तवेषोऽयं साधनत्वे न संमतः ॥ ६८ ॥
टीका संस्कृता
एवमनुमतिसापेक्षो रक्षति चेदियमनुमतिः साधनं न भवति किमत आह—सर्वेषामित्यादि । सर्वेषामुपायानां साधारणत्वं नाम-भोगमोक्षोपायेषु कस्मिश्चिदधिकर्तुः त्वमिममुपायमनुतिष्ठेत्युक्तौ तथा करोमीत्यनुमतिपूर्वकं तत्रावगाहनस्यावश्यकत्वात् सकलोपायसाधारण्यम् । अनेन कुत्राप्यस्या अनुमतेरधिकारिविशेषणत्वं विना फलसाधनत्वं नास्तीति दर्शितम् । चैतन्यकार्यत्वं नाम-रक्ष्यत्वस्य चेतनाचेतनसाधारणत्वेऽपि ज्ञानशून्यत्वादमुमाकारं ज्ञातुमयोग्यादचेतनाद्विलक्षणे ज्ञानाश्रयत्वात्तं ज्ञातुं योग्य एतच्चेतने विद्यमानाया अनुमतेः ज्ञानकार्यत्वेनागतत्वम् । अनेनेयमनुमतिश्चेतनवैलक्षण्यप्रयुक्तत्वात्साधनकोटौ नान्तीत्युक्तम् । प्राप्तिदशायां चानुवर्तमानत्वं नाम-उपायदशामात्रं विनोपेयदशायां च चेतनव्यामोहानुगुणं क्रियमाणविनियोगविशेषेषु यथेच्छं स्वीकुर्वित्यनुमतेरस्मिन्वर्तमानत्वम् । अनेन साधनं चेत्फलसिद्धौ निवृत्ता स्यादिति भावो व्यंजितः । स्वरूपातिरेकित्वाभावो नाम-शेषिणा क्रियमाणस्यानुमतिं कृत्वा स्थितेः शेषत्वपारतंत्र्यकार्यत्वात्तस्यानुमतेः स्वरूपाद्बाह्यत्वं विना स्वरूपानुरूपत्वम् । अनेन साधनं चेत्स्वरूपातिरेकिणी स्यादिति भावः । अचिद्व्यावृत्तवेषो नाम-ज्ञातृत्वेन ज्ञानशून्यादचितो व्यावृत्तस्यात्मन आकारः । अत्रायमाकारः-ज्ञानकार्यानुमतिः । इयं साधनीकर्तुं न शक्यत इति-एवमस्या असाधनत्वहेतूनां सत्त्वादियं साधनत्वेन कल्पयितुं न शक्यत इत्यर्थः । अचिद्व्यावृत्तवेष इति पाठश्चेत् ज्ञानशून्यादचित आत्मनो विद्यमानाया ज्ञातृत्वरूपव्यावृत्तेर्वेषभूताऽनुमतिरिति शब्दार्थः ।
टीका हिन्द्या
सब के साधारण होने से, चैतन्यकार्य होने से, प्राप्तिदशा में भी अनुवर्तमान होनेसे, स्वरूपातिरेकी न होनेसे, अचिद्व्यावृत्तिवेष को साधन नहीं कर सकते ॥ ६८ ॥ इस प्रकार अनुमति को अपेक्षा कर रक्षा करेंगे तो यह अनुमति कैसा साधन न होगा ? इस शंका में कहते हैं-सब इत्यादि से । भोगमोक्षोपायों में किसी एक उपायानुष्ठान के योग्य चेतन से ‘तुम इस उपाय को अनुष्ठान करो’ ऐसा कहने पर ‘वैसा ही करूंगा’ ऐसा अनुमतिपूर्वक उस में प्रवृत्त होना आवश्यक होने से सब उपायों के साधारण होना । इस से किसी स्थान में भी इस अनुमति का अधिकारिविशेषणत्व विना फलसाधनत्व न होना दिखाया गया । चैतन्यकार्य होना माने-रक्ष्यत्व चेतनाचेतनसाधारण होनेपर भी ज्ञानशून्य होनेसे उस आकार को जानने की योग्यता रहित अचेतन के तरह न हो ज्ञानाश्रय होनेसे उस रक्ष्यत्व आकार को जानने के योग्य इस चेतन की अनुमति इस का ज्ञानकार्य होना । इस से यह अनुमति चेतन के स्वभाव से हुई है, अत एव साधनकोटि में न गिनी जायगी । प्राप्तिदशा में अनुवर्तमान होना माने-उपायदशा में मात्र न हो उपेयदशा में भी सर्वेश्वर के व्यामोहानुगुण क्रियमाण विनियोगविशेषों में ‘आप की इच्छानुसार दास को विनियोग करलीजिये’ ऐसा अनुमति इस चेतन में वर्तमान होना । स्वरूपातिरेकी न होना माने-शेषिकर्तृक व्यापारों में सहायभूत होना शेषत्वपारतंत्र्य का कार्य होनेसे यह अनुमति स्वरूप से अलग न हो स्वरूप ही होना । इस से साधन हो तो स्वरूपातिरेकी होना चाहिये ऐसा तात्पर्य है । अचिद्व्यावृत्तवेष माने-ज्ञातृत्व द्वारा ज्ञानशून्य अचित् से भिन्न आत्मा का आकार । यहां वह आकार माने-ज्ञान का कार्य अनुमति ही है । इस को साधन नहीं करसक्ते माने-इस प्रकार यह साधन नहीं ऐसा सिद्ध करनेवाले हेतु बहुत होनेसे इस अनुमति को साधनतया कल्पना नहीं कर सकते ।
मूलम्
अचिद्व्यावृत्तेः प्रयोजनमुपाये उपकारस्मृतिरुपेये प्रीतिश्च ॥ ६९ ॥
श्लोक
उपाये चोपकारस्य स्मृतिः प्रीतिश्च साध्यके । अचिद्व्यावृत्तवेषस्य प्रयोजनप्रकाशिका ॥ ६९ ॥
टीका संस्कृता
तर्ह्येतदचिद्व्यावृत्तेः किंचित्प्रयोजनं नापेक्षितं किमित्यत आह-अचिद्व्यावृत्तेरित्यादि । उपाय उपकारस्मृतिर्नाम-‘मम दुष्टं मनो निवर्तितवान्’, ‘अनन्यप्रयोजनतयाश्रयितुं मनो दत्तवान्’ इत्युक्तप्रकारेण सिद्धोपायभूतेन भगवता स्वविषये कृतानामुपकाराणामनुसंधानम् । उपेये प्रीतिर्नाम-तच्चरणयोः स्वेन क्रियमाणेषु कैंकर्येषु ‘प्रीत्या कैंकर्यं कृत्वा’ इत्युक्ता प्रीतिः, तया तस्य जायमानां प्रीतिं दृष्ट्वा स्वस्य जायमाना प्रीतिश्च ।
टीका हिन्द्या
अचित् से विलक्षण होनेका प्रयोजन-उपाय में उपकारस्मृति और उपेय में प्रीति ये दोनों हैं ॥ ६९ ॥ ऐसा हो तो अचित् से विलक्षण होने का प्रयोजन क्या है ? इस आकांक्षा में कहते हैं-अचित् से विलक्षण होनेका इत्यादि । उपाय में उपकारस्मृति माने-‘हमारे दुष्टमन को नाश किये हो’, ‘आदरपूर्वक सेवा करनेवाले मन को दिये हो’ इस प्रकार सिद्धोपायभूत सर्वेश्वर के अपने विषय में किये हुए उपकारों को अनुसंधान करना । उपेय में प्रीति माने-उन के चरणों में स्वक्रियमाण कैंकर्यों में ‘संतोषपूर्वक कैंकर्य कर’ ऐसा प्रीति और तद्द्वारा सर्वेश्वर को होनेवाली प्रीति को देख अपने में होनेवाली प्रीति ।
मूलम्
‘त्वन्मनसा किमैच्छः’ इत्युक्तप्रकारेण प्राप्तेरुपायस्तदिच्छा ॥७० ॥
श्लोक
त्वं मनसा किमैच्छश्चेत्युक्तश्रीसूक्तिरूपतः । तदिच्छा प्राप्युपायोऽस्ति निष्प्रत्यूहः सदा शुचिः ॥ ७० ॥
टीका संस्कृता
एवमेतस्मिन् विद्यमानमेकमप्युपायो न भवति चेदस्य तत्प्राप्त्युपायः को वेत्यत आह-त्वन्मनसेत्यादि । अस्मिन्विद्यमानस्यैकस्यापि फलोपायत्वाभावात् ‘त्वन्मनसा किमैच्छः’ इति हस्तप्रच्युतस्यापि किंचिन्निर्वहणप्रकारं पश्यतस्तव हृदयेनैषितं किमिति हितैषिणस्तस्येच्छैवोपाय इति दिव्यसूरिणानुसंहितप्रकारेण तत्प्राप्तेरुपायः सर्वज्ञस्य सर्वशक्तेः प्राप्तस्य परमदयालोः सतस्तस्यैतच्चेतनोज्जीवनार्थेच्छैवेत्यर्थः ।
टीका हिन्द्या
‘तुम्हारे मन से क्या विचार किये हो’ इत्युक्तप्रकार प्राप्ति का उपाय उन की इच्छा है ॥ ७० ॥ इस प्रकार इस चेतनगत एक भी उपाय न होनेपर इस को उन की प्राप्ति में उपाय क्या ? इस शंका में कहते हैं-तुम्हारे मन से इत्यादि । इस चेतनगत एक भी फल का उपाय न होने से, ‘तुम्हारे मन से क्या विचार किये हो’ ऐसा हाथ से छूटे हुए वस्तुओं को रक्षाकरने में तत्पर ‘आप के मन से क्या विचार किये हो’ ऐसा हित चाहनेवाले उन की इच्छा ही उपाय है समझ जैसे सूरि अनुसंधान किये हैं तैसे उन की प्राप्ति का उपाय सर्वज्ञ सर्वशक्ति प्राप्त और परमदयालु सर्वेश्वर की चेतनोज्जीवन के लिये क्रियमाण इच्छा ही है-ऐसा तात्पर्य समझना ।
मूलम्
सा च सदा वर्तते ॥ ७१ ॥
श्लोक
सा वर्तते सदा चात्र तेन न फलदा मता ॥७१॥
टीका संस्कृता
सा चेच्छा तस्य कदा जायते इत्यत आह-सा चेत्यादि । सदेति-अस्य किंचिदवलंब्य व्यावृत्तिकालेऽभिमुख्यकाले चाविशेषेण सर्वकालेष्वपीत्यर्थः ।
टीका हिन्द्या
वह सदा रहती है ॥ ७१ ॥ वह इच्छा उन को कब होती है इस शंका में कहते हैं-वह सदा रहती है इत्यादि से । सदा माने-यह चेतन किसी एक व्रत को अवलंबन कर परमात्मा से अलग हो संचार करने का काल और समाश्रयण रुचि होने का काल सर्वकालों में भी रहती है ।
मूलम्
सा फलति-अस्य चिंता निवृत्ता चेत् ॥ ७२ ॥
श्लोक
अस्य चिंता निवृत्ता चेत्तदा फलति निस्पृहा ॥ ७२ ॥
टीका संस्कृता
तर्हि तत्कालपर्यंतं कुतो न फलितेत्यत आह-सा फलतीत्यादि । तस्येच्छास्य कार्यकारिणी भवति-अस्य स्वरक्षणचिंतानिवृत्तिकाले इत्यर्थः ।
टीका हिन्द्या
वह इच्छा फलीभूत होती है-इसकी चिंता निवृत्त होनेपर ॥ ७२ ॥ तब यह इच्छा आज तक क्यों फलीभूत नहीं ? इस आकांक्षा में कहते हैं-वह इच्छा फलीभूत होती है इत्यादि । उन की इच्छा इस का कार्य करती है-इस की स्वरक्षणचिंता हटने पर ।
मूलम्
अंतिमकालस्य शरणं तदानीं शरणं किमिति चिंतानिवृत्तिरिति यतिरवोचत् ॥ ७३ ॥
श्लोक
शरणमंतकालस्य तदानीं शरणं किमु । इति चिंतानिवृत्तिर्हि यतिनेत्थं प्रसादितम् ॥ ७३ ॥
टीका संस्कृता
एतदर्थस्याप्त्यर्थं वेदांतिवार्तामाह-अंतिमकालस्येत्यादिना । वेदांतियतौ स्वचरणाश्रितस्य कस्यचिच्छ्रीवैष्णवस्य रुजं ज्ञातुं गत्वा स्थिते सति तदा तस्मिन् श्रीवैष्णवे ‘दासस्यांतिमकालस्य शरणभूतं किंचन वक्तव्यम्’ इति वदति ‘अंतिमकालस्य शरणं ममेदानीं शरणं किमिति चिंतानिवृत्तिर्हीति तदुक्ता वार्ता । तस्मादीश्वरेणैतदात्मोज्जीवननिदानतया क्रियमाणचिंता फलति-अस्य स्वरक्षणचिंता निवृत्ता चेदित्युक्तम् ।
टीका हिन्द्या
‘अंतिमकाल का रक्षक-अब रक्षक कौन ऐसी चिंता न करना ही’ ऐसा वेदांती कहे हैं ॥ ७३ ॥ इस अर्थ में विश्वास होने के लिये वेदांती के वचन को कहते हैं-अंतिम काल का इत्यादि से । वेदांती अपने आश्रित एक श्रीवैष्णव व्याधिग्रस्त होनेपर उस को देखने के लिये गये थे, तब वह श्रीवैष्णव-‘दास को अंतिमकाल में रक्षकभूत एक उपाय को बताईये’ ऐसा पूंछने पर ‘अंतिमकाल में रक्षक-हम को अब रक्षक कौन है ? ऐसा स्वरक्षणचिंता का न होना ही’ इस वार्ता को स्मरण करना । अर्थात् चेतनकर्तृकचिंता नष्ट होनेपर ही ईश्वर की इच्छा सफल होती है—इति तात्पर्य ।
मूलम्
प्राप्ता च प्रापकश्च प्राप्तेः प्रसन्नश्च स एव ॥७४॥
श्लोक
प्राप्ता च प्रापकश्चैव प्राप्तिप्रीतिफलश्च सः ॥७४॥
टीका संस्कृता
प्रापक ईश्वरश्चेदपि प्राप्ता प्राप्तेः प्रसन्नश्चायं खलु, तथा सत्यस्य चिंता कथं दूरीक्रियते ? अत आह—प्राप्ताचेत्यादि । अथवाऽस्मिन् चेतने विद्यमानमुपायत्वगंधं वारयित्वेश्वर एवोपाय इति निष्कर्पे कृते प्राप्तृत्वं प्राप्तिप्रयुक्तप्रीतिश्चास्य न भवति किंतूपायभूतेश्वरस्यैवेति फलितत्वात् प्राप्ता च प्रापकश्च प्राप्तेः प्रसन्नश्च स एवेति निगमयति प्राप्ता चेत्यादिना । प्राप्ता स इति-‘स्वत्वमात्मनि संजातं स्वामित्वं ब्रह्मणि स्थितम् ।’ इत्युक्तस्वतःसिद्धस्वस्वामिसंबंधहेतुना स्वप्राप्तृस्वामिवत्पतितमात्मप्राप्ता स्वयमेवेत्यर्थः । प्रापकः स एवेति-स्वस्यैतत्प्राप्तौ प्रापयितोपायश्च सर्वज्ञत्वसर्वशक्तित्वसत्यसंकल्पत्वादिगुणविशिष्टः निरंकुशस्वतंत्रः स्वयमेवेत्यर्थः । प्राप्तेः प्रसन्नश्च स एवेति-यथा स्वलाभे तद्भोक्ता स्वामी हृष्टो भवति तथैतल्लाभेऽहो लाभो जात इति प्रीतिविशिष्टश्च तदात्मनो नित्यभोक्ता स्वयमेवेत्यर्थः । एतत्त्रयं च स एवेत्यवधारणेनैतेष्वेतदन्वय्यैकमपि नास्तीत्युक्तम् ।
टीका हिन्द्या
प्राप्ता, प्रापक और प्राप्ति से संतुष्ट होनेवाला भी वही है ॥ ७४ ॥ प्रापक ईश्वर हो तो भी प्राप्त होनेवाला और प्राप्ति से संतुष्ट होनेवाला यह चेतन ही है, तब इन चेतन की चिंता को प्रत्यक्षं हटाना उचित है क्या ? इस शंका में कहते हैं-प्राप्ता इत्यादि । जब इस चेतन स्वकर्तृक उपाय को छोड ईश्वर ही उपाय है ऐसा निश्चय किया है तब प्राप्त होना, प्राप्त होनेपर संतुष्टहोना ये दोनों चेतन का नहीं, उपायभूत ईश्वर का ही होते हैं । इस कारण ‘प्राप्त होनेवाला, प्रापक और प्राप्ति से संतुष्ट होनेवाला भी वही है’ ऐसा समाप्त करते हैं । प्राप्ता ईश्वर होना माने-‘आत्मा चीज है मालिक ब्रह्म है’ ऐसा स्वतः सिद्ध स्वस्वामित्व संबंध द्वारा चीज को प्राप्त होनेवाले मालिक के तरह इस आत्मा को प्राप्त होनेवाले आप ही हैं । प्रापक वह है-आप इस चेतन को प्राप्त होने के समय प्रापक उपाय-सर्वज्ञत्व, सर्वशक्तित्व, सत्यसंकल्पत्वादि गुणविशिष्ट और निरंकुशस्वतंत्र आप ही हैं । प्राप्ति से संतुष्ट होनेवाले भी वही है माने-चीज का लाभ होनेसे भोक्ता स्वामी यथा दृष्ट होता है तथा इस चेतन की प्राप्ति के लिये मैं भाग्यवान् हुवा हूं ऐसा हृष्ट होनेवाले आप ही हैं । ये तीनों वही है ऐसा कहनेसे इन तीनों में एक भी चेतन के साथ संबंध न रखता है ऐसा जानना ।
मूलम्
स्वयत्ननिवृत्तिः पारतंत्र्यफलं, स्वप्रयोजननिवृत्तिः शेषत्वफलम् ॥७५॥
श्लोक
पारतंत्र्यफलं तत्स्याद्यत्स्वयत्तनिवर्तनम् । शेषत्वफलमप्याहुः स्वप्रयोजनवर्जनम् ॥ ७५ ॥
टीका संस्कृता
अत्र प्राप्ता च प्रापकश्च स एवेत्युक्तत्वादस्य स्वयत्नेऽन्वयो नास्तीति प्राप्तेः प्रसन्नश्च स एवेत्युक्तत्वात्स्वप्रयोजनेऽन्वयो नास्तीति च सिद्धम् । तर्हि ज्ञातृत्वकार्यभूतकर्तृत्वभोक्तृत्वविशिष्टत्वेन स्वयत्नस्वप्रयोजनार्हतायां सत्यां अनयोरुभयोरपि निवृत्तिरस्य कथमागतेति शंकायामाह-स्वयत्नेत्यादिवाक्यद्वयेन । ज्ञातृत्वनिबंधनकर्तृत्वे सत्यपि भगवत्प्राप्तिं प्रति स्वयं यत्नाकरणरूपेयं स्वयत्ननिवृत्तिः पराधीनस्वरूपस्थित्यादिमत्वरूपपारतंत्र्यकार्यम् । एवं भोक्तृत्वे सत्यपि तद्रसवितुत्वमंतरेण स्वस्य कुत्रापि रसाभावरूपा स्वप्रयोजननिवृत्तिः परातिशयाधायकत्वैकस्वरूपशेषत्वकार्यमित्यर्थः । अनेन पारतंत्र्यशेषत्वयोरुभयोरात्मनः स्वरूपत्वादेतदाकारयोर्ज्ञातयोरेतद्वयमपि स्वयमेव भवतीत्युक्तम् ।
टीका हिन्द्या
स्वयत्ननिवृत्ति पारतंत्र्यफल है, स्वप्रयोजननिवृत्ति शेषत्वफल है ॥ ७५ ॥ ‘प्राप्त होनेवाले और प्रापक ये दोनों वही है’ कहने से इस चेतन का स्वयत्न में संबंध नहीं है, ‘प्राप्ति से संतुष्ट होनेवाले वही’ कहने से इस चेतन का प्रयोजन में संबंध नहीं है ये दोनों सिद्ध होते हैं । तब यह चेतन ज्ञातृत्वकार्यभूतकर्तृत्व-भोक्तृत्ववाले होनेसे स्वयत्नस्वप्रयोजनों के योग्य होते हुए इन दोनों की निवृत्ति इस चेतन में कैसी होती है ? इस शंका में कहते हैं-स्वयत्न इत्यादि दो वाक्यों में । ज्ञातृत्व के कारण कर्तृत्व होतेहुए भी भगवत्प्राप्ति के लिये आप अपने यत्न को छोड रहना-अपने स्वरूप और स्थिति परमात्मा के अधीन हैं ऐसा इस पारतंत्र्यज्ञानका कार्य है । तैसा ही भोक्तृत्व होते हुए भी उन को आनंदित करना छोड अपने को आनंदित न होना रूप स्वप्रयोजननिवृत्ति परमात्मा का अतिशय को बढाना ही अपना स्वरूप ऐसा इस शेषत्वज्ञान का कार्य है । इस से पारतंत्र्य और शेषत्व ये दोनों आत्मा का स्वरूप होने से इन आकारों को जाननेपर ये दोनों (स्वयत्ननिवृत्ति और स्वप्रयोजननिरृत्ति) स्वयमेव होते हैं ।
मूलम्
परप्रयोजनप्रवृत्तिः प्रयत्नफलं, तद्विषयप्रीतिश्चैतन्यफलम् ॥ ७६ ॥
श्लोक
प्रयत्नस्य फलं तत्स्याद्यत्परार्थप्रवर्तनम् । तद्विषयानुरागश्च चैतन्यफलमुच्यते ॥७६॥
टीका संस्कृता
तर्हि स्वयत्नस्वप्रयोजनयोरन्वयाभावेऽस्य प्रयत्नस्य चैतन्यस्य च किं प्रयोजनमित्यत आह-परप्रयोजनेत्यादिवाक्यद्वयेन । सा च ‘अहं सर्वं करिष्यामि’ ‘च्युतिरहितं कैंकर्यं कर्तव्यम्’, ‘तत्रैव वयं कैंकर्यं कुर्मः’ इत्युक्तप्रकारेण परस्य प्रयोजनतया क्रियमाणकैंकर्यरूपप्रवृत्तिरस्य प्रवृत्त्युद्योगरूपप्रयत्नस्य प्रयोजनम् । ‘नित्यकिंकरः प्रहर्षयिष्यामि’ इत्युक्तप्रकारेण तत्प्रीत्यर्थं स्वेन क्रियमाणकैंकर्येणात्यंतहृष्टस्य परस्य विषये जायमाना प्रीतिरस्याचिद्व्यावृत्तिरूपचैतन्यस्य प्रयोजनमित्यर्थः । ‘सोपानीभूय त्वत्प्रवालाधरं पश्यानि’ इत्युक्तंहि । अनेन पारतंत्र्यशेषत्वाभ्यां फलितस्वयत्नस्वप्रयोजननिवृत्तिविशिष्टस्य चेतनस्य प्रयत्नचैतन्ययोः पारतंत्र्यशेषत्वानुगुणे प्रयोजने उक्ते ।
टीका हिन्द्या
परप्रयोजनप्रवृत्ति प्रयत्न का फल है, परमात्मा के विषय में प्रीति चैतन्य का फल है ॥ ७६ ॥ तथासति-इस प्रकार स्वयत्नस्वप्रयोजनों में संबंध न हो तो इस चेतन का प्रयत्न और चैतन्य के प्रयोजन क्या ? इस शंका में कहते हैं-परप्रयोजन इत्यादि दो वाक्यों से । ‘मैं सब करूंगा’, ‘विच्छेदरहित कैंकर्य करना’, ‘आप ही को हम कैंकर्य करेंगे’ इन वचनानुसार परमात्मा का प्रयोजन मान कीजानेवाली कैंकर्यरूप प्रवृत्ति-इस का प्रयत्न का फल है । ‘नित्यकिंकर हो हृष्ट करूंगा’ इत्युक्त प्रकार परमात्मा के हर्ष के लिये चेतनकर्तृक कैंकर्य से अत्यंत हृष्ट परमात्मा के विषय में प्रीति-इस चेतन का अचिद्भिन्नत्वरूप चैतन्य का प्रयोजन है । ‘सीढी हो आप के प्रवालाधर को देखूंगा’ ऐसा कहे हैं । इस से पारतंत्र्य-शेषत्वों से फलित स्वयत्न-स्वप्रयोजननिवृत्तिवाले चेतन के प्रयत्नचैतन्यों को पारतंत्र्यशेषत्वानुगुण प्रयोजन कहे गये हैं ।
मूलम्
अहमर्थस्य ज्ञानानंदौ तटस्थौ, दास्यं ह्यंतरंगनिरूपकम् ॥ ७७ ॥
श्लोक
ज्ञानानंदौ तटस्थौ चाहमर्थस्यांतरंगकम् ॥ ७७ ॥
टीका संस्कृता
शेषत्वादेर्ज्ञातृत्वादेश्च आत्मधर्मत्वेऽविशिष्टे शेषत्वादिकं प्रधानीकृत्य ज्ञातृत्वादिकं तदनुगुण्येन योजयितुं किं नियामकं ? वैपरीत्ये को दोषः ? इत्यत आह—अहमर्थस्येत्यादि । अहमर्थो नाम-प्रत्यक्त्वेन अहंबुद्धिव्यवहारार्हमात्मवस्तु । ज्ञानानंदौ नाम-तद्वस्तुनि प्रकाशत्वानुकूलत्वे ‘ज्ञानानंदमयस्त्वात्मा’, ‘स्वरूपमणुमात्रं स्यात् ज्ञानानंदैकलक्षणम्’ इत्येताभ्यां हि वस्तु निरूप्यते । तटस्थाविति-बहिरंगनिरूपकतया बहिर्दले इत्यर्थः । दास्यं नाम-शेषत्वं । अस्यांतरंगनिरूपकत्वं नाम-भगवत्स्वरूपस्य प्रकारतया शेषत्वेनैव स्वसत्ताकत्वाद्वस्तुनः प्रथमं शेषत्वेन निरूप्यैवान्यैराकारैर्निरूपणीयत्वात् । निरूपकत्वं नाम-वस्तुनो वस्त्वंतराद् व्यावर्तकत्वम् । अतो दास्यमीश्वरव्यावर्तकं, ज्ञानानंदावचिद्व्यावर्तकौ । एवं निरूपकद्वयस्य च वस्तुनोऽपेक्षितत्वेपि भगवत्प्रकारतया लब्धसत्ताकस्य वस्तुनोऽचितो विद्यमानविशेषज्ञापकत्वमात्रविशिष्टौ ज्ञानानंदौ यथा बहिर्दले स्यातां तथा प्रकारित्वप्रयुक्तं शेषत्वमेवांतरंगनिरूपकमित्युक्तम् । हीत्यस्मिन्नर्थे प्रामाण्यप्रसिद्धिः । प्रथमं शेषत्वेन वस्तु निरूप्य पश्चाद् ज्ञानानंदलक्षणं ज्ञानगुणकमचिद्व्यावृत्तं चेति तृतीयपदेन निरूपयन् प्रणवः, समस्तवस्तूनां सर्वेश्वरप्रकारत्वं प्रतिपादयन्नारायणपदादीनि चात्र प्रमाणम् । ‘दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः । नान्यथा लक्षणं तेषां बंधे मोक्षे तथैव च ॥’ इत्यादीनि संति हि । ‘दासे स्थितः’ इत्यवदन् परांकुशाः । श्रीगोष्ठीपूर्णश्रीपादयोः षण्मासान् कुरेशः सेवां कृत्वा महानिधित्वेनामुमर्थमवाप । एवं शेषत्वस्यांतरंगनिरूपकत्वान्निरूपितस्वरूपविशेषणभूतज्ञातृत्वादीन्येतदनुगुणं योजनीयानीति भावः ।
टीका हिन्द्या
अहमर्थ का ज्ञानानंदादि यथा तटस्थ कहेजांय तथा दास्य ही अंतरंगनिरूपक है ॥ ७७ ॥ शेषत्वादि और ज्ञातृत्वादि आत्मा के धर्म होनेपर शेषत्वादि को प्रधान मान ज्ञातृत्वादि को उस के अनुगुण योजना करने का हेतु क्या ? इस शंका में कहते हैं-अहमर्थ का इत्यादि । अहमर्थ माने-प्रत्यक्तत्व होनेसे ‘अहं’ ऐसा जानने और व्यवहार करने योग्य आत्मवस्तु । ‘ज्ञानानंदमय आत्मा है’, ‘ज्ञानानंद लक्षण स्वरूप अणुमात्र है’ । ऐसा ज्ञानानंदोंसे ही आत्मवस्तु को निरूपण करते हैं । यथा तटस्थ कहेजांय माने-बहिरंगनिरूपक समझ बाह्याकार कहेजांय । दास्य माने-शेषत्व, यह अंतरंगनिरूपक माने-भगवत्स्वरूप का विशेषणतया शेषभूत होकर ही सत्तावाले होने से पहिले शेषत्व को लेकर निरूपण कर अनंतर अन्य आकारों से निरूपण करने योग्य होना । इस से निरूपक माने-एक वस्तु को अन्य वस्तु से अलग करनेवाला है । दास्य-ईश्वर से अलग करता है । ज्ञानानंद-अचित् से अलग करता है । इस प्रकार ये दोनों निरूपकधर्म वस्तु के अपेक्षित होनेपर भगवत्प्रकारतया सत्ताविशिष्ट वस्तु को अचित् से अलग करनेवाले ज्ञानानंद यथा बाहरके दल हों तथा प्रकारित्व से आयाहुआ शेषत्व ही अंतरंगनिरूपक होता है । ‘ही’ इस से इस अर्थ में प्रमाण प्रसिद्ध है समझना । प्रथम शेषत्व को लेकर आत्मवस्तु को निरूपण कर अनंतर ज्ञानानंदलक्षण ज्ञानगुणक और अचित् से भिन्न है ऐसा कहना चाहिये । इस अर्थ को तीसरा पद (मकार) से निरूपण करनेवाला प्रणव, समस्तवस्तु सर्वेश्वर के प्रकार हैं इस अर्थ को निरूपण करनेवाला नारायणपद आदि इस में प्रमाण हैं । ‘सकल आत्मा परमात्मा के स्वतः सिद्ध दास हैं । उन आत्माओं को बद्धावस्था में और मोक्षावस्था में भी अन्यलक्षण नहीं है ।’ इत्यादि प्रमाण भी हैं । शठकोपसूरि ‘दास के भीतर रहनेवाले’ कहे हैं । श्रीगोष्ठीपूर्ण के चरणों में कूरेश छः महीने शुश्रूषा कर महानिधिरूप से प्राप्त हुए अर्थ यही है । अभिप्राय यह है कि शेषत्व अंतरंगनिरूपक होने से शेषत्व से निरूपित आत्मस्वरूप के विशेषण ज्ञातृत्वादियों को शेषत्वानुसार योजना करना चाहिये ।
मूलम्
इदं चागंतुकं न भवति ॥ ७८ ॥
श्लोक
दास्यं निरूपकं तच्चानागंतुकतयेष्यते ॥ ७८ ॥
टीका संस्कृता
अस्य स्वरूपनिरूपकत्वे आत्मसत्ताप्रभृति स्थातव्यं हि, एतत्पूर्वमभावेनेदानीं जातत्वाल्लोकेऽस्यौपाधिकत्वेन दर्शनाच्च दास्यमात्मन आगंतुकं खल्वित्यत आह-इदं वेत्यादि । इदं चेति-प्रकृतं दास्यं परामृश्यते । आगंतुकं न भवतीत्युक्तत्वात्स्वाभाविकमित्यर्थः । ‘स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मर ॥’, ‘लक्ष्मीव्यामोहशालिन्नहमपि तव प्राचीनदासः’ इत्युक्तं हि ।
टीका हिन्द्या
यह आगंतुक नहीं है ॥ ७८ ॥ यह शेषत्व स्वरूपनिरूपक हो तो आत्मा जब से है तब से रहना चाहिये ऐसा न हो अब ही होने से, लौकिकजन इस को आगंतुक कहने से यह दास्य आत्मा को बीच में आया है इस शंका में कहते हैं-यह आगंतुक नहीं इत्यादि से । यह माने-प्रकृत दास्य । आगंतुक नहीं माने-स्वभावसिद्ध है । ‘तुम को अपने जीवन में इच्छा हो तो अपनी सत्ता में रुचि हो तो आत्मा का दास्य और हरि का स्वामित्व ये दोनों स्वभावसिद्ध समझो ।’ ‘हम भी आपका पुराना दास हैं’ ऐसा भी कहा है ।
मूलम्
स्वातंत्र्यमन्यशेषत्वं चांगतुके ॥ ७९ ॥
श्लोक
स्वातंत्र्यमन्यशेषत्वं चागंतुकतयेष्यते ॥ ७९ ॥
टीका संस्कृता
तर्ह्यागंतुकत्वेन विवक्षिते के इति शंकायामेतद्विरोधिनी इत्याह-स्वातंत्र्यमित्यादिना । स्वातंत्र्यं नाम-अहं ममाई इति स्थितिः । अन्यशेषत्वं नाम-भगवदन्यविषयेषु चापल्यम् । एते चागंतुके इत्युक्तं-अस्याविद्यादिहेतुकतयाऽऽगतत्वात् ।
टीका हिन्द्या
स्वातंत्र्य और अन्यशेषत्व ये दोनों आगंतुक हैं ॥ ७९ ॥ तब आगंतुक किस को कहते हैं ? इस शंका में, इस शेषत्व के विरोधियों को कहते हैं ऐसा प्रतिपादन करते हैं-स्वातंत्र्य इत्यादि से । स्वातंत्र्य माने-मैं अपने लिये हूं ऐसा रहना । अन्यशेषत्व माने-भगवदन्यविषयों में दास्य करना । ये दोनों आगंतुक हैं माने-इस चेतन के अविद्यादि कारण से आये हुए हैं ।
मूलम्
शेषत्वविरोधि स्वातंत्र्यं, तच्छेषत्वविरोधि तदितरशेषत्वम् ॥ ८० ॥
श्लोक
शेषत्वस्य विरोधी स्यात् स्वातंत्र्यं चान्यशेषता । तच्छेषत्वविरोधी स्यात्प्राप्योपायप्रबाधिका ॥ ८० ॥
टीका संस्कृता
एतद्विरोधित्वमुपपादयति-शेषत्वविरोधीत्यादिना । शेषत्वविरोधि स्वातंत्र्यमिति-अहं ममार्ह इति स्थितिसमये एकस्मिन्नपि विषये शेषत्वाभावात्स्वातंत्र्यं शेषत्वोत्पत्तिप्रतिबंधकमित्यर्थः । तच्छेषत्वविरोधि तदितरशेषत्वमिति-स्वातंत्र्यनिवृत्त्या शेषत्वांगीकारेपि भगवद्व्यतिरिक्तविषयेषु कस्यचित्स्वस्य शेषत्वानुसंधानं निरुपाधिकशेषिभूततद्विषये शेषत्वं प्रतिबध्नातीत्यर्थः ।
टीका हिन्द्या
शेषत्व का विरोधी स्वातंत्र्य है, परमात्मा के शेषत्व का विरोधी तदितरशेषत्व है ॥ ८० ॥ ये इस शेषत्व को विरोधी हैं इस को उपपादन करते हैं—शेषत्व का विरोधी इत्यादि से । शेषत्व का विरोधी स्वातंत्र्य है माने-जब यह चेतन ‘मैं मेरे लिये हूं’ ऐसा समझता है तब किसी एक विषय में भी शेषत्व न होने से स्वातंत्र्य शेषत्व को रोकता है । परमात्मा के शेषत्व का विरोधी तदितरशेषत्व माने-स्वातंत्र्य नष्ट हो शेषत्व को अंगीकार करनेपर भी भगवद्व्यतिरिक्त विषयों में एक का अपने को शेष मानना, यह निरुपाधिक शेषी परमात्मा का शेषत्व को रोकता है ।
मूलम्
अहंकाररूपमालिन्यनिवर्तने आत्मनोऽविनश्यन्नाम दास इति हि ॥८१॥
श्लोक
अहंकारशरीरस्य मालिन्यस्य निवर्तने । आत्मनो दास इति हि निरुपाधिकनामता ॥ ८१ ॥
टीका संस्कृता
इदं चागंतुकं न भवतीत्यारभ्योपपादितमर्थं निरूपयति-अहंकारेत्यादिना ।
टीका हिन्द्या
अहंकाररूप लेप को पोंछने पर आत्मा का स्वतः सिद्ध नाम ‘दास’ ही है ॥ ८१ ॥ ‘यह आगंतुक नहीं’ इस अर्थ को स्पष्ट कहते हैं-अहंकार इत्यादि से ।
मूलम्
एकांती व्यपदेष्टव्यः’ ॥ ८३ ॥1
श्लोक
एकांती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः ॥ ८३ ॥
टीका संस्कृता
ग्रामकुलादिव्यपदेशोऽहंकारजनकत्वात् स्वरूपहानिरूपानर्थंकर इत्यर्थः । तस्मात्तेनायं व्यपदेष्टव्यो न भवतीति तात्पर्यम् । उक्तार्थे प्रमाणमाह–‘एकांती व्यपदेष्टव्यः’ इति । ‘एकांती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः । विष्णुना व्यपदेष्टव्यस्तस्य सर्वं स एव हि ॥’ अनेन भगवदेकपरो ग्रामकुलादिसंबंधेन वक्तव्यो न भवति, भगवत्संबंधेन व्यपदेश्यस्य ग्रामकुलादिकं सर्वं भगवानेव हीत्युच्यते । ‘प्राप्ता’ चेत्यादिवाक्येऽस्य चेतनस्य स्वयत्ननिवृत्यादिभानादेतन्निदानमेतदिति, एवंभूतस्य प्रयत्नचैतन्यप्रयोजनं, शेषत्वादिप्राधान्यहेतुरात्मस्वरूपस्य दास्यांतरंगनिरूपकत्वादिति च, एवंभूतमिदं स्वाभाविकं, एतद्विरोधिनी औपाधिके, तन्निवृत्तावात्मनो दास्यमेव नित्यनिरूपकमित्युक्तत्वादेतदर्थानुसंधानं, ग्रामकुलादिभिर्व्यपदेष्टव्यो न भवतीत्युक्तार्थे प्रमाणस्योक्तत्वात् ‘स्वयत्ननिवृत्ति:’ इत्यादिवाक्यमारभ्यैतावत्प्रासंगिकम् । एवमनेन प्रकरणेन प्रपत्तेर्देशादिनियमो नास्ति विषयनियम एवास्तीत्यर्थः, स च विषयोऽयमित्यर्थः, तद्विषयवैलक्षण्यं, तत्र प्रपत्तिकर्त्रधिकारिणां त्रैविध्यं, प्रपत्तावुपायत्वप्रतिपत्तेर्भवदवद्यं, प्रपत्तेः स्वरूपादिकं, प्रपत्तव्य एवोपाय इत्यर्थश्च-प्रतिपादितः ।
टीका हिन्द्या
‘एकांती कहाजाता है’ ॥ ८३ ॥ ग्रामकुलादि से कहेजाना अहंकारजनक होनेसे स्वरूपहानिरूप अनर्थ को करता है । इस कारण उन नामों से यह चेतन नहीं कहाजाना चाहिये । पूर्वोक्त अर्थ का प्रमाण दिखाते हैं-‘एकांती कहाजाता है’ इत्यादि । ‘एकांती ग्रामकुलादियों से नहीं कहा जाता है, विष्णु से ही कहाजाता है कारण उस को ग्राम कुल आदि सब विष्णु ही हैं’, इस से भगवदेकपर चेतन ग्रामकुलादि संबंधों से नहीं कहा जाता है । उस को ग्रामकुलादि सब भगवान् ही हैं । ‘प्राप्ता’ इत्यादि वाक्य से इस चेतन का स्वयत्ननिवृत्यादि भान होने से इन का कारण अमुक है, एवंभूत प्रयत्न और चैतन्य का प्रयोजन, शेषत्व का प्राधान्य का हेतु आत्मस्वरूप का दास्य अंतरंगनिरूपक है, यह स्वाभाविक है, इन के विरोधी आगंतुक हैं, विरोधी दूर होनेपर आत्मा का दास्य ही नित्यनिरूपक है, ग्रामकुलादियों से यह नहीं कहाजाता है, इस अर्थ में प्रमाण इत्यादि भी कहे हैं । अतः ‘स्वयत्ननिवृति’ इत्यादि वाक्य से लेकर यहांतक प्रासंगिक समझना । एवं इस प्रकरण से प्रपत्ति का देशादिनियम नहीं, विषयनियम ही है, वह विषय अमुक है, उस विषय का वैलक्षण्य, उस विषय में प्रपत्ति करनेवाले अधिकारियों का त्रैविध्य, प्रपत्ति को उपाय मानने से होने वाला दोष, प्रपत्ति के स्वरूपादि, जिस विषय में प्रपत्ति करते हैं वही विषय उपाय है इत्यादि कहे गये हैं ।
उपायवैभवप्रकरणं समाप्तम् ।
अधिकारिशोधनम् ।
मूलम्
उपायस्य जानकीवद् द्रौपदीवत् तिरुक्कण्णमंगैयाण्डानिवच्च वर्तेत । उपेयस्य बालस्वामिवत् महाराजवत् पिल्लैतिरुनरैयूररेयर्वच्चिंतयंतीवच्च वर्तेत ॥ ८४ ॥
श्लोक
तिरुक्कण्णमंगैआण्डान् द्रौपदी जानकी यथा । तथोपायस्य माहात्म्यदर्शनाद्वर्तनं शुभम् ॥ बालस्वामी महाराजश्चिन्तयन्ती यथा तथा । तिरुनरैयूराचार्यवदुपाये च वर्तनम् ॥ ८४ ॥
टीका संस्कृता
अनंतरमधिकारिशोधनं क्रियते । उपायस्योपेयार्थत्वात् ‘उपेये प्रीतिश्च’, ‘परप्रयोजनप्रवृत्तिः प्रयत्नफलं तद्विषयप्रीतिश्चैतन्यफलं’ इति चोपेयाधिकारस्य च पूर्वं प्रसक्तत्वात् द्वयनिष्ठस्याधिकारिण उभयोरप्यपेक्षितत्वादुपायोपेयाधिकारयोश्चेतन एवमेवंप्रकारेण वर्तत इत्यर्थः । तत्तन्निष्ठान्निदर्शयन्नित्याह-उपायस्येत्यादिवाक्यद्वयेन । उपायस्येति-उपायस्याधिकारीभवनसमये इत्यर्थः । उपायाधिकारस्येति वा । तथैवोपेयस्येत्यत्राप्यर्थो बोध्यः । उपाय इति पाठे उपायविषय इत्यर्थः । एवमन्यत्रापि ।
टीका हिन्द्या
उपाय के लिये सीताजी द्रौपदी और तिरुक्कण्णमंगैयाण्डान् इन के सदृश रहना चाहिये, उपेय के लिये श्रीलक्ष्मणजी, श्रीजटायु, पिल्लैतिरुनरैयूररैयर और चिंतयंती के सदृश रहना चाहिये ॥ ८४ ॥ अनंतर अधिकारी को शोधन करते हैं । उपाय उपेय के वास्ते होनेसे, ‘उपेय में प्रीति’, ‘परप्रयोजन के लिये प्रवृत्ति प्रयत्न का फल है, उस विषय में प्रीति चैतन्य का फल है’ ऐसा उपेयाधिकार भी पूर्व प्रसक्त होने से, द्वय में निष्ठावान् अधिकारी को दोनों अपेक्षित होनेसे, उपाय और उपेयाधिकारों में यह चेतन अमुक अमुक प्रकार से रहना चाहिये इस अर्थ को उपाय और उपेय में निष्ठावालों को दृष्टांत दे कहते हैं-उपाय के लिये इत्यादि । उपाय के लिये माने-उपाय का अधिकारी होनेके समय । अथवा उपायाधिकार के लिये । वैसा ही ‘उपेय के लिये’ इस को भी समझना ।
Of course. Here is the continuation of the processed text, starting from Sutra 85 and proceeding to the end of the document.
मूलम्
जानक्या द्रौपद्याश्च तारतम्यं सविध्याशक्तिश्च ॥ ८५ ॥
श्लोक
जानकीद्रौपदीमध्ये तारतम्यमिदं मतम् । जानकी शक्तिसहिता द्रौपदी शक्तिवर्जिता ॥ ८५ ॥
टीका संस्कृता
तद्वद्वर्तेतेत्यस्य तात्पर्यं दर्शयितुं तेषां प्रकाराननुक्रमेणाह- तत्र जानक्या द्रौपद्याश्च प्रकारान् वक्तुं प्रथममुभयोस्तारतम्यमाह जानक्या इत्यादिना । ‘तस्य सदृशं भवेदिति’ स्थिताया जानक्या ‘रक्ष माम्’ इति स्थिताया द्रौपद्याश्च मिथस्तारतम्यं ‘शीतो भवे’ति यथाग्निं जलमकरोत्तथा ‘दग्धो भवेति’ विरोधिभस्मीकृत्य स्वरक्षणकरणशक्तिमत्वमशक्तिमत्वं च । [[स्वयचेन|स्वयत्नेन]] विरोधिना दूरीकृत्य स्वयं रक्षितुं विचारे कृतेऽपि स्वरक्षणोपयुक्तशक्तेः स्वस्मिन्नभावात् ।
टीका हिन्द्या
सीताजी और द्रौपदी के वैलक्षण्य शक्ति और अशक्ति है ॥ ८५ ॥ ‘उन के सदृश रहना’ चाहिये इस का अभिप्राय को दिखानेके लिये उन के अनुदानों को दिखाते हैं । उन में सीताजी और द्रौपदी के अनुदानों को दिखाने के लिये पहिले दोनों के वैलक्षण्य को कहते हैं । सीताजी इत्यादि । ‘वह उन का अनुरूप है’ ऐसा रहनेवाली सीताजी ‘मुझको रक्षा करो’ ऐसा कहने वाली द्रौपदी इन दोनों में वैलक्षण्य ‘शीत हो जाओ’ ऐसा अग्नि को जैसा पानी बनायी, ‘जल जाओ’ ऐसा विरोधि वर्ग को भस्म कर अपने को रक्षा करने की शक्ति होना और स्वयत्न से विरोधियों को हटाकर अपने को रक्षा करलेने को विचार करनेपर भी तदनुगुणशक्ति का [[अभाववाली होना|अभाव होना]] ।
मूलम्
जानकी स्वशक्तिमत्यजत्, द्रौपदी लज्जामत्यजत्, तिरुक्कण्णमंगेयाण्डान् स्वव्यापारमत्यजत् ॥ ८६ ॥
श्लोक
तत्त्यागं जानकी शक्तिं द्रौपदी ह्रीमथात्यजत् । तिरुक्कण्णमंगेयाण्डान् स्वव्यापारं तथाऽत्यजत् ॥ ८६ ॥
टीका संस्कृता
एवंभूतैः कृतं व्यापारमाह- जानकीत्यादिना । स्वशक्तित्यागो नाम-नायकेन स्वामिना रक्षणं कर्तव्यं अन्यथाऽस्माकं शक्त्या स्वरक्षणकरणं पारतंत्र्यस्वरूपनाशकमिति बुध्वा स्वशक्त्या कार्यकरणानिवृत्तिः । ‘असंदेशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव ! भस्म भस्मार्हतेजसा ॥’ इत्युक्तं हि । लज्जात्यागो नाम–दुःशासनेन सभामध्ये वस्त्रापकर्षणसमये लज्जाविशिष्टा एकस्मिन्पार्श्वे स्वयं निरोधमकृत्वा हस्तद्वयस्याप्युपरमः । महावैभवविशिष्टा जानकी स्वाम्येव रक्षक इति विश्वस्य स्वशक्तिमत्यजदिति सुकरं; तादृशवैभवाभावेऽपि महापदद्दशायामिदानीं कृष्ण एव रक्षक इति महाविश्वासं कृत्वा महासभायामियं लज्जामत्यजदिति दुष्करम् । तिरुक्कण्णमंगेयाण्डान् स्वव्यापारमत्यजदिति-स्वरक्षणहेतून्स्वव्यापारान् सर्वानत्यजदित्यर्थः । कस्यचिद्भटस्य श्वानं कस्मिंश्चिद्भटे ताडयति स तदसहमानस्ताडयता सह युद्धं कृत्वा तं हत्वा स्वयमपि ममारेत्येतद्वृत्तांतं दृष्ट्वा कस्मिंश्चित् क्षुद्रचेतने स्वाभिमानविषयतयाऽतिष्ठदित्येतन्निमित्तं स्वनाशापर्यंतं व्यापारान् कुर्वाणे दृष्टे परमचेतनाभिमानान्तर्वर्तिनोऽस्य किं वा न कुर्यादिति विचार्य स्वरक्षणव्यापारान् त्यक्त्वा तादृशश्ववत् स्वमनुसंधानस्तदैवागत्य तिरुकण्णमंगलमंदिरगोपुरद्वारसमीपदेशे शिश्ये इति प्रसिद्धम् ।
टीका हिन्द्या
सीताजी अपनी शक्ति को छोड दी, द्रौपदी लज्जा को छोड दी, तिरुक्कण्णमंगैयाण्डान् अपने व्यापार को छोड दिये ॥ ८६ ॥ पूर्वोक्त कर्तृक व्यापार को कहते हैं सीताजी इत्यादि । अपनी शक्ति को छोडना माने-अपने पति श्रीराम ही रक्षा करेंगे हमारी शक्ति से हम को रक्षा करलेना हमारे पारतंत्र्य स्वरूप का नाशक है ऐसा समझ अपनी शक्ति से कार्य नहीं लेना ।-‘हे रावण ! श्रीरामजी की आज्ञा न होने से पारतंत्र्यस्वरूप को मैं पालन करने से भस्म करनेके योग्य निज तेज से तुझे भस्म नहीं करती ।’ ऐसा सीताजी कही है । लज्जा को छोडना माने-दुःशासन सभा के बीच में मानभंग करनेपर लज्जावती हो आप अपने हाथ से न रोककर दोनों हाथों को ऊपर उठाना । ज्ञानाधिक होनेसे सीताजी स्वामी ही रक्षक हैं ऐसा विश्वास कर अपनी शक्ति को छोड़ सकी थी, उतना ज्ञान नहीं होनेपर भी महत् आपद दशा में श्रीकृष्ण ही रक्षक है ऐसा महाविश्वास पूर्वक महासभा के बीच में द्रौपदी का लज्जा छोडना ही दुष्कर कार्य है । तिरुक्कण्णमंगैयाण्डान् अपने व्यापार को छोड दिये माने-स्वरक्षण हेतुभूत स्वव्यापार को छोड़ दिये । एक भृत्य के कुत्ता को अन्यभृत्य मारनेपर उस को न सहकर मारनेवाले से युद्ध कर और उस को मार आप भी मरगया इस व्यापार को देख तिरुक्कण्णमंगैयाण्डान् ‘एक क्षुद्र चेतन अपने अभिमत कुत्ता के लिये जान छोडदिया तो परमचेतन सर्वेश्वर के अभिमान में अंदर रहनेवाला क्या न करेगा’ ऐसा विचार स्वरक्षणव्यापारों को छोड़ कुत्ते के तरह अपने को मानकर उसी समय तिरुक्कण्णमंगै दिव्यदेश में जा भक्तजीवन नामक भगवान् के द्वार में लोटते भये । यह बात प्रसिद्ध है ।
मूलम्
क्षुधिता यथा पक्वं भोक्तव्यं पच्यमानं च भोक्तव्यमिति वदति तथा स्वामिनि वनं गच्छति बालस्वामी विश्लेषे धारणाभावं पुरस्कृत्य सर्वविधकैंकर्यं कर्तव्यं प्रेरणा च कर्तव्येत्यवोचत् । पुरप्रवेशानंतरं वने एकांते स्वयंपाकेनोदरवर्धनात् सह भोक्तुमक्षमः एकहस्ते श्रीमच्छ्वेतच्छत्रमन्यहस्ते श्रीमच्छ्वेतचामरं च धृत्वा कैंकर्यमकरोत् ॥ ८७ ॥
श्लोक
पच्यमानं च पक्वं च क्षुधितेन मया क्षणम् । भोक्तव्यं हि यथा कश्चिदाह तद्वच्च लक्ष्मणः ॥ विश्लेषे धारणाभावं पुरस्कृत्य प्रयत्नतः । कैंकर्यं सर्वं कर्तव्यं प्रेरणा च मे ॥ कर्तव्योवाच साकेतप्रवेशानन्तरं वने । एकांते स्वीयपाकेनोदरवर्धनहेतुतः ॥ असहन्सह भोक्तव्यं श्वेतच्छत्रं शुभं करे । श्वेतचामरकं श्रीमत्करे धृत्वा तथाऽपरे । कैंकर्यमकरोत्सर्वं राघवस्य महात्मनः ॥ ८७॥
टीका संस्कृता
अथोपेयाधिकारिषु प्रधानस्य बालस्वामिनः प्रकारं विस्तरेणाह-क्षुधिता इत्यादिना । क्षुधिताः स्वक्षुधाबाहुल्येनैतत्पूर्वं पक्कमन्नमिदानीं पच्यमानमन्नं चास्माभिरेव भोक्तव्यमिति यथा मनोरथं कुर्वंति तथा स्वामिनि वनं गच्छति ‘वाल्यात्प्रभृति सुस्निग्धो’ बालस्वामी नगरान्निर्गमनात्पूर्वं सहगमनायोद्योगमकरोत्, तद्द्दृष्ट्वा त्वं तिष्ठेति निर्बंधं कुर्वति-‘कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते । कृतार्थोऽहं भविष्यामि तवार्थश्च प्रकल्पते ॥’ इति, गंगातरणानंतरं पुनस्त्यक्तुमनेकान् हेतून् वदति-‘न च सीता त्वया हीना न चाहमपि राघव ! । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥’ इत्युक्तत्वात् विश्लेषे स्वसत्ताभावं पुरस्कृत्य ‘कुरुष्व मामनुचरं’ इत्यनंतरं—‘धनुरादाय सगुणं खनित्रपिटकाधरः । अग्रतस्ते गमिष्यामि पंथानमनुदर्शयन् ॥ आहारयिष्यामि ते नित्यं मूलानि च फलानि च । वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम् ॥’ इत्युक्त्या स्वशेषत्वानुगुणं कैंकर्यं कर्तव्यमित्युक्त्वा, तदनंतरं-‘भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥’ इत्युक्त्वा तत्र चैतत्कार्यमिति नियतिं विना सकलविधकैंकर्यं च कर्तव्यमिति च । पंचवट्यां स्थितिसमये जलच्छायाभ्यां समृद्धे कंचिद्देशविशेषं दृष्ट्वा पर्णशालां रचयेति स्वामिनि वदति-‘एवमुक्तस्तु रामेण लक्ष्मणः संयतांजलिः । सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ॥’ इति यदा स्वस्मिन् स्वातंत्र्यं पातितं तदा स्वाम्यत्यजदिति विकृतः जानकीपुरस्कारेण सांजलिहस्तः स्थित्वा-‘परवानस्मि काकुत्स्थ ! त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥’ इत्युक्त्या कैंकर्यकरणसमये स्वातंत्र्यरूपोपमिश्रणं विनोचितकैंकर्येषु प्रेरणा कर्तव्येति प्रार्थयामास । पुरमित्यादि-पुरमागत्य राज्यांगीकारसमये स्वेन सह कैंकर्यकर्त्रा एकेनापि रहितत्वेन वने एकांते स्वयमेव सर्वं कृत्वा कैंकर्याभिनिवेशस्य वर्द्धितत्वात् स्वयंपाकेन उदरवर्द्धको यथा सहभोजनं न सहते तथा श्रीभरतप्रभृतिभिः सह स्वयमप्येकं कैंकर्यं कृत्वा स्थातुमशक्तः श्रीमच्छ्वेतच्छत्रधारणं श्रीमच्छ्वेतचामरार्पणमित्युभयविधकैंकर्यमेककालेऽकरोदित्यर्थः । इदं च वृत्तांतं श्रीरामायणे नास्ति । ‘छत्रचामरपाणिस्तु लक्ष्मणोऽनुजगाम ह ।’ इति रामायणं न भवति किमिति चेद्वनगमनात् पूर्वमभिषेकार्थमलंकृत्य स्वदिव्यांतःपुरान्निर्गत्य चक्रवर्तिगृहमुद्दिश्य रथमारुह्य स्वामिनि गच्छति बालस्वामिकृतवृत्तांततया श्रीरामायणेऽयोद्याकांडे उक्तत्वात् अत्र तदसंगतम् । तर्हि किमवलंब्यावोचदिति चेत्-पद्मपुराणप्रक्रिययाऽवोचत् ।-‘अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते । राघवस्याभिषेकार्थं मंगलं चक्रिरे जनाः ॥’ इत्यारभ्य विस्तरेणोक्त्वा । ‘मंत्रपूतैर्जलैः शुद्धैर्मुनयः शंसितव्रताः । जपंतो वैष्णवान् सूक्तान् चतुर्वेदमयान् शुभान् ॥ अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् । तस्मिन् शुभदिने लग्ने देवदुंदुभयो दिवि ॥ निनेदुः पुष्पवर्षाणि ववर्षुश्च समंततः । दिव्यांबरैर्भूषणैश्च दिव्यगंधानुलेपनैः ॥ पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूद्वहः । अलंकृतश्च शुशुभे मुनिभिर्वेदपारगैः ॥ छत्रं च चामरं दिव्यं धृतवांल्लक्ष्मणस्तदा । पार्श्वे भरतशत्रुघ्नौ तालवृंतं विचेरतुः ॥ दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः । दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ॥ जांबवांश्च महातेजाः पुष्पमालां मनोहराम् । वालिपुत्रस्तु तांबूलं सकर्पूरं ददौ प्रियात् ॥ हनूमान् दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम् । परिवार्य महात्मानं मंत्रिणः समुपासिरे ॥’ इति पद्मपुराणोत्तरखंडे एकोनपंचाशत्तमाध्याये उक्तम् । ‘छत्रं च चामरं दिव्यं धृतवानित्येतत्प्रत्यभिज्ञानार्थं हि ‘श्रीमच्छ्वेतच्छत्रं श्रीमच्छ्वेतचामरं च धृत्वा’ इत्युक्तम् ।
टीका हिन्द्या
यथा क्षुधातुर लोग किया हुआ और की जानेवाला भी अन्न को पावेंगे ऐसा कहते हैं तैसे अरण्य को जानेके समय श्रीलक्ष्मणजी रामविश्लेष में धीरज को छोड मैं सर्व प्रकार का कैंकर्य करूंगा आप की प्रेरणा भी चाहिये ऐसी प्रार्थना किये हैं अनंतर चतुर्दश वर्ष के बाद अयोध्या में प्रवेश करने पर अरण्य में एकांत में स्वयंपाक से पेट को बढाने से पंक्ति में भोजन करने को असमर्थ हो एक हाथ से श्वेतच्छत्र अपर हस्त से श्वेतचामर को भी धारण कर सेवा किये हैं ॥ ८७ ॥ अब उपेयाधिकारियों में प्रधान श्रीलक्ष्मण भगवान् के प्रकार को विस्तारपूर्वक कहते हैं—क्षुधातुर इत्यादि । यथा क्षुधातुर अपनी क्षुधा की अधिकता से इस के पहिले किया हुआ अन्न इस वखत पकताहुआ अन्न सभी हम पावेंगे ऐसा मनोरथ करते हैं तैसे श्रीरामजी के अरण्य जाने के बखत ‘बाल्य से ही स्नेह करने वाले’ श्रीलक्ष्मणजी अयोध्या से निकलने के पहिले संग जानेको प्रयत्न करनेपर ‘तुम न जाओ’ ऐसा राम के निषेध करनेपर-‘हम को आप का अनुचर बना लो इस में कोई अधर्म नहीं मैं कृतार्थ होऊंगा आप का भी प्रयोजन सिद्ध होगा’ ऐसा, गंगा के पार पहुंचने पर सीताजी को छोड़नेके लिये फिर भी रामजी बहुत कहे तो-‘आप को छोड़कर सीता और मैं दोनों जल से बिछुडी हुई मछलियों के तरह क्षण भर भी नहीं जी सक्ते’ ऐसा भी कहने से, विश्लेष में धारणासामर्थ्य को आगे कर मुझे अनुचर बनालो ऐसा कहने के बाद-‘धनुष को चढाकर खनित्र और पिटक लेकर आप को रास्ता बताते हुए आप के सामने जाऊंगा, प्रतिदिन आप के लिये कंदमूल फलों को लाऊंगा, तपस्वीलोगों के स्वादु आहार जो कुछ है उन सब को लाऊंगा’ ऐसा कहनेसे शेषत्वानुगुण कैंकर्य करना चाहिये इस तरह प्रार्थना कर तदनंतर-‘आप सीताजी के साथ पर्वतप्रदेशों में जब विचरंगे तब मैं सोते और जागते हुए आप के सर्वप्रकारके कैंकर्य को करूंगा’ इस प्रकार कहने से उस कैंकर्य में अमुक ही करूंगा ऐसा नियम को छोड सर्वप्रकारके कैंकर्य की प्रार्थना किये हैं । पंचवटी में जब गये थे तब श्रीरामजी जल और छायायुक्त एक प्रदेश को देख पर्णशाला बनाओ ऐसा लक्ष्मण से कहनेपर-‘इस प्रकार रामजी से कहे गये लक्ष्मणजी हाथ जोड सीता के संमुख श्रीरामजी से यह कहते भये ॥’ ऐसा अपने शिर में स्वातंत्र्यरूप भारको जब रक्खे हैं तब ‘मुझ को छोडदिये’ इस प्रकार विकृत हो सीताजी को आगे कर हाथ जोड-‘हे राघव ! आप जबतक रखेंगे तबतक मैं परतंत्र हूं इस लिये आप ही अपने इच्छित देश में पर्णशाला बनानेको मुझे आज्ञा दीजिये ॥’ इस तरहसे कहने पर कैंकर्यरूप कार्य में जैसे स्वातंत्र्यरूप दोष न लगे तैसे आप के इष्ट कृत्यों में मुझ को आज्ञा मिले ऐसी प्रार्थना किये । राजधानी में इत्यादि–श्रीअयोध्या को मजबूत हो और अभिषिक्त होनेपर, अपने साथ कैंकर्य करनेवाले न होने से अरण्य में आप ही सर्वविध कैंकर्य कर आशा को बढानेसे अकेले स्वयंपाक से उदर को बढानेवाले जैसे पंक्ति में भोजन नहीं कर सकेगा तैसे श्रीभरतसूरि आदिओं के तरह आप भी एक कैंकर्य कर तृप्त न हो एक हाथ में श्वेतच्छत्र और दूसरे हाथ में श्वेतचामर धारणकर एक ही काल में कैंकर्य किये हैं । यह वृत्तांत श्रीरामायण में नहीं है । ‘छत्र और चामर हाथ में ले लक्ष्मणजी श्रीरामजी का अनुगमन करते भये’ यह वचन श्रीरामायणका नहीं क्या ? इस शंका में कहते हैं-अरण्य को जानेके पहिले श्रीअभिषेक के लिये अलंकृत हो अपने दिव्यांतःपुर से निकल चक्रवर्ती के श्रीगृह को जानेके लिये रथ में बैठ श्रीरामजी के जानेके समय लक्ष्मणजी का यह वृत्तांत अयोध्याकाण्ड में कहा गया है वह इस स्थल में संगत नहीं । तब श्रीलोकाचार्यस्वामी किस आधार से ऐसा कहें हैं ? इस शंका में कहते हैं-पद्मपुराण के रीति से कहते हैं-‘अनंतर उस पुण्यदिन और शुभलग्न में श्रीरामजी के अभिषेक के लिये लोग मंगल मनाते भये’ ऐसा आरंभ कर विस्तारपूर्वक कहते हुए ‘तीक्ष्णतपस्या वाले ऋषिलोग चतुर्वेदमय शुभ वैष्णवसूक्तों को जपते हुए मंत्रसे पवित्र जलों से जगत्पति श्रीरामचन्द्रजी का शुभाभिषेक करते भये । उस शुभलग्न में आकाश में देवताओं के नगारे बजते भये, चारों तरफ पुष्पवृष्टि हुई और सीताजी के साथ श्रीरामजी दिव्यवस्त्र, भूषण, और दिव्यगंधअनुलेप और दिव्यनानाविध पुष्पों से अलंकृत हो वेदपारंगत ऋषियों के वाच में शोभते भये । लक्ष्मणजी दिव्य छत्र और चामर को धारण किये, दोनों पार्श्व में भरत और शत्रुघ्न पंखाओं को चलाते थे, श्रीमान् राक्षसेन्द्र विभीषण दर्पण दिखाते भये, वानरेश्वर सुग्रीव पूर्णकलश को धारण किये, महातेजस्वी जांबवान् मनोहर पुष्पमाला को पहनाये, वालिसूनु अंगद सकर्पूर तांबूल प्रीतिपूर्वक देते भये, हनुमानजी दिव्य दीपक को हाथमें ले दिखाये, सुषेण दिव्यध्वजा को धारण किये, इस तरह सभी मंत्रिलोग चारों तरफ से घेरकर श्रीरामजी की सेवा करते भये’ ऐसा पाद्मपुराण के उत्तरखंड ४९ [[उनचातवाँ]] अध्याय में कहा है । ‘दिव्यछत्र और दिव्यचामर को लक्ष्मणजी धारण किये’ इस वचन के प्रमाण से ‘श्वेतछत्र और श्वेतचामर को धारण किये’ ऐसा कहे हैं ।
मूलम्
महाराजः पिल्लैतिरुनरैयूररेयर् आचार्यश्च शरीरमुपेक्षताम् ॥ ८८ ॥
श्लोक
तिरुनरैयुराचार्यो महाराजश्च गृध्रराट् । उपेक्षतां शरीरं स्वं चिन्तयन्ती स्वतो वपुः ॥ ८८ ॥
टीका संस्कृता
जटायुमहाराजं महाराज इति हि अस्मत्पूर्वाचार्या [[व्यवहरति|व्यवहरंति]] । अयं स्वस्मिन् स्वामी पंचवट्यामागत्य स्वीकृत्य ‘इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा’ इति यदाऽवदत्तदाप्रभृति चरणयोरत्यंतमंतरंगः स्वामिनिवासभूतदिव्याश्रमस्यासन्नतया वर्त्तमानोऽचिंतितं रावण आगत्य जानकीं विश्लेष्यादाय गच्छति जानकी एनं कस्मिंश्चिद्वृक्षे दृष्ट्वा मामयमपहरन् गच्छतीत्येतन्नाम्नोक्त्वा चुक्रोश, तदा स्वपन्नामश्रवणार्तध्वनिं श्रुत्वा प्रबुध्य रावणेन ह्रियमाणां दृष्ट्वा ननु तवेदमनुचितमिति धर्मोपदेशमकरोत् । तस्य तेनाऽश्रवणे सति अहं जीवन्नेतत्कृतमक्रमं दृष्ट्वा स्थातुं न योग्यः युद्धं कृत्वा निवर्तयिष्याम्यथवा मरिष्यामीत्यध्यवस्यातिबलपराक्रमोऽयं तेन सह महायुद्धं कृत्वा तद्धस्तेन [[विशेषितो|विशसितो]] निपत्य स्वीयं शरीरं तत्याज हि । पिल्लैतिरुनरैयूररेयर्-अयं श्रीमन्नारायणपुरे वेदनाशयं स्वामिनं सेवितुं गत्वा स्थितेषु तत्पुत्रेषु तस्मिन्मंदिरेऽग्निं प्रक्षिपत्सु अंतःस्थितेषु सर्वेषु ततो निर्गतेष्वपि तस्य भगवतो दिव्यमंगलविग्रहस्याग्निदाहं दृष्ट्वाऽसहमानः प्रेमातिशयेन स्वयमपि शरीरं त्यक्तुमध्यवस्य स्थितत्वात् तत्पुत्राणामप्यमुं विहाय न गच्छाम इति स्थितत्वात् तैः सह तत्र स्थित्वा शरीरं तत्याजेति प्रसिद्धम् ।
टीका हिन्द्या
श्रीजटायु, पिल्लैतिरुनरैयूररैयर ये दोनों शरीर को उपेक्षा किये हैं ॥ ८८ ॥ श्रीजटायु, इत्यादि–श्रीजटायु को ‘महाराजा’ ऐसे नाम से हमारे पूर्वाचार्यलोग कहते हैं । यह पंचवटी में रामजी पधार जटायु को स्वीकार कर ‘हे लक्ष्मण ! इस पक्षी के साथ मैं यहां वास करूंगा’ ऐसा कहने के बाद स्वामी के अत्यंत अंतरंग हो भगवान के आश्रम के समीप वास करनेपर, अचानक रावण आ सीताजी को ले जानेपर सीताजी इन को एक वृक्ष के ऊपर देख ‘मुझ को यह इस प्रकार अपहरण कर ले जारहा है’ ऐसा इन का नाम पुकारने पर सोनेवाले यह उस आर्तध्वनि को सुन जाग रावण के लेजानेका प्रकार को देख ‘तुम को यह उचित नहीं’ ऐसा धर्मोपदेश करनेपर वह न सुननेसे ‘हम जीते जी इस अक्रम को नहीं देख सकते, इस के साथ युद्ध कर लौटा नहीं सकूंगा तो मरूंगा’ ऐसा निश्चय कर अतिबलपराक्रम वाले होनेसे उस के साथ महायुद्ध कर उस के हाथ से मारा जाकर अपने शरीर को छोड दिये हैं । पिल्लैतिरुनरैयूररैयर सकुटुंब तिरुनारायणपुर में नारायण भगवान के दर्शनार्थ जा मंदिर में प्रवेश किये हैं, उस समय में नास्तिक लोग मंदिर में अग्नि लगाये, भीतरके सब लोग बाहर निकल गये भगवान [[शिवण|शयन]] मंगलविग्रह को जलते हुए देख [[अल|असह्य]] हो अधिक प्रेम से आप भी देहत्याग की तयारी किये, इन के पुत्र भी इन का साथ न छोड सब उस मंदिर के भीतर जलकर भस्म हो गये यह बात प्रसिद्ध है ।
मूलम्
चिंतयंत्या देहः स्वत एव गतः ॥८९॥
श्लोक
चिंतयंत्या देहः स्वत एव गतः ॥८९॥
टीका संस्कृता
चिंतयंत्या इत्यादि । ‘काचिदावसथस्यांते स्थित्वा दृष्ट्वा बहिर्गुरुम् । तन्मयत्वेन गोविंदं दध्यौ मीलितलोचना ॥ तच्चित्तविमलाह्लादक्षीणपुण्यचया तदा । तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ चिंतयंती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥’ इत्युक्तप्रकारेण रासक्रीडायां स्थित्वा कृतं श्रीवेणुनादं श्रुत्वा श्रीवृंदावने गंतुं निर्गता तदा गुरुदर्शनेन गंतुमशक्ता स्थित्वा कृष्णं ध्यात्वा तद्गतचित्तत्वप्रयुक्तनिर्मलसुखेन तदप्राप्तिनिबंधननिरवधिकदुःखेन च प्रक्षीणाशेषपुण्यपापायास्तत्स्मरणे वर्तमाने तत्प्राप्त्यलाभक्लेशेन धारणासामर्थ्येन श्वासस्य निरुद्धत्वादस्याः स्वोपेक्षामंतरा देहः स्वत एव गत इति भावः ।
टीका हिन्द्या
चिंतयंती का शरीर स्वयमेव निवृत्त हुआ ॥ ८९ ॥ ‘किसी गोपीने घर के भीतर रहती हुई बाहर श्वशुरादि को देख न निकल सकी तब आंख मूंद तन्मय हो गोविंद को ध्यान करती भई । श्रीकृष्ण में चित्त लगने से महानंद की प्राप्ति द्वारा पुण्य से रहित हुई, ध्यान से निवृत्त होनेपर कृष्ण की अप्राप्ति जान जो दुःख पाई उस से पापरहित हुई । जगत्सृष्टिकर्ता परब्रह्मस्वरूपी श्रीकृष्ण का चितवन करती हुई उच्छ्वास रहित हो गोपकन्या मुक्त हुई ।’ इस प्रकार रासक्रीडा के समय श्रीवेणुगान को सुन वृंदावन जानेको उद्युक्त हो श्वशुरदर्शन से न जा सकी, घर के भीतर श्रीकृष्ण का ध्यान कर उस के आनंद से, और उन की अप्राप्ति के कारण अत्यधिक दुःख से भी पुण्यपापरहित हो परमात्मा के अलाभजनित क्लेश से श्वास बंद हुआ, इस गोपी का शरीर विना यत्न स्वयमेव निवृत्त हुआ ।
मूलम्
उपायस्य शक्तिर्लज्जा यत्नश्च त्याज्याः, उपेयस्य प्रेम खोपेक्षा धारणाभावश्चापेक्षिताः ॥९०॥
श्लोक
प्रयत्नशक्ती लज्जा च त्याज्योपायस्य सर्वथा । स्वोपेक्षाधारणाभावौ प्रेमोपेये ह्यपेक्षिताः ॥ ९० ॥
टीका संस्कृता
एवं निदर्शनभूतानां प्रकारानुक्त्वा ‘तद्वद्वर्तेते’ त्यस्य तात्पर्यार्थमाह-उपायस्येत्यादिवाक्यद्वयेन । उपायस्याधिकारीभवनसमये स्वरक्षणस्य स्वेनैव कर्तव्यतायां निदानभूता शक्तिः, स्वपरिगृहीतोपायस्य विरोधिनां त्यागे लौकिकाः परिहसेयुरिति जायमाना लज्जा, स्वपारतंत्र्यविरोधिस्वयत्नश्च त्याज्याः । उपेयस्याधिकारीभवनसमये शेषिविश्लेषं विना स्थित्वा सकलविधकैंकर्यं च तत्प्रेरणाप्रकारेण कर्तव्यमिति प्रेम, तस्यापदि सति तदसहत्वात्स्वदेहोपेक्षा, तद्विग्रहानुभवालाभे धारणाभावात् श्वासनिरोधश्चापेक्षिता इत्यर्थः । तद्वद्वृत्तिर्नाम-एतदधिकारवैशिष्ट्यमिति भावः । ‘विष्णोः कार्यं समुद्दिश्य देहत्यागो यदा कृतः । तदा वैकुंठपार्श्वस्थो मुक्तो भवति मानवः ॥’ इत्याग्नेयपुराणे, ‘देवकार्यपरो भूत्वा च तनुं यः परित्यजेत् । स याति विष्णुसायुज्यमपि पातकसंकरः ॥’ इति वायवीये च, ‘रंगनाथं समाश्रित्य देहत्यागं करोति यः । तत्कुले ये मृताः सर्वे गच्छंत्यात्यंतिकं लयम् ॥’ इति वामने, विशेषेणाश्वमेधिकपर्वणि वैष्णवधर्मे पंचनवत्यध्याये-‘मद्विषयं यश्चापि कुरुते तद्व्रतात्मना । स यात्यग्निप्रकाशेन विमानेन ममालयम् ॥ प्राणांस्त्यजति यो मर्त्यो मां प्रपन्नोऽप्यनाशकम् । बालसूर्यप्रकाशेन व्रजेद्यानेन मद्गृहम् ॥’ इति भगवता स्वयमेवोक्तत्वात् एवं मोक्षसाधनतयोक्ते भगवदर्थं स्वदेहत्यागोऽनन्यसाधनस्यास्य त्याज्यः खलु, प्रपन्नः पिल्लैतिरुनरैयूररैयर् अमुं कथमनुष्ठितवानित्यत आह-अस्येत्यादि ।
टीका हिन्द्या
उपाय के लिये शक्ति लज्जा और यत्न ये तीनों निवृत्त होना चाहिए । उपेय के लिये प्रेम अपने शरीर का अनादर और धारणाभाव ये तीनों चाहिए ॥ ९० ॥ तथाच-इस प्रकार दृष्टांतभूतों के प्रकार को कह ‘इन के तरह रहना’ इस का अभिप्राय को कहते हैं—उपायके लिये इत्यादि वाक्यद्वय से । उपाय के लिये अधिकारी होने के समय अपना रक्षण आप करने के अनुगुण शक्ति, अपने स्वीकृत उपाय के विरोधियों को छोडनेपर लोगों के हास्य को देख लज्जा और स्वपारतंत्र्यविरोधी स्वयत्न ये तीनों निवृत्त होना चाहिए । उपेय के अधिकारी होनेपर स्वामी को न छोड़ उन की आज्ञानुसार सर्वकैंकर्य करूं ऐसा प्रेम, स्वामी को कोई आपदा आनेपर देखने को असमर्थ हो स्वशरीर की उपेक्षा और स्वामी का विग्रह जब प्राप्त न होनेपर धारणाशक्ति से श्वास बंद होना ये तीनों चाहिये । इस कारण उन के सदृश रहना माने उनके तरह अनुष्ठान करना । ‘विष्णुकार्य को उद्देशकर मनुष्य जब देहत्याग करता है तब वैकुंठ को प्राप्त हो मुक्त होता है ।’ ऐसा आग्नेयपुराण में, ‘देवकार्य में तत्पर हो जो अपने शरीर को छोड़ता है वह पापात्मा होनेपर भी विष्णुलोक को जाता है ।’ ऐसा वायुपुराण में, ‘जो मनुष्य श्रीरंगनाथ का उद्देशकर देहत्याग करता है उस के वंश में मरनेवाले सब मुक्त होते हैं ।’ ऐसा वामनपुराण में, अश्वमेधपर्व वैष्णवधर्मशास्त्र पंचनवम अध्याय में-‘हमारे विषय में चित्त को लगा कर जो मनुष्य अनशनव्रत करता है वह अग्नि के सदृश प्रभावाले विमान में बैठ हमारे स्थान को जाता है । जो मनुष्य हमारी प्रपत्ति कर अनशनव्रत से प्राणों को त्याग करता है वह बालसूर्य सदृश कांतिवाले विमान में बैठ हमारे लोक को जाता है ।’ ऐसा साक्षात् भगवान् का ही वचन होनेसे, इस प्रकार मोक्षसाधनतया कहे जानेवाले भगवदर्थ स्वदेह का त्याग अनन्यसाधन प्रपन्न को त्याग्य नहीं है क्या ? प्रपन्न पिल्लैतिरुनरैयूररैयर देहत्यागरूप साधन को अनुष्ठान कैसे किये ? इस आकांक्षा में कहते हैं-इस का इत्यादि ।
मूलम्
अस्य वैधतया आगतो हि त्याज्यः, रागप्राप्ततयाऽऽगतस्त्यक्तुं न शक्यते खलु ॥ ९१ ॥
श्लोक
वैधत्वेनागतश्चेत्स त्याज्य एव न संशयः । न त्यक्तुं शक्यते स्वस्य रागप्राप्ततयाऽऽगतः ॥ ९१ ॥
टीका संस्कृता
‘इदं कुर्याद्’ इति विधिप्रयुक्ततया आगतः खलु प्राप्ताप्राप्तविवेककृतोऽस्य त्याज्यः, तथा विना स्वविरहेऽशक्यधारणतया यथा तथा भोग्ये प्राप्तविषये रागप्राप्ततया आगतः कथंचिदपि त्यक्तुं न शक्यते इत्यर्थः ।
टीका हिन्द्या
इस का विधिद्वारा आनेवाले ही त्याज्य होते हैं, रागप्राप्त हो आनेवाले त्यागने से नहीं छूटते हैं ॥ ९१ ॥ ‘यह करो’ ऐसा एक विधिप्रयुक्त हो आनेवाले को स्वरूपाननुरूप समझ प्रपन्न छोड सकता है, ऐसा न हो ईश्वरविश्लेष को नहीं सहनकर भोग्य और प्राप्तविषय में प्रेम के कारण आनेवाले को बलात्कार से भी नहीं छोड़ सकते हैं ।
मूलम्
उपायत्वानुसंधानं निवर्तकम्, उपेयत्वानुसंधानं प्रवर्तकम् ॥ ९२ ॥
श्लोक
उपायत्वानुसंधानं निवर्तयति भावुकम् । उपेयत्वानुसंधानं प्रवर्तयति तं तथा ॥ ९२ ॥
टीका संस्कृता
वैधतयागमनदशायां सुत्यजस्य रागप्राप्ततयाऽऽगमनदशायां दुस्त्यजत्वं कथमित्यत आह-उपायत्वेत्यादिना । उपायत्वानुसंधानं निवर्तकमिति-वैधतयाऽऽगमनदशायां देहत्यागरूपप्रवृत्तौ उपायत्वानुसंधानस्य सत्त्वादेतदनुसंधानममुं साधनतया संप्रतिपन्नाया एतद्देहत्यागरूपप्रवृत्तेर्निवर्तयतीत्यर्थः । उपेयत्वानुसंधानं प्रवर्तकमिति-रागप्राप्ततयाऽऽगमनदशायामेतद्विषयत्यागजनितहानिं दृष्ट्वा स्थितेर्मरणमेव श्रेय इति देहत्यागस्य पुरुषार्थत्वेनानुसंधानादेतदनुसंधानममुं तत्र प्रवर्तयतीत्यर्थः । अथवा वैधतयाऽऽगमनसमये भगवद्विषये उपायत्वानुसंधानमस्य निवर्तकं, रागप्राप्ततयाऽऽगमनसमये तद्विषये उपेयत्वानुसंधानमस्य प्रवर्तकमित्यर्थः ।
टीका हिन्द्या
उपायत्वानुसंधान निवर्तक है, उपेयत्वानुसंधान प्रवर्तक है ॥ ९२ ॥ विधि के कारण आनेवाले छोडनेको शक्य हैं, प्रेम के कारण आनेवाले छोडनेको अशक्य हैं । यह कैसे ? इस आकांक्षा में कहते हैं-उपायत्व इत्यादि से । उपायत्वानुसंधान निवर्तक माने-विधिरूप से जब आता है तब देहत्यागरूप प्रवृत्ति में उपायत्वानुसंधान करनेसे वह अनुसंधान साधनतया निश्चित इस देहत्यागरूप प्रवृत्ति से निवृत्त करता है । उपेयत्वानुसंधान प्रवर्तक माने-रागप्राप्त होनेके समय इस विषय की हानि को देखने की अपेक्षा मरना ही अच्छा है ऐसा समझ देहत्याग को पुरुषार्थतया अनुसंधान करनेसे वह अनुसंधान इस चेतन को देहत्याग में लगाता है । यद्वा विधिप्रयुक्त होनेपर भगवद्विषय में उपायत्वानुसंधान देहत्याग को रोकता है, रागप्राप्त होनेपर उस विषय में प्राप्यत्वानुसंधान देहत्याग का प्रवर्तक है ।
मूलम्
अप्राप्तविषयेषु सक्ते तल्लाभ आवश्यक इति स्थिते सति प्राप्तविषयप्रवणस्य न वक्तव्यं खलु ॥ ९३ ॥
श्लोक
अप्राप्तविषये सक्ते प्राप्तिरावश्यकी खलु । इति स्थिते न वक्तव्यं प्राप्तप्रवणकस्य हि ॥ ९३ ॥
टीका संस्कृता
एवं साधनबुद्ध्या विना तद्विषयप्रावण्यातिशयेन स्वदेहत्यागोपयुक्तस्थितिः कथं स्यादित्यत आह-अप्राप्तेत्यादिना । स्वरूपाप्राप्तेषु हेयविषयेषु प्रवणे स्वनाशेनापि स विषयो लभ्यते इति स्वदेहत्यागे वर्तमाने सति स्वरूपप्राप्तविलक्षणविषये प्रवणस्य तं विषयं प्राप्तुं स्वनाशनरूपोऽयं संभवतीति किंपुनर्न्यायेन सिद्धमित्यर्थः । कस्यांचिद्वेश्यायां कश्चित्सक्तस्तस्या व्याध्यतिशयसमये इयं स्वस्था तिष्ठति चेदहं मच्छिरश्छित्वाऽर्थयामीति कांचिद्देवतां प्रार्थ्य तदनंतरं स्वमस्तकं छित्त्वाऽर्पितवानिति प्रसिद्धं हि ।
टीका हिन्द्या
अप्राप्तविषयों में आसक्त पुरुष उस को प्राप्त होने के लिये [[व्यकुल|व्याकुल]] होता है तो प्राप्तविषय में आसक्त होनेवाला पुरुष को कहना ही क्या ॥ ९३ ॥ इस प्रकार साधनबुद्धि को छोड़ भगवद्विषय में अधिक प्रेम से अपने देह को छोडनेकी अवस्था हो सकती है क्या ? इस आकांक्षा में कहते हैं-अप्राप्त इत्यादि से । स्वरूपप्राप्त न होनेवाले हेय विषयों में आसक्त पुरुष अपने प्राण को छोड कर भी उस विषय को प्राप्त होनेके लिये यत्न करता है तो स्वरूपप्राप्त विलक्षणविषय परमात्मा में आसक्त पुरुष उस विषय को उद्देश कर प्राण को त्याग करेगा इस में क्या कहना । एक वेश्या के विषय में एक पुरुष अत्यासक्त होनेपर जब वेश्या व्याधिग्रस्त हुई तब वह पुरुष देवता के सामने प्रार्थना किया कि ‘यह वेश्या व्याधि से मुक्त हो तो मैं अपने शिर को काट तुम्हें चढाऊंगा ।’ बाद वेश्या नीरोग होनेपर अपने शिर को काट कर बलि दान दिया, यह बात प्रसिद्ध है ।
मूलम्
अनुष्ठानं चाननुष्ठानं चोपायकोटौ नान्त्रेति ॥ ९४ ॥
श्लोक
अनुष्ठानतदभावौ नोपायकोटी समन्वितौ ॥ ९४ ॥
टीका संस्कृता
उपेयोपेयाधिकारयोरावश्यकतयोक्तान्यानुष्ठानेभ्यो विलक्षणतया शास्त्रतत्वादनन्यसाधनस्याननुष्ठानरूपोऽयं देहत्यागो रागप्राप्ततया दुस्त्यजत्वेऽप्युपायकोटावन्वयं विना न तिष्ठेदित्याह-अनुष्ठानं चेत्यादि । अनुष्ठानतयोक्तस्वशक्तित्यागादयः प्रेमादयश्चोपायोपेयाधिकारांतर्भूतत्वादुपायकोटौ यथा नानुयंत्येवं तदननुष्ठानतयोक्तदेहत्यागश्चोपायबुद्ध्यानुष्ठानाभावेन रागप्राप्ततयाऽऽगतत्वादुपायकोटौ नान्वेति । अपितूपेयाधिकारेंतर्भवतीत्यर्थः । उपायतया शास्त्रसिद्धत्वेऽपि उपायबुद्ध्याऽनुष्ठितस्यैव हि उपायत्वं, अन्यथा प्रपन्नेनोपायबुद्धिं विना क्रियमाणानां पुण्यदेशवासादीनामप्युपायकोटावन्वयप्रसंगः ।
टीका हिन्द्या
अनुष्ठान और अननुष्ठान उपायकोटि में न गिना जायगा ॥ ९४ ॥ उपेयोपेयाधिकारों के उपयुक्ततया कहेगये अनुष्ठानों के तरह न हो उपायतया शास्त्रसिद्ध होने से प्रपन्न को अनुष्ठान करनेके अयोग्य देहत्याग रागप्राप्त होने से किये बिना न रहसकनेपर भी उपायकोटि में मिले बिना नहीं रहेगा इस शंका में कहते हैं-अनुष्ठान और अननुष्ठान इत्यादि । यथा अनुष्ठानतया उक्त स्वशक्तित्यागादि और प्रेमादि ये दोनों उपाय और उपेयाधिकारान्तर्गत होनेसे उपायकोटि में नहीं गिने जायेंगे तद्वत् अननुष्ठानतया उक्त देहत्याग उपायबुद्धि से अनुष्ठित न हो रागप्राप्त होनेसे उपायकोटि में नहीं गिना जायगा, किंतु उपेयाधिकार में गिना जायगा । उपायतया शास्त्रसिद्ध होनेपर भी उपायबुद्ध्या अनुष्ठान करनेसे ही उपाय माना जाता है, ऐसा न माने तो प्रपन्न से उपायबुद्धि को छोड उपेयबुद्धि से किये जानेवाले पुण्यदेशवासादि उपायकोटि में गिने जायेंगे ।
मूलम्
अनन्योपायत्वमनन्योपेयत्वमनन्यदेवत्वं च यथा नष्टं स्यात्तथा प्रवृत्तिं पश्यामः ॥ ९५ ॥
श्लोक
अनन्योपायत्वं चानन्योपेयत्वमनन्यदेवत्वम् । नष्टं यथा स्यात्तथा हि प्रवृत्तिं पश्यामः सूरीणाम् ॥९५॥
टीका संस्कृता
अथवाऽस्याः प्रवृत्तेरुपायकोटावन्वयेऽप्यनन्योपायत्वस्य न्यूनता स्यादित्येतावदेव हि, इदं प्रेमपरवशानामवद्यं न भवतीति वक्तुं प्रेमपरवशानां प्रवृत्तिं दर्शयति-अनन्योपायत्वमित्यादिना । अनन्योपायत्वभंजकप्रवृत्तिर्नाम-‘सम्यक् व्रतमनुतिष्ठामि’, ‘अनुष्ठीयमानं व्रतं बुध्यस्व’, ‘कुत्सितस्त्री सती मंडलूरहणं करोमि’, ‘श्रीनामग्रहणं कृत्वा’, ‘ग्रहणात् न निवर्तेय दीर्घस्पृहणीयतालशाखायाः’, ‘लोकस्था यथा जानीयुस्तथा ग्रहणं करोमि स्पृहणीयतालशाखायाः’ इति व्रतानुष्ठानमंडलूरहणप्रभृतिव्यापारेष्वन्वयः । अनन्योपेयत्वभंजकप्रवृत्तिर्नाम-तस्यैवातिशयवर्धनमेव पुरुषार्थ इति स्थितिं विहाय ‘अस्माकमेवानंदश्चेत्’, ‘परिशुद्धदलशीतलसुंदरतुलसीं गृहीत्वाऽलंकुर्मः’ इति स्वातिशयसंपादने प्रवृत्तिः । अनन्यदेवत्वभंजकप्रवृत्तिर्नाम-‘कामदेव !’, ‘त्वां त्वदनुजं चानमामः’, ‘वक्तव्यमेकमस्त्यत्र मत्स्वामिन्’ इति कामविषये देवताबुद्धिं कृत्वाऽऽराधनकरणम् । पश्याम इति-प्राप्यवस्तुनि प्रावण्यातिशयेन महावैभववत्स्वप्येवं पश्याम इत्यर्थः । पूर्वोक्तप्रवृत्तेरुपायकोटावन्वयो वस्तुगत्या स्यादित्येतावदेव हि, तथा विना साक्षादुपायबुद्ध्याऽनुष्ठिताः खल्विमे; तस्मात्प्रेमपरवशानामिदमवद्यं न भवतीति तात्पर्यम् ।
टीका हिन्द्या
अनन्योपायत्व, अनन्योपेयत्व और अनन्यदेवत्व यह तीनों जैसे नाश हों वैसे प्रवृत्तियों को देखते हैं ॥ ९५ ॥ यद्वा यह प्रवृत्ति उपायकोटी में गिनेजाने पर अनन्योपायत्व की हानि होगी इतना ही किंतु प्रेमपरवशों को दोष नहीं ऐसा कहनेके लिये प्रेमपरवशों की प्रवृत्तियों को दिखाते हैं-अनन्योपायत्व इत्यादि । अनन्योपायत्व को नाश करनेकी प्रवृत्ति माने-‘अच्छीतरह व्रत करता हूं’, ‘हमारे व्रतानुष्ठान को तुम देखो’, ‘दुष्ट स्त्री हो मैं मंडल ग्रहण करूंगी’, ‘श्रीनामों को अभ्यास कर’, ‘मैं विशाल ताल शाखा लिये विना न रहूंगी’, ‘यथा लोग जानें तथा मंडल ग्रहण करूंगी’ ऐसा व्रतानुष्ठान और मंडल ग्रहण इत्यादि व्यापारों में लगना । अनन्योपेयत्व को नाश करनेकी प्रवृत्ति माने-सर्वेश्वर को अतिशय करना ही पुरुषार्थ है ऐसा न रह ‘हम को अच्छा होगा’, ‘परिशुद्धदलशीतल तुलसी को हम धारण करेंगी’ ऐसा अपने अतिशय को ढूंढना । अनन्यदैवत्व का नाशक प्रवृत्ति माने-‘कामदेव’, ‘तुम और तुमारे भ्राता को प्रणाम करते हैं’, ‘कहने की एक बात है हे स्वामिन्’ ऐसा कामदेव में देवताबुद्धि से आराधना करना । देखते हैं माने-प्राप्यवस्तु में अधिक प्रेम से बडे बडे ज्ञानीलोगों में देखते हैं । पूर्वोक्त प्रवृत्ति को उपायकोटि में गिनना वस्तुस्वभाव से मात्र है, तैसा न हो साक्षात् उपायबुद्धि से अनुष्ठित इन उपायों को भी प्रेमस्वभाव से उपाय नहीं मानते हैं तो वस्तुस्वभाव से किये जानेवालों को कैसे उपाय मानेंगे, इस लिये प्रेमपरवशों को यह दोष नहीं ।
मूलम्
ज्ञानविपाककार्याज्ञानेनागताः सर्वे पदे सुवर्णार्घाः ॥ ९६ ॥
श्लोक
ज्ञानविपाककार्येणाज्ञानेनागताः खलु । सर्वे पदे सुवर्णा भवत्येव न संशयः ॥ ९६ ॥
टीका संस्कृता
एतत्सर्वं कालुष्येणागतं हि; अज्ञानमूलतयाऽऽगतं सर्वमनादरणीयं न भवति किमित्यत आह-ज्ञानेत्यादि । ज्ञानविपाको नाम-‘ज्ञानविपाकसुखं’ इत्युक्तप्रकारेण ज्ञानस्य परिपाकरूपा भक्तिः । तत्कार्यमज्ञानं नाम-तादृशभक्त्यतिशयप्रयुक्तः प्राप्ताप्राप्तविवेकाभावः । तेनागताः प्रवृत्तिविशेषाः सर्वे पदेपदे सुवर्णा इति-अतिश्लाघ्या इत्यर्थः । कर्मनिबंधनाज्ञानप्रयुक्तमेव हेयमिति भावः ।
टीका हिन्द्या
ज्ञानविपाककार्य अज्ञान से होनेवाले सब पदेपदे अमूल्य हैं ॥ ९६ ॥ यह सब व्याकुलता से हुई है, अज्ञान द्वारा होनेवाले आदर करने योग्य नहीं है इस शंका में कहते हैं-ज्ञानविपाक इत्यादि । ज्ञानविपाक माने-‘ज्ञानफल आनंद’ इस वचनानुसार ज्ञान का परिपाकरूप भक्ति है । उस का कार्य अज्ञान माने-उस भक्त्यतिशय से होनेवाले प्राप्ताप्राप्तविवेकाभाव । उससे होनेवाले प्रवृत्ति विशेष सब पदेपदे अमूल्य हैं माने-अतिश्लाघ्य हैं । कर्म के कारण होनेवाले अज्ञान से किये जानेवाले ही हेय हैं ।
मूलम्
उपायफलं उपेयांतर्गता च सा उपायप्रतिबंधिका न भवति ॥ ९७ ॥
श्लोक
उपायस्य फलं तद्वदुपेयांतर्गता च सा । प्रवृत्तिर्न भवत्येव ह्युपायप्रतिबंधिका ॥ ९७ ॥
टीका संस्कृता
तथाप्येतादृशातिप्रवृत्तिरेतस्य प्रवृत्तिषु किंचिदप्यसहमानस्य सिद्धोपायस्य कार्यकरत्वप्रतिबंधिका न भवति किमित्यत आह-उपायेत्यादि । उपायफलमिति-सिद्धोपायेन तेन कृतकृषिफलमित्यर्थः । ‘अज्ञाननिवृत्तिपूर्वकभक्तिरूपापन्नं ज्ञानं प्रसादितवान्’, ‘महद्विवादजनककामं समुद्रतुल्यतया वर्धयन् मेघसदृशविग्रहोऽस्मत्कृष्णः’ इत्येवंभूतप्रवृत्तिहेतोर्भक्तेरुत्पादको वर्द्धकश्च स एव हि । तस्माद्भक्तिपारवश्यनिबंधना प्रवृत्तिरुपायफलमित्युच्यते । उपेयांतर्गता चेति-प्राप्यत्वरायास्त्वरिततया नेत्रभ्रमणेनैतस्य संभ्रमाः सर्वे मद्विषये आशां कृत्वैवमवस्थां लब्ध इति तन्मुखविकासस्य हेतुत्वात्, मंडलूरहणप्रभृतय एताः प्रवृत्तयस्तन्मुखविकासार्थं क्रियमाणकैंकर्यवदुपेयांतर्भूता इत्यर्थः । उपायप्रतिबंधिका न भवतीति-एवंभूता उपायनिष्ठकार्यकरत्वविरोधिका न भवतीत्यर्थः ।
टीका हिन्द्या
उपाय के फल और उपेय के अंतर्गत होनेवाले उपाय के प्रतिबंधक न होयंगे ॥ ९७ ॥ तथापि यह अतिप्रवृत्ति, चेतन की प्रवृत्तियों में किसी को न सहनेवाले सिद्धोपाय के अपना कार्य करनेमें प्रतिबंधक न होगी क्या ? इस शंका में कहते हैं—उपाय के इत्यादि । उपाय के फल-सिद्धोपायभूत सर्वेश्वर कर्तृक कृषि का फल, ‘अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] दिये हैं’, ‘अत्यधिक काम को समुद्र के तुल्य बढानेवाले मेघसदृश विग्रह मेरा कृष्ण’ इस प्रकार की प्रवृत्तिहेतु भक्ति को उत्पादक और वर्धक भी वही है । इस लिये भक्तिपारवश्यहेतुक इस प्रवृत्ति को उपायफल कहते हैं । उपेय के अंतर्गत-‘प्राप्यवस्तु में त्वराके आधिक्य से नेत्र घूम यह आश्रित व्याकुल होरहा है ये सब मेरी आशा से ही’ ऐसा समझ सर्वेश्वर संतुष्ट होते हैं, इस लिये मंडलग्रहण आदि ये प्रवृत्तियां उन के मुखोल्लासार्थ क्रियमाण कैंकर्य के सदृश हो उपेय में अंतर्गत होती हैं । उपाय के प्रतिबंधक न होयंगे-इस प्रकार के ये प्रवृत्तियां उपायभूत सर्वेश्वर के कार्य करने में प्रतिबंधक न होयंगे ।
मूलम्
साध्यसमानं विलंबासहमिति हि साधनस्याधिक्यं, साध्यप्रावण्यहेतुना हि साधनेऽवगाहनम् ॥ ९८ ॥
श्लोक
साध्यतुल्यं त्वरा चेति साधनाधिक्यमुच्यते । साध्यप्रावण्यहेतोर्हि साधने चावगाहनम् ॥ ९८ ॥
टीका संस्कृता
एवं मंडलूरहणप्रभृतिः सिद्धोपायप्रतिबंधिका न भवतीत्युक्त्वाऽस्य सिद्धोपायसाम्यं विवक्षन्नाह-साध्यसमानमिति वाक्यद्वयेन । साध्यवस्तुन एव साधनत्वात्साध्यस्य समानमिति, फलविलंबं न सहते शीघ्रं कार्यकरोतीति च खल्वितरसाधनेभ्यः सिद्धसाधनस्याधिक्यं । साध्ये प्रावण्येन हेतुना ह्येतत्साधनपरिग्रहेऽवगाहनं; तदुभयमप्यस्याप्यस्तीति तात्पर्यम् । तथाहि-मंडलूरहणप्रभृतीनां प्रवृत्तीनां शेष्यातिशयकरत्वेन कैंकर्यरूपसाध्यस्य समानत्वाच्च, मंडलूरहणं व्रतानुष्ठानं कुर्यामिति निश्चयसमय एव सर्वेश्वरः शीघ्रमागत्यैतेषां पादे यथा पतति तथा करणेन फलविलंबासहत्वाच्च, सिद्धसाधनवदितरसाधनेभ्य आधिक्यविशिष्टत्वात् साध्यप्रावण्यहेतुकावगाहनरूपाकारस्यापि तौल्यात् । अनेन सिद्धोपायं विनाऽप्यस्यैव कार्यकारणशक्तत्वात् तत्प्रतिबंधकरूपदूषणं नास्तीति भावः । अथवा ‘उपायप्रतिबंधिका न भवति’ इत्यमुमर्थं मुखभेदेनोपपादयति-साध्येत्यादिवाक्यद्वयेन । दुग्धस्यौषधत्ववत् साध्यवस्तुन एव साधनत्वात्, सारस्ये साध्येन तुल्यं, साध्यप्रापणसमये विलंबमसहित्वा शीघ्रं प्रापयतीति खलु साधनांतरान्महाविश्वासपूर्वकं सिद्धसाधनस्याधिक्यं; इदानीमेतत्कथनं-एतदाकारद्वयं च साध्यप्रावण्यहेतुः स्यादिति ज्ञापयितुम् । एवं स्थितत्वेन हेतुनोत्पन्नेन क्षणकालविलंबासहव्याकुलतावहेनात्यंततीव्रेण साध्यप्रावण्येन हेतुना खलु मंडलूरहणप्रभृतिसाधनेऽवगाहनमित्यर्थः । तस्मादेवंभूतप्रावण्याधिक्येन नेत्रभ्रमणेन कृता एताः प्रवृत्तय उपायस्त्वरितं कार्यं कर्तुमुपयुक्ताः नतु तत्प्रतिबंधिका इति भावः ।
टीका हिन्द्या
साध्यसमान और विलंबासह होनेसे ही साधन श्रेष्ठ होता है । साध्य में प्रेमाधिक्य होनेसे ही साधन में प्रवृत्त होते हैं ॥ ९८ ॥ इस प्रकार मंडलग्रहण प्रभृति सिद्धोपाय के प्रतिबंधक न होयंगे ऐसा कह, ये सिद्धोपाय के सदृश हैं ऐसा कहते हैं-साध्यसमान इत्यादि वाक्यद्वय से । साध्यवस्तु ही साधन होनेसे साध्य के सदृश कहते हैं । फलविलंब को न सह शीघ्र कार्य करनेवाले होने से ही इतरसाधनापेक्षया सिद्धसाधन श्रेष्ठ होता है । साध्य में प्रेमाधिक्य होनेसे ही इस साधन को ग्रहण करते हैं । वे दोनों पूर्वोक्त प्रवृत्तियों में हैं । तथाच-मंडलग्रहण प्रभृत्ति प्रवृत्तियां शेषी के अतिशय करने वाली होनेसे कैंकर्यरूप साध्य के समान होते हैं । इस लिये ‘मंडलग्रहण और व्रतानुष्ठान करूंगी’ ऐसा प्रवृत्त होनेपर यथा सर्वेश्वर त्वरा से आ इन के चरणों में गिरें तथा करने से फलविलंब को न सहते हैं । इस लिये सिद्धसाधनके तरह इतर साधनों की अपेक्षा श्रेष्ठ हो साध्य में प्रावण्यद्वारा इन में उतरने के आकार भी समान होते हैं । इस से सिद्धोपाय के बिना ये ही कार्य करने में समर्थ होने से सिद्धोपाय के प्रतिबंधकत्वरूप दोष से रहित हैं । अथवा-‘उपाय के प्रतिबंधक न होयंगे’ इस वाक्य को और एक प्रकार से उपपादन करते हैं-साध्य इत्यादि वाक्यद्वय से । जैसे दूध औषध होता है तैसे साध्यवस्तु ही साधन होनेसे भोग्यता में साध्य के समान होते हैं । साध्यप्राप्ति के लिये कालविलंब को न सह शीघ्र प्राप्त करावेगा ऐसा समझकर ही साधनांतरों की अपेक्षा सिद्धसाधन को श्रेष्ठ कहते हैं । अब इस का वैभव कहने का कारण-ये दोनों आकार साध्यप्रावण्य हेतु होते हैं ऐसा भान होनेसे सर्वेश्वर की अप्राप्ति से क्षणकालविलंब को न सह व्याकुल करने वाले साध्यप्रावण्य द्वारा ही मंडलग्रहण प्रभृति इन साधनों में प्रवृत्त होते हैं । इस कारण इस प्रकार के प्रावण्य की अधिकता से की जानेवाली प्रवृत्तियां उपायभूत सर्वेश्वर ऊपर गिरके कार्य करने योग्य होती हैं, उस उपाय के प्रतिबंधक नहीं हैं ऐसा तात्पर्य है ।
मूलम्
एवं ‘अस्य वैधतया आगतो हि त्याज्यः’ इत्यारभ्यैतावत् पिल्लैतिरुनरैयूररैयर् प्रवृत्तिव्याजेन भगवत्प्रपन्नत्वेऽपि उपेयपरस्य तद्विषयप्रावण्येनागतः स्वदेहत्यागो दुस्त्यजः, उपायबुद्ध्याऽनुष्ठितत्वाभावादयं चोपायकोटौ नान्वेति, वस्तुगत्यान्वयेऽपि प्रेमपरवशानां दोषाय न भवति, बुद्धिपूर्वकानन्योपायत्वादिभंजकप्रवृत्तीनां विशदतमज्ञानवत्सु दृष्टत्वादासां चाज्ञानमूलत्वेऽपि प्रेमकार्याज्ञानप्रयुक्तत्वादतिश्लाध्याः, सिद्धोपायप्रतिबंधिकाश्च न भवंति । तावन्मात्रं विना तत्तुल्यतया वक्तुं योग्यत्वरूपः खल्वासां वैभव इत्युक्तत्वादुपेयाधिकारे स्वोपेक्षेत्युक्तोऽयमनन्यसाधनस्योचितः किमित्यतिशंकापरिहारः कृतः ।
मूलम्
अस्योत्पद्यमानानामात्मगुणानां सर्वेषामिदं प्रावण्यं प्रधानहेतुः ॥ ९९ ॥
श्लोक
चेतनोत्पद्यमानेषु जीवात्मगुणसन्निधौ । इदं प्रावण्यकं तत्र प्रधानं कारणं मतम् ॥ ९९॥
टीका संस्कृता
एवंभूतप्रावण्यं विषयवैलक्षण्याधीनं खलु, शमदमाद्यात्मगुणा एव हि अधिकारं प्रकाशयंतीत्याकांक्षायां तानपीदमेवोत्पादयतीत्याह-अस्येत्यादिना । ‘शमदमनियतात्मा’, ‘अमानित्वम्’ इत्यादिषूक्तप्रकारेणास्य चेतनस्योत्पत्तुमर्हा आत्मगुणा अनेके, तेषां सर्वेषामस्य प्रावण्यस्य प्रधानहेतुत्वं नाम-अनुकूलसहवासशास्त्राभ्यासाचार्योपदेशादिभ्यो हेत्वंतरेभ्यो मुख्यहेतुत्वम् ।
टीका हिन्द्या
इस में होनेवाले संपूर्ण आत्मगुणों का प्रधान हेतु यह प्रावण्य है ॥ ९९ ॥ इस प्रकार ‘उस चेतन के विधिप्रयुक्त आनेवाले ही त्याग करनेयोग्य हैं’ ऐसा प्रारंभ कर यहां तक कहते हुए पिल्लैतिरुनरैयूररैयर की प्रवृत्ति के बहाने से, भगवत्प्रपन्न होनेपर भी उपेय में आसक्त चेतन को भगवद्विषयप्रावण्य द्वारा स्वदेहत्याग करने से हटना असंभव है, उपायबुद्धि से अनुष्ठित न होने से वह उपायकोटि में न गिनाजायगा; वस्तुस्वभाव से उपायकोटि में गिनेजानेपर भी प्रेमपरवशों को दोषजनक नहीं हैं; बुद्धिपूर्वक अनन्योपायत्वभंजक व्यापार बडे बडे ज्ञानियों में भी दीखने से, ये अज्ञानमूल होनेपर भी प्रेमकार्यअज्ञान से आये हैं, इस लिये अति प्रशंसनीय हैं । सिद्धोपायप्रतिबंधक न होयंगे । इतना ही नहीं सिद्धोपाय के सदृश कहनेयोग्य इन का माहात्म्य है ऐसा कहनेसे, उपेयाधिकार में ‘अपने को उपेक्षा करना’ ऐसा कहा हुआ यह अनन्यसाधनत्व का उचित है क्या ? इस शंका का परिहार कियागया है । एवंभूत प्रावण्य विषयवैलक्षण्य के अधीन है, शमदमादि आत्मगुण ही अधिकार को प्रकाशित करते हैं-ऐसा पूछने पर उन गुणों को भी यह प्रावण्य उत्पादन करता है ऐसा कहते हैं—इस में इत्यादि । ‘शमदमस्वभाववाला’, ‘अभिमान का अभाव’ इत्यादि में उक्त प्रकार इस चेतन में होने योग्य आत्मगुण बहुत हैं उन सब गुणों का प्रधान हेतु यह प्रावण्य माने-अनुकूलसहवास, शास्त्राभ्यास और आचार्योपदेशादि रूप अन्य हेतुओं की अपेक्षा यह प्रावण्य मुख्य हेतु है ।
मूलम्
‘स्वामिविषये मनसि लग्ने’, ‘परमात्मनि यो रक्तः’, ‘दृष्ट्वा श्रुत्वा स्पृष्ट्वा घ्रात्वा भुक्त्वा’ ॥ १०० ॥
श्लोक
‘परमात्मनि यो रक्तः’, ‘स्वामिनो विषये मनः’ । ‘दृष्ट्वा श्रुत्वा च’ तत्राहुः प्रमाणं पाशुरादयः ॥१००॥
टीका संस्कृता
अस्मिन्नर्थे प्रमाणमुपादत्ते-स्वामिविषय इत्यादि । ‘स्वामिनि मनसि लग्ने स्त्रीणां भुजे हस्तं त्यक्त्वा शास्त्रे मनः स्थापयितुं सुलभं भवति’ इति सर्वेश्वरविषये हृदये प्रवणे भोग्यानां स्त्रीणां भुजालिंगने आशानिवृत्त्या प्रमाणेषु मनः स्थापयितुं सुलभं भवतीति । ‘परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि’ इति परमात्मविषये रक्तस्तेन परमात्मेतरविषये विरक्तो भवतीति च । ‘तेजिष्ठकटकविशिष्टायां श्रियि च त्वयि च नित्यवासं कुर्वतोर्दृष्ट्वा श्रुत्वा स्पृष्ट्वा घ्रात्वा भुक्त्वा भ्रमद्भिः पंचेंद्रियैर्दृष्टमानंदं दुर्ज्ञेयापरिमितक्षुद्रानंदं च त्यक्तवानस्मि’ इति, महालक्ष्म्यां त्वयि च कस्मिंश्चिद्देशविशेषे तिष्ठतोः सहावस्थानं दृष्ट्वा तत्र प्रवण ऐश्वर्यकैवल्ययोर्विरक्तोऽभवमिति भगवद्विषयप्रावण्यमितरविरक्तिहेतुतयोक्तं हि ।
टीका हिन्द्या
‘सर्वेश्वर के ऊपर मन लगने पर’, ‘परमात्मा में जो आसक्त होता है’, ‘देख सुन छू सूंघ खा’ ॥ १०० ॥ इस अर्थ में प्रमाण दिखाते हैं–सर्वेश्वर के विषय में इत्यादि । ‘सर्वेश्वर के ऊपर मन लगने पर युवतियों के भुजाओं को छोड शास्त्र में मन लगने लगेगा’ ऐसा सर्वेश्वर के ऊपर हृदय के लगने पर भोग्यभूता युवतियों के भुजाओं से आलिंगन करनेकी आशा छोड प्रमाणों में मन लगने योग्य होगा । ‘परमात्मा में जो आसक्त होता है वह परमात्मव्यतिरिक्त विषयों में विरक्त होता है ।’ ऐसा-परमात्मा के विषय में रक्त होने से इतर विषयों में विरक्त होता है, ‘भासमान कडावाली श्रीदेवी और आप दोनों नित्यनिवास करने पर देख सुन छू सूंघ खा भ्रमण करने वाले पंचेंद्रियों से अनुभूत सुख और दुर्ज्ञेय अपारमित [[अनिक्षुद्र|अनिर्वचनीय]] सुख (इन दोनों को छोडदिया हूं)’ महालक्ष्मी और आप दोनों परमपद में एकासन में विराजमान स्थिति को देख उस में प्रवण हो ऐश्वर्य और कैवल्यों में विरक्त हुआ हूं ऐसी भी भगवत्प्रेम इतर विषयों में विरक्ति को कारण कहा गया है ।
मूलम्
आत्मगुणेषु प्रधानः शमो दमश्च ॥ १०१ ॥
श्लोक
शमो दमः प्रधानौ स्त आत्मनो गुणराशिषु ॥१०१॥
टीका संस्कृता
भगवद्विषयप्रावण्यमात्मगुणानां सर्वेषां प्रधानहेतुरिति प्रस्थाप्येतरविषयविरक्तिहेतुत्वमात्रे प्रमाणप्रदर्शनं कथमिति शंकायामाह-आत्मगुणेष्वित्यादि । शमः-अंतःकरणनियमनं, दमः-बाह्यकरणनियमनम् । ‘शमश्चित्तप्रशांतिः स्याद् दमश्चेंद्रियनिग्रहः’ इत्युक्तं हि । ‘क्षमा सत्यं दमः शमः’ इत्यत्र दमः-बाह्यकरणानामनर्थविषयेभ्यो नियमनं, शमः-अंतःकरणस्य तथा नियमनमिति भाष्यकृदवोचत् । वैपरीत्येन कथनस्थलमप्यस्ति । एतादृशशमदमसत्वस्थलेऽन्ये गुणाः स्वत एव भवेयुरित्युक्तत्वात्प्रधानभूतयोरेतयोर्हेतुरित्यत्र प्रमाणं प्रदर्शितमिति भावः । अथवा पूर्वोक्तविरक्तिहेतुत्वं सकलात्मगुणोत्पत्तेर्हेतुरित्यस्योपलक्षणमित्यभिप्रेत्य तादृशात्मगुणेषु प्रधानः क इति शंकायामात्मगुणेषु प्रधानः शमो दमश्चेत्याह ।
टीका हिन्द्या
आत्मगुणों में प्रधान शम और दम हैं ॥ १०१ ॥ भगवत्प्रावण्य सब आत्मगुणों का प्रधान हेतु कह इतर विषयविरक्ति में मात्र प्रमाणों को दिखाये यह कैसा ? इस शंका में कहते हैं-आत्मगुणों में प्रधान शम और दम हैं इति । शम माने-अंतःकरण को नियमन करना । दम माने-बाह्यकरणों को नियमन करना । ‘शम माने-चित्त को शांत रखना । दम माने-पंचेंद्रियों को निग्रह करना ।’ ऐसा कहा है । ‘क्षमा सत्य दम और शम’ इस स्थल में-‘दम माने-बाहर के पंचेंद्रियों को अनर्थविषयों से रोकना, शम माने-अंतःकरणभूत मन को रोकना’, ऐसा ही भाष्यकारस्वामी जी भी कहे हैं । [[व्ययास|विपर्यास]] कर कहने के स्थल भी हैं । ये शमदम जहां होते हैं वहां और गुण स्वयमेव होते हैं । इस लिये प्रधानभूत इन शमदमादि गुणों का कारण बताया गया । यद्वा-पूर्वोक्त विरक्ति और सकलात्मगुणोत्पत्ति इन दोनों का हेतु बताया गया । इन आत्मगुणों में मुख्य कौन हैं ? इस शंका में ‘आत्मगुणों में प्रधान शम और दम हैं’ ऐसा कहे हैं । ऐसा भी योजना हो सकेगी समझना ।
मूलम्
अनयोरुभयोरुत्पत्तावाचार्यो वश्यो भवति । आचार्यवश्यतानंतरं मूलमंत्रो हस्तगतो भवति । मूलमंत्रे हस्तगते ईश्वरो वश्यो भवति । ईश्वरवश्यतानंतरं ‘वैकुंठमहानगरमन्यच्च हस्तगतमेव’ इत्युक्तप्रकारेण प्राप्यभूमेः सुलभा भवति ॥ १०२ ॥
श्लोक
उभयोर्भूतयोश्चैवाचार्यो भवति वश्यकः । आचार्ये च वशं प्राप्ते मंत्रो हस्तगतो भवेत् ॥ श्रीमंत्रे हस्तजाते तु वश्यो भवति माधवः । यदा स्यादीश्वरो वश्यः प्रपन्नस्याधिकारिणः ॥ ‘महानगरवैकुंठस्तद्भिन्नश्च करे स्थितः ।’ इति चोक्तप्रकारेण प्राप्यभूमिः सुलभा भवेत् ॥ १०२ ॥
टीका संस्कृता
एतच्छमदमोत्पत्तावस्य जायमानफलपरंपरामाह–अनयोरुभयोरित्यादिना । भगवत्प्रावण्यहेतुकपरिपूर्णशमदमयोः पूर्वमुक्तत्वेऽप्यत्राचार्यांगीकारस्य पूर्वभावित्वात्संकोचेनोच्यते । अनयोः शमदमयोरुभयोरुत्पत्तावाचार्यस्य वश्यत्वं नाम-एतदात्मगुणं दृष्ट्वा प्रीतः संसारनिवर्तकं महाश्रीमंत्रं यथा सार्थमुपदिशेत्तथैतद्वश्यत्वम् । ‘तस्मै स विद्वानुपसन्नाय सम्यक् प्रशांतचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥’ इति शमदमोपेतस्यैवोपसन्नस्य हि ब्रह्मविद्योपदेष्टव्येत्युक्तम् । अस्यां श्रुत्यामाचार्योपसत्तिहेतुत्वेनोक्तयोः शमदमयोः ‘एतेन श्रवणोपयुक्तमवधानं विवक्षितं न तूपासनोपयुक्तात्यंतेंद्रियजयादिः’ इति हि श्रुतप्रकाशिकाचार्यैर्व्याख्यानं कृतम् । ‘तन्मंत्रं ब्राह्मणाधीनम्’ इति श्रीमंत्रस्याचार्याधीनत्वादुपदेष्ट्राचार्यवश्यतानंतरं तदुपदेशमुखेन सार्थकमयं हृदये प्रतिष्ठितो भवतीत्यर्थः । ‘ब्रह्मविद्ब्राह्मणो विदुः’ इत्युक्तत्वात् ‘ब्राह्मणाधीनम्’ इत्यत्र ब्राह्मणशब्देनाचार्य उच्यते । ‘मंत्राधीनं च दैवतम्’ इति श्रीमंत्राधीनो वर्तत इत्युक्तत्वादर्थसहिते तस्मिन्प्रतिष्ठिते तत्प्रतिपाद्य ईश्वरः स्वस्यानिष्टनिवृत्तिपूर्वकेष्टप्राप्तेः प्रापको भवति । ‘दैवाधीनं जगत्सर्वम्’ इत्युभयविभूतेरपीश्वराधीनत्वात्तस्मिन्प्रापकत्वेन वश्ये सति प्राप्यभूमिभूतं श्रीवैकुंठमस्यात्यंतसुलभं भवतीत्यर्थः ।
टीका हिन्द्या
इन दोनों के होनेपर आचार्य हस्तगत होता है । आचार्य के हस्तगत होनेपर श्रीमंत्र हस्तगत होता है । श्रीमंत्र के हस्तगत होनेपर ईश्वर हस्तगत होता है । ईश्वर के हस्तगत होनेंपर ‘वैकुंठमहानगर और अन्य सब हस्तगत होते हैं’ इस वचनानुसार प्राप्यभूमि हस्तगत होती है ॥ १०२ ॥ इन शमदमादियों के होनेपर इस चेतन के होनेवाले फल को कहते हैं-इन दोनों के इत्यादि । यद्यपि भगवत्प्रेम के कारण होनेवाले परिपूर्ण शमदमादिगुणों को पहिले कहे थे तथा यहां आचार्यांगीकार के लिये पहिले होने योग्य समझ फिर भी कहते हैं । इन शमदम दोनों के होनेपर आचार्य हस्तगत होता है माने-इन आत्मगुणों को देख संतुष्ट हो यथा संसारनिवर्तक बृहत् श्रीमंत्र को अर्थसहित उपदेश करें तथा वश्य होता है । ‘वह विद्वान् आचार्य पास में आया हुआ शान्तचित्त शमविशिष्ट उस शिष्य को जिस विद्या से परिणामरहित त्रिकालवर्ति परमपुरुष को जानेगा उस ब्रह्मविद्या को यथार्थतया उपदेश करें ।’ ऐसा शमदमविशिष्ट पास में आयाहुआ शिष्य को ब्रह्मविद्या का उपदेश करनेको कहा । इस श्रुति में आचार्य के पास जानेका उपयुक्ततया कहे हुए शमदमादियों का ‘श्रवण करने के उपयुक्त सावधानचित्तता मात्र कही गई, उपासनोपयुक्त अत्यंत इंद्रियजयादि नहीं कहागया’ ऐसा श्रुतप्रकाशिकाचार्य व्याख्यान किए हैं । आचार्य हस्तगत होनेपर श्रीमंत्र हस्तगत होता है माने-‘वह मंत्र ब्राह्मणों के अधीन है’ ऐसा श्रीमंत्र आचार्य्याधीन होनेसे उपदेशकर्ता के हस्तगत होनेपर तदुपदेशद्वारा अर्थसहित इस के हृदय में प्रतिष्ठित होता है । ‘ब्रह्म के जाननेवाले को ब्राह्मण कहते हैं’ इत्युक्त प्रकार ‘ब्राह्मणों के अधीन’ इस स्थल में ब्राह्मणशब्द आचार्य को कहता है । श्रीमंत्र के हस्तगत होनेपर ईश्वर हस्तगत होता है माने-‘देवता मंत्र के अधीन है’ ऐसा ईश्वर श्रीमंत्र के अधीन होने से अर्थसहित उस मंत्र के हस्तगत होनेपर उस से कहेजानेवाले सर्वेश्वर चेतन की अनिष्टनिवृत्तिपूर्वक इष्टप्राप्ति के लिये उपाय होता है । ईश्वर के हस्तगत होनेपर ‘वैकुंठमहानगर और अन्य सब हस्तगत होते हैं’ इस वचनानुसार प्राप्यभूमि हस्तगत होती है माने-‘संपूर्ण जगत् देवता के अधीन है’ इस प्रकार उभयविभूति ईश्वराधीन होनेसे वह उपायतया हस्तगत होनेपर प्राप्यभूमि श्रीवैकुंठ इस चेतन को अत्यंत सुलभ होता है ।
मूलम्
प्राप्यलाभः प्रापकेण, प्रापकलाभो मूलमंत्रेण, मूलमंत्रलाभ आचार्येण, आचार्यलाभ आत्मगुणेन ॥ १०३ ॥
श्लोक
प्राप्यप्रापकश्रीमंत्रदेशिकात्मगुणेषु हि ॥ कार्यकारणभावोऽयं क्रमेण कथितो भवेत् ॥ १०३ ॥
टीका संस्कृता
शमदमोत्पत्तावुत्तरोत्तरमेतत्सर्वं सिध्यतीति प्रकारमारोहक्रमेणोक्तवाऽस्मिन् यं प्रति यस्य हेतुत्वमुक्तं तन्नियतमित्यर्थमवरोहक्रमेणाह-प्राप्यलाभ इत्यादिना । एतस्य प्रयोजनमेतद्धेतुपरंपरायां प्रथमहेतुः शमदमौ तस्मादवश्यमेतदुभयमप्यस्यापेक्षितमिति । ईश्वरस्यैव प्रापकत्वात्प्राप्यलाभः प्रापकेणेत्युक्तम् ।
टीका हिन्द्या
प्राप्यलाभ प्रापक से, प्रापकलाभ श्रीमंत्र से, श्रीमंत्रलाभ आचार्य से, आचार्यलाभ आत्मगुणों से ॥ १०३ ॥ इस प्रकार शमदमों के होनेपर उत्तरोत्तर इन सब के सिद्धिप्रकार को आरोहक्रम से कह इन में किस को कौन हेतुतया कहागया वह वैसा ही है ऐसा समझाने को अवरोहक्रम से कहते हैं-प्राप्यलाभ इत्यादि । इस का प्रयोजन-इस हेतुपरंपरा में प्रधान हेतु शमदम होनेसे अवश्य इन दोनों के चेतनों के उपयुक्त होना । ईश्वर ही प्रापक होनेसे प्राप्यलाभ ‘ईश्वर से’ इस स्थान में ‘प्रापक से’ ऐसा कहा है ।
मूलम्
अयं चैश्वर्यकामानामुपासकानां प्रपन्नानां चापेक्षितः ॥ १०४ ॥
श्लोक
अयमर्थार्थिभक्तानां प्रपन्नानामपेक्षितः ॥ १०४ ॥
टीका संस्कृता
एते शमदमादय उपासकानामप्यपेक्षिता इत्याह-अयं चेत्यादिना । ऐश्वर्यकामानां शब्दादिभोगस्यैव पुरुषार्थत्वेऽपि तत्साधनानुष्ठानदशायां शमदमादय आवश्यकाः । ‘इंद्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।’ ‘शरीरधृतान्याभरणानि रुचिना सह त्यक्त्वा पंचेंद्रियाणि जित्वा’ इत्युक्तम् । ‘पंचेंद्रियाणि जित्वे’ति मनोनियमनस्योपलक्षणम् । उपासकानां विद्यांगतया शमदमादय आवश्यकाः-‘तस्मादेवंविच्छांतो दांत उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’ । ‘हेयविषयमार्गं निरुध्य जनुमुद्रया मुद्रयित्वा समीचीनविषयमार्गमुद्घाट्य ज्ञानरूपसमीचीनप्रकाशं प्रकाश्य’ इत्युक्तम् । प्रपन्नानामधिकारार्थं शमादयोऽपेक्षिताः । ‘एकांती तु विनिश्चित्य देवताविषयांतरैः । भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ॥’ ‘नियमितुं दुःशकानि पंचेंद्रियाणि नियम्य तद्विषयाभिलाषारूपामाशां वासनया सह त्यक्त्वा त्वन्मुखविकासहेतुव्यापारेषु स्थितं मां’ इत्युक्तम् ।
टीका हिन्द्या
ये ऐश्वर्यकाम, उपासक और प्रपन्नों को भी चाहिए ॥ १०४ ॥ यह शमदमादि भोग और मोक्षकामनावाले सब ही को आवश्यक है ऐसा कहते हैं-ये इत्यादि । ऐश्वर्यकामियों को यद्यपि शब्दादिभोग ही पुरुषार्थ है तोभी ऐश्वर्य के लिये साधनानुष्ठान करनेके समय में शमदमादि अपेक्षित हैं । ‘पहिले इंद्रियों को जीत अनंतर त्रिभुवन को जीते हो’, ‘शरीर में धृत आभरणों को सवासना त्याग कर पंचेंद्रियों को जीत’ ऐसा कहा है । ‘पंचेंद्रियों को जीतकर’ इस से मन को जीतना भी सूचित होता है । उपासकों को उपासना के अंगतया शमादि चाहिये । ‘इस प्रकार ब्रह्म की उपासना करनेवाला शम, दम, उपरति, क्षमा और [[एकामता|एकाग्रता]] सहित हो मन से आत्मा को देखें ।’ ‘हेयविषयमार्ग को रोक लाख का छाप लगा सन्मार्ग को खोल ज्ञानरूप समीचीन दीप को प्रकाश कर’ ऐसा कहा है । प्रपन्नों को अधिकार के लिये शमदमादि अपेक्षित हैं । ‘एकांती भक्तिरूप उपाय को देवतांतर विषयांतर के तरह समझ कृष्ण की प्राप्ति के लिये कृष्ण ही को उपायतया आश्रयण करता है ।’ ‘नियमन करनेको अशक्य पंचेंद्रियों को रोक विषय की आशा को छोड आप के कैंकर्य करनेके लिये आगे खडा हुआ मुझको’ ऐसा कहा है ।
मूलम्
एतत्त्रयाणां मध्येऽत्यंतमपेक्षा प्रपन्नस्य ॥ १०५॥
श्लोक
त्रिषु मध्ये प्रपन्नस्यावश्यापेक्षा हि विद्यते ॥
टीका संस्कृता
एवमधिकारित्रयस्यापेक्षायामप्यधिकमपेक्षा प्रपन्नस्येत्याह-एतत्त्रयाणां मध्य इत्यादिना । अस्यात्राधिक्यं वक्तुमन्येऽत्र प्रस्ताविताश्च ।
टीका हिन्द्या
तीनों में अत्यंत अपेक्षा प्रपन्न को है ॥ १०५ ॥ इस प्रकार तीनों अधिकारियों को अपेक्षित है तो भी अत्यंत आवश्यकता प्रपन्न को है ऐसा कहते हैं—तीनों में इत्यादि । प्रपन्न को [[अवश्य/पेक्षित|अवश्यापेक्षित]] ऐसा कहनेके लिये ही औरों को इस स्थल में कहे हैं ।
मूलम्
अनयोर्द्वयोर्निषिद्धविषयविरक्तिरेवालं, प्रपन्नस्य विहितविषयविरक्तिस्त्वाधिक्यम् ॥ १०६ ॥
श्लोक
अर्थार्थ्युपासकानां चानिषिद्धविषयेऽरुचिः । अलं चिह्नितवैराग्यमाधिक्यं न्यासिनः खलु ॥ १०६॥
टीका संस्कृता
तदाधिक्यमाह-अनयोर्द्वयोरित्यादिना । शब्दादिभोगपरस्यैश्वर्यकामस्य साधनांतरपरस्योपासकस्य च शास्त्रनिषिद्धविषयपरदारादिषु निवृत्तिमात्रमलम् । तदुभयव्यावृत्तस्य प्रपन्नस्य शास्त्रविहितविषये स्वदारेषु निवृत्तिस्तदपेक्षयाऽस्याधिक्यमित्यर्थः । तयोरुभयोरैश्वर्यकामस्य स्वदारेषु साधनदशायां धर्मबुद्ध्या प्रवृत्तिः फलदशायां भोग्यताबुद्ध्या प्रवृत्तिश्च स्यात् । उपासकस्य भगवदनुभवस्यैव फलत्वात्तद्वत्फलदशायामन्वयाभावेऽप्युपासनदशायां धर्मबुद्ध्या प्रवृत्तिरपेक्षिता । प्रपन्नस्य धर्मबुद्ध्या प्रवृत्तेरपि स्वाधिकारभंजकत्वाद्विहितविषयेऽपि निवृत्तिरावश्यकीत्युक्तम् ।
टीका हिन्द्या
अन्य दोनों को निषिद्धविषय की निवृत्ति ही अपेक्षित है, प्रपन्न को विहितविषय की निवृत्ति भी अधिक है ॥ १०६ ॥ उस आधिक्य को दिखाते हैं-अन्य दोनों को इत्यादि । शब्दादिभोगरत ऐश्वर्यकाम और साधनांतर में आसक्त उपासक इन दोनों को शास्त्रनिषिद्ध विषय परदारादियों में निवृत्ति मात्र अपेक्षित है, इन दोनों से विलक्षण प्रपन्न को शास्त्रविहित विषय स्वदारा में निवृत्ति आवश्यक है । यही इन दोनों से आधिक्य है । इन दोनों में ऐश्वर्यकाम को स्वदारा में साधनदशा में धर्मबुद्धि से प्रवृत्त होना फलदशा में भोग्यता बुद्धि से प्रवृत्त होना कहा है । उपासक को फल भगवदनुभव होनेसे ऐश्वर्यकाम के तरह फलदशा में संबंध नहीं है तथापि उपासनादशा में स्वदारा में धर्मबुद्धि से प्रवृत्त होना चाहिए, प्रपन्न को धर्मबुद्धि से प्रवृत्त होना भी स्वाधिकार रूप प्रपत्ति का भंजक होने से स्वदाराविषय में भी निवृत्ति अपेक्षित है ।
मूलम्
इयं च केषांचित्सौंदर्येण जायते, केषांचित्कृपया जायते, केषांचिदाचारेण जायते ॥ १०७ ॥
श्लोक
इयं विरक्तिः केषां चिल्लौंदर्येणैव जायते । केषांचित्कृपया तद्वत्केषांचिदाचारेण वा क्वचिद्भवेत् ॥ १०७ ॥
टीका संस्कृता
धर्मबुद्ध्या प्रवृत्तेः परिहारकरणं भोग्यताबुद्ध्या प्रवृत्तेर्निवृत्तौ हि, अनादिकालं वासितेषु विषयेषु निवृत्तिः कथं स्यादिति शंकायामाह-इयं चेत्यादि । केषांचित्सौंदर्येण जायते इति-साक्षात्कृतभगवत्तत्त्वानां भक्तिपारवश्यप्रपन्नानां सकलजनमोहनतद्विग्रहसौंदर्यानुभवेन जायत इत्यर्थः । केषांचित्कृपया जायत इति-तस्यात्मयाथात्म्यदर्शिनां ज्ञानाधिक्यप्रपन्नानां ‘अस्मदनुभवार्थमुत्पन्नं वस्त्वेवमन्यविषयप्रवणमनर्थं प्राप्नोति खल्वीदृशम्’ इत्यन्यविषयसंगनिवृत्यर्थं तेन क्रियमाणया परमकृपया जायत इत्यर्थः । केषांचिदाचारेण जायत इति-परिमितज्ञानानामज्ञानप्रपन्नानामर्चावतारेषु-‘मर्यादानां च लोकस्य कर्ता कारयिता च सः ।’ इत्युक्तप्रकारेण अधिकारानुगुणं तेनाचरितानामाचारयित्राणां च प्रकाराणामप्यपरिमितैः पूर्वाचार्यैराचरितानां च प्रकाराणां शास्त्रमुखेनाचार्योपदेशादिना च ज्ञातत्वात् तादृशाचाराणामनुसंधानेन जायते ।
टीका हिन्द्या
यह कई एक को सौंदर्य से उत्पन्न होती है, कई एक को कृपा से उत्पन्न होती है, कईएक को आचार से उत्पन्न होती है ॥ १०७ ॥ धर्मबुद्धि से प्रवृत्ति का परिहार तब करते हैं जब भोग्यता बुद्धि से प्रवृत्ति न हो, अनादिकाल से वासना लगे हुए विषयों से निवृत्ति कैसे होगी ? इस शंका में कहते हैं-यह इत्यादि । कई एक को सौंदर्य से उत्पन्न होती है माने-भगवत्तत्व को साक्षात्कार किये हुए भक्तिपरवश प्रपन्नों को सकलजनमोहन सर्वेश्वर के विग्रह के सौंदर्य का अनुभव करनेसे उत्पन्न होती है । कई एक को कृपा से उत्पन्न होती है माने-तत्त्वयाथात्म्यदर्शी ज्ञानाधिक प्रपन्नों को ‘हमारे अनुभव के लिये जन्म ले इस प्रकार अन्यविषयप्रवण हो अनर्थ को पाते हैं ।’ ऐसा अन्यविषय से भक्ति छूटने के लिये ईश्वरकर्तृक परम कृपा से उत्पन्न होती है । कईएक को आचार से उत्पन्न होती है माने-परिमित ज्ञानवाले अज्ञान से प्रपन्नों को अर्चावतारों में-‘लोकमर्यादाओं को करने और कराने वाले वही हैं ।’ इस वचनानुसार अधिकारानुगुण सर्वेश्वर आचरण कर और आचरण कराकर संचार किये हैं, और ज्ञानाधिक पूर्वाचार्य आचरण किये हैं, इन दोनों प्रकार के आचारों को शास्त्र और आचार्य उपदेशादि द्वारा जानने से उत्पन्न होती है ।
मूलम्
उत्पत्तिक्रमः कथमिति चेत्सौंदर्यमज्ञानं जनयति, कृपा रुचिं जनयति, आचारो भयं जनयति ॥ १०८ ॥
श्लोक
सौंदर्येणाज्ञताऽऽख्याता कृपयाऽरुचिरुच्यते । आचारेण भवेद्भीतिरित्युत्पत्तिक्रमः स्मृतः ॥ १०८ ॥
टीका संस्कृता
एतैर्हेतुभिरुत्पत्तिक्रमं तज्जिज्ञासुप्रश्नानुवादपूर्वकमाह-उत्पत्तिक्रम इत्यादिना । सौंदर्यमज्ञानं जनयतीति-दृष्टिचित्तापहारित्वाद्विषयांतरेष्वयमेक इति ज्ञानं प्रतिबध्नातीत्यर्थः । कृपाऽरुचिं जनयतीति-विषयांतरदर्शनेषु जुगुप्सया यथा निवर्तते तथाऽरुचिं जनयतीत्यर्थः । आचारो भयं जनयतीति-रुचौ सत्यामपि तदाचारप्रकारेणाकरणेऽस्माकमनर्थ एव फलतीति विषयं स्प्रष्टुं यथा कंपते तथा भयं जनयतीत्यर्थः । तस्मादेतत्क्रमेण जायते इति भावः ।
टीका हिन्द्या
उत्पन्न होनेका क्रम कैसा ? इस शंका में सौंदर्य अज्ञान को उत्पन्न करेगा, कृपा अरुचि को उत्पन्न करेगी, आचार भीति को उत्पन्न करेगा ॥ १०८ ॥ इन हेतुओं से उत्पन्न होनेके क्रम को, उस के जिज्ञासु के प्रश्न का अनुवाद करते हुए कहते हैं-उत्पन्न होने का क्रम इत्यादि । सौंदर्य अज्ञान को उत्पन्न करेगा माने-दृष्टि और चित्त को अपहरण करनेवाला होने से सौंदर्य विषयांतर को तुच्छ मानने योग्य करेगा । कृपा अरुचि को उत्पन्न करेगी माने-विषयांतरों को देखने से चेतन का जुगुप्सा उत्पादन कर उनसे हटावेगी । आचार भीति को उत्पन्न करेगा माने-रुचि होनेपर भी ‘पूर्वजों के आचारों के अनुसार नहीं करनेपर हम को अनर्थ ही होगा’ ऐसा समझ विषयस्पर्श में भीति को उत्पन्न करेगा । इस कारण इस क्रम से उत्पन्न होती है समझना ।
मूलम्
इदं चाधिक्यमपेक्ष्योच्यते ॥१०९॥
श्लोक
अपेक्ष्य चेदमाधिक्यमुच्यते न ततोऽन्यथा ॥ १०९ ॥
टीका संस्कृता
एतेषां त्रिविधप्रपन्नानां सौंदर्यादित्रये एकैकस्यैव विरक्तिहेतुत्वकथनस्य निदानमाह-इदं चेत्यादिना । अज्ञानेन प्रपन्ना इत्यादिनैतेषामुक्तप्रपत्तिहेतुषु यथैकैकस्याधिक्यमपेक्ष्योक्तं, तथा ‘सौंदर्येण जायते’ इत्यारभ्योक्तविरक्तिहेतुष्वेतेष्वेकैकस्याधिक्यमपेक्ष्योच्यत इत्यर्थः । अनेन भक्तिपारवश्यप्रपन्नानामरुचिहेतोः कृपायाः, भयहेतोराचारानुसंधानस्य च सत्वेऽपि भगवद्विग्रहवैलक्षण्यं साक्षात्कृत्यानुभवितृत्वात्सौंदर्ये सदा हृदयस्य मग्नत्वाद्विषयांतराज्ञानापादकसौंदर्यमेव तेष्वधिकतया वर्तते । ज्ञानाधिक्यप्रपन्नानामज्ञानहेतोर्विग्रहसौंदर्यस्यार्चावतारेऽनुभूयमानत्वाद्भयहेतोः प्राक्तनशिष्टाचारानुसंधानस्य च सत्वेऽपि तेन स्वरूपानुकूलप्रवाहं कृत्वोद्धृतविषयत्वादरुचिहेतुः कृपा तेष्वधिकतया वर्तते । अज्ञानप्रपन्नानामर्चावतारे कादाचित्कविग्रहसौंदर्यानुभवस्यारुचिहेतोः कृपायाश्चैकमर्यादायां स्थितत्वेऽपि पूर्वाचार्याचरणमेव सदानुसंधानाद्भयहेतुराचारस्तन्मनस्यधिकतया वर्तते । एतादृशाधिक्यमपेक्ष्यैकैकमेव विरक्तिहेतुतयोक्तमिति सिद्धम् ।
टीका हिन्द्या
इन को भी आधिक्य के अपेक्षया कहते हैं ॥ १०९ ॥ ये तीनों प्रकार के प्रपन्नों को सौंदर्यादि तीनों में एक एक को ही विरक्ति हेतुतया कहने के कारण कहते हैं-इन को इत्यादि । ‘अज्ञान से प्रपन्न’ इत्यादि से कहे हुए इन की प्रपत्ति के हेतु एक एक का आधिक्य को लेकर जैसे कहे गये तैसे, ‘सौंदर्य से उत्पन्न होती है’ ऐसा प्रारंभ कर कहे हुए विरक्ति हेतुभूत ये भी एक एक का आधिक्य को लेकर कहे गये हैं । इस से भक्तिपरवशता से प्रपन्नों को अरुचि के कारण कृपा और भय के कारण आचारानुसंधान होने पर भी भगवद्विग्रहवैलक्षण्य को साक्षात्कार कर अनुभव करनेवाले होनेसे विग्रहसौंदर्य में सदा मन लगे रहनेसे विषयांतरों को नहीं जानने देनेवाले वह विग्रहसौंदर्य ही उन में अधिकतया भासमान है । ज्ञानधिक्य प्रपन्नों में अज्ञानहेतुभूत विग्रहसौंदर्य को अर्चावतार में देख अनुभव करना, भयहेतुभूत पुरातन शिष्टाचार का अनुसंधान करना ये दोनों के रहनेपर भी सर्वेश्वर अपनी कृपारूप प्रवाह को पूर्णतया बहाकर स्वीकार किये हुए विषय होने से अरुचि के कारण कृपा इन में अधिकतया रहती है । अज्ञान से प्रपन्नों में अर्चावतार में कदाचित् विग्रहसौंदर्यानुभव और अरुचिहेतुभूत कृपा ये दोनों रहनेपर भी पूर्वाचार्यों के आचारों को ही सदा अनुसंधान करनेसे भयहेतुभूत वे आचार उन के मन में अधिकतया रहते हैं । इस आधिक्य को लेकर ही एक एक ही विरक्तिहेतुतया कहा गया ।
मूलम्
अरुच्युत्पत्तौ दोषदर्शनमपेक्षितम् ॥ ११० ॥
श्लोक
अरुचेर्जननीये हि कारणं दोषदर्शनम् ॥ ११० ॥
टीका संस्कृता
विषयवैलक्षण्याद्धि विषयांतराज्ञानं संभवति, आप्तानां शिष्टानामाचारानुसंधानेन विहितनिषिद्धविषयस्पर्शे भयोत्पत्तिश्च संभवति, अनादिकालमाशां कृत्वाऽभिनिवेशेन परिगृहीतेषु विषयेष्वरुच्युत्पत्तिरघटिता हि, तादृशारुचेः कृपयोत्पत्तावपेक्षितांशमाह-अरुचीत्यादिना । दोषदर्शनं नाम-भोग्यताबुद्ध्या परिष्वज्यमानो योषिद्देहो मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसमुदायश्चर्मावनद्धो दुर्गंधीति प्रकारस्य, भोगोऽल्पोऽस्थिरो दुःखमिश्रोऽनर्थावहश्चेति प्रकारस्य च प्रत्यक्षादिप्रमाणैर्दर्शनम् ।
टीका हिन्द्या
अरुचि के उत्पन्न होनेपर दोष को देखना भी अपेक्षित है ॥ ११० ॥ विषयवैलक्षण्यातिशय से विषयांतर में अज्ञान हो सका है, आप्तभूत शिष्टों का आचारानुसंधान से अविहित और विहित विषयों के स्पर्श में भय भी हो सक्ता है, अनादिकाल से अपेक्षा करते हुए जिन विषयों को भोगते रहे तादृश विषयों में अरुचि का होना असंभव है, इस लिये तादृश अरुचि के सर्वेश्वर की कृपा से उत्पन्न होनेपर अपेक्षितांश को कहते हैं—अरुचि के उत्पन्न होनेपर इत्यादि । दोष को देखना माने-भोग्यताबुद्धि से आलिंगनादि योग्य युवतियों के शरीर का-मांस, रक्त, पूय, विष्ठा, मूत्र, स्नायु, मज्जा, अस्थियों के समुदायरूप चर्म से ढका हुआ दुर्गंधि द्रव्य होना, भोगका भी अल्प, अस्थिर, दुःखमिश्र और अनर्थावह होना इन को प्रत्यक्षादिप्रमाणों से देखना ।
मूलम्
तत्प्रधानहेतुर्न भवति ॥१११॥
श्लोक
न दोषदर्शनं तत्र प्रधानो हेतुरिष्यते ॥ १११ ॥
टीका संस्कृता
तर्हि तदेवारुचिहेतुः किमत आह–तदित्यादि । तच्चैको हेतुर्न मुख्यहेतुर्न भवतीत्यर्थः ।
टीका हिन्द्या
वह प्रधान हेतु नहीं है ॥ १११ ॥ ऐसा होतो वही अरुचि का हेतु है क्या ? इस शंका में कहते हैं-वह इत्यादि से । वह भी एक हेतु है, परंतु मुख्य हेतु नहीं है ऐसा समझना ।
मूलम्
अप्राप्ततैव प्रधानहेतुः ॥ ११२ ॥
श्लोक
स्वरूपाप्राप्ततैव स्यात्प्रधानं तत्र कारणम् ॥ ११२ ॥
टीका संस्कृता
तर्हि प्रधानहेतुः क इत्यत आह-अप्राप्ततेत्यादि । अप्राप्तता नाम-भगवदेकभोगरूपस्वरूपस्याननुरूपत्वम् । अनेन कृपया रुच्युत्पादनसमये दोषदर्शनादिकं कारयित्वोत्पादनाद्दोषदर्शनमप्राप्तिदर्शनं च तत्त्वविदामरुचेर्गौणमुख्यहेतू इत्युक्तम् ।
टीका हिन्द्या
अप्राप्तता ही प्रधान हेतु है ॥ ११२ ॥ तब प्रधान हेतु कौन है ? इस शंका में कहते हैं-अप्राप्तता इत्यादि । अप्राप्तता माने-भगवान् का ही भोगरूप आत्मस्वरूप का अनुरूप न होना, इस से कृपा से अरुचि होनेपर दोषों को दिखाकर जनाने से दोषदर्शन और अप्राप्तिदर्शन ये दोनों ज्ञानीलोगों की अरुचि का गौण और मुख्य हेतु होते हैं ।
मूलम्
भगवद्विषयेऽवगाहनं च गुणान् दृष्ट्वा न भवति, स्वरूपप्राप्त इति ॥११३॥
श्लोक
भगवद्विषये नो हि गुणान् दृष्ट्वाऽवगाहनम् । स्वरूपप्राप्त इत्येव प्रधानं तत्र कारणम् ॥ ११३ ॥
टीका संस्कृता
‘स्वामिविषये मनसि लग्ने’ इत्यादिप्रकारेण प्रावण्यविषयतयोक्ते भगवद्विषये यथा गुणं दृष्ट्वावगाहते तथा दोषं दृष्ट्वाऽमुमपि त्यजतीत्युक्तौ को दोष इत्यत आह-भगवद्विषय इत्यादि । तर्हि कथमित्यत आह-स्वरूपेत्यादि । भगवद्विषयावगाहनं च-तत्र कल्याणगुणान् दृष्ट्वा न भवति किंतु अस्पात्मनः प्राप्तविषय इति हेतुनेत्यर्थः ।
टीका हिन्द्या
भगवद्विषय में लगना भी गुण देख नहीं स्वरूपप्राप्त समझ ॥ ११३ ॥ ‘परमात्मा में मन लगनेपर’ इत्यादि प्रकार से प्रावण्यविषयतया कहा हुआ द्वय में गुण देख जैसे लगते हैं तैसा दोष देख छोड़ने में क्या अनुपपत्ति है ? इस शंका में कहते हैं-भगवद्विषय में इत्यादि । तत्र किससे ? इस में कहते हैं-स्वरूपप्राप्त समझ इति । भगवद्विषय को आश्रय करना भी भगवान् के कल्याणगुणों को देखकर नहीं किंतु इस आत्मा का प्राप्त होने से ।
मूलम्
स्वमनंगीकारे गुणहीनमित्यनुसंधानदशायां भगवद्विषयप्रवृत्तिः, दोषानुसंधानदशायां संसारे प्रवृत्तिश्च न स्यात् ॥ ११४ ॥
श्लोक
तदस्वीकारतो विष्णोर्गुणहीनत्वसंज्ञया । भगवति प्रवृत्तिर्न स्याद्दोषध्यानदशासु च ॥ संसारे न प्रवृत्तिः स्यादिति [[निश्चितमेव|निश्चित्यमेव]] हि ॥ ११४ ॥
टीका संस्कृता
पूर्वस्वोक्तप्रकारेणार्थस्यानंगीकारे विरोधं प्रदर्शयति-एवमित्यादिना । एवमनंगीकार इति-इतरविषयारुचिं प्रति हेतुरप्राप्ततेति भगवद्विषये रुचिं प्रति हेतुः प्राप्ततेति चानंगीकृत्य दोषदर्शनस्य गुणदर्शनस्य च एतद्धेतुत्वस्वीकार इत्यर्थः । गुणहीनमित्यनुसंधानदशायां भगवद्विषयप्रवृत्तिरिति-विश्लेषदुःखस्योत्कूलत्वान्महाभिनिवेशेन व्याकुले सति शीघ्रमागत्य सुखदर्शनादानेन गुणहीनमिति चिंतनदशायां ‘पुनश्च तं विना न जानामि’ इति तद्विषयेऽत्यभिनिवेशकरणम् । दोषानुसंधानदशायां संसारे प्रवृत्तिरिति-मातापित्रादिभिर्भार्यापुत्रादिभिर्ज्ञातिभिर्बंधुभिर्गृहक्षेत्रादिभिः सह शब्दादिभोगानामनुभवरूपे संसारे दुःखबहुलत्वादिदोषं प्रत्यक्षादिभिर्ज्ञात्वा तदनुसंधानदशायां तत्राभिनिवेशानुवृत्तिः, एतदुभयं च न स्यादित्यर्थः । अथवा दोषानुसंधानदशायां संसारे प्रवृत्तिरिति-तत्त्वविदां महर्षिप्रभृतीनां सारासारविवेकतया विषयदोषानुसंधानसद्भावेऽपि तद्दशायां शास्त्रविहिततया प्राप्तमिति बुद्ध्या क्रियमाणपुत्रोत्पादनादिरूपा संसारे प्रवृत्तिरित्यर्थः । एवमनंगीकारे एतन्न स्यादित्युक्तत्वादिति विरोधस्य प्रदर्शितत्वादेवमंगीकार आवश्यक इत्यर्थः स्थापितः ।
टीका हिन्द्या
इस प्रकार अंगीकार न करनेपर जब गुणहीन समझते हैं तब भगवद्विषयप्रवृत्ति, जब दोषानुसंधान करते हैं तब संसार में प्रवृत्ति ये दोनों नहीं हो सकीं ॥ ११४ ॥ पहिले अपने कहे हुए प्रकार अर्थ को अंगीकार न करनेपर होनेवाला दोष को दिखाते हैं—इस प्रकार इत्यादि । इस प्रकार अंगीकार न करनेपर माने-इतरविषयों में अरुचि का हेतु अप्राप्तता, भगवद्विषय में रुचि का हेतु प्राप्तता ऐसा अंगीकार न कर दोषदर्शन और गुणदर्शन इन दोनों को अरुचि और रुचि के हेतुतया अंगीकार करनेपर । जब गुणहीन समझते हैं तब भगवद्विषयप्रवृत्ति माने-विश्लेषव्यसन उत्कूल हो अत्यंत व्याकुल हो पुकारने के समय शीघ्र आ मुंह नहीं दिखानेसे गुणहीन समझतेकी दशा में फिर भी ‘उन को छोड अन्य को नहीं जानता हूं’ ऐसा सर्वेश्वर के विषय में अत्यभिनिवेश करना । दोषानुसंधानदशा में संसार में प्रवृत्ति माने-माता पिता भार्या पुत्र ज्ञाति बंधु गृहक्षेत्रादिरूप शब्दादिभोगों को अनुभव कर संसार के दुःखाधिक्यादि दोष को प्रत्यक्ष से देख और जान अनुसंधान करने पर भी उस में आशा लगी रहना । ये दोनों नहीं होते हैं । यद्वा दोषानुसंधानदशा में संसार में प्रवृत्ति माने-तत्त्ववेत्ता महर्षिप्रभृति सारासारविवेकवाले होनेसे विषय का दोषानुसंधान करनेपर भी शास्त्रविहित होने से प्राप्त समझ कर प्रजोत्पादनरूप संसार में प्रवृत्त होना । ‘ऐसा अंगीकार न करनेपर इन में प्रवृत्ति नहीं हो सक्ती’ इस तरह विरोध को दिखाने से प्राप्ति और अप्राप्ति ये ही कारण हैं समझना ।
मूलम्
‘क्रूरं मन्मनः स एवेति वर्तते’, ‘दासभूतोऽहं पुनश्च तव श्रीमच्चरणं विना नाभिलषामि’ इत्यवदन् खलु ॥ ११५ ॥
श्लोक
क्रूरं मन्मनः स्वामी स एवेति च वर्तते । दासोऽहं नाभिलष्येऽन्यत् तव श्रीपादपंकजात् । इत्यवोचन्प्रपन्नानामुत्तंसेषु निवासिनः ॥ ११५ ॥
टीका संस्कृता
गुणहीनमित्यनुसंधानदशायां भगवद्विषयप्रवृत्तिः कुत्र दृष्टेत्यत आह-क्रूरं मन्मन इत्यादि । ‘कठिन’ इत्यारभ्य ‘ज्ञातुमशक्यविग्रहः’ इत्यंतं स्वकार्यपरः अन्यदुःखं न जानाति कस्यापि सुलभो न भवति वंचको दुर्ज्ञेयस्वभाव इति गुणहानिमुक्त्वा एवं स्थितमप्यति कठोरं मन्मनस्तं विना न जानातीति, [[निवार्थमुत्पन्नः|निंबार्थमुत्पन्नः]] कृमिस्तादृशनिंबं भुंक्ते इक्षुं पश्यति चेदपि नाऽऽद्रियते तथा ‘कडल्मलैशयानेक्षुः’ इति प्रकारेण निरतिशयभोग्यस्त्वमेव निंबवद्विरसश्चेदपि त्वदनन्यार्हशेषभूतोऽहं मम प्राप्तशेषिणस्तव चरणौ विहाय नाशासे इति चाज्ञाननिवृत्तिपूर्वकं भक्तिरूपापन्नज्ञानं प्राप्ता अवदन् खल्वित्यर्थः ।
टीका हिन्द्या
‘क्रूर हमारा मन उसी में लगा रहता है’, ‘दास मैं फिर भी आप के चरणों को छोड और को आदर नहीं करूंगा’ ऐसा कहे हैं ॥ ११५ ॥ गुणहीन समझनेपर भगवद्विषयप्रवृत्ति कहां देखे हो इस शंका में कहते हैं-क्रूर हमारा मन इत्यादि । ‘कठिन’ ऐसा प्रारंभ कर ‘जानने को अशक्य मायावाले’ इत्यंत स्वकार्यपर औरों के दुःख को नहीं जाननेवाले किसी के भी न जाननेयोग्य वंचक जानने के अशक्य स्वभाववाले ऐसा उन के गुणहानि को कह, ऐसे होनेपर भी अत्यंत क्रूर हमारा मन उन को छोड़ और को नहीं जानता है । नीम का कीडा उस नीम को ही खायगा ऊख को देखनेपर भी आदर नहीं करेगा । ऐसा ही ‘कडल्मलै में सोनेवाले ऊख’ इस उक्ति अनुसार निरतिशयभोग्य आप नीम के तरह विरस होनेपर भी आप के अनन्यार्हशेषभूत मैं मेरे प्राप्तशेषी आप के चरणों के विना अन्य को नहीं चाहूंगा ऐसा अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] को प्राप्त हुए सूरि लोग कहे हैं ।
मूलम्
गुणकृतदास्यात्स्वरूपप्रयुक्तदास्यं खलु प्रधानम् ॥ ११६ ॥
श्लोक
स्वरूपकृतदास्यं च गुणदास्याद्विशिष्यते ॥ ११६ ॥
टीका संस्कृता
‘गुणैर्दास्यमुपागतः’ इति वदंतोऽपि न संति किमित्यत आह-गुणकृतेत्यादिना । गुणकृतदास्यं-तद्गुणैर्जितस्य दासत्वम् । स्वरूपप्रयुक्तदास्यं-शेषत्वैकनिरूपणीयस्वरूपदर्शनेन दासत्वम् । स्वरूपस्य तादृशत्वेऽपि गुणाधिकविषयत्वाद्गुणकृतदास्यं चैतद्विषयेऽनुवर्तते । अत एव हि शेषत्वैकनिरूपको बालस्वामी स्वयं तथाऽवोचत् । तथापि गुणकृतमौपाधिकत्वादप्रधानं, अन्यन्निरुपाधिकत्वात्प्रधानम् । अत एव तत्प्राधान्यप्रसिद्धिभानं यथा स्यात्तथोक्तम् ।
टीका हिन्द्या
गुणकृतदास्य की अपेक्षा स्वरूपप्रयुक्त दास्य ही प्रधान है ॥ ११६ ॥ ‘गुणों से दास हुआ हूं’ ऐसा कहने वाले नहीं हैं क्या ? इस शंका में कहते हैं-गुणकृतदास्य इत्यादि । गुणकृतदास्य माने-उन के गुणों से हारकर दास होना । स्वरूपप्रयुक्तदास्य माने-शेषत्वैकनिरूपणीय अपने स्वरूप को देख दास होना । स्वरूप ऐसा रहनेपर भी गुणाधिक विषय होनेसे गुणकृतदास्य भी इस विषय में अनुवर्तन करता है । इसी कारण शेषत्वैकनिरूपक बालस्वामी ऐसा कहे हैं । तथापि गुणकृतदास्य आगंतुक होनेसे अप्रधान है स्वरूपप्रयुक्तदास्य स्वभावसिद्ध होने से प्रधान है । इस लिये ही इस को प्रधान समझने के लिये ऐसा कहे हैं ।
मूलम्
अनसूयां प्रति जानकीवार्ता स्मर्तव्या ॥११७॥
श्लोक
जानक्युक्ताऽनसूयायां वार्ता ध्येया हि सा बुधैः ॥ ११७ ॥
टीका संस्कृता
एतदर्थसंवादं जानकीवाक्यं स्मारयति-अनसूयेत्यादिना । अत्रिभगवदाश्रमे स्वामिनि गत्वा महर्षिमनुवर्तमाने अनंतरं तत्पत्नीमनसूयां जानक्यां गत्वाऽनुवर्तमानायां तां प्रति बंधुजनाभिमानमैश्वर्यं च विहाय स्वामिना साकमागतेति यदिदं दैवयोगेन भवत्या सम्यक् प्राप्तं, नगरस्थो वा वनस्थो वा समीचीनो वाऽसमीचीनो वा स्त्रीणां दैवं भर्तेव भवत्येवमेव स्वामिविषये सदा आनुकूल्येन तिष्ठत्वित्यनसूयायां वदत्यां जानक्या लज्जित्वा अधोमुखतया स्थित्वा मम स्वामिविषये भावबंधस्य स्वतः सत्वेऽपि तस्य गुणाधिकतया मद्भावबंधो गुणनिबंधन इति तिष्ठंति लौकिकाः, तस्याश्रयस्य गुणेभ्यो व्यावर्तयित्वा प्रदर्शयितुमशक्यत्वादहं तद्विषये मम स्थितिं ज्ञापयितुमसमर्थास्मि तस्य गुणहीनत्वे विरूपत्वेऽपि तद्विषये ममादृश्येव स्थितिरित्युक्ता वार्ता ।
टीका हिन्द्या
अनसूया से सीताजी की कही हुई वार्ता को स्मरण करना ॥ ११७ ॥ इस अर्थ का दृष्टांततया सीताजी की वार्ता को स्मरण कराते हैं-अनसूया से इत्यादि । अत्रिभगवान् के आश्रम में श्रीरामजी जा महर्षि को अनुवर्तन कर रहने के समय उनकी पत्नी अनसूया को सीताजी अनुवर्तन करनेपर वह सीताजी को देख ‘बंधुजन, अभिमान और ऐश्वर्य को छोड़ श्रीरामजी के पीछे अरण्य में तुम आई हो यह दैवयोग से तुमारे लिये अच्छा हुआ, नगर में हो या वन में हो सज्जन हो या दुर्जन हो स्त्रियों का भर्ता ही देवता है, तुम इस प्रकार सदा स्वामी के विषय में अनुकूल होके रहो’ ऐसा अनुसूया के कहनेपर सीताजी लज्जित हो शिर झुका ‘मुझ को स्वामी के विषय में दृढ प्रेम स्वतः होने पर भी स्वामी गुणाधिक होने से मेरे प्रेमाधिक्य को गुण के कारण आया हुआ लौकिक लोग समझते हैं, स्वामी को गुणों से अलग कर नहीं दिखा सकते इस लिये उन के विषय में मेरे प्रेम को मैं दिखा नहीं सकती, उन के गुणहीन और विरूप होनेपर भी मैं उन के विषय में ऐसा ही रहूंगी’-इस प्रकार की वार्ता को स्मरण करना ।
मूलम्
एवं स्वरूपप्रयुक्तं दास्यमेव प्रधानं चेत् शेषिकृतप्रकारं दृष्ट्वा स्थितिं विना अनन्योपायत्वादीनि यथा नष्टानि स्युस्तथा तद्विषयमुद्दिश्य क्रियमाणा स्वप्रवृत्तिरुचिता किमिति शंकामनुवदति-भगवद्विषयप्रवृत्तिरित्यादिना । तां परिहरति-तस्या मूलमित्यादिना ।
मूलम्
भगवद्विषयप्रवृत्तिरुचिता किमिति चेत्-तस्या मूलं प्रावण्यम् । तस्य मूलं संबंधः । स चौपाधिको न भवति, सत्ताप्रयुक्तः ॥ ११८ ॥
श्लोक
भगवद्विषये किं वा प्रवृत्तिरुचितेति चेत् । प्रावण्यं मूलमस्याः स्यात्संबंधस्तस्य मूलकम् । औपाधिको न संबंधः सत्तायुक्तः स तु स्मृतः ॥ ११८ ॥
टीका संस्कृता
प्रावण्यं-अतिमात्रमोहः । तादृशप्रावण्यस्य मूलं विषयवैलक्षण्यं खल्वित्यत आह-तस्य मूलमित्यादि । संबंधः-शेषशेषिभावः । स च गुणकृतत्वान्नागच्छति किमित्यत आह-स चेत्यादि । स च सत्ताप्रयुक्त इति-अस्यात्मनः सत्तामारभ्य वर्तमान इत्यर्थः ।
टीका हिन्द्या
भगवद्विषयप्रवृत्ति कैसे संगत होगी ? इस शंका में (कहते हैं) उस का हेतु प्रावण्य, उस (प्रावण्य) का हेतु संबंध, वह (संबंध) आगंतुक नहीं किंतु सत्ता (स्वरूप) प्रयुक्त है ॥ ११८ ॥ इस प्रकार स्वरूपप्रयुक्त दास्य ही प्रधान हो तो शेषी के कार्य को देखते रहना छोड़ उस विषय को उद्देश कर क्रियमाण अनन्योपायत्वादि के भंजक स्वप्रवृत्ति कैसे संगत होगी ? इस शंका को अनुवाद करते हैं-भगवद्विषयप्रवृत्ति इत्यादि से, और उस को परिहार करते हैं-उस का हेतु प्रावण्य इत्यादि से । प्रावण्य माने-अतिमात्रस्नेह । उस प्रावण्य का हेतु विषयवैलक्षण्य है न ? इस प्रश्न का उत्तर देते हैं-उस का हेतु संबंध इत्यादि से । संबंध माने-शेषशेषिभाव । वह शेषशेषिभाव गुणकृत हो नहीं आवेगा क्या ? इस प्रश्न का उत्तर देते हैं-वह आगंतुक नहीं सत्ता (स्वरूप) प्रयुक्त है इत्यादि से । सत्ता (स्वरूप) प्रयुक्त माने-यह आत्मा जब से है तब से ।
मूलम्
तादृशसत्ता प्रावण्यकार्यानुभवाभावे नश्यति । तदविनाशार्थमागतानि सर्वाण्यस्यावर्जनीयानि प्राप्तानि च । तस्माद्भगवद्विषयप्रवृत्तिरुचिता ॥ ११९ ॥
श्लोक
प्रावण्यकार्यानुभवस्य नाशे नष्टा हि सत्ता तदविनाशनाय । सर्वाण्यवर्ज्यानि तथागतानि प्राप्तानि तत्सा हि प्रवृत्तिरुक्ता ॥
टीका संस्कृता
अनेन पूर्वकृतशंकायाः कः परिहार इत्यत आह-उपरि वाक्यत्रयेण । तादृशसत्ता प्रावण्यकार्यानुभवाभावे नश्यतीति-तादृशसत्ता च स्वप्रयुक्तसंबंधहेतुकप्रावण्यकार्यस्य भगवदनुभवस्याभावे क्षणकालमपि न तिष्ठतीत्यर्थः । तदविनाशार्थमागतानि सर्वाण्यवर्जनीयानि प्राप्तानि चेति-तादृशसत्ताया अविनाशार्थमागता मंडलूरहणप्रभृतयः सकलप्रवृत्तयश्च भगवदनुभवं विना धारणाभावात् त्यजाम इति स्थितावपि दुस्त्यजाः, सर्वासां शेषिणोऽतिशयकरत्वात् स्वरूपप्राप्ताश्च भवतीत्यर्थः । तस्माद्भगवद्विषयप्रवृत्तिरुचितेत्युक्तं हेतुत्वेन वदन् प्रकृतशंकां परिहृत्य निगमयति ।
टीका हिन्द्या
वह सत्ता प्रावण्यकार्यअनुभव के न होनेपर नष्ट होती है । वह नष्ट न होनेके लिये किये जानेवाले सब छोडने को अशक्य और प्राप्त भी होते हैं । इस लिये भगवद्विषयप्रवृत्ति सुसंगत होती है ॥ ११९ ॥ इस से पूर्वोक्त शंका का परिहार कैसे हुआ ? इस प्रश्न का उत्तर देते हैं-वह सत्ता इत्यादि से । वह सत्ता प्रावण्यकार्यअनुभव के न होनेपर नष्ट होती है माने-तादृश सत्ता-स्वहेतुकसंबंध द्वारा होनेवाले प्रावण्यकार्यभगवदनुभव के न होनेपर क्षणकाल भी न ठहरेगी । वह नष्ट न होनेके लिये कियेजानेवाले सब छोडनेको अशक्य और प्राप्त भी हैं माने-उस सत्ता का नाश न होनेके लिये किये जानेवाले मंडलग्रहण प्रभृति सकलप्रवृत्तियां, भगवदनुभव के बिना सह नहीं सकनेसे छोडने की इच्छा करनेपर भी छोडने अशक्य हो सब ही शेषी परमात्मा को अतिशय करनेवाले होने से स्वरूपप्राप्त अनुरूप हैं । इस लिये भगवद्विषयप्रवृत्ति सुसंगत होती है माने-पूर्वोक्त सब को हेतुतया मान प्रस्तुत शंका का परिहार किये हैं ।
इति प्रथमप्रकरणं समाप्तम् ॥
श्रीमद्वरवरमुनिचरणौ शरणम् ।
सिद्धोपायप्रकरणम् ।2
मूलम्
प्रापकांतरपरित्यागस्य चाज्ञानाशक्ती न, स्वरूपविरोध एव प्रधानहेतुः ॥ १२० ॥
श्लोक
ज्ञानाशक्ती न विज्ञेये प्रापकांतरहापने । स्वरूपस्य विरोधो हि प्रधानं तत्र कारणम् ॥ १२० ॥
टीका संस्कृता
इतरविषयपरित्यागस्य भगवद्विषयपरिग्रहस्य च प्रधानहेतू उक्तौ । अस्मिन् प्रसंगे इतरोपायपरित्यागस्य च प्रधानहेतुरयमित्याह-प्रापकांतरपरित्यागस्येत्यादिना । प्रापकांतराणि-प्रपत्त्युपायव्यतिरिक्तोपायाः । अज्ञानाशक्ती नेति-तानि ज्ञातुमनुष्ठातुं चोपयुक्तयोर्ज्ञानशक्त्योरभावः । तत्त्यागस्य प्रधानहेतुर्न भवतीत्यर्थः । स्वरूपविरोध एव प्रधानहेतुरिति-भगवदत्यंतपारतंत्र्यरूपस्वरूपस्यानुचितत्वमेव मुख्यहेतुरित्यर्थः । अनेन ‘अज्ञानेन प्रपन्नाः’ इत्यत्रोक्ते अज्ञानाशक्ती मुख्यहेतू न भवत इत्युक्तम् । अज्ञानाशक्तिहेतुना त्यागे ज्ञानशक्त्युत्पत्तौ परिग्राह्यताप्रसंगः खलु । स्वरूपविरोध इति त्यागे हि पुनरनुवृत्त्यभावः ।
टीका हिन्द्या
प्रापकांतरपरित्याग का हेतु अज्ञान और अशक्ति नहीं, स्वरूपविरोध ही प्रधान हेतु है ॥ १२० ॥ इतर विषय परित्याग और भगवद्विषय परिग्रह इन दोनों के प्रधान हेतु पहिले बताये, इस प्रसंग में इतरोपाय परित्याग के प्रधानहेतु को बताते हैं-प्रापकांतर परित्याग का इत्यादि से । प्रापकांतर माने-प्रपत्ति से भिन्न उपाय । अज्ञान और अशक्ति नहीं माने-उन के जानने और अनुष्ठान करनेके उपयुक्त ज्ञान और शक्ति का अभाव ये उन के त्याग का प्रधान हेतु नहीं । स्वरूपविरोध ही प्रधान हेतु माने-भगवदत्यंतपारतंत्र्यरूप स्वरूप का अनुरूप न होना ही मुख्य हेतु है । इस से ‘अज्ञान से प्रपन्न’ इस स्थल में कहे हुए अज्ञान और अशक्ति मुख्य हेतु नहीं जानना । अज्ञान और अशक्ति के कारण छोडनेपर ज्ञान और शक्ति के होनेपर करना पडेगा । स्वरूप का विरोध मानकर छोडनेपर ही फिर भी उस में प्रवृत्ति न होगी ।
मूलम्
प्रापकांतरमज्ञानामुपायः ॥ १२१ ॥
श्लोक
प्रापकांतरमज्ञानामुपायो ज्ञानिनां तथा ॥ १२१ ॥
टीका संस्कृता
एवं प्रापकांतरं विरोधीति कथं त्यज्यते तच्च मोक्षोपायतया खलु वर्त्तते, तत्केषां पुनरुपाय इत्यत आह-प्रापकांतरमिति । अज्ञानामुपाय इति-स्वरक्षणे स्वयत्नगंधासहस्वरूपं यथार्थ्येन ज्ञातुमुपयुक्तज्ञानरहितानामुपाय इत्यर्थः ।
टीका हिन्द्या
प्रापकांतर अज्ञानियों को उपाय है ॥ १२१ ॥ इस प्रकार उपायांतर को विरोधी मान छोड सकते हैं क्या ? वे भी तो मोक्ष के उपाय हैं, यदि मोक्ष के उपाय हों तो किनके प्रति ? इस शंका में कहते हैं-प्रापकांतर इत्यादि से । अज्ञानियों को उपाय माने-स्वरक्षण में स्वयत्नगंध को न सहनेवाले स्वरूप को यथार्थतया देखनेके उपयुक्त ज्ञान जिन को नहीं उन को उपाय होते हैं ।
मूलम्
ज्ञानिनामपायः ॥ १२२ ॥
श्लोक
ज्ञानिनामपायः ॥ १२२ ॥
टीका संस्कृता
तर्हि ज्ञानिनामिदं कथमित्यत आह-ज्ञानिनामित्यादि । स्वरूपयाथात्म्यज्ञानवतामपायो भवतीत्यर्थः ।
टीका हिन्द्या
ज्ञानियों को अपाय है ॥ १२२ ॥ तब ज्ञानियों को उपायांतर कैसे भासते हैं ? इस शंका में कहते हैं-ज्ञानियों को अपाय इत्यादि से । स्वरूपयाथात्म्यज्ञान विशिष्ट महात्माओं को उपायांतर अपाय होते हैं ।
मूलम्
अपायो भवति स्वरूपनाशकत्वात् ॥ १२३ ॥
श्लोक
अपायोऽस्ति स्वरूपस्य नाशकं हि यतः स्मृतः ॥ १२३ ॥
टीका संस्कृता
एतेषां तदपायः कथमित्यत आह-अपायो भवतीत्यादि । स्वरूपं नाम-अत्यंतपारतंत्र्यम् । अस्य स्वयत्नरूपं तन्नाशकं हि ।
टीका हिन्द्या
अपाय होते हैं स्वरूप नाशक होनेसे ॥ १२३ ॥ इन को ये क्यों अपाय होते हैं ? इस शंका में कहते हैं—अपाय इत्यादि से । स्वरूप माने-अत्यंतपारतंत्र्य । इस को स्वयत्नरूप उपायांतर नाश करदेते हैं ।
मूलम्
‘मार्गं दर्शयित्वा विश्लेषयसि किम्’ इत्यवदन् हि ॥ १२४॥
श्लोक
विश्लेषयसि मार्गं च दर्शयित्वा किमु प्रभो । इत्यवोचन् हि कारुण्यपूर्णहृदयसूरयः ॥ १२४ ॥
टीका संस्कृता
तदपायत्वं ज्ञानिनामग्रेसराणां सूरीणां वचनेनाह-मार्गं दर्शयित्वेत्यादि । स्वव्यतिरिक्तमुपायं दर्शयित्वा त्वत्तो विश्लेषयितुं पश्यसि किमित्युक्तत्वात् प्रापकांतरापायत्वं सिद्धमित्यर्थः । विश्लेषणं नाम-परतंत्रं वस्तु स्वतंत्रकृत्ये उपायेऽनुष्ठाने प्रेरयित्वा स्वस्माद्बहिष्करणम् ।
टीका हिन्द्या
‘मार्ग दिखाकर हटाते हो क्या’ ऐसा कहे हैं ॥ १२४ ॥ उन की अपायता को ज्ञानियों में अग्रेसर श्रीशठकोपसूरि की उक्ति से दिखाते हैं । आप को छोड अन्य उपायों को दिखा आप से अलग करनेको देखते हो क्या ? ऐसा कहनेसे उपायांतर का अपायत्व सिद्ध हुआ । हटाना माने-परतंत्र वस्तु को स्वतंत्र का कृत्यरूप उपायानुष्ठान में लगा अपने से अलग करना ।
मूलम्
‘वर्तते मे महद्भयम्’ इत्युक्तत्वाद्भयजनकं, ‘मा शुचः’ इत्युक्तत्वाच्छोकजनकम् ॥ १२५ ॥
श्लोक
मा शुच इति गीतातो वर्तते मे महद्भयम् । इति वाक्याच्च शोकस्य भयस्य जनकं भवेत् ॥ १२५ ॥
टीका संस्कृता
अस्य स्वरूपनाशकत्वप्रयुक्तदूषणविशेषमाह-‘वर्तत’ इत्यादिवाक्येन । ‘कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत । शरीरे च गतौ चापि वर्तते मे महद्भयम् ॥’ इति उपायांतरानुष्ठानस्य योग्यकालदेशदेहविषये उपायांतराणां विषये च मम महाभयं वर्तते इत्युक्तत्वात्, उपायांतरश्रवणानंतरमर्जुनस्य शोक उत्पन्ने स्वरूपानुरूपोपायमुपदिश्य ‘मा शुचः’ इति शोकापनोदनस्य कृतत्वात्स्वरूपविरोधिप्रापकांतरं ज्ञानिनां भयजनकं शोकजनकं च भवतीत्यर्थः ।
टीका हिन्द्या
‘हम को अधिक भय होता है’ ऐसा कहनेसे भयजनक है । ‘शोक मत करो’ ऐसा कहनेसे शोकजनक है ॥ १२५ ॥ उपायांतर का स्वरूपनाशकत्व से होनेवाले दूषणों को कहते हैं-‘वर्तते’ इत्यादि वाक्यद्वय से । ‘हे अच्युत ! संपूर्ण काल और संपूर्ण दिशाओं में भूतकाल और वर्तमान काल के शरीर में हम को अधिक भय होता है ।’ ऐसा उपायांतरों के अनुष्ठान का योग्य काल, देश, देह और उपायांतरों के विषय में भी मुझ को अधिक भय होता है ऐसा कहनेसे, उपायांतरों के सुनने के बाद अर्जुन को शोक होनेपर स्वरूपानुरूप उपाय को उपदेश कर ‘शोक मत करो’ ऐसा शोक को दूर करने से स्वरूपविरोधिरूप उपायांतर ज्ञानियों को भयजनक और शोकजनक होते हैं ।
मूलम्
एवमनंगीकार एतत्प्रवृत्तौ प्रायश्चित्तविधेरसंभवः ॥ १२६ ॥
श्लोक
स्वीकाराभाव एवं च तदनुष्ठानवर्तने । प्रायश्चित्तविधिर्नैव दृश्येत शास्त्रचक्षुषा ॥ १२६ ॥
टीका संस्कृता
पूर्वोक्तप्रकारेणार्थस्यानंगीकारे विरोधं प्रदर्शयति-एवमनंगीकार इत्यादिना । एवमनंगीकारे इति-स्वरूपनाशकमित्यनंगीकारे इत्यर्थः । एतत्प्रवृत्तौ प्रायश्चित्तविधेरसंभव इति-‘सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम् । उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् । प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजेत् ॥ उपायानामुपायत्वस्वीकारेऽप्येतदेव हि ॥’ इति प्रपन्नस्य प्रामादिकतयोपायांतरप्रवृत्त्यागमनकाले अपायप्रवृत्ताविव पुनः प्रपदनरूपप्रायश्चित्तस्य विधिर्न संभवेदित्यर्थः । पुनः प्रपदनं नाम-पूर्वप्रपदनस्मरणं, नतु पुनः प्रयोगः ।
टीका हिन्द्या
ऐसा अंगीकार न करनेपर उन के अनुष्ठान में प्रायश्चित्तविधि न होनी चाहिये ॥ १२६ ॥ पूर्वोक्त प्रकार अर्थ को अंगीकार न करनेपर होनेवाले विरोध को दिखाते हैं-ऐसा अंगीकार न करनेपर इत्यादि । ऐसा नहीं अंगीकार करनेपर माने-स्वरूपनाशक ऐसा नहीं अंगीकार करनेपर । इन के अनुष्ठान में प्रायश्चितविधि न होनी चाहिये माने-‘यह प्रपत्ति एक ही वखत की जाकर मनुष्य को तारती है । उपाय और अपाय के करनेपर यह नष्ट होती है । अपाय अर्थात् निषिद्धानुष्ठान करनेपर प्रायश्चित्त करें । इस का प्रायश्चित्त यह है की फिर भी प्रपत्ति करना । उपायानुष्ठान करनेपर भी यही प्रायश्चित्त है ।’ ऐसा प्रपन्न प्रमाद से उपायांतर में प्रवृत्त होनेपर, अपाय में प्रवृत्त होने पर जैसा, तैसा पुनःप्रपत्तिरूप प्रायश्चित्त का विधान न होना चाहिये । पुनःप्रपत्ति माने-पूर्वकृतप्रपत्ति का स्मरण करना ही है, फिर भी नवीनप्रपत्ति नहीं ।
मूलम्
श्रीकुरुकाधिनाथस्य सूक्तिप्रकारः ‘मदिराबिंदुमिश्रितशातकुंभमयकुंभगततीर्थसलिलवदहंकारमिश्रमुपायांतरम्’ ॥ १२७ ॥
श्लोक
कुरुकाधिनाथसूक्तिर्विदिता सुरायुतहाटकमयघटे हि । तीर्थजलवदहंकारमिश्रमुपायांतरमिति जानीहि ॥ १२७ ॥
टीका संस्कृता
एवं स्वरूपनाशकस्योपायांतरस्यात्यंतनिषिद्धत्वमभियुक्तवचनेन दर्शयति-श्रीकुरुकाधिनाथस्येत्यादिना । श्रीकुरुकाधिनाथस्तु सर्वज्ञस्य भाष्यकारस्य चरणयोः सेवित्वा तदभिमतविषयः सकलशास्त्राण्यप्यालोज्य निश्चित्य वर्तमानत्वादाप्ततमो हि । मदिरानाम-अत्यंतनिषिद्धद्रव्यं, स्वस्पर्शलेशवद्वस्तून्यपि स्वमिव निषिद्धानि कुर्वती हि । अस्याहंकारस्य दृष्टांतकरणात् तस्यात्यंतनिषिद्धत्वं तत्स्पर्शलेशवद्वस्त्वपि तद्वन्निषिद्धमिति च ज्ञायते । शातकुंभं नाम-सुवर्णं, तन्मयकुंभेति-अंतर्द्रव्यांतरस्योपरि सुवर्णानुलेपनेन विना स्वयमुपादानभूतेन सुवर्णेन कृतकुंभेत्यर्थः । अनेन पात्रशुद्धिरुक्ता । तद्गततीर्थसलिलवदित्युक्तत्वात् तदंतःस्थितस्य जलस्य पावनत्वमुक्तम् । तद्वदहंकारमिश्रमुपायांतरमित्युक्तत्वादत्रापि पात्रशुद्धिस्तद्गतपदार्थशुद्धिश्च वक्तव्या । ‘आत्मा ज्ञानमयोऽमल’ इत्युक्ते स्वतो निर्मलतया भगवदनन्यार्हशेषतया च परिशुद्धं खलु भक्त्याश्रयमात्मवस्तु वर्तते । तद्गतभक्तिश्च भगवदेकायत्तया परिशुद्धा हि । अहंकारमिश्रणाभावे न कोऽपि दोषः । एवं अनेनोक्तं किमिति चेत्-स्वर्णपात्रगतं तीर्थजलं पात्रशुद्धिसत्वेऽपि स्वयं परिशुद्धमपि सुराबिंदुमिश्रतया यथा निषिद्धं भवति तथा स्वतो निर्मलत्वादिभिः परिशुद्ध आत्मवस्तुनि वर्तमाना भगवदेकविषयतया परिशुद्धा भक्तिश्च स्वयत्नमूलाहंकारस्पर्शेन ज्ञानिनामंगीकारानर्हतया निषिद्धा भवतीत्युक्तम् । ‘सूक्तिप्रकारः’ इत्यस्यानन्वयात् वाक्यांते इतिशब्दोऽध्याहृत्य योजनीयम् ।
टीका हिन्द्या
श्रीकुरुकाधिनाथ की सूक्ति-मदिराबिंदुमिश्रित स्वर्णमयपात्रगत तीर्थजल के तरह अहंकारमिश्रित उपायांतर है ॥ १२७ ॥ इस प्रकार स्वरूपनाशक उपायांतर की अत्यंतनिषिद्धता पूज्यों के वचन से दिखाते हैं-श्रीकुरुकाधिनाथ इत्यादि से । श्रीकुरुकाधिनाथ माने-सर्वज्ञ भाष्यकार के चरणों में आश्रित उन के अभिमतविषय, और सकलशास्त्रज्ञानसंपन्न होते ते आप्ततम हैं । श्रीसूक्ति माने-अनुगृहीत प्रकार । मदिरा माने-अत्यंतनिषिद्ध द्रव्य, अपने स्पर्शवाले संपूर्ण वस्तुओं को अपने सदृश निषिद्ध बनाने वाली है । इस को अहंकार का दृष्टांत देनेसे अहंकार की अत्यंत निषिद्धता, उस के स्पर्शवाले वस्तु उस के तरह निषिद्ध हैं ऐसा भान होता है । स्वर्णमय पात्र माने-भीतर में दूसरा द्रव्य और बाहर में स्वर्ण का लेप न हो स्वर्ण ही से बनायाहुआ पात्र समझना । इस से पात्र की शुद्धि कही गई । तद्गत तीर्थजल कहने से उस के भीतर के जल की पवित्रता कही गई । उस के तरह अहंकारमिश्रित उपायांतर कहने से यहां भी पात्र की शुद्धि और तद्गत पदार्थ की शुद्धि कहनी चाहिये, वह यह है-‘आत्मा ज्ञानमय और निर्मल है’ ऐसा स्वभाव से निर्मल भगवदनन्यार्हशेष होनेसे आत्मा परिशुद्ध होता है । उस आत्मा की भक्ति भी भगवदेकायत्तया परिशुद्ध है । अहंकार का स्पर्श न होनेपर कुछ दोष नहीं है । तथा इस से सुवर्णपात्रगत तीर्थजल, पात्र की शुद्धि और अपनी शुद्धि होने पर भी सुराबिंदु के मिलाप से यथा निषिद्ध होता है तथा स्वतो निर्मलत्वादि से परिशुद्ध आत्मवस्तु में रहनेवाली भगवदेकविषय होनेसे परिशुद्धा भक्ति स्वयत्नमूल अहंकारस्पर्श से ज्ञानियों के अनादर योग्य होती है ।
मूलम्
रत्नस्य वराटिकावद्राज्यस्य लिकुचफलवच्च फलस्य सदृशं न भवति ॥ १२८॥
श्लोक
रत्नस्य वराटिकावद्राज्यस्य लिकुचफलवच्च फलस्य हि ।
टीका संस्कृता
अथास्य फलविसदृशत्वं चैकं दूषणमस्तीत्याह-रत्नस्येत्यादिना । द्वीपांतरेषु कैश्चिद् वराटिकाया आभरणतया धारणाद्वराटिकां ददद्भ्यो रत्नं ददति, उदारा राजानो राज्यार्थितया आगत्य लिकुचफलं ददते राज्यं ददति, एवं ददतीति महार्घस्य रत्नस्य महासंपद्रूपस्य राज्यस्य च वराटिका लिकुचफलं वा यथा सदृशसाधनं न भवति तथा ‘भक्त्या लभ्यस्त्वनन्यया’, ‘भक्त्या त्वनन्यया शक्यः’ इत्युक्तप्रकारेण भक्तिचपलः परमोदार ईश्वर एतस्मिन् भक्तिमात्रमवलंबनं कृत्वा परमपुरुषार्थलक्षणमोक्षं ददाति चेदपि फलस्येयं सदृशसाधनं न भवतीत्यर्थः ।
टीका हिन्द्या
रत्न के बदले में कौड़ी के तरह, राज्य के बदले में [[लिकुचफल|लिंबुफल]] के तरह फल के सदृश नहीं ॥ १२८ ॥ और भी इस के फल के सदृश न होनारूप दोष को कहते हैं-रत्न के इत्यादि । द्वीपांतर में कई लोग कौडी को आभरणतया धारण करने से कौडियों के देनेवालों को रत्न देकर लेते हैं । उदार राजालोग राज्यार्थी हो एक निंबु देनेवाले को राज्य देते हैं । ऐसा देनेसे महामूल्य रत्न और महासंपत् रूप राज्य के कौडी और निंबु ये दोनों जैसा सदृश नहीं हो सकते तैसा ‘अनन्यभक्ति से लभ्य’, ‘अनन्यभक्ति से प्राप्त होने का शक्य’ इन वचनानुसार भक्तिचपल परमोदार सर्वेश्वर चेतन के भक्तिमात्र को अवलंबन कर परमपुरुषार्थलक्षण मोक्ष को देनेपर भी यह भक्ति मोक्षरूप फल के सदृश नहीं हो सकती है ।
मूलम्
स्वस्य दरिद्रत्वात्स्वेन दातव्यं नास्ति ॥ १२९ ॥
श्लोक
सदृशं न भवति स्वस्य दरिद्रत्वात्स्वदेयं नास्ति ॥ १२९ ॥
टीका संस्कृता
तर्हि विसदृशवराटिकां लिकुचफलं च उपहारत्वेन दत्त्वा रत्नं राज्यं च लभतां लब्धिप्रकारः कथं ? तद्वद्भवतीति चेत् अस्यापि योग्यता नास्तीत्याह-स्वस्येत्यादि । तत्र स्वयं स्वतंत्रः स्वस्येति वराटिकाया लिकुचफलस्य च सत्वात् तत्कुर्यात्, अत्र तथा विना ‘अहमेव स्वं मम वस्तु च स्वमेव’ इत्युक्तप्रकारेणात्मात्मीययोरुभयोस्तदीयत्वात् स्वस्य किंचिद्यथा न स्यात्तथाऽकिंचनत्वात्, फलस्य हेतुत्वेन तद्विषये स्वस्य समर्पणीयं किंचिन्नास्तीत्यर्थः ।
टीका हिन्द्या
आप के दरिद्र होनेसे अपने पास देनेयोग्य कुछ नहीं है ॥ १२९ ॥ तब विसदृशरूप कौडी और निंबु को भेंट देकर रत्न और राज्य को जैसा पाते हैं तैसा यह भी होसकता है इस शंका में-वैसा कहनेको भी योग्यता नहीं ऐसा कहते हैं-आप के इत्यादि । दृष्टांत में स्वयं स्वतंत्र हो अपनी वस्तु कौडी या निंबु का मालिक आप होने से उन को दे सक्ता है, [[दातृक|दार्ष्टान्त]] में ‘हम आप के और हमारी चीजें भी आपकी हैं ।’ इस वचनानुसार आत्मा और आत्मसंबंधी वस्तु ये दोनों परमात्मा के ही हो अपने लिये एक भी न होनेसे चेतन अकिंचन है, ऐसा होनेपर फल का साधनतया सर्वेश्वर के विषय में अपने को समर्पण करनेयोग्य कुछ भी नहीं ।
मूलम्
तद्दत्तस्य दानसमये क्रमेण ददाति चेदनुपायः स्यात्, अक्रमेण ददाति चेच्चौर्यं प्रकटितं स्यात् ॥ १३० ॥
श्लोक
तद्दत्तार्पणसमये क्रमेण ददाति चेदनुपायः स्यात् । अक्रमेण दाने सति चौर्यं प्रकटितं स्यात्सर्वदा ॥ १३० ॥
टीका संस्कृता
गोदाने पित्रे पुत्रो यथा दक्षिणां ददाति तथा तेन दत्तं तस्मै ददाति चेत् किमित्यत आह-तदित्यादि । तद्दत्तस्य दानं नाम-‘विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुता ॥’ इति, ‘तदानीं त्वद्दत्तशरीरस्य मार्गे भ्रमे मास्तु’ इत्युक्तप्रकारेण तद्दत्तकरणकलेवराणि-‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु’ इति, ‘सततं कीर्तयंतो मां यतंतश्च दृढव्रताः’ इति चोक्तप्रकारेण ध्यानार्चनप्रणामादिभिस्तच्छेषकरणम् । क्रमेण दानं नाम-तदीयमिति बुद्ध्या समर्पणम् । एवं ददाति चेदनुपायः स्यादिति-तदीयं तस्मै दत्तं नतु स्वेन किंचिद् दत्तमतः फलस्य तत्साधनं न भवतीत्यर्थः । अक्रमेण दानं नाम-मदीयमिति बुद्ध्या समर्पणम् । एवं ददाति चेच्चौर्यं प्रकटितं स्यादिति-भगवद्द्रव्यापहारः प्रकाशेत इत्यर्थः । यथा राजमहेंद्राभरणं रहस्ये चोरयित्वा सदसि ददाति चेत्तथैतद्दानम् ।
टीका हिन्द्या
उन के दियेहुए को देनेपर क्रम से दे तो उपाय नहीं होता है, क्रम छोड देनेपर चोरी प्रकट होगी ॥ १३० ॥ गोदान अर्थात् चौलकर्म में पिता को जैसा पुत्र दक्षिणा देता है तैसा उन के दियेहुए को उन को देने में क्या हरकत है ? इस शंका में कहते हैं-उन के इत्यादि । उन के दिये हुए को देना माने-‘हस्तपाद आदि विशिष्ट विचित्र देहसंपत्ति ईश्वर को निवेदन करने के लिये पहले ही सृष्ट हुई ।’ ऐसा और ‘उस रोज आपका दियाहुआ शरीर’ ऐसा भी आदि सृष्टि में सर्वेश्वर के दियेहुए करणकलेबरों को-‘हमारे विषय में मन को लगाओ, मेरे भक्त होओ मुझ को आराधन करो और मुझ को नमस्कार करो ।’ ऐसा, और ‘सदा मुझ को कीर्तन करते हुए यत्न करते हुए दृढव्रतवाले’ ऐसा भी कहे हुए प्रकार ध्यानअर्चन और प्रणामादिओं से उन के शेष बनाना । क्रमसे देना माने-तदीय समझ समर्पण करना । ऐसा देने में उपाय नहीं होता माने-उन की वस्तु को उन को दिये हैं इतना ही, अपनी चीज को आप न देने से वह फलसाधन नहीं होगा । क्रम छोड देना माने-हमारा ऐसी बुद्धि से समर्पण करना । ऐसा देनेपर चोरी प्रकट होगी माने-भगवद्द्रव्य का अपहार प्रगट होगा । राजमहेंद्र से समर्पित कौस्तुभमणि (जिस को सदा श्रीरङ्गनाथ अपने वक्षस्थल में धारण करते हैं) को एकांत में चोरी कर चार जनों के सामने समर्पण करनेसे जैसे चोरी प्रकट होगी तैसा समझना ।
मूलम्
भर्तृभोगमुदरपोषणस्य हेतुं करोति चेद्यथा तथोभयोरप्यवद्यम् ॥ १३१ ॥
श्लोक
उदरपोषणस्य चेद्धि हेतुं करोति भर्तृभोगजातम् । यथा तथोभयोरप्यवद्यं जायेत शाश्वतं हि ॥ १३१ ॥
टीका संस्कृता
अथोपायांतरस्यैकं दूषणमाह-भर्तृभोगमित्यादिना । भार्या स्वयंप्रयोजनं भर्तृभोगं स्वोदरपोषणस्य साधनतया स्वीकरोति चेत् स्वं भार्यात्वेनाभिमत्य आहत्य स्थितस्य भर्तुः, तद्भार्येति नाम कृत्वा स्थिताया आत्मनश्च यथाऽवद्यं भवति तथा भगवद्वैलक्षण्यानुभवेनोत्पन्नां भोगरूपां भक्तिं मोक्षसाधनं करोति चेत् स्वं शेषभूतत्वेन आहत्य स्वेन संश्लिष्य विनियोक्तुरीश्वरस्य, तच्छेषभूत इति नाम कृत्वा स्थितस्य स्वस्य चावद्यं पर्यवस्यतीत्यर्थः । रात्रौ भर्त्रा संश्लिष्य प्रभाते निष्क्रयं दातव्यमित्यनुरुध्येच्चेद्यथा तथा भक्तिमुपायत्वेन स्वीकरोतिचेद्’ इति हि कुरुकाधिनाथेनोक्तम् ।
टीका हिन्द्या
भर्तृभोग को उदरपोषणार्थ करनेवाली के तरह दोनों को दोष होगा ॥ १३१ ॥ और भी उपायांतर का एक दूषण कहते हैं—भर्तृभोग का इत्यादि । भार्या स्वयं प्रयोजनरूप भर्ता के भोग को स्वोदरपोषण के लिये साधन माननेपर अपने को पत्नीतया आदर करनेवाले भर्ता और उस की भार्यारूपेण प्रसिद्ध अपने को भी दोषदायक है, ऐसा ही भगवद्वैलक्षण्यानुभव से होनेवाली भोगरूप भक्ति को मोक्षसाधन करनेपर अपने को शेषभूत मान आदरपूर्वक संश्लेष करनेवाले ईश्वर और तच्छेषभूततया प्रसिद्ध अपने को भी दोषदायक होगा । ‘रात्रि में भर्ता के साथ संश्लेष कर प्रातः उठ-मजूरी दो ऐसा अंचल पकडनेपर जैसा दोष मानाजाय तैसा ही भक्ति को उपाय समझनेसे’ ऐसा कुरुकाधिनाथ कहे हैं ।
मूलम्
वेदांतेष्वियमुपायत्वेन कथं विधीयत इति चेत् ॥ १३२॥
श्लोक
उपायत्वेनेयं हि वेदांते कथं विधीयत इति चेत् ॥ १३२ ॥
टीका संस्कृता
एवं स्वरूपविरोधादिदोषदुष्टाया अस्या हितानुशासनं कुर्वद्भिर्वेदांतैः ‘ओमित्यात्मानं ध्यायथ’, ‘आत्मानमेव लोकमुपासीत’, ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः’ इत्यस्य मोक्षोपायत्वेन विधाने निदानं विवक्षुः तज्जिज्ञासुप्रश्नमनुवदति-वेदांतेष्वित्यादिना ।
टीका हिन्द्या
वेदांत में उपायतया क्यों विधान करते हैं ? ॥ १३२ ॥ इस प्रकार स्वरूपविरोधादिरूप दोष से दुष्ट इस उपाय को हित का उपदेश करनेवाले वेदांत-‘ॐ इस मंत्र का उच्चारण कर आत्मा का ध्यान करो’, ‘आत्मा को ही देखने योग्य समझ उपासना करो’, ‘आत्मा ही देखने योग्य है इस लिये श्रवण मनन निदिध्यासन करना चाहिये’ ऐसा इस चेतन को मोक्षोपायतया विधान करनेके हेतु को कहने के लिये तज्जिज्ञासुप्रश्न को अनुवाद करते हैं-वेदांत इत्यादि ।
मूलम्
औषधसेवामकुर्वाणानामभिमतवस्तुनि तं मिश्रीकृत्य यथा ददति तथेश्वरं मेलयित्वा विदधति ॥ १३३ ॥
श्लोक
औषधकटुभीरूणामभिमतवस्तुना साकम् तम् । यथा ददति तथेश्वरं मेलयित्वा विदधति शास्त्राणि खलु ॥ १३३ ॥
टीका संस्कृता
तन्निदानमाह-औषधसेवामित्यादिना । अत्यंतरुग्णेषु भ्रमत्सु तस्याविलंबेन निवर्तकमहौषधं सेवध्वमित्युक्तौ तदनंगीकुर्वतां बालपुत्रादीनां तैराशां कृत्वा विनियुज्यमानेषु वस्तुषु तदौषधं मिश्रीकृत्य दातारो वत्सला मातापित्रादय इव शीघ्रं संसारव्याधिनिवर्तकं सिद्धोपायरूपं विश्वसनीयं महौषधं स्वप्रवृत्तिनिवृत्तिपूर्वकं सेवध्वमिति प्रथमत उपदेशे कृतेऽनादितयाऽऽगतया स्वयत्नवासनया तमनंगीकुर्वाणान् चेतनान् त्यक्तुमशक्यत्वात् तेषामभिमते स्वयत्नरूपोपासने तदंगत्वेन सिद्धोपायमीश्वरं मेलयित्वा तादृशमुपासनं तेषां मोक्षोपायतया विदधतीत्यर्थः । दृष्टांतेऽभिमतवस्तु व्याधिहरं न भवति तन्मिश्रतया प्रयुक्तमौषधमेव व्याधिहरं भवति तथा दार्ष्टान्तिके चोपासनं न भवति तन्मिश्र ईश्वर एवोपाय इत्यर्थः संप्रतिपन्नः । अव्यवधानेन सेवने कृतेऽविलंबेन व्याधिनिवर्तकमौषधमभिमतवस्तुमिश्रं चेद्विलंब्य कार्यकरं भवति, तथोपासनमिश्रतासमये ईश्वरो विलंब्य फलप्रदो भवति ।
टीका हिन्द्या
जैसे औषधसेवन न करनेवालों को अभिमत वस्तुओं में उस औषध को मिलाकर [[खवाते]] हैं तैसे ईश्वर को मिलाकर विधान करते हैं इतनाही ॥ १३३ ॥ उस का हेतु को कहते हैं—औषधसेवा इत्यादि । अत्यंत रोगग्रस्त हो संचार करनेपर भी उस को शीघ्र नाश करनेवाले उत्तम औषध की सेवा करने को कहनेपर उस में संमति न करनेवाले बालपुत्रादिओं को उन के इच्छित खाद्य वस्तुओं में उस औषध को मिलाकर [[खवाने]]वाले माता आदिओं के तरह शीघ्र संसारव्याधि को दूर करनेवाला सिद्धोपायरूप अमृत को स्वप्रवृत्तिनिवृत्तिपूर्वक सेवन करने को प्रथम ही उपदेश करनेपर अनादि होनेवाली स्वयत्नवासना से उस में सम्मति न करनेवाले चेतनों को भी छोड़ नहीं सकने से उन के अभिमत स्वयत्नरूप उपासना में तदंगतया सिद्धोपायभूत ईश्वर को मिला तादृश उपासना को मोक्षोपायतया उन के लिये विधान करते हैं इतनाही है । दृष्टांत में अभिमतवस्तु व्याधिनाशक न हो उस के साथ मिला हुआ औषध ही जैसा व्याधिहर होता है, दार्ष्टान्तिक में भी उपासना उपाय न हो उन के साथ मिलाहुआ ईश्वर ही उपाय होते हैं ऐसा समझना । जैसा साक्षात् अपने को सेवन करनेवालों की व्याधि को हटानेवाले औषध अभिमत वस्तु से मिला सेवन करनेपर विलंब से व्याधि को हटाती है, ऐसा ही उपासनामिश्रित ईश्वर विलंब से फल देते हैं ।
मूलम्
इमां प्रवर्तयति परहिंसां निवर्तयितुम् ॥ १३४ ॥
श्लोक
पूर्वविहितहिंसावदेतद्विधिनिषेधयोः । न विरोध इति प्राहुः सर्वशास्त्रार्थकोविदाः ॥ १३४ ॥
टीका संस्कृता
अथैवमस्या विधानं पूर्वा स्थितिं निवार्योपर्यारोपयितुमित्याह-इमामित्यादिना । शास्त्रं नाम-‘त्रैगुण्यविषया वेदाः’ इत्युक्तप्रकारेण प्रसविनी माता अंधबधिरादिविकलकरणेषु पटुकरणेषु चाविशेषेण यथा वत्सला भवति तथा मातापितृसहस्रेभ्योऽपि वत्सलत्वात् तमःप्रचुरान् रजःप्रचुरान् सत्त्वप्रचुरांश्चाविशेषेण तानपथे प्रवर्तमानानपश्यतस्त्यक्तुमक्षमत्वात्तत्तद्गुणानुगुणं पुरुषार्थास्तत्साधनानि चोपदिश्योपशाखायामारोपयितुं यथाऽल्पशाखामर्पयति तथा तत्तद्वारा स्वतात्पर्यविषय आरोपयितुं प्रवर्त्तयतीति श्येनविधिनारभ्य प्रपत्तिपर्यंतमागतचेतनानां तत्तदधिकारानुगुणं उत्तरोत्तरपुरुषार्थसाधनेषु प्रवर्तयित्वा पूर्वपूर्वनिवर्तयितुं भवेत् । अतोऽस्योपासनस्य प्रवर्तनं परहिंसां निवर्तयितुं । परहिंसामिति-उपरितनहिंसामित्यर्थः । परदेवतेति परगतिरित्यादिस्थलेषु यथोपर्युपरि विद्यमानदेवता उपरितनगतिरित्यर्थो भवति । सा च श्येनविधेरुपरि विधीयमानाः पश्वालंभनादय इत्युक्तम् । सा हिंसेति कथमुच्यते ? ‘अग्नीषोमीयं पशुमालभेत’ इत्यत्र ‘आलम्भः स्पर्शहिंसयोः’ इत्युक्तत्वादा लभशब्दो हिंसावाची खलु । अनेन काम्यकर्मोच्यते । ‘पूर्वविहितहिंसा’ इति श्येनविधेरुक्तत्वाच्च तदुपरिविहितं काम्यकर्मैवात्र विवक्षितम् । अथवा विहितत्वेऽपि भगवच्छेषत्वज्ञानपूर्वक मनन्यप्रयोजनेनाग्नींद्रादिदेवतांतर्यामिसमाराधनतया क्रियमाणपश्वालंभनादियुक्तयागादिकर्मापेक्षया स्वतंत्रेण स्वर्गादिफलसाधनतयाऽग्नींद्रादिदेवतामात्रमुद्दिश्य क्रियमाणपश्वालंभनादियुक्तकाम्यकर्मणो विशेषज्ञानां परहिंसाप्रायमिति वक्तुमर्हतयात्यंतनिकृष्टत्वादनेनाकारेणैतत्परहिंसेत्याह । शास्त्रविहितं भगवदेकविषयं प्रापकांतरं ज्ञानिनामपाय इतिवदिदं चाधिकारिविशेषापेक्षया वक्तुं शक्यते हि । ‘अथ पातकभीतस्त्वम्’ इत्युपायांतरं पातकशब्देनावोचद्धर्मदेवता च । बुभुक्षोरुपादेयं पुण्यमेव च मुमुक्षोः पापशब्दवाच्यं भवति हि । एवं सर्वैरप्यत्र काम्यकर्मैवोच्यते । एवं योजना क्रियते चेदुपासनविधेर्निवर्त्यतया काम्यकर्मणोऽनेनैव परंदरहस्ये उक्तत्वात् ।
टीका हिन्द्या
इस को प्रवर्तन किया है परहिंसा निवृत्ति के लिये ॥ १३४ ॥ अब उपासना को विधान करने के कारण-पहिली स्थिति को नाश कर ऊपर लेजाने के लिये-ऐसा कहते हैं । ‘वेद तीन गुणवालों के विषय है’ इस वचनानुसार जन्मदात्री माता अंधबधिर आदि विकलकरणवाले और समर्थकरणवाले दोनों में भेद न देख जैसे प्रेम करती है तैसे हजारों मातापिताओं से भी अधिक वात्सल्यवाले होनेसे तमःप्रचुर, रजःप्रचुर और सत्त्वप्रचुरों में भेद न देख उन का दुर्मार्गप्रवृत्ति से नाश को न सह सकने से उन उन के गुणों के अनुगुण पुरुषार्थ और उन के साधनों को उपदेश कर लता को ऊपर चढाने के लिये जैसे अल्पयष्टि गाडते हैं तैसे इनके द्वारा वेदांत के तात्पर्यार्थ सर्वेश्वर में पहुंचाने के लिये उद्योग कराता है । इस लिये श्येनादि [[अविधि|अभिचार]] प्रभृति प्रपत्तिपर्यंत चेतनों के गुणानुगुण उत्तरोत्तर पुरुषार्थ साधनों को प्रवर्तन करा पूर्वपूर्वो को हटाता है । इस कारण उस उपासना का प्रवर्तन कराना ‘परहिंसा से हटाने के लिये’ । परहिंसा माने-उत्कृष्टहिंसा, ‘परदेवता’ ‘परगति’ इत्यादि स्थलों में जैसे उत्तर देवता उत्तर गति अर्थ होता है तैसा जानना । इस से-श्येनविधि के ऊपर विधान किये हुए पशुहिंसा आदि कहे जाते हैं । याग में पशुहिंसा को हिंसा कैसे कह सक्ते हैं ? इस शंका में कहते हैं कि, उस को विहित हिंसा में कहा है, इस लिये । ‘अग्नि और सोम संबंधि पशु को हिंसा करो’ इस वचन में आलम्भ शब्द ‘आलम्भः’ यह स्पर्श और हिंसा इन दोनों का पर्यायपद है । इन से काम्यकर्म कहा गया । ‘पूर्वविहितहिंसा’ ऐसा श्येनविधि से कहते हैं, तदुपरि विहितहिंसा को काम्यविधि कहते हैं । यद्वा विहित होनेपर भी भगवत्शेषत्वज्ञानपूर्वक अनन्यप्रयोजन हो अग्नींद्रादिदेवतांतर्यामी का आराधनतया क्रियमाण पशुहिंसादियुक्त यागादिकर्म की अपेक्षा स्वतंत्र हो स्वर्गादिफलसाधनतया अग्नींद्रादिदेवताओं को मात्र उद्देश कर क्रियमाण पशुहिंसादियुक्त काम्यकर्म विशेषज्ञाननिष्ठों को परहिंसा कहने के योग्य अत्यंत निकृष्ट होनेसे इस आकार को लेकर उस को परहिंसा कहते हैं । जैसे प्रापकांतर ‘ज्ञानियों को अपाय’ कहा, तैसा इस को भी अधिकारिविशेष के उद्देश से हिंसा कहने में विरोध नहीं । ‘पाप से डरनेवाला तू’ ऐसा उपायांतर को पापतया धर्मदेवताने कहा है । बुभुक्षु का उपादेय पुण्य मुमुक्षु के लिये पापशब्द से कहा जाता है । तथाच सर्वप्रकार इस स्थल में काम्यकर्म कहा जाता है । इस योजना के कारण ‘उपासनाविधि से काम्यकर्म निवृत्त होता है’ ऐसा स्वयं लोकाचार्य स्वामीजी परंदरहस्य ग्रंथ में कहे हैं ।
मूलम्
एतच्च पूर्वविहितहिंसावद्विधिनिषेधयोर्न विरोधः ॥ १३५ ॥
श्लोक
पूर्वविहितहिंसावदेतद्विधिनिषेधयोः । न विरोध इति प्राहुः सर्वशास्त्रार्थकोविदाः ॥ १३५ ॥
टीका संस्कृता
तदिदं पुनः कथं निषिध्यत इत्यत आह-एतच्चेत्यादि । एतच्चेति-पूर्वोक्तमुपासनम् । पूर्वविहितहिंसा-‘श्येनेनाभिचरन् यजेत’ इति प्रथमं विहितमभिचारकर्म । तत्तमःप्रचुरान्नास्तिकान्प्रति विहितमास्तिकान् कार्यादिकर्मस्ववगाहनान् रजःप्रचुरान् प्रति यथा निषिध्यते, तथा इदमुपासनं च स्वातंत्र्यान्यशेषत्वानिवृत्तिपूर्वकं भगवच्छेषत्वेऽवगाह्य वर्धनार्हान् सत्त्वप्रचुरान् प्रति विहितम् । पारतंत्र्यज्ञानोत्पत्त्या भगवदेकोपायत्वस्थित्यर्हान् परमसत्त्वनिष्ठान् प्रति निषिध्यते इति न विरोधः ।
टीका हिन्द्या
यह पूर्वविहितहिंसा के तरह विधि और निषेधों के विषय होनेमें दोष नहीं ॥ १३५ ॥ ऐसा हो तो इस प्रकार विधान कर फिर निषेध क्यों करते हैं ? इस शंका में कहते हैं-यह इत्यादि से । यह-पूर्वोक्त उपासना । पूर्वविहितहिंसा माने-‘अभिचार करनेवाले श्येनयाग करे’ ऐसा प्रथम विहित अभिचारकर्म । तमोगुणविशिष्ट नास्तिकलोगों को उद्देश कर विधान किया गया, यही आस्तिक हो कारीरी आदि काम्यकर्मों के अनुष्ठान के योग्य रजोगुणविशिष्ट लोगों को उद्देश कर निषेध किया जाता है; ऐसा ही उपासना स्वातंत्र्य-अन्यशेषत्वनिवृत्तिपूर्वक भगवत्शेषत्व में दृढ होने योग्य सत्त्वगुणविशिष्ट लोगों को उद्देश कर विधान की गई, वही पारतंत्र्यज्ञानवाले भगवदेकोपायत्व में दृढ होनेयोग्य परमसत्त्वनिष्ठों को उद्देश कर निषेध की जाती है तो कोई विरोध नहीं ।
मूलम्
तच्छास्त्रविश्वासार्थं व्यदधात्, इदं स्वरूपविश्वासार्थं व्यदधात् ॥ १३६ ॥
श्लोक
उपासनादिकं शास्त्रविश्वासार्थं व्यधात्किल ॥ अयं स्वरूपविश्वासप्रयोजनतया विधिः ॥ १३६ ॥
टीका संस्कृता
एवं निषिध्यमानमेतत्प्रथमं किमर्थं व्यदधादित्यत आह-तच्छास्त्रेत्यादि । ‘शठचित्तं शास्त्रवशतो नयत्यभिचारश्रुतिः’ इत्युक्तप्रकारेणाभिचारकर्म व्यदधात्-शास्त्रं नास्तीति स्थितस्य नास्तिकस्य शास्त्रविश्वासोत्पादनार्थम् । उपासनं व्यदधात्-स्वयं स्वतंत्रोऽन्यशेष इति च भ्रमवतश्चेतनस्य तदुभयमप्यागंतुकं भगवच्छेषत्वमेव नित्यवेष इति स्वस्वरूपे विश्वासोत्पादनार्थमित्यर्थः ।
टीका हिन्द्या
उस को शास्त्रविश्वास के लिये विधान किया, इस को स्वरूपविश्वास के लिये विधान किया ॥ १३६ ॥ इस प्रकार निषेध किये जानेवाले उपायांतरों को पहिले विधान क्यों किया ? इस शंका में कहते हैं-उस को इत्यादि से । ‘नास्तिक लोगों को शास्त्रवश बनानेके लिये अभिचारश्रुति उपाय होती है’ इस प्रकार अभिचारकर्म का विधान-शास्त्र को नहीं अंगीकार करनेवाले नास्तिकों को शास्त्रों में विश्वास होनेके लिये । इस को माने-उपासनाविधि को । अपने को स्वतंत्र और अन्यशेष समझ भ्रांत चेतन को वे दोनों आगंतुक हैं, भगवत्शेषत्व ही स्वभावसिद्ध आकार है ऐसा अपने स्वरूप में विश्वास होनेके लिये विधान किया ।
मूलम्
तच्चर्मस्पृश्यैव गच्छति, इदं मर्मस्पृशि ॥ १३७॥
श्लोक
चर्मस्पर्शी हि तद्याति मर्मस्पर्शि भवेदिदम् ॥ १३७॥
टीका संस्कृता
एवमेकैकविश्वासार्थं विधाय निषेधस्य तुल्यत्वेऽपि एतदुपासनमपरित्यज्य तिष्ठति चेदभिचारकर्मवत् क्रूरं न भवति खल्वित्यतस्ततोऽपि क्रूरमित्याह-तदित्यादिना । परहिंसारूपं तदभिचारकर्म देहात्माभिमानिना कर्तव्यं विशिष्टवेषविरोधि तत्प्रयुक्तं फलं च किंचिदुःखानुभवमात्रं, स उपर्येव गच्छतीति-चर्मस्पृश्यैव गच्छतीत्युक्तम् । अहंकारगर्भमेतदुपासनमुत्पन्नात्मज्ञानेन कर्तव्यं निष्कृष्टवेषविरोधि भगवदेकपारतंत्र्यरूपस्वरूपनाशकमिति मर्मस्पर्शीत्युच्यते ।
टीका हिन्द्या
वह चर्म को छूकर जाता है, यह मर्म को स्पर्श करता है ॥ १३७ ॥ इस प्रकार एक एक विश्वास के लिये विधान कर निषेध करना समान होनेपर भी इस उपासना को विच्छेदरहित अनुष्ठान करने पर अभिचारकर्म के तरह यह क्रूर न होगी ऐसा समझने पर, उस से भी अधिक क्रूर है ऐसा कहे हैं—वह इत्यादि । परहिंसारूप वह अभिचारकृत्य देहात्माभिमानी का कार्य हो शरीरविशिष्ट आकार का विरोधी हो उस से होनेवाला किंचित् दुःखानुभवमात्र हो ऊपर ऊपर चलेजानेसे चर्म को छूकर जाता है ऐसा कहे हैं । अहंकारमिश्रित यह उपासना आत्मज्ञानी का कृत्य हो शेषत्व का विरोधी हो भगवदेकपारतंत्र्यरूप स्वरूप का नाशक होने से मर्म को स्पर्श करती है ऐसा कहे हैं ।
मूलम्
इदं कर्मसाध्यत्वाद् दुष्करं च भवति ॥ १३८ ॥
श्लोक
दुष्करं भवतीदं च कर्मसाध्यत्वहेतुतः ॥ १३८ ॥
टीका संस्कृता
एतावन्मात्रमेव न, किंतु दुष्करं चेत्याह-इदमित्यादिना । एवं स्वरूपविरोधीदमुपासनं ‘यज्ञेन दानेन तपसाऽनाशकेन ब्राह्मणा विविदिषंति’, ‘अविद्यया मृत्युं तीर्त्वा’, ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’, ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥’, ‘जन्मांतरसहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥’ इत्यादिषूक्तप्रकारेण कायक्लेशेन कर्मानुष्ठानेन साधनीयत्वादशक्तेनानेन कृत्वा समापयितुमशक्यमित्यर्थः ।
टीका हिन्द्या
यह कर्मसाध्य होनेसे दुष्कर भी है ॥ १३८ ॥ इतना ही नहीं यह उपासना दुष्कर भी है ऐसा कहे हैं यह इत्यादि से । एवं स्वरूपविरोधी यह उपासना-‘यज्ञ दान तपस्या और उपवास से ब्राह्मणलोग जानने की इच्छा करते हैं ।’, ‘कर्मानुष्ठान से संसार को तर ज्ञान से मोक्ष को पाता है’, ‘उपासना के लिये कर्मानुष्ठान की अपेक्षा है-यज्ञादिश्रुति से घोडे के [[माफक]]’ (अर्थात् बाहर जानेके लिये घोडा लाओ कहने से चढने के उपयुक्त सजावट कर लाओ ऐसा अर्थ होता है), ‘कर्मानुष्ठान से पाप दूर होता है, ज्ञान मुक्ति का साधन होता है । कर्मानुष्ठान से पाप नाश होनेपर ज्ञान उत्पन्न होता है’, ‘हजारों जन्मों में किये हुए कर्म ज्ञान और ध्यान से पाप से मुक्त मनुष्यों को श्रीकृष्ण में भक्ति उत्पन्न होती है’ इत्यादि वचनानुसार कायक्लेश कर कर्मानुष्ठान से साधने योग्य होने से अशक्त यह चेतन उपासना नहीं करसक्ता ऐसा तात्पर्य समझना ।
उपायांतरदोषप्रकरणं समाप्तम् ।
अथ सिद्धोपायाधिकारप्रकरणम् ।
मूलम्
प्रपत्त्युपायस्यैतेषु दोषेषु कोऽपि नास्ति ॥ १३९ ॥
श्लोक
प्रपत्त्युपाये चैतेषु कश्चिद्दोषो न विद्यते ॥ १३९ ॥
टीका संस्कृता
एवं ‘प्रापकांतरपरित्यागस्य’ इत्यारभ्यैतावता उपायांतरदोषो विस्तरेण प्रतिपादितः । एवं प्रापकांतरस्यानेकान् दोषान् प्रत्यपादिष्ट, प्रपत्त्युपायस्य कोऽपि दोषो नास्ति किमित्यत आह-प्रपत्त्युपायस्येत्यादि । एतेषु दोषेष्विति-स्वरूपविरोधादिदुष्करत्वापर्यंतमुक्ताः सर्वे परामृश्यंते । कोऽपि नास्तीति-कोऽपि दोषोऽस्य नास्तीत्यर्थः । एतेषु दोषेषु कोऽपि नास्तीत्युक्तत्वादन्यः कश्चन दोषोऽस्तीति ज्ञायते, स च वस्तुत उपायत्वस्य स्वस्मिन्नभावेऽपि आपातप्रतीत्योपायप्रतिपत्त्यर्हत्वम् । एते दोषा अस्य न संतीत्यमुमर्थं प्रकाशयितुमस्याः स्वरूपोचितत्वसुकरत्वे आह–आत्मयाथात्म्येत्यादिना ।
टीका हिन्द्या
प्रपत्त्युपाय को इन दोषों में एक भी नहीं है ॥ १३९ ॥ एवं ‘प्रापकांतरपरित्याग का’ ऐसा प्रारंभ कर यहां तक उपायांतर का दोष विस्तारपूर्वक कहा गया । एवं उपायांतरों का अनेक दोष प्रतिपादन किये हैं, प्रपत्तिरूप उपाय का एक भी दोष नहीं है क्या ? इस शंका में कहते हैं-प्रपत्त्युपाय को इत्यादि । इन दोषों में माने-स्वरूपविरोध प्रभृति दुष्करत्व पर्यंत कहे हुये सब दोषों को समझना । एक भी नहीं है माने-एक दोष भी इस को नहीं है । इन दोषों में एक भी नहीं कहने से इन से भिन्न कोई एक दोष है मालूम होता है । वह दोष वस्तुतः उपायत्व अपने को न होनेपर भी ऊपरी दृष्टि से उपाय समझने योग्य होना । ये दोष इस में नहीं हैं, इस को प्रकाश करने के लिये इस का स्वरूपोचितत्व और सुकरत्व को कहते हैं-आत्मयाथात्म्य इत्यादि से ।
मूलम्
आत्मयाथात्म्यज्ञानकार्यत्वात्स्वरूपस्योचिता, ‘न व्याप्रियताम्’ इति निवृत्तिसाध्यत्वात्सुकरा च भवति ॥१४०॥
श्लोक
स्वयाथात्म्यज्ञकार्यत्वात्स्वरूपस्योचिता खलु । ‘स्वयं चेष्टा न कर्तव्ये’ ति श्रीसूक्तिप्रकारतः । स्वयं निवृत्तिसाध्यत्वात्सुकरा च प्रकीर्तिता ॥ १४० ॥
टीका संस्कृता
अस्याः प्रपत्तेरात्मयाथात्म्यज्ञानकार्यत्वं नाम-श्रीमंत्रे मध्यमपदोक्तप्रकारेणात्मनो यथावस्थितरूपस्य भगवदत्यंतपारतंत्र्यस्य प्रतिसंधानेनागतत्वम् । स्वरूपस्योचितत्वं नाम-तादृशपारतंत्र्यरूपस्वरूपस्यानुरूपत्वम् । ‘न व्याप्रियताम्’ इति-एकोऽपि व्यापारो न कर्तव्य इत्यर्थः । निवृत्तिसाध्यत्वात्सुकरा च भवतीति-‘भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिनिवृत्तिः प्रपत्तिः’ इत्युक्तप्रकारेण स्वप्रवृत्तिनिवृत्त्या साधनीयत्वात् सुलभतया कर्तुं योग्या भवतीत्यर्थः । एतयोरुभयोरुक्त्यैव पूर्वोक्तदोषेषु कोऽपि नास्तीति कथं सिध्यतीति चेत्-अपायत्वभयजनकत्वशोकजनकत्वाहंकारमिश्रतया निषिद्धत्वावद्यकरत्वानां स्वरूपविरोधित्वप्रयुक्तत्वात्, फलविसदृशत्वस्य-अस्याः फलसाधनत्वं विना सिद्धोपायस्यैव फलसाधनत्वेनास्यास्तद्वरणमात्रतयाऽधिकारिविशेषणत्वेनास्यामवकाशाभावात्, एतेषां षण्णामपि दोषाणामभावः ‘स्वरूपस्योचिता’ इत्यत्र सिद्धो हि । कर्मसाध्यतयाऽऽगतं दुष्करत्वं नास्तीति ‘निवृत्तिसाध्यतया सुकरा’ इत्यत्र सुस्पष्टं हि । तस्मात्स्वरूपौचित्यसुकरत्वे एते उभे अस्याः स्त इत्युक्त्यैव पूर्वोक्तदोषेषु कोऽप्यस्या नास्तीत्यर्थः प्रकाशितः ।
टीका हिन्द्या
आत्मयाथात्म्यज्ञान का कार्य होनेसे स्वरूप का उचित और ‘प्रयत्न मत करो’ इस वचनानुसार निवृत्तिसाध्य होनेसे सुकर भी है ॥ १४० ॥ आत्मयाथात्म्यज्ञान का कार्य माने-अष्टाक्षरी मंत्र के मध्यमपद में उक्तप्रकार आत्मा का यथार्थ आकार भगवदत्यंतपारतंत्र्य को जानने से कर्तव्य कृत्य । स्वरूप का उचित है माने-उस पारतंत्र्यरूप स्वरूप का अनुरूप । ‘प्रयत्न मत करो’-कोई व्यापार मत करो । निवृत्तिसाध्य होनेसे सुकर भी है-‘भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिनिवृत्ति प्रपत्ति’ इस वचनानुसार स्वप्रवृत्ति को छोड साधन करने योग्य, इसलिये सुखपूर्वक कर सक्ते हैं । इन दोनों का कहनेसे पूर्वोक्त दोषों में एक भी नहीं यह अर्थ कैसे सिद्ध होता है ? इस शंका में-अपायत्व, भयजनकत्व, शोकजनकत्व, अहंकारमिश्रतया निसिद्धत्व, अवद्यकरत्वरूप ये संपूर्ण दोष स्वरूपविरोधित्व को अवलंबन करने से, प्रपत्ति फलसाधन न हो सिद्धोपायभूत सर्वेश्वर ही फलसाधन हो यह प्रपत्ति उस का स्वीकाररूप मात्र हो अधिकारिविशेषण होनेसे फलविसदृशत्वरूप दोष इस में न हो सक्ता है । यह छः दोष भी इस में न होना-‘स्वरूप का उचित’ इस वाक्य से सिद्ध होता है । कर्मसाध्यतया होनेवाले दुष्करत्वरूप दोष इस को नहीं है यह अर्थ ‘निवृत्तिसाध्य होनेसे सुकर है’ इस वाक्य से स्पष्ट होता है । इस कारण स्वरूपउचितत्वसुकरत्वरूप ये दोनों इस में हैं ऐसा कहने से पूर्वोक्त दोषों में से एक भी इस में नहीं यह अर्थ प्रकट होता है ।
मूलम्
पूर्णविषयस्यानुगुणं उपहारं कल्पयितुं न शक्यते ॥ १४१ ॥
श्लोक
अवाप्तसर्वकामत्वात्तद्वैभवानुसारतः । कथंचिदुपहारो हि कल्पयितुं न शक्यते ॥ १४१ ॥
टीका संस्कृता
एवमुपायः स इति बुद्ध्वा स्वप्रवृत्तिं प्रति निवृत्तमप्युचितं किं ? तत्संतोषार्थमनेन फलत्वेनोपहारो न कल्पनीयः किं ? इत्यत आह-पूर्णविषयस्येत्यादिना । लोके उपहारकल्पकात्तद्विषयस्य गौरवानुगुणं खलु कल्पयंति, अत्रोपहारः कल्पनीय इति विचारे तथा कल्पनीयः, तस्यावाप्तसमस्तकामत्वेन परिपूर्णत्वेन स्थितत्वात्तस्य वैभवस्यानुगुणमनेनोपहारो न रचयितुं शक्यत इत्यर्थः ।
टीका हिन्द्या
पूर्णविषय होनेसे महत्त्वानुसार भेंट नहीं दे सक्ता ॥ १४१ ॥ एवं उपाय वह है ऐसा विश्वास कर अपनी प्रवृत्ति से निवृत्त होना उचित है क्या ? ईश्वर के संतोष के लिये इस चेतन को भी कुछ करना चाहिये न ? ऐसी शंका में कहते हैं-पूर्णविषय इत्यादि से । लोक में भेंट देनेवाले जिस को देते हैं उस के गौरव के अनुसार देते हैं, यहां भेंट देनेका विचार करनेपर गौरवानुसार ही देना चाहिये, वह अवाप्तसमस्तकाम और परिपूर्ण होने से उस के वैभवानुसार इस चेतन से देनेलायक कुछ भी नहीं है ।
मूलम्
आभिमुख्यसूचकमात्रे संतोषो वर्द्धते ॥ १४२ ॥
श्लोक
संतोषो वर्द्धते तस्य ह्याभिमुख्यस्य सूचनात् ॥ १४२ ॥
टीका संस्कृता
तर्हि तस्यैतद्विषये संतोषः कथं वर्द्धेत इत्यत आह-आभिमुख्येत्यादि । अनादिकालं ‘यत्किंचिदवलंब्य व्यावृत्तिव्रतमारोप्य’ स्वस्माद्विमुखोऽयं तादृशव्यवसायनाशेन स्वस्मिन्नभिमुखोऽभवदित्यस्य सूचके, कस्मिंश्चिद्व्यापारे प्राप्ते ‘एतावत्कालं विमुख इदानीमभिमुखः प्राप्तः खलु’ इति तस्य हृदयमत्यंतं संतुष्टं भवतीत्यर्थः ।
टीका हिन्द्या
आभिमुख्य को दिखाने मात्र से संतोष उत्पन्न होता है ॥ १४२ ॥ ऐसा होतो परमात्मा इस चेतन के विषय में कैसे संतुष्ट होंगे इस शंका में कहते हैं-आभिमुख्य इत्यादि से । अनादिकाल से ‘किसी एक व्रत को अवलंबन कर’ ईश्वर से विमुख होनेवाला यह चेतन विमुखता छोड अपने विषय में आभिमुख्य का सूचक कृत्य को करनेपर ‘इतना काल विमुख होनेवाला आज अभिमुख हुआ’ ऐसा उन का हृदय अत्यंत प्रसन्न होता है ।
मूलम्
पूर्तिर्निवृत्तिमकृत्वा आदरणे हेतुः ॥ १४३ ॥
श्लोक
पूर्तिरादरणे हेतुर्नाकृत्वा तन्निवर्तनम् ॥ १४३ ॥
टीका संस्कृता
तस्य तथा स्थितत्वेऽपि तत्पूर्तिः ‘अकिंचनैरस्माभिस्तस्य प्रीतिमुपपाद्यानुसर्तुं न शक्यत’ इत्यमुं न निवर्तयेत्किमित्यत आह-पूर्तिरित्यादि । तस्यावाप्तसमस्तकामत्वमाश्रयणोन्मुखस्यास्य ‘अस्माभिः स केनापि प्रकारेण संतोषयितुं न शक्यत’ इति तदाश्रयणात् निवृत्तिं विना ‘अस्मदार्पतस्वीकारप्रयुक्ततृप्तिमत्वाभावेन परिपूर्णतयाऽस्मद्विषये प्राप्तं स्वीकृत्य संतुष्यतीत्यभिनिवेशेनाश्रयितुं हेतुर्भवतीत्यर्थः । अथवा तत्पूर्तिस्तं न संतोषयेदुपेक्षया निवर्तयेदित्यत आह-पूर्तिरित्यादि । तत्पूर्तिरमुमुपहारं नाकल्पयदिति नादृत्यांगीकारान्निवृत्तिं विनाऽऽभिमुख्यसूचकमात्रोपरि ‘अस्माकमनेन किं कर्तव्यम्’ इत्यादरेणांगीकारोपयुक्ता भवतीत्यर्थः ।
टीका हिन्द्या
पूर्ति हाथ न खींच ऊपर गिरनेका हेतु है ॥ १४३ ॥ ईश्वर ऐसा होनेपर भी उन की पूर्ति ‘अकिंचन हमलोग उन को संतुष्ट कर समीप नहीं जासक्ते’ ऐसा समझ हटजाने के योग्य नहीं करेगी क्या ? इस शंका में कहते हैं-पूर्ति इत्यादि से । उस का अवाप्तसमस्तकामत्व-आश्रयणोन्मुखचेतन ‘हम किसी प्रकार सर्वेश्वर को संतुष्ट करने में अशक्य हैं’ ऐसा समझ उस के आश्रयण से अलग न कर ‘हमारे दिये हुए को लेकर तृप्त न हो जैसा परिपूर्ण होने से हमारे समर्पित वस्तु से संतुष्ट होगा’ ऐसा समझ प्रेम के साथ आश्रयण करने के योग्य होता है । यद्वा उनकी पूर्ति चेतन से दिये हुए वस्तु से उन को संतुष्ट करेगी क्या ? उपेक्षा कराकर नहीं हटावैगी क्या ? इन शंका में कहते हैं-पूर्ति इत्यादि । उनकी पूर्ति ‘ईश्वर को चेतन भेंट नहीं दिया है’ जान इस को अनादर कर अंगीकार करने से न हटा आभिमुख्यसूचकमात्र व्यापार से अधिक हमारे विषय में इस को कर्तव्य कुछ है क्या ? ऐसा विचार आदरपूर्वक अंगीकार करने योग्य बनाती है ।
मूलम्
‘पत्रं पुष्पं’, ‘अन्यत्पूर्णात्’, ‘समर्पणीयो धूमः पुष्पमेव’ ॥ १४४ ॥
श्लोक
अन्यत्पूर्णाच्च पत्रं च देयौ च धूमपुष्पकौ ॥ १४४ ॥
टीका संस्कृता
एवमयमल्पसंतुष्ट इत्यस्य प्रमाणमस्ति किमित्यत आह-‘पत्रं पुष्पम्’ इत्यादि । ‘पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥’ इति पत्रं वा पुष्पं वा फलं वा तोयं वा कश्चिन्मह्यं भक्त्या ददाति चेत्, अनन्यप्रयोजनत्वरूपशुद्धियुक्तमनसस्तस्य तादृशभक्त्योपहृतमवाप्तसमस्तकामोऽहं स यथा प्रेम्णा कलुषितो ददाति तथा व्यामोहेन कलुषितोऽक्रमेण विनियोजयामीति स्वयमेवावोचत् खलु । ‘अन्यत्पूर्णादपां कुंभादन्यत्पादावनेजनात् । अन्यत्कुशलसंप्रश्नान्नचेच्छति जनार्दनः ॥’ इति दौत्येन गमनसमये धृतराष्ट्रे ‘पांडवपक्षपाती कृष्ण आगच्छति तस्मै कांश्चन देशान् दत्वा सुवर्णं च दत्वाऽस्मदधीनं करवामहें’ इत्येतादृशानि कानिचिद्वदति, एकरूपमनोवाग्रहितस्य वंचकस्य तात्पर्यं जानन् संजयः-‘आगच्छन् स तादृशो न भवति ननु तस्यापेक्षितमेतावदेव’ इति वदति । तथाहि-‘स्वपेयं जलमेकस्मिन् घटे पूरयित्वा शीतलतया निदध्यात्, तस्य तदागमनमार्गे द्वारि निधानमलं तदुपरि किंचिन्नापेक्षितम् । स्वगृहेऽतिथिरागतश्चेत् पादौ प्रक्षालयेदिति सामान्यशास्त्रं यथा वदति तद्वत्तस्य श्रीपादयोरवनेजनमलं, तदुपरि तस्यासाधारणवैलक्षण्यानुगुणं विशिष्य कर्तव्यं नास्ति, बहुदूरमागतं प्रति कुशलप्रश्नः कर्तव्यः खलु तद्वत्कस्यांचित्कल्याणवाचः कथनमेवालमधिकतया किंचिन्नापेक्षितं, एतानि विनान्यत्किंचन नेच्छति ननु स’ इत्यर्थः । अनेन ‘तव दातव्यतयाऽभिमतान् देशान् सुवर्णं च एकवस्तुत्वेनापि न मन्यते किं, यदि शक्नोषि, तर्हि-त्वदाभिमुख्यसूचकतयैतानि कुरु’ इत्युक्तम् । ‘दुःखहरहितमीशम्’ इत्यारभ्य ‘समर्पणीयो धूमः पुष्पमेव’ इति-हेयप्रत्यनीकं सर्वेश्वरं संसारान्मुक्त्वाऽनुभूय अनुभवजनितप्रीत्या ‘एतत्साम गायन्नास्ते’ इत्युक्तप्रकारेण गीत्वा विस्तृतत्वप्रेप्सवः ! उपकरणेषु न्यूनतादर्शननिमित्तनिवृत्तिं विहायासंस्कृतं जलं येन केन प्रकारेण प्रयुज्य पुनस्तस्य महाप्रसाददत्ततया दातव्यः कश्चन धूमो यत्किंचित्पुष्पं चैतावदेवालमिति, तस्य सुसाधनतां सुस्पष्टं परांकुशोऽवोचत् ।
टीका हिन्द्या
‘पत्रं पुष्पं’, ‘जलपूर्णघडे से और को’, ‘देने योग्य धूम और पुष्प ही हैं’ ॥ १४४ ॥ एवं यह सर्वेश्वर अल्प से संतुष्ट होता है इस अर्थ में प्रमाण क्या है ? इस शंका में कहते हैं-पत्रं पुष्पं इत्यादि । ‘जो मनुष्य भक्तिपूर्वक पत्र या पुष्प फल या जल को हमारे लिये अर्पण करता है, भक्ति से समर्पित उसको मैं प्रीतिपूर्वक पाता हूं’ ऐसा पत्र हो, पुष्प हो, फल हो या जल जो कोई पुरुष भक्तिपूर्वक मुझ को देता है अनन्यप्रयोजनत्वरूपशुद्धिविशिष्टमनवाले उस का भक्तिपुरस्सर दिये हुए को अवाप्तसमस्तकाम मैं, जैसा वह प्रेम से व्याकुल हो देता है वैसा मैं भी व्यामोह से व्याकुल हो क्रम छोड विनियोग कर लेता हूं-ऐसा आप ही कहे हैं । ‘जलपूर्ण घडा से अन्य, चरण धोनेके जल से अन्य, कुशलप्रश्न से अन्य कुछ भी जनार्दन भगवान नहीं चाहते हैं ।’ दूत्य करनेके लिये जब श्रीकृष्ण पधारेथें तब धृतराष्ट्र ‘पांडवपक्षपाती कृष्ण आरहा है उस को किसी देश और द्रव्य को दे हमारा बनायेंगे’ ऐसा कहने पर मन और वचन में कापट्य को जाननेवाले संजय ‘आनेवाला तादृश नहीं उनका अपेक्षित इतनाही है’-अपने पीने के लिये ठंडा जल को एक मिट्टी के घडे में रख और उस को उस के आनेके रास्ते में द्वार में रक्खे इस से अधिक और कुछ नहीं चाहिये । अपने घर में अतिथि आ प्रवेश करनेपर चरण धोनेके लिये सामान्यशास्त्र विधान किया है, उस तरह उन के चरणारविंदों को धोनेसे बस हो जायेगा, उन के महत्त्वानुसार कुछ करनेकी अपेक्षा नहीं, बहुत दूर चलकर आये हुए को कुशलप्रश्न करना चाहिये इसी तरह एक मीठी बात कहनेसे वह तृप्त हो जायगा अधिकतया कुछ करने की आवश्यकता नहीं है, इतना छोड और कुछ श्रीकृष्ण नहीं चाहते हैं’ ऐसा कहा । इस से यह मालूम होता है कि तुम जिस द्रव्य और देश को देनेकी इच्छा करते हो वह उस को कुछ भी नहीं समझेंगे, हो सके तो अपने आभिमुख्यसूचकव्यापारों को करने का विचार करो । ‘देनेके योग्य धूप और पुष्प ही हैं’—हेयप्रत्यनीक सर्वेश्वर को संसार से मुक्त हो अनुभव कर उस अनुभव से होनेवाली प्रीति से ‘इस साम को गान करते हुए रहता है’ इस वचनानुसार गान कर उज्जीवित होनेकी इच्छा करनेवाले ! उपकरणों में न्यूनता देख न छूट साधारण जल को किसी एक प्रकार से समर्पण कर फिर उन को प्रीतिदानतया देनेयोग्य किसी एक धूम और किसी एक फूल ही इतना ही अपेक्षित है । इस प्रकार उनकी सुखपूर्वक आराध्यता को सुस्पष्ट शठकोपरि कहे हैं ।
मूलम्
तृणं प्रदर्श्याहूय तृणं यथा ददति तथा फलसाधनयोर्भेदो नास्ति ॥ १४५ ॥
श्लोक
तृणं प्रदर्श्याहूय तृणं यद्वत्प्रयच्छति । साध्यसाधनयोस्तद्वद् भेदो नास्तीति युक्तिमत् ॥ १४५ ॥
टीका संस्कृता
पूर्णविषयत्वादित्यारभ्यैतावत्पर्यंतं प्रसक्तानुप्रसक्ततयाऽर्थांतरं गतं खलु प्रपत्तिवैलक्षण्यं किल वक्तुमुपक्रांतं, तस्मात्तस्याः पुनरेकं वैलक्षण्यं वक्तुं सिद्धोपायस्य फलस्य च विद्यमानमैक्यं प्रथममाह-तृणं प्रदश्येत्यादिना । गामाहूय पश्चात्तस्या धारकादीनि दत्त्वा रिरक्षिषुभिस्तद्भोज्यं तृणमेव तद्वशीकारसाधनत्वेन पुरस्कृत्याहूय तत् तृणमेवोपहारत्वेन दत्ते फलसाधनयोर्यथा भेदो न स्यात्तथा विलक्षणविग्रहविशिष्टः स्वयमेव प्रथममनुं मेलयितुमुपायत्वाद नंतरं सदैकरूपतयोपेयत्वेन स्थितत्वाच्च फलसाधने उभयमपि एकवस्त्वेव भवतीत्यर्थः ।
टीका हिन्द्या
घास दिखाकर बुला घास ही को देते हैं तैसा फल और साधन में भेद नहीं है ॥ १४५ ॥ ‘पूर्णविषय’ ऐसा आरंभकर यहां पर्यंत प्रसक्तानुप्रसक्त कहे हैं इतना ही प्रपत्तिवैलक्षण्य ही पहिले कहागया इस कारण उस की और एक विशेषता कहने के लिये सिद्धोपाय और फल इन की एकता को पहिले कहते हैं-घास दिखा इत्यादि । गौ को उनके धारकादि [घास पानी] का देने की इच्छा करने वाले बुलाने के लिये घास को ही उसको वशकरने को साधनतया आगे दिखा समीप में बुला घास ही को देते हैं, इस में जैसा फल और साधन में भेद नहीं तैसा ही विलक्षणगुणविग्रहविशिष्ट आप ही पहिले इस चेतन के वश करने का उपाय हो अनंतर सदा इन के अनुभव के योग्य होने से फल और साधन ये दोनों एक ही वस्तु होता है ।
मूलम्
तस्मात्सुखरूपा च भवति ॥ १४६ ॥
श्लोक
तस्मात्सर्वप्रकारेण सुखरूपा च सा स्मृता ॥ १४६ ॥
टीका संस्कृता
अनेन प्रपत्तिवैलक्षण्यस्य फलितप्रकारमाह-तस्मादित्यादिना । साध्यस्यैव साधनत्वात्तद्वरणरूपेयं प्रपत्तिर्दुःशका न भवति, सुखरूपा भवतीत्यर्थः । अथवा पुनश्च प्रपत्तेरेकं वैलक्षण्यमाह-तृणमित्यादिना । तृणं प्रदर्श्य धेनुमाहूय पुनस्तृणमेव दत्ते फलसाधनयोर्यथा भेदो नास्ति तथा ‘सकृत्कृतांजलिः’ ‘नमश्चक्रुर्जनार्दनम्’ इत्यप्रकारेणांजल्यादिरूपां प्रपत्तिं पुरस्कृत्येश्वरे वशीकृते पुनस्तस्य मुखोल्लासार्थं क्रियमाणं कैंकर्यं च-‘बद्धांजलिपुटा हृष्टा नम इत्येव वादिनः ।’ ‘हस्ताभ्यां पूर्णं प्रणम्य प्रणम्य त्वाम्’ इत्यादिषूक्तप्रकारेण स्वस्वरूपानुरूपांजल्यादिवस्तुविशेषा एव । अतः फलसाधनयोर्भेदो नास्ति । एवं फलस्यैव साधनत्वादियं प्रपत्तिर्दुःशका न भवति, अस्य सुखरूपा भवतीत्यर्थः ।
टीका हिन्द्या
इस कारण सुखरूप होती है ॥ १४६ ॥ इस से प्रपत्ति की फलित हुई विशेषता को कहते हैं-इस कारण इत्यादि । साध्यवस्तु ही साधन होने से तत्स्वीकार रूप यह प्रपत्ति दुःखकर न हो सुखरूप होती है । यद्वा और भी प्रपत्ति की एक विशेषता कहते हैं-घास इत्यादि से । घास को दिखाकर गौ को बुला फिर उसी घास को देते हैं तो जैसा फल और साधन में भेद नहीं तैसा ‘एक बार की हुई अंजलि’, ‘जनार्दन को नमस्कार किये हैं’ इन वचनानुसार अंजल्यादिरूप प्रपत्ति को आगे कर ईश्वर को वश करनेपर उनके संतोष के लिये क्रियमाण कैंकर्य भी-‘अंजलि बांध हृष्ट हो नमः ऐसी उक्ति को ही कहनेवाले’, ‘हाथों की तृप्ति होने तक आप की सेवा कर’ इत्यादि वचनानुसार अपने स्वरूपानुरूप अंजल्यादिवृत्तिविशेष होने से फल और साधन में भेद नहीं । एवं फल ही साधन होने से यह प्रपत्ति दुःखरूप न हो सुखरूप होती है ।
उपायांतरदोषप्रकरणं संपूर्णम् ।
अथ सिद्धोपायनिष्ठवैभवप्रकरणम् ।
मूलम्
एवं प्रस्तुतायाः प्रपत्तेरनुपायत्वं तत्प्रतिकोटिपरस्वीकारोपायत्वं च ‘इयं दृष्टा चेत्’ इत्यादिना ‘प्राप्तेरुपायस्तदिच्छा’ इत्यादिना च पूर्वोक्तप्रकारेण विना मुखांतरेणाह ।
मूलम्
अयं तं प्रेप्सति चेदियं प्रपत्तिश्च नोपायः ॥ १४७॥
श्लोक
अयमिच्छति तं चेदियं प्रपत्तिर्न साधनम् ॥ १४७ ॥
टीका संस्कृता
तत्रैवं स्वरूपानुरूपामिमां साधनीकृत्य स्वतंत्रमयं प्राप्तुमिच्छति चेत्तदिच्छायाः सहकारित्वाभावे इयं न फलतीत्याह-अयं तमित्यादिना । अयमर्थः-वस्तुनि वस्तुमान् गत्वा यथा स्वीकरोति तथा स्वामिना स्वयमागत्य क्रियमाणमंगीकारं पश्यन् वर्तितुं योग्यः परतंत्रोऽयं चेतनः स्वयं फली सन् स्वस्वीकारेण स्वतंत्रं तं प्राप्तुमिच्छति चेत् तदिच्छाऽभावे एवं विलक्षणा प्रपत्तिरपि तल्लाभसाधनं न भवति ।
टीका हिन्द्या
यह चेतन ईश्वर को पानेकी इच्छा करनेपर यह प्रपत्ति भी उपाय नहीं है ॥ १४७ ॥ तथा च ‘प्रपत्त्युपाय का’ इत्यादि यहां तक प्रपत्ति का दोषाभाव और गुणाधिक्य कहे गये । अथ सिद्धोपायनिष्ठों का वैभवप्रकरण । इस प्रकार प्रस्तुत प्रपत्ति का अनुपायत्व, उस की प्रतिकोटि परगतस्वीकार का उपायत्व ‘इस को देखनेपर’, ‘प्राप्तिका उपाय उस की इच्छा’ इत्यादि से यथा प्रतिपादन किये हैं तथा विना दूसरी रीति से कहते हैं । उस में इस प्रकार स्वरूपानुरूप इस प्रपत्ति को साधन मान स्वतंत्र ईश्वर को यह चेतन पाने की इच्छा करनेपर उस की इच्छा न हो तो यह विफल होगी ऐसा कहते हैं-यह चेतन ईश्वर को इत्यादि । वस्तु को मालिक जाकर यथा स्वीकार करता है तथा मालिक सर्वेश्वर के अंगीकार करनेपर देखते रहने के योग्य परतंत्र यह चेतन आप ही फलभोक्ता हो अपने स्वीकार से स्वतंत्र ईश्वर को पाने की इच्छा करे तो उस की इच्छा न होने पर इस प्रकार सर्वोपायश्रेष्ठ प्रपत्ति भी उस के लाभ का साधन न होगी ।
मूलम्
सोऽमुं प्रेप्सति चेत् पातकपि न प्रतिबंधकम् ॥१४८॥
श्लोक
सोऽमुमिच्छति चेत्पातकर्म न प्रतिबंधकम् ॥ १४८ ॥
टीका संस्कृता
अथ स एव स्वीकरोति चेत् विद्यमानं वैलक्षण्यमाह-सोऽमुमित्यादिना । स्वामी स्वतंत्रः स्वपरतंत्रममुं स्वेच्छया प्रेप्सति चेत् पापेषु प्रधानतया परिगण्यमानपातकमपि प्रतिबंधकं न भवतीत्यर्थः । एतद्वाभ्यामपि स्वगतस्वीकाराऽनुपायत्वं परगतस्वीकारोपायत्वं च प्रदर्शितम् । ‘चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः । विपर्यये तु नैवास्य प्रतिषेधाय पातकम् ॥’ इत्युक्तं हि ।
टीका हिन्द्या
वह इस चेतन को पाने की इच्छा करनेपर पाप भी प्रतिबंधक नहीं है ॥ १४८ ॥ अथ वही स्वीकार करनेपर होने वाले वैलक्षण्य को कहते हैं-वह इत्यादि । मालिक स्वतंत्र अपना वस्तु परतंत्र इस चेतन को अपनी इच्छा से पाने के विचार करनेपर पापों में प्रधानतया गिने जाने वाले पाप भी प्रतिबंधक नहीं होगा । इन दोनों से चेतन का स्वीकार उपाय नहीं और परमात्मा का स्वीकार उपाय है ऐसा दिखाया गया । ‘चेतन का परमात्मा की प्राप्ति में प्रपत्ति भी उपाय नहीं । परमचेतन का चेतन की प्राप्ति में चेतनगत पाप भी प्रतिबंधक नहीं ॥’ ऐसा कहा है ।
मूलम्
एतदुभयमपि श्रीभरते श्रीगुहे च दृश्यते ॥ १४९ ॥
श्लोक
दृश्यते हीदमेतद्धि श्रीभरते च श्रीगुहे ॥ १४९ ॥
टीका संस्कृता
एवमेतदुभयमपि कुत्र दृश्यते इत्यत आह-एतदित्यादि ।
टीका हिन्द्या
इन दोनों को श्रीभरतसूरि और श्रीगुहदेव में देख सक्ते हैं ॥ १४९ ॥ ऐसा इन दोनों को कहां देख सक्ते हैं ? इस शंका में कहते हैं—इन दोनों को इत्यादि ।
मूलम्
श्रीभरतस्य समीचीनमेवाऽसमीचीनं जातं, श्रीगुहस्यासमीचीनमेव समीचीनं जातम् ॥१५०॥
श्लोक
भरतस्य समीचीनमेवासम्यग्गतं किल । श्रीगुहस्यासमीचीनमेव सम्यग्गतं तथा ॥ १५० ॥
टीका संस्कृता
तयोरिदं कथं दृश्यते ? इत्यत आह-श्रीभरतस्येत्यादिवाक्यद्वयेन । स्वामिनं निवर्तयन्नागत्याभिषेकं कारयित्वा स्वस्वरूपानुरूपं कैंकर्यं प्राप्य वर्धितुं ‘एभिश्च सचिवैः सार्धम्’ इत्यादिप्रकारेण मार्गादारभ्य मनोरथयन् गत्वा महत्यार्त्या सह तच्चरणयोः प्रपत्तिं कुर्वाणस्य श्रीभरतस्य तथाकृतप्रपत्तिरूपं समीचीनमेव शरण्यस्य स्वामिनो हृदयास्यानिष्टत्वादसमीचीनं जातम् । ‘ज्ञानहीनः संबंधरहितः’ इत्यादिप्रकारेण भगवता स्वयमेवागत्यांगीक्रियमाणस्य श्रीगुहस्य दोषस्यैवोपहारत्वेनांगीकृतत्वात्पातकरूपमसमीचीनमेव समीचीनं जातमित्यर्थः ।
टीका हिन्द्या
श्रीभरतसूरि का पुण्य ही पाप हुआ, श्रीगुहदेव का पाप ही पुण्य हुआ ॥ १५० ॥ उन दोनों में देखनेका प्रकार कैसा ? इस शंका में कहते हैं । श्रीभरतसूरि का इत्यादि । श्रीरामजी को लौटा कर पट्टाभिषेक कर अपने स्वरूपानुरूप दास्य को प्राप्त हो उज्जीवन के लिये ‘इन मंत्रियों के साथ’ इस वचनानुसार मार्ग से लेकर मनोरथ करते हुए जाकर बडी आर्ति से श्रीरामजी के चरणारविंदों में प्रपत्ति करनेवाले श्रीभरतसूरि का वह प्रपत्तिरूप पुण्य ही शरण्य श्रीरामजी का अनिष्ट होनेसे पाप हुआ । ‘पापी क्षुद्र’ इस वचनानुसार आप ही श्रीरामजी से अंगीकार किये श्रीगुहदेवजी का दोष ही को भेंट मानकर अंगीकार करने से पाप ही पुण्य हुआ है ।
मूलम्
सर्वापराधानामपि प्रायश्चित्तरूपा प्रपत्तिरप्यपराधकोटावन्विता क्षमापणकर्तव्यतार्हा स्थिता खलु ॥ १५१ ॥
श्लोक
निष्कृतिः सर्वपापानां प्रपत्तिः पातकेऽन्विता । क्षमापणस्य कर्तव्यतार्हा तिष्ठति सर्वथा ॥ १५१ ॥
टीका संस्कृता
‘यत्त्वत्प्रियं तदिह पुण्यमपुण्यमन्यद्’ इति हि पुण्यपापलक्षणं, अतोऽनयोर्दृश्यत इत्यर्थः । अनेन क्रियमाणं प्रपदनं शरण्यहृदयानुसारि न भवति चेदपराधकोटिघटितं स्यादित्यवोचत् पूर्वम्, इदं चास्य पूर्ववृत्ते दृष्टेऽप्यपराधकोटौ भवतीत्यमुमर्थं प्रकाशयितुं भाष्यकारानुष्ठानप्रकारमाहोपरि-सर्वापराधानामपीत्यादिना । ‘अहमस्म्यपराधानाम् आलयः’ इत्युक्तप्रकारेणापराधानां सर्वेषां भाजनेऽस्मिन् चेतने प्रपत्तिं कुर्वति ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इत्येतद्विषये सर्वेश्वरहृदयस्य प्रसन्नत्वात्सर्वापराधानामपि प्रायश्चित्तरूपा खलु प्रपत्तिर्वर्तते । एवंभूतां प्रपत्तिं ‘त्वत्पादारविंदयुगलं शरणमहं प्रपद्ये’ इति कृतवतो भाष्यकारस्य स्वपूर्ववृत्तानुसंधानानंतरं तस्या अपराधकोटौ स्थितत्वात् ‘त्वमेव माता च’ इत्यारभ्यैतद्विषयेऽपराधं क्षंतुमुपयुक्तान् संबंधविशेषान् सर्वान् विज्ञापयन् ‘तस्मात्प्रणम्य’ इत्यादिना ‘एवमग्रतो निःसंकोचं स्थित्वा प्रपत्तिः कृता अमुमपराधं क्षमस्व’ इति क्षमापणकर्तव्यतार्हा स्थितेत्यर्थः । तस्मादेतद्रीत्यापीयमपराधकोटिघटितेत्यर्थः । अनादिकालमपराधं कृत्वा पश्चादेकस्मिन् दिवसे आभिमुख्ये कृतेऽपि ‘रिपूणामपि वत्सलः’, ‘यदि वा रावणः स्वयम्’ इति स्थितस्येश्वरस्य हृदये दृष्टे तत्स्वीकारस्य काचिन्न्यूनता नास्ति । तस्य तथा स्थितत्वेऽपि स्वपूर्ववृत्ते स्मृतेऽस्येममपराधं ज्ञात्वा क्षमापणं कर्तव्यं भवति हि ।
टीका हिन्द्या
संपूर्ण अपराधों का प्रायश्चितरूप प्रपत्ति अपराधकोटि में गिनी जाकर क्षमापण करने योग्य होती है ॥ १५१ ॥ ‘जो आप का प्रिय है वही पुण्य है और आप का अप्रिय पाप है’ ऐसा पुण्यपाप का लक्षण है, इस लिये इन दोनों में ‘देखसक्ते हैं’ ऐसा कहा है । इस चेतनकर्तृक प्रपदन शरण्यहृदयानुकूल न होनेपर अपराधकोटि में गिना जायगा ऐसा पहिले कहे हैं, अब इस के पूर्ववृत्त को देखनेपर भी अपराधकोटि में गिना जायगा इस अर्थ को प्रकाश करनेके लिये भाष्यकार के अनुष्ठानप्रकार को दिखाते हैं । ‘मैं अपराधों का स्थान हूं’ इस वचनानुसार अपराधों का स्थानभूत इस चेतन के प्रपत्ति करनेपर ‘सर्वपापों से मुक्त करूंगा’ इस वचनानुसार इस चेतन के ऊपर सर्वेश्वर का हृदय प्रसन्न होनेसे प्रपत्ति सर्वापराधों का प्रायश्चित्तरूप है । इस प्रकार की प्रपत्ति को ‘आप के चरणारविंदयुगलों में मैं शरणागति करता हूं’ ऐसा प्रपत्ति करनेवाले श्रीभाष्यकारस्वामी अपने पूर्ववृत्त को अनुसंधान कर उस प्रपत्ति को अपराधकोटि में जान ‘आप ही माता हो’ ऐसा प्रारंभ कर अपने अपराध को क्षमा करनेके उपयुक्त संबंधविशेषों को विज्ञापन कर ‘उस लिये प्रणाम कर’ इत्यादि से ‘इस प्रकार आप के सामने निडर खडा हो प्रपत्ति करनेके इस अपराध को क्षमा कीजिये’ ऐसा क्षमापण कराना आवश्यक हुआ । इस कारण यह प्रपत्ति अपराधकोटि में गिनी जाती है । अनादिकाल अपराध कर बाद एक दिन में अभिमुख होनेपर भी ‘शत्रुओं के विषय में भी वत्सल’, ‘स्वयं रावण हो तो भी’ ऐसा रहनेवाले ईश्वर के हृदय को देखने पर उस के स्वीकार करने में संशय नहीं है । उस सर्वेश्वर के ऐसा होनेपर भी अपने पूर्ववृत्त को जाने तो यह चेतन इस प्रपत्ति को अपराध जान क्षमापण कराना आवश्यक है ।
मूलम्
बहुकालमन्यपरा भार्या लज्जाभये त्यक्त्वा भर्तृसकाशे स्थित्वा मामंगीकुरुष्वेत्यपेक्षते चेद्यथा स्यात्तथा वर्तमानः कश्चन खल्वनेन क्रियमाणा प्रपत्तिः ॥ १५२ ॥
श्लोक
बहुकालान्यपरा स्त्री त्यक्त्वा लज्जां भयं तथा । भर्तुरंते स्थिता त्वं मे स्वीकुरुष्वेत्यपेक्षते ॥ चेद्यथा स्यात्तथा कश्चिद्वर्तमानः प्रकारकः । अनेन क्रियमाणा हि प्रपत्तिः कथिता खलु ॥ १५२ ॥
टीका संस्कृता
अनेन क्रियमाणा प्रपत्तिः स्ववृत्तानुसंधानेऽपराधकोटौ वर्तत इत्यमुमर्थं दृष्टांतमुखेन दर्शयत्युपरि-बहुकालमित्यादिना । बहुकालं भर्त्रा सह संबंधं त्यक्त्वा परपुरुषगामिनी तन्निग्रहपात्रं च काचन भार्या एतादृश्यहं तत्सन्निधौ निःसंकोचं गत्वा कथं तिष्ठामीति लज्जां, एतावत्कालं स्वस्य कृतान् सर्वान् व्यापारान् पश्यन् स्थितो भर्ताऽधुनाऽऽगत्याऽनिष्टानपेक्षते किलेति दंडयति चेत् किं करोमीति भयं च त्यक्त्वा ततो गत्वा स्थित्वा मामंगीकुरुष्वेत्यपेक्षते चेत् यावानपराधः, तथा वर्तमानः कश्चन खलु-भगवदनन्यार्हशेषभूतोऽनादिकालं तेन सह संबंधं विनाऽन्यपरतया स्थितेनानेन स्वपूर्ववृत्तानुसंधानेनागतां लज्जां, स्वतंत्रो दंडयति चेत् किं कर्तव्यमिति भयं च विना तत्संनिधौ गत्वा स्थित्वा मामंगीकुरुष्वेति क्रियमाणं शरणवरणमित्यर्थः ।
टीका हिन्द्या
दीर्घकाल अन्यपुरुष में आसक्त हो रहनेवाली भार्या लज्जा और भय दोनों को छोड भर्तृसमीप में आ ‘मुझ को अंगीकार करो’ ऐसी अपेक्षा करनेसे यथा अवद्यकर होता है वैसा चेतनकर्तृक प्रपत्ति अवद्यकर जानना ॥ १५२ ॥ चेतनकर्तृक प्रपत्ति स्वपूर्ववृत्त का अनुसंधान करनेपर अपराधकोटि में गिनी जाती है इस अर्थ को दृष्टांत द्वारा दिखाते हैं—दीर्घकाल इत्यादि । दीर्घकाल पति का संग छोड़ परपुरुषगामिनी हो भर्तृनिग्रह का पात्र हो संचार करनेवाली स्त्री ‘इस प्रकार मैं पतिसन्निधि में निडर हो कैसे जा सकती हूं’ इस प्रकार की लज्जा और ‘इतना काल हमारे कृत्य को देखते रहनेवाले भर्ता अब हम को इस प्रकार अपेक्षा करती है’ समझ दंड देंगे तो क्या होगा ऐसा डर भी छोड उन के सामने आकर खडी हो ‘मुझ को अंगीकार करो’ ऐसी अपेक्षा करने से जितना अपराध होगा उतना ही भगवदनन्यार्हशेषभूत यह चेतन अनादिकाल से परमात्मा का संबंध छोड अन्यपर हो संचार करनेवाला स्वपूर्ववृत्तानुसंधान से होनेवाली लज्जा और स्वतंत्र परमात्मा दंड देंगे तो क्या करेंगे ऐसा डर को भी छोड़ उन की सन्निधि में जा खडे हो ‘हम को अंगीकार करो’ ऐसा कह क्रियमाण प्रपत्ति से अपराध होगा ।
मूलम्
एवमेतावता स्वगतस्वीकारानुपायत्वं परगतस्वीकारोपायत्वं च प्रतिपादितम् । एतत्स्वीकारं दृष्ट्वा कृपां कृत्वाऽसावस्य परतंत्रो भवतीत्येतत्पारतंत्र्यात् स्वस्वातंत्र्येणागत्य परतंत्रो भवतीतीदं पारतंत्र्यं प्रबलमित्याह-कृपयेत्यादिना ।
मूलम्
कृपया आगतात् पारतंत्र्यात् स्वातंत्र्येणागतं पारतंत्र्यं प्रबलम् ॥ १५३॥
श्लोक
कृपया चागतात्पारतंत्र्यात्स्वातंत्र्यकेण वै । आगतं पारतंत्र्यं यत्प्रबलं तद्विदुर्बुधाः ॥ १५३ ॥
टीका संस्कृता
आपद्यशरणेषु स्वचरणयोः शरणीकृतेषु स्वस्य विद्यमानया कृपया तदुक्तं कर्तुमुपयुक्तं पारतंत्र्यं, पट्टाभिषिक्तहस्तीव राजेव च स्वनिरंकुशस्वातंत्र्येण निर्हेतुकं कांश्चनांगीकृत्य स्वस्य तदधीनत्वापादनं वेत्युभयमपीश्वरस्यास्ति, अत्र पूर्वं कासुचिद्दशासु स्वातंत्र्यनिरुद्धं सद्विफलं च भवेत्, चरमं त्वप्रतिहतमिति कदापि बाधो नास्ति । तस्मात्तदपेक्षया इदं प्रबलमित्यर्थः ।
टीका हिन्द्या
कृपा से होनेवाला पारतंत्र्य की अपेक्षा स्वातंत्र्य से होनेवाला पारतंत्र्य प्रबल है ॥ १५३ ॥ तथा च चेतन का स्वीकार उपाय नहीं परमात्मा का स्वीकार ही उपाय है ऐसा प्रतिपादन किया । अब चेतन के स्वीकार को देख दया कर सर्वेश्वर इस चेतन का परतंत्र होना और स्वातंत्र्य से आकर परतंत्र होना इन में स्वातंत्र्य से परतंत्र होना ही प्रबल है ऐसी बात को कहते हैं । पीडित हो अन्य उपाय न देख अपने चरणों में शरणागति करनेवालों के विषय में अपनी कृपा से उनके कहे प्रमाण करनेयोग्य परतंत्र होना, पट्टाभिषिक्त चढनेयोग्य हाथी और स्वतंत्र राजा ये दोनों जैसे अपने निरंकुशस्वातंत्र्य से निर्हेतुक किसी एक को अंगीकार कर उन के अधीन अपने को बनाना ये दोनों ईश्वर का स्वभाव है । इस में पहिले कहा हुआ पारतंत्र्य किसी एक समय में स्वातंत्र्य से रुका जाकर निष्फल भी होसक्ता है, पीछे कहा हुआ पारतंत्र्य विना रोक रहने से कभी निष्फल नहीं होता है । इस कारण उस से यह प्रबल है ।
मूलम्
अमुमर्थं वेदपुरुषोऽपेक्षितवान् ॥ १५४ ॥
श्लोक
अमुमर्थं च वेदश्चापेक्षितवान् स्वयं खलु ॥ १५४ ॥
टीका संस्कृता
अयमर्थो वेदाभिमत इत्याह-अमुमर्थमित्यादिना । अमुमर्थमिति-पूर्वप्रबलतयोक्तः परगतस्वीकार उच्यते । वेदपुरुषोऽमुमर्थमपेक्षितवानिति-‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥’ इति कठवल्लयां मुंडकोपनिषदि चोक्तत्वात्-आदृतवानित्यर्थः । असकृत्कीर्तनमपेक्षाकार्यं हि ।
टीका हिन्द्या
इस अर्थ को वेदपुरुष चाहता है ॥ १५४ ॥ यह अर्थ वेद का अभिमत है ऐसा कहते हैं—इस अर्थ को इत्यादि । इस अर्थ को-पूर्व में प्रबलतया उक्त परगतस्वीकार को । वेदपुरुष चाहता है माने-‘यह परमात्मा मनन से, ध्यान से, श्रवण से नहीं मिलते हैं । जिस चेतन को यह परमात्मा स्वीकार करता है उस से ही प्राप्त होनेयोग्य है, उस ही को यह परमात्मा अपना स्वरूप रूप गुण विभूतियों को विस्तार कर दिखाते हैं ।’ ऐसा कठवल्ली और मुंडकोपनिषद में कहा है, इस से वेदपुरुष चाहता है ऐसा कहे हैं । वारंवार कहना अपेक्षाकार्य है ।
मूलम्
अस्मिन्नपेक्षाभावेऽपि तद्विषयीकारं प्राप्ताः संति किमित्यत आह-अपेक्षानिरपेक्षमित्यादि ।
मूलम्
अपेक्षानिरपेक्षं मारुतेः श्रीगुहस्य चायं जातः ॥१५५॥
श्लोक
विनाऽपेक्षामयं जातो मारुतेः श्रीगुहस्य च ॥ १५५ ॥
टीका संस्कृता
स्वस्मिन्सर्वथाऽनिरपेक्षाभ्यां पंपातीरे गंगातीरे च स्वामिना स्वयमेवागत्यांगीकृताभ्यां श्रीमारुतिगुहयोरयं परगतस्वीकारो जात इत्यर्थः ।
टीका हिन्द्या
विना अपेक्षा मारुति और श्रीगुहदेव को यह अंगीकार हुआ है ॥ १५५ ॥ इस चेतन के अपेक्षा नहीं करनेपर भी परमात्मा को अपेक्षा करनेवाले हैं क्या ? ऐसी शंका में कहते हैं-अपेक्षा इत्यादि । अपने में सर्वथा अपेक्षा न होनेपर भी पंपातीर और गंगा के किनारे श्रीरामजी आप ही जाकर श्रीमारुति और श्रीगुहदेवजी को अंगीकार करनेसे यह परगतस्वीकार उन दोनों में देखा जाता है ।
मूलम्
एवं स्वतंत्रेण तयोरंगीकारसमये ‘तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।’ ‘सुंदरहरिणवद्भव्यनेत्रे त्वन्मित्रं त्वदनुजो मदनुज’ इति बालस्वामिनं जानकीं च पुरस्कृत्य यथांगीकृतवान्, तथान्यत्र च पुरुषकारं पुरस्कृत्यांगीकारस्थलं दृश्यते किमित्यत आह-अनेनेत्यादि ।
मूलम्
अनेन पुरस्क्रियमाणान् स पुरस्करोतीत्ययमर्थोऽभयप्रदाने च द्रष्टव्यः ॥ १५६ ॥
श्लोक
एतत्पुरस्कृतान् सोऽपि पुरस्करोति सर्वदा । द्रष्टव्योऽभयदानेऽयमर्थो रामायणेन हि ॥ १५६ ॥
टीका संस्कृता
अनेन चेतनेन स्वाश्रयणसमये पुरुषकारत्वेन पुरस्क्रियमाणान् सोऽप्यंगीकारसमये पुरस्करोतीत्ययमर्थः-मारुतेः श्रीगुहस्य वांगीकारस्थलयोर्मात्रं विना श्रीविभीषणस्यांगीकारस्थले च दृश्यत इत्यर्थः । तथाहि-‘सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ सर्वलोकशरण्याय राघवाय महात्मने । निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥’ इति स्थितस्य विभीषणस्याभयप्रदानपूर्वकमंगीकारस्थले-‘आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया । विभीषणो वा सुग्रीव ! यदि वा रावणः स्वयम् ॥’ इति वानराणां सर्वेषां मूलभूतं महाराजं पुरस्कृत्यांगीकृतः । मारुतेः श्रीविभीषणस्यांगीकारसमये जानक्याः सन्निहितत्वाभावेन तत्पुरस्करणस्याभानेऽपि जानकी लंकागमनसमये यत्र महाराजमारुती अतिष्ठतां तत्राभरणानि प्रक्षिप्य कटाक्षयित्वाऽगमत्, लंकाप्राप्त्यनंतरं श्रीविभीषणं स्वामिनश्चरणावाश्रयत्विति सा कटाक्षितवती । अतः स्वामी उभयोरप्यंगीकारस्थले जानकीं पुरस्कृत्यैवांगीचकारेत्यंगीकर्तव्यम् । परतंत्राया अस्या एतच्चित्तानुविधानं विना प्रत्येकमेकापि प्रवृत्तिर्न संभवति खलु, अत एव हि परगतस्वीकारकथनस्थले श्रीविभीषणस्वीकारं च सहापठत् ।
टीका हिन्द्या
यह चेतन जिस को आगे करता है उस ही को सर्वेश्वर भी आगे करते हैं यह अर्थ अभयप्रदान में देखसक्ते हैं ॥ १५६ ॥ इस प्रकार स्वतंत्र हो इन के अंगीकार करने के समय-‘हे लक्ष्मण सुग्रीव के मंत्री हनुमानजी से बातकरों’, ‘सुंदर मृगनयनी सीता तुमारी सखी है हमारा भ्राता तुम्हारा भ्राता है’ ऐसा लक्ष्मणसूरि और सीताजी को जैसा आगे किये हैं तैसा अन्यस्थल में भी पुरुषकार को आगे कर अंगीकृत चेतन को देखते हैं क्या ? इस शंका में कहते हैं-यह इत्यादि । यह चेतन आश्रयण करने के समय जिन को पुरुषकारतया आगे करता है उन ही को ईश्वर भी अंगीकार करनेके बखत आगे करते हैं यह अर्थ श्रीमारुति और श्रीगुहदेव इन दोनों के अंगीकार करनेके स्थल में मात्र विना श्रीविभीषणसूरि को अंगीकार करने के स्थल में भी देख सक्ते हैं । ‘मैं उस रावण से कठिनवचन कहा जाकर दास के तरह अपमानित हो पुत्रदाराओं को त्याग राघव के शरण में आया हूं ।’ ऐसा शरणागति कर, ‘सर्वलोकरक्षक महात्मा श्रीरामजी की संनिधि में उपस्थित हुआ मुझ विभीषण को निवेदन कीजिये ।’ ऐसा आकाश में स्थित श्रीविभीषणसूरि को अभयदानपूर्वक अंगीकार करने के समय में ‘हे सुग्रीव विभीषण हो या स्वयं रावण हो उसको मैं अभयदान दियाहूं इस लिये उस को हमारे पास ले आओ ।’ ऐसा समस्त वानरों के राजा सुग्रीव को आगेकर ही अंगीकार किये हैं । हनुमानजी और श्रीविभीषणसूरि को अंगीकार करनेके स्थल में सीताजी की सन्निधि न होने से उन की पुरुषकारपना नहीं दीखती तो भी सीताजी लंका को पधारने के समय सुग्रीव और हनुमानजी के वासस्थल में आभरणों को गिरा कटाक्षकर जानेसे, लंका में जाने के बाद श्रीविभीषणसूरि को श्रीरामजी के चरणों में शरण लेनेयोग्य कटाक्ष करनेसे, श्रीरामजी इन दोनों को अंगीकार करनेके समय सीताजी को आगे कर ही अंगीकार किये हैं ऐसा मानना चाहिये । परतंत्रभूता सीताजी को श्रीरामजी की इच्छा के व्यतिरिक्त इच्छा नहीं हो सक्ती है । इस कारण ही परगतस्वीकार कहने के समय श्रीविभीषण के अंगीकार को भी लोकाचार्यस्वामीजी साथ ही पठन किये हैं ।
मूलम्
उभावपि पुरस्कुरुतः स्वस्वापराधं शमयितुम् ॥ १५७॥
श्लोक
स्वस्वापराधनाशाय द्वौ पुरस्कुरुतः खलु ॥ १५७ ॥
टीका संस्कृता
अस्य निरुपाधिकशेषभूतत्वेन तस्य निरुपाधिकशेषित्वेन चाऽव्यवधानेनाश्रयणांगीकारयोः संभवतोरेवमुभाभ्यामपि पुरस्कारस्य पुरस्करणं किमर्थमित्यत आह-उभावपीत्यादि । चेतनस्यापराधो नाम-अनादिकालं तस्माद्विमुखेनान्यविषये प्रवणेन तदाज्ञातिलंघनं कृत्वा राशीकृतोऽपराधः । ईश्वरस्यापराधो नाम-अवर्जनीयसंबंधे सत्यप्यपराधमेव गणयित्वाऽनादिकालममुं दूरीकृत्य स्थितिः । अस्य स्वापराधशमनं नाम-अमुं दृष्ट्वा ईश्वरो यथा न क्रुध्येत् तथा करणम् । तस्य स्वापराधशमनं नाम-अमुं स्मृत्वा चेतनो यथा न बिभीयात्तथा करणम् ।
टीका हिन्द्या
ये दोनों अपने अपने अपराधों को क्षमा कराने के लिये आगे करते हैं ॥ १५७॥ इस चेतन के निरुपाधिकशेषभूत होने से और सर्वेश्वर के निरुपाधिकशेषी होनेसे साक्षात् आश्रयण करने और अंगीकार करने की योग्यता होनेपर भी इस प्रकार ये दोनों पुरुषकार को क्यों आगे करते हैं इस शंका में कहते हैं—ये दोनों इत्यादि । चेतन का अपराध माने-अनादिकाल से परमात्मा के विमुख हो अन्यविषयप्रवण हो उस की आज्ञा को उल्लंघन कर संचय किया हुआ अपराध । ईश्वर का अपराध माने-अवर्जनीय संबंध के होनेपर भी अपराध ही को गिनंकर अनादिकाल से इस चेतन को अपने से अलग रखना । चेतन का अपने अपराध को क्षमाकराना माने-इस अपराध को देख यथा ईश्वर क्रुद्ध न हो तथा बनाना । ईश्वर का अपने अपराध को क्षमा कराना माने-इस क्रोध को स्मरण कर चेतन जैसा न डरे वैसा करना ।
मूलम्
स्वरूपसिद्धिश्चानेन ॥ १५८ ॥
श्लोक
स्वरूपसिद्धिश्चानेनोभयोरपि प्रकीर्तिता ॥ १५८ ॥
टीका संस्कृता
तावदेव नान्यच्चास्य प्रयोजनमस्तीत्याह-स्वरूपेत्यादिना । स्वरूपं चास्य तदीयपारतंत्र्यं तस्याश्रितपारतंत्र्यम् । ‘देवत्वं स्वात्मानं च’ इति-आश्रितपारतंत्र्यं खल्वस्य स्वासाधारणस्वभावत्वेन सूरिभिरवोचत् । सिध्यति-पुरुषकारपुरस्करणेनेत्यर्थः ।
टीका हिन्द्या
स्वरूप की सिद्धि भी उस से ही है ॥ १५८ ॥ इतना ही नहीं और भी इस पुरुषकार का एक प्रयोजन है, ऐसा कहते हैं-स्वरूप इत्यादि । स्वरूप माने-इस चेतन का तदीयपारतंत्र्य, और ईश्वर का स्वरूप आश्रितपारतंत्र्य । ‘देवत्व और अपनी स्वभाव को’ ऐसा आश्रितपारतंत्र्य को ही उस का असाधारण स्वरूप कहा है । ये दोनों चेतन और ईश्वर के पुरुषकार को आगे करने से सिद्ध होते हैं ।
मूलम्
इदं चौपाधिकं नित्यं पारतंत्र्यमुभयोरप्यस्ति हि ॥ १५९ ॥
श्लोक
इदं चौपाधिकं नित्यं पारतंत्र्यं द्वयेऽस्ति हि ॥ १५९ ॥
टीका संस्कृता
पूर्वस्वरूपेत्युक्तमुपपादयति-औपाधिकमित्यादिना । चेतनस्यास्मिन् विषये पारतंत्र्यं तदीयत्वप्रयुक्तत्वेनोपाधिकं, तस्योपाधेर्नित्यत्वेन निरुपाधिकभगवत्पारतंत्र्यवन्नित्यं च भवति । ईश्वरस्यास्मिन् विषये पारतंत्र्यं-आश्रितत्वप्रयुक्तत्वेनोपाधिकं, उपाधेर्नित्यत्वेन स्वयं नित्यं च भवतीत्यर्थः । उभयोरप्यस्तीत्यनुक्त्वाऽस्ति हीत्युक्तं-अस्मिन्नर्थे प्रमाणप्रसिद्धिं ज्ञापनार्थम् ।
टीका हिन्द्या
औपाधिक और नित्यभूत ये दोनों पारतंत्र्य इन दोनो को हैं ॥ १५९ ॥ ऊपर कहा हुआ स्वरूप का उपपादन करते हैं-औपाधिक इत्यादि । चेतन का लक्ष्मीजी के विषय में पारतंत्र्य भगवच्छेषत्वप्रयुक्त होनेसे औपाधिक हो, उस उपाधि के नित्यहोनेसे निरुपाधिकभगवत्पारतंत्र्य के तरह नित्य भी होता है । ईश्वर को लक्ष्मी के विषय में पारतंत्र्य आश्रितत्वप्रयुक्त होने से औपाधिक हो, उस उपाधि के नित्य होनेसे नित्य भी होता है । ही कहने से इस अर्थ में प्रमाण की प्रसिद्धि दिखाते हैं ।
मूलम्
अनित्यस्य पारतंत्र्यस्य नाशोऽनेन ॥ १६० ॥
श्लोक
अनित्यपारतंत्र्यस्य नाशोऽनेन प्रकीर्तितः ॥ १६० ॥
टीका संस्कृता
एतावदेव न, अन्यच्चैकं प्रयोजनमस्तीत्याह-अनित्यस्येत्यादिना । अनित्यं पारतंत्र्यं नाम-कर्मपारतंत्र्यम् । तत्र चेतनस्य कर्मपारतंत्र्यं-अवश्यानुभोक्तव्यशुभाशुभकर्मणां विषये [[आकृष्यमाणतया]] संसरणम् । ईश्वरस्य कर्मपारतंत्र्यं-स्वकृतकर्म स्वयमनुभवति चेदहं किं करोमीत्येतत्कृतं कर्म प्रधानं कृत्वा तदनुरूपं निर्वहणम् । अस्य सद्भावः ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इत्युक्तिपर्यंतं, अत इदमनित्यमित्युच्यते । अस्य पुरुषकारपुरस्करणेन नाशो नाम-अनेन पुरस्करणसमये तं वशीकृत्य तेन पुरस्करणसमये इमं वशीकृत्य चोभावपि रक्ष्यरक्षकभावेन यथा युक्तौ भवतस्तथाकरणादनयोः स्वत एव निवृत्तिः ।
टीका हिन्द्या
अनित्यभूत इन दोनों का पारतंत्र्य पुरुषकार से ही नष्ट होता है ॥ १६० ॥ इतना ही नहीं और भी इस का एक प्रयोजन है ऐसा कहते हैं—अनित्य इत्यादि । अनित्यपारतंत्र्य माने-कर्मपारतंत्र्य । उस में चेतन का पारतंत्र्य माने-अवश्य अनुभव्यशुभाशुभकर्मों के वश में खींचा जाकर संसारी होना । ईश्वर का कर्मपारतंत्र्य माने-‘अपने किये हुए कर्म को आप भोगता है तो हम क्या करेंगे’ ऐसा चेतनकर्तृक कर्म को प्रधान समझ उस के अनुगुण निर्वाह करना । यह ‘सर्वपापों से छुडाऊंगा’ इत्युक्तिपर्यंत रहनेसे इस को अनित्य कहते हैं । ये दोनों पुरुषकार को आगे करनेसे नष्ट होते हैं माने-चेतन के पुरुषकार को आगे करनेपर ईश्वर को शोधन करती है, ईश्वर के पुरुषकार को आगे करनेपर चेतन को शोधन करती है । दोनों को रक्ष्यरक्षक संबंध से मिलानेपर दोनों का कर्मपारतंत्र्य नष्ट होता है ।
मूलम्
अनादिकालं स्वतंत्र इति विलंघ्य व्यावृत्तः संचरमाणोऽयमद्य खल्वाभिमुख्यमकरोत् । प्रकृत्या सह स्थितत्वादुर्वासनाधिक्येनाश्रयणांगीकाराभ्यामुद्भूतममुं रक्ष्यरक्षकसंबंधं दूरीकृत्य पूर्ववदेव वर्तते चेत्, निरंकुशस्वतंत्रः कर्मानुगुणममुमस्मिन्ननादिकालं विनियोक्तेश्वरः स्वयममुं संबंधं दूरीकृत्य पूर्ववदस्य कर्मानुगुणं निर्वहति चेत्किं स्यादित्यत आह-ससाक्षिकत्वादित्यादि ।
मूलम्
ससाक्षिकत्वादयं संबंध उभाभ्यामपि दूरीकर्तुं न शक्यते ॥ १६१ ॥
श्लोक
उभाभ्यामपि संबंधो ह्ययं त्यक्तुं न शक्यते । ससाक्षिकत्वहेतोस्तु मां त्यजत्यपि सर्वदा ॥ १६१ ॥
टीका संस्कृता
अस्य रक्ष्यरक्षकभावसंबंधस्योभाभ्यां ज्ञातत्वमात्रेण विना पुरुषकाररूपसाक्षिमत्वेनागतत्वादित्ययमुभाभ्यामपि नाशयितुं न शक्यत इत्यर्थः ।
टीका हिन्द्या
साक्षी सहित होने से इस संबंध को दोनों नाश नहीं करसक्ते ॥ १६१ ॥ अनादिकाल से स्वतंत्र हो किसी एक को अवलंबन कर भगवान से अलग हो संचार करनेवाला यह चेतन आज ही अभिमुख हुआ, प्रकृति के साथ रहनेसे दुर्वासना बढ आश्रयण और अंगीकारों से उत्पन्न हुआ इस रक्ष्यरक्षक संबंध को नहीं कर प्राचीनरीति से स्वतंत्र होनेको देखना, निरंकुश स्वतंत्र कर्मानुगुण इस चेतन को लीला में अनादिकाल विनियोग करते हुए संचार करनेवाले सर्वेश्वर इस संबंध को नहीं मान पूर्ववत् इस चेतन के कर्मानुगुण निर्वाह करनेको देखे तो क्या कियाजाय ? इस शंका में कहते हैं-साक्षी सहित इत्यादि । यह रक्ष्यरक्षक संबंध इन दोनों मात्र जाना हुआ न होकर पुरुषकाररूप साक्षी सहित होनेसे इस संबंध को दोनों नहीं नाश कर सक्ते हैं ।
मूलम्
‘मां त्यजत्यपि’ ‘सुंदरपुष्पवासिन्याः स्नेहरूपः’ ॥ १६२॥
श्लोक
रम्यपुष्पनिवासिन्यां स्नेहरूपः प्रकीर्तितः ॥ १६२ ॥
टीका संस्कृता
अस्य प्रमाणं दर्शयति-मामित्यादिना । नप्पिन्ने (नीलादेवी) पुरुषकारपूर्वकं नित्यसूरीणां मध्ये मामंगीकृत्यानंतरं सर्वशक्तिः स्वयमपि न त्यजतीत्युक्तत्वात् ‘मां त्यजत्यपि’ इति गाथा तेनाऽयं संबंधो दूरीकर्तुं न शक्यते इत्यत्र प्रमाणम् । महालक्ष्म्याः स्नेहपात्रत्वात् तत्परिग्रहे मय्यतिस्नेही सन् दुष्करं कृत्व्यागत्य [[नया|मया]] संश्लिष्यंतं त्वां प्राप्याथ त्यजामि किमित्युक्तत्वात्-‘सुंदरपुष्प’ इत्यदि गाथा पुरुषकारस्य पुरतः आगतोऽयं संबंधश्चेतनेनापि दूरीकर्तुं न शक्यत इत्यस्य प्रमाणम् ।
टीका हिन्द्या
‘हम को छोडनेपर भी’, ‘सुंदरपुष्पपुत्री के प्रिय’ ॥ १६२ ॥ इस को आगे प्रमाण दिखाते हैं-हम को इत्यादि । नीलादेवी के पुरुषकार से नित्यसूरियों के बीच में हम को अंगीकार करने पर सर्वशक्ति आप भी नहीं छोड़ सक्ते हैं, ऐसा कहने से ‘हम को छोडनेपर भी’ इस गाथा को परमात्मा से यह बंध नहीं नाश किया जायगा इस का प्रमाण समझना । लक्ष्मी को प्रिय होने से उन के दास हमारे विषय में अतिस्नेह कर दुष्कर कृत्यों को करनेसे हमारे साथ मिलनेवाले आप को प्राप्त हुए बाद छोड सक्ता हूं क्या ? ऐसा कहने से ‘सुंदरपुष्पपुत्री के प्रिय’ इस गाथा को पुरुषकार के पुरस्कार से होनेवाले इस संबंध को ‘चेतन भी नहीं नाश कर सका’, इस में प्रमाण समझना ।
मूलम्
ससाक्षिको बंधो दूरीकर्तुं न शक्यत इत्युक्तिः-साक्षिभूतपुरुषकारविषये उभयोर्विद्यमाननित्यपारतंत्र्यप्रयुक्तत्वात्, उभयोरेतद्विषये विद्यमाननित्यपारतंत्र्ये प्रमाणं दर्शयति-कर्मणीत्यादिना ।
मूलम्
कर्मणि व्युत्पत्तौ स्वरूपगुणप्रयुक्तं कर्तुः संकोचराहित्यं स्मर्तव्यम् ॥ १६३ ॥
श्लोक
स्वरूपगुणयुक्तं च श्रीयत इति कर्मणि । कर्तुः संकोचराहित्यं व्युत्पत्तौ स्मरणं विदुः ॥ १६३ ॥
टीका संस्कृता
कर्मणि व्युत्पत्तिर्हि ‘श्रीञ् सेवायाम्’ इति धातोः ‘श्रीयते’ इति व्युत्पत्तिः । सेव्यत इत्यर्थः । अस्यां व्युत्पत्तौ स्वरूपगुणप्रयुक्तं कर्तुः संकोचराहित्यं नाम-शेषत्वरूपस्वरूपेण प्रणयित्वरूपगुणेन चागतः चेतनपरमचेतनरूपसेवाकर्त्रोः संकोचाभावः । स च उभयोरेतद्विषये विद्यमानायाः सेवाया अविच्छिन्नत्वम् । इदं स्मर्तव्यमिति-एवमेतद्विषये उभयोर्विद्यमानं पारतंत्र्यं स्मर्तव्यमित्यर्थः ।
टीका हिन्द्या
कर्मणिव्युत्पत्ति में स्वरूपगुणों से होनेवाले कर्तृसंकोचाभाव को स्मरण करना ॥ १६३ ॥ ‘साक्षीसहित होनेवाले इस संबंध को नहीं नाश करसक्ते’ यह साक्षीभूत पुरुषकारविषय में दोनों के नित्यपारतंत्र्य को अवलंबन करनेसे दोनों के इस विषय में नित्यपारतंत्र्य का प्रमाण दिखाते हैं-कर्मणि इत्यादि । कर्मणिव्युत्पत्ति माने-‘श्रीञ् सेवायाम्’ इस धातु में ‘श्रीयते’ यह व्युत्पत्ति है । इस का अर्थ ‘सेवा की जाती है’ । इस व्युत्पत्ति में ‘स्वरूपगुणों से होनेवाले कर्तृसंकोचाभाव’ माने-शेषत्वरूप स्वरूप से, प्रणयित्वरूप गुण से होनेवाले चेतनपरमचेतनभूत सेवाकर्ताओं के संकोचाभाव । तथाच दोनों की लक्ष्मीजी के विषय में सेवा अविच्छिन्न होती है । इस को स्मरण करना माने-लक्ष्मीजी के विषय में चेतन और ईश्वर के विद्यमान पारतंत्र्य को स्मरण करना ।
मूलम्
अधिकारित्रयस्यापि पुरुषकारोऽवर्जनीयः ॥ १६४ ॥
श्लोक
अवर्जनीयकार्यः पुरुषकारोऽयमधिकारित्रयस्य हि ॥ १६४ ॥
टीका संस्कृता
एवं स्थितत्वादयं पुरुषकारः प्रपत्त्यधिकारिणां सर्वेषामपेक्षित इत्याह-अधिकारीत्यादिना । अधिकारित्रयं च-‘अज्ञा ज्ञानाधिका भक्तिपरवशाश्च’ इत्युक्तास्त्रयोऽधिकारिणः । एतेषां पुरुषकारोऽवर्जनीय इति-अपराधशमनप्रभृतेः पुरुषकाराधीनत्वात्तस्य त्रयोऽप्यपेक्षितत्वात् सर्वथा त्यक्तुं न शक्यत इत्यर्थः । अथवा अयं पुरुषकारोऽनन्यप्रयोजनत्वेन प्रपत्तिं कुर्वतामेव वा प्रयोजनांतरपरत्वेन कुर्वाणानामप्यपेक्षितो वेत्यत आह-अधिकारीत्यादि । अधिकारित्रयमिति-ऐश्वर्यकैवल्यभगवच्चरणार्थिनः । एतेषां त्रयाणां पुरुषकारोऽवर्जनीय इति-स्वस्वाभिलषितसिद्धिं प्रतीश्वरस्योपायत्वेन स्वीकारसमये एतेषामपराधं क्षमित्वा स यथाऽङ्गीकुर्यात् तथा कर्तुं पुरुषकारोऽवश्यापेक्षित इत्यर्थः । पूर्ववाक्ये पुरुषकारपूर्वकोपायवरणस्य प्रयोजनांतरपराणामपि साधारणत्वादुत्तरवाक्येनानन्यप्रयोजनताप्रकाशनमावश्यकम् । ‘पूर्ववाक्ये प्रतिपादितः साधनविशेषः फलचतुष्टयसाधारणः खलु वर्तते, तत्रास्याधिकारिणोऽभिलषितः फलविशेषोऽयमिति प्रकाशयतीदं वाक्यम्’ इति परंदपडिरहस्ये, ‘पूर्ववाक्येनोक्तसाधनस्य फलचतुष्टयसाधारणत्वात्तन्मध्येऽस्यापेक्षितफलविशेष उच्यते’ इति श्रियःपतिपडिप्रबंधे, ‘उत्तरवाक्येन प्राप्यमुच्यते प्राप्यांतराय न भवति’ इत्यादिना मुमुक्षुपडिप्रबंधे चायं स्वयमेवावोचत् खलु । ‘लक्ष्मीव्यामोहशालिनं प्रत्यंजलिं कुर्वतः’, ‘दासजनसंबंधविघटकश्रियःपतिः’ इत्युक्तप्रकारेण पुरुषकारपूर्वकमाश्रित्य प्रयोजनांतरमादाय निवृत्तिं विना तत् त्यक्त्वा ‘उज्ज्वलामलहस्तवलयया श्रिया त्वयि च’ इत्युक्तमिथुने कैंकर्यं फलमिति पूर्वोकोपायफलं प्रदर्शयत्यनंतरभागेनेति ह्यस्यानुजोऽपि अरुलिच्चेयल् रहस्येऽवोचत् । एवमयं तमित्यारभ्यैतावता स्वगतस्वीकारानुपायत्वं, परगतस्वीकारोपायत्वं तत्प्राबल्यं तेनैव स्वीकारसमयेऽपि पुरुषकारपूर्वकमेव स्वीकारप्रकारः, उभाभ्यामपि पुरुषकारस्य पुरस्करणप्रयोजनं, प्रपत्त्यधिकारिणां सर्वेषामपि पुरुषकारोऽवर्जनीय इत्यर्थश्चोक्तः ।
टीका हिन्द्या
तीनों अधिकारियों को भी पुरुषकार अवर्जनीय है ॥ १६४ ॥ ऐसा होनेसे प्रपत्ति के सब अधिकारियों को यह पुरुषकार अवश्यापेक्षित है ऐसा कहते हैं-तीनों अधिकारियों को इत्यादि । तीनों अधिकारी माने-अज्ञ, ज्ञानाधिक्य और भक्तिपरवश इन को । पुरुषकार अवर्जनीय माने-अपराध को क्षमा कराकर भगवत्संबध मिलाने से पुरुषकार का संबंध अपेक्षित होनेसे सर्वथा छोड नहीं सक्ते । अथवा यह पुरुषकार अनन्यप्रयोजन हो प्रपत्ति करनेवालों को चाहिये या प्रयोजनांतरपर हो प्रपत्ति करनेवालों को चाहिये ऐसा पूछने पर कहते हैं-तीनों अधिकारी माने-ऐश्वर्य, कैवल्य और भगवत्प्राप्तिकामनावाले । इन तीनों को भी पुरुषकार अवर्जनीय माने-स्वस्वाभिलषितसिद्धि के लिये ईश्वर को उपायतया आश्रयण करने के समय इन के अपराधों को क्षमाकर उनके अंगीकार करने के योग्य बनाने के लिये पुरुषकार अवश्य अपेक्षित है । पूर्ववाक्य में पुरुषकाराश्रयणपूर्वक उपायस्वीकार प्रयोजनांतरपरों को भी समान होनेसे उत्तरवाक्य से अनन्यप्रयोजनता को प्रकाश करनेकी आवश्यकता हुई । ‘पूर्ववाक्य में प्रतिपादित साधन फलचतुष्टय का साधारण ही है, उस में इस अधिकारी का अभिलषित फलविशेष अमुक है ऐसा उत्तरवाक्य प्रकट करता है’ ऐसा परंदपडिरहस्य में, ‘पूर्वोक्तसाधन फलचतुष्टय का भी साधारण होनेसे इस का अपेक्षित फलविशेष को उत्तरवाक्य कहता है’ ऐसा श्रियःपतिपडिरहस्य में, ‘उत्तरवाक्य से फल कहा जाता है, फलांतर के लिये नहीं ऐसा अर्थ होता है’ इत्यादि से मुमुक्षुपडि में भी यह श्रीलोकाचार्यस्वामीजी ही कहे हैं । ‘श्रियःपति को हाथ जोडनेवाले’, ‘दासों के प्रकृतिसंबंध को छुडानेवाले श्रियःपति’ इन वचनानुसार पुरुषकार को सामने कर आश्रयण कर प्रयोजनों को ले नहीं छूट उन प्रयोजनों को छोड ‘सुंदर आभरणवाली श्रीदेवी और वह’ इन दोनों के संग रहनेपर कैंकर्य करना फल है, ऐसा पूर्वोक्तउपायफल को उत्तरभाग दिखाता है’ ऐसा इन के कनिष्ठभ्राता अरुलिच्चेयल्-रहस्यग्रंथ में कहे हैं । तथा च ‘चेतन ईश्वर को’ ऐसा आरंभकर यहां तक स्वगतस्वीकार उपाय नहीं, परगतस्वीकार ही उपाय है, और वही प्रबल है, परमात्मा स्वीकार करनेपर भी पुरुषकार को आगे कर ही स्वीकार करते हैं, चेतन और ईश्वर दोनों पुरुषकार को आगे करनेसे प्रयोजन अमुक है, प्रपत्ति के समस्त अधिकारियों को पुरुषकार की अत्यावश्यकता आदि कहेगये हैं ।
मूलम्
प्रथमप्रकरणे पुरुषकारवैभवकथनमुखेन श्रीमत्पदार्थस्य, उपायवैभवकथनमुखेन नारायणचरणौ शरणमिति पदानामर्थानां च प्रतिपादनानंतरं ‘प्रपत्तेर्देशनियमः’ इत्यारभ्य ‘प्रपद्ये’ इति पदेनोक्तायाः प्रपत्तेर्देशादिनियमाभावस्य, तस्या विषयं नियमं वक्तुं ‘गुणपूर्तिमत एव विषयत्वं’ इत्यारभ्य मुक्तकंठं पुनश्च नारायणपदार्थस्य, ‘अत्र प्रपत्तिकर्तारोऽधिकारिणस्त्रयः’ इत्युत्तमपुरुषेणोक्ताधिकारिणं, प्रपत्तौ साधनत्वाभावस्य, प्रपत्त्यधिकारापेक्षितशक्तलज्जायत्ननिवृत्तिशमदमातिशयप्रभृतेः, प्रपत्त्यंगतया त्याज्योपायांतरस्य विद्यमानदोषभूयस्त्वस्य, तत्प्रतिकोटितया प्रपत्तेर्नेर्दोष्यादीनां, प्रपत्तिप्रसंगे मुखभेदेन स्वगतस्वीकारानुपायत्वस्य, परगतस्वीकारोपायत्वस्य तत्प्राबल्यस्य तेन स्वीकारसमयेऽपि पुरुषकारं पुरस्कृत्यैव स्वीक्रियत इत्यर्थस्य, उभाभ्यामपि पुरुषकारस्य पुरस्करणस्य विद्यमानानां प्रयोजनविशेषाणां, अधिकारित्रयस्यापि पुरुषकारावर्जनीयत्वस्य च प्रतिपादनात् एतावता पूर्वखंडार्थमेवावोचत् । एतत्प्रकरणादौ ‘उपेयस्य’ इत्यारभ्योपेयाधिकाराणां केषांचिदुक्तत्वेऽपि तत्प्रासंगिकम् ।
टीका हिन्द्या
प्रथमप्रकरण में पुरुषकारवैभवकथनद्वारा ‘श्रीमत्’ पदार्थ, उपायवैभवकथनद्वारा ‘नारायणचरणौ शरणं’ इन पदों के अर्थों को भी प्रतिपादन करने के बाद ‘प्रपत्ति का देशनियम’ ऐसा आरंभकर ‘प्रपद्ये’ इस पदसे कहे जानेवाली प्रपत्ति के देशकालादिनियमाभाव, उस का विषयनियम कहने के लिये ‘गुणपूर्तिवाले ही विषय हैं’ ऐसा प्रारंभकर मुक्तकंठ फिर भी नारायणपदार्थ, ‘इस में प्रपत्ति करनेवाले अधिकारी तीन’ ऐसा उत्तम पुरुष से भान होनेवाला अधिकारी, प्रपत्ति को साधन नहीं समझना, प्रपत्त्यधिकारोपेक्षित शक्तिलज्जायत्नों के त्याग, शमदमातिशय प्रभृति, प्रपत्त्यंगतया त्याज्यउपायांतर का दोषाधिक्य, तत्प्रतिकोटि होने से प्रपत्ति की निर्दोषता, प्रपत्तिप्रसंग से दूसरे प्रकार से स्वगतस्वीकार का उपायत्वाभाव, परगतस्वीकार का उपायत्व, उस की प्रबलता वही स्वीकार करनेपर भी पुरुषकार को आगे कर ही स्वीकार करनेका प्रकार, दोनों के पुरुषकार को आगे करने से होनेवाले प्रयोजन, तीनों अधिकारी को पुरुषकार की अवश्यापेक्षा इत्यादि को प्रतिपादन करने से यहां तक पूर्वखंडार्थ को कहे हैं समझना । इस प्रकरण आदि में ‘उपेय को’ ऐसा आरंभ कर कई उपेयाधिकार कहे गये हैं तो भी वह प्रासंगिक हैं ऐसा समझना ।
मूलम्
अथोपेयाधिकारप्रकरणविशेषेणोत्तरखंडार्थ उच्यते । तत्र च भाष्यकारैर्गद्य उत्तरखंडार्थस्यानुसंधानक्रमेण नमःशब्दार्थपूर्वकमुच्यते । तत्रास्य नमसः प्राप्यविरोधिनिवृत्तिप्रतिपादकत्वात् प्राप्यविरोधिनो दर्शयितुं विचार्य प्रथमं तेष्वेकमह-स्वस्य स्वेनेत्यादिना ।
टीका हिन्द्या
अब उपेयाधिकार को प्रतिपादन करनेवाले शेषप्रकरण से उत्तरखंडार्थ को कहते हैं, उस में भाष्यकार शरणागतिगद्य में उत्तरखंडार्थ को अनुसंधान करने के क्रम से नमःशब्दार्थपूर्वक कहते हैं । उस में यह नमःशब्द प्राप्यविरोधि के निवृत्ति को प्रतिपादन करनेसे प्राप्यविरोधियों को दिखाने के लिये उद्देश कर पहिले उन में एक को कहते हैं-अपने को आप इत्यादि ।
मूलम्
स्वस्य स्वेन मृग्यमाणो गुणो दोषवत् प्रतिबंधको भवति ॥ १६५ ॥
श्लोक
स्वस्य स्वेन मृग्यमाणो गुणो दोषविवर्धकः ॥ १६५॥
टीका संस्कृता
पूर्व ‘भरतस्य समीचीनमेवासमीचीनं जातं’ इति स्वगतप्रपत्तिः शरण्यहृदयानुसारित्वाभावे दोषरूपा भवतीत्युक्त्वा, उपायदशायां ‘स्वस्य स्वेन मृग्यमाणो गुणो दोषो भवति’ इत्युक्तत्वात् तत्प्रसंगे उपेयदशायां च ‘स्वस्य स्वेन मृग्यमाणो गुणो दोषो भवति’ इत्याहेति पूर्वप्रथेनास्य संगतिः । स्वस्येत्यादि-शेषिणि भोगदशायां स्वव्यामोहेन ‘कस्यात्मना प्राप्ता मदात्मना प्राप्ता’ इति वदति यथा तथा स्वविस्मृत्याश्रयं स्थित्वा विनियोगं कुर्वाणे-‘अहं शेषभूतः खलु स्वशेषत्वं न रक्षणीयं किं’ इति स्वनैच्यानुसंधानेन निवृत्त्य स्वस्य स्वेन मृग्यमाणः शेषत्वरूपो गुणोऽनादिकालं ‘स्वतंत्रोऽहम्’ इति स्थितदोष इव तद्भोगस्य प्रतिबंधको भवतीत्यर्थः । दोषोऽकृत्यकरणादिवत् ।
टीका हिन्द्या
अपने को आप से अन्वेषण कियेजानेवाले पुण्य, पाप के तरह प्रतिबंधक होता है ॥ १६५ ॥ पहिले ‘श्रीभरतसूरि का पुण्य ही पाप हुआ है’ ऐसा चेतनकर्तृक प्रपत्ति शरण्यहृदय के अनुसार न होनेपर पाप होगी ऐसा कहने से उपायदशा में ‘अपने को अपने से कियेजानेवाले पुण्य पाप होगा’ इस अर्थ को कह इस के प्रसंग में उपेयदशा में आप अपने से अन्वेषण कियेजानेवाले पुण्य पाप होगा इस अर्थ को कहते हैं-ऐसा पूर्वोक्त के साथ इस की संगति समझना । शेषी परमात्मा भोगदशा में अपने व्यामोह से ‘किस का आत्मा पाया है हमारे आत्मा पाया हुआ को’ ऐसा चेतन के विषय में अत्यंतनैच्य से विनियोग करनेपर ‘हम शेषभूत हैं हमारे शेषत्वस्वरूप को रक्षा करलेनी चाहिये’ ऐसा स्वनैच्यानुसंधान से पीछे हटकर अपने को आप से ढूंढेजानेवाले पुण्य, अनादिकाल में ‘स्वतंत्र हूं’ ऐसा समझनेपर जितना पाप है उतना ही ईश्वर के भोग का प्रतिबंधक होने से पाप होता है । पाप माने-अकृत्यकरणादि को समझना ।
मूलम्
सौंदर्यायार्पितः कंचुको यथाऽऽलिंगनस्य विरोधी ॥ १६६ ॥
श्लोक
यथालिंगनविरोधी स्यात्सौंदर्यार्पितकंचुकः ॥ १६६ ॥
टीका संस्कृता
शेषिण आदरस्य निदानमात्मनोऽलंकारः शेषत्वं भोगविरोधि कथं भवतीत्यत आह-सौंदर्यायेत्यादिना । स्त्रीभिः सौंदर्यायार्पितः कंचुको नायकस्य प्रीतिविषयः सन् तस्या अलंकारोऽपि भोगदशायां यथाऽऽलिंगनविरोधी भवति तथेदपि विरोधि भवतीत्यर्थः ।
टीका हिन्द्या
अलंकार के लिये धारण कियाहुआ कंचुक आलिंगन का विरोधी होता है ॥ १६६ ॥ शेषी के आदरण के उपयुक्त आत्मा का अलंकारभूत शेषत्व भोगविरोधि कैसा होता है ? इस शंका में कहते हैं-अलंकार के इत्यादि । स्त्री अलंकार के लिये धारण कियाहुआ कंचुक पति के संतोषजनक हो स्त्री का अलंकार होता है तो भी भोगदशा में जैसा आलिंगन का विरोधी होता है तैसा यह शेषत्व भी ईश्वर के भोग का विरोधी होता है ।
मूलम्
‘हारोऽपि’ ॥ १६७॥
श्लोक
हारोपीति प्रमाणं तज्जानकीरघुनाथयोः ॥ १६७ ॥
टीका संस्कृता
सौंदर्यस्य निदानमनुभवविरोधि स्यादित्यर्थं शेषिवचनेन दर्शयति-हारोपीत्यनेन । ‘हारोऽपि नार्पितः कंठे स्पर्शसंरोधभीरुणा । आवयोरंतरे जाताः पर्वताः सरितो द्रुमाः ॥’ इति संश्लेषदशायां स्पर्शविरोधि स्यादिति भयेन जानकीकंठे एकं मुक्ताहारमपि न धृतवतीत्यवोचत् खलु स्वामी । भीरुणेत्यत्र लिंगव्यत्यय आर्षः । अथवा सौंदर्यायार्पित आलिंगनस्य विरोधीत्यत्रैव ज्ञापकत्वेन प्रयोजनं कृत्वा लिंगानुगुणं स्वामिविषये वा योजनीयम् ।
टीका हिन्द्या
‘हार भी’ ॥ १६७ ॥ सौंदर्य के उपयुक्त अनुभव का विरोधी होता है इस अर्थ को शेषिवचन से दिखाते हैं-हार भी इत्यादि । ‘स्पर्श को रोकने के भय से हार भी कंठ में नहीं अर्पण कियागया । इन हम दोनों के बीच में पर्वत नदी और वृक्ष हुए हैं ।’ ऐसा संश्लेषदशा में स्पर्शविरोधि समझ डर से श्रीसीताजी अपने कंठ में एक मुक्ताहार भी नहीं धारण करती हैं, ऐसा श्रीरामजी की उक्ति है । भीरुणा ऐसा पुल्लिंगता आर्ष समझना, यद्वा सौंदर्य के लिये धारण कियेजानेवाले आलिंगन का विरोधी होता है इस अर्थ को जनानेके लिये पुल्लिंगानुगुण श्रीरामजी के पक्ष में योजना करलेना ।
मूलम्
पुण्यमिव पारतंत्र्यमपि परानुभवस्य विरोधि स्यात् ॥ १६८ ॥
श्लोक
सुकृतवद्विरोधी हि पारतंत्र्यमपि स्मृतम् ॥ १६८ ॥
टीका संस्कृता
तर्हि पारतंत्र्यमेव किं समीचीनमित्यत आह-पुण्यमिवेत्यादि । पुण्यमिति-पूर्वं गुणशब्देनोक्तं शेषत्वम् । तत्पूर्वोक्तप्रकारेण स्वनैच्यानुसंधानेन निवृत्तिकारणं सत् यथा भोगविरोधि भवति तथैव भोगदशायां तस्य प्रतिदृष्टिप्रदानमकृत्वाऽचिद्वत् स्थितेर्मूलं केवलपारतंत्र्यमपि प्रतिदृष्टिसापेक्षस्येश्वरस्य भोगस्य कंठग्रहं भवतीत्यर्थः । अथवा पुण्यमिति सत्कर्मोच्यते । तद्यथा पापाद् व्यावृत्तत्वेऽपि भगवत्प्राप्तिप्रतिबंधकं भवति, तथा पश्चाद्गमनहेतोः शेषत्वाद् अचिद्वत्प्रतिसंबंध्यधीनताया हेतुत्वेन व्यावृत्तं पारतंत्र्यमपि प्रतिदृष्टिप्रदानस्याहेतुत्वेन परस्यानुभवस्य प्रतिबंधकं भवतीत्यर्थः । अनेन केवलशेषत्वं केवलपारतंत्र्यं चैकैकाकारेण भोगविरोधि भवति, पारतंत्र्ययुक्तं शेषत्वमेवोद्देश्यमिति सिद्धम् ।
टीका हिन्द्या
पुण्य के तरह पारतंत्र्य भी परानुभव का विरोधी है ॥ १६८ ॥ तब पारतंत्र्य ही श्रेष्ठ है क्या ? इस शंका में कहते हैं-पुण्य के तरह इत्यादि । पुण्य माने-पहिले गुणशब्द से कहा हुआ शेषत्व है । वह शेषत्व पूर्वोक्त प्रकार से स्वनैच्यानुसंधान से भागनेके उपयुक्त हो जिस प्रकार भोगविरोधि होता है उसी प्रकार से भोगदशा में उन के सामने दृष्टिप्रदान न कर अचित् के तरह रहनेके योग्य पारतंत्र्य भी प्रतिदृष्टि की अपेक्षा करनेवाले ईश्वर के भोग को रोकता है । या पुण्य माने-सत्कर्म । वह पाप से अत्यंत भिन्न होनेपर भी जैसा भगवत्प्राप्ति का प्रतिबंधक होता है तैसा पीछे भागने के उपयुक्त शेषत्व की अपेक्षा अचिद्वत् स्वामी के अत्यंत आज्ञाकारी होनेके उपयुक्त होनेसे अतिविलक्षण पारतंत्र्य भी सामने दृष्टिदान करने के उपयुक्त न होनेसे परमात्मा के अनुभव का विरोधी (प्रतिबंधक) होता है । इस से केवलशेषत्व और केवलपारतंत्र्य एक एक आकार से भोगविरोधि होते हैं । पारतंत्र्य के साथ मिला हुआ शेषत्व ही उद्देश्य है ।
मूलम्
एवमुपेयदशायां शेषत्वपारतंत्र्ययोः परानुभवप्रतिबंधकत्वकथनानंतरं प्राप्तिदशायामस्य निर्बंधमूलतया जायमानदोषनिवृत्तेः परानुभवप्रतिबंधकत्वमाह-गुण इवेत्यादिना ।
मूलम्
गुण इव दोषनिवृत्तिः ॥ १६९ ॥
श्लोक
परानुभवरूपस्य गुणवद्दोषवर्जनम् ॥ १६९ ॥
टीका संस्कृता
गुण इति पूर्वं विरोधित्वेनोक्तं शेषत्वपारतंत्र्यद्वयमुच्यते । अयमात्मनोऽतरंगगुणत्वेन खलु वर्तते । अयमिव दोषनिवृत्तिरिति-एतदात्मगुणद्वयं च पूर्वोक्तप्रकारेण यथा परानुभवस्य प्रतिबंधकं भवति तथैवानेन निर्बंधेन कार्यमाणा प्रकृतिसंबंधस्य निवृत्तिः । चरमशरीरत्वादनेन किंचित्कालं स्थापयित्वाऽनुभवितुमिच्छतस्तस्यानुभवस्य विरोधिनी भवतीत्यर्थः । गुण इवेति-पारतंत्र्यमेकमेव वा दृष्टांतीक्रियते ।
टीका हिन्द्या
गुण के तरह दोषनिवृत्ति ॥ १६९ ॥ इस प्रकार उपेयदशा में शेषत्वपारतंत्र्य परमात्मा के अनुभव का प्रतिबंधक है । ऐसा कहनेके बाद प्राप्तिदशा में चेतन के निर्बंध द्वारा होनेवाली दोषनिवृत्ति परमात्मा के अनुभव का प्रतिबंधक होती है इस अर्थ को कहते हैं-गुण के तरह इत्यादि । गुण कहते हैं-पूर्व विरोधितया उक्त शेषत्वपारतंत्र्यों को । ये आत्मा के अंतरंगनिरूपक गुण हैं । इस तरह दोषनिवृत्ति माने-इस आत्मा के ये दोनों पूर्वोक्त प्रकार जिस तरह परमात्मा के अनुभव का प्रतिबंधक होते हैं वैसा चेतन से निर्बंधपूर्वक करालिया जानेवाली प्रकृतिसंबंधरूप दोष की निवृत्ति भी परमात्मा के भोग का प्रतिबंधक होती है । चरमशरीर होनेसे इस शरीर के साथ कुछकाल रख अनुभव करनेकी इच्छा करनेवाले सर्वेश्वर के अनुभव का प्रतिबंधक होती है । गुणवत् ऐसा पारतंत्र्य एक ही को दृष्टांत यहां कहते हैं ऐसा भी योजना हो सक्ती है ।
मूलम्
दोषनिवृत्तावात्मस्वरूपमत्यंतपरिशुद्धं सद्भोगयोग्यं भवति खलु, तथासति दोषनिवृत्तिरनभिमता दोषोऽभिमतः कथं स्यादित्यत आह-आभरणमित्यादि ।
मूलम्
आभरणमनभिमतं मालिन्यमभिमतमभूत् खलु ॥ १७० ॥
श्लोक
भूषणं दूषणं जातं मालिन्यमभवत्प्रियम् ॥ १७० ॥
टीका संस्कृता
लोके विषयप्रवणानामभिमतविषयस्योज्ज्वल्यहेतुराभरणमनभिमतमनौज्वल्यहेतुर्मालिन्यमभिमतमभूत् खल्वित्यर्थः ।
टीका हिन्द्या
आभरण अनभिमत हो मालिन्य अभिमत हुआ है ॥ १७० ॥ दोषनिवृत्ति होनेपर आत्मस्वरूप अत्यंत परिशुद्ध और भोग्य भी होता है तो दोषनिवृत्ति अनभिमत और दोष अभिमत होता है ? इस शंका में कहते हैं-आभरण इत्यादि । लोक में विषयप्रवण को अभिमत (स्त्री आदि) विषय को औज्वल्यहेतु आभरण अनभिमत हो अनौज्वल्यहेतु मालिन्य अभिमत होता है ।
मूलम्
स्नानं रोषजनकमिति वार्ता स्मर्तव्या ॥ १७१ ॥
श्लोक
स्मरणीयात्र वार्ता सा यत्स्नानं रोषकारणम् ॥ १७१ ॥
टीका संस्कृता
इदं लौकिके मात्रं न भवति किंतु जानकीविषये तस्याप्येवं स्थितिरित्यर्थस्य सूचिकां वार्तां स्मारयति-स्नानमित्यादिना । जानक्याः स्नात्वागमनं स्वामिनो रोषजनकमित्यर्थं प्रकाशयंती । ‘दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ।’ इति वार्ता एतदर्थनिदानतया स्मर्तव्येत्यर्थः । सपंकामनलंकाररहितसीतादर्शनकामनया ‘माल्यानि’ ‘स्नानम्’ ‘उद्धर्तनम्’ ‘वासः’ ‘अनुलेपनम्’ इत्यारभ्य ‘अलंकारान्’ इत्यंतमुपचारान् सर्वानपनीय ‘अस्नाता सीता’ इत्यादिप्रकारेण तदानींतनमालिन्यविशिष्टवेषेणानेतुं पश्यतो देवस्य अस्याः स्नात्वागमनं रोषजनकमिति न वक्तव्यं खलु । तर्हि ‘दीर्घमुष्णं विनिःश्वस्य चक्षुषा विपरिप्लुते । उपस्थापय मे सीतां दिव्याभरणभूषिताम् । इह सीतां शिरःस्नातामुपस्थापय मा चिरम् ॥’ इत्ययमेव हि वनं गत्वाऽलंकृत्याऽऽनेष्वेति श्रीविभीषणं प्रत्यवोचत् । एवं च सति रोषः कथमिति चेत्-‘वयं समीचीनां वार्तां वदामः त्वमेव न जानासि किम्’ इत्युक्तत्वात् सा सहृदयमुक्ता वार्ता न भवति अन्यथा रोषोऽनुपपन्नः खलु । सा च-‘अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ।’ इति स्थिता । ‘यथाह रामो भर्ता ते तथा तत्कर्तुमर्हसि ।’ इति निर्बंधपूर्वकं श्रीविभीषणोक्त्यनंतरं स्नानमकरोत् इतिचेत्, स स्वामिहृदयमज्ञात्वोक्तां वार्तामादायोक्तवान् सर्वथा दशमासपर्यंतं रावणभवने स्थितायाः ‘कारागृहस्थितवेषेण गत्वा पश्यामि स्नानं न कुर्यां’ इति स्थातव्यं, एवमकृत्वा शीघ्रं स्नात्वाऽऽगताकिल, इदं तादृशस्थितिदर्शनाशावतो दोषहेतुरभूत् । तस्मात् ‘स्नानं रोषजनकम्’ इत्यत्र न विरोधः । अथवा स्नानं रोषजनकमिति वार्ता नाम-श्रीविभीषणे स्नानं कर्तव्यमिति वदति स्वामिहृदयाभिज्ञत्वात्स्वामिनस्तस्यानभिमतत्वाद्रोषजनकं स्यादिति विचार्य-‘अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप’ इति जानक्योक्ता वार्ता वा । रोषजनकमित्यर्थं प्रकाशयंती वार्तेति पूर्वोक्तन्यायोऽपि समानः ।
टीका हिन्द्या
‘स्नान रोषजनक है’ इस वचन को स्मरण करें ॥ १७१ ॥ यह लौकिक में मात्र नहीं किंतु सीताजी के विषय में श्रीरामजी को भी ऐसा हुआ है इस अर्थ का सूचक वचन को स्मरण करते हैं-स्नान इत्यादि । सीताजी स्नान करके आयी सो श्रीरामजी को रोषजनक हुआ । इस अर्थ को प्रकट करने वाले ‘नेत्ररोगी को द्वीप के तरह मुझ को निश्चय प्रतिकूल होती है’ इस वचन को इस अर्थ का प्रमाणतया स्मरण करें । [[मादित्य|आदित्य]] सहित [[अनालंकाररहित|अलंकाररहित]] सीताजी को इत्यादि प्रकार उपचारस्नान नहीं कर मालिन्यविशिष्टरूप को देखने की इच्छा करनेवाले श्रीरामजी को उनके स्नान कर आना रोषजनक हुआ ऐसा कहने में क्या [[हरन|हरकत]] है । ऐसा होतो-‘दीर्घ और उष्ण श्वास लेकर भूमि का देखते हुए पास में खडाहुआ मेघसदृश विभीषण से शिरःस्नान कर [[दादिसे|वस्त्रादिसे]] भूषित और दिव्याभरणभूषित सीताजी को शीघ्र हमारे पास पहुंचाओ’ ऐसा श्रीराम ही स्नान कर अलंकृत हो आनेके लिये श्रीविभीषणसूरि को देख कहे हैं तो रोषजनक कैसा हुआ ? इस शंका में, ‘हम अच्छी बात कहकर भेजेंगे आप नहीं जानती हैं क्या’ ? ऐसा विचार कहे हैं इतना ही, वह हृदयपूर्वक कही हुई वार्ता नहीं है, नहीं तो रोष न होसकेगा । ‘हे विभीषण ! विना स्नान किये पति को देखना चाहती हूं’ ऐसा होते हुए भी-‘जैसा तुमारे भर्ता कहे हैं तैसा तुम को करना चाहिये’ ऐसा श्रीविभीषणसूरि निर्बंधपूर्वक कहने के बाद ही स्नान की है । ऐसा पूछनेपर विभीषण श्रीरामजी के हृद्गत अभिप्राय को न जान ऊपरी वार्ता को सुन कहा है इतना ही, कितना भी होतो दशमास रावण के घर में वास करनेवाली ‘कारागार में जिस वेष से रही थी उस वेष से ही मैं देखूंगी स्नान न करूंगी’ ऐसा रहना चाहिये, वैसा न कर शीघ्र स्नान कर आई है । वह स्नान पूर्व आकार को देखनेकी इच्छा करनेवाले श्रीरामजी को रोष का हेतु हुआ है । इस कारण स्नान रोषजनक हुआ ऐसा कहने में हानि नहीं । यद्वा स्नान रोषजनक है इस वचन को माने—श्रीविभीषणसूरि सीताजी से जब स्नान करने को कहे हैं तब श्रीरामजी के अभिप्राय को जाननेवाली होने से उन को यह अभिमत नहीं है इस लिये रोषजनक होगा ऐसा समझ ‘विना स्नान किये पति के देखने को चाहती हूं’ ऐसा सीताजी की कही हुई वार्ता समझना । रोषजनक इस अर्थ को दिखानेवाली वार्ता ऐसा पूर्वोक्तन्याय यहां भी समान है ।
मूलम्
‘वंचकः कपटो’ ‘नश्यतु’ ॥ १७२ ॥
श्लोक
वंचकः कपटो नश्येदिति श्रीस्वामिपाशुरः ॥ १७२ ॥
टीका संस्कृता
एवमभिमतविषये मालिन्यं यथा प्रीतिहेतुर्भवति तथाऽऽत्मज्ञानवता मलिनदेह इति त्यज्यमानममुं देहमीश्वर आद्रियत इति क्व दृष्टमित्यत आह-वंचक इत्यादि । ‘वंचकः कपट’ इत्यारभ्य ‘नश्यतु’ इत्यंतं स्वविग्रहेऽत्यादरं कुर्वतस्तदनुभवप्रकारान् तावन्मात्रं विनाऽतिचापल्येनानेन शरीरेण सह स्वं श्रीवैकुंठं गमयितुं कृताभिनिवेशप्रकारं च दृष्ट्वा ‘उपकारक ! एवं मा कुरु’ इति निर्बंधं कृत्वा देहदोषं तं ज्ञापयित्वा ‘एवं हेयमिदं यथा नष्टं स्यात्तथाऽनुकूलो भवेति’ चरणौ निरुध्य स यथेदं निवर्तयित्वा प्रापयेत् तथा प्रयासेनांगीकारप्रकारं चावदन् खलु परांकुशाः ।
टीका हिन्द्या
‘वंचक कपट’, ‘नाश होनेके लिये अनुमति करो’ ॥ १७२ ॥ इस प्रकार अभिमतविषय के मालिन्य को जैसे चाहते हैं वैसा आत्मज्ञानी मलिनशरीर समझ त्यागने योग्य देह को ईश्वर चाहते हैं इस को कहां देख सक्ते हैं ? इस शंका में कहते हैं । ‘वंचक कपट’ ऐसा आरंभकर ‘नाश होने के लिये अनुमति करो’ यहां तक अपने दिव्यशरीर में अत्यादर करते हुए परमात्मा के अनुभवप्रकार, इतना ही नहीं अतिचपलता से इस शरीर के साथ अपने को परमपद में लेजाने को वह अत्यंत अभिलाषा कररहा है इस प्रकार को भी देख ‘हे उपकारक ! ऐसा मत कीजिये’ इति निर्बंधकर इस देह के दोष को उसे जनाकर ‘एवं हेयरूप यह शरीर नाश होनेके लिये अनुमति करना’ ऐसा चरण को पकड़ इस को छुड़ाकर लेजाने के लिये निर्बंधपूर्वक अनुमति कराने के प्रकार को श्रीशठकोपसूरि कहे हैं ।
मूलम्
उशीरभर्ता यथा मृत्संबंधं न दूरीकरोति तथा ज्ञानिनं देहेन सहाद्रियते ॥ १७३ ॥
श्लोक
मृत्संबंधः प्रियो यद्वदुशीरधर्तृणां तथा । ज्ञानिनः सह देहेनाद्रियते च परात्मना ॥ १७३ ॥
टीका संस्कृता
अभिमतविषये मालिन्यवदाद्रियत इत्येतावदेव न, अस्य ज्ञानपरिमलस्यास्मिन्देहे प्रकाशमानत्वादमुमाद्रियत इत्यर्थं सदृष्टांतमाह-उशीरेत्यादिना । परिमले वैलक्षण्यं ज्ञात्वोशीरं दधतो भोगिनो मृदो दूरीकरणे परिमलो गच्छतीति मृत्संसर्गमदूरीकृत्य यथा दधति तथा परमभोगी सर्वेश्वरो ज्ञानिनममुमादृत्य यदानुभवति तदा ‘आह्लादशीतनेत्रः’ इत्यादिप्रकारेण ज्ञानकार्यविकृतीनां सर्वासामाश्रयेण अस्य ज्ञानपरिमलानां सर्वेषां प्रकाशकेन विग्रहेण सहाद्रियत इत्यर्थः ।
टीका हिन्द्या
जैसा उशीर को धारण करनेवाले मृत्संबंध को न छुडा धारण करते हैं तैसा ज्ञानी को देह के साथ आदर करते हैं ॥ १७३ ॥ अभिमतविषय में मालिन्य के तरह आदर करते हैं इतना ही नहीं इस चेतन का ज्ञानरूप परिमल इस देह में भासमान होने से इस देह को आदर करते हैं इस अर्थ को दृष्टांतपूर्वक कहते हैं-उशीर इत्यादि । परिमल को जान उशीर को धारण करनेवाले भोगीलोग मृत्तिका को छुडानेसे परिमल नष्ट होगा समझ मृत्संबंध को न छुडा जैसा धारण करते हैं तैसा परमभोगी सर्वेश्वर इस ज्ञानी को आदर कर अनुभव करने के समय ‘आनंद से शीतल नेत्रवाला’ इस वचनानुसार ज्ञान का कार्यभूत संपूर्ण विकारों के आश्रय और इस का संपूर्ण ज्ञानपरिमल का प्रकाशक इस शरीर के साथ आदर करेगा ऐसा समझना ।
मूलम्
परमार्तस्यास्य शरीरस्थितेर्हेतुः केवलभगवदिच्छैव हि ॥ १७४ ॥
श्लोक
स्वार्तस्यास्य शरीरस्य स्थितिहेतुश्च केवलम् । हरीच्छैव ‘तिरु’ वित्यादिसूक्तितोऽभिमतस्थले ॥ १७४ ॥
टीका संस्कृता
पुनश्च मुखांतरेणास्य देहे तदादरं दर्शयति-परमार्तस्येत्यादिना । परमार्तो नाम-‘एतत्स्वभावमपि वयं न सहामहे’, ‘कदाहं त्वामितः परमागत्य प्राप्स्यामि’, ‘कथं संगमिस्यामि’, ‘कालं न जानामि’, ‘न धरेयमितः परम्’, ‘आह्वानकाल इतः परमपि ह्रस्वो न भवेत्किम्’ इति संसारे पाददाहेन भगवदनुभवे महाभिनिवेशेन चेतःपरं नास्तीति वक्तुं योग्यतयाभिवृद्धार्तिमान् । एवंभूतस्य शरीरस्थितिहेतुः-प्रारब्धकर्मेति न वक्तुं शक्यते-‘सर्वपापेभ्यो मोक्षयिष्यामि’ इत्यनेन विरोधात्, ‘आर्तानामाशुफलदा सकृदेव कृता ह्यसौ । दृप्तानामपि जंतूनां देहांतरनिवारिणी ॥’ इति हि प्रपत्तिस्वरूपम् । तस्मात्तस्य शरीरस्थितेर्हेतुः-‘इतः परं किंचित्कालममुं शरीरेण सह स्थापयित्वाऽनुभवेयम्’ इतीश्वरेच्छां विनाऽन्यन्न भवति । अतः ‘केवलभगवदिच्छैव’ इति वदति । प्रारब्धकर्महेतुना वर्तमानदृप्तविषयेऽपि भगवदिच्छायाः सत्त्वात् तद्व्यावृत्त्यर्थं केवलशब्दः ।
टीका हिन्द्या
परमार्त इस चेतन की शरीरस्थिति का हेतु केवल भगवदिच्छा ही है ॥ १७४ ॥ और एक प्रकार से इस के देह में ईश्वर के आदर को दिखाते हैं-परमार्त इत्यादि । परमार्त माने-‘इस शरीर के स्वभाव को इतः पर हम नहीं सह सक्ते’, ‘कब वा मैं आप के पास आ आप को मिलूंगा’, ‘कहां अब आप को प्राप्त होता हूं’, ‘उस दिन को नहीं जानता’, ‘इतः पर धारण नहीं कर सकता’, ‘बुला लेनेका काल अभी आया नहीं क्या’ ऐसा संसार में पांवों के जलने से भगवदनुभव में अत्यंत आर्ति से इस से अधिक नहीं कहने योग्य अत्यंत दुःख उत्पन्न हुआ जिस को वह । एवंभूत भक्त की शरीरस्थिति का हेतु प्रारब्धकर्म नहीं कह सक्ते, क्यों कि ‘संपूर्ण पापों से छुडाऊंगा’ इस वचन के विरोध होनेसे । ‘आर्तों को एक वखत की हुई प्रपत्ति तत्क्षण फल देती है, दृप्तलोगों को भी दूसरे जन्म का निवारण करती है’ ऐसा प्रपत्ति का स्वभाव है । इस कारण इस की शरीरस्थिति का हेतु-‘और भी थोडे दिन इस को इस शरीर के साथ रख अनुभव करेंगे’ ऐसा ईश्वरेच्छा छोड़ दूसरा नहीं, प्रारब्धकर्म हेतु से रहनेवाले दृप्तविषय में भी भगवत्इच्छा के होनेसे उस को अलग करते हैं ‘केवल’ शब्द से ।
मूलम्
‘तिरुमालिरुंशोलेमलै’ इत्युक्तप्रकारेणाभिमतदिव्यदेशेषु सर्वेषु क्रियमाणमादरमस्य शरीरैकदेशे करोति ॥ १७५ ॥
श्लोक
सर्वत्र क्रियमाणा च प्रीतिरस्य शरीरके । एकदेशे करोत्येव साध्यसाधनज्ञानवान् ॥ १७५ ॥
टीका संस्कृता
एवं सादरविषयेऽस्य शरीरे तदादरप्रकारमाह-तिरुमालिरुंशोले इत्यादिना । ‘दक्षिणवृषाद्रिं क्षीरसमुद्रं ममोत्तमांगं चाविशेषेणाद्रियते, श्रीवैकुंठमुत्तरवृषाद्रिं मच्छरीरं चाविशेषेणाद्रियत’ इत्यवदन् हि परांकुशाः । एवमेकस्मिन्नवयवे द्वयोर्द्वयोर्दिव्यदेशयोः क्रियमाणमादरमकरोत् । इदं सर्वेष्वपि दिव्यदेशेषु क्रियमाणमादरमेकैकस्मिन्नवयवे कुर्वन्नतिष्ठदित्यस्योपलक्षणम् । तस्मात्तद्गाथोक्तप्रकारेण स्वाभिमतेषु दिव्यदेशेषु सर्वेषु क्रियमाणमादरं ज्ञानिनोऽस्य शरीरैकदेशे करोतीत्यर्थः ।
टीका हिन्द्या
‘तिरुमालिरुंशोलेमलै एव’ इत्युक्तप्रकार अभिमत समग्र दिव्यदेशों में जितना आदर करते हैं उतना आदर इस के शरीर के एकदेश में करते हैं ॥ १७५ ॥ इस प्रकार अपने आदर का विषय इस के शरीर में परमात्मा के आदरण के प्रकार को कहते हैं-तिरुमालिरुंशोलैमलै (सुंदरबाहु का पर्वत) इत्यादि । दक्षिणश्रीपर्वत (सुंदरबाहुपर्वत) क्षीराब्धि हमारा उत्तमांग इन सब को समतया आदर किया है । श्रीवैकुंठ उत्तरश्रीपर्वत (वेंकटगिरि) हमारा शरीर इन तीनों को बराबर आदर किया ऐसा श्रीशठकोपसूरि कहे हैं । इस प्रकार एक एक अवयव में दो दो दिव्यदेश में जितना आदर करते हैं उतना आदर किया है यह संपूर्ण दिव्यदेशों में क्रियमाण आदर को प्रत्येक अवयव में किया है इस को दिखाता है । अत एव इस गाथा में उक्त प्रकार ईश्वर से संपूर्ण दिव्यदेशों में क्रियमाण आदर को ज्ञानी के शरीरैकदेश में करते हैं समझना ।
मूलम्
अभिमतदिव्यदेशेषु सर्वेष्वपि क्रियमाणमादरमस्मिन् विषय एकस्मिन्नेव करोतीति पूर्वमुक्तवान्, अस्मिन् विषये सिद्धेऽभिमतदिव्यदेशेष्वादरस्तस्य संकुचितः स्यादिति वक्तुमुभयत्र विद्यमानं तारतम्यमाह-तत्र वास इत्यादिना ।
मूलम्
तत्र वासः साधनं, अत्र वासः साध्यम् ॥ १७६ ॥
श्लोक
अत्र वासो भवेत्साध्यं तत्र वासस्तु साधनम् ॥ १७६ ॥
टीका संस्कृता
अभिमतदेशेषु प्रीत्या वास उचितोपायैश्चेतनानामंगीकारार्थं, अतस्तत्र वासः साधनमित्युच्यते । अस्मिन् चेतने वशीकृतेऽस्य हृदये स्वस्य वासस्तत्र स्थित्वा कृतायाः कृषेः फलं, अतोऽत्र वासः साध्यमित्युच्यते । ‘शेषशयने कुंभघोणे’, ‘पर्वते स्वयं स्थित्वा’, ‘शीतलसमुद्रे शयनं’ इत्यादिष्वेतत्साध्यसाधनभावो भासते ।
टीका हिन्द्या
वहां वास साधन है, यहां वास साध्य है ॥ १७६ ॥ अभिमत संपूर्ण दिव्यदेशों में क्रियमाण आदर को इस एक विषय में ही करते हैं ऐसा पहले कहा है, इस ज्ञानी के मिलने पर अभिमत दिव्यदेशों में सर्वेश्वर का आदर संकुचित होता है, इस अर्थ को कहने के लिये दोनों स्थलों में विद्यमान तारतम्य को कहते हैं-वहां इत्यादि । दिव्यदेशों में आदरपूर्वक वास करने का प्रयोजन उचित उपायों से चेतनों को वश करने के लिये होने से, वहां वास साधन ऐसा कहा है । यह चेतन शुद्ध हो इस के हृदय में अपने को वास मिलनेपर दिव्यदेश में रह किया शयन आदि रूप कृषि का फल होनेसे यहां वास साध्य है ऐसा कहा है । ‘शेषशयन के ऊपर’, ‘कुंभकोण में’, ‘पर्वत के ऊपर आप स्थित हो’, ‘शीतलसमुद्र में शयन’ इत्यादियों में इन का साधनत्व और साध्यत्व भान होते हैं ।
मूलम्
शिलाः शब्दायमानसमुद्रः’ इत्युक्तप्रकारेणास्मिन् सिद्धे तत्रादरः परिमितो भवति ॥ १७७॥
श्लोक
‘शिलाः शब्दायमानो हि समुद्र’ इति सूक्तितः । अस्मिन् सिद्धेऽनुरागस्तु तस्मिन् परिमितो भवेत् ॥ १७७ ॥
टीका संस्कृता
एतत्साधनसाध्यत्वप्रयुक्तमादरतारतम्यमाह-शिलेत्यादिना । स स्वहृदये प्रवेशानंतरं स्वस्यान्यत्र क्वचिदप्यादरो नास्तीति यथा ज्ञायते तथा तेनास्मिन्नत्यादरं कृत्वा वासस्य करणात् श्रीवेंकटाचलः स्वसंनिधानेन घोषायमाणक्षारसमुद्रो दुष्प्रापं परमपदं चापकृष्टा जाताः किमित्यवदन् खलु दिव्यसूरयः । तथैवं साध्यभूते चेतनहृदये सिद्धे एतत्साधनतया पूर्वमादृतेषु दिव्यदेशेष्वादरः संकुचितो भवतीत्यर्थः । साध्यसिद्धिपर्यंतं हि साधन आदरः ।
टीका हिन्द्या
‘पत्थर और घोषमाणसमुद्र’ इत्युक्तप्रकार इस के सिद्ध होनेपर उन में आदर कम होता है ॥ १७७ ॥ इस साधनसाध्यत्वप्रयुक्त आदर का तारतम्य को कहते हैं-पत्थर इत्यादि । अपने हृदय में प्रवेशकिये बाद बाहर के किसी विषय में भी आदर नहीं ऐसा भान होनेके लिये सर्वेश्वर इस शरीर में अत्यादर कर नित्यवास करने से ‘श्रीपर्वत अपनी संनिधि से घोषमाण क्षीराब्धि किसी को भी अप्राप्य परमपद इन सब में घास जमगई है क्या’ ऐसा भट्टनाथसूरि कहे हैं । इस प्रकार साध्यभूत इस चेतन का हृदय प्राप्त होनेपर इस के साधनतया पूर्व आदृत दिव्यदेशों में आदर संकुचित होता है । साध्य हस्तगत होने तक ही साधन में आदर अधिक होता है ।
मूलम्
‘बालालयं मात्यजेः’ इत्यनेन प्रार्थना कर्तव्या स्यात् ॥ १७८ ॥
श्लोक
‘बालालयं त्यज त्वं मा’ इति श्रीसूक्तिभावतः । कर्तव्या प्रार्थना स्याद्धि तत्र वासाय माधवे ॥ १७८ ॥
टीका संस्कृता
आदरन्यूनतायामवधिं दर्शयति-बालालयमित्यादिना । श्रीभूतयोगी स्वप्राप्त्यर्थं पूर्वमाहतदिव्यदेशेषु पूर्वादरं विना स्वहृदयेऽत्यादरं कृत्वा स्थितिप्रकारं दृष्ट्वा तान् दिव्यदेशान् त्यजति किमित्यतिशंकां कृत्वा महृदये प्रवेष्टुं बालालय([[लक्ष्म्याः|रूप]])क्षीरसमुद्रं मा त्यजेरिति वदति हि । अत एवमनेन प्रार्थनीयो यथा स्यात्तथाविधं तस्य तत्रादराल्पत्वमित्यर्थः ।
टीका हिन्द्या
‘बालालय को मत छोडो’ ऐसा इस चेतन की प्रार्थना की आवश्यकता होती है ॥ १७८ ॥ आदर की न्यूनता की अवधिको दिखाते हैं-बालालय इत्यादि । श्रीभूतयोगी अपनी प्राप्ति के लिये पहिले ईश्वर से आदृत दिव्यदेशों में पूर्ववत् आदर न कर अपने हृदय में अत्यादर करनेके प्रकार को देख ‘उन दिव्यदेशों को छोड देंगे क्या’ ? ऐसा अतिशंका कर ‘मेरे हृदय में प्रवेश करनेके लिये साधनभूत बालालय([[लक्ष्म्याः|रूप]])क्षीरसमुद्र को मतछोडो’ ऐसी प्रार्थना किये हैं । इस लिये इस चेतन के प्रार्थना की आवश्यकता जैसा हो तैसा उन दिव्यदेशों में आदर कम होता है ।
मूलम्
प्राप्यप्रीतिविषयत्वेन कृतज्ञतया च पश्चात्तेऽभिमता भवंति ॥ १७९ ॥
श्लोक
कृतज्ञतापरामर्शात् प्राप्यप्रीतेश्च गोचरात् । पश्चात्तेऽभिमताः सर्वे दिव्यदेशा भवंति तु ॥ १७९ ॥
टीका संस्कृता
एवमनेन प्रार्थनायां कृतायामपि साध्यसिद्ध्यनंतरं तस्य ते कथमभिमता भवेयुरित्यत आह-प्राप्येत्यादिना । प्राप्यप्रीतिविषयत्वं नाम-स्वस्य प्राप्यभूतस्यास्य चेतनस्य प्रीतेर्विषयत्वं । ‘कंडियूर, श्रीरंगः, विरुमैय्यम्, कांची, तिरुप्पेर्, मलै’ इत्यभिनिवेशेन खलु वर्तते । कृतज्ञता नाम-एतद्देशवासेन खल्वस्माभिरयं प्राप्त इति स्वविषये तद्देशेन कृतस्योपकारस्यानुसंधानम् । एतद्द्वाभ्यामस्मिन् चेतने प्राप्तेऽपि तस्य तत्तद्देशा अभिमता भवतीत्यर्थः ।
टीका हिन्द्या
प्राप्य के प्रीतिविषय होनेसे और कृतज्ञता से भी वे अभिमत होते हैं ॥ १७९ ॥ इस प्रकार इस के प्रार्थना करनेपर भी साध्य के सिद्ध होनेपर उन को वे अभिमत होयंगे क्या ? इस शंका में कहते हैं-प्राप्य के इत्यादि । अपने को प्राप्यभूत इस चेतन की प्रीति के विषय होना-‘कंडियूर, श्रीरंग, मैयम्, कांची, पेर्, मलै,’ ऐसा मन होना । कृतज्ञता माने-इन दिव्यदेशों में वास करनेसे ही हम इस को प्राप्त हुए हैं ऐसा विचार उस दिव्यदेश के अपने को कियाहुआ उपकार का अनुसंधान करना । इन दोनों से साध्यभूत इस चेतन के हस्तगत होनेपर भी ईश्वर को वे दिव्यदेश अभिमत होते हैं ।
मूलम्
एवं ‘गुण इव दोषनिवृत्तिः’ इति पूर्वोक्तशेषत्वपारतंत्र्यरूपात्मगुण इव ‘दोषनिवृत्तिश्च परानुभवस्य विरोधिनी’ इति कृतायाः प्रतिज्ञाया उपपादनार्थं ‘अभिमतविषये मालिन्यमभिमतं भवति’ इत्यर्थं, अनेन ‘मलिनदेह’ इति त्यज्यमाने तस्यात्यादरप्रकारं, ज्ञानिनोऽस्य सविग्रहमादरे हेतुविशेषं च, परमार्तस्यास्य देहस्थितिमादायैवास्य देहे तस्यादरो ज्ञातुं शक्यत इत्यर्थं, तस्यास्य देहे आदरप्रकारं, साध्येऽस्मिन् सिद्धे साधनेऽनादराल्पत्वं तदवधिं, अस्मिन् ‘तत्तद्देशान् मात्यजेः’ इति प्रार्थयमाने स्वसाध्ये सिद्धेऽपि हेतुद्वयेन तस्य तेऽभिमता भवतीत्यर्थं, तदवधिं चावोचत् ॥
टीका हिन्द्या
तथाच ‘गुण के तरह दोषनिवृत्ति भी’ है ऐसा पूर्वोक्तशेषत्वपारतंत्र्यरूप आत्मगुणों के तरह दोषनिवृत्ति भी परमात्मा के अनुभव का प्रतिबंधक होता है ऐसा प्रतिज्ञा कर उस को उपपादन करनेके लिये अभिमत विषय में मालिन्य अभिमत होनेका प्रकार, इस चेतन से ‘मलिनशरीर’ कह परित्यक्त किये जानेवाले इस शरीर में उस के आदर करनेका प्रकार, ज्ञानी को विग्रहसहित आदर करनेके हेतुविशेष, परमार्त की देहस्थिति को लेकर ही इस के देह में उस के आदर को जान सक्ते हैं यह अर्थ, सर्वेश्वर चेतन के देह का आदर करनेके प्रकार, साध्यभूत इस चेतन के हस्तगत होनेपर साधन में आदर के कम होनेका प्रकार, उस की सीमा, ‘उन उन देशों को मत छोडो’ ऐसी प्रार्थना करने पर स्वसाध्य हस्तगत होने पर भी दो हेतुओं से सर्वेश्वर को उन दिव्यदेशों के अभिमत होने के प्रकार को भी कहे हैं ।
मूलम्
तस्माद्दोषनिवृत्तिवदांतरगुणश्च विरोधी भवति ॥ १८० ॥
श्लोक
शमादिश्च विरोधिः स्यात् तस्माद्दोषनिवृत्तिवत् ॥ १८० ॥
टीका संस्कृता
एवं दोषनिवृत्तिः परानुभवस्य विरोधिनीत्यर्थः स्पष्टो यथा स्यात्तथा बहूनां हेतूनामुक्तत्वात् तमर्थं साधितवान् । तद् दृष्टांतीकृत्य सिंहावलोकनन्यायेन पूर्वोक्तशेषत्वपारतंत्र्यरूपात्मगुणस्य परानुभवविरोधित्वं स्थिरीकरोति तस्मादित्यादिना । तस्मादिति-पूर्वं साधितमर्थमनुवदति । दोषनिवृत्तिवदिति-दोषनिवृत्तेः स्वरूपौज्ज्वल्योपयोगित्वेऽपि दोषं भोग्यतया आदर्तुः प्रणयिनोऽनभिमतत्वात्, यथा वा परानुभवविरोधिनी भवति तथेत्यर्थः । आंतरगुण इत्युच्यते शेषत्वपारतंत्र्यम्, एतयोरांतरगुणत्वं ज्ञानानंदाभ्यामात्मनोऽंतरंगगुणत्वात् । परानुभवविरोधित्वप्रकारः पूर्वमुक्तः खलु, तत्राचांतरगुण इति पारतंत्र्यमेकमेवोच्यते ।
टीका हिन्द्या
इस कारण से दोषनिवृत्ति के तरह अंतरगुण भी विरोधी होता है ॥ १८० ॥ एवं दोषनिवृत्ति परमात्मा के अनुभव का प्रतिबंधक होता है इस अर्थ के सुस्पष्टता के लिये बहुहेतुओं को कहनेसे उस को सिद्धहुआ समझ उसी को दृष्टांत कर सिंहावलोकनन्याय से पूर्वोक्तशेषत्वपारतंत्र्यरूप आत्मगुणों की परानुभवविरोधिता को स्थिर करते हैं—इस कारण से इत्यादि । इस कारण से-ऐसा पहिले सिद्ध कियेहुए अर्थ को अनुवाद करते हैं । दोषनिवृत्ति के तरह माने-दोषनिवृत्ति स्वरूपौज्वल्य के लिये उपयुक्त होनेपर भी दोष ही को भोग्यतया आदर करनेवाले प्रणयीभूत सर्वेश्वर को अनभिमत होने से जिस प्रकार से परानुभव का विरोधी होती है । आंतरगुण माने-शेषत्वपारतंत्र्य । इस को आंतरगुण कहते हैं—ज्ञानानंदों की अपेक्षा आत्मा के अंतरंगहोनेसे । इस का परानुभवविरोधित्वप्रकार पहिले कहा गया । इस स्थल में भी आंतरगुण यह पारतंत्र्य एक ही को कहता है ऐसा भी योजना समझना ।
मूलम्
दोषनिवृत्तिरेव दोषः स्याद्धि ॥ १८१ ॥
श्लोक
दोषनिवृत्तिरेवात्र दोषः स्यादिति निश्चयः ॥ १८१ ॥
टीका संस्कृता
एवं वक्तुं दोषनिवृत्तौ को वा दोष इत्यतोऽन्यः कश्चन दोषो नापेक्षितोऽयमेव दोष इत्याह-दोषेत्यादिना । कामिनी यथा स्वशरीरे मालिन्यं दूरीकृत्य भोगेऽन्विष्यति तथा स्वतः परिशुद्धस्यात्मस्वरूपस्यागंतुकदोषं दूरीकृत्य स्वशेषिणो भोग्यतया विनियोज्य इति निर्बंधनानेन कार्यमाणा दोषनिवृत्तिरेव, कामिनीदेहमालिन्यस्य प्रीतकामुकवद् दोषस्याभिमतत्वेन तेन सह स्वं भोक्तुमादर्तुः परस्य भोगस्य विरोधित्वाद् दोषो भवतीत्यर्थः । तस्यानिष्ट एव हि दोषः । हीति प्रसिद्धियोतनायोक्तं, अयमर्थः पूर्वमुपपादित इत्यभिप्रायेण ।
टीका हिन्द्या
दोषनिवृत्ति ही दोष होता है ॥ १८१ ॥ दोषनिवृत्ति से होनेवाले दोष कौन ? ऐसा पूंछनेपर और कोई दोष की आवश्यकता नहीं यही दोष है ऐसा कहते हैं-दोष इत्यादि से । कामिनी स्त्री अपने शरीर के मालिन्य को छुड़ाकर भोग में सम्मिलित होने की जैसे इच्छा करती है वैसा स्वतः परिशुद्ध आत्मस्वरूप का आगंतुक दोष को हटाकर अपने शेषी को भोग्यतया विनियुक्त होयंगे ऐसा समझ अपने निर्बंध से यह चेतन जिस दोषनिवृत्ति को करालेता है वह कामिनी के मालिन्य को आदर करनेवाले कामुक के तरह दोष ही अभिमत हो इस के साथ अपने को अनुभव करनेकी इच्छाकरनेवाले परमात्मा के भोग का प्रतिबंधक होनेसे दोष होती है । परमात्मा के अनिष्ट ही को दोष कहते हैं । ‘ही’ कहने से पूर्वोपपादित सब को स्मरण कर इस अर्थ में प्रसिद्धि को दिखाते हैं ।
मूलम्
एवं ‘समीचीनमेवासमीचीनं जातं’, ‘स्वेन मृग्यमाणो गुणो दोषवत्प्रतिबंधको भवति’, ‘दोषनिवृत्तिरेव दोषः स्याद्धि’ इति च स्वस्य स्वेन मृग्यमाणो गुणो हेय इत्युक्तत्वात्तेन मृग्यमाणो गुण एवोपादेय इति फलितं हि । एवं ‘स्वेन स्वस्य मृग्यमाणो गुणो हेयस्तेन मृग्यमाणो गुण उपादेयः’ इत्युक्तमर्थं दर्शयति-स्वेनेत्यादिना ॥
मूलम्
‘स्वेनागतो गुणः क्रीतदुग्धवत्, तेनागतो गुणः स्तन्यदुग्धवद्’ इति कुरुकाधिनाथवार्ता ॥ १८२ ॥
श्लोक
स्वेनागतो गुणः क्रीतदुग्धवत्तेन चागतः । स्तन्यदुग्धवदित्युक्तिः कुरुकाधिपतेर्भवेत् ॥ १८२ ॥
टीका संस्कृता
स्वेनागतो गुणो नाम-स्वयत्नेन स्वेन स्वस्योत्पाद्यमानो गुणः । क्रीतदुग्धवदिति-औपाधिको विरसोऽप्राप्तश्च भवतीत्यर्थः । तेनागतो गुणो नाम-निरुपाधिकस्वामिनैवास्यायं आवश्यक इत्युत्पाद्यमानो गुणः । स्तन्यदुग्धवदिति-निरुपाधिकः सरसः प्राप्तश्च भवतीति कुरुकाधिनाथेनोक्ता वार्ता इत्यर्थः ।
टीका हिन्द्या
‘अपने से होनेवाले पुण्य बाजार के दूध के सदृश, भगवान से होनेवाले पुण्य माता के दूध के सदृश’ ऐसा कुरुकाधिनाथ का वचन है ॥ १८२ ॥ तथाच ‘पुण्य ही पाप हुआ’, ‘अपनेसे अन्वेषण किये जानेवाले पुण्य पाप के तरह प्रतिबंधक होता है’, ‘दोषनिवृत्ति ही दोष होती है’ अपने प्रयत्न से संपादित पुण्य हेय है, ऐसा कहनेसे परमात्मा से अन्वेषण किये जानेवाले पुण्य ही उपादेय है ऐसा सिद्ध हुआ । इस प्रकार स्वान्वेषित पुण्य हेय, परमात्माअन्वेषित पुण्य उपादेय इस अर्थ को आप्तवचन से दिखाते हैं-अपने से इत्यादि । अपने से होनेवाले पुण्य माने-स्वयत्न से आप अपनेलिये संपादन किया हुआ । बाजार के दूध माने-औपाधिक, विरस और अप्राप्त भी होता है । परमात्मा से होनेवाले पुण्य माने-निरुपाधिक स्वामी होने से इस चेतन को यह अपेक्षित है ऐसा समझ उत्पाद्यमान पुण्य । माता के दूध के तरह-निरुपाधिक, सरस और प्राप्त भी होता है ।
मूलम्
तेन विना स्वेन स्वस्य गुणसंपादने स्तनंधयप्रजां मातापितृहास्तादाकृष्य घातकस्याजावाणिजस्य हस्ते ददाति चेद्यथा तथा भवेत् ॥ १८३ ॥
श्लोक
स्वेन तेन विना स्वस्य गुणसंपादनं तथा । स्तनंधयप्रजां मातुः पितुराकृष्य साहसात् ॥ घातकस्य च हस्ते वै यथा दद्यात्तथा भवेत् ॥ १८३ ॥
टीका संस्कृता
एतावद्विना भगवता विना स्वस्मिन् स्वस्य गुणं संपादयितुमुद्युक्ते, एवं विरसाप्राप्तरूपमात्रं विना स्वविनाशपर्यंतपर्यवसाने स्यादित्यमुमर्थं संनिदर्शनमाह-तेन विनेत्यादिना । प्राप्तेनाप्तेन तेनास्य गुणसंपादनमुचितं, तथा विना तत्प्रतिकोटिना स्वेन स्वस्य स्वोज्जीवनार्थं गुणसंपादनं स्वरक्षणोपयोगिज्ञानशक्त्याद्यभावात् स्वमात्रादिभिर्ज्ञात्वा रक्षणीयां स्तनंधयप्रजां रक्षकयोर्मातापित्रोर्हस्ताद्वलादाकृष्य हिंसनेऽनुतापं विना सजीवहिंसां कृत्वा मांसैर्मेलयित्वा विक्रेतुर्घातुकस्याजावाणिजस्य हस्ते इमां रक्षेति ददाति चेद्यथा स्यात्तथा भवेदित्यर्थः । अनेनेश्वर एव रक्षकः स्वयं स्वस्य नाशक इत्युक्तम् ।
टीका हिन्द्या
उस को छोड़ अपने आप पुण्यार्जन करना माने-स्तन्यपान करनेवाली प्रजा को मातापिताओं के हाथ से लेकर घातुक कसाई के हाथ में देनेके सदृश है ॥ १८३ ॥ इतना ही नहीं, भगवान को छोड आप अपने लिये पुण्यार्जन का यत्न करे तो अपना विनाश ही सिद्ध होगा इस अर्थ को दृष्टांतपूर्वक कहते हैं-उस को इत्यादि । प्राप्त आप्त सर्वेश्वर इस चेतन के लिये पुण्यार्जन करना उचित है, ऐसा न कर उस के प्रतिकोटि आप अपने उज्जीवन के लिये पुण्यार्जन करना माने-स्वरक्षणोपयोगि ज्ञानशक्त्यादि न होने की अवस्था में स्वमाताप्रभृति जानकर रक्षाकरने योग्य स्तनंधयप्रजाको रक्षकभूत मातापिताओं के हाथ से छीन हत्या में संकोच न करनेवाले, [[चित्रवधकर|जीवहिंसाकर]] मांसों के साथ मिलाकर बेचदेनेवाले घातुक कसाई के हाथ में ‘इस प्रजा को रक्षा करो’ ऐसा कह सौंप देनेके सदृश है । इस से सर्वेश्वर ही रक्षक है आप अपने को नाशक है यह अर्थ कहागया ।
मूलम्
भयं स्वनाशं स्वयमेव कथं नाशयेदित्यत आह-स्वयं स्वविनाशः स्यात् ॥ १८४ ॥
श्लोक
[[पशुसेवादिनं|अज्ञानां पशुसेवादीन्]] यथा भवेत् । स्वयं हि नाशयेत्स्वं तत् स्वयं गुणमार्गणम् ॥ १८४ ॥
टीका संस्कृता
सर्वेश्वरस्योत्तरोत्तरं वर्धमानत्वात् तस्य विनाशस्य कदापि स हेतुर्न भवति । अथ ‘असन्नेव’ इत्यादिप्रकारेण स्वं नाशयति स्वयमेव खल्वित्यर्थः । ‘अहमेव माम्’ इति गाथायां-‘मह्यम्’ इत्युक्तेर्ममानर्थो भगवत्कृतो न भवति, तस्मिन् सर्वतो व्याप्य संचरत्यपि नन्वहमेव विनाशमापादितवानित्यवोचन् हि परांकुशाः ।
टीका हिन्द्या
अपने को आप ही नाश करता है ॥ १८४ ॥ इस प्रकार यह चेतन अपने को आप नाश करलेगा क्या ? इस शंका में कहते हैं-अपने को इत्यादि । सर्वेश्वर इस चेतन के उज्जीवन के लिये अवसरप्रतीक्षक होनेसे इस के नाश के लिये कभी कारण नहीं होता है, ‘असत् ही’ इस वचनानुसार अपने को नाश करनेवाला आप ही होता है । ‘मैं ही मुझ को’ इस गाथा में ‘मैं ही’ कहनेसे मेरी हानि का कर्ता भगवान् नहीं, वह सामने मेरी रक्षा करनेके लिये संचार करने पर भी मैं ही मेरे नाश का कारण हुआ ऐसा श्रीशठकोपरि कहे हैं ।
मूलम्
स्वयमेव स्वविनाशनं-अहंकारस्य विषयाणां चादरणम् ॥ १८५ ॥
श्लोक
शब्दाद्यहंकृतिप्रीतिः स्वेनैव स्वविनाशनम् ॥ १८५ ॥
टीका संस्कृता
अस्य स्वयमेव विनाशकत्वं कीदृशमित्याकांक्षायामाह-स्वयमेवेत्यादिना । अहंकारो-देहाभिमानः, स्वातंत्र्याभिमानश्च । विषयाः-विहितनिषिद्धविषयाः । तेषामादरणं नाम-तेष्वत्यंतप्रावण्यम् । आत्मस्वरूपं भगवदनन्यार्हशेषं भगवदेकभोगं खलु वर्तते, एतादृशस्वरूपनाशनं खल्वत्रास्य प्रावण्यम् । उत्तरवाक्ये नमःशब्दार्थं वदति चेदेतत्सर्वं किं ? उत्तरवाक्ये नमसा पुरुषार्थस्य मध्यभित्तिभूतविरोधिनः सर्वे निवर्त्यत इति ज्ञापनार्थं हि ‘मनोवाक्कायैः’ इत्यादिचूर्णिकात्रयेण सकलविरोधिनिवृत्तिं च भाष्यकारोऽवोचत् । अयं च मुमुक्षुपडिमंत्रे नमःशब्दार्थकथनसमये ‘अत्राविद्यादयोऽपि निवर्तत’ इत्यवोचद्धि । तस्मादत्र च देहात्माभिमानादिरूपमहंकारं तत्कार्यं विषयप्रावण्यं तदुभयकार्यं भागवताद्यपचारप्रभृतिविरोधिनः सर्वान् प्रसक्तानुप्रसक्तं वदति, तस्मान्न विरोधः ।
टीका हिन्द्या
अपने को आप नाश करलेना माने-अहंकार और विषयों को आदर करना ॥ १८५ ॥ यह चेतन अपने आप को नाश करलेना माने क्या ? इस आकांक्षा में कहते हैं-अपने को इत्यादि । अहंकार माने-देहात्माभिमान और स्वातंत्र्याभिमान । विषय माने-विहित और निषिद्धविषय । इन को आदर करना माने-इन में अतिप्रेम करना । आत्मस्वरूप भगवदनन्यार्हशेष और भगवदेकभोगरूप होता है । तादृशस्वरूप को अहंकार और विषयों में प्रवण हो नाश करलेता है । उत्तरवाक्य के नमःशब्दार्थ को कहनेकी प्रतिज्ञा कर ये सब बातें क्यों करते हैं ? इस शंका में, उत्तरवाक्य के नमःशब्द से पुरुषार्थ के प्रतिबंधक संपूर्ण विरोधि निकाले जाते हैं, इस अर्थ के भान होने के लिये ‘मनोवचनकायों से’ ऐसा आरंभ कर तीन चूर्णिका से सकलविरोधि निवृत्ति को श्रीभाष्यकारस्वामी कहे हैं । वह लोकाचार्य भी मुमुक्षुपडि में नमःशब्दार्थ के कहने के समय में ‘इस में अविद्यादि निवृत्त होते हैं’ ऐसा कहे हैं । इस कारण इस स्थल में भी देहात्माभिमानादिरूप अहंकार, तत्कार्यरूप विषयप्रावण्य, उन दोनों के कार्यभूत भागवतापचार आदि संपूर्ण विरोधियों को प्रसक्तानुप्रसक्त कहने से विरोध नहीं है ।
मूलम्
अहंकारोऽग्निस्पर्शवत् ॥ १८६ ॥
श्लोक
अहंकारो भवेदग्निस्पर्शवदिति निश्चितम् ॥ १८६ ॥
टीका संस्कृता
एतदहंकारादीनां कार्यं विस्तरेणोपपादयितुं मनसि विचार्य प्रथममहंकारस्य क्रौर्यमाह-अहंकारस्येत्यादिना । अग्निस्पर्शवदिति-अग्निस्पर्शोऽन्वितस्थलं दुग्ध्वा नाशयति तद्वदयं चाश्रयाशी स्वरूपं साक्षान्नाशयतीत्यर्थः ।
टीका हिन्द्या
अहंकार अग्निस्पर्श के सदृश है ॥ १८६ ॥ इन अहंकारादिओं के कार्यको पूर्व में उपपादन करने के लिये विचार, पहिले अहंकार के क्रौर्य को कहते हैं—अहंकार इत्यादि से । अग्निस्पर्श अपने [[अन्वित|संबद्ध]] पदार्थ को जलाकर जैसे नाश करता है तैसा यह भी स्वस्वतंत्ररूप को जलाकर साक्षात् भस्म करता है ।
मूलम्
‘न कामकलुषं चित्तम्’ ॥ १८७॥
श्लोक
न कामकलुषं चित्तं नार्थो मे जीवितेन हि ॥ १८८ ॥
टीका संस्कृता
अस्याहंकारस्य क्रौर्ये प्रमाणानि दर्शयति, तत्र प्रथमं ऋग्वेदखिलभूतं जितंतेवचनमाह-‘न कामे’त्यादिना । ‘न कामकलुषं चित्तं न च मे त्वत्पदे स्थितम् । कामये वैष्णवत्वं तु सर्वजन्मसु केवलम् ॥’ अस्यार्थः-‘निरुपाधिको निरतिशयभोग्यश्चेति भगवतश्चरणयोः व्यवस्थितं मम मनः श्रीवैकुंठादिरूपमन्यदेवमपि स्वयंपुरुषार्थत्वेन विचार्य कलुषं न भवति, सर्वजन्मस्वपि तत्रैव रसो यथा स्यात्तथा तदेकप्राप्यं दास्यमेवाशासे’ इति । केवलपदेनास्यापि साधारणस्वतंत्रत्वं व्यावर्त्यते । तुशब्दोऽवधारणार्थः । अनेन मोक्षपर्यंतं स्वप्रीत्यर्थतयाऽऽगतं सर्वमहंकारगर्भत्वात् त्याज्यमित्युक्तम् ।
टीका हिन्द्या
‘काम से चित्त कलुषित नहीं है’ ॥ १८७॥ इस अहंकार के कार्य में प्रमाण दिखाते हैं, उस में पहिले ऋग्वेदखिलभूत जितंतेवचन को दिखाते हैं-काम से इत्यादि । ‘आप के चरणारविंद में स्थिरीभूत मेरा चित्त काम से कलुषित नहीं है । सर्वजन्मों में केवल वैष्णवत्व को चाहता हूं’ । निरुपाधिक और निरतिशयभोग्य भगवत् के चरणारविंदों में व्यवस्थित मेरा मन श्रीवैकुंठादि और किसी को स्वयंपुरुषार्थतया विचार व्याकुल नहीं होता है । सर्वजन्मों में आपही का रस बढे जैसा दास्य को ही अपेक्षा करता है । केवल पद से आप का और हमारा साधारण स्वातंत्र्य को दूर करता है । तु शब्द ‘ही’ का अर्थ में है । इस से मोक्षपर्यंत अपने संतोष के लिये आनेवाले सब अहंकारगर्भित होने से त्याज्य है यह अर्थ कहागया ।
मूलम्
‘न हि मे जीवितार्थः’ ॥ १८८ ॥
श्लोक
न कामकलुषं चित्तं नार्थो मे जीवितेन हि ॥ १८८ ॥
टीका संस्कृता
अनंतरं जानकीवचनमाह-‘न हि मे’ इत्यादि । ‘न हि मे जीवितार्थोऽस्ति नैवार्थैर्न च भूषणैः । वसंत्या राक्षसीमध्ये विना रामं महारथम् ॥’ अस्यार्थः-महारथं स्वामिनं विहाय राक्षसीनां मध्ये वसंत्या मम प्राणेन किंचित्प्रयोजनं नास्ति, धनैः किंचित्प्रयोजनं नास्ति, आभरणैः किंचित्प्रयोजनं नास्तीति । अनेन प्राणादिकं सर्वं तस्य विनियोगार्थं विना स्वस्य यदा भवति तदाऽहंकारस्पर्शित्वात्त्याज्यमित्यर्थ उक्तः ।
टीका हिन्द्या
‘मुझे जीने से प्रयोजन नहीं’ ॥ १८८ ॥ अनंतर जानकी के वचन को कहते हैं-मुझे इत्यादि । ‘महारथ श्रीरामजी के बिना राक्षसियों के बीच में वास करनेवाली मुझे जीने से प्रयोजन नहीं, द्रव्यों से नहीं और भूषणों से नहीं ॥’ इसका अर्थ-महारथ स्वामी के विश्लेष पाकर राक्षसियों के बीच में वासकरनेवाली मुझ को प्राण से कुछ भी प्रयोजन नहीं है, धनों से भी कुछ प्रयोजन नहीं है, आभरणों से भी कुछ प्रयोजन नहीं है । इस से प्राणादि सब उनके होनेपर भोग्य होते हैं अपनेलिये हो तो अहंकार होनेसे त्याज्य होते हैं यह अर्थ कहा गया ।
मूलम्
‘न देहम्’ ॥ १८९ ॥
श्लोक
‘न देहम्’ ॥ १८९ ॥
टीका संस्कृता
अनंतरं परमाचार्यस्य यामुनमुनेर्वचनमाह-‘न देहम्’ इति । ‘न देहं न प्राणान्न च सुखमशेषाभिलषितं न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् । बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा विनाशं तत्सत्यं मधुमथन ! विज्ञापनमिदम् ॥’ अस्यार्थः-‘मम प्राप्तशेषिन् ! तव शेषत्वरूपैश्वर्याद् बहिर्भूतं देहं क्षणमपि न सहे, अस्य देहस्य धारकान् प्राणांश्च न सहे, सर्वैरप्यभिलषितं सुखं च न सहे, पुत्रमित्रकलत्रादिकमन्यत्किंचिदपि न सहे, एतेषां सर्वेषां भोक्तारमात्मानं स्वयमपि न सहे, तत्सर्वं यथा स्वरूपमपि न दृश्येत तथा शतधा नश्यतु, इदं विज्ञापनं सत्यं, अन्यथा भवतोऽसत्यवादिना मधुना यत्प्राप्तं तत् प्राप्नुयामिति । अनेनास्मिन् शेषत्वाद्वहिर्भूतं सर्वमहंकारदुष्टत्वात् त्याज्यमित्युक्तम् ।
टीका हिन्द्या
‘देह को नहीं चाहता हूं’ ॥ १८९ ॥ अनंतर श्रीयामुनाचार्य के वचन को कहते हैं-देह इत्यादि । ‘आप के शेषत्व से बहिर्भूत होनेपर देह, प्राण, सुख, संपूर्ण अभिलाषा, आत्मा और अन्य किसी को भी क्षणकालतक भी न सहूंगा, सौ तरह से नाश को प्राप्त हो, हे मधुसूदन ! यह विज्ञापन सत्य है’ ॥ इस का अर्थ-हे मेरे प्राप्तशेषिन् ! आप के शेषत्वरूप ऐश्वर्य के बहिर्भूत देह को क्षणमात्र भी न सहूंगा । इस देह के धारक प्राणों को भी न सहूंगा, सर्वैरभिलषित सुख को भी न सहूंगा, पुत्रमित्रकलत्रादिरूप अन्य किसी को भी न सहूंगा, इन सब के भोक्ता आत्मा को भी न सहूंगा, ये सब जैसा न दीखे तैसा सौ तरह से नष्ट हो जाय यह विज्ञापन सत्य है, सत्य न हो तो आप के विषय में असत्याचरण करनेवाला मधुनामक राक्षस से प्राप्त हुआ अनर्थ मुझ को भी प्राप्त होय । इस से भगवत्-शेषत्व से बहिर्भूत सब ही अहंकारदूषित होनेसे त्याज्य है यह अर्थ कहा गया ।
मूलम्
‘सुमहापदप्रकारमपि’ ॥ १९० ॥
श्लोक
न देहं न च तन्मुक्तिप्रकारं वा वदाम्यहम् ॥ १९० ॥
टीका संस्कृता
अनंतरमज्ञाननिवृत्तिमत्यानंदं प्राप्तानामग्रेसरस्य वचनमाह-सुमहापदमित्यादिना । ‘सूरे मोक्षं स्वीकुरु’ इत्युक्ते ‘मम प्रीत्यर्थं दीयमानस्य मोक्षस्य सर्वप्रकारेण च विलक्षणत्वेऽपि तस्य प्रकारं च न प्रसंजयामः’ इत्यर्थः । अनेन स्वप्रीत्यर्थं मोक्षश्चाहंकारगर्भत्वादैश्वर्यादिवत्त्याज्य इत्युक्तम् ।
टीका हिन्द्या
‘महापद के प्रकार को भी’ ॥ १९० ॥ अनंतर अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] को प्राप्त होनेवालों में अग्रेसर शठकोपसूरि के वचन को कहते हैं-महापद के प्रकार को इति । इस का अर्थ ‘हे सूरि ! मोक्ष को लेवो’ ऐसा ईश्वर के कहनेपर ‘मेरा संतोष के लिये दियेजानेवाले मोक्ष अत्यंत विलक्षणहोने पर भी उस की बात को भी प्रस्ताव करनेवाला नहीं हूं’ । इस से अपने संतोष के लिये होनेवाला मोक्ष भी अहंकारगर्भित होने से ऐश्वर्यादियों के तरह त्याज्य होता है-यह अर्थ कहा गया ।
मूलम्
प्रतिकूलविषयस्पर्शो विषस्पर्शवत्, अनुकूलविषयस्पर्शो विषमिश्रान्नभोजनवत् ॥ १९१ ॥
श्लोक
निषिद्धाभिन्नभोगो हि विषभोगवदिष्यते । विहिताभिन्नभोगश्च विषमिश्रान्नभोगवत् ॥ १९१ ॥
टीका संस्कृता
एवमहंकारस्य क्रौर्यमुक्त्वाऽनंतरं विषयाणां क्रौर्यमाह-प्रतिकूलविषयस्पर्श इत्यादिना । प्रतिकूलविषयो नाम-लोकविरुद्धो नरकहेतुश्च निषिद्धविषयः । तस्य विषस्पर्शवदित्युक्तं प्राणबाधकत्वेन प्रसिद्धत्वात् प्रातिकूल्ये भासमाने सति प्राणं नाशयद्विषस्पर्शवत्, शास्त्रनिषिद्धतया प्रसिद्धत्वेन प्रतिकूल इति भासमानत्वे सति स्वरूपनाशकत्वात् । अनुकूलविषयो नाम-लोकविरुद्धत्वनरकहेतुत्वरहितो विशिष्टवेषानुकूलश्च विहितविषयः । तत्स्पर्शो विषमिश्रान्नभोजनवदित्युक्तं-विषमिश्रान्नभोजनं हि यथाऽजानतोऽनुकूलत्वेन भासमानं तत्प्राणं नाशयति तथा शास्त्रविहिततया प्रसिद्धत्वेनानुकूलवद्भासमानत्वे सति आत्मनोऽनन्यभोग्यत्वरूपस्वरूपनाशकत्वात् । ‘विषं विषयाणां च महदंतरम् । उपयुक्तं विषं हंति विषयाः स्मरणादपि ॥’ इति भोजनमपि विना स्मरणमात्रेण नाशयतीति विषादपि विषयोऽतिक्रूर इत्युक्तम् ।
टीका हिन्द्या
प्रतिकूलविषयों के स्पर्श विषस्पर्श के सदृश है, अनुकूलविषयों के स्पर्श विषमिश्रभोजन के सदृश हैं ॥ १९१ ॥ तथाच अहंकार का क्रौर्य कहा गया, अब विषयों के क्रौर्य को कहते हैं-प्रतिकूलविषयस्पर्श इत्यादि । प्रतिकूलविषय माने-लोकविरुद्ध और नरकहेतु निषिद्धविषय । उन के स्पर्श को विषस्पर्शसदृश कहना-प्राणों के बाधकत्वेन प्रसिद्ध होने से प्रातिकूल्य भासमान होते हुए प्राण को नाश करनेवाले विषस्पर्श के तरह शास्त्रनिषिद्धत्वेन प्रसिद्ध होने से प्रतिकूलतया भासमान हो स्वरूप को नाश करनेसे । अनुकूलविषय माने-लोकविरुद्ध और नरकहेतु न हो विशिष्टवेष (शरीरगतवर्णाश्रमादि) के अनुकूल होनेवाले विहितविषय । उसका स्पर्श को विषमिश्रभोजनके तरह कहना-विषमिश्रान्नभोजन नहीं जाननेवालों को अनुकूलतया भासमान होते हुए खानेवालों के प्राण को जैसा नाश करता है तैसा शास्त्रविहिततया प्रसिद्ध होने से अनुकूलवत् भासमान हो आत्मा के अनन्यभोग्यत्वरूप स्वरूप को नाश करनेसे । ‘विष और विषयों के बीच में अत्यंत वैषम्य है, विष खाने के बाद मनुष्य का नाश करता है विषय तो स्मरण से भी नाश करता है ।’ ऐसा, भोजन की अपेक्षा बिना स्मरणमात्र से नाश करनेसे विषकी अपेक्षा विषय अतिक्रूर कहा गया ।
मूलम्
अग्निज्वालां निगीर्य पिपासां शमयितुमिच्छेव, नृत्यतः सर्पस्य छायायां स्थातुमिच्छेवच्च विषयप्रावण्येन सुखितुमिच्छा ॥ १९२ ॥
श्लोक
पिपासयान्वितो वह्निज्वालां निगीर्य हि । पिपासाशमनेच्छावद्विषयप्रावण्ये सुखम् ॥ चलन्नागफणच्छायामवलंब्य यथा स्थितिः । तद्वद्विषयप्रावण्येच्छानिबंधनजं सुखम् ॥ १९२ ॥
टीका संस्कृता
एवं नाशकरविषयेषु प्रावण्येन सुखितुमिच्छा विपरीतज्ञानकार्यमित्यर्थं प्रमाणप्रसिद्धदृष्टांतमुखेनाह-अग्निज्वालेत्यादिना । ‘आस्वाद्य दहनज्वालामुदन्याशमनं यथा । तथा विषयसंसर्गात् सुखमिच्छंति शरीरिणः ॥’ इति, ‘विषयाणां तु संसर्गाद्यो बिभर्ति सुखं नरः । नृत्यतः फणिनश्छायां विश्रमायाश्रयेत सः ॥’ इति चोक्तप्रकारेण जलार्थं पिपासितो विपरीतज्ञानेन तापहेतुमग्निज्वालां निगीर्य स्वपिपासां निवर्तयितुं यथेच्छति, आदित्यकिरणातिमात्रतप्तस्तादृशतापं शमयितुं छायेति मात्रमवलंव्यागाम्यनर्थमनिरूप्यात्यंतकुपितस्य फणां विस्तीर्य नृत्यतः सर्पस्य छायायां स्थातुं यथेच्छति तथा वर्तते, बाधका विषयाः सुखावहा इति मत्वा तत्र प्रवणस्ताननुभूय सुखितुमिच्छतीत्येतदित्यर्थः ।
टीका हिन्द्या
अग्निज्वाला को निगलकर प्यास को शांत करने की इच्छा के तरह (और) नाचता हुआ सर्प की छाया में बैठ ताप को दूर करनेकी इच्छा के तरह भी-विषयप्रवण हो सुख पानेकी इच्छा करना ॥ १९२ ॥ इस प्रकार विनाशकर विषयों में प्रवण हो सुख पाने की इच्छा करना विपरीतज्ञान का कार्य है ऐसा प्रमाणप्रसिद्धदृष्टांत द्वारा कहते हैं-अग्निज्वाला को इत्यादि । ‘अग्निज्वाला को निगल जैसा प्यास को शांत करना, तैसा विषयसंबंध से मनुष्य को सुख पानेकी इच्छा ।’, ‘विषयों के संबंध से जो मनुष्य सुख पाता है, वह नाचनेवाले सर्प की छाया को विश्राम के लिये आश्रयण करता है ।’ ऐसा भी कहा हुआ प्रकार जल के लिये प्यासा विपरीतज्ञान से तापहेतु अग्निज्वाला को निगल अपनी प्यास को शांत करने की इच्छा करनेके तरह और आदित्य किरणों से अत्यंत तप्त मनुष्य उस ताप को शमन करने के लिये छायामात्र को अवलंवन कर आगामी अनर्थ को न जान अत्यंत कुपित फणा को फैलाकर खेलनेवाले सर्प की छाया में ठहरने की इच्छा करके तरह भी होता है, बाधक विषयों को सुखकर समझ उन में प्रवण हो उनको भोग सुख पानेकी इच्छा करना ।
मूलम्
अशुणमा (केकयपक्षी) यथा नश्यति तथा भगवदनुभवनिरतो मृदुप्रकृतिर्विषयदर्शनेन नश्यति ॥ १९३ ॥
श्लोक
भगवद्भोगजुष्टस्य मृदुप्रकृतिकस्य च । केकयस्य यथा नाशो नाशो विषयदर्शनात् ॥१९३॥
टीका संस्कृता
विषयस्पर्शः स्वरूपनाशकः, विषयप्रवणः सुखितुमिच्छतीतीदं विपरीतज्ञानकार्यमिति हि पूर्वमुक्तं, विषयस्पर्शो नापेक्षितः, भगवद्गुणेष्ववगाहमानस्यैतद्विषयदर्शनमपि नाशयतीत्याह-अशुणमा (केकयपक्षी) इत्यादिना । अशुणमा (केकयपक्षी) इति पक्षिविशेषोऽतिमधुरगानश्रवणेन मनसो जलद्रव्यतामापन्नस्य गानविरतौ निष्ठुरवाद्येऽभिहते श्रुत्वा यथा नश्यति, तथा भगवदनुभवैकस्मिन्नेव तत्परस्तद्गुणरसे शिथिलीभूयैतस्य विषयाणां नामश्रवणेऽपि व्याकुलीभवन् मृदुप्रकृतिर्भगवदेकभोगत्वरूपस्वरूपनाशकान् विषयाणां दर्शनमात्रे कुपितो नश्यतीत्यर्थः ।
टीका हिन्द्या
अशुणमा (केकय) पक्षी जैसा नाश होता है वैसा भगवदनुभव में हो आसक्त मृदुस्वभाववाला विषयदर्शन से नाश होता है ॥ १९३ ॥ विषयस्पर्श स्वरूप को नाश करता है, विषयप्रवण हो सुख की इच्छा करना विपरीतज्ञान का कार्य है ऐसा पहिले कहा है । विषयस्पर्श की अपेक्षा ही नहीं चाहिये, भगवद्गुणों में शिथिल होनेवाला इन (विषयों) को देखनेमात्र से नष्ट होता है ऐसा कहते हैं-अशुणमा (केकय) पक्षी इत्यादि । अशुणमा (केकय) पक्षी-पक्षीविशेष अत्यंतमधुर गीत के श्रवण से पिघलने की दशा में अतिकठिनबाजे जैसा बजने पर सुनकर जैसा नष्ट होता है वैसा भगवदनुभव एक ही में आसक्त हो उनके गुणों के रस में शिथिल हो इतरविषयों के नाम सुनने से भी व्याकुल होनेके वाला भगवदेकभोग्यरूपस्वरूप को नाश करनेवाले विषयों को देखने मात्र से रोरो कर नष्ट होता है ।
मूलम्
‘दर्शयित्वा नाशयसि किम्’ इत्युक्तं हि ॥१९४॥
श्लोक
दर्शयित्वा विनाशं मे करोषीत्युक्तिरस्ति हि ॥ १९४ ॥
टीका संस्कृता
अमुमर्थमाप्तवचनेन घटयति-दर्शयित्वेत्यादिना । अयमर्थः-अल्परसान् अनेकविधान् दुर्विषयान् दर्शयित्वा तैः सह सहवासमसहमानतया स्थिते तदुचितस्थले स्थातुं निदानं पापं कृतवंतं मां नाशयितुं पश्यसि किमित्यर्थः ।
टीका हिन्द्या
‘दिखाकर नाश करोगे क्या ?’ ऐसा कहें हैं ॥ १९४ ॥ इस अर्थ को आप्तवचन से स्थिर करते हैं—दिखाकर इत्यादि से । अल्परस और अनेकप्रकार के दुर्विषयों को दिखाकर उन के साथ संबंध असह्य हो उन के रहनेके उचित संसार में पडे रहनेके कारण पाप किया हुआ मुझ को नाश करने का विचार करते हो क्या ? ऐसा शठकोपसूरि कहे हैं ।
मूलम्
एवंभूतविषयदोषाज्ञानवतो विषयप्रावण्यस्य च तारतम्यमाह-अज्ञात्वेत्यादिना ।
मूलम्
अज्ञो विषयप्रवणः-केवलनास्तिकवत्, ज्ञानवान् विषयप्रवणः-आस्तिकनास्तिकवत् ॥ १९५॥
श्लोक
अज्ञो हि विषयासक्तः परं नास्तिकवद्भवेत् । ज्ञानवान् विषयासक्त आस्तिको नास्तिको यथा ॥ १९५॥
टीका संस्कृता
अज्ञो विषयप्रवणः-विषयाणां दोषभूयस्त्वं स्वरूपविरुद्धतां चाज्ञात्वा तत्राशां कृत्वा तानुज्जीवनाय धावमानः । केवलनास्तिकः-धर्माधर्मपरलोकचेतनेश्वरादीनां प्रतिपादकशास्त्रे प्रामाण्यबुद्धिं किंचिदपि विना स्वैरसंचारपरशुद्धनास्तिकः । ज्ञानवान् विषयप्रवणः-विषयाणां दोषदुष्टतां स्वरूपविरुद्धतां च ज्ञात्वा तत्रादरेणासक्तः । आस्तिकनास्तिकः-धर्माधर्मादिसकलप्रतिपादकशास्त्रं प्रमाणमिति स्थितत्वादास्तिक इति वक्तुं योग्यः, तादृशशास्त्रमर्यादायामतिष्ठन् यथेच्छं कुर्वन् स्थित इति नास्तिकसमः ।
टीका हिन्द्या
न जानकर विषयों में आसक्त केवल नास्तिक के तरह, जानकर विषयों में आसक्त आस्तिकनास्तिक के तरह ॥ १९५ ॥ एवंभूत विषयदोष को नहीं जान इन में आसक्त होनेवाला और इस दोष को जान इन में आसक्त होनेवाला इन दोनों के तारतम्य को कहते हैं-न जानकर इत्यादि । न जानकर विषयों में आसक्त-विषयों के दोषाधिक्य और स्वरूपविरुद्धता को न जान उन की इच्छा कर ऊपर गिरनेवाला । केवल नास्तिक है-धर्म अधर्म परलोक चेतन ईश्वर आदि को प्रतिपादन करनेवाले शास्त्र में प्रामाण्यज्ञान रहित यथेष्ट संचार करनेवाला शुद्धनास्तिक है । जानकर विषयों में आसक्त-विषय दोषों से दुष्ट और स्वरूपविरुद्ध हैं ऐसा जानकर भी उन की इच्छा कर ऊपर गिरनेवाला । आस्तिकनास्तिक है-धर्म अधर्म आदि सकलप्रतिपादक शास्त्र को प्रमाण माननेसे आस्तिक कहने के योग्य, उस शास्त्र की मर्यादा में न रह यथेष्ट संचार करने से नास्तिक के सदृश होता है ।
मूलम्
केवलनास्तिको वशीकर्तुं शक्यः, आस्तिकनास्तिकः कदापि वशीकर्तुं न शक्यते ॥ १९६ ॥
श्लोक
वशीकर्तुं स शक्यः स्यात्केवलं नास्तिको हि यः । कदापि न तथा शक्य आस्तिको नास्तिको ह्यसौ ॥१९६॥
टीका संस्कृता
दृष्टांतभूतयोरनयोः को विशेष इत्यत आह-केवलेत्यादि । शास्त्रं नास्तीत्युक्त्या यथेच्छं कुर्वन् संचरमाणः शास्त्रे आस्तिक्योत्पत्तये उपदेशान् कृत्वा यथा विधिनिषेधशास्त्रवश्यः स्यात्तथा कर्तुं शक्यते । शास्त्रास्तिक्यवतस्तत्प्रतिपाद्यप्रमेयांश्च ज्ञात्वा पापभयं विना नास्तिकवत् स्वैरं संचरमाणस्य तस्योक्त्वा ज्ञापनीयस्याभावादुपदेशमुखेन कदापि वशीकर्तुं न शक्यत इत्यर्थः । अनेनाज्ञो विषयप्रवणो विषयदोषाद्युपदेशमुखेन यथा विरक्तः स्यात्तथा वशीकर्तुं शक्यते, ज्ञानवान् विषयप्रवणो विषयदोषादिकं ज्ञात्वैव प्रवर्तमानत्वात्तदुपदेशेन कदापि वशीकर्तुं न शक्यत इत्युक्तम् । ‘अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रंजयति ॥’ इत्युक्तं किल । अतस्तस्मादप्ययं निकृष्टतम इति हृदयम् ।
टीका हिन्द्या
केवलनास्तिक को वश कर सक्ते हैं, आस्तिकनास्तिक को कदापि वश नहीं कर सक्ते हैं ॥ १९६ ॥ दृष्टांतभूत इन दोनों में क्या विशेष है ? इस शंका में कहते हैं-केवल इत्यादि । शास्त्र नहीं है समझ यथेष्ट संचार करनेवाले को शास्त्र में आस्तिक्यबुद्धि उत्पन्न होनेके लिये उपदेशकर जैसा विधिनिषेधशास्त्र के वश्य हो वैसा करसक्ते हैं । शास्त्र में आस्तिक्यबुद्धि से शास्त्रप्रतिपाद्य प्रमेयों को जानकर भी पापभयरहित हो नास्तिक के तरह यथेष्ट संचार करनेवाले को कह मनाने के योग्य किसी वचन के न होनेसे उपदेश द्वारा कदापि वश नहीं करसक्ते हैं । इस से अज्ञानी विषयप्रवण को विषयदोष आदि के उपदेशद्वारा जैसा विरक्त हो वैसा शोधन करसक्ते हैं । ज्ञानवान् विषयप्रवण को विषयदोषादियों को स्पष्ट जानकर भी प्रवृत्त होनेसे उन दोषों के उपदेश द्वारा कदापि शोधन नहीं करसक्ते हैं ऐसा तात्पर्य होता है । ‘अज्ञानी को सुख से समझा सक्ते हैं, विशेषज्ञ को अत्यंत सुख से समझा सक्ते हैं, [[लवलेश|अल्प]] ज्ञान से पंडितमानी मनुष्य को ब्रह्मा भी नहीं समझा सक्ते हैं ।’ ऐसा कहा है । इस लिये उस की अपेक्षा यह अत्यंत नीच है समझना ।
मूलम्
इदं द्वयमपि स्वरूपेण नाशयतीत्येतावन्मात्रं विना भागवतविरोधं च वर्धयित्वा नाशयति ॥ १९७॥
श्लोक
एतद् द्वयं स्वरूपेण नाशयतीति तद्विना । वर्धयित्वा विरोधं च महाभागवतैः सह । नाशयत्येव तस्मात्तद् द्वयं विद्वान् परित्यजेत् ॥ १९७ ॥
टीका संस्कृता
‘स्वस्य स्वेन’ इति वाक्ये स्वरूपनाशकत्वेनोक्तानामहंकारस्य विषयाणां च क्रौर्यं पृथक् पृथगुक्तवान्, अथोभयोरपि विद्यमानं क्रौर्यविशेषं तंत्रेणाह-इदमित्यादिना । उक्तदोषयुक्ताहंकारविषयप्रावण्यरूपमेतद्द्वयमपि स्वासाधारणाकारेण स्थित्वा नाशयतीत्येतावदेव न, भागवतापचाररूपमहानर्थं च वर्धयित्वा स्वरूपनाशं करोतीत्यर्थः । स्वरूपेणेति-स्वेन रूपेणेत्यर्थः । अहंकारादौ प्रवणश्चेद्यावान् भवति तावान्न भवति भागवतापचारे कृते विद्यमानो भगवन्निग्रहः ।
टीका हिन्द्या
ये दोनों अपने स्वरूप से नाश करते हैं इतना ही नहीं, भागवतविरोध को उत्पादन कर भी नाश करते हैं ॥ १९७ ॥ ‘अपने को आप ही’ इस वाक्य में स्वरूपनाशकतया कहे हुए अहंकार और विषयों के क्रौर्य को अलग अलग पहिले कहे हैं, अब दोनों के क्रौर्यविशेष को एकवाक्य से कहते हैं—ये इत्यादि । पूर्वोक्त दोषविशिष्ट ये अहंकार और विषयप्रावण्य दोनों अपने स्वरूप से नाश करते हैं इतना ही नहीं, भागवतापचाररूप महानर्थ को उत्पादन कर स्वरूप को नाश करते हैं समझना । अहंकारादियों में आसक्त होनेपर जितना दोष होता है उतना मात्र नहीं भागवतापचार से होनेवाला भगवान् का निग्रह-अर्थात् उस से अधिक समझना ।
मूलम्
नामरूपविशिष्टाः संतो भागवतापचारं कुर्वतो दग्धपटवत् ॥ १९८ ॥
श्लोक
नामरूपविशिष्टा ये वैष्णवास्त्वपचारकाः । ते वै दग्धपटाकारा विज्ञेयाः सूक्ष्मदर्शिभिः ॥ १९८ ॥
टीका संस्कृता
तर्हि भागवतविरोधो यदा जायते तदैव स्वरूपनाशो जायते चेत् भागवतविरोधे कृतेऽपि स्वरूपानुरूपनामरूपविशिष्टाः कथं तिष्ठंतीत्यत आह-नामरूपेत्यादि । वैष्णवत्वचिह्नभूतदास्यनाम्ना तदनुगुणरूपेण च विशिष्टाः संत अंतरार्द्रतां विनाऽहंकारादिवश्याः भागवतविषये विरोधं कृत्वा वर्तमानाः स्वरूपनाशं दग्धत्वेऽपि आकारविशिष्ट इव भासमानेन दग्धपटेन सदृशा इत्यर्थः ।
टीका हिन्द्या
नामरूपविशिष्ट हो भागवतविरोध करनेवाले दग्धवस्त्र के तरह होते हैं ॥ १९८ ॥ इस प्रकार भागवतापचार होते ही स्वरूप नाश हो तो भागवतापचार करते हुए संचार करनेपर भी स्वरूपानुरूप नामरूपविशिष्ट हो कैसे रहते हैं ? इस शंका में कहते हैं-नामरूपविशिष्ट इत्यादि । वैष्णवत्वचिह्नभूत दास्यनाम और तदनुगुण रूप के रहते हुए भीतर किसी प्रकार के सद्गुण से रहित अहंकारादि के वश हो भागवतविषय में विरोध करनेवाले संपूर्णतया दग्ध होनेपर भी रूपविशिष्ट के तरह भान होनेवाले जला हुआ वस्त्र के सदृश होते हैं ।
मूलम्
पिंडीकृतपटो दग्धोऽपि आतानवितानसदृशमेव तिष्ठतः, वायौ संचरत्युत्पतेत् ॥ १९९ ॥
श्लोक
पिंडीभूते पटे दग्धे आताने च वितानके । समेऽपि वायुसंचारे ह्युत्पतत्येव सर्वदा ॥ १९९ ॥
टीका संस्कृता
दग्धपटस्य प्रकारं दर्शयति-पिंडीकृतेत्यादिना । सम्यक्पिंडीकृतपटः सर्वतो दग्धोऽपि आतानवितानसदृशमेव पूर्ववत्तिष्ठतः । एकस्मिन् वायौ सम्यक् संचरति चेद्यथा स्वरूपमपि न दृश्येत तथा शिथिलो गच्छतीत्यर्थः । तथैवापचाराग्निदग्धा अपि नामरूपाभ्यां युक्ता भगवन्निग्रहविशेषेण सम्यक् ताडिताः स्वरूपभ्रष्टा भवतीति हृदयम् ।
टीका हिन्द्या
घडी किया हुआ वस्त्र दग्ध होतो आतानवितान पहिलेके तरह रह वायु बहने पर उड़ जाता है ॥ १९९ ॥ जलाहुआ वस्त्र के प्रकार को दिखाते हैं—घडी कियाहुआ इत्यादि । घडी किया हुआ वस्त्र सर्वत्र दग्ध होनेपर भी आतानवितान पहिलेके तरह समान रहेगा, परंतु एक हवा जोरसे बहनेपर रूप भी जैसा नहीं रहे तैसा उड जायगा । इसी तरह अपचाररूप अग्नि से दग्ध होनेपर भी नामरूपों से रहनेवाले भगवन्निग्रहविशेष से अत्यंत पीडित हो भस्म हो जाते हैं ऐसा तात्पर्य जानना ।
मूलम्
‘ईश्वरोऽवतीर्याऽकरोदतिमानुषचेष्टितानि भागवतापचारासहिष्णुत्वाद्’ इति यतिर्वदेत् ॥ २००॥
श्लोक
अवतीर्याकरोदीशो दिव्यचेष्टाश्च या हि वै । विष्णुभक्तापचारस्यासहिष्णुत्वादिति स्मृतिः ॥ २०० ॥
टीका संस्कृता
भागवतापचारे कृते ईश्वरोऽसहमान उचितदंडं करोतीत्यमुमर्थमाप्तवचनेनाह-ईश्वर इत्यादिना । ‘संकल्पमात्रेण सर्वमपि निर्वोढुं शक्तेन सर्वशक्तिना सर्वेश्वरेण स्वस्वरूपं विहायेतरसजातीयोऽवतीर्य कायिकव्यापारयुक्तेन कृतानि हिरण्यरावणादिनिरसनरूपातिमानुषचेष्टितानि सर्वाणि, प्रह्लादमहर्षिप्रभृतिषु तत्तद्भागवतेषु तैस्तैः कृतापचारस्यासहिष्णुत्वाद्’ इत्याप्ततमो यतिर्वदेदित्यर्थः ।
टीका हिन्द्या
‘ईश्वर के अवतार लेकर किये हुए अतिमानुषचेष्टित सभी भागवतापचार को न सहनेसे’ ऐसा [[वेशी]] कहे हैं ॥ २०० ॥ भागवतापचार करनेपर ईश्वर न सह उचित दंड देते हैं इस अर्थ को आप्तवचन से कहते हैं—ईश्वर के इत्यादि । ‘संकल्पमात्र से सब को निर्वाह करनेवाले सर्वशक्ति सर्वेश्वर के अपने स्वरूप को बिगाड इतरसजातीय हो अवतार कर हाथ से स्पर्श कर किये हुए हिरण्यरावणादि निरसनरूप आदि अतिमानुषचेष्टित सभी प्रह्लाद, महर्षि प्रभृति उन उन भागवतविषयों में उन उन के कर्तृक अपचार को न सहनेसे’, ऐसा आप्ततम वेदांती कहे हैं ।
मूलम्
‘अवमानक्रिया’ ॥ २०१ ॥
श्लोक
अवमानक्रियेत्यादिप्रमाणं तत्र कीर्तितम् ॥ २०१ ॥
टीका संस्कृता
एतद्भागवतापचारस्य क्रौर्ये भगवदुक्तिं दर्शयति-अवमानेत्यादिना । ‘या प्रीतिर्मयि [[सत्ता|सक्ता]] मनभक्तेषु सदाऽस्तु ते । अवमानक्रिया तेषां संहरत्यखिलं जगत् ॥’ इत्युक्तम् ।
टीका हिन्द्या
‘अवमानक्रिया’ ॥ २०१ ॥ इस भागवतापचार का कार्य में भगवद्वचन को दिखाते हैं-अवमानक्रिया’ इति । ‘तुम को जो प्रीति मुझ में है मेरे भक्तों में भी वही प्रीति हो, उन के अपमान करने से अखिलजगत का संहार होता है ॥’ ऐसा स्वयं भगवान् ने ही कहा है ।
मूलम्
भागवतापचारोऽनेकविधः ॥ २०२ ॥
श्लोक
विष्णुभक्तापचारश्चानेकधा परिकीर्तितः ॥ २०२ ॥
टीका संस्कृता
एतादृशभागवतापचारस्य वैविध्यमाह-भागवतापचार इत्यादिना । अनेकविध इति-जन्मनिरूपणं, ज्ञाननिरूपणं, वृत्तनिरूपणं, आकारनिरूपणं, बंधुनिरूपणं, वासनिरूपणमित्यादिभिरनेकप्रकारो भवतीत्यर्थः ।
टीका हिन्द्या
भागवतापचार अनेकविध हैं ॥ २०२ ॥ इस प्रकार के भागवतापचार अनेकविध हैं ऐसा कहते हैं-भागवतापचार इत्यादि से । अनेकविध हैं—जन्मनिरूपण, ज्ञाननिरूपण, वृत्तनिरूपण, आकारनिरूपण, बंधुनिरूपण, वासनिरूपण इत्यादि बहुप्रकारके हैं ।
मूलम्
तत्रैकं तेषु जन्मनिरूपणम् ॥ २०३ ॥
श्लोक
तत्रैकं जन्मनां तेषां निरूपणमुदाहृतम् ॥ २०३ ॥
टीका संस्कृता
तेषां मध्ये जन्मनिरूपणस्य क्रौर्यं वक्तुं तदुपादत्ते-तत्रेत्यादिना । जन्मनिरूपणं नाम-निकृष्टकुलेष्ववतीर्णानां भागवतानां भगवदीयत्वप्रयुक्तमाहात्म्यमदृष्ट्वा निकर्षबुद्ध्या तज्जन्मनिरूपणम् ।
टीका हिन्द्या
उन में एक-उनके विषय में जन्मनिरूपण ॥ २०३ ॥ उन में जन्मनिरूपण का क्रौर्य को कहने के लिये उस को उपादान करते हैं-उन में इत्यादि । जन्मनिरूपण माने-निकृष्टकुलों में अवतीर्ण भागवतों के भगवत्संबंधप्रयुक्तमाहात्म्य को नहीं देख नीचताबुद्धि से उन उन जन्मोंको निरूपण करना ।
मूलम्
इदं चार्चावतारे उपादानस्मृतेरपि क्रूरम् ॥ २०४ ॥
श्लोक
अर्चामूर्तेरुपादानस्मृतेः क्रूरं बुधा जगुः ॥ २०४ ॥
टीका संस्कृता
एतत्क्रौर्यमाह-इदं चेत्यादिना । इदं चेति-भागवतजन्मनिरूपणं दृश्यते । अर्चावतारे उपादानस्मृतिर्नाम-आश्रिताभिमतं यत्किचिद्द्रव्यं स्वस्य विग्रहत्वेनांगीकृत्य तत्राप्राकृतदिव्यविग्रहे क्रियमाणमादरं कृत्वा स्थितिरूपवैभवमज्ञात्वा निकर्षबुद्धिं कृत्वा विग्रहोपादानद्रव्यमेतत्खल्विति चिंतनम् । ततोऽप्यस्य क्रूरत्वं नाम-एतदपेक्षया सर्वेश्वरस्यात्यंतनिग्रहहेतुत्वम् ।
टीका हिन्द्या
यह अर्चावतार में उपादानस्मृति की अपेक्षा क्रूर है ॥ २०४ ॥ इस का क्रौर्य को कहते हैं-यह इत्यादि । अर्चावतार में उपादानस्मृति माने-आश्रित के किसी एक द्रव्य को अपने दिव्यविग्रहतया स्वीकार कर उस में अप्राकृतदिव्यविग्रह में क्रियमाण आदर करते हुए विराजने के वैभव को न जान निकृष्टतया मान ‘विग्रह के उपादानद्रव्य अमुक है’ ऐसा विचारना । उस की अपेक्षा क्रूर माने-वैसा विचारनेपर कितना सर्वेश्वर निग्रह करते हैं उस की अपेक्षा भागवतों के जन्मनिरूपण करनेपर अत्यधिक निग्रह करते हैं ।
मूलम्
तन्मातृयोनिपरीक्षया सममिति शास्त्रं वदति ॥२०५॥
श्लोक
महाभागवतानां यदिदं जन्मनिरूपणम् । मातृयोनिपरीक्षायाः सममाहुर्मनीषिणः ॥ २०५ ॥
टीका संस्कृता
तस्य क्रौर्यं च कियदित्यत आह-तदित्यादिना । ‘अर्चावतारोपादानं वैष्णवोत्पत्तिचिंतनम् । मातृयोनिपरीक्षायास्तुल्यमाहुर्मनीषिणः ॥’ इत्युक्तम् । एवमुभयमपि मातृयोनिपरीक्षायाः सममिति शास्त्रेणोक्तावपि तदर्चावतारे उपादानस्मृतेर्निदर्शनं भवति, वैष्णवोत्पत्तिचिंतनं ततोऽपि क्रूरमित्यस्य हृदयम् । मातृयोनिपरीक्षा नाम-अन्यस्त्रीयोनिवैलक्षण्यावैलक्षण्यवासनयाऽस्यापि तथा निरूपणम् । तत्तुल्यमिति-एवं निरूपणे कृते तस्य यावत्पापं स्यात्, अर्चावतारविग्रहोपादानचिंतने च तावत्पापं स्यादित्यर्थः ।
टीका हिन्द्या
उस को मातृयोनिपरीक्षा के तरह शास्त्र कहता है ॥ २०५ ॥ उस का क्रौर्य कितना है इस प्रश्न में उत्तर देते हैं-उन को इत्यादि । ‘अर्चावतार के उपादानद्रव्य और वैष्णवोत्पत्तिचिंतन इन दोनों को मातृयोनिपरीक्षा के तरह विद्वान् लोग कहते हैं ।’ ऐसा कहा है । इस प्रकार दोनों को मातृयोनिपरीक्षासदृशतया शास्त्र के कहनेपर भी वह अर्चावतार में उपादानद्रव्यचिंतन के लिये दृष्टांत होता है इतना ही, वैष्णवोत्पत्तिचिंतन उस की अपेक्षा क्रूर है ऐसा लोकाचार्य का अभिप्राय है । मातृयोनिपरीक्षा माने-अन्यस्त्रीयोनि वैलक्षण्य अवैलेक्षण्य के निरूपणकरने के वासना से इस को भी वैसा निरूपण करना । उस के तरह माने-ऐसा मातृयोनि को निरूपण करनेसे कितना दोष होता है उतना दोष अर्चावतारोपादानद्रव्य के चिंतन में होता है ऐसा तात्पर्य जानना ।
मूलम्
त्रिशंकुवत्कर्मचंडालो भवेत्-वक्षसि यज्ञोपवीतमेव चर्मरज्जुर्भवेत् ॥ २०६ ॥
श्लोक
भवेत्त्रिशंकुवत्कर्मचाण्डालो हृदि याज्ञिकम् । सूत्रमेव भवेच्चर्मरज्जुवद्भगवदपराधतः ॥ २०६ ॥
टीका संस्कृता
तदपचारस्य फलं दग्धपटवन्नष्टकल्पतया स्थित्वा देहावसाने स्वरूपनाशनं भवत्येतावदेव न, एतदपचारकरणसमय एव कर्मचंडालो भवेदित्याह-त्रिशंकुवदित्यादिना । इक्ष्वाकुवंश्यस्त्रिशंकूराजा कुलगुरुं वशिष्ठमहर्षि ‘सशरीरस्वर्गप्राप्त्यर्थं मां याजय’ इत्यपेक्षत, महर्षिश्च ‘ममाशक्यम्’ इत्यवदत्, तत्स्थानात्तत्पुत्रतपोनुष्ठानस्थले गत्वा एतद्वृत्तांतमुक्त्वा तानत्यंतमनुवर्त्य ‘यूयं मामेवं याजयत’ इति निरबध्नात्, ‘त्वं दुर्बुद्धिर्महर्षिणाऽशक्यमित्युक्तमस्माभिः कथं कर्तुं शक्यम्’ इत्यवोचन् । ‘तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् । स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव च । अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ! ॥’ इति क्रुद्धे तस्मिन् गुरुस्तत्पुत्रा यूयं च न कुर्म इति वदेयुश्चेत् अहमन्यत्र गमिष्यामि यूयं सुखं तिष्ठतेति वदति-‘ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसंक्रुद्धाश्चंडालत्वं गमिष्यसि ॥’ इत्याचार्यं तत्पुत्रान् स्वांश्चानेनावमतिं कृत्वोक्तां वार्तां श्रुत्वा तेऽत्यंतं क्रुद्धाः शेपुः । ‘अथ रात्र्यां व्यतीतायां राजा चंडालतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः । चित्रमाल्यांगरागश्च आयसाभरणोऽभवत् ॥’ इत्युक्तप्रकारेणानंतरं कर्मचांडालोऽभवत् । तथैव भागवतापचारकरणसमय एव ब्रह्मवर्चस्वोपयुक्ततया वक्षसि धृतं यज्ञोपवीतं चंडालवेषानुरूपं चर्मरज्जुर्भवेदित्यर्थः । तत्र शापसिद्धत्वात्प्रत्यक्षं जातं, अत्र शास्त्रसिद्धत्वाज्ज्ञानदृष्टिविषयं वर्तते । ‘अनाचारान् दुराचारानज्ञातॄन् हीनजन्मनः । मद्भक्तान् श्रोत्रियो निंदन् सद्यश्चंडालतां व्रजेत् ॥’ इत्युक्तं हि ।
टीका हिन्द्या
त्रिशंकु के तरह छाती में का यज्ञोपवीत ही चर्मरज्जु हो जाता है ॥ २०६ ॥ इस अपचार का फल दग्धवस्त्र के सदृश नष्टप्राय हो देहावसानकाल में रूपरहित भस्म होना मात्र नहीं किंतु इस अपचार के करते ही कर्मचंडाल हो जाता है ऐसा कहते हैं-त्रिशंकु के तरह इत्यादि । इक्ष्वाकुवंश्य त्रिशंकु नामक राजा के अपने कुलगुरु वसिष्टमहर्षि से ‘शरीर के साथ स्वर्गप्राप्ति के लिये मुझ से याग कराओ’ ऐसा प्रार्थना करनेपर उन के ‘मैं नहीं करसकताहूं’ ऐसा इनकारनेपर, वहां से तपस्या करनेवाले उन के पुत्रों के पास जा इस वृत्तांत को कह उनके अत्यंत अनुवर्तन कर ‘आप मुझ से इस प्रकार के याग कराओ’ ऐसा निर्बंध करनेपर ‘तुम दुर्बुद्धि हो, महर्षि जिस में असमर्थ हैं वह हम से कैसे बनेगा’ ऐसा उन के कहने पर–‘उन के कोपव्याकुल वचन को सुन वह राजा फिर भी इस बात को कहा-भगवान् वसिष्ठ इनकार किये तथा उन के पुत्र आपलोग भी इनकार करते हो तो मैं औरकिसी के शरण में जाऊंगा, आप को मंगल होय ।’ ऐसा वह क्रुद्ध हो ‘गुरु वसिष्ठ और उन के पुत्र आपलोग भी इनकार करते हैं तो मैं किसी अन्य के शरण लूंगा, आपलोग सुखी हों’ ऐसा कहा है । तब-‘ऋषि के पुत्र उस वचन को सुन अत्यंत क्रुद्ध हो घोररूप से तुम चंडाल हो जाओ ऐसा शाप दिये हैं ।’ ऐसा स्वाचार्य वसिष्ठ उन के पुत्र आप इन दोनों को अपमानित कर कहा हुआ वचन को सुन वे अत्यंत क्रुद्ध हो ‘तुम चंडाल हो जाओ’ ऐसा शाप देनेपर-‘अनन्तर रात्रि के बीतने पर चंडालता को प्राप्त हुआ राजा काला वस्त्र, कालारूप, बिखरा हुआ केश, चित्रमाला और चंदन, लोहे के आभरण इन से युक्त हुआ ।’ इस वचनानुसार वह कर्मचंडाल हुआ है । वैसा ही भागवतापचार करते ही कर्मचंडाल हो ब्रह्मवर्चस्व के लिये छाती में धारण कियाहुआ यज्ञोपवीत ही चंडालवेष के अनुगुण चर्मरज्जु हो जाता है । त्रिंशकुविषय में शापसिद्ध होने से प्रत्यक्षगोचर हुआ है । भागवतापचारविषय में शास्त्रसिद्ध होनेसे ज्ञानदृष्टि के गोचर होता है । ‘अनाचार या दुराचार, अज्ञानी या हीनजन्म ऐसे मेरे भक्तों को वेदवेदांतपारंगत भी निंदा करेगा तो उसी क्षण चंडाल होगा’ ऐसा कहा है ।
मूलम्
चंडालवदयमपि कदाचित् पुरुषार्थयोग्यो भवेदिति चिंतायामपि यथावकाशो नास्ति तथा जातिचंडालात् कर्मचंडालस्य विद्यमानां हेयतामाह-जातिचंडालस्येत्यादिना ।
मूलम्
जातिचांडालस्य कालांतरे भागवतो भवितुं योग्यताऽस्ति, साऽपि नास्त्यस्य-आरूढपतितत्वात् ॥ २०७॥
श्लोक
जातिप्रयुक्तचाण्डालो महाभागवतो भवेत् । कालान्तरे न चायं स्यादारूढपतितत्वतः ॥ २०७ ॥
टीका संस्कृता
जातिचंडालस्य तज्जन्मनि वा जन्मांतरे वा भगवत्कटाक्षे सति कस्मिंश्चित्कालविशेषे नामरूपविशिष्टो भगवत्संबंधनिरूपितो भवितुं योग्यताऽस्ति, तादृशयोग्यता च नास्ति भागवतापचाररूपकर्मचंडालस्यास्य पापिष्ठस्य । तद्धेतुर्भागवतत्वरूपोच्चस्थानमारुह्य-‘पद्मकोटिशतेनापि न क्षमामि’ इति प्रकारेणातिक्रूरभगवन्निग्रहस्य हेतुभूतभागवतापचारेणात्यंतं ताडितो भूत्वाऽधःपतितत्वादित्यर्थः ।
टीका हिन्द्या
जातिचंडाल को कालांतर में भागवत होने की योग्यता होती है, वह भी नहीं है इस को ऊपर चढ गिरनेसे ॥ २०७ ॥ चंडाल के तरह यह भी किसी न किसी काल में उज्जीवित होगा ऐसा चिंतन करने को भी जैसा अवकाश न हो तैसा जातिचंडाल की अपेक्षा कर्मचंडाल को नीचता को कहते हैं-जातिचंडाल की इत्यादि । जाति से चंडाल हुए को उस जन्म या जन्मांतर में भगवत्कटाक्षविशिष्ट किसी काल में नामरूपविशिष्ट हो भगवत्संबंध से कहेजानेकी योग्यता होती है, वह योग्यता भी नहीं है भागवतापचाररूप कर्म से चंडाल हुए इस पापिष्ठ को । उस का कारण कहते हैं—ऊपर चढ इत्यादि । भागवतत्वरूप ऊंचे शिखर पर चढ ‘सैकडों पद्मकोटिवर्षों के बीतनेपर भी मैं क्षमा नहीं करूंगा’ इस वचनानुसार अतिक्रूर भगवन्निग्रह के हेतुभूत भागवतापचार से अत्यंत पीडित हो अधःपतित होनेसे ।
मूलम्
अयमपि जन्मादिना ज्ञानादिना चापकृष्टैरुत्कृष्टविषये कृत एव वा, तैरपकृष्टैरपकृष्टविषये कृतोऽपि तुल्यो वेत्यत आह-अस्येत्यादिना ।
मूलम्
अस्याधिकारिनियमो नास्ति ॥ २०८ ॥
श्लोक
नैवाधिकारिनियमो विद्यतेऽस्य महामते ! ॥ २०८ ॥
टीका संस्कृता
भागवतापचारस्य तादृशी काचनाधिकारिनियतिर्नास्तीत्यर्थः ।
टीका हिन्द्या
इस को अधिकारिनियम नहीं है ॥ २०८ ॥ यह-जन्मादि और ज्ञानादियों से अपकृष्ट उत्कृष्टविषय में करने से ही होता है, जन्मादियों से उत्कृष्ट अपकृष्टविषय में करनेसे नहीं होता है ऐसा नियम है क्या ? इस शंका में कहते हैं-इस को इत्यादि । भागवतापचार को तादृश अधिकारिनियम नहीं है ।
मूलम्
‘तदीयश्रेष्ठाः जातिब्राह्मणा अपि’ इत्युक्तत्वात् ॥ २०९॥
श्लोक
‘तदीयेषु वरा जाता ब्राह्मणा अपि’ वाक्यतः ॥ २०९ ॥
टीका संस्कृता
अस्य प्रमाणमस्ति किमित्यत आह-तदीयेत्यादि । सांगं सकलवेदानधीतवतस्तदीया उत्कृष्टजन्मानो भवंति चेदपि भगवच्चरणयोः संबंधैकनिरूपकान् श्रीवैष्णवान् जन्मादिना निंदंति चेत्-कालांतरे देशांतरे विना तदानीमेव तत्रैव चंडाला अपीषत्सदृशा इति वक्तुं योग्यास्तेभ्योऽप्यत्यंतनीचा भवतीति तत्त्वयाथात्म्यदर्शिभिर्भक्तांघ्रिरेणुभिरुक्तत्वादित्यर्थः ।
टीका हिन्द्या
‘भागवतों में अग्रगण्य हो जाति से ब्राह्मण हो तो भी’ ऐसा कहनेसे ॥ २०९ ॥ इस में प्रमाण है क्या इस शंका में कहते हैं—भागवतों में इत्यादि । ‘अंगसहित संपूर्ण वेदों को अध्ययन कर भागवतश्रेष्ठ और उत्कृष्टजन्मवाले हो तो भी आप के चरणों से संबंध के ही निरूपणकरयोग्य श्रीवैष्णवों को जन्मादियों को लेकर निंदा करेंगे तो कालांतर और देशांतर में बिना उसी क्षण और उसी देश में वे जातिचंडाल भी इन के एक अंश का समान हो जैसा उन से भी अत्यंत नीच होते हैं’-ऐसा तत्त्वयाथात्म्य को जाननेवाले श्रीभक्तांघ्रिरेणुस्वामी कहे हैं ।
मूलम्
अत्र वैनतेयवृत्तांतः, पिल्लैपिल्लेयाल्वानित्यस्य कूरेशोक्ता वार्ता च स्मर्तव्या ॥ २१० ॥
श्लोक
विनतासुतवृत्तांतः पिल्लैआचार्यकं प्रति । कूरेशोक्ता तु वार्ता च स्मरणीया मनीषिभिः ॥ २१० ॥
टीका संस्कृता
एतदर्थविषयौ द्वावितिहासौ स्मारयति-अत्रेत्यादिना । वैनतेयवृत्तांतः-विश्वामित्रसमीपे सर्वा विद्या अधीत्य गालव इति ब्राह्मणो गुरुदक्षिणामदत्वा ममेमा विद्या न स्थिरा भवंति’ इति वा ‘भगवन् भवते दक्षिणात्वेन किं देयं’ इत्यपृच्छत्, ‘त्वया मह्यं किमपि न देयमहं तव शुश्रूषया भक्त्या चात्यंतं प्रीतोऽभवं, अथ तवेष्टस्थले गत्वा वस’ इति बहुवारं तेनोक्तोऽपि स एवमकृत्वा ‘सर्वथा मत्तो दक्षिणां गृहाण’ इत्यतिनिर्बंधमकरोत् । तस्मात्-‘किंचिदागतसंरंभो विश्वामित्रोऽब्रवीदिदम् । एकतः श्यामकर्णानां शतान्यष्टौ तु देहि मे । हयानां चंद्रशुभ्राणां गच्छ गालव मा चिरम् ॥’ इति संकुपितोऽमुं दृष्ट्वा ‘सर्वशरीरेषु चंद्रमंडलवच्छ्वेतान् एकस्मिन् कर्णे हरितान् अष्टौ शतानि अश्वान् आनीय ददख’ इत्यवदत्, तच्छ्रुत्वा व्याकुले तस्मिन् ‘अथ किं कुर्याम्’ इति बहुमुखं विचार्य ‘सर्वापेक्षितप्रदं सर्वेश्वरमुपासे’ इत्युद्योगयति पूर्वमेवास्य सखा वैनतेय आगत्य पुरस्तात्तिष्ठति सति तं स्तुत्वा ‘अस्य किं कर्तव्यं’ इत्यपृच्छत्, तस्मिन् ‘त्वामादाय सर्वभूमौ संचरामि उभावपि मार्गयाव’ इत्युक्तवति तमादाय संचरति सति, परिश्रमे सति ‘अत्र विश्रम्य गच्छाव’ इति पश्चिमसमुद्रे ऋषभनामकपर्वतोपरि वसंतीं ज्ञानाधिकां शांडिल्यां भागवतां दृष्ट्वा अभिवादनादिकं कृत्वा तस्यामत्यादरेण सत्कुर्वत्यामनंतरं विश्रांतावशयतां तदानीं ‘एवं विलक्षणाया अस्या विलक्षणदेशे वासो न लब्धः’ इति वैनतेयो विचार्य ‘इमामस्माद्देशात्कस्मिंश्चिद्दिव्यदेशे नीत्वा स्थापयामि’ इति विचारयन्नतिष्ठत्, तदानीं तादृशभागवतवासदेशस्य न्यूनत्वचिंतनरूपापचारेण पक्षयोर्भग्नयोर्निश्चेष्टोऽभवत् । एतेन सह गतो ब्राह्मणः-‘किं नु ते मनसा ध्यातमशुभं पततां वर । नह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥’ इति ‘यत्किंचिद्भवतो मनसाऽशुभं विचारितं किं, भवतोऽल्पस्यापि व्यभिचारस्यागमनयोग्यताऽपि नास्ति’ इत्यवदत्, ‘ननु व्यभिचारो जात’ इति स्वस्य तद्भागवतविषये चिंताप्रकारं तस्योक्त्वा ‘अयं क्षंतव्य’ इति तामनुवर्त्य तदनुग्रहेणैतदपचारे नष्टे पूर्ववदभवदिति । अयं च कृष्णस्य दौत्येन गमनसमये नारदादिमहर्षिषु बहुषु तिष्ठत्सु कृष्णहृदयाभिप्रायमनुसर्तुं धृतराष्ट्रं प्रति अनेककथाकथनप्रकरणे श्रीनारदेन भगवतानुगृहीत इत्युद्योगपर्वण्युक्तत्वाद्वेदोपबृंहणसिद्धः खलु । पिल्लैपिल्लैयाल्वानित्यस्य कूरेशोक्ता वार्ता-तस्यांगीकारकाले अस्याभिजात्यादिनोत्कृष्टत्वाद्भागवतविषयेष्वविनयेन वर्तनप्रकारं दृष्ट्वा ‘अस्यायं भागवतापचारो ज्ञानानुष्ठानादिकमधः कृत्वा स्वयमुपरि स्थित्वा विनाशपर्यंतं कुर्यात्तस्य निवृत्तिः कल्पनीये’ति विचार्यैकस्मिन्नयनदिने स्नात्वा कूलारोहणसमयेऽमुं दृष्ट्वा ‘सर्वैरपि दानकरणसमये त्वमपि मामेकं दानं न करोषि किम् ?’ इति पृच्छति, ‘दासः किं ददामि सर्वं भवदीयं खलु वर्तते’ इति सोऽवदत् । ‘अर्थस्थितिः खल्वेतादृशी, तावन्मात्रं नालं करणत्रयेणापि भागवतापचारमकृत्वा वर्तेयमिति मद्धस्ते उदकं दातव्यम्’ इत्यवदत् तथैवायमप्युदकमदात् । अनंतरं कस्यचिद्भागवतस्य दोषं पूर्ववासनया स्मृत्वा ‘अहं नष्ट’ इति भयेन कपाटं मुद्रयित्वा स्वगृहेऽशेत, अस्य पूर्ववदागमनकाले आगमनादर्शनात् कुरेशोऽस्य गृहं गत्वा ‘किमर्थं शोचसि’ इति पृच्छति, स्वयं मनसा चिंतितं विज्ञाप्य ‘करणत्रयेणाप्यपचारो यथा न भवेत् तथाऽनेन देहेन वर्तनं दुर्लभं किं कुर्याम्’ इति चरणौ संगृह्याधः पतित्वा क्लेशमकरोत् । ‘एतावाननुतापोऽस्य संजात’ इत्यत्यंतप्रीतेन तेन ‘मनसा चिंतितस्यानुतापे सतीश्वरः क्षमेत, प्रत्यक्षदंडभयेन कायिकेन कोऽपि न बाधनीयः, अत एतदुभयमपि तुभ्यमदां, अथ वाचमेकामपि सम्यक्पश्यन् सन् वर्तस्व’ इत्युक्तवार्ता ।
टीका हिन्द्या
इस स्थल में वैनतेयवृत्तांत, और पिल्लैपिल्लैसूरी से कूरेशस्वामी की कही हुई वार्ता को भी स्मरण करना ॥ २१० ॥ इस अर्थ के विषय में दो ऐतिह्य को स्मरण कराते हैं-इस स्थल में इत्यादि । वैनतेयवृत्तांत माने-विश्वामित्र के पास संपूर्णविद्याध्ययन करनेवाले गालवनामक ब्राह्मण ‘गुरुदक्षिणा दिये बिना हम को ये विद्या फलित न होयेंगे’ ऐसा विचार ‘हम से आप को देनेयोग्य दक्षिणा को बताईये’ ऐसा पूंछनेपर ‘तुम हम को कुछ भी मत दो, हम तुमारे शुश्रूषा और भक्ति से ही प्रसन्न हुए हैं, अब तुमारी इच्छा के अनुसार जाओ’ ऐसा बहुत आवृत्ति कहने पर भी यह नहीं सुन ‘सर्वप्रकार से मेरे हाथ से दक्षिणा को स्वीकार करना चाहिये’ ऐसा निर्बंध करने पर-‘विश्वामित्रमहर्षि कुपित हो चंद्र के तरह सफेद और एक कान श्यामवर्णवाले आठ सौ छात्रों को लाकर हमको दो, हे गालव जाओ और शीघ्र लाओ ।’ ऐसा वह विश्वामित्र कुपित हो गालव को देख ‘सब शरीर चंद्रमंडल के तरह सफेद हो एक कान श्याम हो रहनेवाले आठ सौ घोडों को ला हम को दो’ ऐसा कहनेपर सुन अत्यंत व्याकुल हो ‘इस के लिये कर्तव्य क्या है ?’ ऐसा बहुप्रकार विचार ‘सर्वापेक्षितप्रद सर्वेश्वरकी उपासना करनेके उद्योग करनेपर, पहिले इन के सखा गरुडजीने आ सामने खडाहुआ, उन को स्तुति कर ‘इस कार्य के लिये कर्तव्य क्या है’ ऐसा पूछनेपर वह ‘तुम को मैं इस भूलोक में सर्वत्र ले जाऊंगा हम दोनों मिल ढूंढेगे आओ’ ऐसा कह इन को लेकर संचार करते हुए थकजाने पर ‘यहां विश्रामकर जायेंगे’ ऐसा पश्चिमसमुद्र में ऋषभनामक पर्वत के ऊपर वास करनेवाली ज्ञानाधिका शांडिल्यानामक भागवता के पास पहुंच दर्शन और नमस्कार करनेपर वह अत्यादरपूर्वक अत्यंत सत्कार करती भई । अनंतर विश्रमित हो सोने के समय ‘इस प्रकार यह विलक्षण भागवता किसी एक दिव्यदेशों में वास करनेके भाग्यवती नहीं हुई’ ऐसा श्रीगरुडजी विचार ‘इन को यहांसे हम ले जा एक दिव्यदेशों में स्थापन करेंगे’ ऐसा चिंतन करते भए । उस भागवता के वासस्थल को हीन मानने के अपचार से पांखे गिरनेपर निश्चेष्टित हो गिरगये । इस को संग जानेवाले गालव देख-‘हे पक्षिराज ! आप अपने मन में कौनसी पाप को चिंतन किये हो, यह तो आपके स्वल्पपाप का फल नहीं है ।’ अर्थात् ‘किसी पाप को आप मन में लाये हो क्या, आप को स्वल्पपाप भी लग नहीं सक्ता है’ ऐसा पूंछनेपर ‘हां’ ऐसा भागवताके विषय में अपना चिंतनप्रकार को सुनाये, पश्चात् ‘इस अपराध को क्षमा कीजिये’ ऐसा उन के चरण में गिर अनुवर्तन करने से उन के अनुग्रह से उस अपचार के दूरहोने पर पहिलेके तरह स्वस्थ हुए हैं । यह वृत्तांत श्रीकृष्ण के दूत हो जानेके समय नारदजी के मध्यस्थलोगों की संविधि में श्रीकृष्ण के अभिप्राय को अनुवर्तन करने के लिये धृतराष्ट्र से अनेककथाओं के कहने के प्रकरण में कहा हुआ ऐसा उद्योगपर्व में उक्त होनेसे वेदांतों के उपबृंहण (भारत) में सिद्ध हुआ जानना । पिल्लैपिल्लैसूरी से कूरेशस्वामी की कही हुई वार्ता माने-पिल्लैपिल्लैसूरी के अंगीकारानंतर इन के आभिजात्यादियों से उत्कृष्ट होते हुए भागवतों में अविनीत (उद्धत) हो वर्तन करने के प्रकार को देख ‘इन के यह भागवतापचार ज्ञानानुष्ठानादि सकलगुणों को दबाकर आप ही प्रबल हो विनाशपर्यंत कर देगा, उस की निवृत्ति करनी चाहिये’ ऐसा कूरेशस्वामी विचार एक अयनरूप पुण्यकाल में स्नान कर किनारे में आते ही इन को देख ‘सब लोगों के दान करनेके इस पुण्यकाल में आप भी हम को एक दान दीजिये’ ऐसा पूंछनेपर ‘दास किस को दान दें सब आप ही का है’ ऐसा कहते भये । तब ‘यह तो ठीक है उतनेमात्र से तुम मैं नहीं रहूंगा त्रिकरण से भी भागवतापचार नहीं करेंगे’ ऐसा हमारे हाथ में जल छोडो’ ऐसा कहनेपर उसी प्रकार उन के हाथ में जल छोडते भये । अनंतर किसी एक भागवत के दोष को पूर्ववासना से स्मरण कर ‘हम नष्ट हुए हैं’ ऐसा भीत हो कपाट बंदकर अपने घरमें पडे रहे । इन के प्रतिदिन आनेके समय व्यतीत होने पर श्रीकूरेशस्वामी इन के घर जा ‘क्यों जी क्या विचारते हो’ ऐसा पूंछनेपर अपनी मन की बात को विज्ञापन कर ‘तीनों करणों से यथा अपचार न हो तथा इस शरीर के साथ रहना दुष्कर है क्या कियाजाय ?’ ऐसा श्रीचरणों को लपेट भूमि में गिर क्लेशित होनेपर ‘इतना अनुताप इन को हुआ है यह हमारा भाग्य ही है’ ऐसा संतुष्ट हो ‘मन से कृत दोष को अनुताप होते ही ईश्वर क्षमा करेंगे, प्रत्यक्षदंडभय से काया से किसी को हिंसा नहीं कर सक्ते इस लिये ये दोनों तुम को लौटा देता हूं, केवल वागिंद्रियमात्र को अच्छी तरह से रोक कर वर्तन करोगे’ ऐसा कही हुई वार्ता को स्मरणकरना ।
मूलम्
भगवल्लाभहेतुभ्यां ज्ञानानुष्ठानाभ्यामुभाभ्यामपि पूर्णस्य कस्यचिद्भागवतापचारे जातेऽपि भगवांस्तस्य लघुभूतमेकं दंडं कृत्वा न प्रापयेत्किं ? अनयोरुभयोरसत्समतया अपचारस्यैव प्रबलतया भगवतोऽप्राप्तिरेव स्यादिति कथमुच्यते ? इत्यत आह-ज्ञानानुष्ठानाभ्यामित्यादि ।
मूलम्
ज्ञानानुष्ठानाभ्यां रहितत्वेऽपि फलस्य यथा तत्संबंध एवालं, तथा तयोः सत्त्वेऽप्यप्राप्तेस्तेष्वपचार एवालम् ॥ २११ ॥
श्लोक
ज्ञानानुष्ठानराहित्ये तत्संबन्धः फलप्रदः । यथा तथा तयोः सत्त्वेऽपचारः प्राप्तिबाधकः ॥ २११ ॥
टीका संस्कृता
‘उभाभ्यामेव पक्षाभ्यामाकाशे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां प्राप्यते भगवान् हरिः ॥’ इति, ‘वीज्यमानपक्षाभ्यामुड्डीयमानानां युष्माकं परमपदं सुलभम्’ इति चोक्तप्रकारेण भगवल्लाभहेतुभूततत्त्वज्ञानतदनुरूपानुष्ठानाभ्यां रहितत्वेऽपि भगवल्लाभस्य-‘पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यंति तद्विष्णोः परमं पदम् ॥’ इति । ‘यं यं स्पृशति पाणिभ्यां यं यं पश्यति चक्षुषा । स्थावराण्यपि मुच्यंते किं पुनर्बांधवा जनाः ॥’ इति चोक्तप्रकारेण भागवतसंबंध एव यथा निरपेक्षसाधनं भवति, तथा तादृशज्ञानानुष्ठानाभ्यामुभाभ्यां परिपूर्णत्वेऽपि भगवद्विषयाप्राप्तेर्भगवदभिमतभागवतविषये क्रियमाणोऽपचार एव निरपेक्षसाधनं भवतीत्यर्थः ।
टीका हिन्द्या
ज्ञानानुष्ठान बिना भी फल के लिये जैसा उनके साथ संबंध ही बस है वैसा वह दोनों होनेपर भी हानि के लिये उन के विषय में अपचार ही बस है ॥ २११ ॥ भगवान के लाभ हेतु ज्ञान अनुष्ठान ये दोनों परिपूर्ण हैं जिस में उस में भागवतापचार के होनेपर भी भगवान् उस के लिये अल्पदंड दे अपने साथ नहीं मिला लेगा क्या ? वे ज्ञानानुष्ठान दोनों असत्के तरह हो अपचार ही प्रबल हो भगवान को प्राप्त नहीं होगा ऐसा कैसे कह सक्ते हैं ? इस शंका में कहते हैं-ज्ञानानुष्ठान इत्यादि । ‘दोनों पांखों से जैसा पक्षियां आकाश में रहते हैं तैसा ज्ञान और कर्मों से भगवान् हरि प्राप्त होते हैं ।’ ऐसा, ‘बीजनेवाले पांखों से उड़ते हो परमपद तुम को सुलभ है’ ऐसा भी, उक्तप्रकार भगवल्लाभहेतु तत्वज्ञान और तदनुरूपअनुष्ठान न होनेपर भी, भगवल्लाभ के लिये । ‘पशु हो या मनुष्य हो या पक्षी हो वैष्णवों के आश्रयण करनेवाले, उस वैष्णव के संबंध से ही वे विष्णु के प्रसिद्ध परमपद को पाते हैं ।’ ऐसा, ‘वैष्णव जिस जिस को हाथों से स्पर्श करता है और जिस जिस को नेत्रों से देखता है, स्थावर होनेपर भी मुक्त होते हैं, बांधवों को कहना ही क्या है ?’ ऐसा भी उक्त प्रकार भागवतसंबंध ही जैसा निरपेक्षसाधन होता है, वे ज्ञानानुष्ठान दोनों पूर्णतया होनेपर भी भगवद्विषय की च्युति के लिये भगवदभिमत उन भागवतविषय में क्रियमाण अपचार ही निरपेक्षसाधन होता है समझना ।
मूलम्
अत्र जन्मवृत्तादिनियमो नास्ति ॥ २१२ ॥
श्लोक
जन्मवृत्तादिनैयत्यमत्र नैवोपलभ्यते ॥ २१२ ॥
टीका संस्कृता
अत्र जन्मवृत्तादिनियमोऽस्ति किमित्यकांक्षायामाह-अत्रेत्यादिना । अत्रेति-‘फलस्य भागवतसंबंध एवालं, अप्राप्तेस्तेष्वपचार एवालम्’ इत्युक्तोभयत्रेत्यर्थः । जन्मवृत्तादिनियमो नास्ति-जन्मवृत्तादिभिरुत्कृष्टैर्भागवतैर्विद्यमानसंबंध एव फलस्य हेतुः तैरपकृष्टैस्तैः संबंधः फलस्य हेतुर्न भवतीति नियमः, जन्मवृत्तादिभिरुत्कृष्टविषये क्रियमाणोऽपचार एवाप्राप्तेर्हेतुः, तैरपकृष्टविषये क्रियमाणोऽपचारस्तथा न भवतीति नियमश्च नास्तीत्यर्थः ।
टीका हिन्द्या
इस में जन्मवृत्तादि नियम नहीं है ॥ २१२ ॥ इस में जन्मवृत्तादि नियम है क्या ? इस शंका में कहते हैं—इस में इत्यादि । इस में-‘फल के लिये भागवतसंबंध ही अपेक्षित है, हानि के लिये उन के विषय में अपचार ही पूर्ण होता है’ ऐसा कहेहुए इन दोनों में । जन्मवृत्तादि नियम नहीं हैं-जन्मवृत्तादियों से उत्कृष्ट भागवतों के साथ विद्यमान संबंध ही फल का साधन है, उन से अपकृष्ट उन के साथ संबंध फल का साधन नहीं है ऐसा नियम, और जन्मवृत्तादियों से उत्कृष्ट भागवतों के विषय में क्रियमाण अपचार ही हानि का कारण है, उन से अपकृष्टभागवत के विषय में क्रियमाण अपचार हानि का कारण नहीं है, ऐसा नियम भी नहीं है ।
मूलम्
अयमर्थः कैशिकवृत्तांते, उपरिचरवसुवृत्तांते च द्रष्टव्यः ॥ २१३ ॥
श्लोक
दर्शनीयोऽयमर्थो हि कैशिकस्य तथा वसोः । उपरिचरराजस्य वार्ताया भाववेदिभिः ॥ २१३ ॥
टीका संस्कृता
अयमर्थः कुत्र द्रष्टुं शक्यते ? इत्यत आह-अयमर्थ इत्यादि । चरककुलोद्भवे सोमशर्मानामकैकस्मिन् ब्राह्मणे यष्टुमुपक्रम्य यथाक्रममननुष्ठाय तत्समाप्तेः पूर्वमेव मृत्वा ब्रह्मराक्षसरूपेण जनित्वा संचरति, ‘मद्भक्तं श्वपचं वापि’ इत्युक्तप्रकारेण जन्मसिद्धनैच्ययुक्ते भगवद्भक्त्येकनिरूपके कस्मिंश्चिद्भागवते उत्थानैकादश्यां रात्रौ सिद्धाश्रमभूतकुरंगपुर्यां पूर्णं गीत्वा स्वरूपसिद्धिं प्राप्तुं वीणापाणौ गच्छति सति, स तं भक्षितुमागत्य न्यरुणत्, सोऽपि पुनरागमनोपयुक्ततयाऽनेकशपथान् कृत्वा तदनुमतिमादाय गत्वा यथामनोरथं सेवित्वा हृष्टः सन् तद्ब्रह्मराक्षसस्थले पुनरागत्य यथेच्छं मच्छरीरं भुंक्ष्वेत्यवदत् । सोऽपि राक्षसः सत्यवादित्वादिवैभवं दृष्ट्वा ‘त्वयास्मिन् दिने गीतस्य गानस्य फलं देहि अहं त्वां प्राणेन सह मुंचामि’ इत्यवदत्, तस्मिन् तदनंगीकुर्वति ‘अर्धरात्रफलमेकयामफलं’ इत्यादि वदत्यपि ‘अहं तथा न कुर्यां त्वं पूर्वोक्तप्रकारेण भुंक्ष्वे’त्येकप्रतिज्ञयाऽतिष्ठत् । अतः-‘त्वं वै गीतप्रभावेन निस्तारयितुमर्हसि । एवमुक्त्वाथ चंडालं राक्षसः शरणं गतः ॥’ इत्युक्तप्रकारेण त्वं तव गीतप्रभावेन मामस्मात्पापात्तीरं प्रापयेति शरणं गतः, स च भागवतः-‘यन्मया पश्चिमं गीतं स्वरं कैशिकमुत्तमम् ।’ इत्यादिप्रकारेण स्वेन पश्चाद्गीतस्य कैशिकरागस्य फलं दत्त्वा कर्मदोषप्रयुक्तराक्षसवेषं दूरीकृत्य पूर्ववद् ब्राह्मणो भूत्वा तदुपरि भागवतश्च भूत्वा यथोजीवनं प्राप्नुयात्तथाऽकरोदिति कैशिकवृत्तांते-जन्मादिभिरपकृष्टैर्भागवतैः संबंध एवोजीवनहेतुस्तैरुत्कृष्टैः संबंध उज्जीवनहेतुर्न भवतीति नियमो नास्तीति द्रष्टव्यम् ! ऋषिभिरपि धर्मसंदेहं प्रष्टुं योग्यतया विद्याधिकः स्ववर्णानुरूपवृत्तमात्रं विना [[सात्वतंत्रे|सात्वततंत्रे]] निष्णातश्च भगवदाराधनतत्परत्वात्तादृशवृत्ताधिकः स्वतपोबलेन सवाहनपरिवारः सन्नंतरिक्षचर उपरिचरवसुर्महाराजो यागार्थं पशुभिर्वा धान्यैर्वेति ऋषिषु देवेषु च मिथो विवदत्सु-‘मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान् वसुः । अंतरिक्षचरः श्रीमान् समग्रबलवाहनः ॥ तं दृष्ट्वा सहसाऽऽयांतं वसुं ते त्वंतरिक्षगम् । ऊचुर्द्विजातयो देवा एष च्छेत्स्यति संशयम् ॥’ इति आकाशे गच्छंतं दृष्ट्वा ‘अयमस्मत्संशयं छेत्तुं शक्त’ इति निश्चित्य तत्समीपं गत्वा ‘उचितं किम्’ इत्यपृच्छन् तस्मिन् ‘स्वस्वमतं वदत’ इति वदति, ‘धान्यैर्यष्टव्यमित्येषः पक्षोऽस्माकं नराधिप । देवतानां हि पशुभिः पक्षो राजन् वदस्व नः ॥’ इति ‘धान्यैर्यष्टव्यमित्यस्माकं पक्षः, पशुभिर्यष्टव्यमिति देवानां पक्षः, अस्माकं किं कर्तव्यम्’ इति ऋषिभिः पृष्टः, ‘देवानां तु मतं श्रुत्वा वसुना पक्षसंश्रयात् । छागेनाजेन यष्टव्यमेवमुक्तं वचस्तथा ॥’ इत्युक्तप्रकारेण स देवेषु पक्षपातेन ‘छागेन यष्टव्यम्’ इत्यवदत् । ‘कुपितास्ते तदा सर्वे मुनयः सूर्यवर्चसः । ऊचुर्वसुं विमानस्थं देवपक्षवादिनम् ॥ सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत । अद्यप्रभृति ते राजन्नाकाशे विहता गतिः ॥ अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि । विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप ॥ वयं विरुद्धवचना यदि तत्र पतामहे ॥’ इति ऋषयः सर्वे कुपिता देवपक्षार्थवादिनं विमानस्थं दृष्ट्वा ‘त्वदुक्तं वेदसूत्राणां विरुद्धं यदि, देवपक्षपाती वदन् एवं दिवोऽधः पत, अथ प्रभृति त्वदाकाशगमननाशेन पातालं प्रविशेः, अस्माभिर्विरुद्धवचनमुक्तं चेत्तथा पाताले पतामः’ इति [[शेषुः|शेपुः]] । ‘ततस्तस्मिन् मुहूर्ते तु राजोपरिचरस्तदा । अधो वै संबभूवाऽशु भूमेर्विवरगो नृपः ॥’ इत्युक्तप्रकारेण तदानीमेव पातालेऽपतत्, इत्युपरिचरवसुवृत्तांते-ऋषिभिर्धर्मसंदेहं प्रष्टुं योग्यो विद्यादिभिस्तेभ्य उत्कृष्टस्तेष्वपराधेनाधः पतित इत्यस्य दर्शनात् जन्मवृत्तादिभिरुत्कृष्टविषयेऽपकृष्टैः क्रियमाणोऽपचार एव हानिहेतुः, तैरपकृष्टैरपकृष्टविषये क्रियमाणोऽपचारो हानिहेतुर्न भवतीति नियमो नास्तीत्यर्थो द्रष्टव्य इत्यर्थः । जन्माधिक्यस्य ऋषीणां सत्त्वेऽप्यस्य ज्ञानाधिक्यस्य सत्त्वात् तेभ्योऽस्याधिक्ये न विरोधः ।
टीका हिन्द्या
इस अर्थ को कैशिकवृत्तांत में उपरिचरवसुवृत्तांत में भी देख सक्ते हैं ॥ २१३ ॥ इस अर्थ को कहां देख सक्ते हैं क्या ? इस शंका में कहते हैं—इस अर्थ को इत्यादि । चरककुलोत्पन्न सोमशर्मा नामक ब्राह्मण याग करनेको प्रारंभ कर यथाक्रम अनुष्ठान नहीं करनेसे उस याग की समाप्ति के पहिले ही मरनेसे ब्रह्मराक्षस के जन्म पाकर संचार करनेपर—‘हमारे भक्त श्वपच होनेपर भी’ इस उक्ति अनुसार जन्मसिद्धनैच्यविशिष्ट भगवद्भक्ति से निरूपित एक पंचमवर्णभागवत उत्थानएकादशी के रात्री में सिद्धाश्रमभूत श्रीकुरङ्गनगर में श्रीकुरङ्गपूर्ण भगवान को गान कर कैंकर्य करनेके लिये वीणापाणि हो जानेके समय उन को खाने के लिये ब्रह्मराक्षस सामने आ खड़ा हुआ । तब वह भागवत भगवान को गान कर लौटूंगा ऐसा कह अनेक शपथ करनेपर उस की अनुमति पा यथामनोरथ गान कर हृष्ट हो लौटकर जरा से उस राक्षस के स्थान में आ पहुंच ‘अब यथेष्ट हमारे शरीर को तुम खाओ’ ऐसा कहनेपर, वह इन के सत्यवादित्वादि वैभव को देख ‘आप आज गाये हुए गान का फल को दो मैं तुम को प्राण से छोड़ दूंगा’ ऐसा कहनेपर वह भागवत संमति न करनेपर ‘अर्धरात्रि का फल दो एकयाम का फल दो’ इस प्रकार कहने पर भी ‘मैं न दूंगा तुमारी प्रतिज्ञानुसार मेरा शरीर को भक्षण करो’ ऐसा स्थिर होनेसे-‘वह राक्षस आप गीत का प्रभाव से मुझ को पार लगाओ, इस प्रकार कह चंडाल के शरण में आया ।’ इस वचनानुसार आप अपना गीत के प्रभाव से इस पाप से छुडाओ ऐसा कह शरणागति करनेपर वह भागवत-‘हमने जो उत्तम कैशिक स्वर को चौथे याम में गाया था’ इत्यादि से आपने अंत में गायाहुआ कैशिकस्वर का फल को देके कर्मदोष से आया हुआ राक्षसजन्म को छोड पूर्ववत् ब्राह्मणजन्म पा तत्पश्चात् भागवतोत्तम हो जीवित हो जैसा किये हैं-इस कैशिकवृत्तांत में जन्मदियों से अपकृष्ट भागवतसंबंध ही उज्जीवनहेतु है, उन से उत्कृष्ट भागवतसंबंध हानिहेतु है ऐसा नियम नहीं है यह सिद्ध हुआ । ऋषि और देवता अपने पास धर्मसंदेह पूछें ऐसा विद्याधिक, स्ववर्णानुरूपवृत्तमात्र विना सात्वत (पांचरात्र) तंत्र में निष्ठावाले भगवदाराधनतत्पर हो रहनेसे श्रेष्ठ, स्वतपोबल से वाहनपरिवारसमेत आकाश में संचार करनेवाला उपरिचरवसु नामक राजा यागार्थ पशुनिमित्त ऋषि और देवता आपस में विवाद करनेपर-‘आकाश के रास्ते में जाते हुए राजश्रेष्ठ समग्रबलवाहनसहित उस स्थल में यदृच्छया आ पहुंचा ‘यहच्छा से आया हुआ उस उपरिचरवसु को देख यही हमारे संशय को दूर करेंगे ऐसा ऋषि और देवता कहने लगे ।’ ऐसा कह इन के पास जा ‘इस में कर्ता क्या ?’ ऐसा पूछनेपर वह ‘आप अपने अपने मत को वर्णन करो’ ऐसा कहनेपर-‘हे राजन् ! धान्यों से याग करना ऐसा हमारा पक्ष है, पशुओं से याग करना ऐसा देवताओं के पक्ष है । इस में आप का मत क्या है ? कहो ।’ ऐसा पूछनेपर-‘देवतालोगों का पक्ष को आश्रयण कर अजा से याग करना उचित है ऐसा कहा ।’ ‘तब सूर्य के सदृश तेजस्वी ऋषिलोग क्रुद्ध हो विमान में बैठा हुआ देवपक्ष को कहनेवाला वसु को देख जिस कारण से देवता के पक्ष को स्वीकार किया है उस कारण से आकाश से नीचे गिरो । यदि तुमारा वचन वेदशास्त्रों के विरुद्ध हो तो आजसे हे राजन् ! आकाश की गति न होगी हमारे शाप से भूमि को फोड कर प्रवेशकरोगे । यदि हमारे वचन विरुद्ध होती हम ही वहां गिरेंगे ।’ ऐसा शाप देनेपर-‘तब उपरिचरवसु उसी मुहूर्त में भूमि के विवर पाताल में प्रवेश किया ॥’ इस वचनानुसार उसी बखत पाताल में गिरनेवाले उपरिचरवसुवृत्तांत में-ऋषिलोग भी धर्मसंदेह अपने से पूछें जैसे विद्यादियों से उन से उत्कृष्ट उनके विषय में अपचार से अधःपतित होनेसे, जन्मवृत्तादियों से उत्कृष्टों के विषय में अपकृष्ट क्रियमाण अपचार ही हानिकारक है, जन्मादियों से उत्कृष्ट अपकृष्टविषय में क्रियमाण अपचार हानिकारक नहीं है ऐसा नियम नहीं है यह सिद्ध हुआ । जन्मप्रयुक्त श्रेष्ठता ऋषियों में होनेपर भी ज्ञानप्रयुक्त श्रेष्ठता उपरिचरवसु में होने से उन ऋषियों की अपेक्षा यह श्रेष्ठ है ऐसा कहने में विरोध नहीं है ।
मूलम्
जन्म ज्ञानाधिक्यं च कोटिद्वयं भवति चेत् ज्ञानादयः प्रबलाः खलु । कैशिकीवृत्तांतं भगवतो, उपरिचरवसुवृत्तांतं पंचमवेदे महाभारते मोक्षधर्मे धर्मपुत्रं प्रति श्रीभीष्मेणोक्तत्वात्, इमावर्थावाप्तप्रमाणसिद्धौ खलु ।
मूलम्
एवं जन्मादिप्रयुक्तोत्कर्षे रसो नास्तीति कथमुच्यते ? शास्त्राणि सर्वाणि ब्राह्मण्यमत्यादरेण वदंति खलु, इत्यत आह-ब्राह्मण्यस्येत्यादिना ।
मूलम्
ब्राह्मण्यस्य महार्घता वेदाध्ययनादिमुखेन भगवल्लाभादिहेतुत्वात्, तदेव हानिहेतुश्चेत्त्याज्यं हि ॥ २१४ ॥
श्लोक
ब्राह्मण्यस्य महार्घत्वं वेदस्याध्ययनादिना । भगवल्लाभहेतुत्वात्त्याज्यं तद्धानिदं यदि ॥ २१४ ॥
टीका संस्कृता
महार्घता-आदरणीयता । वेदाध्ययनादिमुखेन भगवल्लाभहेतुत्वं नाम-‘सर्वे वेदा यत्पदमामनंति’, ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति चोक्तप्रकारेणाराधनस्वरूपमाराध्यस्वरूपं च पूर्वोत्तरभागाभ्यां प्रतिपादयतो भगवदेकपरवेदस्य ‘स्वाध्यायोऽध्येतव्यः’ इत्युक्तप्रकारेण विधिपरतंत्रोऽध्ययनं कृत्वा मीमांसादिभिस्तदर्थनिर्णयं कृत्वा भगवदुपासनादिष्ववगाह्य भगवद्विषयं प्राप्तुमुपयुक्तत्वम् । तदेव हानिहेतुश्चेदिति-तादृशब्राह्मण्यमेवाहंकारहेतुः सन्-‘मद्भक्तान् श्रोत्रियो निंदन् सद्यश्चंडालतां व्रजेत् ।’ इत्युक्तप्रकारेण भगवदत्यंतनिग्रहहेतुं भागवतापचारं कृत्वा भगवद्विषयाद् दूरीभवितुं निदानं चेदित्यर्थः । त्याज्यं हीति-प्रसिद्धियोतनार्थमुक्तं, यद्भगवल्लाभोपयुक्तं तदुपादेयं यत्तु तदलाभोपयुक्तं तत्त्याज्यं भवति, एवं चेदमपि हानिहेतुश्चेदेवं स्यादिति न विरोध इति निश्चयेन ।
टीका हिन्द्या
ब्राह्मणता अत्यादर की जाती है वेदाध्ययनद्वारा भगवल्लाभहेतु समझकर, वही हानि का हेतु होतो त्याज्य होती है ॥ २१४ ॥ जन्म और ज्ञानादियों में ज्ञानादियों की श्रेष्ठता सर्वसम्मत है । कैशिकवृत्तांत श्रीवराहपुराण में श्रीभूमिदेवी को श्रीवराहभगवान् कहे हैं । उपरिचरवसुवृत्तांत पंचमवेदभूत महाभारत में मोक्षधर्म में धर्मपुत्र को श्रीभीष्मजी कहे हैं-इस लिये ये दोनों आप्तप्रमाणसिद्ध हैं । इस प्रकार जन्मादियों से होनेवाले उत्कृष्टता में सार नहीं ऐसा कहते हैं क्या ? संपूर्णशास्त्र ब्राह्मणता को अत्यंतआदरपूर्वक कहते हैं ? ऐसा पूछने पर कहते हैं-ब्राह्मणता इत्यादि । अत्यादर की जाना माने-सब के आदर के विषय होना । वेदाध्ययनादिद्वारा भगवल्लाभहेतु माने-‘सब वेद जिस पद को कहते हैं’ ऐसा ‘संपूर्ण वेदों से मैं ही वेद्य हूं’ ऐसा भी उक्त प्रकार आराधनस्वरूप और आराध्यस्वरूप को पूर्व और परभागों से प्रतिपादन करते हुए भगवदेकपर वेद को ‘वेद को अध्ययन करना चाहिये’ इस विधि का परतंत्र हो अध्ययन कर मीमांसादियों से उसका अर्थनिर्णय कर भगवदुपासनादियों में लग भगवद्विषय को प्राप्त होनेके उपयुक्त होना । वही हानि का हेतु होतो माने-वह ब्राह्मणता ही अहङ्कारहेतु हो-‘हमारे भक्तों को चतुर्वेदी ब्राह्मण निंदा करनेपर सद्यः चंडालता को प्राप्त होता है ।’ इस वचनानुसार भगवदत्यंतनिग्रहहेतुभूत भागवतापचार कर भगवद्विषय से अलग होजाने हेतु हो तो । त्याज्य होता है-जो भगवल्लाभ का हेतु वह उपादेय है, जो अलाभका हेतु वह त्याज्य है, ऐसा सिद्धांत होनेपर यह भी हानि का हेतु होनेपर त्याज्य होनेमें संशय नहीं है इस निश्चय में प्रसिद्ध के तरह कहा है ।
मूलम्
एवमुत्कृष्टजन्मादिहानिहेतुश्चेत् किमपकृष्टजन्मादिकं सिद्धिहेतुर्भवतीत्यत आह-जन्मवृत्तयोरित्यादि ।
मूलम्
जन्मवृत्तयोरुत्कर्षोऽपकर्षश्च प्राप्तेर्हानेश्च न प्रयोजकः ॥ २१५ ॥
श्लोक
न प्राप्तेर्हानिहेतू स्तो जन्मवृत्तवरावधमौ ॥ २१५ ॥
टीका संस्कृता
जन्मवृत्तयोरुत्कर्षः-प्राप्तेर्हानेश्च प्रयोजको न भवति, तयोरपकर्षश्च तदुभयोः प्रयोजको न भवति । अथवा ‘अत्र जन्मवृत्तादिनियमो नास्ति’ इति, ‘हानिहेतुश्चेत्त्याज्यं हि’ चोक्तं, एवं कथमुच्यते ? वेदाध्ययनादिमुखेन भगवल्लाभहेतुत्वात् जन्मवृत्तयोरुत्कर्षः प्राप्तेर्हेतुः, तयोरपकर्षोऽध्ययनाद्यनर्हत्वाद्धानेर्हेतुरिति च कुतो नांगीक्रियत इत्यत आह-जन्मवृत्तयोरित्यादि । जन्मवृत्तयोरुत्कर्षः प्राप्तेः प्रयोजको न भवति, तयोरपकर्षश्च हानेः प्रयोजको न भवतीत्यर्थः । प्राप्तिहानी नाम-भगवल्लाभालाभौ । प्रयोजकत्वं फलयितृत्वम् । उत्कृष्टजन्मवृत्तवत्सु नालभमानाः, केचन लभमानाश्च दृश्यंते । अपकृष्टजन्मवत्सु च तथोभयविधा दृश्यंते । तस्मादयमुभयोरपि प्रयोजको न भवतीत्ययमर्थः प्रत्यक्षसिद्धः खलु ।
टीका हिन्द्या
जन्मवृत्तों के उत्कर्ष और अपकर्ष ये दोनों फल और हानि इन दोनों के कारण नहीं हैं ॥ २१५ ॥ इस प्रकार उत्कृष्टजन्मादि हानिका हेतु हो तो अपकृष्टजन्मादि फल का हेतु होयेंगे क्या ? इस शंका में कहते हैं-जन्मवृत्तों के इत्यादि । जन्मवृत्तों के उत्कर्ष फल और हानि के हेतु नहीं हैं, जन्मवृत्तों के अपकर्ष भी फल और हानि के हेतु नहीं हैं । यद्वा-‘इस में जन्मवृत्तादि नियम नहीं है’, ‘हानि का कारण हो तो त्याज्य है’ ऐसा कहे हो, इस प्रकार कह सक्ते हैं क्या ? वेदाध्ययनादिद्वारा भगवल्लाभहेतु होने से जन्मवृत्तों के उत्कर्ष फल का हेतु, उन के अपकर्ष अध्ययनादियों के योग्यता न होनेसे हानि का हेतु हैं ऐसा समझना ठीक नहीं क्या ? इस शंका में कहते हैं-जन्मवृत्तों का इत्यादि । जन्मवृत्तों के उत्कर्ष फल का कारण नहीं, उन के अपकर्ष हानि का कारण नहीं । फल और हानि माने-भगवल्लाभ और अलाभ । कारण माने-उत्पादन करनेवाले । उत्कृष्टजन्मवृत्तवाले कई च्युत होते हैं और कई प्राप्त होते हैं, अपकृष्टजन्मवृत्तवाले कई च्युत होते हैं और कई प्राप्त होते हैं । इन दोनों को देखने से ये दोनों दोनों को कारण नहीं यह अर्थ प्रत्यक्ष है ।
मूलम्
प्रयोजको भगवत्संबंधोऽसंबंधश्च ॥ २१६ ॥
श्लोक
तयोर्हेतुस्तु संबंधोऽसंबंधश्च हरेर्मतः ॥ २१६ ॥
टीका संस्कृता
तर्हि प्राप्तिहान्योः प्रयोजकः क इत्यत आह-प्रयोजक इत्यादि । भगवल्लाभरूपप्राप्तेः प्रयोजकः ‘वयं भगवदनन्यार्हशेषभूताः’ इति स्थितिरूपो भगवत्संबंधः । तदलाभरूपहानेः प्रयोजकस्तदनन्यार्हशेषत्वज्ञानाभावरूपस्तत्संबंधाभाव इत्यर्थः ।
टीका हिन्द्या
कारण-भगवत्संबंध और भगवदसंबंध है ॥ २१६ ॥ ऐसा हो तो प्राप्ति और अप्राप्ति इन दोनों के कारण कौन हैं ? इस शंका में कहते हैं-कारण इत्यादि । भगवल्लाभरूपप्राप्ति का कारण-हम भगवदनन्यार्हशेषभूत हैं ऐसा समझ रहना रूप भगवत्संबंध । भगवदलाभरूपहानि का कारण-भगवदनन्यार्हशेषत्वज्ञानाभावरूप भगवदसंबंध है समझना ।
मूलम्
उत्कृष्टापकृष्टजन्मनोरुभयोरपि भगवत्संबंधे जाते भागवतत्वसाम्यं खलु वर्तते, तेन सह जन्मोत्कर्षवान् तस्माद्विशिष्टः खलु इति विचिंत्य क्रियमाणं प्रश्नमनुवदति-भगवत्संबंधे जाते द्वयमपि तुल्यं किमिति चेत् ॥ २१७ ॥
श्लोक
जातेऽपि हरिसंबंधे द्वयं तुल्यं भवेत्किमु ॥ २१७ ॥
टीका संस्कृता
द्वयमिति-उत्कृष्टापकृष्टजन्मनी उच्येते ।
टीका हिन्द्या
भगवत्संबंध हो तो दोनों बराबर होयेंगे क्या ॥ २१७ ॥ उत्कृष्ट और अपकृष्ट जन्मवाले दोनों को भगवत्संबंध होने से भागवतत्व समान होता है । उस भागवत के साथ जन्मोत्कर्षवाला अपकृष्टजन्मवाले से श्रेष्ठ होता है ऐसा समझ क्रियमाण प्रश्न को अनुवाद करते हैं-भगवत्संबंध हो तो इत्यादि । दोनों-उत्कृष्टापकृष्ट जन्म दोनों ।
मूलम्
न तुल्यम् ॥ २१८ ॥
श्लोक
इति चेन्न द्वयोस्तुल्यं शास्त्रकारैः प्रवक्ष्यते ॥२१८॥
टीका संस्कृता
प्रष्टुरुत्कृष्टत्वेनाभिमतमपकृष्टत्वेन, अपकृष्टत्वेनाभिमतमुत्कृष्टत्वेन चाभिप्रेत्य तस्योत्तरमाह-न तुल्यमिति ।
टीका हिन्द्या
बराबर नहीं होगा ॥ २१८ ॥ प्रश्न करनेवाले उत्कृष्टतया समझा हुआ को अपकृष्टतया, अप्रकृष्टतया समझा हुआ को उत्कृष्टतया मानकर उत्तर देते हैं-बराबर नहीं इत्यादि ।
मूलम्
उत्कृष्टत्वेन भ्रमविषयीभूतं जन्म भ्रंशसंभवनया ‘शरीरे च’ इत्युक्तप्रकारेण भयजनकम् ॥ २१९ ॥
श्लोक
उत्कृष्टत्वेन मिथ्याधीविषयो जन्मसंभवात् । भ्रंशस्य हि ‘शरीरे च’ इत्युक्तितो भयकारणम् ॥ २१९ ॥
टीका संस्कृता
तदुपपादयत्युत्कृष्टत्वेनेत्यादिना । आभिजात्यादिभिरहंकृत्य नष्टो भवितुमुपयुक्तत्वादपकृष्टभूतमिदमुत्कृष्टत्वेन स्मृत्वा प्रश्नः कृतः । अतस्मिंस्तद्बुद्धिरित्यर्थज्ञापनायोत्कृष्टत्वेन भ्रमविषयं जन्मेत्युक्तम् । भ्रंशसंभावना नाम-उपायांतरेष्वन्वयेनानन्योपायत्वरूपाधिकाराच्च्युत्यागमनयोग्यत्वम् । ‘शरीरे च’ इत्युक्तप्रकारेण भयजनकमिति-‘कालेष्वपि च’ इत्यारभ्योपायांतरानुष्ठानयोग्यत्वाद्भयहेतूनामुक्त्यवसरे तेभ्यः सर्वेभ्यः प्राधान्येन ‘शरीरे च वर्तते मे महद्भयम्’ इत्युक्तप्रकारेण स्वरूपयाथात्म्यविदामुपायांतरगंधासहानामधिकारिणामेतस्मिन् सति किं वा कुर्यादिति भयं वर्धयतीत्यर्थः ।
टीका हिन्द्या
उत्कृष्टतया भ्रांत जन्म भ्रंशसंभावना से ‘शरीरे च’ इस वचनानुसार भयजनक होता है ॥ २१९ ॥ उस को उपपादन करते हैं-उत्कृष्टतया इत्यारभ्य । आभिजात्यादियों से अहंकार कर नष्ट होनेके उपयुक्त होनेसे अपकृष्टरूप इस को उत्कृष्टता समझ प्रश्न किया गया । यह रज्जु में सर्पभ्रांति के जैसे भ्रांतिकार्य होनेसे ‘उत्कृष्टतया भ्रांतजन्म’ कहते हैं । भ्रंशसंभावना माने-उपायांतरों में प्रवृत्त हो अनन्योपायत्वरूप अधिकार से च्युत होनेका योग्य होना । ‘शरीरे च’ इस वचनानुसार भयजनक होता है माने-‘संपूर्ण कालों में’ ऐसा आरंभ कर उपायांतरानुष्ठान के योग्य होनेसे भयहेतुओं को कहनेके समय उन सब में प्रधान ‘शरीर में महद्भय उपस्थित है’ इत्युक्तप्रकार स्वरूपयाथात्म्य को जाननेवाले उपायांतरगंध को भी नहीं सहनेवाले अधिकारियों को ‘यह शरीर रहते हुए क्या क्या अनर्थ को उत्पादन करेगा’ ऐसा भय को उत्पादन करता है ।
मूलम्
तस्य स्वरूपप्राप्तं नैच्यं भावनीयम् ॥ २२० ॥
श्लोक
तस्य स्वरूपायातं तन्नैच्यं भावनया भवेत् ॥ २२० ॥
टीका संस्कृता
पुनस्तस्य कंचन दोषमाह-तस्येत्यादिना । तस्येति-पूर्वोक्तजन्म परामृश्यते । स्वरूपप्राप्तं नैच्यं भावनीयमिति-भागवतानुवर्तनादिप्रसंगे शेषत्वरूपस्वरूपस्यानुरूपं नैच्यं परैः क्रियमाणं दृष्ट्वानुकार्याभ्यसनीयमित्यर्थः ।
टीका हिन्द्या
उस को स्वरूपप्राप्तनैच्य को भावना करना है ॥ २२० ॥ और भी उत्कृष्ट जन्म को एक दोष बताते हैं-उस को इत्यादि । उस को-उत्कृष्टजन्म को । स्वरूपप्राप्तनैच्य को भावना करना है माने-भागवतानुवर्तनादियों में शेषत्वस्वरूप का अनुरूपनैच्य को अन्यलोग करते हुए देख उस को आप भी अनुकार कर अभ्यास करना है ।
Of course. Here is the continuation of the text, starting from Sutra 221 and proceeding to Sutra 320.
मूलम्
अपकृष्टत्वेन भ्रमविषयीभूतस्योत्कृष्टजन्मन उभयदोषोऽपि नास्ति ॥ २२१ ॥
श्लोक
अपकृष्टत्वेन मिथ्याधीगोचरीभूतदेहिनः । उत्कृष्टजन्मनो नैवोभयदोषो हि विद्यते ॥ २२१ ॥
टीका संस्कृता
एतत्प्रतिकोटिनो जन्मनो दोषाभावमाह-अपकृष्टत्वेनेत्यादिना । आभिजात्यादिप्रयुक्ताहंकारयोग्यं विना शेषत्वानुकूलतया स्थितत्वादुत्कृष्टत्वेन स्थितस्यापकृष्टत्वेन चिंतनं चातस्मिंस्तद्बुद्धिरिति ज्ञापयितुं ‘अपकृष्टत्वेन भ्रमविषयीभूतस्योत्कृष्टजन्मनः’ इत्युक्तम् । उभयदोषोऽपि नास्तीति-भ्रंशसंभावनाप्रयुक्तभयजनकत्वस्वरूपप्राप्तनैच्यभावनारूपदोषद्वयं च नास्तीत्यर्थः ।
टीका हिन्द्या
अपकृष्टतया भ्रांत उत्कृष्टजन्म को दोनों दोष नहीं हैं ॥ २२१ ॥ इस का प्रतिकोटिरूप अपकृष्टजन्म दोषरहित है ऐसा कहते हैं-अपकृष्टतया इत्यादि । आभिजात्यादियों से होनेवाले अहंकार के योग्य न होनेसे शेषत्व के अनुकूल होनेसे उत्कृष्टभूत इस को अपकृष्टतया समझना अतस्मिंस्तद्बुद्धि रूप [[प्रतिकार्य|भ्रांतकार्य]] होनेसे ‘अपकृष्टतया भ्रांतजन्म’ ऐसा कहते हैं । दोनों दोष नहीं हैं माने-भ्रंशसंभावना से होनेवाले भयजनकत्वरूप दोष, स्वरूपप्राप्तनैच्य को भावना करनारूप दोष भी नहीं हैं ।
मूलम्
नैच्यं जन्मसिद्धम् ॥ २२२ ॥
श्लोक
जन्मसिद्धं च नैच्यं तदुत्कृष्टस्य हि जन्मिनः ॥ २२२ ॥
टीका संस्कृता
भ्रंशसंभावना खलु नास्ति, नैच्यभावना कुतो नास्तीत्यत आह-नैच्यमित्यादि । भागवतानुवर्तनादीनामुपयुक्तस्य नैच्यस्य स्वतः सिद्धत्वात् भावनापेक्षां विना [[निम्नस्थानं|नैसर्गिकं]] भवतीत्यर्थः ।
टीका हिन्द्या
नैच्य जन्मसिद्ध है ॥ २२२ ॥ भ्रंशसंभावना नहीं है तो नैच्यभावना क्यों नहीं है ? इस शंका में कहते हैं-नैच्य जन्मसिद्ध है इत्यादि । भागवतानुवर्तनादियों के योग्य नैच्य जन्मसिद्ध होनेसे भावना की अपेक्षा नहीं है, स्वभावसिद्ध है जानना ।
मूलम्
तस्मादुत्कृष्टजन्मैव श्रेष्ठम् ॥ २२३ ॥
श्लोक
श्रेष्ठमुत्कृष्टजन्मैवेत्येवं तस्माद्बुधा जगुः ॥ २२३ ॥
टीका संस्कृता
अमुमर्थं निगमयति-तस्मादित्यादिना । तस्मादिति-एवं तस्य सदोषत्वात्, अस्य निर्दोषत्वाच्चेत्यर्थः । उत्कृष्टजन्मैव श्रेष्ठमिति-शेषत्वोचितत्वेनोत्कृष्टमेतज्जन्मैव तदनुचितजन्मापेक्षया श्रेयः ।
टीका हिन्द्या
इस कारण से उत्कृष्ट जन्म ही श्रेष्ठ है ॥ २२३ ॥ इस अर्थ को समाप्त करते हैं-इस कारण से इत्यादि । इस कारण से-इस प्रकार उत्कृष्टजन्म में दोष होनेसे, और अपकृष्टजन्म में दोषद्वय न होनेसे । उत्कृष्टजन्म ही श्रेष्ठ है-शेषत्वानुरूप होनेसे उत्कृष्टभूत यह जन्म ही शेषत्वाननुगुणजन्म की अपेक्षा श्रेष्ठ है ऐसा समझना ।
मूलम्
‘श्वपचोऽपि महीपाल’ ॥ २२४ ॥
श्लोक
‘श्वपचोऽपि महीपाले’ त्यादि मानं प्रकीर्तितम् ॥ २२४ ॥
टीका संस्कृता
अस्यार्थस्य प्रमाणं दर्शयति-‘श्वपचोऽपि’ इत्यादिना । ‘श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनस्तु यतिश्च श्वपचाधमः ॥’ इति सर्वप्रकारेण निकृष्टजन्मापि भगवद्भक्तो द्विजाधिकः, उत्कृष्टजन्मवत्त्वमात्रं विनोत्तमाश्रमित्वविशिष्टोऽपि भगवद्भक्तिविहीनः श्वपचाधम इति वर्णाश्रमयोराग्रहं निवर्तयित्वा भगवत्संबंधस्यैवोत्कर्षहेतुत्वोक्त्या भ्रंशसंभावनादिभिस्तत्संबंधविरोधिनो जन्मनस्तदनुरूपजन्मैव श्रेष्ठमिति भावः । अन्यथा पूर्वकस्यार्थस्यायं प्रमाणं न भवेत् ।
टीका हिन्द्या
‘हे राजन् ! श्वपच होनेपर भी’ ॥ २२४ ॥ इस अर्थ का प्रमाण दिखाते हैं–श्वपच होनेपर भी इत्यादि । ‘हे राजन् ! श्वपच होनेपर भी विष्णुभक्त हो तो ब्राह्मण से अधिक होता है । यति होयतो भी विष्णुभक्तिरहित होनेपर श्वपच से नीच होता है ।’ ऐसा कितना भी निकृष्टजन्मवान् होनेपर भी भगवान् के भक्त हो तो ब्राह्मण से अधिक होता है । उत्कृष्टजन्मवान् और उत्कृष्टआश्रमवान् हो तो भी भगवान्भक्ति न हो तो श्वपच से भी नीच होता है ऐसा वर्णाश्रमों के श्रेष्ठता को नहीं देव भगवत्संबंध ही उत्कर्षहेतुतया कहने से भ्रंशसंभावनादियों से भगवत्संबंधविरोधी जन्मापेक्षा भगवत्संबंधानुरूप जन्म ही श्रेष्ठ है ऐसा जानना । ऐसा न होता पूर्वोक्त अर्थ का यह प्रमाण नहीं हो सकता है ।
मूलम्
एवं निकृष्टोत्कृष्टौ चेताविति निश्चितौ प्राक्तत्र निकृष्टजन्मप्रयुक्तो दोषः केन शाम्यत इत्यत आह-निकृष्टेत्यादि ।
मूलम्
निकृष्टजन्मप्रयुक्तो दोषः शाम्यते विलक्षणसंबंधेन ॥ २२५ ॥
श्लोक
दुष्टजन्मप्रयुक्तो हि दोषो नश्यति सर्वथा । विलक्षणैश्च योगेन तत्संबन्धप्रभावतः ॥ २२५ ॥
टीका संस्कृता
अहंकारहेतुतया निकृष्टजन्महेतुना जातो नैच्यस्य भावनीयत्वादिदोषो यथा पुनर्न भवेत् तथा नाशः, जन्मसिद्धनैच्यैरूपायांतरान्वययोग्यतागंधरहितैर्विलक्षणाधिकारिभिर्विद्यमानशेषत्वसंबंधेनेत्यर्थः ।
टीका हिन्द्या
निकृष्टजन्म से होनेवाला दोष विलक्षणसंबंध से निवृत्त होता है ॥ २२५ ॥ तथाच-निकृष्ठ और उत्कृष्टजन्म अमुक हैं ऐसा निश्चय कियागया । उस में निकृष्टजन्म से होनेवाला दोष किस से निवृत्त होगा ? इस प्रश्न में कहते हैं—निकृष्ट इत्यादि । अहंकारहेतु से निकृष्टजन्म द्वारा होनेवाले नैच्यभावना और भ्रंशसंभावना रूप दोष जन्मसिद्धनैच्यवाले उपायांतरसंबंधगंधरहितविलक्षणाधिकारियों के साथ शेषत्वरूपसंबंध से जड से निवृत्त होता है ।
मूलम्
तत्संबंधयोग्यता कथं संभवेदित्यत आह-संबंधस्येत्यादि ।
मूलम्
संबंधस्य योग्यतायां जननीयायां जन्मन्यूनतानिवृत्तिरावश्यकी ॥ २२६ ॥
श्लोक
संबन्धयोग्यतायां तैरवश्यं जन्मन्यूनता । हापनीया प्रयत्नेन श्रेयस्कामैः सुभावुकैः ॥ २२६ ॥
टीका संस्कृता
तादृशविलक्षणैः संबंधस्यार्हतायामस्य जननीयायां स्वजन्मगतन्यूनताया निवृत्तिरपेक्षितेत्यर्थः ।
टीका हिन्द्या
संबंध की योग्यता होनेपर जन्मगत दोष निवृत्त होना चाहिये ॥ २२६ ॥ उनके संबंध की योग्यता कैसे होगी ? इस शंका में कहते हैं-संबंध की इत्यादि । उन विलक्षणों के साथ संबंध की योग्यता इस को होनेके समय अपना जन्म का दोष निवृत्त होना चाहिये ।
मूलम्
जन्मनो न्यूनता तत्परिहारश्च ‘अवद्यरहित’ [पलुदिला] इति गाथायामुक्तः ॥ २२७ ॥
श्लोक
पलुदिलेति गाथायां जन्मनो न्यूनता तथा । तत्परिहारकश्चैव सम्यगुक्तो हि सूरिभिः ॥ २२७ ॥
टीका संस्कृता
जन्मनः का वा न्यूनता तत्परिहारः कः ? इत्याकांक्षायामाह-जन्मन इत्यादि । अज्ञाननिवृत्तिमत्त्यानंदं प्राप्तेषु तत्वज्ञेष्वग्रेसरैस्तदीयशेषत्वसीमाभूमिभिर्भक्तांघ्रिरेणुभिः ‘अवद्यरहित’ इत्यादिना ‘ब्रह्माणमारभ्य स्वपर्यंतमागते वंशप्रवाह एकमपि दोषं विना वर्तमाना अनेके स्वपर्यंतमागते चतुर्वेदिनः ! अतो निकृष्टं नास्तीति वक्तुं योग्यनिहीनकुल उत्पन्ना अपि मया सह विद्यमानासाधारणसंबंधज्ञानात्तदृशज्ञानानुरूपस्वाचारविशिष्टाश्चेत् यूयं तेषां पादयोर्निपत्याराधयत, तैर्युष्मासु ज्ञानापेक्षायां कृतायां सादरं वदत, तेषु भगवज्ज्ञानं प्रसादयत्सु वा कृतार्था भवत, मदुपरि पूज्यभावात् मत्सदृशतया वा तानाराध्य सन्मार्गे गच्छत’ इति परमरहस्यमुक्त्वा-‘भक्तिरष्टविधा यस्मिन् म्लेच्छेऽपि वर्तते । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥’ इति परमाप्तो भवानवदत् तस्मिन्नस्माकं कश्चन संशयो वाऽस्ति किं ? एवमुपदेशमात्रं विना श्रीरंगे आगत्य लोकसारंगमहामुनेस्तच्छिरसि योगिवाहं स्थापयित्वाऽमुमर्थमनुष्ठानपर्यंतं व्यावृत्य प्रदर्शितवान् न किं ? अस्यां गाथायामभिजानाद्यभिमानो जन्मन्यूनता, तादृशजन्मन्यूनतारहितविलक्षणतदीयविषये क्रियमाणोऽनुवर्तनविशेषस्तस्य परिहार इति सुव्यक्तमुक्त इत्यर्थः ।
टीका हिन्द्या
जन्म का दोष और उस का परिहार को ‘अवद्यरहितवृत्त’ (पलुदिलाओळुक्क) इस गाथा में कहते हैं ॥ २२७ ॥ जन्म का दोष क्या ? उस का परिहार क्या ? इस शंका में कहते हैं-जन्म का दोष इत्यादि । अज्ञाननिवृत्तिपूर्वक [[ज्ञानानंद]] को प्राप्त हो तत्त्वज्ञों में अग्रसर तदीयशेषता की सीमाभूमिभूत श्रीभक्तांघ्रिरेणुस्वामी जी ‘अवद्यरहितवृत्तवाले’ इत्यादि से ‘ब्रह्मासे लेकर अपने पर्यंत आनेवाले वंशप्रवाह में किसी भी दोषरहित अनेक चतुर्वेदियो ! इस से नीच नहीं ऐसे कहनेयोग्य निहीनकुल में जन्म लेनेपर भी हमारे साथ असाधारणसंबंध को जान तद्ज्ञानानुरूपस्वाचारवाले हो तो तुम लोग उन के चरणों में गिर आराधना करो । वे लोग तुमारे पास ज्ञान की अपेक्षा करें तो तुम आदरपूर्वक कहो, वे भगवद्ज्ञान को तुम को उपदेश किये तो सुन कृतार्थ होओ, हम से अधिक पूज्य न होनेसे हमारे सदृश तौभी उन को आराधना कर सन्मार्ग में गमन करो,’ ऐसा इस परमरहस्य को कह ‘यह आठ प्रकार की भक्ति जिसकिसी म्लेच्छ में भी हो तो उन को दो और उन से लो, उन को हमारे सदृश मान पूजा करो ॥’ ऐसा परमाप्त आप ही कहे हो तो इस में कोई संशय है क्या ? । इस प्रकार उपदेशमात्र न हो श्रीरंगजी में आ विराज लोकसारंगमहामुनि के शिर में योगिवाहक को बैठा इस अर्थ को अनुष्ठानपर्यंत कर दिये नहीं हो क्या ? अभिजानादि अभिमान जन्म का दोष है, वह दोष जिन जिन को नहीं है उन विलक्षणभागवतों के अनुवर्तन करनेसे वह दोष निवृत्त होता है ऐसा स्पष्ट कहे हैं ।
मूलम्
वेधकरसवद्विलक्षणैः संबंधः ॥ २२८ ॥
श्लोक
विलक्षणैः स संबंधो वेधकस्पर्शवत्स्मृतः ॥२२८॥
टीका संस्कृता
एवंभूतजन्मवृत्तादिविकलैः संबंधे जातेऽयमपि तैर्विलक्षणो जायते किमित्यत आह-वेधकरसवदित्यादि । वेधकस्पर्शो नाम-अनेकसिद्धौषधैर्बहुवारं [[प्रज्वाल्य|प्रक्षाल्य]] गुलिकारूपं कृत्वा रसवादिभिः [[स्पृहणीयतया|संगृह्यमाणं]] स्पर्शवेधीति स्वर्णम् । तत्स्पर्शमात्रेणायः स्वर्णं यथा करोति तथा जन्मसिद्धनैच्यादिविशिष्टैरेतैर्विलक्षणैः संबंधः निकृष्टजन्मनाऽऽगतं दोषं दूरीकृत्यामुं च विलक्षणं करोति ।
टीका हिन्द्या
वेधकरस के तरह विलक्षणों के साथ संबंध जानना ॥ २२८ ॥ इस प्रकार के जन्मदोषनिवृत्त हो विलक्षणों के साथ संबंध होनेपर यह भी विलक्षण हो जायगा क्या ऐसी शंका में कहते हैं-वेधकरस इत्यादि । वेधकरस माने-अनेकसिद्धौषधों के साथ बहुवार गलाकर गुलिकारूप से किये हुए रसवादियोगों के हाथमें रहनेवाले [[स्पर्शवेधि|स्पर्शवेधि]] नामक स्वर्ण । वह स्वर्णस्पर्शमात्र से लोहा को यथा स्वर्ण बनाता है तथा जन्मसिद्धनैच्यादिवाले विलक्षणभागवतों के साथ संबंध निकृष्टजन्म से होनेवाले दोष को दूर कर इस को भी विलक्षण बना देता है ।
मूलम्
एषु साम्यबुद्धिराधिक्यबुद्धिश्च कर्तव्या ॥ २२९ ॥
श्लोक
समताधिकताबुद्धिरेषु कार्या विचक्षणैः । संसारिभ्य ईश्वराच्च प्रतिपत्तिर्वरा स्मृता ॥ २२९ ॥
टीका संस्कृता
एवं स्वसंबंधेनास्य दोषं दूरीकृत्य स्वसाम्यापत्तिप्रदान्विलक्षणान् कथं प्रतिपद्येतेत्यत आह-एष्वित्यादि ।
टीका हिन्द्या
इन के विषय में साम्यबुद्धि और आधिक्यबुद्धि रखना चाहिये ॥ २२९ ॥ इस प्रकार स्वसंबंध से इस के दोष को दूर कर अपनी सदृशता को देनेवाले विलक्षणभागवतों को कैसा समझना चाहिये ? ऐसी शंका में कहते हैं-इन के विषय में साम्यबुद्धि इत्यादि ।
मूलम्
सा चाचार्यतुल्याः संसारिभ्यः स्वस्मादीश्वरादधिका इति प्रतिपत्तिः ॥ २३० ॥
श्लोक
तेष्वाचार्यसमा बुद्धिः सा बुद्धिरिति कीर्तिता ॥ २३० ॥
टीका संस्कृता
एतद्विवृणोति-सा चेत्यादिना । आचार्यतुल्या इति प्रतिपत्तिर्नाम-‘गुरुरेव परं ब्रह्म’ इत्यादिप्रकारेण सर्वप्रकारोद्देश्येनाचार्येणैते समा इति प्रतिपत्तिः । संसारिभ्योऽधिका इति प्रतिपत्तिर्नाम-जात्यादिकमादाय संसारिभिः समा इति बुद्धिमकृत्वा ज्ञानादिप्रयुक्तव्यावृत्त्या तदधिका इति प्रतिपत्तिकरणम् । स्वस्मादधिका इति प्रतिपत्तिर्नाम-संसारिभ्यो व्यावृत्तेः स्वस्यापि सत्त्वात्तमादाय स्वतुल्या इति बुद्धिमकृत्वा स्वस्य शेषित्वरूपस्वभावाकारेण स्वस्मादधिका इति प्रतिपत्तिकरणम् । ईश्वरादधिका इति प्रतिपत्तिर्नाम-शेषित्वेनास्माकं स एतेऽपि सदृशा इति बुद्धिमकृत्वा कर्मानुगुणं लीलायां च विनियोक्तुः, स्वसमाश्रयणदशायां पुरुषकारापेक्षिणः, अभिमतदिव्यस्थलेषु सन्निहितत्वेन स्थितावपि अर्चावतारसमाधिना मुखमुद्घाट्यैकामपि वार्तामनुक्त्वा स्थितात्तस्माद्वैलक्षण्येन-स्वरूपानुगुणमेव विनियोक्तारः, स्वाश्रयणे पुरुषकारनिरपेक्षाः, मुखमुद्घाट्य त्याज्योपादेयान्युपदिश्य रक्षंति, अतस्तस्मादधिका इति प्रतिपत्तिकरणम् ।
टीका हिन्द्या
वह-आचार्यसदृश समझना । संसारी, आप और ईश्वर इनसे अधिक समझना ॥ २३० ॥ इस को विवरण करते हैं-वह इत्यादि । आचार्यसदृश समझना माने-‘गुरु ही परब्रह्म है’ इत्यादि प्रकार अपने को सर्वप्रकार उद्देश्य आचार्य के साथ इन को समतया समझना । संसारियों से अधिक समझना माने-जात्यादियों से संसारियों के सदृश न समझ ज्ञानादि द्वारा आयी हुई विलक्षणता से उन से अधिक समझना । अपने से अधिक समझना माने-संसारियों से विलक्षणता अपने में भी होनेसे तद्द्वारा अपने समान न समझ अपने को शेषी अत एव अधिक समझना । ईश्वर से अधिक समझना माने-शेषी होनेसे हमें ईश्वर और ये विलक्षणभागवत दोनों बराबर हैं ऐसा न समझ कर्मानुगुण लीला में विनियोग करनेवाले, स्वचरणकमलसमाश्रयणदशा में पुरुषकार की अपेक्षा करनेवाले, दिव्यदेशों में संनिधि करनेपर भी अर्चावतारसंकल्प से [[वाचा]] एक वार्ता न कहनेवाले सर्वेश्वर के [[सदृश|सदृश]] न हो स्वरूपानुगुण विनियोग करनेवाले, स्वाश्रयण में पुरुषकार की अपेक्षा न कर [[वाचा]] त्याज्योपादेयों को उपदेश कर रक्षा करनेवाले होनेसे ईश्वर से अधिक समझना ।
मूलम्
आचार्यसाम्यस्य मूलमाचार्यवचनम् ॥ २३१ ॥
श्लोक
आचार्यतुल्यताबीजमाचार्यस्य वचः स्मृतम् ।
टीका संस्कृता
आचार्येण कस्यापि समत्वबुद्धेरयुक्तत्वे सत्याचार्यसाम्यबुद्धेर्मूलं किमित्याकांक्षायामाह-आचार्येत्यादि । आचार्यसाम्यस्य प्रतिपत्तेर्मूलं-‘श्रीवैष्णवेषु दृष्टेषु मामिव पश्येत’ इत्युपदेशसमय आचार्योक्तं वचनमित्यर्थः ।
टीका हिन्द्या
आचार्यसाम्य का कारण ‘आचार्यवचन’ है ॥ २३१ ॥ आचार्य के साथ किसी को भी समान समझना अयुक्त होनेपर भी आचार्य के सदृश समझने का कारण क्या ? इस शंका में कहते हैं-आचार्य इत्यादि से । आचार्यसदृश समझने का कारण-‘श्रीवैष्णवों को देखनेपर हम को देखनेके सदृश देखना’ ऐसा उपदेशसमय में आचार्य की कहहुई वार्ता ।
मूलम्
एवं प्रतिपत्त्यकरणं चापचारः ॥ २३२ ॥3
श्लोक
अर्थोऽयमितिहासेषु पुराणेषु विशेषतः ॥ २३२ ॥
टीका संस्कृता
एवं प्रतिपत्त्यकरणे को वाऽनर्थ इत्यत आह-एवमित्यादि । जन्मादिकमादाय निकर्षबुद्धिकरणं यथा वापचारो भवति, तथा गौरवप्रतिपत्त्यकरणं चापचारे पर्यवस्यतीत्यर्थः ।
टीका हिन्द्या
ऐसा नहीं समझना भी अपचार है ॥ २३२ ॥ ऐसा नहीं समझनेपर क्या अनर्थ होगा ? इस शंका में कहते हैं-ऐसा इत्यादि । जन्मादियों को अवलंबनकर-निकृष्ट समझने में जैसा अपचार होता है तैसा गौरवबुद्धि से नहीं समझना भी अपचार में गिना जायगा ।
मूलम्
अयमर्थ इतिहासपुराणेषु पयिलंशुडरोलि, नेडुमालेक्कडिमै, कणशोरवेंगुरुदि, नण्णादबालवुणर्, तेरुतिरत्तेनिल, मेवोरूरु, इत्यस्या उपरितनगाथासु च विशदतथा ज्ञायते ॥ २३२ ॥
श्लोक
अयमितिहासेषु पुराणेषु विशेषतः । अभ्यस्यमानके तद्वन्महद्व्यामोहके तथा ॥ नेत्रभ्रमणके तद्वदनादर्या सुरे तथा । आगन्तुकभयस्त्यागेऽन्वेषणाशक्यके तथा । दशके दृश्यते सम्यक् सूरिवर्यैः प्रसादितः ॥ २३२॥
टीका संस्कृता
एवमयं भागवतवैभव आप्तवचनेषु विशदतथा क्व दृश्यते ? इत्यत आह-अयमर्थ इतिहासपुराणेष्वित्यादि । अयमर्थ इति-पूर्वं विस्तरेणोक्तो भागवतवैभवः परामृश्यते । महाभारते-‘मद्भक्तं शूद्रसामान्यादवमन्यंति ये नराः । रौरवे ते पतिष्यंति वर्षकोटीर्नराधमाः ॥ चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । अवमानात्पतत्येव रौरवे नरके हि सः ॥’ इत्यादिना, ‘न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः । सर्ववर्णेषु ते शूद्रा येऽभक्ता जनार्दने ॥’ इत्यादिना, ‘मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यर्चनं चैव मदर्थे दंभवर्जनम् ॥ मत्कथाश्रवणे प्रीतिः स्वरनेत्रांगविक्रिया । ममानुस्मरणं नित्यं यश्च मां नोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेंद्रो मुनिः श्रीमान् स यतिः स च पंडितः ॥ न मे पूज्यश्चतुर्वेदी पूजयन् भक्तिवर्जितः । स मे पूज्यः सदा चासौ मद्भक्तः श्वपचोऽपि यः ॥ तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥’ इत्यादिना बहुस्थलेषु च भागवतवैभवः प्रतिपादितः । इतिहासोत्तमे-‘शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा । वीक्षते जातिसामान्यात् स याति नरकं नरः ॥’ इत्यादिना भागवतप्रभावः प्रकीर्तितः । अन्यत्र चेतिहासे बहुस्थलेषु भागवतमाहात्म्यप्रतिपादनं तत्र तत्र द्रष्टव्यम् । श्रीवराहपुराणे-‘मद्भक्तं श्वपचं वापि निंदां कुर्वन्ति ये नराः । पद्मकोटिशतेनापि न क्षमामि कदाचन ॥’ इत्यादिना भागवतप्रभावः प्रोक्तः । श्रीभागवते-‘श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः । विष्णुभक्तिविहीनस्तु यतिश्च श्वपचाधमः ॥ विप्राद्विषड्गुणयुतादरविंदनाभपादारविंदविमुखाच्छ्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थप्राणः पुनाति सकलं न तु भूरिमानः ॥’ इत्यादिना भागवतवैभवो बहुषु स्थलेष्वभिहितः । लिंगपुराणेऽपि-‘वैष्णवानां विशेषोऽस्ति विष्णोरायतनं महत् । जङ्गमश्रीविमानानि हृदयानि मनीषिणाम् ॥ यः पश्यति शुभाचारं वैष्णवं वीतकल्मषम् । यस्मिन् कस्मिन् कुले जातं प्रणमेद्दंडवद्भुवि ॥’ इत्यादिना भागवतवैभवः प्रतिपादितः । एवं भागवतमाहात्म्यप्रतिपादनस्य बहुषु पुराणेषु सत्त्वात् तत्र तत्र स्थलेषु द्रष्टव्यः । इतिहासादिषूपात्तवचनेषु भागवतेषु जन्मनिरूपणेनावमति करणे जायमानोऽनर्थविशेषः-यदा भागवता जातास्तदैव तेऽवकृष्टजातीया न भवंति उत्कृष्टजातीतुल्या इत्यर्थः । उत्कृष्टजातीयेभ्योऽपि श्रेष्ठास्तेषां ज्ञानप्रदातृतया गुरवः परमशेषीश्वरवत् पूज्याश्च भवतीत्यर्थः । तद्विषयेऽपचारमीश्वरः कालतत्त्वपर्यंतं न क्षमत इति, करणत्रयव्यापारानर्थान् प्राणादींश्चाविशेषेण भगवद्विषये समर्प्य निरभिमानतया वर्तमानाः स्पर्शेन पावयंतीत्यर्थः । तेषां हृदयमीश्वरस्य जंगमविमानमित्यर्थः । ते दृष्टाश्चेद्दंडवत्प्रणामं कुर्यादित्यर्थश्चोक्तः खलु । एवमितिहासपुराणेषु, परांकुशः ‘क्षीरसमुद्रे स्थितस्य सर्वाधिपतेः परिचर्योपयुक्तसंपद्विशिष्टाः-प्रतिजन्मजन्मन्यस्माकं नियंतारः स्वामिनः’ इत्यारभ्य भगवद्गुणचेष्टितादिषु प्रवणा भागवता एव स्वस्य शेषिण इत्यर्थस्य प्रतिपादनस्थले-‘ये केचन वा ते खलु’, ‘कुंभीपाकनरकस्थाः स्तुवंति चेत् ते खलु’, ‘यत्किंचित् समीचीनेनापि रहिताश्चंडालचंडाला अपि’ इति जन्मादिभिः सर्वथा नीचा अपि शेषत्वविरोधिजन्माद्यभिमानरहिताः खल्वस्माकमत्यंतमुद्देश्या इत्युक्ते ‘अभिवर्धमानप्रभाव’ दशके, ‘क्रूरमहापापविशिष्टोऽहं तेषां दासानां चरणयोः प्राप्तिं विना विस्मयनीयं त्रैलोक्यं प्राप्तं चेदपि त्यागार्हमिति खलु’ इत्यारभ्य भागवताः स्वस्य परमप्राप्या इति प्रतिपादनस्थले जन्मवृत्तादिविभागं विना ‘स्वयमेव शेषत्वं सुस्थिरं स्थिताः’, ‘तस्य दासाः’, ‘मणिपर्वतवच्छ्यामस्य श्रियःपतेराश्रिताः’, ‘निर्दोषा दासाः’, ‘विश्लेषरहिता दासाः’ इति भगवत्सौंदर्यादिषु जितत्वरूपाकार एव तेषां निरूपक इत्युक्ते-महतो व्यामोहवतो दशके । परकालैः-‘शीतलसारक्षेत्रनिर्वाहकस्य मत्स्वामिनश्चरणावाश्रयंतो मन्मस्तके स्थिताः पश्यत’ इत्यारभ्यार्चावतारप्रवणाः श्रीवैष्णवा मच्छिरसा वाह्याः सदा ध्येयाः सूरिभ्योऽपि कैंकर्यसमृद्धिविशिष्टाः तान् क्षणकालमपि विश्लेष्टुमक्षमः, तेषां मम हृदयं मधुस्रोतः सदा भोग्यं भवति, तद्दर्शनमात्रेण खलु मन्मनो दृष्टयश्च हृष्टा भवंति, तद्विषये मम वर्धमानोऽनुरागः, तेषु मनसा स्मृतेषु मृत्योरापदश्च न भेतव्यमिति, मम हृदयस्य तद्विषयेऽवगाहनप्रकारमपश्यत किमित्येवमुक्तस्थले जन्मादिप्रसंगं विनोक्ते कणशोरवेंगुरुदि दशके, ‘कडल्मलैस्थलशयनस्य ये चिंतनप्रयुक्तं मनोविशिष्टास्ते मम नियामकाः’ इति येन केन वा जन्मना युक्ता वा स्युः श्रीकडल्मलैस्थलशयनमनुसंधाय स्थितप्रकारेषु प्रमाणमप्रदर्श्य मत्तः कार्यं स्वीकर्तुं समर्था इत्यारभ्य ‘ज्ञानस्वरूपं चिंतयंतो मम स्वामिनः’, ‘ते मम कुलदैवतम्’ इत्यभिमतस्थले प्रवणा एवास्माकं शेषिण इत्युक्ते नण्णादबालवुणर् इति दशके । श्रीकुलशेखरेण-‘यत्रार्याणां दासानां समुदायो द्रष्टुं सुलभश्चेत्तदेव नेत्रफलं’, ‘भक्तपादरजस्ववगाहने प्राप्ते गंगातीर्थेऽवगाहन उत्कटेच्छा किमर्थम्’ इत्यादिभिः स्वस्य भागवतप्रेमप्रकर्षप्रतिपादनसमये जन्माद्युत्कर्षीपकर्षप्रसंगं विना भगवद्भक्तिपारवश्यमेव तेषां निरूपकनित्युक्ते तेरुतिरत्तेन् इति गाथायाम् । श्रीभक्तांघ्रिरेणुभिर्द्वयनिष्ठविषये ईश्वरस्य विद्यमानायाः प्रीतेः प्रतिपादकस्य ‘बोरुल्’ इति गाथाया उपरि सर्वथा निकृष्टजन्मसूत्पन्ना अपि ‘मेवोरुल्’ इति गाथायामुक्ते ज्ञाने निष्ठावंतश्चेत्तुलसीवदीश्वरस्य शिरसा वाह्या इति, जन्मप्रयुक्तापकर्षमात्रं विना सर्वथापकृष्टवृत्तविशिष्टा अपि एतज्ज्ञाननिष्ठाश्चेत्तादृशदुष्कृतफलं नानुभवंतीति, स्वेषां जन्मवृत्तादिप्रयुक्तन्यूनता नास्तीत्येतावदेव न स्वैः संबंधविशिष्टाः संसारिणोऽपि स्वप्रसादस्वीकारेण परिशुद्धा भवतीत्येतादृशोत्कर्षविशिष्टा इति च, जन्मवृत्तादिभिर्निकृष्टा अप्येतज्ज्ञानविशिष्टा एतज्ज्ञानविधुराणां जन्मवृत्तादिभिरुत्कृष्टानां सर्वेश्वरवत्पूज्याः संतो ज्ञानदानप्रतिग्रहायोर्ह्या इति जन्मवृत्ताद्युपरि ज्ञानाधिकाश्च, जन्मवृत्तादिवैलक्षण्येन विनैतज्ज्ञानविशिष्टान् भगवत्प्रभावप्रयुक्तवैलक्षण्यमबुद्ध्वा कर्मनिबंधनजन्माद्यपकर्षमेव ज्ञात्वा न्यूनत्वेन चिंतयंति चेत्तस्मिन् क्षणे ते कर्मचंडाला भवतीति चैवं प्रतिपादिता अर्थाः संभवंतीति ब्रह्मादीनां दुर्लभं फलं तिर्यग्जातौ जातेन प्राप्त इत्यतः किं वक्तव्यमित्युक्तगाथाषट्के ‘विशदतया द्रष्टुं शक्यते’ इति संशयविपर्ययनिवृत्तिर्यथा स्यात्तथा द्रष्टव्यमित्यर्थः ।
टीका हिन्द्या
इस अर्थ को इतिहासपुराणों से, पयिलुंशुडरोलि, नेडुमालेक्कडिमै, कणशोरवेंगुरुदि, नण्णादबालवुणर्, तेरुतिरत्तेनिल, मेवोरूरु, इस गाथा के ऊपर गाथाओं से भी, सुस्पष्ट देख सक्ते हैं ॥ २३२ ॥ इस प्रकार इन भागवतवैभव को आप्तवचनों में स्पष्ट देख सक्ते हैं क्या ? इस शंका में कहते हैं-इस अर्थ को इतिहासपुराणों में इत्यादि । इस अर्थ को-पहिले विस्तारपूर्वक उक्त भागवतवैभव को । ‘जो मनुष्य हमारे भक्त को शूद्रसम समझ कर अपमान करते हैं, वे नराधम क्रोडों बरसों तक नरक में वास करेंगे, बुद्धिमान को चाहिये कि चंडाल हो तो भी हमारे भक्त को अपमान न करें, अपमान करने से वह रौरवनरक में गिरेगा’ इत्यादि से, ‘शूद्र भक्त होनेपर शूद्र नहीं कहलायेगा वह भागवत कहलावेगा, जो लोग जनार्दन के भक्त नहीं हैं वही सब वर्णों में शूद्र कहलाते हैं ।’ इत्यादि से, ‘हमारे भक्तों में वात्सल्य, उन की पूजा में अनुमोदन, स्वयं उनको पूजा करना, हमारे लिये दंभत्याग, हमारी कथा सुनने में प्रीति, स्वरनेत्रअंगों के विकार, नित्य हमारा स्मरण और हम को जीविका के लिये नहीं बनायें-यह आठ प्रकार की भक्ति जिसकिसी म्लेच्छ में भी हो वही ब्राह्मणश्रेष्ठ, मुनि, श्रीमान्, यति, और पंडित है, चतुर्वेदी भक्तिरहित हो पूजा करनेसे भी हम पूज्य नहीं समझते हैं, श्वपच हो तो भी हमारे भक्त सदा हम को पूज्य हैं, उस को ज्ञानोपदेश करो, उस से ज्ञानोपदेश हो, उस को हमारे सदृश पूजन करो ॥’ इत्यादि से बहुस्थलों में भागवतवैभव प्रतिपादन कियागया है । इतिहासोत्तम में-‘शूद्र, निषाद वा श्वपच हो तो भी भगवद्भक्त को जातिसामान्य से जो देखता है वह नरक में जायेगा’ इत्यादि से भागवतप्रभाव कहा गया है । और इतिहास के बहुतस्थलों में-भागवतमाहात्म्य प्रतिपादनस्थलों में देखना । श्रीवराहपुराण में-‘हे भूमिदेवी ! श्वपच हो तो भी हमारा भक्त को जो मनुष्य निंदा करते हैं उनको मैं पद्मकोटि शत वर्ष बीतने पर भी मैं क्षमा न करूंगा ॥’ इत्यादि से भागवतप्रभाव कहा गया है । श्रीभागवत में-‘हे राजन् ! श्वपच हो तो भी विष्णुभक्त ब्राह्मण से अधिक है । विष्णुभक्तिरहित यति भी श्वपच से अधम होता है ॥’, ‘षड्गुणसंपन्न ब्राह्मण कमलनाभनारायण के विमुख हो तो उसे से श्वपच को श्रेष्ठ जानो । परमात्मा में समर्पित मनवचनवांछितार्थ और प्राण जिन से हैं वह संपूर्ण पृथिवी की पवित्र करता है, अभिमान से भरा हुआ कभी नहीं पवित्र करसक्ता है’ इत्यादि से भागवतवैभव बहुतस्थलों में कहा गया है । लिंगपुराण में भी-‘वैष्णवों में विशेष यह है कि वे लोग विष्णु के महत् मंदिर हैं, भक्तलोगों के हृदय विष्णु के चलंत विमान हैं जो पुरुष [[कल्परहित|कल्मषरहित]] सुआचारी जिस किसी कुल में जन्म लेनेवाले वैष्णव को देखता है वह पृथिवी में दंड के सदृश प्रणाम कर तीर्थ होना चाहिये ।’ इत्यादि से भागवतवैभव प्रतिपादन किया गया है । इस प्रकार भागवतवैभव प्रतिपादन बहुत पुराणों में होनेसे उन उन स्थलों में देखना । इतिहासादियों में से लिये हुये वचनों में भागवतों को जन्मनिरूपण कर अपमान किये तो होनेवाले अनर्थविशेष, भागवतत्व होनेपर वे अपकृष्टजातीय नहीं हैं उत्कृष्टजातीयसदृश हैं, उत्कृष्टजातीयों में भी श्रेष्ठ हैं, उन को ज्ञानोपदेश करनेवाले होनेसे गुरु हैं, परमशेषी ईश्वर के तरह पूज्य भी होते हैं इस अर्थ को, उन के विषय में अपचार को कालतत्त्वपर्यंत ईश्वर नहीं सह सक्ते हैं, करणत्रयव्यापार, अर्थ, और प्राण इन सब को भगवद्विषय में समर्पण कर निरभिमान रहनेवाले स्पर्श से पवित्र करते हैं, उन के हृदय ईश्वर को जंगमविमान है; उन कोदेखते ही दंडवत्प्रणाम करना चाहिये । इस प्रकार इतिहासपुराणों में शठकोपरि-‘क्षीराब्धि में शयन किये हुए परमपुरुष को अभ्यास करने के भाग्यवाले जन्मजन्म में हमारे मालिक हैं’ ऐसा प्रारंभ कर भगवद्गुणचेष्टितादियों में प्रवण भागवत लोग ही हम को मालिक हैं ऐसा अर्थ को प्रतिपादन करने के समय ‘कोई हो वे ही’, ‘कुंभीनरक में रहनेवाले भी परमात्मा को कीर्तन किये तो वही’, ‘कितना भी सुकृतरहित चंडालचंडाल हो तो भी’ ऐसा जन्मादियों से कितना भी नीच हो तो भी शेषत्वविरोधिजन्माद्यभिमानरहित भागवतलोग हम को अत्यंतउद्देश्य हैं ऐसा प्रतिपादित ‘अभिवर्धमानप्रभावतेजः’ दशक में, ‘क्रूर महापापी उनके दासों के चरण में संगठन विना आश्चर्यकर तीन लोक की प्राप्ति हो तो भी छोड़ सक्ते हैं क्या ?’ ऐसा प्रारंभ कर भागवत ही अपने को परमप्राप्य है इस अर्थ के प्रतिपादन के समय जन्मवृत्तादि विभाग को छोड ‘स्वयं शेषत्व में स्थित’, ‘उनके दासलोग’, ‘मणिपर्वत के तरह रहनेवाले स्वामी के दासलोग’, ‘अवद्यरहित दासलोग’, ‘विश्लेषरहित दासलोग’ ऐसा भगवत्सौंदर्यादियों में हारनेवाले आकार को उन भागवतों का निरूपक है ऐसा कहा हुआ ‘महतो व्यामोहवतः’ दशक में । परकालसूरि-‘शीतलसारक्षेत्र के नाथ के चरणसेवक ही हमारे शिर में वास करते हैं’ ऐसा प्रारंभ कर अर्चावतार में प्रवण श्रीवैष्णव ही हम को शिरोधार्य हैं, सदा ध्यानके योग्य हैं, नित्यसूरियों से भी कैंकर्यसमृद्धिवाले हैं, उन को एक क्षणकाल भी नहीं छोडसक्ता हूं, उन के विषय में हमारे हृदय मधुच्यूता हुआ भोग्य होता है, उन को देखते मात्र ही हमारे मन और दृष्टि कैसे संतुष्ट हो प्रफुल्ल होते हैं देखो हमारे प्रेम उन के विषय में बढ रहा है, उन को मन से स्मरण करने पर मृत्यु और पाप को न डर निर्भय होता है, हमारे हृदय उन के विषय में मग्न होता है देखो, ऐसा कहनेके स्थलों में जन्मादिप्रसंग को छोड कहाहुआ कणशोरवेंगुरुदि (नेत्रभ्रमण) में, ‘तिरुक्कडल्मलैस्थलशयन को जो कोई स्मरण करते हैं वे ही हमारे मालिक हैं’ ऐसा जिस किसी जन्म और वृत्तवाले हो तिरुक्कडल्मलैस्थलशयनभगवान को अनुसंधान करनेवाले स्थितप्रकार ही प्रमाण दिखाये विना ही हममें कैंकर्य स्वीकार करने के समर्थ हैं । ऐसा प्रारंभ कर ‘ज्ञानप्रभावत् विग्रह को स्मरण करनेवाले हमारे नायक हैं’, ‘वे ही हमारे कुलदेवता हैं’ ऐसा दिव्यदेशों में प्रवण भागवत ही हमारे शेषी हैं ऐसा कहाहुआ ‘नण्णादबालवुणर्’ (अनभिलषितराक्षस) दशक में, श्रीकुलशेखरस्वामी-‘सत्यभूत दासों के समूह को देखने को प्राप्त हो तो वही नेत्रों की सफलता है’, ‘भक्तों के चरणधूलि में स्नान प्राप्त हो तो गंगा में अवगाहनकर स्नान करनेकी इच्छा क्या होगी ?’ इत्यादि से भागवतों के विषय में अपना प्रेमाधिक्य को प्रतिपादन करनेके समय जन्मादियों के उत्कर्ष और अपकर्ष के प्रसंग छोड़ भगवद्भक्ति के परवश होना ही उन के निरूपक है ऐसा कहा हुआ ‘तेरुतिरत्तेन’ (मधुतिरस्कारक) में, श्रीभक्तांघ्रिरेणुसूरि-‘द्वयनिष्ठों के विषय में ईश्वर का विद्यमान प्रीति को कहनेवाले ‘मेवोरुल्’ (उपरिवर्तमानार्थ) इस गाथा के ऊपर कितना ही नीच जन्मों में उत्पन्न होनेपर भी ‘मेवोरुल्’ में कहाहुआ ज्ञान में निष्ठावाले हो तो श्रीतुलसी के सदृश ईश्वर का शिरसाधार्य हैं’ ऐसा जन्म से आयी हुई नीचता मात्र न हो कितना भी नीचवृत्तवाले भी इस ज्ञाननिष्ठावाले हो तो उस दुष्कृतफल को नहीं पावेंगे, अपने को जन्मवृत्तादियों से आनेवाले दोष नहीं है इतनामात्र नहीं अपने साथ संबंधवाले संसारीलोग भी अपने प्रसादस्वीकार से परिशुद्ध हो जैसे उत्कर्षवाले होते हैं, जन्मवृत्तादियों से अतिनीच होनेपर भी एवंभूतज्ञानवाले इस ज्ञानविहीन हो जन्मवृत्तादियों से उत्कृष्ट होनेवालों को सर्वेश्वर के तरह पूज्य हो ज्ञानदानप्रतिग्रहों को योग्य होते हैं, जन्मवृत्तों के ऊपर ज्ञानाधिक भी होनेवाले जन्मवृत्तादिवैलक्षण्यरहित इस ज्ञानवालों को भगवत्प्रभाव से श्रेष्ठ नहीं समझ कर्ममूलक जन्मादि नीचता को ही समझ नीचमानेंगे तो उसी क्षण में ये कर्मचंडाल हो जायंगे, इस प्रकार प्रतिपादित अर्थ संभव हैं यह-ब्रह्मादियों के दुर्लभ फल को तिर्यक् जाति में जन्म लेनेवाला पानेपर संदेह है क्या ? ऐसा कहा हुआ छठः गाथाओं में सुस्पष्ट देखते हैं माने-संशयविपरीतज्ञान विना देखते हैं ।
मूलम्
एवमितिहासादिषु भागवतवैभवस्योक्तत्वेऽपि-‘न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ।’, ‘स विप्रेंद्रो मुनिः श्रीमान् स यतिः स च पंडितः ॥’ इत्युक्तविप्रत्वादयोऽर्थवादाः, अपकृष्टजन्मनि तस्मिन् शरीरे कथमुत्कृष्टा भवतीत्यत आह-क्षत्रिय इत्यादि ।
मूलम्
क्षत्रियो विश्वामित्रो ब्रह्मर्षिरभूत् ॥ २३३ ॥
श्लोक
क्षत्रियः कौशिको जातो ब्रह्मर्षिरिति घुष्यते ॥ २३३ ॥
टीका संस्कृता
क्षत्रियकुलोद्भवो विश्वामित्रस्तस्मिन् जन्मनि स्वकृततपोविशेषहेतुना वशिष्ठवाक्येन क्षत्रियत्वानुवृत्तिं विना ब्रह्मर्षिर्जातः खलु । तस्मादत्यंतमपकृष्टकुलोद्भवा अपि तस्मिन् शरीरेऽनवधिकशक्तिकभगवत्संबंधरूपसंस्कारविशेषेणात्यंतोत्कृष्टकुलजानुवर्तनीया उत्कृष्टतमा भवतीत्यत्र न कोऽपि विरोधः । अल्पशक्तिवशिष्ठवाक्यकृतप्रकारे दृष्टे सर्वशक्तिकसंबंधः किं न कुर्यात् ।
टीका हिन्द्या
क्षत्रिय विश्वामित्र ब्रह्मर्षि हुआ है ॥ २३३ ॥ क्षत्रियकुलोद्भूत विश्वामित्र उसी जन्म में अपने कृत तपस्या के विशेष से वसिष्ठवाक्यद्वारा क्षत्रियत्व समूल नाश होकर ब्रह्मर्षि हुआ है । इस कारण अत्यंत अपकृष्टकुलोद्भव होनेपर भी उसी शरीर से अवधिशून्यशक्तिवाले भगवत्संबंधरूपसंस्कारविशेष द्वारा अत्यंतउत्कृष्ट कुल में उत्पन्न होनेवाले भी अनुवर्तन करें जैसा उत्कृष्टतम होते हैं इस में संदेह नहीं है । अल्पशक्तिक वसिष्ठवाक्य का प्रभाव देखनेपर सर्वशक्तिपरमात्मा का संबंध क्या नहीं करेगा अर्थात् सब कुछ भी करेगा ।
मूलम्
इतिहासादिप्रामाण्यमुखेन भागवतवैभवं प्रादर्शयत् पूर्वम्, शिष्टानामाचारमुखेन च भागवतवैभवं प्रदर्शयत्युपरि-‘धर्मज्ञसमयः प्रमाणं वेदाश्च’ इति आप्तप्रमाणवेदात्पूर्वमुपादानोपयुक्तं खलु शिष्टाचारस्य प्रामाण्यम् । तत्र प्रथममपकृष्टजातीयास्तादृशशरीरेण सजातीयव्यावृत्ता उत्कृष्टतमा भवतीति पूर्वोक्तार्थं स्थिरीकर्तुं रावणानुजं प्रति स्वामिनोक्तां वार्तामाह-विभीषणमित्यादिना ।
मूलम्
विभीषणं रावणः कुलपांसनमित्यवदत्, स्वामीक्ष्वाकुवंशत्वेन स्मृत्वा वार्तामवोचत् ॥२३४॥
श्लोक
जगाद रावणः सम्यक् कुलदोषं विभीषणम् । इक्ष्वाकुवंशरूपेण स्मृत्वा हि राघवोऽवदत् ॥२३४॥
टीका संस्कृता
‘प्रदीयतां दाशरथाय मैथिली’ इति स्वहितमुक्तवंतं धर्मात्मानं विभीषणं पापिष्ठो रावणः कुपितः ‘त्वां तु धिक् कुलपांसनम्’ इति, अस्य कुलस्यावद्यरूपतयोत्पन्नं त्वां धिगित्युपेक्षितवान् । इक्ष्वाकुकुलनाथः स्वाम्यादरपूर्वकमंगीकारानंतरं-‘आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ।’ इति राक्षसानां बलाबलं मम वदेत्युक्तत्वात् तं राक्षसजातीयमबुद्ध्वाऽनुजवज्ज्ञात्वाऽभिमत्य वार्तामवोचदित्यर्थः । अस्मिन् वाक्ये रावणेन परित्यागस्य स्वामिना परिग्रहस्य चोक्तत्वात् ‘त्याज्या अपि ग्राह्या:’ इति [[प्रकरणेन|प्रकारेण]] भगवदानुकूल्ये जाते प्राकृताः-अयमस्माकमुपयुक्तो न भवतीति त्यजंति, भगवान् त्वात्यादरेण परिगृह्णातीति चार्थ उक्तः ।
टीका हिन्द्या
विभीषण को रावण ‘कुल का कलंक कहा’, स्वामी श्रीरामजी इक्ष्वाकुवंशवाला समझ बात किये हैं ॥ २३४ ॥ ‘सीताजी को रामजी के हाथ में सौंप दो’ ऐसा अपने को हित कहनेवाले धर्मात्मा श्रीविभीषणसूरि को पापिष्ठ रावण क्रुद्ध हो ‘हमारे कुल का कलंक रूप तुम को धिक्कार है’ ऐसा इस कुल का कलंकनया जन्म लेने वाला तुम को मैं नहीं चाहता हूं ऐसा कठोरवचन कह निकाल दिया । इक्ष्वाकुकुल के नाथ श्रीरामजी इस को आदरपूर्वक अंगीकार करने के बाद ‘राक्षसों के बल और अबल को मुझे यथार्थ रीति से कहो’ ऐसा राक्षसों के बलाबल की स्थिति को हम को कहो कहने से इस विभीषण को राक्षसजातीय नहीं समझ भ्राताओं के सदृश समझ बात कहे हैं । इस वाक्य में रावण का परित्याग स्वामी रामजी का परिग्रह ये दोनों कहेजानेसे भगवान् के तरफ होने ही प्राकृतलोग ‘यह हमारे उपयुक्त नहीं’ ऐसा कह छोडदेंगे, भगवान् आदरपूर्वक प्रेम से स्वीकार करेंगे यह अर्थ कहागया ।
मूलम्
महाराजस्य स्वामि ब्रह्ममेधसंस्कारमकरोत् ॥ २३५ ॥
श्लोक
ब्रह्ममेधेन संस्कारमकरोद्राघवः स्वयम् । मर्यादापालको यो वै महाराजजटायुषः ॥ २३५ ॥
टीका संस्कृता
एवमुक्तिमात्रेण विना भागवतवैभवस्य वृत्त्यापि भगवता प्रकाशितप्रकारमाह-महाराजस्येत्यादिना । ‘मर्यादानां च लोकस्य कर्ता कारयिता च सः ।’ इत्युक्तप्रकारेण लोकमर्यादास्थापनार्थमवतीर्य पितृवचनपरिपालनादिभिः सामान्यधर्मस्थापनशीलः खलु स्वामी । एवंभूते जानकीविश्लेषं दृष्ट्वाऽसहमानतया स्वनाशपर्यंतं कृतवतो महाराजस्य जन्मवृत्तादिभिरुत्कृष्टानां तत्पुत्रैः क्रियमाणब्रह्ममेधसंस्कारं प्रेमाधिक्येन हेतुनानुजेऽपि पार्श्वे तिष्ठति स्वयमेव साक्षादादरमकरोद्धि ।
टीका हिन्द्या
श्रीजटायु को श्रीरामजी ब्रह्ममेधसंस्कार किये हैं ॥ २३५ ॥ इस प्रकार उक्तिमात्र से न हो भागवतवैभव को वृत्ति से भी श्रीरामजी प्रकाश किये हैं इस अर्थ को कहते हैं—श्रीजटायु को इत्यादि । ‘लोक का मर्यादाओं को करने और करानेवाले वही हैं ।’ इस उक्ति के अनुसार लोकमर्यादा को स्थापन करने के लिये अवतार लेकर पितृवचनपरिपालनादियों से सामान्यधर्मस्थापनस्वभाववाले श्रीरामजी सीताजी के विश्लेष देख न सह अपने को नाश करनेवाले श्रीजटायु को, जन्मवृत्तादियों से उत्कृष्टों को उन के पुत्र और शिष्यगण कर्तृब्रह्ममेधसंस्कार को जटायु के प्रेमाधिक्य ही कारण समझ श्रीलक्ष्मणजी पास में खड़े होनेपर भी आप ही आदरपूर्वक किये हैं ।
मूलम्
धर्मपुत्रोऽशरीरिवाक्यं ज्ञानाधिक्यं चादाय श्रीविदुरं ब्रह्ममेधेन संचस्कार ॥ २३६ ॥
श्लोक
ज्ञानाधिक्यं च वाक्यं च धर्मपुत्रोऽशरीरिणः । आदाय संस्करोति स्म विदुरं ब्रह्ममेधसा ॥ २३६ ॥
टीका संस्कृता
अनेन जन्माद्यनुत्कृष्टैस्तैर्निकृष्टानां विषये पुत्रकृत्यमनुष्ठेयमित्युक्तम् । अमुमर्थं धर्मपुत्रानुष्ठानेनापि विशदयति-धर्मपुत्र इत्यादिना । स्वामिना परार्थं सामान्यधर्मस्यानुष्ठितत्वेऽपि विशेषधर्मे एव हृदयस्याभिनिवेशात् सुकरं कर्तुं शक्यते, धर्मपुत्रानुष्ठानमेव दुष्करं, वर्णधर्ममेवोद्देश्यत्वेन स्मृत्वा सर्वावस्थास्वपि तस्य च्युतिर्यथा न भवेत्तथा सावधानं प्रवर्तयन् वर्तमानः खल्वयं, एतादृशे तस्मिन् विदुरस्य संस्कारदशायां तस्य वर्णं पश्याम उज्ज्ञानाधिक्यं पश्यामः, किं कुर्म इति व्याकुले सति ‘धर्मराजस्तु तत्रैनं संचस्कार विधुस्तथा । दग्धुकामोऽभवद्विद्वानथाकाशे वचोऽब्रवीत् ॥ भो भो राजन् न दग्धव्यमेतद्विदुरसंज्ञितम् । कलेवरमिहैतत्ते नैष धर्मः सनातनः ॥ लोकवैधक्षणो नाम भविष्यत्यस्य पार्थिव । यतिधर्ममवाप्तोऽसौ न शोच भरतर्षभ ॥’ इति, अयं ब्रह्ममेधसंस्कारार्ह इत्युक्ताशरीरिवाक्येन संप्रतिपन्नेन तस्य ज्ञानाधिक्येन च संदेहनिवृत्त्या वैदिकाग्रेसराणां कर्तव्येन ब्रह्ममेधेन संचस्कार हि ।
टीका हिन्द्या
धर्मपुत्र युधिष्ठिर अशरीरिवाक्य और ज्ञानाधिक्य को भी लेकर श्रीविदुरजी को ब्रह्ममेध से संस्कार किये हैं ॥ २३६ ॥ इस से जन्मादि से उत्कृष्ट उन करुणाके रहित विलक्षणभागवतविषय में पुत्रकृत्य करसक्ते हैं-यह अर्थ दिखाया गया । इस अर्थ को धर्मपुत्र के अनुष्ठान से भी जनाते हैं—धर्मपुत्र इत्यादि । श्रीरामजी परार्थ सामान्यधर्म को किये हैं तो भी विशेषधर्म में तात्पर्य रख जैसे वह करसक्ते हैं, यह युधिष्ठिर किये हैं यही दुष्कर है । स्ववर्णधर्म को उद्देश्य समझ सर्वावस्थाओं में भी उस सामान्यधर्म को किंचित् भी हानि न होने के लिये सावधान रहनेवाले विदुरजी को संस्कार करने के समय ‘उन के वर्ण को देखना और ज्ञानाधिक्य को देखना इस विषय में हमें कर्तव्य क्या है’ ऐसा विचार व्याकुल होनेके समय-‘विद्वान् धर्मराज विदुर को संस्कार करनेकी इच्छा से दहन करनेको विचार करतेभये, तब आकाश में वाणी हुई-भो भो राजन् ! विदुरनामक इस शरीर को सामान्यरीति से नहीं दहन करो । यह सनातन धर्म नहीं है । हे राजन् ! इस का शरीर लोकविलक्षण है यह विदुर यतिधर्म को प्राप्त हुआ है, इस में शोक मत करो ॥’ इस प्रकार यह विदुर ब्रह्ममेधसंस्कार के योग्य है ऐसा कही हुई वाणी को सुननेसे और इन का ज्ञानाधिक्य को जानने से भी संशय छोड वैदिकाग्रेसरों को कर्तव्यब्रह्ममेधसंस्कार से संस्कार किये हैं ।
मूलम्
अनंतरं जन्माद्युत्कृष्टै ऋषिभिः कृतं तदपकृष्टाद्धर्मश्रवणप्रकारमाह-ऋषय इत्यादिना ।
मूलम्
ऋषयो गत्वा धर्मव्याधगृहद्वारे श्रांताः धर्मसंदेहान् प्राशमयंत ॥ २३७ ॥
श्लोक
धर्मव्याधगृहद्वारे गत्वा श्रान्तास्तपोधनाः । प्राशमयन्त धर्माणां सन्देहान् केन न श्रुतम् ॥ २३७ ॥
टीका संस्कृता
चतुर्वेदधराः सर्वोत्कृष्टाः खलु ऋषयः । एवंभूता वेदश्रवणयोग्यतारहिते कुले जातस्य जातिस्मृतिना सह जातत्वात्पूर्वजन्मसिद्धज्ञाने भ्रंशाभावान्मातापितृशुश्रूषाविशेषेण च सकलधर्मसूक्ष्मज्ञस्य धर्मव्याधस्य गृहद्वारे गत्वा मातापितृशुश्रूषैकपरस्यास्यावसरप्रतीक्षया परिश्रांता ज्ञातव्येषु धर्मेषु स्वेषां संदिग्धान् सर्वान् तस्माच्छ्रुत्वा तत्र संदेहान् प्राशमयन्तेत्यर्थः । ‘कश्चिद् द्विजातिप्रवरो वेदाध्यायी तपोधनः । तपस्वी धर्मशीलश्च कौशिको नाम भारत ! ॥ सांगोपनिषदान् वेदानधीते द्विजसत्तमः । स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन् स्थितः ॥ उपरिष्टाच्च वृक्षस्य बलाका समलीयत । तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोरसि ॥’ इत्यारभ्य कौशिक इति नामवान् अधीतसांगसशिरस्कसकलवेदः कश्चिद् ब्राह्मणोत्तमः कस्यचित् वृक्षस्य मूले वेदानुच्चारयन् स्थितः, तदा तदुपरि स्थिता काचन बलाका पुरीषमत्यजत्, तत्स्ववक्षस्यपतत्, तस्मिन् क्रुद्धे पश्यति तस्यां नष्टायां पतंत्यां तद् दृष्ट्वा तप्तचित्तोऽत्यंतं शोचयित्वा रागद्वेषबलात्कृतः सन्नकृत्यमकरवमिति बहुवारं वदन् आसन्ने कस्मिंश्चिद् ग्रामे भिक्षार्थं गत्वा प्रथममेकस्मिन् गृहे भिक्षां देहीत्ययाचत, तदा तद्गृहिण्या तिष्ठागच्छामीत्युक्त्वा करशुद्ध्यादिकं कृत्वा भिक्षामादायागंतुमुद्योगयंत्यां भर्ताऽतिक्षुधार्त आगतः, सा पतिव्रतात्वेन भिक्षाप्रदानोद्योगं विहाय पादाचमनासनादिभिस्तच्छुश्रूषारूपकार्यांतरपरत्वेन ब्राह्मणं विस्मृत्य बहुकालं स्थित्वा पश्चात्तं ब्राह्मणं दृष्ट्वा कम्पमाना भिक्षामादायागता, ‘मां तिष्ठेत्युक्तवैतावत्कालं कुतो नागतवती’ इति तस्मिन् कुप्यति सैनं सांत्वयित्वाऽयं क्षंतव्य इति प्रार्थ्याहं भर्ता देव इति वर्तमाना तस्य श्रांत्यागतत्वात्तच्छुश्रूषामकरवमित्यवोचत् । ‘तव भर्ता खलु सत्कार्यः ब्राह्मणविषये गौरवप्रतिपत्तिर्नास्ति हि’ इति सव्यंग्यमुक्त्वा गृहधर्मे वर्तमानायास्तव ब्राह्मणावमतिरनुचिता खल्वित्यवदत् । ‘साहं कदापि ब्राह्मणस्यावमतिं न कुर्यां ब्राह्मणानां वैभवं सम्यग्जानामीति विस्तरेणोक्त्वायमपराधः क्षंतव्यो, भर्तेव देव इति स्थिता तच्छुश्रूषायां परवशाऽभवं, मम पतिशुश्रूषाया वैभवं पश्य, तव रोषेण सा बलाका दग्धा तदपि मम विदितमित्युक्त्वा-‘क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ! | यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥’ इत्यारभ्य यो ब्राह्मणस्यानुचिताः, सत्यार्जवादयश्चोपादेया आवश्यका इति विस्तरेण स्वयं प्रतिपाद्य, ‘भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः । न तु तत्त्वेन भगवन् धर्मान् वेत्सीति मे मतिः ॥ मातापितृभ्यां शुश्रूषुः सत्यवादी जितेंद्रियः । मिथिलायां वसन् व्याधः स ते धर्मान् प्रवक्ष्यति ॥ तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम । व्याधः परमधर्मात्मा स ते छेत्स्यति संशयान् ॥’ इति त्वमपि धर्मज्ञः वेदाध्ययननिरतः शुद्धस्तथापि धर्मान् याथातथ्येन न जानासीति मम बुद्धिः, मातापितृशुश्रूषुः सत्यवादी जितेंद्रियः सन् मिथिलायां वर्तमानो व्याधस्तव धर्मान् ब्रूयात्तत्र गच्छ, तव गुणो यथा स्यात्तथा परमधर्मात्मा स व्याधो यथेष्टं तव संशयान् सर्वान् दूरीकुर्यादित्यवदत् । स प्रीतः सन्निमामत्यंतं स्तुत्वा ततो मिथिलां गत्वा-‘पंचकानि पवित्राणि शिष्टाचारेषु नित्यदा । एतन्महामते व्याध प्रब्रूहि यथातथम् ॥’ इति शिष्टाचारेषु सदा वर्तमानानि पवित्राणि पंचकानि, हे महामते ! एतद् वक्तव्यमित्यपृच्छत् । ‘यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम । पंचैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥’ इति यज्ञः दानं तपः वेदाः सत्यं चैतानि पवित्राणि पंच शिष्टाचारेषु सर्वदा वर्तत इत्यादिभिः सोऽमुमर्थमुपदिदेश । एवमुत्तरोत्तरं स्वसंशयान् सर्वान् पृच्छति उपदेशमुखेन सकलसंशयानपि धर्मव्याधो दूरीचकारेत्ययमर्थो धर्मपुत्रस्य मार्कंडेयेनानुगृहीत इत्यारण्यपर्वणि द्विशततमाध्यायप्रभृति त्रयोदशभिरध्यायैर्विस्तरेणोक्तः । किंचैवं बहवोऽस्य द्वारि श्रांता धर्मसंदेहं निवर्तितवंत इति बहुषु स्थलेषूक्तम् । अनेन जन्माद्युत्कृष्टानां तदपकृष्टानां ज्ञानाधिकानां द्वारि श्रमं प्राप्य ज्ञातव्यार्थश्रवणे न्यूनता नास्तीत्युक्तम् ।
टीका हिन्द्या
ऋषिलोग धर्मव्याध के द्वार में व्याकुल हो धर्मसंदेहों को निवृत्त कर लिये हैं ॥ २३७ ॥ अनंतर जन्माद्युत्कृष्टऋषिलोग जन्मादियों से निकृष्ट की संनिधि में धर्मश्रवण किये हैं ऐसा कहते हैं—ऋषिलोग इत्यादि । चतुर्वेद को जाननेवाले सर्वोत्कृष्टऋषिलोग वेद सुनने को योग्यता जिस को नहीं है ऐसे कुल में जन्महुआ जातिस्मृति से पूर्वजन्मसिद्धज्ञानमें भ्रमरहित, मातापितृशुश्रूषा में निरतधर्मव्याध के घर के द्वार में समय को प्रतीक्षा करते हुए ज्ञातव्यधर्मों में अपने संदेहों को पूंछके निवृत्त कर लिये हैं । ‘कोई ब्राह्मणश्रेष्ठ वेदाध्ययन करनेवाले, तपस्या में निपुण, धर्मशील कौशिक नामक सांगवेदों को अध्ययन करते रहे, वह एक वृक्षमूल में वेदों को उच्चारण करते हुए बैठाथा । वृक्ष के ऊपर [[चलाका|बलाका]] पक्षी उस के ऊपर विष्ठा किया, वह ब्राह्मण के छाती में गिरा ।’ वह ब्राह्मण उस से क्रुद्ध हो उस पक्षी को देखते मात्र पक्षी जलकर नीचे गिरा उस को देख पश्चात्ताप के साथ शोकित हो ‘रागद्वेष के बल से मैं ने अकृत्य किया हूं’ ऐसा बहुवार कहता हुआ समीपस्थ एक गांव में भिक्षा के लिये जा पहिले एक घर में जाकर ‘भिक्षां देहि’ ऐसी याचना करनेपर उस घर की गृहिणी ‘रहो आती हूं’ कह हाथ धो भिक्षा लानेके समय उस का भर्ता अत्यंतक्षुधा से पीडित हो घर में प्रवेश किया, वह पतिव्रता होनेसे भिक्षा लाना छोड पाद्यआचमनीयआसनप्रदान इत्यादियों से भर्ता की शुश्रूषा में आसक्त होनेसे भिक्षार्थ खडा हुआ ब्राह्मण को भूल बहुत समय बिताई तत्पश्चात् द्वारस्थ ब्राह्मण को देख कंपित हो भिक्षा लानेपर वह ब्राह्मण ‘हम को खड़ाकर इतना समय तू भीतर में रह गई इस का कारण क्या ?’ ऐसा क्रुद्ध होनेपर वह स्त्री उस को आश्वासन दिला कर, ‘इस अपराध को क्षमा कीजिये’ ऐसी प्रार्थना कर ‘मैं भर्ता को देवता समझनेवाली हूं वह परिश्रांत हो आनेसे उन की शुश्रूपा में लग गई थी’ ऐसा कहनेपर ‘तुम को भर्ता ही सत्कार करने के योग्य है, ब्राह्मणों के विषय में गौरवबुद्धि नहीं है’ ऐसा व्यंग्यवचन कह ‘गृहस्थधर्म में रहनेवाली तुम को ब्राह्मणों को अपमान करना उचित नहीं’ ऐसा कहा । ‘मैं कभी ब्राह्मणों का अपमान नहीं करती, ब्राह्मणों के समस्तवैभवों को जानती हूं’ ऐसा विस्तारपूर्वक कह ‘इस अपराध को क्षमा कीजिये भर्ता को ही देवता मानने से उन की शुश्रूषा में परवश होगई हूं इतना ही, हमारी पतिशुश्रूषा के प्रभाव को देखो ! तुमारी क्रोधदृष्टि से वह बक दग्ध होगया है सो भी मैं जानती हूं’ ऐसा कह-‘हे ब्राह्मणश्रेष्ठ ! मनुष्यों के क्रोध ही शरीर के भीतर रहनेवाला शत्रु है, जो मनुष्य क्रोध और मोह को छोड़ता है उसे देवता लोग ब्राह्मण जानते हैं’ ऐसा प्रारंभ कर ‘ब्राह्मणों को कोप करना उचित नहीं, सत्य आर्जव आदि गुण ही चाहिये’ ऐसा विस्तारपूर्वक प्रतिपादन कर,-‘आप भी धर्म जानते हैं वेदाध्ययन में आसक्त हो शुचि हो किन्तु धर्मों को यथार्थ रीति से नहीं जानते ऐसा मैं समझती हूं, मातापितृशुश्रूषारत सत्यवादी जितेंद्रिय व्याध मिथिला में वास करता है वह तुम्हें धर्मोपदेश करेगा, वहां तुम जाओ तुमारा मंगल हो परमधर्मात्मा वह व्याध तुमारे संशयों को दूर करेगा’ ऐसा कहनेपर वह ब्राह्मण संतुष्ट हो उस पतिव्रता की प्रशंसा कर वहां से मिथिला में जा पूंछताभया-‘हे महामते ! व्याध ! शिष्टाचारों में प्रतिनित्य पांच पवित्र कहे जाते हैं उसका तत्त्व मुझ को सुनाइये ।’ इस के उत्तर में-‘हे ब्राह्मणश्रेष्ठ ! यज्ञ, दान, तपस्या, वेद और सत्य ये पांच शिष्टाचारों में नित्य ही पवित्र कहलाते हैं ।’ ऐसा वह उपदेश करनेपर अन्यान्य अपनी संशयों को पूंछनेपर उपदेशद्वारा सकलधर्मसंशयों को भी धर्मव्याधने दूर किया इस वृत्तांत को मार्कंडेयने युधिष्ठिर को सुनाया, यह आरण्यपर्व के २०० वां अध्याय से लेकर १३ अध्याय में विस्तारपूर्वक कहा गया है । और भी इसी प्रकार अनेक ऋषियों ने व्याध के द्वार में व्याकुल हो धर्मसंदेहों को दूर कर लिया । इस से जन्मादि से उत्कृष्ट लोगों को जन्मादि से अपकृष्ट भी ज्ञानाधिक होतो उन के द्वार में क्लेश पाकर भी ज्ञातव्य अर्थों को सुननेमें विरोध नहीं यह सूचित हुआ ।
मूलम्
श्रीकृष्णो भीष्मद्रोणादीन् विहाय विदुरगृहे भुक्तवान् ॥ २३८॥
श्लोक
श्रीकृष्णो भुक्तवान् स्वामी शबरीकरभुक्तवत् ॥ २३९ ॥ भीष्मद्रोणादिकान् हित्वा श्रीविदुरस्य वेश्मनि ॥ २३८ ॥
टीका संस्कृता
अनंतरं ‘यद्यदाचरति श्रेष्ठः’ इति कृष्णस्याचारप्रकारमाह-कृष्ण इत्यादिना । धर्मसंस्थापनार्थमवतीर्य-‘लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि’ इति ज्ञानिनामपि लोकसंग्रहं दृष्ट्वा वर्णाश्रमधर्माः सम्यगनुष्ठेया इत्युपदिश्य, ‘यदि ह्यहं न वर्तेयं जातु कर्मण्यतंद्रितः । मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥’ इत्येकवारं कर्मणि तंद्रां विहाय न प्रवर्तेयं चेत् मनुष्याः सर्वे मन्मार्गमनुगच्छेयुरिति परार्थं स्वयं लक्षित्वानुतिष्ठन् स्वभावः खलु कृष्णः । एवंभूतः दौत्येन गमनसमये ‘भीष्मद्रोणमतिक्रम्य मां चैव मधुसूदन । किमर्थं पुंडरीकाक्ष भुक्तं वृषलभोजनम् ॥’ इत्युक्तप्रकारेणोत्कृष्टवर्णवृत्तानामत्रागमिष्यतीति प्रतीक्षया स्थितानां भीष्मद्रोणादीनां गृहमुपेक्ष्य वर्णाद्युत्कर्षरहितः स्यादतोऽत्रागमिष्यतीति विचारेण च रहितस्य श्रीविदुरस्य गृहे सादरं गत्वा-‘संभ्रमैस्तुष्य गोविंद एतन्नः परमं धनम् ।’ इति भक्तिपरवशेन तेन कृतान् संभ्रमान् सर्वान् दृष्ट्वा प्रीतिमान् सन् ‘विदुरान्नानि बुभुजे शुचीनि गुणवंति च ।’ इत्युक्तप्रकारेणाहंकारानुपहतत्वात् परमपावनं भक्त्युपहृतत्वात्परमभोग्यं तत् तादृशपावनत्वभोग्यत्वहेतुनात्यादरेण भुक्तवान् खलु ।
टीका हिन्द्या
श्रीकृष्ण भीष्मद्रोणादियों का घर छोड विदुर के श्रीगृह में भोजन किये हैं ॥ २३८ ॥ अनंतर ‘जिस जिस को श्रेष्ठ पुरुष करते हैं’ ऐसा कहने वाले श्रीकृष्ण के आचार को कहते हैं—कृष्ण इत्यादि । धर्मसंस्थापन के लिये अवतार ले ‘लोकसंग्रह के लिये भी धर्मानुष्ठान करना चाहिए’ ऐसा ज्ञानी होनेपर भी लोकसंग्रह को देख वर्णाश्रमधर्मों को यथावत् अनुष्ठान करना चाहिये ऐसा उपदेश कर-‘यदि मैं कर्मानुष्ठान में सावधान न होऊं तो और लोग हमारे ही अनुष्ठान को करेंगे’ ऐसी परार्थ जागरूक हो अनुष्ठान करनेके स्वभाववाले श्रीकृष्ण दूत्यार्थ जानेके समय-‘हे मधुसूदन भीष्म, द्रोण और मुझ को भी अतिक्रम कर शूद्र के घर में भोजन किये हो ?’ ऐसा उत्कृष्टवर्ण और आचारवाले ‘हमारे घर पधारेंगे’ ऐसा विचारते हुए भीष्मादियों के गृहों को छोड़ वर्णादिउत्कर्षरहित अतएव ‘यहां पधारेंगे’ ऐसा विचारविना स्थित श्रीविदुरजी के घर में आदरपूर्वक जा-‘हे गोविन्द ! हमारे प्रेम से आप संतुष्ट होओ, प्रेम ही हमारा परमधन है ।’ ऐसा भक्तिपरवशविदुरकर्तृक प्रेमव्यापारों को देख संतुष्ट हो ‘शुचि और गुणवंत विदुर के अन्न को भोजन किये हैं’ इस वचनानुसार अहंकार से नष्ट न होनेसे परमपावन और भक्ति से समर्पित होने से परमभोग्य अन्न को पावनत्वभोग्यत्वद्वारा आदरपूर्वक भोजन किये हैं ।
मूलम्
स्वामी शबरीहस्तेन भुक्तवान् ॥२३९॥
श्लोक
श्रीकृष्णो भुक्तवान् स्वामी शबरीकरभुक्तवत् ॥ २३९ ॥
टीका संस्कृता
एतत्पूर्वावतारे चैवमनुष्ठितप्रकारमाह-स्वामीत्यादिना । रघुकुलतिलक आचारप्रधानः स्वामी-‘शवर्या पूजितः सम्यग्रामो दशरथात्मजः ।’ इत्युक्तप्रकारेण शबरस्त्रियां गुरुशुश्रूषया परिपक्वज्ञानाधिकायां स्वजिह्वाया भोग्यभूतानि फलमूलादीनि सर्वाण्येतदर्थमिति संचीय तदागमनं प्रतीक्ष्य स्थितायां श्रीशबर्यां स्वादरानुगुणं स्वहस्तेन भोजयंत्यामतिसंतुष्टो भुक्तवानित्यर्थः । अनेनाभिजनादिभिः प्रयुक्ताभिमानरहितानां ज्ञानप्रेमाधिकानामभिमतं वस्तु स्पर्शरहितानामात्मगुणैकदर्शिनां विशेषज्ञानामतिपावनभोग्यमिति दर्शितम् ।
टीका हिन्द्या
श्रीरामजी शबरी के हाथ से भोजन किये हैं ॥ २३९ ॥ इस के पहिले अवतार में भी इस प्रकार के अनुष्ठान को दिखाते हैं-श्रीरामजी इत्यादि । रघुकुलतिलक आचारप्रधान श्रीरामजी ‘शबरी से दशरथनन्दन श्रीरामजी अच्छी तरह से पूजित हुए हैं’ ऐसा [[मिलनी]] होनेपर भी गुरुशुश्रूषा से पक्व हो ज्ञानाधिका अपनी जिह्वा को भोग्यभूत फलमूलादि सब रामजी के लिये संकल्पकर संचय कर आगमन की प्रतीक्षा करती हुई शबरी अपने आदरानुसार अपने हाथ से भोजन कराने पर अतिसंतुष्ट हो भोजन किये हैं । इस से अभिजात्य से होनेवाला अभिमान से शून्य ज्ञान और प्रेमाधिक्यवालों के अभिमतवस्तु, अभिमानस्पर्शरहित आत्मगुणों को देखनेवाले विशेषज्ञलोगों को अत्यंतपावन और भोग्य होता है, यह अर्थ दिखाया गया ।
मूलम्
मारनेरीनंबिविषयतया भाष्यकारं प्रति महापूर्णोक्ता वार्ता स्मर्तव्या ॥ २४० ॥
श्लोक
भाष्यकारं महापूर्णैः श्रीमारनेरिनंबिनम् । विषयीकृत्य योक्ता सा वार्ता ध्येयात्र भावुकैः ॥२४०॥
टीका संस्कृता
एवं श्रीरामायणमहाभारतसिद्धशिष्टाचारैर्भागवतवैभवं प्रकाशयामास । अथैतदर्थविषयं पूर्वाचार्यवचनं स्मारयति-मारनेरीत्यादिना । अभिमानहेतुजन्मवृत्तादिरहितः श्रीयामुनाचार्यचरणसंश्रयोऽध्यात्मज्ञानपरिपूर्णः मारनेरिनंबिः स्वस्यांतिमदशायां यामुनाचार्याभिमतं देहं प्रकृतिबंधवो स्पृशंति चेत् किं कर्तव्यमित्यतिशंकां कृत्वा सब्रह्मचारिणो महापूर्णान् दृष्ट्वा ‘पुरोडाशं शुने मा प्रतिपादय’ इत्युक्त्वा परमपदं प्राप । महापूर्णश्च तथैवान्यहस्तेन दत्वा स्वयमेव संस्कृत्यागत्य स्थितः । एतद्वृत्तांतं भाष्यकारः श्रुत्वा महापूर्णचरणसमीपमागत्य ‘स्वामिन् ! मर्यादानुगुणं कार्यं न कर्तव्यं ? भवता कर्तव्यं किम् ?’ इत्यवदत् । ‘प्रायश्चित्तार्थं भृतिं दत्वा संध्योपासनं कर्तव्यं किम् ?’ इत्यवदत् । ‘अहं स्वाम्यपेक्षयोत्कृष्टः किं ? अयं जटायोरपकृष्टः किं ? पयिलंशुडरोलि, नेडुमालेक्कडिमै’ समुद्रघोषसदृशः किं ? शठकोपैरुक्तोऽर्थः किंचिन्न्यूनतया वा नाचरणीयः किं ? इत्युक्तवार्ता ।
टीका हिन्द्या
मारनेरिनंबि के विषय में महापूर्णस्वामी ने श्रीरामानुजस्वामी से कही हुई वार्ता को स्मरण करना ॥ २४० ॥ इस प्रकार श्रीरामायण और महाभारतों में प्रसिद्ध शिष्टाचारों से भागवतवैभव को प्रकाश किये हैं । और भी इस अर्थ के विषय में पूर्वाचार्यवचन को स्मरण कराते हैं-मारनेरिनंबि इत्यादि । अभिमानहेतुजन्मवृत्तादिरहित, यामुनाचार्य के चरणसमाश्रित और आध्यात्मज्ञानपरिपूर्ण मारनेरिनंबि अपनी अंतिमदशा में ‘यामुनाचार्य के अभिमत इस देह को प्राकृतबंधु स्पर्श करेंगे तो क्या किया जाय ?’ ऐसी अतिशंका कर सब्रह्मचारी महापूर्णस्वामी को देख ‘पुरोडाश कुत्ता को नहीं दो’ ऐसा कह परमपद को पधार गये । महापूर्णस्वामीजी उन के वचनानुसार औरों के हाथ में न दे आप ही मेधसंस्कार कर आये हैं, इस बात को रामानुजस्वामी सुन महापूर्णस्वामी के चरण में जा ‘स्वामिन् ! मर्यादा की रक्षा करतेहुए कार्य करना उचित नहीं क्या ? आप ही को आवश्यक था क्या ?’ ऐसा प्रश्न करनेपर ‘मजूरी देकर संध्या करना उचित है क्या ? मैं श्रीरामजी से उत्कृष्ट हूं क्या ? यह जटायु से नीच है क्या ? ‘अभ्यस्यमानप्रभावतेज’ और ‘व्यामोहवतां स्वामिनो दास्यं’ सहस्रगति के ये दो दशक समुद्रघोष हैं क्या ? शठकोपसूरि के कहे हुए अर्थ को किंचिन्न्यूनतया भी आचरण नहीं करना क्या ?’ ऐसा कही वार्ता को स्मरण करना ।
मूलम्
‘प्रादुर्भावैः’ इत्यादि ॥ २४१ ॥
श्लोक
प्रादुर्भावैस्तदीयेतिमुख्यो मानेऽत्र कीर्तितः ॥ २४१ ॥
टीका संस्कृता
अथ भागवतजन्मादिश्लाघ्यताकथनपूर्वकमभागवतोत्कर्षनिंद्यतां प्रतिपादयति-प्रादुर्भावैरित्यादिना । ‘प्रादुर्भावैः सुरनरसमो देवदेवस्तदीया जात्या वृत्तैरपि च गुणतस्तादृशो नात्र गर्हा । किंतु श्रीमद्भुवनभवनत्राणतोऽन्येषु विद्यावृत्तप्रायो भवति विधवाकल्पकल्पप्रकर्षः ॥’ अनेन नित्यसूरिनिर्वाहकः प्रादुर्भावैः सुरनरसमोऽवतरति, तदीयाश्च जात्या वृतैर्गुणैश्च तथेतरसमास्तिष्ठंति, अत्र गर्हा नास्ति श्लाघैव भवति । उभयोरप्येवं स्थितिरेतल्लोकरक्षणार्था । अथाभागवतेषु विद्यमानो विद्यावृत्तबाहुल्यरूपोत्कर्षो विधवालंकारवन्निंद्यो भवतीत्युच्यते ।
टीका हिन्द्या
‘प्रादुर्भावों से’ इत्यादि ॥ २४१ ॥ अब भागवतजन्मादियों की श्लाघ्यताकथनपूर्वक अभागवतोत्कर्ष की निंद्यता को प्रकाश करते हैं—प्रादुर्भावों इत्यादि । ‘देवदेवं अवतारों से देवता और मनुष्य के समान होते हैं तो जैसा निंद्य नहीं तैसा भागवतलोग जाति आचार और गुणों से नीचजाति के सदृश होनेपर भी निंद्य नहीं होते किंतु सर्वजगत्सृष्टिस्थितिसंहारकर्ता में भक्तिरहित लोगों में ज्ञान और आचार विधवा के भूषण के सदृश गिने जाते हैं’ इस से भगवान् और भागवतों के नीचजन्म लेनेका कारण लोकरक्षण के लिये है, ऐसा समझना ।
मूलम्
भागवतत्वरहितः केवलवेदार्थज्ञानादिमान् कुंकुमभारवहगर्दभवदिति वदति हि ॥ २४२ ॥
श्लोक
भगवद्भक्तिहीनो यो वेदार्थज्ञानवान् परम् । कुंकुमभारधारीव गर्दभः स हि कीर्तितः ॥ २४२ ॥
टीका संस्कृता
भागवता न भवतीति तेषां विद्यमाना वेदविद्यादयो व्यर्थाः कथं स्युरित्यतस्तथा प्रमाणं वदति हीत्याह-भागवतत्वरहित इत्यादिना । ‘चतुर्वेदी विभो वासुदेवं न विंदति । वेदभारभराक्रांतः स वै ब्राह्मणगर्दभः ॥’ इति वेदतात्पर्यभूतभगवज्ज्ञानाद्यभावाद्भागवतत्वरहितो वेदाध्ययनेन तत्र स्थूलार्थज्ञानादिभिर्युक्तो भोगिभिरादरणीयं परिमलद्रव्यं कुंकुमं वहन्संचरन्नपि तद्वैलक्षण्यानभिज्ञो गर्दभ इव पूर्वोत्तरभागाभ्यामाराधनस्वरूपमाराध्यस्वरूपं च प्रतिपादयतो भगवदेकपरस्य वेदरूपविलक्षणवस्तुनो भारं सम्यग्वहन्नपि तद्रसानभिज्ञो ब्राह्मणगर्दभ इति वेदोपबृंहणप्रमाणं वदतीत्यर्थः ।
टीका हिन्द्या
‘भागवत न हो वेदार्थज्ञानवाला केसर ढोनेवाले गधे के सदृश है’ ऐसा कहा है ॥ २४२ ॥ भागवत न होनेपर उन के वेदविद्यादि व्यर्थ हैं क्या ? ऐसा पूंछनेपर इस का प्रमाण दिखाते हैं-‘चारों वेदों का अध्ययन कर जो ब्राह्मण वासुदेव को नहीं जानता है वह वेदरूपबोझा को ढोनेवाला ब्राह्मणगधा कहलाता है ।’ ऐसा वेदों के स्थूलार्थ जान सूक्ष्मार्थ को नहीं जाननेवाला पशुतुल्य कहा गया, यह भारत का वचन है ।
मूलम्
राजा श्रीकुलशेखरस्वामी तिर्यक्स्थावरजन्मान्याशास्ते ॥ २४३ ॥
श्लोक
तिर्यक्स्थावरजन्मानि राजा श्रीकुलशेखरः । स्वामिस्वरूपनिष्कर्षादाशां चक्रे महामतिः ॥ २४३ ॥
टीका संस्कृता
भगवत्संबंधरहिता जन्मादयः [[सहर्हिता|गर्हिता]] इति प्रादर्शयत्, तत्संबंधसहितानि तिर्यगादिजन्मानि च सत्प्रार्थ्यमित्यर्थं दर्शयति-राजेत्यादिना । ‘वाचिकैः पक्षिमृगतां’ इत्यादिभिः पापयोनित्वेनोक्तानि ‘वेंकटे तटाके वर्धमानपक्षी जायेयम्’, ‘मत्स्यजन्मनः कारणभूतभाग्यवान् स्याम्’, ‘चंपकजन्मरूपश्रीमान् भवेयम्’, ‘कदंबजन्मन उपयुक्ततपोविशिष्टो भवेयम्’ इति श्रीवेंकटाचलसंबंधविशिष्टतिर्यक्स्थावरजन्मान्यलभ्यलाभतयाऽऽशास्त इत्यर्थः ।
टीका हिन्द्या
राजा श्रीकुलशेखरसूरि तिर्यक्स्थावरजन्मों को अपेक्षा किये हैं ॥ २४३ ॥ भगवत्संबंधरहित जन्मवृत्तादि सत्पुरुषों से निंद्य है इस अर्थ को पहिले दिखाये हैं, अब भगवत्संबंधवाले तिर्यक् आदि के जन्म सत्पुरुषों से प्रार्थनीय है इस अर्थ को दिखाते हैं-राजा इत्यादि । क्षत्रियकुलोत्पन्न श्रीकुलशेखरस्वामी ‘वाचाकृतपापों से पक्षी और मृगजन्म लेता है’ इस वचन से अत्यंतपापयोनितया गिनेजानेवाले तिर्यक्स्थावरजन्मों को ‘वेंकटगिरि के स्वामिपुष्करिणी में वास करनेवाले बक का जन्म मुझ को मिलै’, ‘मत्स्यजन्म लेने का भाग्यवान् मैं होऊं’, ‘वृक्षजन्म लेनेका भाग्यवान् होऊं’ ऐसी प्रार्थना किये हैं ।
मूलम्
ब्राह्मणोत्तमः श्रीविष्णुचित्तस्तनया च गोपजन्म आस्थानमकुरुताम् ॥ २४४ ॥
श्लोक
विष्णुचित्तो द्विजोत्तंसो गोदा तस्यात्मजा तथा । गोपजन्मस्थितिं सम्यक् चक्रतुर्ज्ञानलाभतः ॥ २४४ ॥
टीका संस्कृता
एवमाशाकरणमात्रं विना नीचजन्म आस्थानं कृतवतावाह-ब्राह्मणोत्तम इत्यादिना । एतदुपरि नास्तीति वक्तुं योग्ये वर्णेऽवतीर्य विद्यामाहात्म्यादिभिस्तज्जातीयसकलोत्तमः श्रीविष्णुचित्तो वेदफलं स्वीकर्तुं शक्तः, स इव बाल्यावस्थायां वेदसारार्थवित्तमा तस्य तनया गोदा च कृष्णावतारानुभवेऽभिनिवेशातिशयेन ‘शक्त्यभावादहं दुःखिता पूर्णे’, ‘मम पुत्रो गोविंदो’, ‘द्वादशमासपर्यंतमुदरे धृतवत्याः सामीचीन्येन’ इत्यादिभिः, ‘गोपजातिषु वर्तमानाः श्रीमद्बालिकाः’, ‘वयं चास्य व्रतस्य’, ‘गोपकूले उत्पत्त्युपयुक्तपुण्ययुक्ता वयं’ इत्यादिभिश्च स्वयं तद्रूपेण यथोच्येत तथा स्वावतारवर्णस्य तृतीयवर्णरूपत्वादपकृष्टं ज्ञानलेशरहितं गोपजन्म सम्यगारोपयतामित्यर्थः ।
टीका हिन्द्या
ब्राह्मणोत्तम श्रीमद्भट्टनाथसूरि और उन की पुत्री श्रीगोदादेवी गोपजन्म को आरोपण करलिये हैं ॥ २४४ ॥ इस प्रकार अभिलाषा मात्र विना नीचजन्म को आरोपण करलेनेवालों को कहते हैं-ब्राह्मणोत्तम इत्यादि । सर्वोत्कृष्ट ब्राह्मणवर्ण में जन्म ले विद्यामाहात्म्य से ब्राह्मणों में श्रेष्ठ और वेद के फल को पाये हुए श्रीभट्टनाथसूरि, उन के सदृश बाल्यावस्था में वेदसारार्थ को जाननेवाली उन की पुत्री गोदादेवी भी श्रीकृष्णावतारानुभव की प्रीति से ‘बलहीन होने से मैं दुःखी होगई हूं’, ‘हमारा लडका गोविन्द’, ‘बारह मास उदर में धारण किया है’, ‘हम हमारे मनोरथ के लिये’, ‘गोपकुल में आप के जन्म लेनेके योग्य भाग्यवती हम’ इत्यादि से भी अपने को गोप गोपी कह अपने वर्ण से अतिनीच तीसरा वर्ण ज्ञानरहित गोपजन्म को यथार्थरीति से आरोप करलिये हैं ।
मूलम्
मालिन्ये निवृत्ते सर्वेषामपि नारीणामुत्तमाया अवस्थाऽऽगच्छेत् ॥२४५॥
श्लोक
सर्वेषामपि नारीणामुत्तमाया अवस्थितिः । आगच्छेद्धि निवृत्ते तु मालिन्ये नात्र संशयः ॥ २४५ ॥
टीका संस्कृता
एवमाशाकरणमास्थानकरणं च विना मालिन्ये निवृत्ते स्वरूपं कथं वर्तेत इत्यत आह-मालिन्ये निवृत्त इत्यादिना । अथवा एवं विशिष्टवेषप्रयुक्ततारतम्यावस्थां विना मालिन्ये निवृत्ते सकलात्मनामागच्छदवस्था कीदृशीत्यत आह-मालिन्य इत्यादि । आत्मस्वरूपं यथा याथार्थ्येन न प्रकाशेत तथाऽनादिकालमनुस्यूत आगंतुकेऽविद्यादिदोषे भगवत्प्रसादविशेषेण पुनरनुवृत्तिं विना सवासनं निवृत्ते सकलात्मनां-‘सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः ।’ इत्युक्तप्रकारेण स्त्रीत्वलक्षणैः सर्वैरप्यन्यूनायाः स्वेतरसकलस्त्रीणामुत्तमाया महालक्ष्म्याः स्थितिः स्वयमेवागच्छेदित्यर्थः ।
टीका हिन्द्या
शरीर छूटने से सब आत्माएँ नारियों में उत्तम लक्ष्मीजी के सदृश होते हैं ॥ २४५ ॥ इस प्रकार अभिलाषा करना और आरोपण करलेना मात्र विना कर्मकृतशरीर छूटने से आत्मस्वरूप कैसा रहेगा इस शंका में कहते हैं-शरीर छूटनेसे इत्यादि । यद्वा कर्मकृतशरीरविशिष्टनिमित्त होनेवाले तारतम्य विना शरीर छूटनेपर संपूर्ण आत्मा कैसे रहती हैं इस शंका में कहते हैं—शरीर छूटनेपर इत्यादि । आत्मस्वरूप को यथार्थरीति से प्रकाशने नहीं देनेवाले अनादिकाल से आया हुआ अविद्यादि दोष भगवत्प्रसाद द्वारा पुनरावृत्ति रहित सवासना सहित निवृत्त हो तो सब आत्मा ‘सर्वलक्षणसंपन्न स्त्रियों में उत्तम वधू’ इस वचनानुसार स्त्रीत्वलक्षणविशिष्ट महालक्ष्मी के सदृश होती हैं ।
मूलम्
षड्भिः प्रकारैः परिशुद्धात्मस्वरूपस्य तत्साम्यमस्ति ॥ २४६ ॥
श्लोक
प्रकारैः षड्भिरुत्कृष्टस्वरूपस्यात्मनः किल । तस्या देव्या महालक्ष्म्या साम्यता कथिता बुधैः ॥२४६॥
टीका संस्कृता
तत् क्व दृष्टमित्यपेक्षायामेतदुपपादयति-षड्भिः प्रकारैरित्यादिना । अनन्यार्हशेषत्वमनन्यशरणत्वमनन्यभोग्यत्वं संश्लेषे धारणशक्तिः विश्लेषे धारणाभावस्तदेकनिर्वाह्यत्वमिति षड्भिः प्रकारैर्निःशेषनिवृत्ताविद्यादिदोषतया परिशुद्धस्यात्मस्वरूपस्य प्रकारषट्कपरिपूर्णया लक्ष्म्या साम्यं नैसर्गिकं भवतीत्यर्थः । एतत्साम्यमभिप्रेत्य हि परिमलयुक्तमहापुष्पवासिन्या तुल्य इति सूरिभिरुक्तम् । एवमेतद्वाक्यद्वयमपि प्रासंगिकम् ।
टीका हिन्द्या
छः प्रकार से परिशुद्ध आत्मस्वरूप को लक्ष्मीजी की समता है ॥ २४६ ॥ वह कैसा ? इस आकांक्षा में कहते हैं-छः प्रकार से इत्यादि । अनन्यार्हशेषत्व, अनन्यशरणत्व, अनन्यभोग्यत्व, संश्लेष में धारणशक्ति, विश्लेष में धारणाभाव, तदेकनिर्वाह्यत्वरूप छः प्रकार से अविद्यादिदोषरहित परिशुद्ध आत्मस्वरूप का छः प्रकारवाली महालक्ष्मीजी के सादृश्य स्वतःसिद्ध है । इस छः प्रकार को अभिप्राय करके ही ‘सुगंधमहापुष्पपुत्री के सदृश है’ ऐसा शठकोपसूरि कहे हैं । तथाच ये दोनों बात प्रसंगात् कहेगये हैं ।
मूलम्
अथैते उत्कृष्टजन्मान्युपेक्ष्य निकृष्टानि जन्मानि कथमाद्रियंत इत्यत आह-दृष्ट इत्यादि ।
मूलम्
दृष्ट उत्कर्षोऽहंकारेण, अदृष्ट उत्कर्षोऽहंकारराहित्येन ॥२४७॥
श्लोक
उत्कर्षो विद्यते दृष्टेऽहंकारेणैव सर्वथा । अदृष्टोत्कर्षहेतुः स्यादहंकारविहीनता ॥ २४७ ॥
टीका संस्कृता
आभिजात्यादय ऐश्वर्यमिति दृष्टपुरुषार्थे कस्यचिज्जायमान उत्कर्षो विश्वामित्रादिवत्स्वस्थितेरुर्ध्वमुत्कर्षान्वेषणे प्रेरयताऽहंकारेण भवति । शेषत्वादयः कैंकर्यसंपदित्यादृष्टपुरुषार्थे कस्यचिज्जायमान उत्कर्ष एतदभिवृद्ध्यर्थतया पदेपदे नैच्यानुसंधानोपयुक्ताहंकारराहित्येनेत्यर्थः ।
टीका हिन्द्या
दृष्ट में उत्कृष्टता अहंकार से, अदृष्ट में उत्कृष्टता अहंकारराहित्य से ॥ २४७ ॥ अब वे लोग उत्कृष्टजन्मों की उपेक्षा कर निकृष्टजन्मों को क्यों आदर किये हैं ? इस शंका में कहते हैं–दृष्ट में इत्यादि । अभिजात्यादि और ऐश्वर्यरूप दृष्टपुरुषार्थ में किसी को उत्कृष्टता होतो वह विश्वामित्रादियों के तरह अपनी स्थिति से अधिकउत्कृष्टता को अपेक्षा करनेवाले अहंकार से होती है, शेषत्वादि और कैंकर्यसंपद्रूप अदृष्टपुरुषार्थ में किसी को उत्कृष्टता होतो शेषत्वादि की अभिवृद्धि में आशा से अपनी स्थिति से भी नीचे जाने की अभिलाषा अहंकाराभाव से होती है ।
मूलम्
ब्रह्मा हीनो गोपिका प्राप्तवतीत्येवं कर्तुं योग्यः ॥ २४८॥
श्लोक
विधाता लाभहीनो हि प्राप्तवत्यश्च गोपिकाः । इत्येवं भवितुं योग्योऽहंकारतदभावतः ॥ २४८ ॥
टीका संस्कृता
तादृशाहंकारतद्राहित्ययोः प्राप्तिहानिहेतुत्वमाह-ब्रह्मेत्यादिना । दृष्टोत्कर्षातिशयानुरूपाहंकाराधिको ब्रह्मा ‘द्विपरार्धावसाने मां प्राप्तुमर्हसि पद्मज’, ‘परिमलयुक्ते कमले स्थित्वा न पश्यति कृष्णस्य पादकमलमजः’ इति चोक्तप्रकारेण हीनोऽभवत् । अहंकारहेतोः कस्याप्यभावात् तद्रहिता वामदक्षिणहस्तानभिज्ञा गोपिका चिंतयंती ‘मुक्तिं गताऽन्या गोपकन्यका’ इत्युक्तप्रकारेण तच्चरणयोः प्राप्ता । तस्मादेतदुभयकार्यसंपादकोऽहंकारतद्राहित्यस्वभाव इत्यर्थः । एवमहंकारतद्राहित्ययोरेव प्राप्तिहानिहेतुत्वात् श्रीकुलशेखरादिप्रभृतयोऽहंकारहेतुजन्मन्यनादृत्य तद्रहितजन्मादृतवंत इति भावः ।
टीका हिन्द्या
ब्रह्मा हो च्युत होना गोपी हो प्राप्त होना ॥ २४८ ॥ ये अहंकार और उस का अभाव दोनों प्राप्ति और अप्राप्ति के हेतु हैं ऐसा कहते हैं-ब्रह्मा होकर इत्यादि । दृष्ट में अधिक उत्कृष्टता के अनुरूप अहंकाराधिक ब्रह्मा होकर ‘हे पद्मज ! द्विपरार्ध के अंत में मुझ को प्राप्त होवोगे’, ‘सुगंधिकमलपुष्प के भीतर रहने पर भी ब्रह्मा नारायण के चरणकमल को नहीं देख सकता’ इन वचनों के अनुसार च्युत होता है । अहंकारहेतु किंचित् भी न होनेसे अहंकाररहित वामदक्षिण हाथ न जाननेवाली चिंतयंती गोपी ‘अन्य गोपकन्यका मुक्ति पाई है’ ऐसा उन के चरणों में प्राप्त हुई, इन दोनों के कारण अहंकार और तदभाव है । इस लिये श्रीकुलशेखरस्वामीप्रभृति ज्ञानीलोग अहंकारहेतुभूत जन्मों को अनादर कर अहंकाररहित जन्मों को आदर किये हैं ।
मूलम्
‘स्वस्य स्वेनैव नाशनम्’ इत्यारभ्यैतावत्पर्यंतमहंकारादिदोष उपपादितः, अनंतरं प्राप्यप्रापकावुभावपि स एवेति वर्तमानानां प्रपन्नाधिकारिणां दिनचर्याविशेष उच्यते-एवं सर्वप्रकारेणेत्यादिना सदाचार्यप्रसादेन यथा वर्द्धेरन् तथा कुर्वन् वर्तेतेत्यंतेन ।
मूलम्
एवं सर्वप्रकारेणापि नाशहेतोरहंकारस्य तत्कार्यस्य विषयप्रावण्यस्य च स्वस्यैवोत्पत्तिस्थानभूतत्वात् स्वं पश्यति चेच्छत्रुमिव, तस्य वर्धकान् संसारिणः पश्यति चेत् सर्पमिव, तस्य निवर्तकान् श्रीवैष्णवान् पश्यति चेद्बंधूनिव, ईश्वरं पश्यति चेत् पितरमिव, आचार्यं पश्यति चेत् क्षुधित ओदनमिव, शिष्यं पश्यति चेदभिमतमिव स्मृत्वाऽहंकारार्थकामास्त्रयोऽनुकूलविषयेऽनादरं प्रतिकूलविषये प्रावण्यमुपेक्षणीयविषयेऽपेक्षां चोत्पादयंतीति भीतः आत्मगुणा अस्माभिरितरैश्च नोत्पादयितुं शक्याः सदाचार्यप्रसादहेतुना जातेन भगवत्प्रसादेन जायंत इत्यध्यवस्य देहयात्रायामुपेक्षा, आत्मयात्रायामपेक्षा, प्राकृतवस्तुषु भोग्यताबुद्धिनिवृत्तिः, देहधारणं परमात्मसमाराधनसमाप्तिप्रसादप्रतिपत्तिरिति बुद्धिविशेषः, स्वस्य कस्मिंश्चित्क्लेशे सति कर्मफलमिति वा कृपाफलमिति वा जायमाना प्रीतिः, स्वानुष्ठाने साधनबुद्धिनिवृत्तिः, विलक्षणानां ज्ञानानुष्ठानयोर्वाञ्छा, अभिमतस्थलेष्वादरातिशयः, मंगलाशासनं, इतरविषयेष्वरुचिः, आर्तिः, अनुवर्तननियतिः, आहारनियतिः, अनुकूलसहवासः, प्रतिकूलसहवासनिवृत्तिश्च सदाचार्यप्रसादेन यथा वर्द्धेरन् तथा कुर्वन् वर्तेत ॥ २८९ ॥4
श्लोक
इत्थं सर्वप्रकारेण नाशहेतोरहंकृतेः । तज्जाया विषयप्रीतेः स्वस्यैवात्पत्तिभूमितः ॥ स्वं शत्रुवद्विजानाति तस्य वर्धनकारकान् । संसारिणः सर्पमिव तन्निवर्तनकारकान् ॥ श्रीवैष्णवान् विजानाति बंधूनिव तथेश्वरम् । देशिकं क्षुधितो ह्यन्नं यथा तद्वच्छिशुं प्रियम् ॥ स्मृत्वाहंकारश्चार्थकामौ त्रयोऽप्यनुकूलेषु अनादरं प्रतिकूले प्रवीणताम् । उपेक्ष्यविषयेऽपेक्षां जनयंतीति भीतितः ॥ स्वगुणो जननीयो हि नास्माभिरितरैस्तथा । सदाचार्यप्रसादेन जाता या भगवत्कृपा ॥ तया जायंते इत्येवं हि निश्चित्य देहयापने । उपेक्षा ह्यात्मयात्रायामपेक्षा प्राकृते तथा ॥ भोग्यताबुद्धिराहित्यं तथा देहधृतौ हरेः । समाराधनपूर्तिश्च शेषबुद्धिरियं च धीः ॥ स्वस्य क्लेशे हि कस्मिंश्चित्जाते कर्मफलं तथा । कृपाफलं च वा जातमिति ज्ञात्वाऽनुरागकः ॥ स्वकृते साधनाबुद्धित्यागो ज्ञानवतां सताम् । ज्ञानानुष्ठानयोर्वाञ्छा दिव्यदेशे महादरः ॥ मंगलाशासनं चैवेतरवस्तुन्यनादरः । आर्तिरनुवर्तननैयत्यमाहारनियतिस्तथा ॥ अनुकूलेन वासश्चासत्सहवासवर्जनम् । एतत्सर्वं सदाचार्यप्रसादेन यथा खलु ॥ भवेत्तथैव कुर्वन् सन् वर्त्तेत भुवि भावुकः ॥ २५८ ॥5
टीका संस्कृता
एवमिति-पूर्वोक्तः प्रकारः परामृश्यते । सर्वप्रकारेण स्वनाशहेतुत्वं नाम-स्वरूपेण नाशयित्वा भागवतविरोधवर्धनेन नाशयित्वा च भगवल्लाभविरोधी भवतीति सर्वप्रकारेणापि ‘असन्नेव’ इति प्रकारेणासत्कल्पं स्याद्यथा तथा स्वरूपनाशकत्वम् । अहंकारश्च-देहात्माभिमानरूपो देहातिरिक्तात्मविषये स्वातंत्र्याभिमानरूपश्चेति द्विविधः । अत्र द्विविधोऽप्युच्यते । तत्कार्यस्य विषयप्रावण्यस्य च-देहात्माभिमानस्य स्वातंत्र्याभिमानस्य चैव विषयाणां स्वभोग्यत्वेनादरेण मूलत्वाद्विषयप्रावण्यमहंकारकार्यमित्युच्यते । विषयशब्देन पूर्वमनुकूलत्वेन प्रतिकूलत्वेन चोक्तं विहितनिषिद्धरूपविषयद्वयमुच्यते । स्वस्यैवोत्पत्तिस्थानभूतत्वादिति-एतद्द्वयस्य जन्मभूमिर्भगवत्स्वरूपतिरोधानकरगुणत्रयात्मकप्रकृतिपरिणामात्मकस्वकर्मविशेषारब्धशरीरविशिष्टस्य स्वस्यैव जन्मभूमिभूतत्वादित्यर्थः । कर्मानुगुणं रजस्तमोभ्यां कलुषयच्छरीरविशिष्टतया मतिभ्रंशेन स्वव्यतिरिक्तं देहं स्वात्मत्वेन, स्वानुपयुक्तं स्वात्मानं स्वतंत्रत्वेन चाभिमन्यते, स्वस्यानर्थकरे विषय अत्यादरकृदपि स्वयमेव खलु । स्वं पश्यति चेदित्यादि । एवमनादिकालं वर्तमानमिदानीं तद्योग्यशरीरविशिष्टं स्वात्मानं पश्यति चेदहं त्वां न त्यजामीति सायुधं क्रोधावेशेन संचरंतं शत्रुमिव हृदयशोषणेन स्वस्वरूपनाशकत्वेन स्मृत्वा । स्वेषामुक्तिवृत्तिभ्यां दुर्वासनामुद्बोध्य अहंकारादिकमुपर्युपरि वर्धयतस्तदुभयवश्यान् संसारिणो नेत्रस्याग्रे पश्यति चेत् समीपगमने उपरि निपत्य दंशनमतिक्रूरं सर्पमिव भीत्या कंपमानः पश्चाद्गत्वाऽस्माकं बाधका इति स्मृत्वा च । स्वेषामुपदेशानुष्ठानाभ्यां द्वाभ्यामप्यहंकारादिदोषं ज्ञापयित्वा तत्प्रसंगे यथा भीतः स्यात्तथा कृत्वा सवासनं तन्निवर्तकान् मध्यमपदनिष्ठान् श्रीवैष्णवान् पश्यति चेत्-स्वस्यानर्थाभ्युदयावुभावपि स्वेषामिति स्थित्वानर्थं दूरीकृत्याभ्युदयमापाद्य रक्षत आत्मबंधूनिवात्यादरं कृत्वाऽस्माकं सत्सहायभूता इति स्मृत्वा च । प्रथमतः करणकलेवराणि दत्वा तान्यादाय व्यभिचारमकृत्वा सन्मार्गे गंतुमुपयुक्तानि शास्त्राणि प्रदर्श्यकृत्याकरणादिषु शिक्षित्वा सर्वावस्थास्वपि स्वहितं पश्यंतमीश्वरमर्चावतारस्थलेषु नेत्राभ्यां पश्यति चेदुत्पादकं विद्याप्रदं यथापथे न प्रवर्तेत तथा नियम्य प्रवर्तयंतं हितैषिणं पितरमिव स्नेहसाध्वसविनयविशिष्टः सन् मम हितपर इति स्मृत्वा च । अनादिकालमसन्नेवेति प्रकारेण स्थितं स्वात्मानं भगवत्संबंधज्ञानेन सत्तावंतं कृत्वोपरि स्वोपदेशेन ज्ञानवैराग्यभक्तीर्वर्धयित्वा हस्तफलवद्भगवद्विषयं प्रदर्शयंतं महोपकारकं ‘तव गुणा एवात्मनो धारकाः’ इति वपुःशरीरे प्रकाशमानगुणान् विना नापेक्षावान्’ इत्युक्तप्रकारेण गुणविग्रहाभ्यां स्वस्य धारकं भोग्यमाचार्यं नेत्रविषयतया पश्यति चेत्-नेत्रभ्रमणकरमहाक्षुधावान् धारकभोग्यमोदनमिव [[अत्यंताभिनिवेशनानुभूयास्माकं|अत्यंताभिनिवेशेनानुभूयास्माकं]] भोग्यविषय इति स्मृत्वा च । साध्यांतरनिवृत्यादिसमभावतया सम्यग्ज्ञानवंतं सच्छिष्यं पश्यति चेतिरिमिव भगवद्गुणानुभवदशायामस्मदुक्तानर्थान् भगवानिव श्रुणोत्यनुभाषते विद्धो भवत्येतदाकारैः स्वात्मानंदकरं स्मृत्वा च । अहंकारार्थकामास्त्रय इत्यादि-एतत्त्रयाणां मध्येऽहंकारोऽनुकूलविषयेऽनादरमुत्पादयति । अयमर्थः-स्वसन्निधौ शेषत्वं यथा न जीवति तादृशः खल्वहंकारः । अहंकारी ‘न नमेयं’ इत्येव वर्तते, न कस्यापि शिरसा नत्रीभवितुमिच्छति, तस्मादहंकारगर्भितश्चेत्स्वरूपवर्धकेष्वप्यनुकूलेषु श्रीवैष्णवेष्वस्माकं शेषिण इति कंपितोत्थाय प्रणामादिपूर्वकमनुवर्तनकरणं प्रतिषिध्य, स्वयं तेभ्योऽधिक इति वा सम इति वा बुद्धिं कारयित्वाऽनादरं कारयतीत्यर्थः । अर्थः प्रतिकूलविषये प्रावण्यमुत्पादयति-यं कंचन वाऽनुवर्त्य किंचिद्वा द्रव्यं संपादनीयमिति खल्वर्थरागप्रकारः । तस्य स्वरूपनाशकत्वेन प्रतिकूलेषु संसारिषु दृष्टेषु जुगुप्सया पलायने कर्तव्ये एकवराटिकाशया तद्वासस्थानेषु बहुवारं गच्छति, तान्हूय स्वगृहे भोजयति, तद्गुणकीर्तनं करोत्येवंरीत्या तद्विषये प्रावण्यमुत्पादयतीत्यर्थः । ‘काम्यत इति कामः’ इत्युक्तप्रकारेण कामशब्देन विषयसंभोगसुखमुच्यते । ‘श्रीः छीः गच्छ’ इत्यादिप्रकारेण दारिद्र्यवार्धक्यादिहेतुना स्वमुखदर्शनमकृत्वा निष्कास्य कपाटं पिधाय उपेक्षावादं कुर्वतीनां स्त्रीणां विषयेषु ‘उपेक्षावादं कृत्वा निराकुर्वन्तीषु गच्छति’ इत्युक्तप्रकारेण तासामुपेक्षावादप्रभृतिक्रममुद्देश्यत्वेन स्वीकृत्य यथा गच्छेत् तथाविधे, विलक्षणाः श्रुत्वा परिहसेयुस्तथाविधे, हेयेऽपेक्षां वर्धयतीत्यर्थः । एवमहंकारादित्रयमपि स्वरूपवर्धकेष्वनादरं, स्वरूपनाशकेष्वादरं, स्वरूपनाशकेषु [[प्रेक्षकेषु|उपेक्षकेषु]]पेक्षां च कारयतीत्येतत्क्रौर्याण्यनुसंधाय किं कुर्यादिति भीत्या । ‘अर्थकामाभिमानास्त्रयोऽपि’ इति पाठश्चेत्-‘गर्वोऽभिमानोऽहंकारः’ इत्युक्तप्रकारेणाभिमानशब्देनाहंकारस्योच्यमानत्वात् ‘अनुकूलविषये’ इत्यादिकं यथाक्रममकृत्वा यथायोगं पूर्वोक्तप्रकारेण योजनीयम् । आत्मगुणा इत्यादि-शमदमाद्यात्मगुणा अनादिकालमहंकारादीनां जन्मभूमिभूतानामनात्मगुणैः कुतूलपूर्णं कृत्वा कर्मपरतंत्राणामस्माकं यत्नेन, आत्मगुणोदयविरोध्यहंकारादीनां वर्धकानामनात्मगुणपरिपूर्णानां कर्मवश्यानां परेषां यत्नेन च नोत्पादयितुं शक्याः, आत्मगुणानां सर्वेषां पात्रभूतस्य प्रथमतः स्वस्य निर्हेतुककृपयाऽस्मानंगीकृत्यास्माकमात्मगुणाः कदा वा स्युरिति बहुकालं द्रवीभवतो भगवंतमर्थयतः सदाचार्यस्य प्रसादेन हेतुना जायमानेनास्मदात्मगुणविरोधिपापक्षयहेतुनाऽमलतया पश्यतो भगवतः परिपूर्णप्रसादेन जायत इत्यध्यवस्य । देहयात्रायामुपेक्षा नाम-देहसंरक्षणार्थव्यापारे आदरराहित्यम् । आत्मयात्रायामपेक्षा नाम-शेषत्वैकस्वरूपस्यात्मनो धारकादिभूतगुणानुभवकैंकर्यप्रवृत्तौ प्राप्तांशेन तृप्तिं विनोपर्युपर्याशाकरणम् । प्राकृतवस्तुषु भोग्यताबुद्धिनिवृत्तिर्नाम-अशनाच्छादनाद्युपयुक्तप्राकृतपदार्थेष्वनादरनिदानभोग्यताबुद्धिनिवृत्तिः । देहधारणमित्यादि-तादृशप्राकृतवस्तुषु देहधारणार्थमपेक्षितमात्रस्य भोजनं परमात्मनः सर्वेश्वरस्य समाराधनस्य समाप्तिरूपप्रसादप्रतिपत्तिरिति बुद्धिविशेषश्चेत्यर्थः । स्वस्येत्यादि-मुमुक्षोः प्रपन्नस्य च प्रारब्धशरीरस्थितिपर्यंतं तापत्रयं भवत्येव खलु, तस्मादनेन शरीरेण स्थितस्य स्वस्य तापत्रयेषु यः कश्चन क्लेशो भवति चेदवश्यमनुभाव्यत्वेनादृष्टः स्वप्रारब्धकर्मणः फलं खल्वेवंभूतानां कर्मणां निवृत्तिपर्यंतं खल्वनेन शरीरेण स्थातव्यमिति वा, भगवत्प्राप्तिप्रतिबंधकेष्वेकमपि निवृत्तं खल्विति वाऽनुसंधानेन, दुर्वासनयेतच्छरीरत्यागं विना प्राकृतपदार्थानप्युपजीव्य संसारे स्थातुमाशां कुर्वतोऽस्माकं दुःखदर्शनं कारयित्वा तादृशाशां निवर्त्य स्वचरणौ प्रापयितुमिच्छत ईश्वरस्य कृपायाः फलं किलेत्यनुसंधानेन वा जायमानप्रीतिरित्यर्थः । पूर्वोत्तरार्धाघान्यघान् सर्वान् निवर्तयतस्तस्य वर्तमानकर्मैकदेशभूतममुं निवर्तयितुं न दुष्करं हि, तथापि कर्मफलभूतां दुःखपरंपरानुभवन्नप्ययमेतद्देहत्यागं नानुमन्यते, तं सुखेन कृत्वा स्थापयामि चेदेतच्छरीरेण बहुकालं वर्तितुमिच्छां कृत्वा तदनंतरमप्येकं शरीरमिच्छेत्, तस्मादेतच्छरीरस्य विद्यमानकर्मानुभवेनैव नाशयेदिति हि स्थापयति, तस्मादन्येषां कर्मणां निवर्तनं संसारादमुं शीघ्रं स्वचरणौ प्रापयितुं विद्यमानया कृपया यथा भवति तथैतदनिवर्तनं च कृपयैव खलु । अनादिकालपरिगृहीतप्रतिशरीरं दुःखं भगवन्निग्रहफलं, इदमनुग्रहफलम् । ‘यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्’ इत्युक्तं हि । तस्मादिदं कृपाफलमित्युच्यते । स्वानुष्ठाने साधनत्वबुद्धिनिवृत्तिर्नाम-प्रपन्नस्य स्वस्याधिकारानुगुणमनुष्ठीयमाने विलक्षणकार्यभूते सदाचारे फलस्य साधनत्वप्रतिपत्त्यभावः । विलक्षणानां ज्ञानानुष्ठानयोर्वाञ्छा नाम-लौकिकैः सह व्यापारं विहाय नारायणमाश्रित्य स्थितत्वान्निर्मलज्ञानभक्तिकानां विलक्षणानां पूर्वेषां विलक्षणं तज्ज्ञानमनुष्ठानं च स्वस्य स्यातामित्याशा । अभिमतस्थलेष्वादरातिशयो नाम-‘स्वाभिमतग्रामः’ इत्युक्तप्रकारेण सर्वेश्वरस्य प्रीतिपूर्वकवासस्थानभूतेषु दिव्यदेशेषु ‘कंडियूर्, श्रीरंगम्, मैयम्, कांची, तिरुप्पेर्, मलै’ इत्यवगाहितवतः’ इत्युक्तप्रकारेण मनसस्तत्रावगाहनोपयुक्ततयोत्तरोत्तरं वर्धमान आदरः । मंगलाशासनं नाम-तत्तद्दिव्यदेशेष्वादरपूर्वकं वर्तमानस्य सौकुमार्यं वैलक्षण्यं च ज्ञात्वा तदनुरूपस्नेह्याभावं प्रतिकूलवर्गस्यातिशयं च स्मृत्वा किंवा स्यादित्युदरज्वलनेन दिवारात्रं बहुशरदो गानम् । इतरविषयेष्वरुचिर्नाम-भगवद्व्यतिरिक्तहेयविषयेषु दोषदर्शनादिभिरादरनिवृत्तिः । आर्तिर्नाम-इतरविषयप्रावण्यहेतुनैतच्छरीरेणाज्ञानवर्धकपृथिव्यां स्थितौ पाददाहेन प्राप्यवैलक्षण्यदर्शनप्रयुक्तप्राप्तिविलंबासहत्वेन च जायमानः क्लेशः । अनुवर्तननियतिर्नाम-भगवद्भागवतविषयेषु स्वशेषत्वानुगुणं नीचोक्तिनीचवृत्तिभ्यां क्रियमाणस्यानुवर्तनस्य प्राकृतविषयेषु विस्मृत्याप्यकरणम् । आहारनियतिर्नाम-जात्याश्रयनिमित्तदुष्टानि विना सर्वेश्वरस्य तदीयानां च प्रसादभूतानि वस्तूनि धारकतया स्वीकुर्यात् तदितराणि न स्वीकुर्यामिति स्थितिः । अनुकूलसहवासो नाम-स्वसंसर्गेण ज्ञानादीनि वर्धयद्भिरनुकूलैः सह क्षणकालमपि विश्लेषं विना मिलित्वा वर्तनम् । प्रतिकूलसहवासनिवृत्तिर्नाम-स्वसंसर्गेण ज्ञानानुष्ठाने नाशयद्भिः प्रतिकूलैः सह क्षणकालमपि वर्तनाभावः । अत्रोक्ता अनुकूलाः प्रतिकूलाश्चैते इत्युपरि स्वयमेव वदति हि । सदाचार्यप्रसादेन यथा वर्द्धेरन् तथा कुर्वन् वर्तेतेति-पूर्वोक्तास्ते सर्वेऽपि ज्ञानानुष्ठानपरिपूर्णस्य सदाचार्यस्य सर्वमंगलानुध्यानप्रसादेनोपर्युपरि यथा वर्द्धेरन् तथा कुर्वन् वर्तेतेत्यर्थः । आचार्यप्रसादेन वर्द्धनं नाम-तत्प्रसादजननकरणम् । तत्प्रसादनानि च शिष्यस्योपपादनस्थले उच्यमानानि । वर्तेतेति विधिरूपत्वनिरूपणं चास्यावश्यानुष्ठेयत्वद्योतनार्थम् ।
टीका हिन्द्या
एवं सर्वप्रकार से अहंकार, उस का कार्य विषयप्रावण्य इन दोनों का उत्पत्तिस्थान आप होने से अपने को देखे तो शत्रु को देखने के तरह, अहंकार और विषयप्रावण्य को बढानेवाले संसारियों को देखे तो सर्प को देखने के तरह, अहंकारादियों के नाशक श्रीवैष्णवों को देखे तो बंधुओं को देखने के तरह, ईश्वर को देखे तो पिता को देखने के तरह, आचार्य को देखे तो भूखा अन्न को देखने के तरह, शिष्य को देखे तो अभिमत वस्तु को देखने के तरह समझ, अहंकार, अर्थ और काम ये तीनों अनुकूल के विषय में अनादर, प्रतिकूल के विषय में प्रेम, उपेक्षा करनेवालों के विषय में अपेक्षा को भी जनाता है समझ अत एव उस विषय से भीत हो, आत्मगुणों को हम और दूसरे उत्पादन नहीं कर सक्ते, सदाचार्यानुग्रह द्वारा होनेवाला भगवदनुग्रह से होयंगे ऐसा विश्वास कर, देहयात्रा में उपेक्षा, आत्मयात्रा में अपेक्षा, प्राकृतवस्तुओं में भोग्यताबुद्धिनिवृत्ति, देहधारण परमात्मसमाराधन की समाप्तिप्रसादप्रतिपत्ति ऐसा समझना, अपने को कोई क्लेश होतो कर्मफल या कृपाफल समझ प्रीति होना, अपने अनुष्ठान में साधनत्वबुद्धिनिवृत्ति, विलक्षणों के ज्ञानानुष्ठानों में वाञ्छा, दिव्यदेशों में अधिक आदर, मंगलशासन, इतरविषयों में अरुचि, आर्ति, अनुवर्तननियति, आहारनियति, अनुकूलसहवास, प्रतिकूलसहवासनिवृत्ति ये सब गुण सदाचार्यानुग्रह से जैसा बढे तैसा वर्तन करना ॥ २८९ ॥ ‘अपने को आप नाश करना माने’ ऐसा आरंभ कर यहां तक अहंकारादियों को दोष कहागया, अनंतर प्राप्य और प्रापक दोनों वही है ऐसा रहनेवाला प्रपन्नअधिकारी का दिनचर्याविशेष कहाजाता है-एवं सर्वप्रकार से इत्यादि । एवं-पूर्वोक्तप्रकार । सर्वप्रकारनाशहेतु माने-स्वरूप से नाश कर भागवतविरोध को उत्पादन कर नाश करनेवाले । भगवल्लाभविरोधी हो ‘सर्वप्रकार से असत् होता है’ इस वचनानुसार जैसा असत्कल्प हो तैसा स्वरूप को नाश करता है । अहंकार-देहात्माभिमानरूप और देहातिरिक्तआत्मविषय में स्वातंत्र्याभिमानरूप दो प्रकार होता है । यहां पर ये दोनों प्रकार का अहंकार कहा गया । उनका कार्य विषयप्रावण्य को-देहात्माभिमान और स्वातंत्र्याभिमान से ही विषयों को स्वभोग्य मानकर आदर करता है, इस लिये विषयप्रावण्य को अहंकारकार्य कहा है । विषय शब्द से पूर्व में अनुकूल और प्रतिकूलरूप विहित और निषिद्धविषय कहे जाते हैं । इन दोनों की जन्मभूमि आप होनेसे-भगवत्स्वरूप को छिपानेका समर्थगुणत्रयात्मकप्रकृतिपरिणामात्मकस्वकर्मविशेष से आयाहुआ शरीर के साथ रहनेवाले आप होने से, कर्मानुगुण रजोगुण और तमोगुणसे व्याकुलकरनेवाला शरीर से मतिभ्रष्ट हो आत्मान होनेवाले देह को आत्मा करके स्वतंत्र न होनेवाले अपने को स्वतंत्र करके अभिमान करनेवाला और अपनेको अनर्थकरविषयों में अत्यादर करनेवाला भी आप ही (चेतन) होता है । अपने को देखे तो इत्यादि-अनादिकाल पापाचरण करते हुए भविष्यत्काल में भी पापाचरण के योग्य शरीरविशिष्ट अपने को देखे तो ‘मारे बिना न छोडूंगा’ ऐसा आयुधसहित दांत पीसता हुआ शत्रु को देखने के सदृश अपने को नाशक समझना । अपनी उक्तियों से दुर्वासना को बढाकर अहंकारादियों को बढानेवाले अहंकारी संसारियों को देखे तो समीप में जाने पर ऊपर गिर काटनेवाला अतिक्रूर सर्प को देखने के तरह भय से कंपित हो पीछे हट कर अपना बाधक समझना । अपने उपदेश और अनुष्ठान से अहंकारादियों के दोष को दिखा उन के प्रसंग में कंपित कर वासनासहित उन को दूरकरनेवाले मध्यमपदनिष्ठ श्रीवैष्णवों को देखे तो अपना अनर्थ और अभ्युदय ये दोनों अपना समझ कर सद्गुणों को दूर कर सद्गुणों को उत्पादन कर रक्षा करनेवाले आत्मबंधुओं को देखने के तरह आदर कर हम को अच्छे सहायक हैं ऐसा समझना । पहिले करणकलेवरों को दे उनसे दुर्मार्ग में नहीं जा सन्मार्ग में प्रवृत्त होने के लिये शास्त्रों को दिखा अकृत्य करने में शिक्षा कर सर्वावस्था में अपने हितही को देखनेवाले ईश्वर को अर्चास्थलों में देखे तो उत्पादक, विद्याप्रद, कुमार्ग में प्रवृत्त न होने के लिये नियमन कर चलानेवाले हितेच्छु पिता को देखने के तरह स्नेह, भय और विनयविशिष्ट हो अपने को हितपर समझना । अनादिकाल से ‘असत् ही’ इस वचनानुसार स्थित अपने को भगवत्संबंध को जना कर सत्तावान् बना ऊपर ऊपर अपने उपदेश से ज्ञानवैराग्यभक्तियों को उत्पादन कर हस्तामलकवत् भगवद्विषय को दिखानेवाले महोपकारक, ‘आप के गुण ही हमारे प्राण का प्राण’ ऐसा, ‘आप के दिव्यविग्रह के गुणों को छोड़ मैं अन्य को नहीं चाहता हूं’ ऐसा भी कई प्रकार गुण और विग्रह से अपने को धारकभूत आचार्य को देखे तो नेत्र को घुमानेवाले क्षुधा से पीडित हो धारक और भोग्य अन्न को देखने के तरह अतिप्रेमसे अनुभव कर हमारा धारक और भोग्यविषय यह है ऐसा समझना । साध्यांतरनिवृत्ति आदि सर्वसम ज्ञान और आचारवान् शिष्य को देखे तो अपने को अभिमतवस्तु को देखने के तरह भगवद्गुणानुसंधान में हम से कहे गये भावों को आदरपूर्वक सुनना, अनुवाद करना, विद्ध होना इत्यादि आकारों से अपने को आनंददायी समझना । अहंकार, अर्थ और काम ये तीनों में अहंकार अनुकूलों के विषय में अनादर उत्पादन करता है माने-शेषत्व को नहीं बचाता है । अहंकारी ‘मैं झुकूंगा नहीं’ ऐसा किसी विषय में सिर न झुका स्वतंत्र बनता है । इसलिये अहंकार स्वरूपवर्द्धक अनुकूल श्रीवैष्णवों को देखें अपना स्वामी समझ कंपित हो उठ प्रणामादिपूर्वक अनुवर्तन न कर अपने को उन से अधिक या समान समझ अनादर कराता है ऐसा समझना । अर्थ प्रतिकूल विषय में आदर कराता है माने-किसी के अनुवर्तन कर द्रव्य पाना चाहिये ऐसा द्रव्य में आशा को बढाता है इसलिये वह स्वरूपनाशक संसारियों को देख कर भागना प्राप्त होने पर भी अर्थ की आशा से उन के साथ संबंध कर उनके वासस्थान में बहुवार जा उन को बुला भोजन करा गुणकीर्तन करानेवाला विषय है ऐसा समझना । काम उपेक्षक विषय में अपेक्षा करावैगा माने-विषयसंभोगसुख की आशा से, दारिद्र्य वार्धक्य आदि कारण से अपना मुख न देख कपाट बंदकर उपेक्षा करनेवाले स्त्रियों के विषय में उनकी उपेक्षाओं के उद्देश्यमान रहने के योग्य शिष्टों के हास्यास्पद कराता है समझना । एवं अहंकारादि तीनों स्वरूपवर्धकों को अनादर, स्वरूपनाशकों को आदर, उपेक्षकों की अपेक्षा कराते हैं समझ उनकी क्रूरता को अनुसंधान करना । आत्मगुण इत्यादि । शमदमाद्यात्मगुण अनादिकाल अहंकारादियों के उत्पत्तिस्थान, हेयगुणपूर्ण कर्मपरतंत्र मेरे यत्न से, आत्मगुणउत्पत्ति के विरोधी अहंकारादिवर्धक हेयगुणपरिपूर्ण कर्मवश्य संसारियों के यत्न से भी नहीं उत्पन्न होते हैं । आत्मगुणों के स्थान पहिले अपने ऊपर निर्हेतुककृपा से अपने को अंगीकार कर ‘इस को आत्मगुण कब होयंगे’ ऐसा बहुवार ईश्वर को प्रार्थना कर व्याकुल होनेवाले सदाचार्यानुग्रह से, अपने आत्मगुणों के विरोधी पापक्षय होने के लिये निर्मलकटाक्ष करनेवाले भगवान के परिपूर्णानुग्रह से ही आत्मगुण होते हैं ऐसा विश्वास करना । देहयात्रा में उपेक्षा माने-देहरक्षणार्थ व्यापार में अनादर करना । आत्मयात्रा में अपेक्षा माने-शेषस्वरूप आत्मा के धारकादिगुणानुभवकैंकर्यप्रवृत्ति में प्राप्त से तृप्त न हो ऊपर ऊपर की अपेक्षा करना । प्राकृतवस्तुओं में भोग्यताबुद्धिनिवृत्ति माने-अन्नवस्त्रों के उपयुक्त प्राकृतपदार्थों के आदर के कारण भोग्यताबुद्धि निवृत्त होना । देहधारण इत्यादि-उन प्राकृतवस्तुओं में देहधारणमात्र भोजन करना परमात्मा सर्वेश्वर के समाराधन की समाप्तिरूप प्रसादप्रतिपत्ति ऐसा बुद्धि होना । अपने को इत्यादि-मुमुक्षु और प्रपन्न होने पर भी प्रारब्धशरीर रहने तक तापत्रय नहीं छोड़ेगा, इसलिये शरीरविशिष्ट अपने को तापत्रय में कोई एक क्लेश होने पर वह अवश्य अनुभव्य विना नाश न होनेवाला स्वप्रारब्धकर्म का फल है, एवंभूत कर्मों के क्षयपर्यंत ही इस शरीर के साथ हम को रहना है, भगवत्प्राप्तिप्रतिबंधकों में एक तो भी नष्ट हुआ ऐसे, अथवा दुर्वासना द्वारा इस शरीर के त्याग की इच्छा न कर प्राकृतपदार्थों से शरीर को पोषण कर संसार के भीतर सुखपूर्वक रहनेवाले हम को दुःख दिखा कर आशा को छुड़ा लेजाने का विचार करने वाले सर्वेश्वर की कृपा का फल है इन अनुसंधान से उन में प्रीति समझना । पूर्वाघ, उत्तराघ और प्रारब्धखण्ड इन तीनों को छुडानेवाले वर्तमानशरीर में अल्पअनुभाव्य कर्म को छुड़ाना दुष्कर नहीं है तथापि कर्मफलभूत दुःखपरंपरा को भोगने पर भी इस देह को छोड़ने की इच्छा न करनेवाले इस को सुखी रखने से इस शरीर के साथ बहुत काल रहने की इच्छा करना और दूसरे शरीर की अपेक्षा करना इत्यादि करेगा, इस शरीर के कर्मफल को अनुभव करे ऐसा समझ रखते हैं । ऐसा होने पर बाकी कर्मों को छुड़ाने का कारण संसार से इस को शीघ्र अपने चरणों में मिलाने की कृपा से, ऐसा ही वर्तमान शरीर के कर्म को न छुडाना भी कृपा का फल है । अनादिकालपरिगृहीत प्रतिशरीर में भोगा हुआ दुःख भगवन्निग्रह का फल है यह अनुग्रह का फल है । ‘जिस पर मैं अनुग्रह करता हूं उस का धन हर लेता हूं’ ऐसा आपही कहे हैं इसी से तो इस को कृपाफल कहते हैं । अपने अनुष्ठान में साधनत्वबुद्धिनिवृत्ति माने-प्रपन्नभूत अपने अधिकारानुगुण अनुष्ठीयमान सत्कर्मों को साधनतया नहीं समझना । विलक्षणों के ज्ञानानुष्ठानों में वाञ्छा माने-लोगों के स्वभाव छोड नारायण का आश्रयण करने से निर्मलज्ञानभक्तिमंत विलक्षणपूर्वाचार्यों के विलक्षण ज्ञान और अनुष्ठान हम को होना चाहिये ऐसी आशा करना । दिव्यदेशों में आदराधिक्य माने-सर्वेश्वर प्रेम से रहने के दिव्यदेशों के प्रस्ताव में मन मग्न होने से ऊपर ऊपर बढनेवाले आदर । मंगलाशासन माने-उन उन दिव्यदेशों में आदरपूर्वक वास करनेवाले स्वामी के सौंदर्यसौकुमार्य के उचित रक्षक नहीं हैं प्रतिकूल अधिक हैं ऐसा समझ क्या होगा ऐसा उदरदाह से रातदिन मंगल को चाहना । इतरविषयों में अरुचि माने-भगवद्व्यतिरिक्तहेयविषयों में दोष देखने से आदराभाव । आर्ति माने-इतरविषयप्रावण्यहेतु इस शरीर के साथ अज्ञानप्रद पृथिवी में पाददाह से प्राप्यवैलक्षण्यदर्शन से प्राप्त्यविलंब को न सहने से भी होनेवाला क्लेश । अनुवर्तननियति माने-भगवद्भागवतविषयों में अपने शेषत्वानुगुणनीचोक्तिनीचवृत्तियों से क्रियमाणअनुवर्तन को संसारविषयों में भूल कर भी न करना । आहारनियति माने-जात्याश्रयनिमित्तरूपदोषरहित भगवद्भागवतों के प्रसादभूत वस्तुओं को ही आहारतया स्वीकार करना अन्य वस्तुओं को नहीं स्वीकार करना । अनुकूलसहवास माने-अपने संबंध से ज्ञानानुष्ठानों को बढानेवाले अनुकूलों के साथ क्षणकाल विश्लेष विना वास करना । प्रतिकूलसहवासनिवृत्ति माने-अपने संबंध से ज्ञानानुष्ठानों के नाशक प्रतिकूलों के साथ क्षणकाल भी वास नहीं करना । यहां कहे हुए अनुकूल और प्रतिकूल अमुक हैं ऐसा आगे आप ही कहेंगे । सदाचार्यप्रसाद से जैसा बढे तैसा करते हुए रहना माने-पूर्वोक्त सब गुण ज्ञानानुष्ठानपरिपूर्ण सदाचार्य के अनुग्रहजनक कृत्यों को करना । रहना ऐसा विधिरूप से कहने का तात्पर्य यह है कि इन सब बातों को अवश्य अनुष्ठान कर रहना चाहिये ।
मूलम्
अस्यां दिनचर्यायामुक्तानि विवरणीयानि विवरितुं विचार्य, प्रथमं मंगलाशासनं विवृणोति-मंगलाशासनमित्यादिना ।
मूलम्
मंगलाशासनं स्वरूपविरुद्धं न भवति किमिति चेत् ? ज्ञानदशायां रक्ष्यरक्षकभावः स्वस्थाने तिष्ठति, प्रेमदशायां वैपरीत्येन तिष्ठति ॥ २५९ ॥
श्लोक
मंगलाशासनं किं नो स्वरूपं विरुणद्धि चेत् । रक्ष्यरक्षकभावोऽयं ज्ञानकाले प्रतिष्ठति ॥ प्रेम्णो दशाविपाके तु वैपरीत्येन तिष्ठति ॥ २५९ ॥
टीका संस्कृता
हेयप्रत्यनीकः कल्याणैकतानः स्वेतरसकलरक्षकः खलु सर्वेश्वरः, एवं स्थितेन स्वस्य विद्यमानामंगलानि दूरीकृत्याविद्यमानमंगलानि कारयितव्यमिति, तथा रक्ष्यभूतेनानेन स्वरक्षकस्य तस्य मंगलाशासनकरणं तदेकरक्ष्यत्वरूपस्वरूपस्य विरुद्धं न भवति किमिति शंकामनुवदति-मंगलाशासनमित्यादिना । तां परिहरति-ज्ञानदशायामित्यादिना । ज्ञानदशा नाम-सर्वेश्वरस्यैव रक्षकत्वेन स्वस्य रक्ष्यभूतत्वेन च प्रणवोक्तप्रकारेण विशदतथानुसंधानम् । तस्यां दशायां ‘दुःखं निवर्तय वा मा वा’ इत्युक्तप्रकारेण स्वस्यानिष्टनिवृत्यादीनां स एव शक्त इति स्थितत्वाद्रक्ष्यरक्षकभावः स्वानुरूपाश्रये तिष्ठति । प्रेमदशा नाम-सर्वेश्वरस्य सौकुमार्यादिकमनुसंधायास्य विषयस्य किं वा भविष्यतीत्यस्थाने शंकां कृत्वा तत्स्वरूपानुसंधानासमर्थत्वेन मनसः संतापदशा । तादृशदशायामीश्वरं रक्षितुं मार्गमाणेन क्लिश्यमानतया ईश्वरे रक्ष्यभावश्चेतने रक्षकभावश्च स्वानुरूपाश्रयं विहाय वैपरीत्येन तिष्ठतीत्यर्थः ।
टीका हिन्द्या
मंगलाशासन स्वरूपविरुद्ध नहीं क्या ? इस शंका में-ज्ञानदशा में रक्ष्यरक्षकभाव अपने स्थान में अधीन हैं । प्रेमदशा में विपरीत रहता है ॥ २५९ ॥ इस दिनचर्या में कहे हुए में विवरण करने योग्य को विवरण करनेकी इच्छा से पहिले मंगलाशासन को विवरण करते हैं-मंगलाशासन इत्यादि । हेयप्रत्यनीक कल्याणैकतान स्वेतरसकलरक्षक सर्वेश्वर हैं, ऐसे सर्वेश्वर से अपने अमंगलों को छुडा मंगलों को उत्पादन करलेना रक्ष्यभूत चेतन का कर्तव्य होनेपर भी रक्षकभूत स्वामी का मंगलशासन करना तदेकरक्ष्यत्वरूप स्वस्वरूप के विरुद्ध नहीं है क्या ? इस शंका को अनुवाद करते हैं-‘मंगलाशासन स्वरूपविरुद्ध नहीं है क्या’ ऐसा । उस का परिहार करते हैं-‘ज्ञानदशा में’ इत्यादि । ज्ञानदशा माने-सर्वेश्वर को रक्षकतया अपने को रक्ष्यतया प्रणव में कहे प्रकार जान अनुसंधान करनेकी दशा । उस दशा में ‘दुःख को दूर करो या मत करो दूसरा उपाय नहीं’ इत्यादि से अपना अनिष्टनिवृत्ति आदियों को वही उपाय है ऐसा रहनेसे रक्ष्यरक्षकभाव स्वानुकूल रहता है । प्रेमदशा माने-सर्वेश्वर के सौंदर्यसौकुमार्यों का अनुसंधान कर इस विषय का क्या होगा ? ऐसा अस्थान में भयशंका कर उनकी सर्वशक्ति आदि स्वरूप के अनुसंधान करने को असमर्थ हो मन गलनेकी दशा । उस दशा में ईश्वर को रक्षा करने के लिये व्याकुल होनेसे ईश्वर के विषय में रक्ष्यभाव और अपने विषय में रक्षकभाव विपरीत हो रहेगा ।
मूलम्
तत्स्वरूपमनुसंदधाति चेत् तं रक्षकत्वेन स्वीकृत्य स्वात्मानं रक्षति, तत्सौकुमार्यमनुसंदधाति चेत् स्वं रक्षकत्वेन स्वीकृत्य तं रक्षति ॥ २६० ॥
श्लोक
तत्स्वरूपानुसंधाने तेन रक्षति स्वं ह्ययम् । तत्सुकुमारताध्याने तच्च रक्षति [[स्वात्माना|स्वात्मना]] ॥ २६० ॥
टीका संस्कृता
उक्तार्थं विशदयति-तत्स्वरूपमित्यादिना । प्रथमाक्षरोक्तप्रकारेण सर्वज्ञस्य सर्वशक्तेः सर्वरक्षकस्य तस्य स्वरूपमनुसंदधाति चेत् तं स्वस्यानिष्टनिवर्तकत्वेन स्वीकृत्याज्ञमशक्तमप्राप्तं स्वं रक्षति । वार्त्तया म्लानाहं तस्य सौकुमार्यमनुसंदधाति चेत् तस्य सर्वशक्तित्वादिकं विस्मृत्य निपुणरक्षणीयत्वेन मत्वा स्वं रक्षकत्वेन स्वीकृत्य मंगलाशासनं कृत्वा तं रक्षतीत्यर्थः । अत्र सौंदर्यस्यानुक्तत्वेऽपि तस्यापि मंगलाशासनहेतुत्वादुपरि वक्ष्यमाणत्वाच्च सौकुमार्यं तस्याप्युपलक्षणम् ।
टीका हिन्द्या
उस के स्वरूप का अनुसंधान करनेपर उस को रक्षकतया समझ अपने को रक्षा करलेगा, सौकुमार्य का अनुसंधान करनेपर अपने को रक्षक समझ उस को रक्षा करेगा ॥ २६० ॥ उक्तार्थ को स्पष्ट करते हैं-उस के स्वरूप को इत्यादि । प्रथमाक्षर में उक्त प्रकार सर्वज्ञ सर्वशक्ति सर्वरक्षक स्वामी के स्वरूप का अनुसंधान करनेपर वहीं हमारा अनिष्टनिवर्तक है समझ अज्ञ, अशक्त, अप्राप्त अपने को रक्षा करलेगा । कहने से मुरझानेवाले सौकुमार्य का अनुसंधान करनेपर उन के सर्वशक्तित्वादि गुणों को भूल रक्ष्य समझ अपने को रक्षक समझ मंगलाशासन से उस को रक्षा करेगा । इस स्थल में सौंदर्य को न कहने पर भी वह मंगलाशासन का हेतु होनेसे और आगे कहेजाने से भी सौकुमार्यपद से सौंदर्य को भी लेना ।
मूलम्
अयमर्थश्चक्रवर्ती, श्रीजनकराजतनया, विश्वामित्रो, दंडकारण्यवासिन ऋषयो, मारुतिर्महाराजः, श्रीनंदगोपः, श्रीविदुरः, श्रीधनुर्दास इत्येतत्प्रभृतिषु द्रष्टव्यः ॥ २६१ ॥
श्लोक
दर्शनं हि दशरथे तथा । जानक्यां कौशिके तद्वद्दंडकारण्यवासिषु । ऋषिषु मारुतौ तद्वन्महाराजेऽथ गोपतौ । श्रीनंदे विदुरे चैव रङ्गेशविलिदासके ॥ २६१ ॥
टीका संस्कृता
एवं सौकुमार्यादिकं दृष्ट्वा कलुषितो रक्षकस्य शक्तिवैभवं विस्मृत्य स्वयं रक्षतीत्ययमर्थः क्व दृश्यत इत्यपेक्षायामयं शिष्टाचार इति तं दर्शयति-अयमर्थ इत्यादिना । चक्रवर्ती, स्वामी जानकीमुद्वाह्य गच्छति मध्ये परशुराम आगतस्तदा ताटकाताटकेयनिरासनादिभिरस्य शक्तिवैभवं व्यक्ततया जानन्नप्यस्य बाल्यं सौकुमार्यं च दृष्ट्वा किंवा स्यादिति भीतः सन् स्वयमग्रतो गत्वा-‘क्षत्ररोषात्प्रशांतस्त्वं ब्राह्मणश्च महायशाः । बालानां मम पुत्राणामभयं दातुमर्हसि ॥’ इति शरणागतिं कृत्वा पुनश्च तं स्वामिन उपरि क्रोधेन गच्छंतं दृष्ट्वा निष्प्राणः स्थितः-‘गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः । पुनर्जातं तदा मेने सुतानामात्मनश्च यत् ॥’ इति स पराजितो गतः इति श्रुत्वा स्वं च पुत्रांश्च पुनर्जातमित्यमन्यत हि । श्रीजनकराजतनया, प्रथमजलप्रवाहस्थानभूतास्य वैभवं सर्वमपि जानंत्यपि अभिषेकार्थमलंकृतगात्रे चक्रवर्तिगृहं प्रति गच्छत्येतद्विषये जितास्य किं भविष्यतीति प्रेम्णा कलुषितया-‘पतिसम्मानिता सीता भर्तारमसितेक्षणा । आ द्वारमनुवव्राज मंगलान्यभिदध्युषी ॥’ इति द्वारपर्यंतं मंगलाशासनं कुर्वती सत्यनुव्रज्य-‘पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः । वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम् ॥’ इति दिक्पालकानस्य रक्षकत्वेनापेक्षितवती । जनकरराजतनयेति च पृथगप्युच्यते । तदा श्रीजनकराजो महेश्वरधनुर्भंगेन स्वामिनः शक्तिवैभवं दृष्ट्वाऽपि ‘इयं सीता मम सुता सहधर्मचरी तव । प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥’ इत्याभिजित्यादिभिर्वैलक्षण्यविशिष्टामिमांगीकुरुष्वेति प्रदानसमयेऽस्य वैभवं सौकुमार्यं च दृष्ट्वा कलुषितोऽस्य मिथुनस्य किमप्यवद्यं न स्यादिति भद्रं ते इति मंगलाशासनमकरोत् । विश्वामित्रः, स्वस्याध्वरत्राणार्थं स्वामिनमादाय गमनसमये मध्ये ताटकाया महतारवारेणागमनं दृष्ट्वा ‘अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।’ इत्युक्तप्रकारेण स्वामिनः शक्तिवैभवं ज्ञात्वाऽपि सौकुमार्यं दृष्ट्वा कलुषितः-‘विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् । स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥’ इत्युक्तप्रकारेण स्वयमग्रतः स्थित्वा तां हुंकृत्य स्वामिनोऽनुजस्य चैकमवद्यं यथा न स्यात्तथा मंगलाशासनमकरोत् । श्रीदंडकारण्यवासिन ऋषयः, ‘ते तं सोममिवोद्यंतं दृष्ट्वा वै धर्मचारिणः । मंगलानि प्रयुंजानाः प्रत्यगृह्णन् दृढव्रताः ॥’ इति स्वापन्निवृत्तिमभिमतसिद्धिं च कुर्यादयमेवेति साधनानुष्ठानं कुर्वाणा अस्मिन् सन्निहिते सति तद्विस्मृत्यास्य सौन्दर्ये निमग्ना मंगलाशासनमकुर्वन् । मारुतिः, प्रथमदर्शने-‘आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः । सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ॥’ इत्यायसपरिघसदृशयोर्भुजयोः पराक्रमं दृष्ट्वाऽस्माकमयं रक्षको भवेदिति बुद्धिं कृत्वाऽपि तयोः सौंदर्यं दृष्ट्वा विद्धो दृष्टिदोषो भवति चेत् किं कर्तव्यमित्यतिशंकां कृत्वा आभरणैरनयोराच्छादनमकृत्वैवं प्रकाशने किं कारणमित्युदरपीडनं कृत्वा, पश्चात्स्वामिनः शक्तिवैभवं बहुमुखं पश्यन्नपि सौकुमार्यानुसंधानेनास्य किं भविष्यतीत्यतिभीतः सर्वदशायां च सह स्थित्वा रक्षितवान् हि । महाराजः, वालिबधादिभिः स्वामिनः शक्तिगौरवं दृष्ट्वाऽपि सौकुमार्यमेव दृष्ट्वा कलुषितो विभीषणे च चतुर्भिः सहागते ‘एष सर्वायुधश्चतुर्भिः सह राक्षसैः । राक्षसोऽभ्येति पश्यध्वमस्मान् हंतुं न संशयः ॥’ इति नः सर्वेषां प्राणभूतस्य स्वामिनो हिंसनेनास्मान् सर्वान् हंतुमागच्छत्ययमिति निश्चित्यास्थान् वानराणां दर्शयित्वा ‘राघवं शरणं गतः’, ‘निवेदयत मां क्षिप्रम्’ इत्युक्तिं श्रुत्वाऽपि-‘वध्यतामेष तीव्रेण दंडेन सचिवैः सह । रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥’ इति रावणसंबंधमेव पश्यन्नस्य चित्रवधः कर्तव्य इत्युक्तत्वात्, ‘रावणेन प्रणिहितं तमवैहि निशाचरम् । तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।’ इति रावणेन प्रेषित आगत इत्येव जानीहि, तस्य दंडनमेव प्राप्तमिति जानामीत्येवं प्रकारेणानेकानुक्त्वायं सर्वथा नांगीकार्य इत्येकरीत्या स्थितः सन् ‘पिशाचान् दानवान् यक्षान्’ इत्यादिना स्वबलं प्रदर्श्य कपोतोपाख्यानं कंडूपाख्यानं चोक्त्वा भयं दूरीकृत्य ‘आनयैनं हरिश्रेष्ठ’ इति प्रकारेण यथा वक्तव्यं स्यात्तथा स्वामिनं रक्ष्यतया विचिंत्य रक्षितवान् । महाराज इति श्रीजटायुमहाराज इत्यपि वदति । जटायुमहाराजो जानक्यर्थं रावणेन युद्धं कृत्वापन्नप्राणतया स्थितं स्वं स्वामिन्यागत्य पश्यति जनस्थाने स्थित्वा चतुर्दशसहस्राण्यपि रक्षांस्येकवीरं कृत्वा संहरतो भुजबलं जानन्नपि-‘यामोषधिमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृताः ॥’ इति दुर्लभौषधमन्वेषमाणाः प्रतिवनं यथान्वेष्टव्यं तथा यामस्मिन् महावने मार्गमाणः संचरसि तव नित्यप्राणसदृशा सा मम प्राणाश्चोभयं च रावणेन दुर्जनेनापहृतमिति कथनसमये विरहक्लेशप्रयुक्तशैथिल्यं सौकुमार्यं राक्षसैः सहोत्पन्नं महावैरं च विस्मृत्य किं वा भविष्यतीति भीत आयुष्मन्नित्यायुः प्रार्थितवान् खलु । श्रीनंदगोपः, पूतनानिरसनेन कृष्णस्य दिव्यशक्तिं दृष्ट्वाऽपि शैशवप्रयुक्तसौकुमार्यमेव पश्यन् कलुषित उदरदाहेन ‘रक्षंतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपंकजादभवज्जगत् ॥’ इति सकलजगत्कारणभूतः सकलविरोधिनिरसनशीलः सर्वेश्वरस्त्वां रक्षत्विति रक्षामकरोत् । श्रीविदुरः, कृष्णस्य सर्वज्ञत्वं सर्वशक्तित्वादिकं च ज्ञात्वापि दुर्योधनगोष्ठयां स्थितिसमये कपटासनकरणप्रकारं दृष्ट्वा भीतः प्रेमांधतया ‘संस्पृशन्नासनं शौरेर्विदुरः स महामतिः’ इति स्वगृहे स्वेन कृतमासनं चातिशंकां कृत्वा स्वहस्तेनापि सम्यक्स्पृष्ट्वाऽपश्यत् खलु । धनुर्धरदासः, तस्मिन् ज्ञानशक्त्यादिकं ज्ञात्वा सर्वेश्वर एवास्माकं रक्षकः इति स्थितोऽपि प्रेमपरवशत्वाद्भगवतो यात्रासमये किंचिच्चलनं जायते चेत्प्राणं त्यजामीति छुरिकां दधानः सेवत इति प्रसिद्धः खलु । प्रभृतिष्वित्यनेन-‘स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः । सर्वान् देवान्नमस्यंति रामस्यार्थे यशस्विनः ॥’ इति अयोध्यावासिजनाः । ‘यन्मंगलं सुपर्णस्य विनताऽकल्पयत्पुरा । अमृतं प्रार्थयानस्य तत्ते भवतु मंगलम् ॥’ इति कौसल्या । ‘जातोऽसि देवदेवेश शंखचक्रगदाधर । दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥’ इति श्रीवसुदेवः । ‘उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् । जानातु माऽवतारं ते कंसोऽयं दितिजन्मजः ॥’ इति देवकीप्रभृतयः स्मर्यंते ।
टीका हिन्द्या
यह अर्थ चक्रवर्ती, सीताजी, जनकराज, विश्वामित्र, दण्डकारण्यवासी ऋषि, हनुमान, सुग्रीव, श्रीनंदगोप, श्रीविदुर, धनुर्धरदास, आदियों में देख सक्ते हैं ॥ २६१ ॥ इस प्रकार सौकुमार्यादियों को देख व्याकुल हो रक्षक के शक्तिवैभव को भूल आप ही उसकी रक्षा करते हैं इस अर्थ को कहां देख सक्ते हैं इस शंका में-यह अर्थ शिष्टाचारसिद्ध है ऐसा दिखाते हैं-यह अर्थ इत्यादि । चक्रवर्ती, श्रीरामजी सीताजी से विवाह कर लौटने के समय में परशुराम आ प्रकट होनेपर ताटकामारीचादिओं के निरसन करने से इन की शक्तिवैभव को स्पष्ट जानते हुए भी इन के बाल्य और सौकुमार्य को देख क्या होनेवाला है ? ऐसा भीत हो आप सामने जा ‘क्षत्रियरोष से शांत हुए महायशस्वी ब्राह्मण तुम हमारे बालपुत्रों को अभय देने योग्य हो’ ऐसा शरणागति किये बाद भी वह श्रीरामजी के ऊपर जातेहुए देख मूर्छित हो ‘परशुरामजी चले गये’ ऐसा सुन प्रसन्न हो चक्रवर्ती दशरथजी अपने और पुत्रों को पुनर्जन्म लिये हैं ऐसा समझते भये । जनकराजपुत्री सीताजी, साक्षात् श्रीरामजी का संपूर्ण वैभव जानती हुई भी यौवराज्याभिषेक के लिये अलंकृत हो चक्रवर्ती के घर को जानेके समय इन के सौंदर्य से पराजित हो वह कैसे सुरक्षित रहेंगे ऐसा प्रेम से व्याकुल हो ‘कालनेत्रवाली सीताजी पति से सम्मानित हो मंगलाशासन करती हुई द्वारपर्यंत अनुवर्तन करती भयी ।’ ‘पूर्वदिशा में इन्द्र, दक्षिण में यम, पश्चिम में वरुण, उत्तर में कुबेर आप की रक्षा करें ।’ ऐसा दिक्पालों को श्रीरामजी की रक्षा के लिये प्रार्थना करती भयी । जनकराज, महेश्वर के धनुर्भङ्ग से श्रीरामजी के शक्तिवैभव को जानते हुए भी “यह सीता हमारी पुत्री आप की सहधर्मचारिणी है इस को चाहो अपने हाथ से इसका हाथ ग्रहण करो” ऐसा सीताजी को पाणिग्रहण करानेके समय श्रीरामजी के सौंदर्य और सौकुमार्य को देख व्याकुल हो उन दंपती को कोई बुराई न हो ऐसा विचार ‘आप का मंगल हो’ ऐसा मंगलाशासन करते भये । विश्वामित्र, अपने यागरक्षणार्थ श्रीरामजी को अपने संग लेजाने के समय बीच में ताटकाको बडी शूरता से आक्रमण करती हुई देख ‘मैं श्रीरामजी के सत्यपराक्रम को जानता हूं’ ऐसा श्रीरामजी के वैभव को जानते हुए भी उन के सौकुमार्य को देख व्याकुल हो ‘ब्रह्मर्षि विश्वामित्र हूंकार से ताटकाराक्षसी को हटा श्रीरामलक्ष्मण का मंगल हो जय हो ऐसा कहते भये’ । श्रीदण्डकारण्यवासी ऋषि, ‘धर्मानुष्ठाता वे ऋषिलोग उदय होनेवाले चन्द्रसदृश उन श्रीरामजी को देख मंगलाशासन करते हुए स्वागत किये’ ऐसा अपनी आपन्निवृत्ति अभिमतसिद्धि इन दोनों के करनेवाले श्रीरामजी हैं ऐसा समझ साधनानुष्ठान करनेवाले ऋषिलोग श्रीरामजी समीप आनेपर उन बातों को भूल उनके सौंदर्य से आकृष्ट हो मंगलाशासन किये हैं । हनुमान, प्रथमदर्शन के समय ‘लंबे गोल और परिघसदृश ये भुजायें सर्वभूषण से अलंकार करने योग्य सो क्यों नहीं भूषित हैं’ ऐसा हस्तिबंधनस्तंभ के सदृश बाहुओं के पराक्रम को देख हमारी रक्षा करनेमें समर्थ हैं ऐसा विश्वास होनेपर भी उन के सौंदर्य में विद्ध हो औरों की नजर लगनेपर क्या होगा ? ऐसी अतिशंका कर दिव्याभरणों से इस को नहीं ढक ऐसा प्रकट करनेका कारण क्या ? इस उदरदाह से पीडित हो, बाद भी श्रीरामजी की शक्ति को बहुप्रकार देखनेपर भी सौकुमार्य का अनुसंधान करनेसे ‘इन को क्या होगा ?’ ऐसा भयभीत हो सर्वदशा में संग रह रक्षा करता भया । सुग्रीवजी-वालिबध आदि से श्रीरामजी की शक्ति को देखनेपर भी सौकुमार्य ही को देख व्याकुल हो श्रीविभीषणसूरि चार राक्षसों के साथ जब प्रकट हुए तब ‘यह राक्षस चार राक्षसों के साथ सर्वायुधसमेत निस्संशय हमलोगों को मारने के लिये आता है देखो’ ऐसा, ‘राघव के शरण में आया हूं’, ‘मुझे जल्दी श्रीरामजी को निवेदन करो’ इन वचनों के सुनने पर भी ‘यह दुष्ट रावण का भ्राता विभीषण साथियों के साथ तीव्रदंड से माराजाय’ ऐसा रावण का संबंध ही को देख इसका चित्रवध होना चाहिए और ‘रावण से भेजा गया गुप्तचर समझो ! हे क्षमानिधे, उस का निग्रह करना ही उचित समझता हूं’ इस तरह बहुत कह ‘इस को कभी अंगीकार नहीं करना’ ऐसा स्थिर हो ‘पिशाच और दानवों को उंगली के अग्रभाग से नाश कर सक्ता हूं’ इत्यादि से अपने बल को दिखा कपोतोपाख्यान और कंडूपाख्यान को कह भय के दूर कर जैसे ‘हे वानरराज ! विभीषण को लाओ’ ऐसा कहे तैसा श्रीरामजी को रक्ष्य समझ रक्षा करते रहे । श्रीजटायु-सीताजी के लिये रावण के साथ युद्ध कर प्राणावशिष्टदशा में अपने को श्रीरामजी देखने पर जनस्थान के चौदहसहस्र राक्षसों को अकेले ही संहार करने के भुजबल को जानते हुए भी-‘हे आयुष्मन् जिस को औषधि के तरह महावन में ढूंढते हो वह देवी और हमारा प्राण दोनों को रावण अपहार किया है’ ऐसा कहने के समय विश्लेषक्लेश से आयी हुई शिथिलता, सौकुमार्य और राक्षसों के साथ विरोध को भी विचार क्या होनेवाला है ऐसा भीत हो ‘आयुष्मन्’ इस पद से आयु की प्रार्थना किया है । श्रीनंदगोप-पूतनासंहार से श्रीकृष्ण की दिव्यशक्ति को जानते हुए भी शिशुत्वप्रयुक्तसौकुमार्य ही को देख व्याकुल हो उदरदाह से ‘जिस के नाभिकमल से संपूर्ण जगत् हुआ संपूर्ण प्राणियों के सृष्टिकर्ता वह हरि तुमारी रक्षा करें’ ऐसी रक्षा करता भया । श्रीविदुर-श्रीकृष्ण के सर्वज्ञत्व सर्वशक्तित्वादिओं को जानते हुए भी दुर्योधन की गोष्ठी में जाने के समय असत्य आसन स्थापन को देख भयभीत हो प्रेमांधता से ‘महामति विदुर श्रीकृष्ण के आसन को टटोलता भया’ ऐसा अपने घरमें आप से समर्पित आसन को भी अतिशंका से अपने हाथ से दबा कर देखा है । धनुर्धरदास-परमात्मा की ज्ञानशक्ति आदिओं को जानते हुए श्रीरङ्गनाथ हमारे रक्षक हैं ऐसा समझने पर भी प्रेमपरवश होने से श्रीरङ्गनाथ के बाहर पधारने के समय विग्रह में किंचित् हलने पर मेरे प्राणों को छोड़ दूंगा ऐसी प्रतिज्ञा कर नंगी तलवार को ले आगे जाते भये । आदि कहने से-‘स्त्री, वृद्ध, तरुणी ये सब सायं प्रातः जागरूक हो यशस्वी श्रीरामजी के लिये संपूर्ण देवताओं के नमस्कार करती भयो’ ऐसे अयोध्यावासी मनुष्य । ‘अमृत लानेवाले गरुडजी को विनता ने जिस मंगल को की है वही मंगल तुम्हें हो’ ऐसा कौसल्या । ‘शंखचक्रगदाधर हो अवतार लिये हो कृपया इस दिव्यरूप को छिपा लो’ ऐसा श्रीवसुदेवजी । ‘हे सर्वात्मन् ! इस चारभुजा के रूप को छिपा लो आप के अवतार को दैत्य कंस न जाने’ ऐसा देवकीदेवी आदिओं को समझना ।
मूलम्
एतद्विषयवैलक्षण्यं सर्वानपि मंगलाशासने प्रेरयतीत्यत्र पुनरप्येकमुदाहरणं दर्शयति-बालस्वामिनीत्यादिना ।
मूलम्
बालस्वामिनि श्रीगुहोऽतिशंकामकरोत् । उभयोरतिशंकां कृत्वा गुहपरिकराः स्वामिनमरक्षन् ॥ २६२॥
श्लोक
एवमन्यत्र द्रष्टव्यो दिङ्मात्रनिदर्शनमत्र वै । अकरोन्महतीं शंकां बालस्वामिनि श्रीगुहः ॥ उभयोरतिशंकां च कृत्वा गुहप्रजादयः । प्रारक्षन् स्वामिनं श्रीमद्राघवं भक्तवत्सलम् ॥ २६२ ॥
टीका संस्कृता
श्रृंगवेरपुरं गत्वा श्रीगुहस्य विषयीकारदिनेऽनुरूपतया बालस्वामिना रचितायां पर्णशय्यायां स्वामिनि जानक्यां च शयमानयोर्बाल्यात्प्रभृति सुस्निग्धत्वात् किं भविष्यतीति भीत्या पृष्ठबद्धाङ्गुलीयतूर्णिर्बद्धगोधांगुलित्रो ज्यामारोप्य मध्ये धृतधनुषं संचरत्प्राकारमिव संचरंतं वालस्वामिनं दृष्ट्वा श्रीगुहः एकोऽनुजो मातरं प्रेर्य राज्यं गृहीत्वा बद्धपरिकरेण वनं प्रेषितवान् तद्वदयं चानुजः खलु, एकांतस्थले किंकर्तुं विचार्यैवं वर्तते न जानीम इत्यतिशंकां कृत्वा तथाऽनर्थं विचारयति चेदमुं सम्यक् पश्याम इति धनुर्वाणं च गृहीत्वा तत्पादविन्यासस्थले पदं निक्षिप्याग्रतोऽतिष्ठत् । श्रीगुहस्यानुचरवृत्तिं कृत्वा संचरतः परिकराश्च-स ज्ञातिरयं कुटिलवृत्तिको ग्रामणीः एवं च सत्युभावप्यमुं विषयं किं करिष्यत इत्युभयोरप्यतिशंकां कृत्वा तथा कुरुतश्चेदुभावपि नाशयित्वा वयममुं रक्षाम इति प्रत्येकं धनुष्पाणयः संतो भगवंतं रक्षितवंत इत्यर्थः । श्रीभरतं प्रत्येतद्विशेषकथनसमये श्रीगुहः-‘नियम्य पृष्ठे तु तलांगुलित्रवान् शरैः सुपूर्णामिषुधिं परंतपः । महद्धनुः सज्यमुपोद्य लक्ष्मणो निशामतिष्ठत्परितोऽस्य केवलम् ॥ ततस्त्वहं चोत्तमचापबाणधृक् स्थितोऽभवं तत्र स यत्र लक्ष्मणः । अतंद्रिभिर्ज्ञातिभिरात्तकार्मुकै-महेंद्रकल्पं परिपालयंस्तदा ॥’ इति तद्रात्रिवृत्तांतमवदत् ।
टीका हिन्द्या
लक्ष्मणजी को श्रीगुहदेवजी अतिशंका किये हैं, इन दोनों को श्रीगुहदेवजी के भृत्यवर्ग अतिशंका कर श्रीरामजी की रक्षा किये हैं ॥ २६२ ॥ परमात्मा का वैलक्षण्य सब को मंगलाशासन में लगावेगा इस विषय में और एक उदाहरण दिखाते हैं । लक्ष्मणजी को इत्यादि । श्रृंगवेरपुर में श्रीरामजी पधार श्रीगुहदेवजी को अंगीकार करने के अनंतर उचित स्थान देख श्रीलक्ष्मणजी से बिछाई हुई पर्णशय्या में स्वामी और स्वामिनी सोनेपर बाल्यप्रभृति से स्नेह करनेवाले लक्ष्मण ‘क्या होगा’ ऐसा भीत हो पीठ में तूणीर को बांध अंगुलित्राण को बांध धनुष चढा बाणप्रयोग कर आप चलंतप्राकार के तरह पहरा देते हुए देख श्रीगुहदेव ‘एक भ्राता मातृद्वारा राज्य को छीन व्रतबंधन के साथ अरण्य में ढकेल दिया यह भी उसी के सदृश भ्राता ही है, एकांत स्थल में क्या करने को सन्नद्ध होरहा है यह ज्ञात नहीं’ ऐसी अतिशंका कर किसी बुराई का चिंतन करने पर ‘इस को संहार करूंगा’ ऐसा विचार धनुष और लाठी को ले इन के कदम में कदम रखता हुआ पहरा देता भया । श्रीगुहदेवजी के भृत्यगण ‘लक्ष्मण तो ज्ञाति है, यह तो कुटिल जंगली है, ये दोनों इस वखत इस विषय में क्या करने को देखते हैं’ ऐसा दोनों पर अतिशंका कर कुछ बुराई करेंगे तो ‘इन दोनों को मार कर सीता और राम की रक्षा करेंगे’ ऐसा प्रत्येक व्यक्ति हाथ में धनुष ले श्रीरामजी की रक्षा किये हैं । श्रीभरतसूरि से गुहदेवजी के वार्तालाप करते समय-अंगुलित्राण को बांध परंतप लक्ष्मण बाणों से भरा तर्कस को पीठ पर बांध धनुष को चढा रातभर पहरा देते रहे मैं भी उत्तमबाणयुक्त धनुष को ले जहाँ लक्ष्मण थे वहां रहता रहा, हमारे भृत्यगण भी महेन्द्रसमान श्रीरामचन्द्र को पालन करते हुए धनुर्हस्त जागरूक रहते रहे, ऐसा उस रात्रि के वृत्तांत को सुनाया है ।
मूलम्
एकस्मिन् दिने मुखं पश्यतां सौंदर्येण क्रियमाणप्रकारः सः ॥ २६३ ॥
श्लोक
एकस्मिन् दिवसे राममुखं दृष्टवतां सताम् । सौंदर्येण हि प्रकारः सः क्रियमाणो निगद्यते ॥ २६३ ॥
टीका संस्कृता
श्रीगुहस्य परिकरस्य च तद्दिने दर्शनमात्रं विना स्वामिना सह पूर्ववासनाऽपि नास्ति, एवं सत्यपि तेषामयमाकारः कथं जात इत्यत आह-एकस्मिन् दिन इत्यादि । बहुकालवासनां विना एकस्मिन् दिने सुखदर्शनं कृतवतामपि तद्विग्रहवैलक्षण्येन क्रियमाणो व्याकुलप्रकारो भवत्ययमित्यर्थः । सदा पश्यंतिकृत इव सकृद्दर्शनकृतोऽपि प्रेमांधा अस्थाने भयशंकयाऽनुकूलान् प्रत्यप्यतिशंकां कृत्वा प्रीत्या यथा रक्षेयुस्तथा वर्तते खलु भगवद्विग्रहसौंदर्यम् ।
टीका हिन्द्या
एक दिन मुख के सामने आनेवालों को भी सौंदर्य विद्ध कर देता है ॥ २६३ ॥ श्रीगुहदेवजी और उन के भृत्यगण को उस दिन के दर्शन विना पहिले दर्शन नहीं हुआ था तो यह प्रेम कैसा हुआ इस शंका में कहते हैं—एक दिन इत्यादि । बहुत दिन वासना न कर एकही दिन दर्शन करनेवालों को भी उन का विग्रहवैलक्षण्य विद्ध कर देता है और सदा देखनेवालों के तरह एक बार देखनेवालों को भी प्रेमांध बना अस्थान में भयशंका से अनुकूलपर भी अतिशंका कर प्रेम से रक्षा करनेवाला बना देता है ।
मूलम्
एतेऽस्मत्कोटाविति वक्तुं योग्या दिव्यसूरीणां स्थितिः ॥ २६४ ॥
श्लोक
एतेऽस्मत्कोटिनिक्षिप्ता इत्थं कथनयोग्यताम् । दधाति दिव्यसूरीणां परिस्थितिरसंशयम् ॥ २६४ ॥
टीका संस्कृता
अथ चास्यार्थस्योदाहरणतया पूर्वोक्तेभ्यो व्यावृत्तानां दिव्यसूरीणां मंगलाशासननिष्ठामाह-एत इत्यादिना । एत इति-चक्रवर्तिप्रभृतयः पूर्वोक्ताधिकारिणः सर्वे परामृश्यंते । तर्हि जानक्यपि कथं तत्सदृशतयोच्यते इति चेत्-दिव्यसूरिष्वग्रेसरात् परांकुशाद्विष्णुचित्तस्याधिक्यमुक्तं, तथा भोगपरवशायास्तस्या मंगलाशासनादेरेतद्दिव्यसूरीणामाधिक्योक्तौ न विरोधः । तर्हि अस्मत्कोटाविति कथमुच्यते इति चेदेतदर्थनिष्ठायां तेषामाधिक्यप्रदर्शनार्थमुक्तत्वान्न विरोधः । तस्मादेतद्विषयवैलक्षण्यकलुषितचित्ता अस्य किंवा भविष्यतीत्युदरज्वलनेनारक्षन्निति पूर्वोक्ताः सर्वे इत्यर्थः । अस्मत्कोटाविति वक्तुं योग्येति-अस्मिन् विषयेऽन्वये सत्यपि प्रेमाभावेन मंगलाशासने आदररहिता अस्मत्सदृशमात्रा इति वक्तुं योग्येत्यर्थः । दिव्यसूरीणां स्थितिरिति-अज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानं प्राप्तत्वान्निरतिशयप्रेमवतां दिव्यसूरीणां मंगलाशासननिष्ठेत्यर्थः ।
टीका हिन्द्या
ये सब हमारी कोटि में गिने जायेंगे सूरियों की दशा देखने पर ॥ २६४ ॥ और भी इस अर्थ को उदाहरणरूप से पूर्वोक्त से भिन्न सूरियों की मंगलाशासननिष्ठा को कहते हैं-ये इत्यादि । ये सब माने-चक्रवर्ती प्रभृति पूर्वोक्त सब अधिकारी । तब लक्ष्मीजी को भी उनके साथ गिन सक्ते हैं क्या ? इस शंका में कहते हैं-सूरियों में श्रेष्ठ शठकोपसूरि की अपेक्षा भट्टनाथसूरि को जैसे श्रेष्ठ कहते हैं तैसे भोगपरवश लक्ष्मीजी की अपेक्षा मंगलाशासन की दृढता में सूरियों को श्रेष्ठ कहना विरोध नहीं । तथापि ‘हमारी कोटि में’ ऐसा कह सक्ते हैं क्या ? ऐसी शंकापर मंगलाशासननिष्ठा में सूरियों के आधिक्य को दिखाने के लिये कहने से विरोध नहीं । इसलिये प्रेम से मंगलाशासन करनेवाले पूर्वोक्त चक्रवर्ती आदि हमारी कोटि में गिने जायेंगे माने-भगवद्विषय में संबंध रखते हुए भी प्रेम के अभाव से मंगलाशासन में दायाभाववाले हमारी तरह कहने योग्य हैं । सूरियों की दशा माने-अज्ञाननिवृत्तिमत्यानंद प्राप्त होने से अधिकप्रेमयुक्त सूरियों की मंगलाशासननिष्ठा ।
मूलम्
दिव्यसूरयः सर्व इव न भवति महान् सूरिः ॥ २६५॥
श्लोक
ते सर्व इव नैवास्ति विष्णुचित्तो महामुनिः ॥ २६५ ॥
टीका संस्कृता
एते दिव्यसूरयो मंगलाशासने मिथः सदृशाः किमित्यत आह-दिव्यसूरय इत्यादि । मंगलाशासनेऽन्येषां सूरीणां विष्णुचित्तस्य च महती व्यावृत्तिरस्तीत्यर्थः ।
टीका हिन्द्या
सूरिंगण के बराबर भट्टनाथसूरि नहीं हैं ॥ २६५ ॥ ये सूरिलोग मंगलाशासन के विषय में परस्पर तुल्य हैं क्या इस शंका में कहते हैं सूरिंगण इत्यादि । मंगलाशासन में अन्यसूरियों की अपेक्षा भट्टनाथसूरि का बहुत अन्तर है ।
मूलम्
तेषां तत्कादाचित्कमस्य नित्यम् ॥ २६६ ॥
श्लोक
कादाचित्कं च तेषां तन्नित्यं चास्य महामुनेः ॥ २६६ ॥
टीका संस्कृता
तदपेक्षयाऽस्यात्राधिक्यं कीदृशमित्यत आह-तेषां तत्कादाचित्कमित्यादि । अज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानप्राप्तेस्तुल्यत्वेऽपि वज्रलेपं पुरुषानपि स्त्रीवस्त्रं धारयत् भगवद्विषयवैलक्षण्यमनुसंदधाति चेदुत्तरोत्तरानुभवकामानामन्यसूरीणां परसमृद्ध्यैकप्रयोजनं मंगलाशासनं सदाऽभावात् कस्यांचिद्दशायां मृग्यमित्यर्थः । तद्वैलक्षण्यदर्शनानंतरं तदनुभवपरत्वं विनाऽस्थाने भयशंकां कृत्वा बहुशरदो गायतः प्रेमस्वभावस्यास्यैतन्मंगलाशासनं सर्वकालवर्ति भवतीत्यर्थः ।
टीका हिन्द्या
उन को यह कादाचित्क है इनको यह नित्य है ॥ २६६ ॥ उन की अपेक्षा इन में आधिक्य क्या इस शंका में कहते हैं-उन को इत्यादि । अज्ञाननिवृत्तिमत्यानंदप्राप्ति बराबर होने पर भी वज्र को भी गलानेवाले पुरुष को स्त्रीबनानेवाले भगवद्विग्रहसौंदर्य का अनुसंधान करनेपर उत्तरोत्तरअनुभवकामनावाले अन्यसूरियों को परसमृद्धि ही प्रयोजन है जिस को ऐसा यह मंगलाशासन सदा एक प्रकार न हो किसी एक दशा में ढूंढने योग्य है । उस के सौंदर्य को देखने के बाद तदनुभव को छोड अस्थाने भयशंका को कर बहुशरद् गान करने के प्रेमस्वभाव वाले भट्टनाथसूरि को यह मंगलाशासन सर्वकालवर्ती है ।
मूलम्
तेषां निमज्जनमेवास्योत्थानं भवति ॥ २६७ ॥
श्लोक
तेषां निमज्जनस्थानमस्योच्चस्थानमस्ति हि ॥ २६७ ॥
टीका संस्कृता
तत्र हेतुः क इत्यत आह-तेषामित्यादि । अनुभवपराणां तेषां दृष्टिचित्तापहारं कृत्वा निमज्जनस्थानं तत्सौंदर्यमेवास्य किंवा भविष्यतीति भीत्योत्तरोत्तरं रक्षां कृत्वा मंगलाशासनपरस्यास्य धृतिं प्राप्य स्थित्वा मंगलाशासनं कर्तुमुपयुक्तस्थलं भवतीत्यर्थः ।
टीका हिन्द्या
उनका अथाह ही इनको थाह है ॥ २६७ ॥ उसका हेतु क्या इस शंका में कहते हैं-उनका इत्यादि । अनुभवपर उन सूरियों के दृष्टि और चित्त को अपहार कर मग्न करनेवाले उन का सौंदर्य ही ‘उस को क्या होगा’ ऐसा भीत हो ऊपर ऊपर मंगलाशासनपर इस भट्टनाथसूरि को स्थिर रहने योग्य बनाता है ।
मूलम्
तेषामुभयशेषत्वं विनाश्य स्वरूपं निमज्जयत्तदस्योभयवृद्धिहेतुः सत्स्वरूपमुत्तारयति ॥ २६८ ॥
श्लोक
तेषामुभयशेषत्वं [[नश्यस्वं|नाश्य स्वं]] यन्निमज्जयत् । तदस्योभयशेषत्वहेतुः स्वं चोद्धरति हि ॥ २६८ ॥
टीका संस्कृता
तत् क्व दृष्टमित्यत आह-तेषामुभयशेषत्वमित्यादिना । भगवदनुभवैकपराणां तदलाभेनोत्कूलार्तिमतामन्येषां सूरीणां ‘कृष्णपुरस्वामिनो दासोऽन्यस्यार्हः किं’, ‘प्राप्तं त्वद्दासानां दासत्वम्’ इत्यनुसंधीयमानं प्रथममध्यमपदसिद्धं भगवच्छेषत्वं तत्काष्ठाभूतं भागवतशेषत्वं चेत्युभयशेषत्वं च ‘अस्माकमेवानंदश्चेद्’ इति वक्तुं योग्यान् कृत्वा स्वप्रवृत्तिरयुक्तेत्युक्तौ ‘युष्माभिः सहास्माकं संबंधो नास्ति’ इति यथा विधुन्वंति तथा कृत्वा ‘क्रूरपक्षगरुड’ इत्यादिना क्रोधवचसः कृत्वा विनाशयन् परातिशयकरत्वैकवेषरूपं स्वरूपं मंगलाशासनानभिज्ञं कृत्वा स्वविषये मग्नं कुर्वद्भगवत्सौंदर्यं, तादृशसौंदर्यदर्शनेऽनुभवेन मनसोऽगमनेन तस्य किं भविष्यतीत्युदरज्वलनेन रक्षतोऽस्य ‘वज्ररक्तचरणकांतेः श्रीरक्षा’, ‘लक्ष्म्या बहुशरदः’, ‘तेजोविशिष्टस्य चक्रस्य बहुशरदः’, ‘तत्पांचजन्यस्य च बहुशरदः’ इति तद्विषयस्य तदीयविषयस्य च मंगलाशासनं कारयित्वोभयशेषत्ववृद्धिहेतुः सत्स्वरूपं स्वविषये यथा मग्नं न भवेत् तथा वर्तयतीत्यर्थः । एवं तेषां तथा स्वरूपं निमज्जयत्तस्य सौंदर्यमस्यैवं करणात् तेषां निमज्जनस्थानस्यैवास्योत्थानतया स्थितत्वात्तेषामिव कादाचित्कत्वं विना मंगलाशासनमस्य नित्यं भवतीत्युक्तम् ।
टीका हिन्द्या
उन के उभयशेषत्व को नाश कर स्वरूप को डुवानेवाला यह सौंदर्य भट्टनाथसूरि के उभयशेषत्व को बढा कर स्वरूप को स्थिर करता है ॥ २६८ ॥ वह कैसा इस शंका में कहते हैं-उन के इत्यादि । भगवदनुभवैकपर अनुभवालाभ में अतिक्लेश पानेवाले अन्यसूरियों को ‘कृष्णपुरनायक का दास मैं अन्य के उपयुक्त नहीं ।’, ‘प्राप्त हुआ तुझारे दासों का कैंकर्य’ ऐसे प्रथममध्यमपदसिद्ध भगवत्शेषत्व और उस का सीमाभूत भागवतशेषत्वरूप उभयशेषत्व को ‘हम हीं को अच्छा होगा’ इस वचनानुसार स्वप्रयोजन में लगा विलंबरोष से ‘जाओ पूर्ण’, ‘फिर गोष्ठी में मत आओ’ ऐसा बना स्वप्रवृत्ति अनुचित होने पर भी ‘तुम से हमारा कोई संबंध नहीं’ ऐसा त्याग कराकर ‘क्रूर पांखवाला पक्षी’ इत्यादि से निन्दा कर नाश करनेवाला, परातिशयकरत्व ही स्वरूप है जिस का ऐसे स्वरूप को मंगलाशासन को न जाने जैसा अपने में मग्न करनेवाला भगवत्सौंदर्य, उस सौंदर्यानुभव में मन न लगा ‘उस को क्या होगा’ ऐसा उदरदाह से रक्षा करनेवाले इस भट्टनाथसूरि को ‘आप के रक्तचरण की कान्ति सुरक्षित रहे’, ‘लक्ष्मीजी सुरक्षित रहें’, ‘पांचजन्य सुरक्षित हो’ ऐसा तद्विषय और तदीयविषय को मंगलाशासन करानेवाले होनेसे उभयशेषत्ववृद्धि का हेतु हो स्वरूप को अपने में नहीं हुवावेगा । तथा च अन्यसूरियों के स्वरूप को डुवानेवाला उन का सौंदर्य भट्टनाथसूरि को किनारे रखने से अन्यसूरिंगण कदाचित् मंगलाशासन करते हैं यह नित्य मंगलाशासन करते हैं ।
मूलम्
भयनिवर्तकानां भयोत्पत्तिः, प्रतिकूलानां चानुकूलकरणं, अतीतकालापदानानामुत्तरकाले उदरज्वलनं, प्राप्तिफलमिदमेवेत्युक्तिः, अनिमिषान् प्रत्यपि ‘मा स्वपत मास्वपत’ इत्युक्तिरेवंप्रकारेणेदमेव यात्रा भवति ॥ २६९ ॥
श्लोक
भीतिनिवर्तकचक्रादिभयोत्पत्तिर्विपक्षगाम् । सपक्षीकरणं चातीतकालापत्तेस्तदुत्तरे ॥ काले हृज्ज्वलनं प्राप्तफलमिदमेवेति वाक्यतः । मा स्वपिहीति देवांश्च भूयोभूयः प्रकीर्तनात् ॥ २६९ ॥
टीका संस्कृता
अन्येषां सूरीणां मंगलाशासनस्य कादाचित्कत्वेऽपि, अस्य नित्यं भवतीत्यत्र निदानमेतदिति तद्दर्शयामास पूर्वम्, इदं तस्य नित्यतया वर्तत इत्यमुमर्थं व्यक्तमाह-भयनिवर्तकेत्यादिना । स्वसौकुमार्यं दृष्ट्वा कलुषितस्यास्य विषयस्य किं भविष्यतीति बिभ्यतोऽस्य भयं परिहर्तुं मल्लवर्गमनायासेन नाशयद्भुजबले प्रदर्शिते, एतद्भुजबलमेव स्मृत्वाऽगणयित्वाऽसुरराक्षसयुद्धे प्रविशति चेत् किं भविष्यतीति तस्य भयेन मंगलाशासनकरणं, ‘विद्यमानामंगलानां निवृत्त्यर्थमविद्यमानमंगलोत्पत्त्यर्थं च यस्याः कटाक्ष एवालं सा ‘विश्लेष्टुं न शक्तास्मि क्षणमपि’ इत्यस्मद्विश्लेषमसहमाना तिष्ठति, अस्माकममंगलानि कथं स्युः ? किमर्थं विभेषि’ इति लक्ष्मीसंबंधं प्रदर्शयति, अस्य मिथुनस्यावद्यं भवति चेत् किं कर्तव्यमिति भीत्या ‘लक्ष्म्या अपि बहुशरदः’ इति मंगलाशासनकरणं, एतद्भयं निवर्तयितुं ‘अस्य मिथुनस्य किंचिदप्यवद्यं यथा न स्यात्तथा प्राकारवत्स्थिताविमौ पश्य’ इत्युभयपार्श्वेऽपि धृतौ सुदर्शनपांचजन्यौ प्रदर्शयति, तयोरवद्यं भवति चेत्किं कर्तव्यमिति भयेन तयोर्मंगलाशासनकरणं; अनन्यप्रयोजनतयाऽनुकूलान् भगवच्चरणार्थिनो मंगलाशासनसहायतया मेलयित्वा तावता [[पर्यात्यभावात्|पर्याप्त्यभावात्]] प्रयोजनांतरपरतया प्रतिकूलान् केवलैश्वर्यार्थिनश्चाहूय मंगलाशासनयोग्यतया तेषामनुकूलकरणं; ‘लंका निर्जना यथा स्यात्तथा युद्धं कृतवतो मंगलाशासनं कुरुत’ इत्यादिनाऽतीतकालापदानानां पश्चात्काले समकाल इवोदरज्वलनेन मंगलाशासनकरणं; ‘परितः स्थित्वा स्तुवंति बहुशरदः’ इति भगवत्प्राप्तेः फलमेतन्मंगलाशासनमेवेत्युक्तिः, ‘स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैः’ इत्युक्तप्रकारेणास्थाने रक्षाव्यसनित्वाद् अनिमिषतया स्थितान् दिव्यायुधादिदिव्यसूरीन् दृष्ट्वा गुणविद्धा विषपानकृता इव स्वस्वानभिज्ञत्वमनुभवेऽवगाहनं कैंकर्यपरत्वं वा माकुरुत जाग्रतो रक्षतेति बहुकालं च कथनात् मंगलाशासनमेव वृत्तिरित्यर्थः !
टीका हिन्द्या
भयनिवर्तकों को भय करना प्रतिकूलों को भी अनुकूल बना लेना अतीतकालीन चेष्टितों को उत्तरकाल में क्लेश पाना प्राप्ति का फल यही कहना, देवताओं को जागरूक कहना इत्यादि से यही यात्रा होना ॥ २६९ ॥ इन का नित्य होने का कारण क्या इस शंका में कहते हैं-भयनिवर्तक को इत्यादि । अपने परमात्मा के सौकुमार्य को देख व्याकुल हो ‘इस में क्या होगा’ ऐसा उदरदाहवाले इन के भय को दूर करने के लिये मल्लों को अनायास से संहार करनेवाले भुजा के बल को दिखाने पर इस भुजबल को आश्रय ले गर्वित हो असुरराक्षसयुद्ध में प्रवेश करेंगे तो क्या होगा ऐसा उस भुजबल के लिये मंगलाशासन करना । अमंगल दूर हो मंगलहोने के लिये जिस का कटाक्ष ही कारण है ऐसी लक्ष्मी क्षणकाल भी विश्लेष न कर हमारे पास रहने पर हमारा अमंगल होगा क्या क्यों क्लेश पावे हो ऐसा कह लक्ष्मी के संबंध को दिखाने पर इस मिथुन को कोई बुराई हो तो क्या होगा ऐसा डर ‘लक्ष्मीजी सुरक्षित रहें’ ऐसा मंगलाशासन करना । इस भय को दूर करने के लिये इस मिथुन के कोई बुराई न होने के लिये प्राकार के तरह रहनेवाले शंखचक्र को दिखाने पर उन को कोई आपद् होगी तो क्या करना ऐसा डर ‘सुदर्शन सुरक्षित हो’, ‘पांचजन्य सुरक्षित हो’ ऐसा मंगलाशासन करना । अनन्यप्रयोजन अनुकूल भगवच्छरणागतों को मंगलाशासन की सहायकतया मिलालेने मात्र से तृप्त न हो प्रयोजनांतरपर प्रतिकूलभूत केवलैश्वर्यार्थियों को भी शोधन कर मंगलाशासन करने योग्य अनुकूल बना लेना । ‘लंका को जनशून्य करनेवाले श्रीरामजी का मंगल कहेंगे’ इत्यादि से अतीतकालचेष्टितों को अनंतरकाल में समकाल के तरह उदरदाह से मंगलाशासन करना । ‘घेर कर मंगलाशासन करेंगे’ ऐसा भगवत्प्राप्ति का फल मंगलाशासन ही कहना, ‘स्नेह से अस्थान में रक्षाकरने में आसक्त धनुष, चक्र, खड्ग आदिओं से भयरहित’ इस वचनानुसार अस्थानरक्षाव्यसनी पलक न मारनेवाले दिव्यायुधसूरियों को देख गुणविद्ध हो विषभक्षण करनेवाले के तरह ‘तुझारे स्वरूप को भूलना अनुभव में लग कैंकर्यपर होना मत करो सावधान से रक्षा करो’ ऐसा बहुवार कहना । इस प्रकार यह मंगलाशासन ही इन की वृत्ति समझना ।
मूलम्
एवं मंगलाशासनस्याधिकारिमार्गणेन प्रतिकूलानामनुकूलत्वापादने हेतुरुपदेशः (तिरुप्पल्लांडु) श्रीबहुशरदः इत्येकस्मिन्नेव प्रबंधे खलु वर्तते, उपर्येतदुपदेशस्थलेष्वन्येषामुपदेशाद्व्यावृत्तिः केति शंकायामाह-इतरवदित्यादिना ।
मूलम्
इतरवच्छृण्वतामुपदिशतां वाऽसहायतानिवृत्त्यर्थं न भवति, ‘दासाश्च न संति’ इति तस्यासहायतानिवृत्यर्थं भाष्यकारोऽयं चोपदिशतः ॥ २७० ॥
श्लोक
श्रोतॄणां वक्तृणां चैवासहायत्वनिवृत्तये । इतराचार्यवन्नास्ति दासः [[केचाधिकारिणः|क्वचिदधिकारिणः]] । इति तस्यासहायत्वनिवृत्त्यै भाष्यकारकः । उपादिशत्तथा चायं विष्णुचित्तो महामुनिः ॥ २७० ॥
टीका संस्कृता
परोपदेशसमयेऽन्ये सूरय इवाचार्या इव चोपदेश्यार्थस्य संसारिणामनाद्यज्ञानेन सत्सहायभूतभगवद्विषयाप्राप्त्यागतामसहायतां वक्तॄणां स्वेषां भगवद्गुणानुसंधानदशायां बोधयितुं परस्परं कर्तुं कीर्तनसहायाभावादागतामसहायतां च निवर्तयितुमुपदेशं न कुरुतः, अपि तु सौकुमार्यानुसंधानेनोदरदाहेन दिव्यसूरिणाऽन्वेषणे कृते सर्वेषामन्यपरत्वदर्शनात् उभयविभूतावप्यधिकारी नास्ति स्ववैलक्षण्यं ज्ञात्वा स्नेहेन रक्षितुं कोऽपि नास्तीति वक्तुं योग्यतया स्थितां निरतिशयसौकुमार्ययुक्तस्य सर्वेश्वरस्यासहायतां निवर्तयितुं मंगलाशासनस्यैतेऽधिकारिणः स्युरित्येतत्प्रयोजनार्थं हि प्रामाणिकेष्वाचार्येषु भाष्यकारोऽज्ञाननिवृत्तिपूर्वकमानंदरूपापन्नज्ञानं प्राप्तेष्वयं चोप दिशत इत्यर्थः । तस्मादयं सूरिर्यत्र प्रतिकूलानामप्यनुकूलार्थमुपदिशति तत्र सर्वत्र मंगलाशासनार्थमिति न विरोध इति भावः । [[अस्मन्नाथ|रामानुज]] इत्यनुक्त्वा भाष्यकार इत्युक्तिः श्रीभाष्यमुखेन वेदांततात्पर्यनिर्णयं कृतवानिति वैभवभानार्था ।
टीका हिन्द्या
अन्य सूरियों के तरह सुननेवाले और कहनेवाले के असहायता को दूर करना छोड़ ‘रक्षक नहीं हैं’ इस वचनानुसार स्वामी की असहायता को दूर करने के लिये भाष्यकार और भट्टनाथसूरि का उपदेश है ॥ २७० ॥ इस प्रकार मंगलाशासन के लिये सहायान्वेषण कर प्रतिकूलों को अनुकूल करने के लिये क्रियमाण उपदेश श्रीबहुशरदप्रबंध एकही में है । अनंतर के इन के उपदिष्टप्रबंध में अन्य उपदिष्ट प्रबंधों से विशेष क्या इस शंका में कहते हैं-अन्य इत्यादि । परोपदेश के विषय में अन्यसूरि और आचार्यों के तरह उपदिश्यमान अर्थ को सुननेवाले संसारियों का अनादि अज्ञान से सहायभूत भगवद्विषय को छोड संचार करने से आई हुई असहायता और वक्ता अपनों के भगवद्गुणानुसंधानदशा में परस्पर बोधन करने के लिये सहाय रहित होने से आई हुई असहायता इन दोनों को दूर करना ही प्रयोजन है । ऐसा न हो सौकुमार्य के अनुसंधान से विद्ध हुए भट्टनाथसूरि सर्वत्र ढूंढने पर सब लोगों को अन्यपर देख ‘उभयविभूति में भी रक्षा करने के लिये मनुष्य नहीं हैं, अपना वैलक्षण्य जान रक्षा करने के लिये एक भृत्य को भी स्वीकार नहीं किया’ ऐसा कहने योग्य अधिकसौकुमार्ययुक्त सर्वेश्वर की असहायता दूर होने के लिये मंगलाशासन करने को ये सब लोग उपयुक्त हो ऐसा । यही प्रयोजन समझ प्रामाणिकपूर्वाचार्यों में श्रीभाष्यकार, अज्ञाननिवृत्तिमत्यानंद प्राप्त हुए में यह भट्टनाथसूरि, ये दोनों उपदेश करते हैं । इस लिये यह सूरि प्रतिकूलों को अनुकूल होने के लिये उपदेश करने के समस्त स्थल श्री मंगलाशासन के लिये हैं ऐसा कहने में विरोध नहीं । रामानुज नहीं कह भाष्यकार कहने का तात्पर्य-श्रीभाष्यद्वारा वेदान्ततात्पर्य का निर्णय कर कहने वाले ऐसा भान होने के लिये ।
मूलम्
अन्येषां सत्तासमृद्धी दर्शनानुभवकैंकर्यैः, अस्य मंगलाशासनेन ॥ २७१ ॥
श्लोक
अन्येषां सत्त्ववृद्धिः स्याद्दर्शनानुभवादिना । अस्य तु योगिवर्यस्य मंगलाशासनेन हि ॥ २७१ ॥
टीका संस्कृता
अज्ञाननिवृत्तिपूर्वकं ज्ञानानंदं प्राप्तानां सत्तासमृद्धी भगवद्दर्शनानुभवकैंकर्यैः खलु भासेते, स आकारोऽस्यापि समानो न भवति किम् ? तदानीं मंगलाशासनमेव यात्रेति कथं संगच्छते इति शंकायामाह-अन्येषा मित्यादि । अत्र सत्ता नाम-स्वसद्भावः । इयं भगवद्दर्शनानुभवकैंकर्यकामानामन्येषां सूरीणां तद्दर्शनाभावे धारणासामर्थ्येन ‘दर्शनायागच्छ’ इत्याह्वानकरणात् तद्दर्शनेन भवति । ‘तदात्मनाशात्पूर्वं तद्वीथ्यामेकस्मिन् दिने कृपासमुद्रं गरुडं संचारयेत्’, ‘अस्मत्सत्तास्थित्यर्थं जालकरंध्रेण वा यथैकवारं पश्यामस्तथाऽस्मद्वीथ्यामेकस्मिन् दिने गमनमलमिति वदेत्’ इत्युक्तत्वाद्दर्शनं सत्ताहेतुरिति सिद्धं खलु । समृद्धिर्नाम-सत्तामात्रं विनोपर्युपरि जायमाना ऋद्धिः । सा तेषां ‘सुंदरधामप्रीतिः’, ‘किरीटज्योतिः’ प्रभृतिष्विव जायमानानुभवेन ‘विच्छेदशून्यकाल’ प्रकारेण क्रियमाणकैंकर्येण च भवति । अथवा दर्शनानुभवाभ्यामुभाभ्यां सत्ता, कैंकर्येण समृद्धिः । यद्वा ‘तादृशसत्ता प्रावण्यकार्यानुभवाभावे नश्यति’ इत्यनेन स्वयमेवोक्तत्वात् ‘श्वो विनियोगं कुर्यामित्युक्तौ रोदितुमपि सत्ता नास्ति’ इति कैंकर्यं सत्ताहेतुरित्यनुसंधाने उक्तत्वात्, ‘दृष्ट्वा तृप्तो भवितुम्’ इति दर्शनं समृद्धिहेतुरित्युक्तत्वात् सत्तायाः समृद्धेश्व त्रयमपि कारणं स्यात् । अज्ञाननिवृत्तिपूर्वकं ज्ञानानंदस्य प्राप्तिदिनमारभ्य भगवत्सौकुमार्यादिकं दृष्ट्वाऽस्य किं भविष्यतीति उदरदाहेन मंगलाशासनाभिनिविष्टस्यास्य मंगलाशासनविच्छेदे सद्भावासंभवात्, तथाऽविच्छिन्नतया क्रियमाणस्य तस्यैव समृद्धिहेतुत्वात् सत्तासमृद्धी उभे अपि मंगलाशासनेन भवतः । तस्मादस्य मंगलाशासनस्य नित्यत्वे न विरोध इति भावः ।
टीका हिन्द्या
अन्यसूरियों की सत्ता और समृद्धि दर्शनानुभवकैंकर्यों से है, इन को मंगलाशासन से है ॥ २७१ ॥ अज्ञाननिवृत्तिपूर्वक [[ज्ञानानंद]] को प्राप्त होनेवालों की सत्ता और समृद्धि भगवत्दर्शनानुभवकैंकर्यों से ही है तो इन को भी वही आकार होना चाहिये तब मंगलाशासन ही यात्रा है ऐसा कहना उचित है क्या इस शंका में कहते हैं-अन्यसूरियों की इत्यादि । सत्ता और समृद्धि भगवद्दर्शनानुभवकैंकर्यैच्छुक अन्यसूरियों को स्वामी के देखने पर धारण अशक्य हो ‘देखने को आओ’ ऐसा पुकारने से उन के दर्शन से सत्ता होती है । ‘उन के प्राण निकलने के पहले उन की वीथी में एकदिन कृपापूर्ण गरुडजी को चलाओ’, ‘ऐसा हमारी सत्ता रहनेके लिये खिडकी के रंध्र से तो भी एकवार देखने के लिये हमारी वीथी में एकदिन पधारना उचित है’ ऐसा कहने से दर्शन ही सत्ताहेतु है ऐसा सिद्ध हुआ है । समृद्धि माने-ऊपर ऊपर आनंदवृद्धि । यह उन को “सुंदरधाम में प्रीति”, “किरीटज्योति” प्रभृति दशकों में हुए अनुभव से और “विच्छेदरहितकाल” दशक में क्रियमाण कैंकर्य से भी समृद्ध होती है । ऐसा न हो वह सत्ता प्रावण्यकार्यअनुभव न होने पर नष्ट होगी ऐसा यही पहिले कहे हैं । ‘कल विनियोग करलेऊंगा’ ऐसा कहने पर रोने को भी सत्ता नहीं रहेगी इसलिये कैंकर्यसत्ताहेतुतया अनुसंधाननामक ग्रंथ में कहने से, ‘देखकर संतुष्ट होने को’ ऐसा दर्शन ही समृद्धिहेतुतया भान होनेसे भी सत्ता और समृद्धि के ये तीनों कारण होते हैं । जबसे अज्ञाननिवृत्तिर्मत्यानंद को प्राप्त हुए तब से भगवत्सौकुमार्यादियों को देख ‘इन को क्या होगा’ ऐसी उदरपीडा से मंगलाशासन में प्रवृत्त होनेवाले इन की मंगलाशासन का विच्छेद होनेपर सत्ता नष्ट होती है, तैसा अविच्छिन्न चलने से समृद्धि होती है इसलिये सत्ता और समृद्धि दोनों मंगलाशासन से ही होती है । तथा च मंगलाशासन में भट्टनाथसूरि की नित्यनिष्ठा को दिखाये हैं ।
मूलम्
अनन्तरमेतन्मंगलाशासने विष्णुचित्तस्य विद्यमानामनवरतनिष्ठां प्रादर्शयत् । अथास्य यात्रैवास्माकं सर्वेषां यात्रा स्यादिति ‘अभिमतस्थलेष्वादरातिशयः मंगलाशासनं चे’ ति पूर्वं दिनचर्यायामुक्तस्य मंगलाशासनस्यावश्यकर्तव्यतामाह-अभिमतस्थलानीत्यादिना ।
मूलम्
अभिमतस्थलान्यनुसंहितानि चेदस्य यात्रैवास्माकं सर्वेषां यात्रा स्यात् ॥ २७२ ॥
श्लोक
अभिमतस्थले ध्याते ह्यस्य यात्रैव सर्वथा । अस्माकं सर्वजंतूनां यात्रा भवति शाश्वती ॥ २७२ ॥
टीका संस्कृता
अत्यंतसुकुमारस्य सर्वेश्वरस्याश्रितसुलभत्वार्थं स्वमादायाविर्भूय ‘स्वाभिमतग्रामः’ इत्युक्तप्रकारेणात्यादरेण वर्तमानस्थानभूताः श्रीरंगवेंकटप्रभृतिदिव्यदेशा अनुसंहिताश्चेदपायबहुलदेशत्वादत्र स्थितेः किंचिदवद्यं भवति चेत् किं स्यादित्युदरदाहेनाहारनिद्रादिकं विना निरतिशयप्रेमयुक्तस्यैतत्सूरेर्निरंतरमंगलाशासनयात्रैवं शेषभूतानामस्माकं सर्वेषां यात्रा स्यादित्यर्थः ।
टीका हिन्द्या
दिव्यदेशों को अनुसंधान करने पर भोजन और निद्रा को छोड इन की यात्रा ही हम सब को चाहियें ॥ २७२ ॥ अनन्तरमेतन्मंगलाशासने विष्णुचित्तस्य विद्यमानामनवरतनिष्ठां प्रादर्शयत् । अथास्य यात्रैवास्माकं सर्वेषां यात्रा स्यादिति ‘दिव्यदेशों में अधिक आदर और मंगलाशासन’ इति पूर्वदिनचर्या में कहा हुआ मंगलाशासन की अवश्यकर्तव्यता को कहते हैं-दिव्यदेशों को इत्यादि । अत्यंत सुकुमार सर्वेश्वर आश्रितों को सुलभ होने के लिये अपने को सजाकर अत्यादरपूर्वक विराजने के श्रीरंग वेंकटगिरिप्रभृति दिव्यदेशों को अनुसंधान किये तो अपायबहुल इस देश में विराजने की स्थिति को कोई बुराई होय तो क्या किया जाय ऐसा उदरदाह से आहारनिद्राओं में संबंध छोड अधिकप्रेमयुक्त भट्टनाथसूरि की मंगलाशासनयात्रा ही शेषभूत हम सब को यात्रा होनी चाहिये ।
मूलम्
उक्तार्थं निगमयति-तस्मादित्यादिना ।
मूलम्
तस्मान्मंगलाशासनं स्वरूपानुरूपम् ॥ २७३ ॥
श्लोक
तस्माद्भगवतः सम्यङ् मंगलाशासनं कृतम् । स्वस्वरूपानुरूपं हि जायते नात्र संशयः ॥ २७३ ॥
टीका संस्कृता
एवं शेषभूतानां सर्वेषामवश्यकर्तव्यत्वान्मंगलाशासनं स्वरूपस्यानुरूपमित्यर्थः । शेषवस्तु चेच्छेषिणोऽतिशयवर्धनं स्वरूपसिद्धिरिति, तस्माच्छेष्यतिशयाशासनं शेषभूतस्यास्य स्वरूपानुगुणं खलु ।
टीका हिन्द्या
इसलिये मंगलाशासन स्वरूप के अनुरूप है ॥ २७३ ॥ उक्तार्थ को समाप्त करते हैं-इस लिये इत्यादि । इस प्रकार शेषभूत सब को अवश्यकर्तव्य होने से मंगलाशासन स्वरूप के अनुरूप है । शेषवस्तु का स्वरूप शेषी का अतिशय करने से ही प्रकाशता है इससे शेषी का मंगलाशासन करना स्वरूपानुरूप ही है ।
मूलम्
एवं दिनचर्यायामुक्तस्य मंगलाशासनस्य स्वरूपविरुद्धत्वशंकापरिहारानंतरमनुकूलसहवास इत्युक्तत्वादनुकूलानां लक्षणमाह-अनुकूला इत्यादिना ।
मूलम्
अनुकूला ज्ञानभक्तिवैराग्याणि प्रवेश्य निष्कासिता इवाकारे ज्ञातुं योग्याः परमार्ताः ॥ २७४ ॥
श्लोक
ज्ञानभक्तिविरक्तीनां क्षिप्त्वा निष्कासनं यथा । तथाऽऽकारेण ज्ञेया हि परमार्ताऽनुकूलकाः ॥ २७४ ॥
टीका संस्कृता
अनुकूला इति-ज्ञानादिवर्धकत्वात् सहवासयोग्यत्वेन पूर्वोक्ता अनुकूलाः । ज्ञानभक्तिवैराग्याणि नाम-तत्त्वयाथात्म्यज्ञानं तदेकविषया भक्तिस्तदुभयकार्यं भगवद्व्यतिरिक्तविषयविरक्तिः । एतानि वैष्णवालंकाराः खलु । एतैरेव हि वैष्णवानामाधिक्यमुच्यते । अत एव नाथमुनिदिव्यवैभवं वदन्यामुनाचार्यः ‘अचिंत्याद्भुताक्लिष्टज्ञानवैराग्यराशये, अगाधभगवद्भक्तिसिंधवे’ इत्यवोचत् । प्रवेश्य निष्कासिता इवेति-एकपदार्थपात्रे पदार्थांतरं प्रवेश्य पूर्वस्थितस्य निष्कासने कृते तत्र वर्तमानतया भासते । तथैतज्ज्ञानादित्रयस्यैकाश्रयत्वेऽप्येतेष्वेकैकमेव दृष्टं चेत् प्रवेश्यान्यस्य निष्कासनवदिदमेवास्मिन्नाश्रये वर्तत इति भासमानत्वम् । आकारे ज्ञातुं योग्यत्वं नाम-एतेषामाकारदर्शन एवैतैरेतेषां विद्यमानसंबंधस्य ग्रहणयोग्यत्वम् । त्याज्योपादेयविवेकपूर्वकं [[परिपाकेन|प्रवृत्तेन]] ज्ञानमाकारे ज्ञातुं योग्यम् । ‘आह्लादशीतनेत्रांबुः’ इत्यादिप्रकारेण स्थितत्वाद्भक्तिश्चाकारे ज्ञातुं योग्या । इतरविषयानुपेक्ष्य वर्तमानत्वाद् वैराग्यमाकारे ज्ञातुं योग्यम् । अथवा ज्ञानभक्तिवैराग्याणां त्रयाणामपि नवनवोन्मेषशालित्वादपूर्वज्ञानादिकं प्रवेश्य पूर्वेषां निष्कासनवत् स्वाकारे तानि ज्ञातुं योग्यानि यथा तथा परमार्थार्त्ता इत्यर्थः । परमार्त्ता इति-संसारे स्थितत्वाद्भगवद्विषयाप्राप्तेश्चार्त्या एतदुपरि नास्तीति वक्तुं योग्याऽऽर्तिविशिष्टा इत्यर्थः ।
टीका हिन्द्या
अनुकूल माने-ज्ञानभक्तिवैराग्य प्रवेशकर बाहर निकाले हुवे आकार से जानने योग्य परमार्त ॥ २७४ ॥ इसप्रकार दिनचर्या में उक्त मंगलाशासन का स्वरूपविरुद्धत्वशंका को दूर कर ‘अनुकूलसहवास’ इस स्थल में कहा हुआ अनुकूलों के लक्षण को कहते हैं-अनुकूल इत्यादि । तत्त्वयाथात्म्यज्ञान भगवदेकविषयभक्ति और इन दोनों से होनेवाली भगवदन्यविषयविरक्ति ये तीनों वैष्णव के अलंकार हैं । इन से ही वैष्णवों को श्रेष्ठ मानते हैं । इस से ही नाथमुनि के दिव्यवैभव को कहते हुए यामुनाचार्य ‘अचिंत्य अद्भुत अक्लिष्ट ज्ञानवैराग्यों के राशि, अगाध भगवद्भक्ति के समुद्र’ ऐसा कहें हैं । आकार से जाननेयोग्य माने-इन के आकार को देखते ही ज्ञानभक्ति और वैराग्य इन में वास करते हैं ऐसा जानसक्ते हैं । त्याज्योपादेयविवेकपूर्वक चलने से ज्ञान जाना जाता है । ‘आह्लाद से शीतल नेत्र के जल’, ‘पांव स्तब्ध होता है, नेत्र का जल ठहरता नहीं’ इत्यादि से भक्ति आकार से जानी जाती है, इतर विषयों की उपेक्षा करने से वैराग्य आकार से जाना जाता है । परमार्त माने-संसार में असाता, भगवद्विषय की अप्राप्ति इन दोनों से अत्यधिक आर्तिवाले ।
मूलम्
एतेषां सहवासेन किं सिद्ध्यतीत्यत आह-एकस्मिन् केदार इत्यादि ।
मूलम्
एकस्मिन् केदारे जलपूर्णे स्थिते समीपकेदारो यथा आर्द्रो भवति तथैतद्रहितानामप्येतेषां संबंधेन ग्लानिनिवृत्तिर्जायेत ॥ २७५ ॥
श्लोक
एकस्मिन् पूर्णकेदारे स्थिते तत्पार्श्वगो यथा । आर्द्रो भवति केदारस्तथा तद्रहिता अपि । एतत्पूर्णैः संबंधान्मलमुक्ता भवंति हि ॥ २७५ ॥
टीका संस्कृता
एकस्मिन् केदारे जलपूर्णे स्थिते सति जलाभावेन म्लान आसन्नकेदारस्तदासत्त्यागतस्रवणेन निवृत्तम्लानिर्जायते तथा ज्ञानभक्तिवैराग्याभावाद्येषां स्वरूपं म्लानं वर्तते तेषामेतैः परिपूर्णानामेतेषां सहवासरूपसंबंधेनैतेषु किंचिदन्वयेन साक्षादेतदन्वयाभावप्रयुक्तम्लानिर्निवर्तेतेत्यर्थः ।
टीका हिन्द्या
एक खेत जल से पूर्ण हो तो पास का खेत जैसे गीला दीखता है तैसा ज्ञानभक्ति और वैराग्यवाले न होने पर भी इन के संबंध से दुःखनिवृत्ति होती है ॥ २७५ ॥ इन के साथ सहवास से क्या फल मिलेगा इस शंका में कहते हैं-एक खेत इत्यादि । एक खेत में जल पूर्ण होने से जलरहित शुष्क पास का खेत उस के संबंध से जैसे आर्द्र हो प्रफुल्ल होता है तैसा ज्ञानभक्तिवैराग्याभाव से शुष्कस्वरूपवाले इन से परिपूर्णों के सहवासरूप संबंध से किंचित्ज्ञानभक्तिवैराग्यवाले हो आर्द्र होते हैं ।
मूलम्
एतत्सहवासेनैवं ग्लानिनिवृत्तिमात्रं किमित्यत एतदेव न किं त्वेते स्वभावविशेषाः प्राप्तेः पूर्वं पूर्णतया वर्द्धंत इत्याह-नदीजल इत्यादि ।
मूलम्
नदीजल आसन्ने यथा तदनुरूपलिंगानि जायंते तथा प्राप्तावासन्नायामेते स्वभावविशेषाः स्वत एव वर्द्धेरन् ॥ २७६ ॥
श्लोक
यथाऽऽसन्ने जले नद्यां शर्करारार्द्रादि दृश्यते । प्राप्तौ सन्निकटे तद्वद्वर्द्धेरन् स्वत एव ते ॥ २७६ ॥
टीका संस्कृता
जलशून्यायां नद्यां जलागमनप्रारंभे तत्सूचकानि वालुकार्द्रताप्रभृतिलिंगानि यथा भवंति तथा भगवत्प्राप्तावासन्नायां तत्सूचका एते ज्ञानादिस्वभावविशेषाः स्वत एव वर्द्धेरन्नित्यर्थः ।
टीका हिन्द्या
नदी में प्रवाह आनेवाला हो तो उस का चिह्न जैसे दीखता है वैसे प्राप्ति होने पर ये स्वभावविशेष स्वयमेव उत्पन्न होयंगे ॥ २७६ ॥ इन के सहवास से आर्द्र होनेमात्र विना ये स्वभावविशेष प्राप्ति के पहिले पूर्णतया उत्पन्न होयंगे ऐसा कहते हैं-शुष्कनदी में प्रवाह आने के समय उस का सूचक चिह्न रेती गीला होना प्रभृति जैसे होता है तैसे भगवत्प्राप्ति समीप होने पर उस का सूचक ये ज्ञानादि स्वभाव स्वयमेव होते हैं ।
मूलम्
एतेष्वेवं वर्द्धमानेषु प्राप्तिरासन्नेति ज्ञायते किमित्यत आह-एतान्यादायेत्यादि ।
मूलम्
एतान्यादाय चरमशरीरमिति स्वेनैव निश्चेतुं शक्यम् ॥ २७७ ॥
श्लोक
एतल्लक्षणजातानि गृहीत्वा चरमं वपुः । इति स्वेनैव निश्चेतुं शक्यते नात्र संशयः ॥ २७७ ॥
टीका संस्कृता
एवमुपर्युपरि नवनवोन्मेषतया वर्धमानानि ज्ञानभक्तिवैराग्याण्यादायास्माकमितः परमेकशरीरपरिग्रहो नास्तीदं चरमशरीरमिति स्वेनैव निश्चेतुं शक्यत इत्यर्थः ।
टीका हिन्द्या
इन को देख चरमशरीर करके आप निश्चय कर सकता है ॥ २७७ ॥ ये होने पर थोडे ही काल में प्राप्ति होगी ऐसा जान सक्ते हैं क्या इस शंका में कहते हैं-इन को देख इत्यादि । इस प्रकार ऊपर ऊपर नवनवोन्मेषरूप से उत्पन्न होनेवाले ज्ञानभक्तिवैराग्य को देख इतः परं हम को एक शरीरपरिग्रह न होगा यही चरमशरीर है ऐसा अपने मन में निश्चय कर सकता है ।
मूलम्
एवं यथा दिनचर्यायामुक्तानामनुकूलानां लक्षणं तत्सहवासफलं चोक्त्वा तदनंतरं सहवासनिवृत्तिविषयतयोक्ताः प्रतिकूला एते इत्याह-प्रतिकूला भवंति इत्यादिना ।
मूलम्
प्रतिकूला भवंति देहात्माभिमानिनः, स्वतंत्रा, अन्यशेषभूता, उपायांतरनिष्ठाः, स्वप्रयोजनपराः ॥ २७८ ॥
श्लोक
प्रतिकूला भवत्येते वपुरात्माभिमानिनः । स्वतंत्रा अन्यशेषाश्च साधनांतरतत्पराः । स्वप्रयोजननिष्ठाश्च पंचैते भुवि मानवाः ॥ २७८ ॥
टीका संस्कृता
प्रतिकूला भवतीति-ज्ञानादिनाशकत्वेन सहवासयोग्या न भवतीति पूर्वोक्ताः प्रतिकूला इत्यर्थः । देहात्माभिमानिन इत्यादि-देहात्माभिमानिनः-दृश्यमानदेहातिरिक्तात्माऽस्तीति ज्ञानाभावाद् देहेऽहंबुद्धिं कृत्वाऽयमेवात्मेत्यभिमानवंतः । स्वतंत्रा नाम-देहातिरिक्तात्मवस्तु जानंतोऽपि तत्स्वतंत्रमिति स्मृत्वा कुत्रापि विषये शेषत्वानभ्युपगंतारः । अन्यशेषभूता नाम-शेषत्वांगीकारेऽप्यप्राप्तविषयेषु विनियोक्तारः । उपायांतरनिष्ठाः-प्राप्तशेषिविषयशेषत्वविशिष्टा अपि तत्प्राप्त्युपायस्तच्चरणारविंदशरणागतिरिति स्थितिमंतरा कर्माद्युपायमवलंब्य वर्तमानाः । स्वप्रयोजनपराः-प्राप्तशेषिचरणकमलावुपायत्वेनाध्यवस्य स्थिता अपि स्वकृताश्रयणमेवोपायत्वेन निश्चित्योपेयं कैंकर्यं स्वभोग्यत्वेन च निश्चित्य वर्तमानाः । एवं वर्तमानाः प्रणवे तृतीयाक्षरेणात्मवस्तुनो देहातिरिक्ततां, प्रथमाक्षरे चतुर्थ्या भगवच्छेषत्वं, मध्यमाक्षरेण तदनन्यशेषत्वं, मध्यमपदेनानन्यशरणत्वं, चरमपदेनानन्यभोग्यत्वं च दृष्टवतामधिकारिणां प्रतिकूलाः खलु ।
टीका हिन्द्या
प्रतिकूल माने-देहात्माभिमानी, स्वतंत्र, अन्यशेषभूत, उपायांतरनिष्ठ और स्वप्रयोजनपर हैं ॥ २७८ ॥ तथा च सहवासविषयतया दिनचर्या में कहा हुआ अनुकूलों के लक्षण और उन के सहवासफल को भी कह तदनंतर सहवासनिवृत्तिविषयतया कहे हुए प्रतिकूलों को कहते हैं-प्रतिकूल इत्यादि । प्रतिकूल माने-ज्ञानादिनाशक होनेसे सहवास करनेके योग्य नहीं । देहात्माभिमानी माने-दीखनेवाले देह से अन्य एक आत्मा है ऐसा न जान देह में अहंकार कर देह ही को आत्मा समझनेवाले । स्वतंत्र माने-देहातिरिक्तआत्मवस्तु को जान कर भी उस आत्मा को स्वतंत्र जान किसी का शेष नहीं माननेवाले । अन्यशेषभूत माने-शेषत्व को मान कर भी उसे अप्राप्तविषय में विनियोग करनेवाले । उपायांतरनिष्ठ माने-प्राप्तशेषी सर्वेश्वर के शेषभूत होनेपर भी उस की प्राप्ति का उपाय उस के चरणारविंद की शरणागति न समझ कर्मादि उपायों की आश्रयण करनेवाले । स्वप्रयोजनपर माने-प्राप्तशेषी के चरणारविंद को उपायतया स्वीकार करनेपर भी शरणागति को उपाय मान उपेयभूत कैंकर्य को अपना भोग्य माननेवाले, इस प्रकार रहनेवाले प्रणव में तृतीयाक्षर में आत्मा की देहभिन्नता, प्रथमाक्षर में चतुर्थी से भगवत्शेषत्व, मध्यमाक्षर से अनन्यशेषत्व, मध्यमपद से अनन्यशरणत्व, चरमपद से अनन्यभोग्यत्व-इन सब को अनुष्ठानपर्यंत जान कर रहनेवाले अधिकारी को प्रतिकूल ही हैं ।
मूलम्
एतेषामुद्देश्या उपाया उपेयाश्च भिन्नभिन्नाः ॥ २७९ ॥
श्लोक
उद्देश्योपायसाध्यानि संत्येतेषां पृथक्पृथक् ॥ २७९ ॥
टीका संस्कृता
एतत्प्रातिकूल्यमुपपादयितुमेतेषां विप्रतिपत्तिनिबंधनामुद्देश्यादिभेदानाह-एतेषामित्यादिना । उद्देश्या-आदरणीयाः । ते चात्र स्वाभिमतप्रदाः । उपायाः-स्वाभिमतपुरुषार्थसाधनानि । उपेयानि-स्वाभिमतपुरुषार्थाः । भिन्नभिन्ना इति-तत्तद्विप्रतिपत्त्यनुगुणं पृथक्पृथगित्यर्थः ।
टीका हिन्द्या
इन का उद्देश्य, उपाय और उपेय भिन्न भिन्न हैं ॥ २७९ ॥ इस प्रातिकूल्य को उपपादन करने के लिये इन के विरुद्ध अभिप्राय के कारण उद्देश्यादिभेदों को कहते हैं-इन को इत्यादि । उद्देश्य-आदरणीय । वे स्वाभिमत को देनेवाले हैं । उपाय-अपने अभिमतपुरुषार्थ का साधन । उपेय-स्वाभिमतपुरुषार्थ । ये भिन्न भिन्न हैं माने-अपनी अपनी रुचि के अनुगुण भिन्न भिन्न हैं ।
मूलम्
देहात्माभिमानिनामुद्देश्या देहवर्धका मनुष्याः । उपायोऽर्थः । उपेयमैहिकभोगः । स्वतंत्राणामुद्देश्याः स्वर्गादिभोगप्रदाः । उपायः कर्मानुष्ठानम् । उपेयं स्वर्गादिभोगः । अन्यशेषभूतानामुद्देश्याः ब्रह्मरुद्रादयः । उपायस्तत्समाश्रयणम् । उपेयं तत्सायुज्यम् । उपायांतरनिष्ठानामुद्देश्यो देवतांतर्यामीश्वरः । उपायः कर्मज्ञानभक्तयः । उपेयं भगवदनुभवः । स्वप्रयोजनपराणामुद्देश्योऽर्चावतार ईश्वरः । उपायः स्वकृतमाश्रयणम् । उपेयं स्वार्थकैंकर्यम् ॥ २८० ॥
श्लोक
उपेयमैहिको भोगो उद्देश्या देहस्य वर्धकाः । उपायोऽर्थश्च विज्ञेयो वपुरात्माभिमानिनः ॥ स्वतन्त्राणामुपायस्तु कर्मानुष्ठानमुच्यते । स्वर्गादिरूपमुपेयं चोद्देश्याः स्वर्गादिभोगदाः ॥ अन्यस्य शेषभूतानामुद्देश्या रुद्रकादयः । तत्प्रपत्तिरुपायस्तत्सायुज्यं साध्यमुच्यते ॥ अन्योपायस्य चोद्देश्यो देवांतर्यामिमाधवः । हरेरनुभवः साध्यं कर्मज्ञानादि साधनम् ॥ उपेयं स्वार्थकैंकर्यमुपायो वरणं स्वतः । स्वप्रयोजननिष्ठानामर्चोद्देश्यो हरिः स्मृतः ॥ २८० ॥
टीका संस्कृता
अमुमर्थं क्रमेणोपपादयति-देहात्माभिमानिनामित्यादिना । देहमेवात्मत्वेनाभिमत्य स्थितानामुद्देश्या धारकपोषकभोग्यपदार्थान् दत्वा देहस्य सम्यग्वर्धका मनुष्याः । अभिमतसिद्धेरुपायः सुवर्णादिधनम् । अभिमतमुपेयमैहिकलोके विद्यमानस्त्र्यन्नपानादिविषयानुभवः । देहातिरिक्तात्माऽस्ति स च ज्ञातृत्वकर्तृत्वभोक्तृत्वयुक्त इत्येतावन्मात्रं शास्त्रमुखेन ज्ञात्वा स्वात्मानं स्वतंत्रं मत्वा वर्तमानानामुद्देश्या अनुष्ठितेभ्यः साधनेभ्यस्तत्तदनुगुणं स्वर्गाद्यामुष्मिकभोगप्रदा अग्नींद्रादिदेवताः । उपायो ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिभिरुक्तफलाभिसंधिसहितयागादिकर्मानुष्ठानम् । उपेयमैहिकभोगाद्विलक्षणस्वर्गाद्यनुभवः । जगद्दैवाधीनमिति शास्त्रेषु श्रुतत्वात् शेषत्वमंगीकृत्यापि परदेवतापर्यंततत्त्वज्ञानाभावादापातप्रतीतेषु प्रसिद्धेष्वेकमवलंब्य वर्तमानानामन्यशेषभूतानामुद्देश्या जगत्सर्गादिकर्तृतया प्रसिद्धा ब्रह्मरुद्रादयः । उपायो दुराराधनानां तेषां विषये क्रियमाणं दुष्करं समाश्रयणम् । उपेयं तैः समानभोग्यत्वरूपं सायुज्यम् । ‘सायुज्यमुभयोरत्र भोक्तव्यस्याविशिष्टता । सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ॥’ इत्युक्तम् । आत्मस्वरूपं भगवदनन्यार्हशेषमिति वेदांतमुखेन निश्चित्यापि अभिमतलाभस्य तस्यैवोपायत्वेन स्वीकरणानभिज्ञतयोपायांतरनिष्ठानामुद्देश्योऽग्नींद्रादिदेवतानामंतर्यामीश्वरः । इदं कर्मयोगस्य स्वरसं, ज्ञानयोगभक्तियोगयोरसाधारणविग्रहविषयत्वसत्वेऽपि कर्मानुष्ठानस्थलत्वेन जातत्वात् कर्माराध्य एव स्वासाधारणविग्रहविशिष्टवेषमस्माकं प्रकाशितवानित्यध्यवसायस्य सत्वात् देवतांतर्याम्युद्देश्य इत्युच्यत इत्यंगीकर्तव्यम् । उपायांतराणि प्रत्येकं मोक्षसाधनतया शास्त्रसिद्धाः कर्मज्ञानभक्तियोगाः । एतेषां प्रत्येकमुपायत्वे एकस्यान्यौ द्वावंगे भवतः । ‘ज्ञानभक्त्यन्वितं कर्म जनकादिषु दृश्यते । कर्मभक्त्यन्वितं ज्ञानं प्रायेण भरतादिषु । कर्मज्ञानान्विता भक्तिः प्रह्लादप्रमुखाश्रया ॥’ इत्युक्तं हि । अथवा कर्मज्ञानभक्तय इत्यत्र वेदांतमर्यादया कर्मज्ञानानुगृहीतभक्तिरेवोपायः, तदंगतया कर्मज्ञाने उपाया इत्युपचारेण वा योजनीयम् । उपेयं ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ इत्यादिश्रुतिभिः, ‘निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकांतात्यंतिकी मता ॥’ इत्यादिश्रुत्युपबृंहणैश्चोक्तो निरतिशयानंदरूपो भगवदनुभवः । अस्मिन् श्लोके भगवत्प्राप्तिरित्ययं भगवदनुभव इति ह्यस्मदाचार्यैः स्वप्रबंधेषूक्तः । कर्माद्युपायेषु दुष्करत्वबुद्ध्या तांस्त्यक्त्वा सुकरत्वबुद्ध्या प्रपत्तिं कुर्वतां स्वप्रयोजनपराणामुद्देश्यो ‘हृदयेन’ इत्यादिप्रकारेण आश्रिताः स्वहृदयेन यादृशं द्रव्यं स्वस्य विग्रहत्वेनाद्रियंते तदेव स्वस्य विग्रहत्वेनादृत्य तत्राप्राकृतविग्रहे क्रियमाणमादरं कुर्वन् अत्यंतसुलभतया स्थितोऽर्चावतारः सर्वेश्वरः । उपायोऽनिष्टनिवृत्तेरिष्टप्राप्तेश्च तमुपायत्वेनाध्यवस्य स्वकृतमाश्रयणम् । उपेयं स्वप्रीत्यर्थं क्रियमाणकैंकर्यम् ।
टीका हिन्द्या
देहात्माभिमानियों का उद्देश्य देहवर्धक मनुष्य । उपाय-अर्थ । उपेय-ऐहिकभोग । स्वतंत्रों का उद्देश्य-स्वर्गादिभोग को देनेवाले । उपाय-कर्मानुष्ठान । उपेय-स्वर्गादिभोग । अन्यशेषभूतों का उद्देश्य-ब्रह्मरुद्रादि । उपाय-उन के आश्रयण । उपेय-उन का सायुज्य । उपायांतरनिष्ठों का उद्देश्य-देवतांतर्यामी सर्वेश्वर । उपाय-कर्म, ज्ञान, भक्ति । उपेय-भगवदनुभव । स्वप्रयोजनपरों का उद्देश्य-अर्चावतार । उपाय-स्वगतस्वीकार । उपेय-स्वार्थकैंकर्य ॥ २८० ॥ उस को क्रम से विवरण करते हैं, देहात्माभिमानियों को इत्यादि । देह ही को आत्मा समझनेवालों का उद्देश्य धारकपोषकभोग्यपदार्थों से देह को सम्यक् बढानेवाले । अभिमतसिद्धि का उपाय-सुवर्णादि धन । अभिमतउपेय-इहलोक का स्त्री अन्न पानादि विषयानुभव । देहातिरिक्त आत्मा है यह ज्ञातृत्व, कर्तृत्व, भोक्तृत्वविशिष्ट है ऐसा शास्त्रद्वारा जान अपने को स्वतंत्र माननेवाली का उद्देश्य-अनुष्ठितसाधनअनुरूप स्वर्गादिभोगों को देनेवाले इन्द्रादि देवता हैं । उपाय-‘स्वर्गकामनावाले ज्योतिष्टोमयाग करें ।’ इत्यादि से कहे जानेवाले फलकामनासहित यागादिकर्मानुष्ठान । उपेय-ऐहिकभोग से विलक्षण स्वर्गादिअनुभव । जगत् दैव के अधीन है ऐसा शास्त्रों में सुनने से शेषत्व को मान कर भी उस को परदेवतापर्यंत न जाननेसे आपातप्रतीतिसिद्ध देवताओं में एक को आश्रयण कर रहनेवाले अन्यशेषभूतों का उद्देश्य जगत्सृष्टिसंहार करने से अपने को परसमझनेवाले ब्रह्मरुद्रादि । उपाय-दुःख से आराधना करने योग्य उन के विषय में क्रियमाण आश्रयण । उपेय-उन के समानभोगरूप-सायुज्य । ‘सायुज्य माने-दोनों का भोक्तव्य की समानता । [[साष्टिता|सार्ष्टिता]]-भोग्य की समानता’ ऐसा कहा है । आत्मस्वरूप भगवदनन्यार्हशेषभूत है ऐसा वेदांत द्वारा जान अभिमत लाभ के लिये ईश्वर को ही उपायतया स्वीकार न कर उपायांतरों को करनेवालों का उद्देश्य-अग्निइन्द्रादिदेवताओं का अंतर्यामि सर्वेश्वर । उपाय-अलग अलग मोक्षसाधनतया शास्त्रसिद्ध कर्मज्ञानभक्तियोग इन में प्रत्येक उपाय होनेपर बाकी दोनों उस का अंग होते हैं । ‘ज्ञानभक्ति सहित कर्मयोग जनकादियों में । कर्मभक्ति सहित ज्ञानयोग [[जड]]भरतादियों में । कर्मज्ञान सहित भक्तियोग प्रह्लादादियों में दीखता है ।’ यद्वा कर्मज्ञानभक्ति-वेदांतरीति से कर्मज्ञानसहित भक्ति ही उपाय है बाकी दोनों अंग होने से गौणतया उपाय कहे जाते हैं । उपेय-‘सर्वज्ञब्रह्म के साथ वह मुक्तपुरुष सर्वगुणों का अनुभव करता है’ इति श्रुति, ‘इस के ऊपर और कोई आह्लाद नहीं ऐसी एकांतभगवत्प्राप्ति संसार का औषध है’ इति श्रुत्युपबृंहण से भी कहे जानेवाले अत्यानंदभगवदनुभव । कर्मादि उपायों में दुष्करत्वबुद्धि से उन को छोड सुलभ समझ प्रपत्ति में निष्ठावाले स्वप्रयोजनपरों का उद्देश्य-आश्रित लोग जिस द्रव्य से ईश्वर की अर्चा बनाते हैं उस ही अर्चाविग्रह में अत्यादरपूर्वक संनिधि करते हुए अत्यंतसुलभ अर्चावतार हैं । उपाय-अनिष्टनिवृत्ति और इष्टप्राप्ति के लिये उस ही को उपायतया आश्रयणरूप स्वगतस्वीकार । उपेय-स्वसुखोल्लासार्थ क्रियमाणकैंकर्य ।
मूलम्
एवमुद्देश्यादिभेदेन तेषां विद्यमानमन्योन्यविशेषं प्रदर्शितवान्, एतेषु भगवद्विषयेण सह संबंधं विना स्थितानां त्रयाणां भगवद्विषयमवलंब्य स्थितयोर्द्वयोश्च विशेषं दर्शयति-एतेष्वित्यादिना ।
मूलम्
पूर्वोक्तास्त्रयो निग्रहस्य विषयाः, अन्यौ द्वावनुग्रहस्य विषयौ ॥ २८१ ॥
श्लोक
पंचानां च त्रयः पूर्वे विषया निग्रहस्य हि । चरमौ द्वावनुग्राह्यविषयौ परमात्मनः ॥ २८१ ॥
टीका संस्कृता
देहात्माभिमानिनः स्वातंत्र्यमन्यशेषत्वमित्येतदुपरिकस्यचिदपि ज्ञानाभावाद्भगवदन्वयरहितास्त्रयः ‘क्षिपामि’ इति भगवन्निग्रहस्य विषयाः । प्रकृतेः परं भगवदनन्यार्हशेषं स्वरूपं ज्ञात्वा भगवदनुभवकैंकर्ययोः पुरुषार्थत्वेन स्वीकृतत्वादनन्यप्रयोजनौ कर्मज्ञानाद्युपायांतरेषु प्रपदने च निष्ठावुभावपि ‘ददामि’, ‘मोक्षयिष्यामि’ इति भगवदनुग्रहस्य विषयावित्यर्थः ।
टीका हिन्द्या
पहिले कहे हुए तीनों निग्रह के विषय हैं अवशिष्ट दोनों अनुग्रह के विषय हैं ॥ २८१ ॥ तथा च उद्देश्यादिभेद से उन में विद्यमान भेद को कहा अब इन में भगवत्संबंधरहित तीन और भगवत्संबंधसहित दो इन का भेद कहते हैं । देहात्माभिमानी, स्वतंत्र, अन्यशेष ये तीनों भगवत्संबंधरहित होने से ‘क्षिपामि’ इत्युक्त भगवन्निग्रह के विषय हैं । प्रकृति से भिन्न भगवदनन्यार्हशेषभूत आत्मस्वरूप को जान भगवदनुभवकैंकर्य को पुरुषार्थ समझने से अनन्यप्रयोजन हो कर्मज्ञानादि उपायांतर और प्रपत्ति में निष्ठावाले ये दोनों ‘ददामि’, ‘मोक्षयिष्यामि’ इत्युक्त भगवदनुग्रह के विषय हैं ।
मूलम्
त्रयाणामपि कर्मानुभवविनाश्यं, चतुर्थाधिकारिणः प्रायश्चित्तविनाश्यं, पंचमाधिकारिणः पुरुषकारविनाश्यम् ॥ २८२ ॥
श्लोक
कर्मानुभवनाश्यं तत्त्रयाणामपि कीर्तितम् । प्रायश्चित्तविनाश्यं स्यात्तुर्यस्य चाधिकारिणः ॥ पुरुषकारविनाश्यं स्यात्पंचमस्य च सर्वथा ॥ २८२ ॥
टीका संस्कृता
एतेषां कर्मविनाशहेतुभेदप्रयुक्तविशेषान् प्रदर्शयति-त्रयाणामपीत्यादिना । निग्रहस्य विषयाणां त्रयाणामप्यनादिकालार्जितं सदसत्कर्म-‘अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥’ इत्युक्तप्रकारेणावश्यं तत्फलानुभवं विना विनाशाभावादनुभवविनाश्यमिति वदति, अनुग्रहस्य विषयतयोक्तयोरुभयोर्मध्ये उपायांतरनिष्ठस्य चतुर्थाधिकारिणः कर्म ज्ञानभक्तिरूपोपायांतरेष्वेकमनुष्ठितं चेत्तत्प्रायश्चित्तस्थानीयं कृत्वेश्वरेण सर्वकर्मणां निवर्तनात् कर्म प्रायश्चित्तविनाश्यमिति वदति । प्रपदननिष्ठस्य पंचमाधिकारिण आश्रयणवेलायामनादिकालकृतापराधभीतेन तान् सर्वानीश्वरं क्षमापयितुं लक्ष्मीं पुरुषकारत्वेन पुरस्कृत्याश्रयणस्य कृतत्वात्तन्निमित्तमस्यापराधान् सर्वान् क्षमित्वांगीकृत्यस्याखिलकर्मणामपि दूरीकरणात् पुरुषकारविनाश्यमिति वदति ।
टीका हिन्द्या
तीनों का कर्म अनुभव से नष्ट होता है, चौथे अधिकारी का कर्म प्रायश्चित्त से नष्ट होता है, पांचवें का कर्म पुरुषकार से नष्ट होता है ॥ २८२ ॥ इन के कर्मनाश के हेतु भिन्न होने से होनेवाले तारतम्य को दिखाते हैं-तीनों का इत्यादि । निग्रहविषयभूत तीनों का अनादिकालार्जित सत् और असत्कर्म ‘किया हुआ सत् और असत् कर्म अवश्य ही भोगा जाता है करोडों कल्पों से भी भोगे बिना नष्ट नहीं होता है’ इस वचनानुसार भोगने से नष्ट होता है ऐसा कहे हैं ! अनुग्रहविषयभूत उपायांतरनिष्ठचतुर्थअधिकारी का कर्म ज्ञानभक्तियों में किसी एक का अनुष्ठानरूपप्रायश्चित्त से नष्ट होने से प्रायश्चित्त से नष्ट होता है कहे हैं । प्रपत्तिनिष्ठपंचमअधिकारी का आश्रयण के समय में अनादिकालकृतअपराध से भीत हो उनको क्षमा कराने के लिये लक्ष्मी को पुरुषकार कर आश्रयण करनेसे उन के लिये चेतन के सब अपराध को क्षमा कर सब कर्मों को नाश करने से पुरुषकार से नष्ट होता है कहे हैं ।
मूलम्
एवं पुरुषकारसापेक्ष इत्युक्तावुपायस्य निरपेक्षताहानिप्रसंग इति शंकायामाह-उपाय इत्यादिना ।
मूलम्
उपायः स्वीकारे पुरुषसापेक्षः पुरुषकारसापेक्षश्च भवेत्, कार्यकाले उभयनिरपेक्षश्च भवेत् ॥ २८३ ॥
श्लोक
स्वीकारसमये स्याच्च सापेक्षः पुरुषेण वै । घटकेन च सापेक्ष उपायः परपावनः । कार्यकाले च द्वाभ्यां स्यादुपायो निरपेक्षकः ॥ २८३ ॥
टीका संस्कृता
सहायांतरसंसर्गासहः सिद्धोपायः शरणवरणस्वीकारकाले स्वीकर्तारं पुरुषं स्वीकारयितुं पुरुषकारं चापेक्षते । स्वीकृतेन स्वेनास्यानिष्टनिवृत्तीष्टप्राप्तिकरणकार्यकाले पुरुषपुरुषकाररूपोभयापेक्षां विना स्वयमेव करोतीत्यर्थः । कार्यकाले सहकारितापेक्षत्वे सति ह्युपायनैरपेक्ष्यस्य हानिः स्यादिति भावः ।
टीका हिन्द्या
उपाय स्वीकारकाल में चेतन और पुरुषकार की अपेक्षा करता है, कार्य करने के समय उभयनिरपेक्ष होता है ॥ २८३ ॥ एवं पुरुषकार की अपेक्षा करने से उपाय की निरपेक्षता का भंग न होगा क्या इस शंका में कहते हैं-उपाय इत्यादि । सहायांतरसंबंध को न सहनेवाला सिद्धोपाय शरणागति को स्वीकार करने के समय स्वीकर्ता चेतन स्वीकार करानेवाला पुरुषकार इन दोनों की अपेक्षा करता है । स्वीकार किये जानेपर ईश्वर अनिष्टनिवृत्तिपूर्वक इष्टप्राप्ति करने के समय चेतन और पुरुषकार इन दोनों की अपेक्षा न कर स्वयमेव करता है । कार्यकाल में सहकारी की अपेक्षा होनेपर ही उपाय की निरपेक्षता का भंग होगा ।
मूलम्
स्वप्रयोजनपराः सर्वे प्रतिकूला इति कथमुच्यत इति चेत् ॥ २८४ ॥
श्लोक
स्वार्थनिष्ठा विपक्षस्त उच्यंते कथमत्र चेत् ॥ २८४ ॥
टीका संस्कृता
स्वप्रयोजनपराः प्रतिकूला इति विशेषेणोक्तं हि । एतादृशस्वप्रयोजनपरताया अनुकूलाग्रेसरेषु दिव्यसूरिष्वपि दर्शनात्तन्निबंधनप्रातिकूल्यस्य तेषु परिहारः कर्तव्य इति विचार्य तद्विषयशंकामनुवदति-स्वप्रयोजनपरा इत्यादिना । ‘अस्माकमेवानंदश्चेद्’, ‘अहं दृष्ट्वा प्रीतो नर्तितुं पृथिव्यां संचरेयम्’, ‘दृष्ट्वाहं त्वां प्रीतो भवितुम्’ इत्यादिवचनैर्मंडलूरहणप्रभृतिप्रवृतिभिश्च दिव्यसूरीणामप्येतादृशप्रयोजनं भासते खलु, एवं च सति स्वप्रयोजनपराः सर्वे प्रतिकूला इत्युक्तौ दिव्यसूरीणामपि तथात्वापत्तिरिति शंकाभिप्रायः ।
टीका हिन्द्या
स्वप्रयोजनपर सब को प्रतिकूल समझ सक्ते हैं क्या ? ॥ २८४ ॥ स्वप्रयोजनपरों को प्रतिकूल कहे हैं । यह स्वप्रयोजनपरता अनुकूलाग्रेसर सूरियों में दीखने से उन में प्रातिकूल्यबुद्धि को परिहार करने के लिये विचार तद्विषयशंका का अनुवाद करते हैं-स्वप्रयोजनपर इत्यादि । ‘हम को अच्छा होगा इस लिये’, ‘हम देख संतुष्ट हो जैसे नाचें तैसा पृथिवी पर संचार करो’, ‘आप को देख संतुष्ट होने के लिये’ इन वचनों से और मंडलग्रहणप्रवृत्तियों से सूरियों में भी यह स्वप्रयोजनपरता दीखती है, एवं सति स्वप्रयोजनपर सब को प्रतिकूल कहनेपर सूरियों को भी ऐसा न समझना पडेगा क्या ? ऐसी शंका का अभिप्राय है ।
मूलम्
तां परिहरति-अत्रेत्यादिना ।
मूलम्
अत्र स्वप्रयोजनमित्याश्रयदोषजन्यमुच्यते ॥ २८५ ॥
श्लोक
स्वाश्रयदोषजन्यं वै स्वप्रयोजनमुच्यते ॥ २८५ ॥
टीका संस्कृता
प्रतिकूलकथनसमयेऽत्र स्वप्रयोजनमित्युच्यतेऽनुभवकैंकर्ययोराश्रयभूतस्य चेतनस्याविद्यादिदोषप्रयुक्तस्वप्रयोजनमित्यर्थः । इदमाश्रयदोषजन्यमित्युक्तत्वाद्दिव्यसूरीणां विषयदोषजन्यमिति भावः । अमुमर्थं विषयदोषप्रयुक्तमित्यादिवाक्ये व्यक्तं वदति ।
टीका हिन्द्या
यहां स्वप्रयोजन कहते हैं आश्रयदोष से होनेवाले दोष को ॥ २८५ ॥ उस को परिहार करते हैं-यहां इत्यादि । प्रतिकूलतया कहने के इस स्थल में स्वप्रयोजन माने-अनुभवकैंकर्य का आश्रयभूत चेतन का अविद्यादिदोष से होनेवाला स्वप्रयोजन । इस को ‘आश्रयदोष से होनेवाला’ ऐसा अलग करने से सूरियों का स्वप्रयोजन विषयदोष से होनेवाला ऐसा अभिप्राय है । इस अर्थ को ‘विषयदोष से होनेवाले’ इस वाक्य से स्पष्ट कहेंगे ।
मूलम्
अतो न दोषः ॥ २८६ ॥
श्लोक
अत्रातो न भवेद्दोषस्तथा कथनकारणात् ॥ २८६ ॥
टीका संस्कृता
अमुमर्थं निगमयति-अत इत्यादिना । प्रातिकूल्यहेतुत्वेनोक्तं स्वप्रयोजनमाश्रयदोषजन्यं, दिव्यसूरिषु स्वप्रयोजनं विषयदोषजन्यं, अतस्तादृशप्रातिकूल्यमेतेष्वपि स्यादिति दोषो नास्तीत्यर्थः । अथवा स्वप्रयोजनपराः सामान्येन प्रतिकूला इत्युच्यते चेदनुकूलेषु दिव्यसूरिष्वेतादृशस्वप्रयोजनपरतादर्शनेन तेषामपि प्रातिकूल्यप्रसंगात् स्वप्रयोजनपराः प्रतिकूला इत्युक्तिर्दोषः खल्विति विचार्य क्रियमाणां शंकामनुवदति-स्वप्रयोजनपराः सर्व इत्यादिना । तां परिहरति-अत्रेत्यादिना । अर्थः पूर्ववत् । निगमयति-अत इत्यादिना । अत इत्यस्यार्थः पूर्ववत् । न दोष इति-स्वप्रयोजनपराः प्रतिकूला इत्युक्तौ न दोष इत्यर्थ इति योजना ।
टीका हिन्द्या
इस लिये दोष नहीं ॥ २८६ ॥ इस अर्थ को समाप्त करते हैं-इसलिये इत्यादि । प्रातिकूल्यहेतुतया कहा हुआ स्वप्रयोजन आश्रयदोषजन्य, सूरियों का स्वप्रयोजन विषयदोषजन्य होने से वह प्रातिकूल्य इन में होगा ऐसी शंका का अवकाश नहीं है ।
मूलम्
एवमाश्रयदोषेण विना विषयदोषजन्यमपि स्वरूपविरुद्धं चेत्त्याज्यं खल्वित्यत आह-विषयदोषेत्यादि ।
मूलम्
विषयदोषप्रयुक्तानि सर्वाणि दुस्त्यजानि खलु ॥२८७॥
श्लोक
दुस्त्यजानि च सर्वाणि विषयागःकृतानि वै ।
टीका संस्कृता
अनुभवविषयस्य तस्य वज्रलेपसदृशेन पुरुषानपि नारीवस्त्रं धारयितृत्वविग्रहवैलक्षण्यरूपदोषेणागताः स्वप्रयोजनपरता, तत्प्रावण्यं, तत्सिद्ध्यर्थव्यापाराः सर्वे स्वरूपविरुद्धा इति त्याज्या इति विचारे कृतेऽपि त्यक्तुमशक्याः खल्वित्यर्थः । विषयदोषप्रयुक्तमिति पाठश्चेत् स्वप्रयोजनमात्रमुच्यते ।
टीका हिन्द्या
विषयदोष से होनेवाले सब दुस्त्यज हैं ॥ २८७ ॥ इस प्रकार आश्रयदोषजन्य न हो विषयदोषजन्य होने से भी स्वरूपविरुद्ध त्याज्य नहीं है क्या ? इस शंका में कहते हैं-विषयदोष से इत्यादि । अनुभवविषयभूत उनका पुरुषों को भी स्त्रीबनानेवाले विग्रहसौंदर्यरूप दोष से होनेवाली स्वप्रयोजनपरता, उस का हेतु प्रावण्य, उस की सिद्धि के लिये क्रियमाण इन सम्पूर्ण व्यापार को स्वरूपविरुद्ध मान छोड़ने का विचार करनेपर भी दुस्त्यज हैं ।
मूलम्
मूकैर्वधिराणां वार्ता, ‘कथमन्यदिच्छति’ ॥ २८८ ॥
श्लोक
मूकैश्च बधिराणां च वार्तान्यत्कथमिच्छति । इति पाशुरवृत्ते द्वे प्रमाणत्वेन वै विदुः ॥ २८८ ॥
टीका संस्कृता
विषयदोषस्य दुस्त्यजत्वे प्रमाणं दर्शयति-मूकैरित्यादिना । तेनैव प्राप्तिरित्यध्यवसाये कृते तदागमनपर्यंतं क्रमप्राप्तिं दृष्ट्वा स्थातव्यं त्वयैवं त्वरा न कार्येति वदंतीर्मातॄन् प्रति एतद्विषये प्रावण्याभावेन मत्स्थितेर्व्यावृत्ताभिर्युष्माभिर्मद्दशा ज्ञातुं न शक्या, ‘स स’ इति दिवानिशं यथा कथ्यते तथा श्रियःपतिविषयेऽतीय प्रावण्ययुक्ताया एवं तं विना स्थातुमशक्तायास्तदावासस्थलं गत्वा प्राप्तिरुचिता, एवं सति तत्र गंतुमसमर्थाया मम तदप्राप्त्यर्थं युष्मदुक्ता वार्ताः सर्वाः श्रोतुं परिकररहितैर्वक्तुं परिकररहितानां मूकानां वार्तेव वर्तत इति गोदयोक्तत्वात् । ‘तवामृतस्यंदिनि पादपंकजे’ इत्यारभ्य प्राप्तशेषिणस्तव स्यमकरंदविकसच्चरणकमलयोग्यतायां निमग्नं मनोन्यत्क्षुद्रविषयं कथमाद्रियते, मधुजीवनो भ्रमरो मधुपूर्णे तामरपुष्पे स्थिते तद्रसज्ञः स्वयं दुष्प्रापं प्राप्तमपि रसनाक्लेदनस्याप्यपर्याप्तं भिक्षुरकपुष्पं न प्राप्नोतीत्येतावदेव न तत्र कटाक्षमपि न करोतीति यामुनैरुक्तत्वाश्च वैलक्षण्यं दृष्ट्वा भगवद्विषये प्रवणा निवर्तयितुमशक्या इति भानात् विषयदोषप्रयुक्तं दुस्त्यजमित्यर्थः सिद्धः ।
टीका हिन्द्या
‘मूकों के साथ बधिरों की वार्ता’, ‘और को कैसा चाहेगा’ ॥ २८८ ॥ विषयदोष से होनेवाले दुस्त्यज हैं इस में प्रमाण दिखाते हैं-मूकों के साथ इत्यादि । ‘परमात्मा से फल’ ऐसा निश्चय करनेपर उन के आगमनपर्यंत क्रमप्राप्ति को देख सहना चाहिये तुम को ऐसी त्वरा न होनी चाहिये’ ऐसा माताओं के वचन को सुन ‘इस विषय में प्रावण्यरहित हमारी इस स्थिति का मूलभूत तुम हमारी दशा को नहीं जान सक्ते हो’, ‘वह वह’ ऐसा बकने योग्य श्रियःपति ?? विषय में अत्यंत प्रावण्य पूर्ण हुई और उन की अप्राप्ति से जीने को अशक्त मैं उन के स्थान में जा प्राप्त होना उचित होनेपर भी शिथिलित पादवाली मुझ से उन के साथ न मिलने के लिये उच्यमान तुमलोगों की बानी सुनने को कर्णरहित बधिरों के साथ कहने को मुखरहित मूकों की वार्ता के सदृश है ऐसा गोदादेवी कही हैं । ‘आप के अमृत च्यूनेवाले’ ऐसा आरंभ कर ‘प्राप्तशेषी आप का मधुस्यन्दी चरणारविंदों की भोग्यता में मन हुआ मन अन्य क्षुद्रविषय को कैसा चाहेगा ? मधु से जीनेवाला भ्रमर मधुपरिपूर्ण कमलपुष्प होनेपर उस के रस को जान समीप में जाने को अशक्य होनेपर भी जिल्हा को गीला नहीं कर सके ऐसा कंटकित पुष्प के पास जाया नहीं इतना ही नहीं उस को देख भी नहीं सक्ता’ ऐसा यामुनाचार्य स्वामी कहे हैं । विग्रहसौंदर्य देख भगवद्विषय में प्रवण होनेवालों को लौटाना अशक्य है ऐसा भान होने से विषयदोष से होनेवाले दुस्त्यज हैं यह सिद्ध होता है ।
मूलम्
एवमेतेषां सर्वेषां सदाचार्यप्रसादेन वर्धनसमये वस्तव्यमाचार्यसन्निधिर्भगवत्सन्निधिश्च, वक्तव्यमाचार्यवैभवः स्वनिकर्षश्च, जप्तव्यं गुरुपरंपरा द्वयं च, परिग्राह्यं पूर्वाचार्यवचनमनुष्ठानं च, परित्याज्योऽवैष्णवसहवासोऽभिमानश्च, कर्तव्यमाचार्यकैंकर्यं भगवत्कैंकर्य च ॥ २८९ ॥[^5]
श्लोक
एवमेषां च सर्वेषां सदाचार्यप्रसादतः । वृद्धिकाले हि वस्तव्यमाचार्यहरिसन्निधौ ॥ मनीषिभिर्हि वक्तव्यौ स्वदोषाचार्यवैभवौ । जपनीयं सदा तद्वद् द्वयं गुरुपरंपरा ॥ पूर्वाचार्योक्तिरूपे चानुष्ठाने परिग्रहे । अवैष्णवैस्सह वासश्वाभिमानं च परिग्रहे । त्याज्यं कर्तव्यमित्याहुरनुष्ठानं च षड्विधम् ॥ २८९ ॥
टीका संस्कृता
एवं दिनचर्योक्तमंगलाशासनानुकूलवासप्रतिकूलसहवासनिवृत्ती विवृत्तवान् ‘सदाचार्यप्रसादेन यथा वर्द्धेरन् तथा कुर्वन् वर्तेत’ इत्येतत्सूत्रेणाचार्यविषयेऽनुवर्तनविशेषं विवृणोति-एवमित्यादिना । एवमेतेषां सर्वेषां सदाचार्यप्रसादेन वर्धनसमय इति-पूर्वोक्तप्रकारेणैतेषां स्वभावविशेषाणां सदाचार्यस्य प्रसादेन पल्लविततया वर्धनसमय इत्यर्थः । वस्तव्यमाचार्यसन्निधिर्भगवत्सन्निधिश्चेति-अस्य वासस्थलं हितैषिण उपदेशादिभिः सद्गुणानां जनकस्य स्वस्याचार्यस्य सन्निधिः । तस्मिन् समर्पयति स्वीकुर्वतस्तस्यादरविषयस्य स्वविषये विशेषकटाक्षादिकं कुर्वतोऽर्चावताररूपस्य भगवतः सन्निधिश्चेत्यर्थः । अयं न समुच्चयः नापि समविकल्पः । आचार्यसन्निधिः प्रधानं तदलाभेऽर्चावतारसन्निधिरित्यर्थः । तस्मादाचार्यसन्निधिरेव पूर्वमुक्तः–‘गुरुणा सह संवासस्तदभावे मयापि वा ।’ इति हि भगवदुक्तिश्च । अथ वक्तव्यमित्यारभ्योपरि समुच्चयः । वक्तव्यमाचार्यवैभवः स्वनिकर्षश्च-अस्य सर्वकालमपि वाचा वक्तव्यं दुर्गतिमेवावलंब्य स्वमंगीकृतवत आचार्यस्य दयाक्षांत्यादिवैभवः । सर्वथा दयादिगुणपूर्णा अपि यथा जुगुप्संति तथाऽनात्मगुणपूर्तिरूपस्वनिकर्षश्चेत्यर्थः । श्रीमधुरकविः-‘सामीचीन्येन’ इत्यारभ्यैतदुभयमपि विशदमवोचत् । जप्तव्यं गुरुपरंपरा द्वयं च-अस्य कालक्षेपस्य भोगस्य चोपयुक्ततया रहस्यत्वेनानुसंधेयं- ‘रामानुजांघ्रिशरणोऽस्मि कुलप्रदीप-स्वासीत्स यामुनमुनेस्त च नाथवंश्यः । वंश्यः परांकुशमुनेः स च सोऽपि देव्या दासस्तवेति वरदास्मि तवेक्षणीयः ॥’ इत्यादिप्रकारेण सर्वेश्वरस्य शीतलकटाक्षस्य निदानं ‘स चाचार्यवंशो ज्ञेयः, आचार्याणामसावसावित्या भगवंतः’ इत्युक्तप्रकारेण स्वाचार्यादिपरमाचार्यभगवत्पर्यंता गुरुपरंपरा । तादृशगुरुपरंपराऽनंतरे स्वाचार्येण स्वस्य शरणत्वेनोपदिष्टं द्वयं चेत्यर्थः । अनेन गुरुपरंपरापूर्वकं द्वयमस्य रहस्यत्वेनानुसंधेयमिति सिद्धम् । भाष्यकारस्य कालक्षेपकथनसमये ‘द्वयमर्थानुसंधानेन सह संदेयं वक्ता’ इति हि भगवतोक्तम् । परिग्राह्यं पूर्वाचार्यवचनमनुष्ठानं च-स्वस्य ज्ञानानुष्ठानस्थैर्यार्थं दृष्टस्थलेष्वनेन परिग्राह्यं नाथमुनिप्रभृतीनां पूर्वाचार्याणां ज्ञातव्यार्थप्रकाशकदिव्यवचनानि । तद्वचनानुरूपाणि निर्दोषानुष्ठानानि चेत्यर्थः । ‘सुव्याहृतानि महतां सुकृतानि ततस्ततः । संचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥’ इत्युक्तम् । परित्याज्यमवैष्णवसहवासोऽभिमानश्च-ज्ञानानुष्ठाननाशकमिति भयेनास्य सवासनं त्याज्यं वैष्णवलक्षणरहितैः सहवासः, [[तैरुद्भूतैः|तेरुद्भूतैः]] कैश्चिदन्वयैः स्वविषये क्रियमाणोऽभिमानश्चेत्यर्थः । कर्तव्यमाचार्यकैंकर्यं भगवत्कैंकर्यं च-अस्य स्वरूपानुकूलतया सदा कर्तव्यं महोपकारकस्वाचार्यविषये प्रेमपूर्वकं क्रियमाणं कैंकर्यं, तन्नियोगपरतंत्रेण क्रियमाणं भगवत्कैंकर्यं चेत्यर्थः । एवं दिनचर्यायामुक्ताः स्वभावविशेषाः सर्वे सदाचार्यप्रसादेन यथा वर्द्धेरन् तथा कुर्वन् वर्तनं नाम-एवं वस्तव्यवक्तव्यजप्तव्यपरिग्राह्यपरित्याज्यकर्तव्यानां ज्ञानेन तेषु निष्ठेत्युक्तम् ।
टीका हिन्द्या
वस्तव्य आचार्यसन्निधि और भगवत्सन्निधि, वक्तव्य आचार्य वैभव और अपनी निकृष्टता, जप्तव्य गुरुपरंपरा और द्वयमंत्र, परिग्राह्य पूर्वाचार्यों के वचन और अनुष्ठान, परित्याज्य अवैष्णवों का सहवास और अभिमान, कर्तव्य आचार्य कैंकर्य और भगवत्कैंकर्य ॥ २८९ ॥ तथा च इस प्रकरण से अपने कर्तव्य कैंकर्य को जानने का क्रम, कैंकर्य के दो प्रकार, दोनों का लक्षण, दोनों का उपकार, उन के इष्टानिष्टादि और त्याज्य भी कहेगये । इस अधिकारी को कर्तव्य कैंकर्य किसी एक प्रकार से होना चाहिये ऐसा कहा । इस कारण दिनचर्या में वस्तव्य आदियों को कहते हैं-एवं इत्यादि । एवं ये सब सदाचार्यानुग्रह से बढने के समय-पूर्वोक्तप्रकार से इन स्वभावविशेषों का सदाचार्य के अनुग्रह से पल्लवित होकर बढने का समय । वस्तव्य आचार्यसन्निधिर्भगवत्सन्निधिश्चेति-इस चेतन का वासस्थल-हितचिंतक उपदेशादियों से सद्गुणों का जनक अपने आचार्य की संनिधि, उन में समर्पण करने पर स्वीकार कर उन के प्रीति का विषय अपने विषय में विशेषकटाक्ष करनेवाला अर्चावताररूप भगवान् की संनिधि भी है । इन में आचार्य सन्निधि ही प्रधान है उस के अलाभ में अर्चावतारसन्निधि समझना । इस लिये ही आचार्य सन्निधि को पहिले कहे हैं । ‘गुरु के संग वास करना वह न मिलें तो हमारे साथ वास करना’ ऐसा भगवान ही कहे हैं । वक्तव्य आचार्यवैभवः स्वनिकर्षश्च-इस चेतन का सर्व काल भी वाक् से वक्तव्य-दुर्गति को भेंट समझ अंगीकार करनेवाले आचार्य का दयाक्षांत्यादिवैभव, दयादिगुण परिपूर्ण भी उपेक्षा करने योग्य दुर्गणपूर्ण अपनी नीचता ये दोनों हैं । श्रीमधुरकवि सूरि ग्रंथिपूर्ण सूक्ष्मरज्जु नामक प्रबंध में इन दोनों को स्पष्ट कहे हैं । जप्तव्य गुरुपरंपरा द्वयं च-इस चेतन का कालक्षेप और भोग के लिये रहस्यतया अनुसंधान करने योग्य-‘रामानुज के चरण ही उपाय हैं’ इस वचनानुसार सर्वेश्वर शीतल कटाक्ष करने के उपयुक्त ‘सदाचार्य वंश जानने योग्य है’, ‘आचार्यों में भगवत्पर्यंत प्रत्येक को’ इस वचनानुसार स्वाचार्य परमाचार्य भगवत्पर्यंत गुरुपरंपरा, उस गुरुपरंपरा से प्राप्त स्वाचार्य से अपने को उपायतया उपदिष्ट द्वयमंत्र भी है । इस से गुरुपरंपरापूर्वक द्वय ही इस चेतन को रहस्यतया अनुसंधान करने योग्य है । भाष्यकार से कालक्षेपप्रकार को कहने के समय ‘द्वयमंत्र को अर्थानुसंधान के साथ सदा कहता हुआ’ ऐसा श्रीरङ्गनाथजी कहे हैं । परिग्राह्यं पूर्वाचार्यवचनमनुष्ठानं च-ज्ञानानुष्ठानों के स्थिर होनेके लिये नाथमुनिप्रभृति पूर्वाचार्यों के ज्ञातव्यार्थों को प्रकाश करनेवाले वचन और उन वचनानुरूप अनुष्ठानों को भी परिग्रह करना । ‘खेत में गिरे हुए धान्य को चुननेवाले के तरह महत्पुरुवों के वचन और अनुष्ठानों को बुद्धिमान् संग्रह करें’ ऐसा कहा है । परित्याज्यमवैष्णवसहवासोऽभिमानश्च-ज्ञाननुष्ठानों के नाशक ऐसी भीति से वैष्णव के लक्षण रहित लोगों के साथ सहवास और उन के संबंध को त्याग करना चाहिये । कर्तव्यमाचार्यकैंकर्यं भगवत्कैंकर्यं च-इस चेतन का स्वरूपानुरूप कैंकर्य-महोपकारक अपने आचार्य के विषय में प्रेमपूर्वक क्रियमाण कैंकर्य, आचार्य की आज्ञा से क्रियमाण भगवत्कैंकर्य ही है । दिनचर्या में उक्त सब गुण माने-वस्तव्य, वक्तव्य, जप्तव्य, परिग्राह्य, परित्याज्य, कर्तव्य इन को जान इन में निष्ठित होना ।
मूलम्
पूर्वोक्तभगवत्कैंकर्यं ज्ञायते शास्त्रमुखेन, आचार्यकैंकर्यं ज्ञायते शास्त्रमुखेनाचार्यवचनेन च ॥ २९० ॥
श्लोक
पूर्वोक्तभगवद्दास्यं ज्ञायते शास्त्रचक्षुषा । शास्त्राचार्यमुखेनैवाचार्यदास्यं च ज्ञायते ॥ २९० ॥
टीका संस्कृता
एवं कर्तव्यं कैंकर्यद्वयमपि केन ज्ञायत इत्याकांक्षायामाह-पूर्वोक्तमित्यादि । पूर्वोक्तमिति-वक्तव्यादिगणनायामुक्तमित्यर्थः । भगवत्कैंकर्यं ज्ञायते शास्त्रमुखेनेति-भगवानिदानीमस्य मुखेन किंचिन्न वदति अतस्तत्प्रतिपादकश्रुतिस्मृत्यादिशास्त्रमुखेन ज्ञायत इत्यर्थः । आचार्यकैंकर्यं ज्ञायते शास्त्रमुखेनाचार्यवचनेन चेति-आचार्यविषये शुश्रूषाप्रकारप्रतिपादकशास्त्रमुखेन स्वस्येष्टानिष्टे एतदिति तदुक्तवचनेनेत्यर्थः ।
टीका हिन्द्या
पहिले कहा हुआ भगवत्कैंकर्य को शास्त्र द्वारा जानना, आचार्य कैंकर्य को शास्त्र और आचार्य वचन द्वारा जानना ॥ २९० ॥ इस प्रकार कर्तव्यकैंकर्य दोनों को कैसा जानना इस शंका में कहते हैं-पहिले इत्यादि । भगवत्कैंकर्य को-भगवान् से बोल कुछ वार्ता न करने से श्रुतिस्मृति आदि शास्त्र द्वारा जानना । आचार्य की शुश्रूषादि कैंकर्य को प्रतिपादन करनेवाले शास्त्र द्वारा और उन के वचन द्वारा भी जानना ।
मूलम्
कैंकर्यं च द्विविधम् ॥ २९१॥
श्लोक
कैंकर्यं द्विविधं प्रोक्तं सदा शास्त्रार्थकोविदैः ॥ २९१ ॥
टीका संस्कृता
अथ कैंकर्यवेषं ज्ञापयितुं कैंकर्यं द्विविधमित्याह-कैंकर्यं चेत्यादिना ।
टीका हिन्द्या
कैंकर्य दो प्रकार का है ॥ २९१ ॥ अब कैंकर्यस्वरूप को जनाने के लिये कहते हैं-कैंकर्य इत्यादि ।
मूलम्
तच्चेष्टकरणमनिष्टनिवृत्तिश्च ॥ २९२ ॥
श्लोक
तच्चेष्टकरणं तद्वदनिष्टविनिवर्तनम् ॥ २९२ ॥
टीका संस्कृता
तत्किमित्यत आह-तच्चेति ।
टीका हिन्द्या
इष्ट को करना अनिष्ट को छोडना ॥ २९२ ॥ वह प्रकार कौन है इस शंका में कहते हैं-इष्ट को इत्यादि ।
मूलम्
एतद्वयमपि किमवलंब्य वर्तत इत्यत आह-इष्टानिष्ट इत्यादि ।
मूलम्
इष्टानिष्टे वर्णाश्रमावात्मस्वरूपं चावलंब्य वर्तेते ॥ २९३ ॥
श्लोक
वर्णाश्रमौ समालंब्य प्रच्याप्यात्मस्वरूपकम् । इष्टानिष्टे प्रवर्तेते नात्र कार्या विचारणा ॥ २९३॥
टीका संस्कृता
पूर्वोक्तकैंकर्यप्रतिसंबंधिनोरुभयोरिष्टानिष्टे अस्याधिकारिणो वर्णाश्रमावात्मस्वरूपं चावलंब्य वर्तेते इत्यर्थः । इष्टानिष्टयोर्वर्णाश्रमाववलंब्य स्थितिर्नाम-स्ववर्णस्याश्रमोचितधर्माणां परार्थबुद्ध्यानुष्ठानमिष्टं, स्वार्थबुद्ध्यानुष्ठानमनिष्टमित्यर्थः । परार्थबुद्ध्यानुष्ठानं नाम-लोकसंग्रहतया शिष्यपुत्राणामुज्जीवनार्थं चानृशंस्येनानुष्ठानम् । अमुमर्थं-‘अत्रास्मदाचार्याणामनुष्ठानं शिष्यपुत्राणामुज्जीवनार्थमानृशंस्येन, एवमनुष्ठानाभावे भगवद्विभूतिभूतानां चेतनानां नाशहेतुत्वादीश्वरस्यानभिमतः स्यात्, तस्माद्यावता लोकसंग्रहः स्यात् यावता शिष्यपुत्राणामुज्जीवनं च स्यात् तावदनुष्ठेयम्’ इत्युक्तम् । प्रवृत्तिधर्मः स्वयमभिसंधिभेदेन यथा निवृत्तिं भवति तथायं निवृत्तिधर्मश्च प्राप्यं भवति । तदकरणे प्रत्यवायो भगवतोऽनभिमतत्वं स्वस्य पुरुषार्थहानिश्च स्यादिति तन्निर्णयश्लोकेऽयं स्वयमेवावोचत् । स्वार्थबुद्ध्यानुष्ठानं नाम-वर्णस्वाश्रमोचितत्वेन विहितत्वादस्माकमेतदनुष्ठानाभावे कृत्याकरणरूपपापं स्यादिति बुद्ध्यानुष्ठानम् । इष्टानिष्टयोरात्मस्वरूपमवलम्ब्य स्थितिर्नाम-‘इच्छा स्वरूपम्’ इत्युक्तप्रकारेण विनियोगदशायां शेषिण इच्छानुगुणं स्वरूपस्य विनियोगकरणमिष्टम्, वैपरीत्येन विनियोगकरणसमये स्वशेषत्वं दृष्ट्वा पश्चाद्गमनस्य, पारतंत्र्यमवलंब्य प्रतिदृष्टिप्रदानस्याकरणमनिष्टम् । अथवा इष्टानिष्टे इत्यादिग्रंथस्य स्ववर्णाश्रमोचितकरणमिष्टं, तद्विरुद्धकरणमनिष्टमिति । आत्मस्वरूपस्योचितकरणमिष्टं, तद्विरुद्धकरणमनिष्टमिति योजना । यद्वा औपाधिकात्यवर्णाश्रमयोरादरोऽनिष्टं, निरुपाधिकनित्यात्मस्वरूप आदर इष्टमिति योजना । एवमादरमवलंब्यानुक्त्वा, अनिष्टं वर्णाश्रममवलंब्य वर्तते, इष्टमात्मस्वरूपमवलंब्य वर्तते इति विभज्य वर्णाश्रमाचारोऽनिष्टकोटावित्युक्तो विरोधो न भवेदित्यत आह– ‘श्रुतिस्मृती ममैवाज्ञा यस्तामुछ्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥’ इति ‘अविप्लवाय धर्माणां पालनाय कुलस्य च । संग्रहाय च लोकस्य मर्यादास्थापनाय च ॥ प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः । मनीषी वैदिकाचारं मनसापि न लङ्घयेत् ॥ यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् । लोकोपयोगिनीं रम्यां बहुत्यविवर्धिनीम् । लंघयन् शूलमारोहेदनपेक्षोऽपि तां प्रति । एवं विलंघयन् मर्त्यो मर्यादां वेदनिर्मिताम् । प्रियोऽपि नः प्रियोऽसौ मे मदाज्ञाव्यतिवर्त्तनात् । उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः ॥’ इति च सर्वेश्वरेण लक्ष्म्या चोक्तेर्वचनः पूर्वाचार्याणां पुण्याद्भीतः पापं न कुर्यात् खलु ॥ २९९ ॥
टीका हिन्द्या
इष्ट और अनिष्ट वर्णाश्रम और आत्मस्वरूप को भी अवलंबन कर रहते हैं ॥ २९३ ॥ पूर्वोक्त कैंकर्य के प्रतिसंबंधी ईश्वर और आचार्य का इष्टानिष्ट इस अधिकारी के वर्णाश्रम और आत्मस्वरूप को अवलंबन कर होते हैं । स्ववर्णाश्रमोचित धर्मो को परार्थबुद्धि से अनुष्ठान करना इष्ट है स्वार्थबुद्धि से अनुष्ठान करना अनिष्ट हैं । परार्थबुद्धि अनुष्ठान माने-लोकसंग्रहतया शिष्यपुत्रजीवनार्थ दया से अनुष्ठान करना । इस अर्थ को ‘हमारे आचार्यकर्तृक अनुष्ठान शिष्यपुत्रोंके उज्जीवनार्थ दया से हैं । ऐसा न करनेपर भगवद्विभूतिरूप चेतनों का नाशहेतु होनेसे ईश्वर को अनभिमत होगा इसलिये जितना करने से लोकसंग्रह और शिष्यपुत्रों का उज्जीवन होगा उतना करना चाहिये’ । प्रवृत्तिधर्म ही अभिसंधि (अनुसंधान) भेद से जैसे निवृत्तिधर्म होता है तैसा यह निवृत्तिधर्म भी प्राप्य होता है इन को नहीं करने में प्रत्यवाय, परमात्मा की अप्रीति और अपने पुरुषार्थ की हानि भी होगी’ । ऐसा [[तन्निर्णयश्लोके|तनिक नामक रहस्य ग्रंथ]] में कहे हैं । स्वार्थबुद्धि अनुष्ठान माने-वर्णस्वाश्रमोचितत्वेन विहित होने से ‘हम इस को नहीं करने से कृत्याकरणरूप पाप होगा’ ऐसा समझ अनुष्ठान करना । इष्टानिष्ट आत्मस्वरूप को अवलंबन कर रहते हैं माने-विनियोगादि दशा में शेषी के इच्छानुगुण अपने स्वरूप को विनियोग करना इष्ट है इस के विपरीत करना माने-अपने शेषत्व को रक्षा करने के लिये पीछे हटना, अपने पारतंत्र्य को देख [[अभय|निर्भय]] न होना आदि अनिष्ट है । यद्वा इष्टानिष्ट इत्यादि ग्रंथस्य स्ववर्णाश्रमोचितकरणमिष्टं, तद्विरुद्धकरणमनिष्टमिति । आत्मस्वरूपस्योचितकरणमिष्टं, तद्विरुद्धकरणमनिष्टमिति योजना । यद्वा औपाधिकात्यवर्णाश्रमयोरादरोऽनिष्टं, निरुपाधिकनित्यात्मस्वरूप आदर इष्टमिति योजना । एवं आदर को अवलंबन कर नहीं कहकर, अनिष्टं वर्णाश्रम को अवलंबन कर रहता है, इष्टमात्मस्वरूप को अवलंबन कर रहता है ऐसा विभज्य वर्णाश्रमाचार को अनिष्टकोटि में कहने से विरोध नहीं । ‘श्रुति स्मृति हमारी आज्ञा हैं इन को जो उल्लंघन करता है वह आज्ञाभंगकारी हमारा द्रोही है मेरा भक्त होनेपर भी वैष्णव नहीं कहलाता है’, ‘सत्य का नाश न होने के लिये, कुल के पालन के लिये, लोक के [[संग्रहण]] के लिये मर्यादा स्थापन के लिये मेरे और विष्णुकी प्रीति के लिये बुद्धिमान वैदिकचार को मन से भी उल्लंघन नहीं करें । राजा का अतिप्रिय मंत्री राजा से प्रवाहित लोकोपयोगिनी बहुतसस्यविनी रमणीय नदी को तोड़ने से जैसे शूली में चढाय जाता है वैसा वेदनिर्मित मर्यादा को तोड़नेवाला मनुष्य हमारी आज्ञाउल्लंघन करने से भक्त होने पर भी प्रिय नहीं होता है बुद्धिमान् को उन में उपायत्व बुद्धि छोड़ देना चाहिये’ ऐसा लक्ष्मी और नारायण के वचन और पूर्वाचार्यों के वचनानुष्ठानों के साथ भी विरोध नहीं होने के लिये वर्णाश्रमधर्मानुष्ठान करना चाहिये ।
मूलम्
पुण्याद्भीतः पापं न कुर्यात् खलु ॥ २९९ ॥
श्लोक
पुण्याद्भीतः कदापीह पापं कुर्यान्न पूरुषः ॥ २९९ ॥
टीका संस्कृता
योजनात्रयस्य चोपरितनवाक्येन संगतिः कथमिति चेत्-प्रथमयोजनायामेवं वर्णाश्रमानुष्ठाने प्रतिपत्तिविशेषयोरात्मस्वरूपस्य विनियोगदशायामानुकूल्यप्रातिकूल्ययोश्चेष्टानिष्टयोर्विषयविभागः किमर्थं क्रियते वर्णाश्रमानुरूपाणां स्वरूपानुरूपाणां च करणमिष्टं, तद्विरुद्धाकृत्यादिकरणमनिष्टमित्युक्तौ कानुपपत्तिरित्यत आह-पुण्यादित्यादि । द्वितीययोजनायां वर्णाश्रमविरुद्धानां स्वरूपविरुद्धानां च करणमनिष्टमित्यस्योक्ता निवृत्तिः कर्तव्या किमित्याह-पुण्यादित्यादि । तृतीययोजनायामेवं वर्णाश्रमचोरादरनिवर्तनेऽकृत्यकरणप्रसंग इत्यत आह-पुण्यादित्यादि । भगवदनुग्रहहेतुतया शास्त्रसिद्धत्वेऽपि मोक्षविरोधीति पुण्यं कर्तुमपि भीतो भगवन्निग्रहहेतुत्वेन शास्त्रसिद्धं नरकावहमिति सामान्यैरपि त्यज्यमानं पापं कदाचिदपि न कुर्यादित्यर्थः ।
टीका हिन्द्या
पुण्य को डरनेवाला पाप नहीं करेगा ॥ २९९ ॥ इस चेतन को इष्टानों को जनाने में आत्मस्वरूपके विनियोग दशा में आनु कूल्य और प्रातिकूल्यों में इष्टानिष्टों का विभाग करना आवश्यक है क्या ? वर्णाश्रमानुरूप और स्वरूपानुरूप कृत्यों को करना इष्ट है तद्विरुद्ध अकृत्यादि करना अनिष्ट है ऐसा करने में दोष क्या इस शंका में कहते हैं-पुण्य को इत्यादि । भगवदनुग्रहहेतुतया शास्त्रसिद्ध होने पर भी मोक्षविरोधी समझ पुण्य करने को भी डरनेवाला यह प्रपन्न अधिकारी भगवन्निग्रहहेतुतया शास्त्रसिद्ध समझ सामान्य लोगों भी नहीं करने के पाप को कदापि नहीं करेगा ।
मूलम्
अयं पुण्यं पापमिति तिष्ठति, स पापं पुण्यमिति तिष्ठति तस्येदं दुर्लभं, अयं तन्न कुर्यात् ॥ ३०० ॥
श्लोक
अयं पुण्यं पापमित्येव ह्ययं तिष्ठति पातकम् । स तु पुण्यं विजानाति तस्येदं दुर्लभं सदा ॥ ३०० ॥
टीका संस्कृता
अस्य पुण्याद्भयमकारं वत्सलस्येश्वरस्यास्मिन् पापे पुण्यचिंतनप्रकारमीश्वरस्य चावकाशो यथा न स्यात्तथा पापप्रवृत्तावन्वयराहित्यप्रकारं च दर्शयति—अयं पुण्यमित्यादिना । ‘तदा विद्वान् पुण्यपापे विधूय निरंजनः परमं साम्यमुपैति’ इत्युक्तत्वात् पुण्यपापमुभयमपि मोक्षविरोधीति वर्तमानोऽधिकारी लौकिकैः सुखहेतुरित्याद्रियमाणं पुण्यं भगवत्प्राप्तिप्रतिबंधकतयाऽनिष्टावहत्वात् दुःखहेतु पापमिति विचार्य भीतो भवति । आश्रितकृतदोषं गुणत्वेनांगीकुर्वाणोऽतिमात्रवत्सल ईश्वर एव अनेनाधिकारिणा यत्किंचित् पापं कृतमपि तद्दोष इत्यविचारय गुण इति विचार्य प्रीतो भवति । तस्मिन् तथा वर्त्तमानेऽपि अस्याधिकारिणः पापप्रवृत्तावन्वयाभावेन नियततया स्थितत्वात् पापं पुण्यत्वेन स्वीकुर्वाणस्य वत्सलस्य तदाशाविफल्यं भवति नतु लभ्यत इत्यर्थः ।
टीका हिन्द्या
यह पुण्य को पाप समझता है, वह पाप को पुण्य समझता है, उसको पाप नहीं मिलता है, यह पाप नहीं करेगा ॥ ३०० ॥ पुण्य को डरने का प्रकार, वात्सल्यगुणयुक्त ईश्वर के पास अपेक्षा करनेपर भी पाप को नहीं करने के प्रकार को भी दिखाते हैं-यह पुण्य को इत्यादि । ‘विद्वान् पुण्य पाप को छोड निर्लिप्त हो परमात्मा के सादृश्य को पाता है’ ऐसा कहने से पुण्य पाप दोनों को मोक्ष का विरोधी समझनेवाला यह अधिकारी, लोग सुखहेतु समझे हुवे पुण्य को भगवत्प्राप्ति प्रतिबंधक होने से अनिष्टावह दुःखहेतु पाप ही समझता है । आश्रितकर्तृक पाप को पुण्य समझनेवाले अतिवत्सल ईश्वर इस अधिकारी के जिस किसी पाप करनेपर भी उस को दोष नहीं समझ पुण्य ही समझता है उस का स्वभाव ऐसा होनेपर भी यह अधिकारी पाप में प्रवृत्त न हो नियमपूर्वक वर्तन करने से पाप को पुण्य समझनेवाले की इच्छा मात्र करके रह जायगा उस को पाप नहीं मिलेगा ।
मूलम्
एवं पूर्वं कर्तव्यतयोक्तं कैंकर्यं ज्ञायते एतेनेति कैंकर्यं च द्विविधमिति तच्चैतदिति तदुभयं चैतदवलंब्य वर्तत इति चोक्त्वा तत्र प्रासंगिकशंकापरिहारः कृतः ।
मूलम्
कैंकर्यमस्य येन केनापि प्रकारेण वा कर्तव्यमित्यस्यावश्यकरणीयत्वमाह-कैंकर्यं चेत्यादिना ।
मूलम्
कैंकर्यं च भक्तिमूलं स्यात्, अथवा भीतिमूलं स्यात् ॥३०१ ॥
श्लोक
भक्तिमूलं च कैंकर्यमथवा भीतिमूलकम् । तदपि नास्ति चेदस्याधिकारे नान्त्रयस्तथा ॥ ३०१ ॥
टीका संस्कृता
भक्तिमूलत्वं नाम-शेषिणो सुखविकासनिदानस्यैव कर्तव्यताप्रयोजकेन तद्विषये प्रेम्णाऽऽगतत्वम् । तदभावे भीतिमूलत्वं नाम-तादृशकैंकर्याभावे ‘अकिंचित्करस्य शेषत्वानुपपत्तिः’ इत्युक्तप्रकारेण शेषत्वप्रवृत्त्यभावे शेषत्वहानिः स्यादिति भीतिहेतुनाऽऽगतत्वम् । अत्र भक्तिमूलमेव मुख्यं तदलाभे भीतिमूलं वाऽऽवश्यकमित्यर्थः ।
टीका हिन्द्या
कैंकर्य भक्तिद्वारा न हो तो भीतिमूल तो भी होना चाहिये ॥ ३०१ ॥ कैंकर्य इस चेतन से किसी एक प्रकार से होना चाहिये ऐसा विचार अवश्यकरणीयता को कहते हैं-कैंकर्य इत्यादि । भक्तिद्वारा होना माने-शेषी का मुखोल्लास के उचित करने के योग्य उस विषयप्रेमद्वारा होना । न हो तो भीतिमूल तो भी होना माने-भक्तिमूल न हो तो ‘कुछ भी नहीं करनेवाले को शेषत्व न होगा’ इत्युक्तप्रकार शेषत्वसूचक वृत्ति न होने से शेषत्व की हानि होगी ऐसा भीति से होना । इस में भक्तिमूल होना ही प्रधान है न हो तो भीतिद्वारा तो भी होना चाहिये ।
मूलम्
तदपि नास्ति चेत् अधिकारे उपायोपेययोश्चान्वयो नास्ति ॥ ३०२ ॥
श्लोक
तदपि नास्ति चेदस्याधिकारे नान्त्रयस्तथा । उपायोपेययोश्चैव संबंधो नास्ति सर्वथा ॥ ३०२ ॥
टीका संस्कृता
तदपि नास्ति चेत् किं कर्तव्यमित्यत आह-तदपीत्यादिना । अमुख्यभीतिमूलकैंकर्याभावे किंचित्काराभावेन शेषत्वस्वरूपरूपाधिकारेऽधिकारिसापेक्षे शेषिणः कृपारूपोपायेऽस्याऽनुकूलवृत्तिसापेक्षे तस्य मुखविकासरूपे उपेये चान्वयो नास्तीत्यर्थः ।
टीका हिन्द्या
उसका भी अभाव होनेपर अधिकार उपाय और उपेय में संबंध टूट जायगा ॥ ३०२ ॥ उस का भी अभाव में क्या किया जाय इस शंका में कहते हैं-उस का भी इत्यादि । अमुख्य भीतिमूलकैंकर्य भी न होनेपर किंचित्काराभाव से शेषत्वरूप अधिकार में, अधिकारी की अपेक्षा करनेवाले शेषी की कृपारूप उपाय में, चेतन के अनुकूलवृत्ति की अपेक्षा करनेवाले स्वामी के मुखोल्लास में भी संबंध नष्ट हो जायगा ।
मूलम्
एवं पूर्ववाक्यद्वयेन कैंकर्यावश्यकर्तव्यत्वं कैंकर्याभावे जायमानोऽनर्थविशेषश्च दर्शितः । एवंविधकैंकर्ये साधनबुद्धिं व्यावर्तयति-कैंकर्यमित्यादिना ।
मूलम्
कैंकर्यं फलसाधनमकृत्वा फलं कुर्यात् ॥ ३०३ ॥
श्लोक
कुर्यात्फलं हि कैंकर्यमकृत्वा फलसाधनम् । ॥ ३०३ ॥
टीका संस्कृता
एवमवश्यकरणीयतया पूर्वोक्तकैंकर्यकरणसमये दृष्टादृष्टफलेषु कस्यचित् साधनत्वप्रतिपत्तिमकृत्वा स्वयंप्रयोजनतया प्रतिपत्तिः कार्येत्यर्थः । एतद्विशदयति तच्चेत्यादिना ।
टीका हिन्द्या
कैंकर्य को फल का साधन नहीं मान फल मानना चाहिये ॥ ३०३ ॥ तथा च पूर्व दो वाक्य से कैंकर्य की अवश्यकर्तव्यता कैंकर्याभाव में होनेवाले अनर्थ भी दिखाये गये, अब इस कैंकर्य में साधनबुद्धि को दूर करते हैं-कैंकर्य को इत्यादि । एवं अवश्यकर्तव्यतया पूर्वोक्त कैंकर्य को दृष्टादृष्टफलों का साधन नहीं मान स्वयं प्रयोजन मानना चाहिये ।
मूलम्
तच्च स्वयं हस्तप्रसारणमकृत्वा स यथा हस्तं प्रसारयेत् तथा करणम् ॥ ३०४ ॥
श्लोक
तच्च स्वयमकृत्वा वै हस्तप्रसारणं किल । हस्तं प्रसारयेत्स्वेन स यथा करणं तथा ॥ ३०४ ॥
टीका संस्कृता
तच्चेति-साधनबुद्धिव्यावर्तनं इत्यर्थः । स्वयं हस्तप्रसारणमकृत्वा स यथा हस्तं प्रसारयेत् तथा करणं-कैंकर्यकर्ता स्वयं स्वस्य फलत्वेन तत्सन्निपे कचिदभ्यर्थनमकृत्वा स्वयं प्रयोजनतया कुर्वन्, कैंकर्यस्वीकर्ता सः-‘याः क्रियाः संयुक्ताः स्युरेकांतगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥’ इत्युक्तप्रकारेण स्वपूर्तिमादाय सापेक्ष आहृत्य यथा स्वीकुर्यात्तथा करणम् ।
टीका हिन्द्या
आप हाथ न पसार को हाथ पसारते देख ॥ ३०४ ॥ आप इत्यादि-कैंकर्य कर उनका फल भोग करनेवाले परमात्मा के पास फल को नहीं मांग स्वयं प्रयोजन मान करना, कैंकर्य की स्वीकार करनेवाले ईश्वर को ‘उन सब कार्यों को शिरसा स्वामी प्रतिग्रह करते हैं’ इस वचनानुसार स्वपूर्ति को नहीं देख सापेक्ष हो आदरपूर्वक ईश्वर अंगीकार करें ऐसा करना ।
मूलम्
दत्त्वा स्वस्वीकारमकृत्वा स्वीकारस्य हस्तपण्यं च देयम् ॥ ३०५ ॥
श्लोक
तस्मै दत्त्वा स्वीकार्यं किञ्चिद्दानपरिग्रहम् । पणं च स्वीकारकरं तस्मै देयं कृतात्मभिः ॥ ३०५ ॥
टीका संस्कृता
एतावन्नालं स्वतंत्रः स्वीकृतवानित्यस्य प्रत्युपकारः कर्तव्य इत्याह-दत्वेत्यादि । ‘देहि मे ददामि ते’ इत्युक्तप्रकारेण स्वयं तस्यैकं समर्पयित्वा तत्पार्श्वे एकं प्रयोजनमस्वीकृत्य ‘अद्य ममागयैतावदुक्तं चेदेकस्य शतं सहस्रमधिकतया दत्त्वा पुनश्च दास्यं कुर्याम्’ इति श्रीविष्णुचित्ततनयावत् स्वयं समर्पितं द्रव्यं सोऽंगीचकारेत्युपकारं बुद्ध्वा तदर्थं स्वाभिनिवेशानुगुणं परिपूर्णतया तादृशद्रव्यं समर्प्य पुनश्च कैंकर्यकरणरूपपण्यं देयमित्यर्थः ।
टीका हिन्द्या
देकर नहीं लेकर स्वीकार के बदले मजूरी देना ॥ ३०५ ॥ इतना मात्र नहीं किंतु ‘अपने से दिये हुवे को वह स्वीकार किया है’ इस उपकार को विचार प्रत्युपकार भी करना चाहिये ऐसा कहते हैं-देकर इत्यादि । ‘मुझे दो तुझे दूंगा’ ऐसा आप उस को देकर उस से एक प्रयोजन को न लेकर ‘आज आकर भोजन करनेपर मैं एक को सौ हजार देकर फिर भी दास बनूं’ ऐसा श्रीविष्णुचित्तसूरि के तरह अपने से दिये हुवे को वह अंगीकार किया ऐसा जान उस उपकार के लिये अपने प्रेमानुगुण परिपूर्ण द्रव्य समर्पण कर फिर कैंकर्यकरणरूप मजूरी भी देना चाहिये ।
मूलम्
एवमनन्यप्रयोजनतया किंचित्कारे कृते स्वरूपमुज्वलं भवतीत्यनर्थं दृष्टांतमाह-श्रीविदुरवदित्यादिना ।
मूलम्
श्रीविदुरवत् श्रीमालाकारवत् कुब्जावच्च किंचित्कारे कृते स्वरूपमुज्वलं भवति ॥ ३०६ ॥
श्लोक
किंचित्कारे कृते स्वस्य स्वरूपमुज्ज्वलं भवेत् । श्रीमद्विदुरवत्कुब्जावन्मालाकारवत्तथा ॥ ३०६ ॥
टीका संस्कृता
दृष्टांतभूतानां किंचित्कारप्रकारमाह-अङ्कशोधनरहितमित्यादिना ।
टीका हिन्द्या
दृष्टांतभूत श्रीविदुर, श्रीमालाकार और कुब्जा के तरह कैंकर्य करनेपर ही स्वरूप उज्ज्वल होगा ॥ ३०६ ॥ एवं अनन्यप्रयोजन हो कैंकर्य करने से ही स्वरूप उज्ज्वल होगा इस अर्थ को दृष्टांतपूर्वक कहते हैं-श्रीविदुर इत्यादि ।
मूलम्
अङ्कशोधनरहितमोदनं, केशगंधरहितं पुष्पं, चूर्णस्पर्शरहितो गन्धश्च तैर्दत्तः ॥ ३०७ ॥
श्लोक
केशगन्धं विना पुष्पं मोदनं शुल्कवर्जितम् । चूर्णस्पर्शं विना गन्धमददन् विदुरादयः ॥ ३०७ ॥
टीका संस्कृता
अङ्कशोधनरहितमोदनं नाम-प्रथममादरेण दत्त्वा पश्चादस्य द्रव्यं कुतो न दीयत इति अङ्गवस्त्रशोधनार्थमशोधनं कृत्वा भुक्तवतो मनो यथा दुःखितं स्यात्तथा प्रयोजनांतरवरदत्वव्यावृत्तं खलु भुक्तवतो हृदयं यथा प्रसन्नं स्यात्तदध्यवसाययोग्यमोदनम् । एतादृशोदनं खलु-‘भुक्तवत्सु द्विजाग्र्येषु निषण्णः परमासने । विदुरान्नानि बुभुजे शुचीनि गुणवंति च ॥’ इति पावनत्वभोग्यत्वेन प्रशस्तं विदुरेणास्य समर्पितम् । केशगन्धरहितपुष्पं नाम-अग्निना स्पर्शो भवति चेत् केशगंधः स्यात्तथाविधः खलु पुष्पस्वभावः, तथैव प्रयोजनांतरस्पर्शरूपकेशगंधो यथा न स्यात्तथानन्यप्रयोजनपरिमलयुक्तमर्प्यमाणं पुष्पम् । एतादृशं पुष्पं खलु-‘आगतौ द्विजवर्यौ तौ यन्मे गृहम उपागतौ । धन्योऽहमर्चयिष्यामीत्याह माल्योपजीवनः ॥’ इति विशेषधैर्यमादाय लभ्यते तथाऽत्यादरपूर्वकं श्रीमालाकारेण दत्तम् । चूर्णस्पर्शरहितो गन्धो नाम-बहुवित्तव्ययसाध्यत्वेऽपि चूर्णलवस्पर्शो सति नष्टं यथा स्यात्तथा खलु चन्दनस्वभावः । तथा प्रयोजनांतरस्पर्शरूपदोषं विनाऽनन्यप्रयोजनं चन्दनम् । एतादृशं चन्दनं स तु-‘सुगंधमेतद्राजा रुचिरं रुचिरानने । आयोग्यतां विचारयंत्यनुलेपनाय चन्दनमदात्’ इति तत्प्रार्थनानंतरमुपलेपनाय कुब्जया दत्तम् । एवमनन्यप्रयोजनतया किंचित्कारे कृते पर्यायेण स्वरूपमुज्वलं भवतीत्यर्थः । एवमेतावता वस्तव्य।दिगणनायां चरमोक्तं कर्तव्यं कैंकर्यं शोधयित्वा तादृशकैंकर्येण स्वरूपमुज्वलं भवतीत्युक्तम् ।
टीका हिन्द्या
कमर को बिना खोजे अन्न, केशरहित पुष्प, चून के स्पर्शरहित चन्दन भी वे लोग दिये हैं ॥ ३०७ ॥ दृष्टांतभूत तीनों का कैंकर्यप्रकार को कहते हैं-कमर इत्यादि । कमर के बिना खोजे अन्न माने-पहिले आदरपूर्वक अन्न को खवाकर पीछे इस का मूल्य दो ऐसा द्रव्य ढूंढने के लिये कमर खोज भोजन करनेवाले के हृदय को दुःखी करनेवाले प्रयोजनान्तरपर दीयमान अन्न के तरह न हो भोजन करनेवाले का हृदय संतुष्ट हो जैसा अनन्यप्रयोजन हो दीयमान अन्न । ऐसे अन्न को ही ‘ब्राह्मण लोग भोजन करनेपर उत्तमासन में बैठ शुचि और गुण विदुर के अन्न को भोजन किये हैं’ ऐसा पावनत्वभोग्यत्व से प्रशस्त अन्न को विदुरजी समर्पण किये हैं । केशरहित पुष्प माने-अग्निस्पर्श होनेपर पुष्प केशगंधवाले हो जाते हैं, ऐसा ही प्रयोजनांतरस्पर्शरूपकेशगंधरहित अनन्यप्रयोजनत्वरूपपरिमलयुक्त पुष्प । ऐसे पुष्प के ही ‘अनुग्रह करनेवाले सब के मालिक आप दोनों हमारे घर आये हैं मैं धन्य हुआ हूं आप की आराधना करूंगा ऐसा मालाओं को बेचनेवाला कहे हैं’ ऐसा पराशर ऋषि जैसा श्लाघा करें तैसा मालाकार आदरपूर्वक फूल समर्पण किये हैं । चून के स्पर्शरहित चन्दन माने-सहस्रस्वर्ण के मूल्य से बनाया हुआ चन्दन चूत का स्पर्श होने से नष्ट होता है तैसा प्रयोजनांतरपरीक्षेपरहित अन्यप्रयोजनभूत चन्दन । ऐसे चन्दन को ‘यह सुगंध है यह राजा के अर्थ है यह सुंदर है इन से भिन्न हम दोनों के शरीर के सदृश चन्दन’ श्रीकृष्ण की प्रार्थना करनेपर लगाने योग्य चन्दन कुब्जा दीथी । तथा च इस प्रकार अनन्यप्रयोजनपूर्वक कैंकर्य करने से ही कैंकर्याश्रयस्वरूप उज्ज्वल होता है ।
मूलम्
अत्र मुक्तावस्थायां कैंकर्यदशायां स्वरूपमुज्वलं भवतीत्यर्थादुक्तमिति विचार्य कैंकर्यदशायाः पूर्वदशाविशेषेष्वपि स्वरूपमुज्वलं कर्तव्यमित्याह-कैंकर्यदशादित्यादिना ।
मूलम्
कैंकर्यदशावत्पूर्वदशास्वपि स्वरूपमुज्वलं कर्तव्यम् ॥ ३०८ ॥
श्लोक
स्वरूपमुज्ज्वलं कार्यं पूर्वास्वपि दशासु वै । आत्मयाथार्थ्यविद्भिर्नित्यकैंकर्यकालयत् ॥ ३०८ ॥
टीका संस्कृता
पूर्वदशास्विति-कैंकर्यावददशास्वित्यर्थः ।
टीका हिन्द्या
कैंकर्य की तरह पूर्वदशा में भी स्वरूप को उज्ज्वल बनाना चाहिये ॥ ३०८ ॥ एवं अनन्यप्रयोजन हो कैंकर्य करने से ही स्वरूप उज्ज्वल होता है इस वाक्य में मुक्तावस्था की कैंकर्यदशा में स्वरूप उज्ज्वल होता है यह भी कहागया ऐसा विचार कैंकर्यदशा में जैसा स्वरूप को उज्ज्वल बनाते हैं तैसा कैंकर्य की पूर्वदशा में भी स्वरूप को उज्ज्वल बनाना चाहिये ऐसा कहते हैं-कैंकर्यदशा की इत्यादि । पूर्वदशा माने-कैंकर्य की पूर्वदशा ।
मूलम्
पूर्व चतस्रो दशाः ॥ ३०९ ॥
श्लोक
पूर्व दशाश्च वै जायतेऽधिकारिणाः ॥ ३०९ ॥
टीका संस्कृता
पूर्व कति दशा इत्याकांक्षायामाह-पूर्वमित्यादि ॥
टीका हिन्द्या
पहिले चार दशा हैं ॥ ३०९ ॥ पहिले कितनी दशायें हैं इस शंका में कहते हैं-पहिले इत्यादि ॥
मूलम्
ताश्च-ज्ञानदशा, वरणदशा, प्राप्तिदशा, प्राप्यानुभवदशा च ॥ ३१० ॥
श्लोक
ताश्च ज्ञानदशा प्राप्तिदशा स्वीकारकस्य च । प्राप्यानुभूतिकालस्य चतस्रः परिकीर्तिताः ॥ ३१० ॥
टीका संस्कृता
ता दशाः का इत्याकांक्षायामाह-ताश्चेत्यादि । ज्ञानदशा नाम-स्वस्वाचार्योपदेशेन ज्ञानोत्पत्तिदशा । वरणदशा नाम-सिद्धोपायभूतः सर्वेश्वरः स्वस्योपाय इति स्वीकारदशा । प्राप्तिदशा नाम-सांसारिकसकलदुरितानिवृत्तिपूर्वकं तच्चरणप्राप्तिदशा । प्राप्यानुभवदशा नाम-प्राप्यभूतं तं प्राप्यानुभवदशा । एतदनुभवजनितप्रीतिकारितकैंकर्यमेव परमपुरुषार्थः । प्रथमापेक्षिततत्त्वज्ञानं ज्ञानफलमुपायवरणं वरणफलं प्राप्तिः प्राप्तिफलमनुभवोऽनुभवजनितप्रीतिकारितकैंकर्यमिति क्रमः । तस्मात्कैंकर्यदशा चरमदशा पूर्वदशाचतुष्टयमप्यत्रारोहितुं सोपानपंक्तिः ।
टीका हिन्द्या
ज्ञानदशा, वरणदशा, प्राप्तिदशा, प्राप्यानुभवदशा च ॥ ३१० ॥ वह चार दशायें कौन हैं इस शंका में कहते हैं-ज्ञानदशा इत्यादि । ज्ञानदशा माने-आचार्योपदेश से अपने को ज्ञानप्राप्ति होने की दशा । वरणदशा माने-सिद्धोपायभूत सर्वेश्वर को अपनी उपायतया स्वीकार करने की दशा । प्राप्तिदशा माने-सांसारिक सकलदुरितनिवृत्तिपूर्वक उन के चरणारविंदों की प्राप्तिदशा । प्राप्यानुभवदशा माने-प्राप्यभूत सर्वेश्वर के पास जा अनुभव करने की दशा । एतत्अनुभवजनितप्रीति से किये जानेवाले कैंकर्य ही परम पुरुषार्थ है प्रथमापेक्षिततत्त्वज्ञान, ज्ञानफल उपायवरण, वरणफल प्राप्ति, प्राप्तिफल अनुभव, अनुभवजनितप्रीति से किये जानेवाले कैंकर्य, ऐसा क्रम है । इस कारण कैंकर्यदशा चरमदशा है उस की पूर्वदशा चारो कैंकर्यदशा में जानेके लिये सीढियां हैं ।
मूलम्
ज्ञानदशायामज्ञानं पुरस्कार्य, वरणदशायामपूर्तिः पुरस्कार्या, प्राप्तिदशायामार्तिः पुरस्कार्या, प्राप्यानुभवदशायामभिनिवेशः पुरस्कार्यः ॥ ३११ ॥
श्लोक
ज्ञानकाले पुरस्कार्यमज्ञानं वरणे तथा । कालेऽपूर्तिः पुरस्कार्या चार्तिः प्राप्तिदशास्वपि ॥ प्राप्यानुभवकालेऽभिनिवेशं च तथा मतः ॥ ३११ ॥
टीका संस्कृता
तत्तदशासु स्वरूपस्योज्ज्वलकरणप्रकारं दर्शयति-ज्ञानदशायामित्यादिना । ज्ञानदशायामज्ञानस्य पुरस्करणं नाम-आचार्यस्योपर्युपर्युज्ज्ञानापनं कर्तुं परिष्वंगेषु स्वस्याज्ञानस्य बहुकालं विज्ञापनम् । वरणदशायामपूर्तिः पुरस्करणं नाम-‘अनुष्ठितव्रतं नास्ति’, ‘न धर्मनिष्ठोऽसि’, ‘सत्कर्म नैवकिल किंचन संचिनोमि’ इत्यादिप्रकारेण स्वस्मिन् प्राप्तिहेतुत्वेन स्वीकारार्हसु कृताद्यभावरूपाकिंचन्यस्य पुरस्करणम् । प्राप्तिदशायामार्तिः पुरस्करणं नाम-यदा प्राप्तिः स्यात्तदैव स्यादिति स्थितिं विना ‘न त्वां विना क्षणं धरे’, ‘आह्वानकालोऽद्यापि नागत’ इत्यादिप्रकारेण विलंबाऽसहनस्य स्वक्लेशातिशयस्य प्रदर्शनम् । प्राप्यानुभवदशायामभिनिवेशस्य पुरस्करणं नाम-अतिपिपासावान् पीतं जलं बहुकालं भुक्त्वा न पर्याप्तं भवति तद्द्वदनुभूतभूतांशेन तृप्तिं विना उपर्युपरि स्वस्य माधुर्यमनुभवितुं तथाऽऽशाकरणम् । इत्येवं ज्ञानदशाप्रभृतिचतुर्दशासु एतेषामाकाराणां पुरस्करणमिति ।
टीका हिन्द्या
ज्ञानदशा में अज्ञान को आगे करेगा, वरणदशा में अपूर्ति को आगे करेगा, प्राप्तिदशा में आर्ति को आगे करेगा, प्राप्यानुभवदशा में आशा को आगे करेगा ॥ ३११ ॥ इन दशाओं में स्वरूप के उज्ज्वल बनाने के प्रकार को दिखाते हैं-ज्ञानदशा में इत्यादि । ज्ञानदशा में अज्ञान को आगे करना माने-आचार्य जैसा अपने को ऊपर ऊपर अज्ञात ज्ञापन करेंगे तैसा तत्त्वहित पुरुषार्थों में अपने अज्ञान को बारम्बार निवेदन करना । वरणदशा में अपूर्ति को आगे करना माने-‘व्रतानुष्ठान नहीं किया हूं, कर्म नहीं हूं, अच्छे कर्म को किंचित् भी आर्जन नहीं किया हूं’ इत्यादि प्रकार फल के हेतुतया समझने के योग्य किसी तरह का सुकृत भी हम में नहीं हैं ऐसा आकिंचन्य को आगे करना । प्राप्तिदशा में आर्ति को आगे करना माने-जब प्राप्त होगा तब प्राप्त हो ऐसा न कह ‘अब परमपद को शीघ्र प्राप्त होऊंगा’, ‘धारणा नहीं कर सकता हूं, बुलाने का काल अभी आया नहीं क्या’ इत्यादि प्रकार विलंबाऽसहनता से होनेवाले अपने क्लेशातिशय को दिखाना । प्राप्यानुभवदशा में अभिनिवेश (आशा) को आगे करना माने-अत्यंत प्यासे को जैसा पीना हुआ जल से तृप्ति नहीं होती तैसा अनुभूत अंश में तृप्त न हो ऊपर ऊपर अपने माधुर्य को अनुभव करने के लिये आशा करना । इस प्रकार ज्ञानदशाप्रभृति चारों दशा में इनको आगे करना माने-इन इन आकारों को आगे करना ही है ।
मूलम्
एवमेतेषु तेन पुरस्क्रियमाणेषु तत्तदशासु निवृत्तिः केन जायत इत्याकांक्षायामाह-अज्ञानस्येत्यादि ।
मूलम्
आचार्यज्ञानतोऽज्ञाननिवृत्तिः, ईश्वरपूर्तितोऽपूर्तेर्निवृत्तिः, कृपयाऽऽर्तेर्निवृत्तिः, अनुभवादाभिनिवेशस्य निवृत्तिः ॥ ३१२ ॥
श्लोक
आचार्यज्ञानतोऽज्ञाननिवृत्तिरस्य जायते । ईश्वरपूर्तितोऽपूर्तेर्निवृत्तिः कृपयाऽऽर्तेः पुनः । आर्तेर्नाशोऽनुभूत्या ह्याभिनिवेशस्य नाशनम् ॥ ३१२ ॥
टीका संस्कृता
तत्वहितादिष्वत्यंतानभिज्ञो विलंबासहनादिकं कृत्वाऽज्ञानं, ज्ञानं, आर्तिः, अभिनिवेशश्चेत्येतान् परस्परमसंकीर्णतया पुरस्करोति । एतस्य निवृत्तिः-अज्ञानानिवृत्तिः-अज्ञानज्ञापनं कर्तुमुपयुक्तज्ञानं दत्वाऽज्ञाननिवृत्तिं कर्तुं निधानभूतेन स्वाचार्यस्य ज्ञानेन, स्वस्मिन् प्राप्तिहेतुभूतसत्कर्माद्यभावरूपापूर्तेः शमनमस्मिन् विद्यमानमेकमप्यनपेक्ष्य कार्यस्य कर्तुरुपायभूतस्येश्वरस्य सहकारिनैरपेक्ष्यरूपपूर्त्या, अविलंबेन वरणप्राप्त्यभावरूपातर्निवृत्तिः-आर्तिं दृष्टायामसहमानतया तदैव कार्यं कृत्वा समापयितुं निदानभूतया परदुःखासहिष्णुरूपया कृपया, अनुभवदशायामनुक्षणं जायमानस्याभिनिवेशस्य निवृत्तिस्तद्विषयस्योपर्युपर्यनुभवेनेत्यर्थः ।
टीका हिन्द्या
अज्ञान आचार्य ज्ञान से दूर होता है, अपूर्ति ईश्वरपूर्ति से दूर होती है, आर्ति कृपा से दूर होती है, आशा अनुभव से दूर होती है ॥ ३१२ ॥ तत्त्वहितादि में अत्यंत अनभिज्ञ होने से विलंबासहनतादि कर अज्ञान, अपूर्ति, आर्ति, आशा इन चारों को अलग अलग दिखाते हैं । इन का निवारण-अज्ञाननिवृत्ति-अज्ञानज्ञापन करने को उपयुक्त ज्ञान को देकर अज्ञाननिवृत्ति करनेका कारणभूत अपने आचार्य के ज्ञान से, फल के हेतुतया [[सत्कर्मों|उपायों]] का अभावरूप अपूर्ति-चेतन के पास से कुछ भी अपेक्षा नहीं कर कार्य करने वाले ईश्वर की सहकारिनिरपेक्षता रूप पूर्ति से दूर होती है । शीघ्र चरणों की प्राप्ति के अभाव से होनेवाली आर्ति-आर्ति को देख न सह उसी बखत कार्य करने के उपयुक्त परदुःखासहिष्णुत्वरूप ईश्वर की कृपा से दूर होती है । अनुभवदशा में क्षण क्षण उत्पन्न होनेवाली आशा उस विषय का ऊपर ऊपर अनुभव करने से नाश होती है ।
मूलम्
एतदज्ञानादिचतुष्टयस्य को वा हेतुरित्याकांक्षायामाह-अज्ञानस्येत्यादि ।
मूलम्
अज्ञानस्य हेतुरपराधः, अपूर्तेर्हेतुर्ज्ञानपूर्तिः, आर्तेर्हेतुरलाभः, अभिनिवेशस्य हेतुः सौंदर्यम् ॥ ३१३ ॥
श्लोक
अज्ञानहेतुरागः स्यादपूर्तेर्मानमूर्तिकः । आर्तेर्हेतुरलाभः स्यात्सौंदर्यं तुर्यकारणम् ॥ ३१३ ॥
टीका संस्कृता
ज्ञानदशायां पुरस्क्रियमाणस्याज्ञानस्य मूलमनादिकालं कृत्याकरणाकृत्यकरणातदिरूपोऽपराधः, वरणदशायां पुरस्क्रियमाणाया अपूर्तेर्निदानं खस्मिन् प्राप्तिहेतुतया ज्ञातुं योग्यमेकमपि नास्तीति दर्शनोपयुक्तज्ञानपूर्तिः, प्राप्तिदशायां पुरस्क्रियमाणाया आर्तेर्हेतुः प्राप्यवस्तुनः शीघ्राप्त्यभावः, प्राप्यानुभवदशायां पुरस्क्रियमाणाभिनिवेशस्य कारणं अनुभूतमात्रेण तृप्त्यभावात् उपर्युपर्याशां कारयितृ महसौंदर्यमित्यर्थः ।
टीका हिन्द्या
अज्ञान का हेतु अपराध है, अपूर्ति का हेतु ज्ञानपूर्ति है, आर्ति का हेतु अलाभ है, आशा का हेतु सौंदर्य है ॥ ३१३ ॥ ज्ञानदशा में आगे कियेजानेवाले अज्ञान का हेतु-अनादिकालकृतअकृत्यकरण-कृत्यअकरणादिरूप अपराध है । वरणदशा में आगे किये जानेवाले अपूर्ति का हेतु-फल के हेतुतया समझने के योग्य किसी उपाय के अभाव को दिखाने के उपयुक्त ज्ञान की पूर्ति है । प्राप्तिदशा में आगे कियेजानेवाली आर्ति का हेतु-प्राप्यवस्तु को शीघ्र प्राप्त न होने से आया हुआ अलाभ है । प्राप्यानुभवदशा में आगे की जानेवाली आशा का हेतु-अनुभूत अंश में तृप्त न हो ऊपर ऊपर अनुभव में आशा को देनेवाला उसका सौंदर्य है ।
मूलम्
आर्त्यभिनिवेशप्रकारोऽर्चिरादिगतौ उक्तः ॥ ३१४ ॥
श्लोक
अचिरादिगतावुक्तोऽभिनिवेशप्रकारकः । आर्तिप्रकारकश्चात्र विस्तरेण तपोधनैः ॥ ३१४ ॥
टीका संस्कृता
आभिनिवेशः कीदृश इत्यत आह-आभिनिवेशेत्यादि । ‘एतादृशस्वभावमपि वयं न सहामहे’ इत्यारभ्य लक्ष्म्या शपथस्त्वया शपथ’ इति प्रकारेण भगवत्कृपां स्वसमीपे स्थापयितुं मार्गप्रतिरोधं च कृत्वा प्राप्तव्यताप्रयोजकपरमभक्तिवृद्ध्यतिशयेनेत्यंतमार्तिप्रकारः, तत्र रक्तपीतांबरं श्रीमन्मुखं रक्तस्निग्धाधरं कुंतलं दृष्टेति प्रकारेण प्राक् सौंदर्यमनुभूयेत्यारभ्य स्वप्राप्तिजन्यप्रीतिप्रयुक्तकांतिमनुभूयेत्यंतमभिनिवेशप्रकारश्च तस्मिन् प्रबंधे सुस्पष्टमुक्त इत्यर्थः ।
टीका हिन्द्या
आर्ति और आशा का स्वरूप अर्चिरादिगति में कहे हैं ॥ ३१४ ॥ आर्ति और आशा का आकार क्या है इस शंका में कहते हैं-आर्ति इत्यादि । ‘शरीर के स्वभाव को जैसा हमलोग न सह सक्ते’ ऐसा आरंभ कर ‘लक्ष्मीजी का शपथ है आप का शपथ है’ ऐसा रोक कर प्राप्त होने के उपयुक्त परमभक्ति का बढना’ यहां तक आर्ति का स्वरूप, ‘रक्तवस्त्र, श्रीमुख, रक्ताधर, केशपाश को देख’ इस वचनानुसार पूर्वस्थित सौंदर्य का अनुभव कर ऐसा प्रारम्भ कर चेतन की प्राप्ति से होनेवाली प्रीतिद्वारा आयी हुई शोभा को अनुभव कर इत्यंत आशा के स्वरूप को भी अचिरादि में स्पष्टतया कहे हैं ।
मूलम्
एवं कैंकर्यदशायाः पूर्वं दशाचतुष्टयमस्ति ताश्चैता इति तत्तद्दशानुगुणमज्ञानादिपुरस्करणे तत्तद्दशासु स्वरूपमुज्ज्वलं भवतीति तादृशाज्ञानादिनिवर्तकमाचार्यज्ञानादिकमिति तादृशाज्ञानादिनिदानानि चोक्तानि ।
मूलम्
एतद्दशाचतुष्टयप्रसंगेऽस्य गुणचतुष्टयमप्यस्ति ॥ ३१५॥
श्लोक
दशाचतुष्टयवद्वैश्य गुणचतुष्टयी ॥ ३१५ ॥
टीका संस्कृता
एतद्दशाचतुष्टयप्रसंगेऽस्य गुणचतुष्टयमाह-अस्येत्यादिना । अस्याधिकारिणः स्वरूपौज्ज्वल्यनिदानतया पूर्वोक्तदशाचतुष्टयवत् स्वरूपौज्वल्यहेतु गुणचतुष्टयमप्यस्तीत्यर्थः ।
टीका हिन्द्या
इस को चार दशा के तरह चार गुण भी हैं ॥ ३१५ ॥ इस अधिकारी को स्वरूपोज्ज्वलता के उपयुक्ततया पूर्वोक्त चार दशा के तरह स्वरूपौज्वल्यहेतु चार गुण भी हैं ।
मूलम्
ते च के इत्यत आह-ज्ञानमित्यादि ।
मूलम्
ज्ञानमज्ञानं शक्तिरशक्तिश्च ॥ ३१६ ॥
श्लोक
अस्यास्ति ज्ञानमज्ञानमशक्तिः शक्तिरेव च ॥ ३१६ ॥
टीका संस्कृता
अस्य गुणचतुष्टयवत्तस्याप्यस्तीत्याह-इदं चेत्यादिना ।
टीका हिन्द्या
ज्ञान, अज्ञान, शक्ति और अशक्ति हैं ॥ ३१६ ॥ इस का गुणचतुष्टय के कहने के प्रसंग में ईश्वर के भी ये गुण हैं ऐसा कहते हैं-ये इत्यादि ।
मूलम्
इदं च तस्याप्यस्ति ॥ ३१७ ॥
श्लोक
ईश्वरेऽपि वसत्येवमिदं गुणचतुष्टयम् ॥ ३१७ ॥
टीका संस्कृता
तस्येति पूर्वोक्त ईश्वरः परामृश्यते ।
टीका हिन्द्या
ये गुण उन के भी हैं ॥ ३१७ ॥ उन दोनों के गुणों के विषय कौन हैं इस शंका में उन को विभक्त कर दिखाते हैं-उन के इत्यादि ।
मूलम्
एवं स्थितानामुभयोरपि गुणानां विषयाः के इत्यतस्तान् विभजते-तस्येत्यादिना ।
मूलम्
तस्य ज्ञानस्य विषयोऽस्य गुणः, अज्ञानस्य विषयोऽस्य दोषः, शक्तेर्विषयोऽस्य रक्षणं, अशक्तेर्विषयः परित्यागः ॥ ३१८ ॥
श्लोक
गुणोऽस्य गोचरस्तस्य ज्ञानस्य परमात्मनः । अज्ञानगोचरश्चास्य दोषो रक्षणं शक्तिगोचरम् । अशक्तेर्विषयस्त्यागश्चेतनस्य परात्मनः ॥ ३१८ ॥
टीका संस्कृता
पूर्वोपादानक्रमं विनेश्वरगुणविषयाणां प्रथममुक्तिश्चेतनगुणविषयकथनानंतरं प्रसंगान्निषिद्धचातुर्विध्यं विस्तरेण वक्तुम् । तस्य ज्ञानस्य विषयोऽस्य गुण इति-‘यः सर्वज्ञः’, ‘सहस्रांशुः’ इत्युक्तप्रकारेण सर्वज्ञस्य तस्य दिव्यज्ञानस्य विषयोऽद्वेषाभिमुख्यमारभ्यैतच्चेतने विद्यमाना आत्मगुणा इत्यर्थः । अज्ञानस्य विषयोऽस्य दोष इति-‘अविज्ञाता सहस्रांशुः’ इति ‘अविज्ञाता हि भक्तानामागस्सु कमलेक्षणः । सदा जगत्समस्तं च पश्यन्नपि हृदि स्थितः ॥’ इति चोक्तप्रकारेण सर्वज्ञत्वे सत्यपि अविज्ञातुस्तस्य ज्ञानस्य विषयः प्रकृतिवश्येनानेन क्रियमाणोऽकृत्यकरणादिदोष इत्यर्थः । शक्तेर्विषयोऽस्य रक्षणमिति-‘परास्य शक्तिर्विविधैव श्रूयते’ इत्युक्तप्रकारेण सर्वशक्तेस्तस्य घटितघटनासामर्थ्यरूपशक्तेर्विषयोऽस्य सकलानिष्टानि दूरीकृत्य स्वरूपानुगुणं सकलेष्टप्रदानरूपरक्षणमित्यर्थः । अशक्तेर्विषयः परित्याग इति-तथा सर्वशक्तेस्तस्याशक्तेर्विषयो दुःसहैरेतत्कृतैर्दोषैः क्रोधेन परित्याग इत्यर्थः ।
टीका हिन्द्या
उन ज्ञान का विषय इस का गुण, उन के अज्ञान का विषय इस का दोष है, शक्ति का विषय इस का रक्षण, अशक्ति का विषय इस का परित्याग है ॥ ३१८ ॥ क्रम को छोड ईश्वरगुण के विषयों को पहिले कहने के कारण चेतनगुणों के विषय को कहने के बाद प्रसंगात् चार प्रकार के निषिद्ध को कहने के लिये । उन ज्ञान का इत्यादि-जो सर्वज्ञ हैं, अपरिमित ज्ञानवान् हैं इन वचनानुसार सर्वज्ञ उन का दिव्यज्ञान का विषय अद्वेषाभिमुख्य लेकर इस चेतन में रहनेवाले आत्मगुण हैं । उन अज्ञान का इत्यादि-नहीं जानते हैं अपरिमित ज्ञानवाले हैं, ‘सदा समस्त जगत् को देखते हुवे हृदय में रहनेपर भी कमलेक्षण सर्वेश्वर भक्तों के पापों को नहीं जानते हैं’ इन वचनानुसार सर्वज्ञ होनेपर भी न जाननेवाले उन के अज्ञान का विषय प्रकृतिवश्य चेतन क्रियमाण अकृत्यकरणादि दोष हैं । शक्ति का इत्यादि-उन की शक्ति बडी है नाना प्रकार सुनी जाती है इत्युक्त प्रकार सर्वशक्ति जन का अघटितघटनासामर्थ्यरूप शक्ति का विषय चेतन के समस्त अनिष्ट को दूर कर स्वरूपानुगुण सकलेष्टप्रदानरूप रक्षण है । अशक्ति का इत्यादि-सर्वशक्ति स्वामी की अशक्ति का विषय दुःसह चेतनकर्तृक दोषों से क्रुद्ध हो हाथ छोडना है ।
मूलम्
एवमीश्वरगुणविषयानुक्त्वा चेतनगुणविषयानाह-अस्येत्यादिना ।
मूलम्
अस्य ज्ञानस्य विषय आचार्यगुणः, अज्ञानस्य विषय आचार्यदोषः, शक्तेर्विषय आचार्यकैंकर्यं, अशक्तेर्विषयो निषिद्धानुष्ठानम् ॥ ३१९ ॥
श्लोक
देशिकस्य गुणो ज्ञानगोचरोऽस्य च दूषणम् । अज्ञानविषयः शक्तेर्विषयस्तस्य दास्यता ॥ अशक्तेर्विषयोऽवैधानुष्ठानाभाव उच्यते ॥ ३१९ ॥
टीका संस्कृता
अस्य ज्ञानस्य विषय आचार्यगुण इति-अस्य चेतनस्य ज्ञानस्य विषयो महोपकारकस्याचार्यस्य सद्गुणसमूह इत्यर्थः । अज्ञानस्य विषय आचार्यदोष इति-अज्ञानविषयो आचार्यदिव्यविग्रहस्वभावज आगंतुकदोष इत्यर्थः । शक्तेर्विषय आचार्यकैंकर्यमिति-अस्य प्रवृत्तिशक्तेर्विषयः स्वाचार्यस्य प्रीत्यर्थं क्रियमाणकैंकर्यमित्यर्थः । अशक्तेर्विषयो निषिद्धानुष्ठानमिति-अस्याशक्तेर्विषयः स्वरूपोपायपुरुषार्थविरोधिनां शास्त्रनिषिद्धानामनुष्ठानमित्यर्थः ।
टीका हिन्द्या
इस का ज्ञान का विषय आचार्यगुण, अज्ञान का विषय आचार्यदोष, शक्ति का विषय आचार्यकैंकर्य, अशक्ति का विषय निषिद्धानुष्ठान हैं ॥ ३१९ ॥ इस का ज्ञान का इत्यादि-इस चेतन का ज्ञान का विषय महोपकारक आचार्य के सद्गुणसमूह । अज्ञान का इत्यादि-इस के अज्ञान का विषय आचार्य के शरीरस्वभाव से होनेवाला आगंतुक दोष है । शक्ति का इत्यादि-इस की प्रवृत्तिशक्ति का विषय स्वाचार्य के मुखोल्लासार्थ क्रियमाण कैंकर्य है । अशक्ति का इत्यादि-इस की अशक्ति का विषय स्वरूपोपायपुरुषार्थों के विरोधी निषिद्धों के अनुष्ठान हैं ।
मूलम्
एवंभूतस्य निषिद्धस्य भेदानाह-निषिद्धेत्यादिना ।
मूलम्
निषिद्धानुष्ठानं चतुर्विधम् ॥ ३२० ॥
श्लोक
अवैधकरणं तच्च चतुर्धा कथितं बुधैः ॥ ३२० ॥
टीका संस्कृता
उपादेयगुणचतुष्टयवद्धेयं निषिद्धं च चतुर्विधमित्यर्थः ।
टीका हिन्द्या
निषिद्ध चार प्रकार हैं ॥ ३२० ॥ उपादेय गुणचतुष्टय के तरह त्याज्य निषिद्ध भी चार प्रकार हैं ।
मूलम्
स च चतुर्विधः को वेत्यतस्तान्निर्दिशति-तच्चाकृत्यकरणमित्यादि ।
मूलम्
तच्चाकृत्यकरणं भगवदपचारो भागवतापचारोऽसह्यापचारश्च ॥ ३२१ ॥
श्लोक
अकृत्यकरणं तद्वदपचारो हरेस्तथा । भागवतापचारश्चासह्यागः स्यात्ततः परम् ॥ ३२१ ॥
टीका संस्कृता
अस्य वेषः को वेत्याकांक्षायां तान् क्रमेण विवृणोति-अकृत्यकरणं नामेत्यादिना ।
टीका हिन्द्या
अकृत्यकरण, भगवदपचार, भागवतापचार और असह्यापचार हैं ॥ ३२१ ॥ वह चार कौन हैं इस शंका में कहते हैं-अकृत्यकरण इत्यादि । इन का स्वरूप क्या हैं इस शंका में कहते हैं-अकृत्यकरण इत्यादि ।
मूलम्
अकृत्यकरणं नाम-परहिंसा परस्तोत्रं परदारपरिग्रहः परद्रव्यापहारोऽसत्यकथन मभक्ष्यभक्षणमेतत्प्रभृति ॥ ३२२ ॥
श्लोक
अकृत्यकरणं नाम परहिंसा परस्तुतिः । परद्रव्यापहारोऽथ परदारपरिग्रहः ॥ असत्यकथनं तद्वदभक्ष्यभक्षणादयः ॥ ३२२ ॥
टीका संस्कृता
परहिंसा नाम-‘न हिंस्यात्सर्वा भूतानि’ इति विधिमतिक्रम्य क्रियमाणा प्राणिपीडा । परस्तोत्रं नाम-प्राप्तविषयस्तोत्रार्हा वाचाऽप्राप्तविषयस्तोत्रम् । परदारपरिग्रहो नाम-परेषामनन्यर्हाणां स्त्रीविषयाणां मोहनादिभिः स्वीकारः । परद्रव्यापहारो नाम-परेषां स्वभूतस्य वस्तुनस्तदनुमतिं विना प्रकाशमप्रकाशं वा ग्रहणम् । असत्यकथनं नाम-यथादृष्टार्थविषयत्वं भूतहितत्वं च विना स्थितस्य वचनस्य कथनम् । अभक्ष्यभक्षणं नाम-जात्याश्रयनिमित्तदुष्टानां स्वस्य भक्षणानर्हाणां भक्षणम् । एतत्प्रभृतीनि-‘परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिंतनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ पारुष्यमनृतं चैव पैशुनं चैव सर्वशः । अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । अदत्तानामुपादानं हिंसा चैवाविधानतः ॥ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ।’ इत्यादिभिर्मन्वादिस्मृतिषूक्तानामनेकत्वात् ।
टीका हिन्द्या
अकृत्यकरण माने-परहिंसा, परस्तोत्र, परदारपरिग्रह, परद्रव्यापहार, असत्यकथन, अभक्ष्यभक्षण आदि हैं ॥ ३२२ ॥ परहिंसा माने-किसी प्राणी की हिंसा मत करो इस विधि को उल्लंघन कर क्रियमाणप्राणिपीडा । परस्तोत्र माने-प्राप्तविषय के स्तोत्र करने योग्य वागिंद्रिय से अप्राप्तविषयों का स्तोत्र करना । परदारपरिग्रह माने-औरों के अनन्यर्हा स्त्रीआदिविषयों को मोहादि से स्वीकार करना । परद्रव्यापहार माने-औरों के द्रव्य को उन की अनुमति विना प्रकाशरूप से या गुप्तरूप से ग्रहण करना । असत्यकथन माने-यथादृष्टवस्तु के विषय और भूतहित से भिन्न वचन को कहना । अभक्ष्यभक्षण माने-जात्याश्रयनिमित्तरूप दुष्ट अपने को अभक्ष्य वस्तुओं को भक्षण करना । आदि कहने से-परद्रव्य में आशा करना, मन से अनिष्टचिंतन कर व्यर्थ ही किसी वस्तु की अपेक्षा करना ये तीनों मानसिक पाप कर्म हैं । कठोरवचन, चुगलखोरी, असंगतप्रलाप, ये चारों वाचिक पाप हैं । न दिये हुए के को लेना, शास्त्रनिषिद्ध हिंसा करना, परदारा को भोगना ये तीनों कायिक पाप हैं इत्यादि मनवादिस्मृतियों में कहेजानेवाले अनेक हैं ।
मूलम्
अनन्तरं भगवदपचारं विवृणोति-भगवदुपचारो नाम-देवतांतरेस्तुल्यतयेश्वरस्य चिंतनं, रामकृष्णाद्यवतारेषु मनुष्यसजातीयत्वबुद्धिः, वर्णाश्रमविपरीतोपचारः, अवतार उपादाननिरूपणं, आत्मापहारः, भगवद्द्रव्यापहार एतत्प्रभृतिः ॥ ३२३ ॥
श्लोक
भगवदपचारश्च देवतांतरतुल्यतः । भगवच्चिन्तनं रामाद्यवतारे नराकृति- धीर्वर्णाश्रमवैजात्योपचारोऽचवतारके । उपादानकथात्मनो हरणं माधवस्य च । द्रव्यापहार इत्येवमादयः परिकीर्तिताः ॥ ३२३ ॥
टीका संस्कृता
देवतांतरैस्तुल्यतयेश्वरस्य चिंतनं नाम-‘ये तु सामान्यभावेन मन्यंते पुरुषोत्तमम् । ते वै पापंडिनो ज्ञेयाः सर्वकर्मबहिष्कृताः ॥ यस्तु नारायणं देवं सामान्येनाभिमन्यते । स याति नरकं घोरं यावच्चंद्रदिवाकरौ ॥’ इति देवतांतरैरीश्वरस्य समबुद्धिर्नकर्तव्येति शास्त्रं वदति । ‘अंतः प्रविष्टः शास्ता जनानां सर्वात्मा’, ‘तमीश्वराणां परमं महेश्वरम्’, ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्युक्तप्रकारेण स्वेतरसकलनियामकस्य समानाधिकरहितस्येश्वरस्यांगान्यन्या देवता इति तच्छरीरतयाऽभिहितैर्ब्रह्मादिदेवतांतरैः समवृद्धिकरणम् । रामकृष्णाद्यवतारषु मनुष्यसजातीयत्वबुद्धिर्नाम-‘अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यत्ममायया ॥’ इत्युक्तप्रकारेणाजहत्स्वभावस्याप्राकृतदिव्यसंस्थानमितरसजातीयं कृत्वा दुःखप्रचुरे मनुष्यजन्मन्याविर्भूतस्य स्थितिमज्ञात्वाऽवतारे याथार्थ्याभिनिवृत्त्यर्थं तेन कृतं गर्भवासजननमोहादिकमादाय कर्मवश्यानां मनुष्याणां सजातीयोऽयमिति चिंतनम् । वर्णाश्रमविपरीतोपचारो नाम-तदाराधनदशायां त्रैवर्णिका वैदिकमंत्रैश्चतुर्थवर्णैराराधनं, उत्तमाश्रमिप्रभृतिभिः गृहस्थवत्तांबूलादिनिवेदनकरणम् । अर्चावतारे उपादाननिरूपणं नाम-आश्रिताभिमतं यादृशं रूपमित्यादिप्रकारेणाश्रिताभिमतं यत्किंचिद्रव्यं विग्रहत्वेनांगीकृत्य तत्राप्राकृतविग्रहे क्रियमाणमादरं कृत्वा स्थितस्य स्थितिमविदित्वा मातृयोनिपरीक्षकवदिदमेतद्द्रव्यं खल्विति विग्रहोपादाननिरूपणम् । आत्मापहारो नाम-‘किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥’ इति सकलपापमूलत्वेनोक्ता भगवदेकशेषभूत आत्मवस्तुनि स्वतंत्रबुद्धिः । भगवद्द्रव्यापहारो नाम-तंडलचन्दनप्रभृति प्रकाशमप्रकाशं वा स्वस्वत्वापादनम् । प्रभृतिरित्यनेनैवं शास्त्रेषु बहूनामुक्तत्वात् । द्वात्रिंशदपचारा उक्ताः ।
टीका हिन्द्या
भगवदपचार माने-ईश्वर को देवतांतर के बराबर समझना, रामकृष्णादि अवतारों में मनुष्य सजातीयबुद्धि करना, वर्णाश्रम से विपरीत उपचार करना, अवतार में उपादानद्रव्य का निरूपण करना, आत्मापहार और भगवद्रव्यापहार आदि हैं ॥ ३२३ ॥ अनन्तर भगवदपचार को विवरण करते हैं-भगवदपचार इत्यादि । ईश्वर को इत्यादि-जो पुरुष पुरुषोत्तम की अन्य देवताओं के बराबर समझते हैं सर्वकर्म से वहिष्कृत उन को पाखंडी समझना । जो सर्वेश्वर नारायण को अन्यदेवता के समान समझता है वह चंद्र और सूर्य के आयु तक घोर नरक में वास करता है । ऐसा देवतांतरों के बराबर ईश्वर को न समझना ऐसे शास्त्र कहते हैं । ‘भीतर में प्रविष्ट हो संपूर्ण लोगों के शासन करनेवाले सब के आत्मा, ईश्वरों के भी परम ईश्वर उस के सदृश और अधिक भी नहीं हैं’ इन वचनानुसार ईश्वरव्यतिरिक्त समस्त चेतनों के नियामक समानाधिकरहित ईश्वर को ‘अन्यदेवता उन के अंग है’ ऐसा उन के शरीरतया कहे जानेवाले ब्रह्मादि देवताओं के समान समझना । रामकृष्णादि अवतार इत्यादि-‘जन्मरहित, नाश रहित भूतों के ईश्वर होनेपर भी अपने स्वभाव से और इच्छा से अवतार लेता हूं’ इस वचनानुसार अपने स्वभाव को न छोड अप्राकृतदिव्यविग्रह को इतरसजातीय कर दुःखसागरमग्न मनुष्यों के रूप में स्थिति को न जान अवतार में विश्वास होने के लिये तत्कर्तृक गर्भवास, जनन, शोक, मोहादि यों को देख कर्मवश्य मनुष्यों के सदृश समझना । वर्णाश्रम इत्यादि-उस की आराधना करने के समय त्रैवर्णिकयोग्य वैदिकमंत्रों से चतुर्थवर्ण के आराधना करना, उत्तमाश्रमीप्रभृति गृहस्थ के तरह ताम्बूलादियों को निवेदन करना इत्यादि । अवतार के इत्यादि-आश्रित लोगों के इच्छित रूपही को अपना रूप मानते हैं इस वचनानुसार आश्रिताभिमत किसी एक द्रव्य को अपने दिव्यविग्रहतया अंगीकार कर उस में अप्राकृतविग्रह में क्रियमाण आदर को कर विराजने के वैभव को न जान मातृयोनिपरीक्षकों के तरह ‘यह अमुक द्रव्य है’ ऐसा विग्रह के उपादानद्रव्य को निरूपण करना । आत्मापहार माने-‘जो परतंत्र आत्मवस्तु को स्वतंत्र मानता है उस आत्मापहारी चोर से कौन पाप न किया गया’ ऐसा सकलपापहेतुतया कहे जानेवाले भगवदेकशेषभूत आत्मवस्तु को स्वतंत्र समझना । भगवद्द्रव्यापहार माने-भोग लगाने योग्य चावल, दाल, चन्दन, कुसुम आदि को प्रकाश या गुप्तरीति से ग्रहण करना । प्रभृति माने-और भी ऐसे क्रूरतया शास्त्रों में कहे जानेवाले बहुत हैं । बत्तीस अपचार कहे गये ।
मूलम्
द्वात्रिंशदपचाराः ।
टीका संस्कृता
यानेर्वा पादुकैर्वापि गमनं भगवद्गृहे ॥ देवोत्सवाय सेवा चाप्यप्रणामस्तदग्रतः ॥ एकहस्तप्रणामश्चाप्येकवारं प्रदक्षिणम् ॥ उच्छिष्ठे वापि चाशौचे भगवद्वंदनादिकम् ॥ पादप्रसारणं चामे तथा पर्यकबंधनम् ॥ शयनं भोजनं चैव मिथ्याभाषणमेव च ॥ उच्चैर्हासो वृथा जल्पो रोदनानि च विग्रहः ॥ निग्रहानुग्रहश्चैव स्त्रीपु साकूतभाषणम् ॥ कंबलावरणं चैव परनिंदा परस्तुतिः । अश्लीलकथनं चैवाप्यधोवायुविमोक्षणम् ॥ तत्तत्कालोद्भवानां च फलादीनामनर्पणत् । विनियुक्तावशिष्टस्य प्रदानं व्यंजनादिषु ॥ पृष्ठीकृत्यासनं चैव परेषामभिवादनम् । गुरौ मौनं निजस्तोत्रं देवतानिंदनं तथा ॥ शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् । द्वात्रिंशदपचारेण रौरवं नरकं व्रजेत् ॥ इति वराहपुराणोक्ता ज्ञेयाः ।
टीका हिन्द्या
वराहपुराणोक्त बत्तीस अपचारों को जानना ।
मूलम्
भगवद्द्रव्यस्य स्वयमपहारोऽपहर्तृणां सहकारित्वं, तेभ्यो याचितमयाचितं वा परिग्रहश्च भगवतोऽनिष्टः ॥ ३२४ ॥
श्लोक
हरिद्रव्यहरः किम्वापहर्तृणां सहायता । याचनायाचनातश्च तेभ्यो द्रव्यपरिग्रहः । एवं भगवतोऽनिष्टो वेदितव्यो महामभिः ॥ ३२४ ॥
टीका संस्कृता
पूर्वोक्तवद्भगवद्द्रव्यापहारश्च भगवदनिष्टः किमिति शंकायां स्वकृतापहारमात्रं विना अपहर्तॄणां सहकरणप्रभृतिकमपि तस्यानिष्टमित्याह-भगवद्द्रव्यस्येत्यादिना । स्वयं परिग्रहो नाम-साक्षात्स्वस्यैवात्र कर्तृत्वं अपहर्तॄणां सहकारित्वं नाम-अस्माभिर्नापह्रियते खलु इति विचार्यास्यापहर्तॄणामनुमत्यादिभिः सहायकरणं, तेभ्यो याचितं परिग्रहो नाम-अस्माभिरपेक्षा न कृतेति विचार्य तैः स्वयं दत्तस्य ग्रहणम् । भगवतोऽनिष्ट इति-एतत्सर्वमस्योजीवनपरस्य कृषिं कुर्वतः सर्वेश्वरस्य हृदयस्यानभिमतमित्यर्थः ।
टीका हिन्द्या
भगवद्द्रव्य को आप अपहार करना, अपहार करनेवालों को सहाय करना, उन के पास से याचित वा अयाचित स्वीकार करना यह सब भगवान को अनिष्ट हैं ॥ ३२४ ॥ पूर्वोक्त अपचारों के तरह भगवद्द्रव्यापहार भी भगवदनिष्ट है क्या इस शंका में-अपहार करनेवाले को मात्र नहीं किन्तु सहकारियों को भी अपचार लगेगा ऐसा कहते हैं-भगवद्द्रव्य को इत्यादि । अपने खुद अपहार करना, हम नहीं अपहार करते हैं ऐसा समझ अपहार करनेवालों को अनुमति आदि से सहाय करना, हम इस अपहार का सहायक नहीं ऐसा विचार इन के पास से मांग कर किसी अपहृत वस्तु को लेना, हम मांगते नहीं स्वयमेव देते हैं तो लेने में दोष नहीं समझ लेना । ये सब इस के उज्जीवन में प्रवृत्त हो यत्न करनेवाले सर्वेश्वर को अनभिमत होते हैं ।
मूलम्
अनन्तरं भागवतापचारं विवृणोति-भागवतापचारो नाम-अहंकारार्थकामहेतुना श्रीवैष्णवेषु क्रियमाणो विरोधः ॥ ३२५ ॥
श्लोक
भागवतापचारश्चाहंकारेणार्थकामतः । क्रियमाणो विरोधो वै श्रीमद्वैष्णवसन्निधौ ॥ ३२५ ॥
टीका संस्कृता
परोत्कृष्टं दृष्ट्वाऽसहनस्य स्वोत्कर्षबुद्धेश्च हेतुना अहंकारेण, तेषां वैष्णवाकारं ज्ञात्वैतदाशाविषयश्चेत् त्यजाम इति स्थातुमशक्तत्वाद्अर्थकामहेतुना, श्रीवैष्णवेषु क्रियमाणों विरोध इत्यर्थः ।
टीका हिन्द्या
भागवतापचार अहंकार अर्थकामों के द्वारा श्रीवैष्णव के विषय में क्रियमाण विरोध ॥ ३२५ ॥ अनन्तर भागवतापचार को विवरण करते हैं-भागवतापचार इत्यादि । परोत्कर्ष देख न सहना, स्वोत्कर्षबुद्धि का भी कारण अहंकार द्वारा उन के वैष्णवाकार को देख ‘ये लोग जिन पदार्थों को चाहते हैं उन की अपेक्षा हम नहीं करेंगे’ ऐसा न रह अर्थकाम द्वारा श्रीवैष्णव के विषय में क्रियमाण विरोध ।
मूलम्
अनन्तरमसह्यापचारं विवृणोति-असह्यापचारो नाम-निर्निर्वन्धनं भगवद्भागवतविषय इत्युक्तावसहमानतया स्थितिः, आचार्यापचारः, तद्भक्तापचारश्च ॥ ३२६ ॥
श्लोक
असह्यागश्च विज्ञेयो विना कारणमेव वै । भगवद्भागवद्वाक्यकथनेऽसहमानतः ॥ स्थितिराचार्यतद्भक्तकृतपापसमुच्चयः ॥ ३२६ ॥
टीका संस्कृता
अन्यापचारेभ्य ईश्वरस्यात्यन्तासह्यत्वादयमसह्यापचार इत्युच्यते । ‘भगवदसहनीयागसि रतः’ इति हि भट्टार्यैरुक्तम् । निर्निर्वन्धनं भगवद्भागवतविषय इत्युक्तावसहमानतया स्थितिर्नाम-पूर्वोक्तप्रकारेणार्थकामादिनिबन्धनत्वं विना हिरण्यवद् भगवद्विषयो भागवतविषय इत्युक्तौ द्रष्टुं श्रोतुं वाऽसहमानतया स्थितिः । आचार्यापचारो नाम-तदुक्तार्थप्रकारेणानुष्ठानाभावः, तदुपदिष्टमंत्रतदर्थयोरल्पप्रयोजनाशयाऽनधिकारिषूपदेश एतत्प्रभृतिः । तद्भक्तापचारो नाम-आचार्यभक्तैः सह ब्रह्मचारिभिरैकरस्येन स्थितावावश्यकतायां सत्यां तथाऽकृत्वा तेषु क्रियमाणासूयाऽवज्ञैतत्प्रभृतिः ।
टीका हिन्द्या
असह्यापचार माने निष्कारण भगवद्भागवतविषय में असूया करना, आचार्यापचार और उन के आश्रितों के विषय में अपचार है ॥ ३२६ ॥ अन्यअपचारों से यह अपचार ईश्वर को अत्यंत असा होने से इस को असह्यापचार कहते हैं । ‘भगवदसह्यापचार में आसक्त हूं’ ऐसा पराशरभट्टजी कहे हैं । निर्निबंधन इत्यादि-पूर्वोक्त अर्थकामादिहेतु बिना हिरण्याक्ष के तरह भगवद्भागवतविषय के प्रसंग में देखने और सुनने को भी असह्य होना । आचार्यापचार माने-उन के कहे हुवे उपदेशानुसार अनुष्ठान न करना उन से उपदिष्ट मंत्र और अर्थों को अल्पप्रयोजनों की इच्छा कर अनधिकारियों को उपदेश करना । तद्भक्तापचार माने-आचार्य के आश्रित अपने सब्रह्मचारियों के साथ ऐकमय छोड उन के विषय में क्रियमाण असूया, अवज्ञा इत्यादि हैं ।
मूलम्
एवमकृत्यकरणादिचतुष्टयं क्रमेण विपर्यस्य क्रौर्यविशेषानिदमेतयोर्विरोधीत्यर्थं चाह-एत इत्यादिना ।
मूलम्
एत एकस्मादेकः क्रूरः, उपायविरो धिनः, उपेयविरोधिनश्च ॥ ३२७ ॥
श्लोक
उपायोपेययोरेते घातकाः परिकीर्तिताः । उत्तरोत्तरक्रूराश्च सर्वथा नाशकारकाः ॥ ३२७ ॥
टीका संस्कृता
एकस्मादेक इत्यादिना-अकृत्यकरणाद्भगवदपचारः क्रूरस्तस्माद्भागवतापचारः क्रूरस्तस्मादसह्यापचारः क्रूरः । एतन्मूलं पूर्वपूर्वापेक्षयोत्तरोत्तरं भगवन्निग्रहातिशयः । अकृत्यकरणे स्वाज्ञातिलंघनहेतुना खलु कोपः, तावान् न भवति अस्यात्मन आत्मन्येतत्सत्तामारभ्य रक्षति खस्मिन्नपचारेण जायमानः कोपः, तावान्न भवति खलु ‘ज्ञानी त्वात्मैव मे मतम्’ इत्युक्तप्रकारेण स्वस्य प्राण इत्यनुसंधानविषयेषु भागवतेष्वहंकारादिहेतुना क्रियमाणेनापचारेण जायमानः कोपः, तावान्न भवति खलु निर्निर्वन्धनं स्वविषये स्वाश्रितविषये उभयशासक उभयाभिमाताचार्यविषये त्रयाणामभिमततदीयविषये च क्रियमाणेनापचारेण जायमानः कोपः, तस्मादेकस्मादेकः क्रूरः । अकृत्यकरणे भगवदपचारादीनामंतर्भावे संभवति प्रत्येकमेवं विभागेोक्तिरेतेषां क्रौर्यविशेषमवलंब्य खलु । उपायविरोधित्वमुपेयविरोधित्वं च नाम-अस्यात्मन उज्जीवने तत्परतयोपर्युपरि कृषिं कुर्वाणस्य भगवतः कृपायाः सदाऽस्य प्राप्यभूतस्य तस्य मुखोल्लासस्य विघटकत्वम् । कृपोपायः प्रीतिरुपेयमिति खलु । तस्मादेतेऽकृत्यकरणादयो जलेऽग्निवृद्धिवत्तस्य हृदये निग्रहमुत्पाद्य तस्य कृपाप्रीतिश्चैतद्विषये यथा न प्रसरेत्तथा करणात् उपायोपेयविरोधिन इत्युक्तौ न विरोधः ।
‘स्वस्य स्वेन मृग्यमाणो गुण’ इत्यारभ्य नमःशब्दार्थस्य विस्तरेण प्रतिपादनात् ‘अभिमतस्थलेष्वादरातिशय’ इत्यभिमतस्थलप्रसंगेनोपरि भगवत्कैंकर्यमित्यत्र भगवच्छब्देन कैंकर्यप्रतिसंबधिप्रतिपादकश्रीमत्पदार्थनारायणपदार्थयोः सूचनाच्च मंगलाशासनप्रकरणाच्च ‘कर्तव्यमाचार्यकैंकर्य भगवत्कैंकर्यं च इत्यारभ्य’ किंचित्कारे कृते स्वरूपमुज्वलं भवति’ इत्यंतं चतुर्थ्यर्थस्योक्तत्वाच्च निषिद्धचातुर्विध्यप्रतिपादनमुखेन प्रासंगिकं पुनर्नमःशब्दार्थोक्तेरेतावतोत्तरखंडार्थमवोचत् ।
एवमनेन प्रकारेण पूर्वोकोपायेनोपेयं प्रप्स्यतश्चेतनस्यो-पायोपेयाधिकारप्रधानापेक्षिताः प्रापकांतरपरित्यागहेतुस्वरूपनाशकत्वादयः स्वगतस्वीकारानुपायत्वं परगतस्वीकारोपायत्वं तत्प्राबल्यं सोऽपि स्वीकारसमये पुरुषकारं पुरस्करोतीत्यर्थः । उभाभ्यामपि पुरस्करणस्य प्रयोजनविशेषा उपेयदशायां प्राप्तिदशायां च शेषत्वपारतंत्र्ये स्वदोषनिवृत्तिश्च परानुभवविरोधिनीति प्रकारः स्वेन संपाद्यमानगुणात्तेन संपाद्यमानगुणस्य वैलक्षण्यमीश्वर एव रक्षकः स्वयं स्वस्य नाशक इत्यर्थः स्वेन स्वस्य नाशनप्रकारः अहंकारो विषयाश्च स्वरूपेण भागवतविरोधं वर्धयित्वैतत्स्वरूपं नाशयंतीति प्रकारो भागवतापचारक्रौर्य तत्प्रसंगे भागवतमाहात्म्यं अस्य दिनचर्या दिनचर्यायां उक्तानां सदाचार्यप्रसादेन वर्धनसमयेऽपेक्षितानि वस्तव्यादीनि तच्चरमोत्कर्षकर्तव्यरूपकैंकर्यवेषस्तत्पूर्वदशासु स्वरूपौज्वल्यप्रकारोऽस्य विद्यमानगुणचतुष्टयं तद्विषयविभागस्तत्राशक्तिविषयनिषिद्धचातुर्विध्यं चोक्तमतोऽधिकारिनिष्ठाक्रम उक्तः ।
टीका हिन्द्या
ये एक से एक क्रूर, उपायविरोधी और उपेयविरोधी भी हैं ॥ ३२७ ॥ एवमकृत्यकरणादि चारों को क्रम से विपर्यास कर इनकी क्रूरता और यह अमुक फल का विरोधी है इस अर्थ को भी कहते हैं-ये इत्यादि । एक क्रूर माने-अकृत्यकरण से भगवदपचार क्रूर है उस से भागवतापचार क्रूर है उस से भी असह्यापचार क्रूर है समझना । इस का कारण पूर्वपूर्व की अपेक्षा उत्तरोत्तर में भगवान का अधिक निग्रह होना । अकृत्यकरण में ईश्वर की आज्ञा का उल्लंघन करने से क्रोध होता है । आत्मा के भीतर रह उस आत्मा की सत्ता को लेकर रक्षा करनेवाले ईश्वर के विषय में अपचार से होनेवाला क्रोध इस से अधिक है । ‘ज्ञानी हमारा आत्मा है’ इस वचनानुसार अपने प्राणभूत भागवत के विषय में क्रियमाण अपचार से होनेवाला क्रोध इस से अधिक है । निष्कारण अपने और आश्रितों के विषय में या आचार्य और उन के भक्तों के विषय में क्रियमाण अपचार से होनेवाला क्रोध पूर्वापेक्षी से भी अधिक है । इस कारण एक से एक अधिक क्रूर हैं । अकृत्यकरण में भगवदपचारादि अंतर्गत होनेपर भी प्रत्येक ऐसा पृथक्कर कहना इन के क्रौर्य को देख कर समझना । उपाय और उपेय विरोधी माने-इस आत्मा के उज्जीवन के लिये ऊपर ऊपर यत्न करनेवाले सर्वेश्वर की कृपा सदा, चेतन के प्राप्य होनेवाले सर्वेश्वर का मुखोल्लास इन दोनों को रोकते हैं इस कारण अकृत्यकरणादि उपाय और उपेय विरोधी हैं ऐसा कहने में विरोध नहीं ।
However, you have provided the text for Sutras 328-350 within the scope of the original request. The text from Sutra 328 on page 511 to the end of Sutra 350 on page 536 is part of the original request. I will process the text starting from the beginning of the “Sadaacharya Lakshana Prakaranam” (Sutra 328 on page 511) and continue as requested.
अथ सदाचार्यलक्षणप्रकरणम् ।
मूलम्
स्वेन हितोपदेशकरणसमये स्वस्य शिष्यस्य फलस्य च व्यत्यासेनानुसंधानं क्रूरनिषिद्धम् ॥३२८॥
श्लोक
हितोपदेशकाले वै स्वेन स्वस्य फलस्य च । शिष्यस्य विपरीतेन ध्यानं क्रूराद्विशिष्यते ॥ ३२८ ॥
टीका संस्कृता
अनन्तरं ‘स्वेन हितोपदेशकरणसमय’ इत्यारभ्य ‘प्रीतिरुपकारस्मृतिश्च वर्तितव्ये’त्यंतं पूर्वोक्तार्थविशेषाणां सर्वेषामुपदेष्ट्राचार्यविषये आवश्यकप्रतिपत्त्यनुवर्तनप्रकारान् दर्शयितुं सदाचार्यसच्छिष्यलक्षणं तयोरुभयोर्विनियोगः एतेषां तत्प्रकारः प्रसक्तानुप्रसक्तमाह । अस्याधिकारिणोऽशक्तविषयाणां निषिद्धानां कथनप्रसंगे तेभ्यः सर्वेभ्यः क्रूरनिषिद्धं परोपदेशविषये विप्रतिपत्तिरित्याह-स्वेन हितोपदेशकरणसमय इत्यादिवाक्यद्वयेन । पूर्वप्रकरण उक्ताधिकारिलक्षणैः सर्वैः परिपूर्णेन स्वेनोज्जिजीविषूणां स्वोपसत्तिं कुर्वाणानां तेषामुज्जीवनहेतुमंत्ररूपहितस्योपदेशकरणसमये उपदेष्टुः स्वस्योपदेशपात्रस्य शिष्यस्योपदेशफलस्य च विपरीतप्रतिपत्तिकरणं पूर्वोक्तनिषिद्धेभ्यः क्रूरनिषिद्धमित्यर्थः । तानि तानि निषिद्धानि स्वस्य नाशकानि तावन्मात्रं विना एतदुपदेशं श्रुतवतोऽपि नाशकत्वादिदमेतेभ्यो क्रूरनिषिद्धमित्युच्यते । उभयोरपि स्वरूपसिद्धिर्नास्तीति खलु वक्ष्यते । स्वस्य शिष्यस्य फलस्य च व्यत्यासेनानुसंधानं किमित्याकांक्षायां तदुपपादयति-स्वस्य व्यत्यासेनानुसंधानं नामेत्यादिना । स्वव्यत्यासेनानुसंधानं नाम-उपदेशसमये स्वस्याचार्य एवास्योपदेष्टा स्वयं तस्य करणभूत इति प्रतिपत्तिं कृत्योपदेशः कर्तव्यः । तथाऽकृत्वा स्वाचार्यपरतंत्रस्य स्वस्याचार्यत्वेनानुसंधानं, उपदेशपात्रस्य शिष्यस्य याथात्म्येनानुसंधानं विना व्यत्यासेनानुसंधानं नाम-स्ववदयमपि स्वाचार्यशिष्य इति प्रतिपत्तिं कृत्योपदेशः कर्तव्यः तथाऽकृत्वाऽस्य स्वशिष्यत्वेनानुसंधानं, उपदेशफलस्य याथात्म्येनानुसंधानं विना व्यत्यासेनानुसंधानं नाम-परोपदेशकरणसमयेऽयमात्मानुकूलः सुकुमारविषयस्य मंगलाशासनस्य यथायोग्यः स्यादित्येतत्फलार्थमेवोपदेशमकृत्वा अनेन क्रियमाणशुश्रूषादिरूपस्य दृष्टप्रयोजनस्य वा शिष्यस्य संसारादुत्तीर्याभिवृद्धिरूपोज्जीवनस्य वा श्रीनन्दनवनादिकरणापेक्षयैकस्यात्मन आनुकूल्यसंपादने भगवतो हृदयस्य प्रसन्नत्वात् एतादृशभगवत्कैंकर्यस्य वा संसारे स्थितिसमये स्वासहायतानिवृत्त्यर्थं मिलित्वा वर्तमानरूपस्य सहवासस्य वोपदेशस्य फलत्वेनानुसंधानम् ।
टीका हिन्द्या
आप हितोपदेश करने के समय अपने को शिष्य को और फल को भी उलटा समझना क्रूर निषिद्ध है ॥ ३२८ ॥ अनन्तर ‘आप हितोपदेश करने के समय’ ऐसा आरम्भ कर ‘प्रीति और उपकार स्मृति होनी चाहिये’ यहाँ तक पूर्वोक्त सब अर्थविशेषों को उपदेश करनेवाले आचार्य के विषय में अवश्य कर्तव्यप्रतिपत्ति और अनुवर्तन के प्रकारों को दिखाने के लिये सदाचार्यलक्षण, सच्छिष्यलक्षण, उन दोनों के आचरण का प्रकार, उसके प्रसंग में आनेवाली बातों को कहते हैं । इस अधिकारी के अशक्ति के विषयनिषिद्धों को कहने के प्रसंग में उन सब में क्रूर निषिद्ध परोपदेशसमय में उलटा समझना है ऐसा कहते हैं-आप हितोपदेश इत्यादि दो वाक्यों से । पूर्वप्रकरण में कहे हुए सब अधिकारीलक्षण से परिपूर्ण आप उज्जीवन की इच्छा से अपने को आश्रयण करनेवालों के उज्जीवनहेतु मंत्ररूप हित को उपदेश करने के समय उपदेष्टा अपने को, उपदेशपात्र शिष्य को, और उपदेशफल को विपरीत समझना पूर्वोक्त निषिद्धों की अपेक्षा क्रूर निषिद्ध है । वे निषिद्ध इस आचार्य के मात्र नाशक हैं इतना ही नहीं, यह उपदेश सुननेवाले का भी नाशक होनेसे इन से क्रूर निषिद्ध है ऐसा कहते हैं । दोनों की स्वरूपसिद्धि न होगी ऐसा आगे कहेंगे । अपने को, शिष्य को, फल को विपरीत समझना माने कैसा ? इस शंका में उस को उपपादन करते हैं-अपने को विपरीत समझना इत्यादि से । अपने को विपरीत समझना माने-उपदेशसमय में अपने आचार्य को ही इस चेतन का उपदेष्टा, हम उन का करण हैं ऐसा समझ उपदेश करना चाहिये । ऐसा न कर स्वाचार्यपरतंत्र अपने को इस चेतन को आचार्य समझना । उपदेशपात्र शिष्य को उल्टा समझना माने-अपने सदृश इस को भी अपने आचार्य का शिष्य समझ उपदेश करना चाहिये । ऐसा न कर इस को अपना शिष्य समझना । उपदेशफल को उलटा समझना माने-परोपदेश करने के समय यह आत्मा अनुकूल, सुकुमार विषय के मंगलाशासन के योग्य होना ही फल है ऐसा न समझ, इन से मिलनेवाले अर्थशुश्रूषारूप दृष्टप्रयोजन, यह शिष्य संसार से उत्तीर्ण हो उज्जीवन को प्राप्त होगा, नन्दनवनादियों को निर्माण करने की अपेक्षा किसी एक आत्मा को शुद्ध करने से भगवान् का अत्यंत मुखोल्लास होगा, यह भगवत्कैंकर्य है अथवा संसार में रहने तक हमारे संग वास कर हमारा सहाय करेगा आदि को उपदेश का फल समझना ।
मूलम्
स्वस्य व्यत्यासेनानुसंधानं नाम-स्वस्याचार्यत्वेनानुसंधानं, शिष्यस्य व्यत्यासेनानुसंधानं नाम-स्वस्य शिष्य इत्यनुसंधानं, फलस्य व्यत्यासेनानुसंधानं नाम-दृष्टफलप्रयोजनस्य शिष्यस्योज्जीवनस्य भगवत्कैंकर्यस्य सहवासस्य च फलत्वेनानुसंधानम् ॥ ३२९ ॥
श्लोक
स्वव्यत्यास संधानं स्वस्यचार्यत्वचिन्तनम् । शिष्यव्यत्यास संधानं स्वशिष्य इति चिन्तनम् ॥ शिष्योजीवनदृष्टार्थभगवद्दास्यकेषु च । सहवासे फलत्वेन चिन्तनं देशिकेन यत् । तदेवात्र बुधैर्ज्ञेयं फलव्यत्यासचिन्तनम् ॥ ३२९ ॥
टीका संस्कृता
एवमनेनानुसंधानाकरण एतत्फलचतुष्टयसिद्धिप्रकारः कथमिति तज्जिज्ञासुप्रश्नमनूद्यैतत्सिद्धिमार्गमाह-अनुसंधानाभाव इत्यादिना ।
टीका हिन्द्या
अपने को विपरीत समझना माने-अपने को आचार्य समझना, शिष्य को उलटा समझना माने-अपना शिष्य समझना, फल को उलटा समझना माने-दृष्टप्रयोजन, शिष्य का उज्जीवन, भगवत्कैंकर्य और सहवास को भी फल समझना ॥ ३२९ ॥ इस प्रकार नहीं समझने से ये चारो फल कैसे मिलेंगे इस शंका में कहते हैं-नहीं समझनेपर भी इत्यादि ।
मूलम्
अनुसंधानाभाव एतत्फलचतुष्टयसिद्धिप्रकारः कथमिति चेत्-शेषभूतस्य शिष्यस्यानुसंधानेन दृष्टफलं सिद्ध्यति, ईश्वरस्यानुसंधानेनोज्जीवनं सिद्ध्यति, आचार्यस्यानुसंधानेन भगवत्कैंकर्यं सिद्ध्यति, उपकारस्मृत्या सहवासः सिद्ध्यति ॥ ३३० ॥
श्लोक
देशिकाऽननुसंधाने फलमेतच्चतुष्टयम् । कथं वेत्सिद्धिरित्यत्र फलदृष्टस्य साधनम् ॥ शिष्यचिन्तनजन्यं स्यान्मुक्तिश्चेश्वरचिंतया । भगवद्दास्यता सिध्येदाचार्यस्यानुचिन्तनात् । उपकारस्मृतेश्चैव सहवासो हि सिध्यति ॥ ३३० ॥
टीका संस्कृता
शेषभूतस्य शिष्यस्यानुसंधानेन दृष्टफलं सिद्ध्यति इति-शिष्यस्य स्वस्य शेषत्वं स्वरूपमित्यनुसंधाय स्थितत्वात् किंचित्काराभावे शेषत्वं नास्तीति स्वस्वरूपलाभार्थं स्वशक्त्यनुरूपकिंचित्कारकरणादर्थशुश्रूषादिदृष्टफलं सिद्ध्यतीत्यर्थः, ईश्वरस्यानुसंधानेनोज्जीवनं सिद्ध्यतीति-सर्वतो व्याप्य संचरतः स्वस्य विशेषकटाक्षेणाद्वेषादीनुत्पाद्याचार्यसमाश्रयणं कारयित्वा अस्याचार्यस्योपदेशान्वयं जनयित्वा तेन हेतुनाऽमुं संसारात्तीरं प्रापयितुमुसंधानस्य भगवतः कृपाकार्यानुसंधानेन शिष्यस्योज्जीवनं सिद्ध्यतीत्यर्थः । आचार्यस्यानुसंधानेन भगवत्कैंकर्यं सिद्ध्यतीति-अनेन हितोपदेशं कृत्वा मंगलाशासनयोग्यतार्थं चेतनानामानुकूल्यसंपादनस्य भगवद्धृदयस्यात्यंतप्रीतिविषयत्वादित्थं भगवत्कैंकर्यं ससिद्धूयतीत्यनुसंधातुः स्वस्याचार्यस्यानुसंधानेनोपदेष्टुः स्वस्य भगवत्कैंकर्यं सिद्ध्यतीत्यर्थः । उपकारस्मृत्या सहवासः सिद्ध्यतीति-अनादिकालमहंकारममकाराभ्यां नष्टप्रायं मामंगीकृत्याज्ञातज्ञापनादिमुखेनात्र रुचिं दूरीकृत्य मंगलाशासनयोग्यं कृतवान् महोपकारकः खल्वित्युपकारस्मृत्या शिष्यस्य क्षणकालमपि विश्लेषासहनेन सहैव वर्तमानत्वात् सहवासः स्वत एव सिद्ध्यतीत्यर्थः ।
टीका हिन्द्या
शिष्य के अभिप्राय से दृष्टफल मिलेगा, ईश्वर के अभिप्राय से उज्जीवनरूप फल मिलेगा, आचार्य के अभिप्राय से भगवत्कैंकर्यरूप फल मिलेगा, उपकारस्मृति से सहवासरूप फल मिलेगा ॥ ३३० ॥ इस प्रकार नहीं समझने से ये चारो फल कैसे मिलेंगे इस शंका में शेषभूत शिष्य के अभिप्राय से दृष्टफल मिलेगा, ईश्वर के अभिप्राय से उज्जीवनरूप फल मिलेगा, आचार्य के अभिप्राय से भगवत्कैंकर्यरूप फल मिलेगा, उपकारस्मृति से सहवासरूप फल मिलेगा । शिष्य अपने को शेषत्व ही स्वरूप है ऐसा अनुसंधान कर रहने से ‘कैंकर्य विना शेषत्व नहीं रहेगा’ ऐसा समझ अपने स्वरूपलाभ के लिये यथाशक्ति कैंकर्य करने से अर्थ और शुश्रूषारूप दृष्टफल प्राप्त होता है । अवतार ले चेतनों को ढूंढनेवाले सर्वेश्वर विशेषकटाक्षों से अद्वेषादियों को उत्पादन कर आचार्य समाश्रयण करा आचार्य के उपदेशपात्र बना तद्वारा इस चेतन को इस संसार से पार लगाना चाहिये ऐसा समझ क्रियमाण अपनी कृपा के कार्य से शिष्य का उज्जीवन होता है । आचार्य हितोपदेश कर मंगलाशासन के उपयुक्त चेतन को शोधन करने से भगवान का मुखोल्लास होता है इस को भगवत्कैंकर्य समझनेवाले अपने आचार्य के विचार से उपदेष्टृभूत अपने को भगवत्कैंकर्य मिलता है । अनादिकाल अहंकार ममकारों से नष्टप्राय मुझ को निर्हेतुक अंगीकार कर अज्ञातार्थ को जनाकर शब्दादियों से रुचि को हटाकर मंगलाशासन के योग्य बनानेवाले महोपकारक हैं ऐसी उपकारस्मृति से शिष्य क्षणकाल भी नहीं छोड संग रहने से उन के साथ सहवासरूप फल मिलता है ।
मूलम्
एवमनुसंधानकरणे एतत्फलचतुष्टयं शिष्येश्वरस्वाचार्याणामनुसंधानेन सिद्ध्यतीत्युक्तोपदेशस्य साक्षात्फलमाचार्यत्वं च कथं सिद्ध्यतीति चेत्-स्वानुसंधानेनेश्वरानुसंधानेन च सिध्यति ॥३३१॥
श्लोक
देशिकत्वं फलं साक्षात्कथं सिध्यति चेदिति । स्वचिन्तनेन सिद्धिरीश्वरस्य च चिन्तया ॥ ३३१ ॥
टीका संस्कृता
एवं अनुसंधानाकरणे एतत्फलचतुष्टयं शिष्येश्वरस्वाचार्याणामनुसंधानेन सिद्ध्यतीत्युक्तोपदेशस्य साक्षात्फलमुपदेष्टुराचार्यपरतंत्रस्योपदेशपात्रमेतं प्रति विद्यमानस्याचार्यत्वस्य च सिद्धिप्रकारं प्रश्नोत्तररूपेणाह-साक्षात्फलमित्यादिना । साक्षात्फलं नामोपदेशपात्रस्यात्यानुकूलतया मंगलाशासनयोग्यत्वम् । अस्य स्वानुसंधानेन सिद्धिर्नाम-उपदेष्टरि स्वस्मिन् विप्रतिपत्तिं विनेदमेव फलमिति विचार्योपदिशति तस्य तथानुकूलतया मंगलानुशासनाधिकारित्वम् । आचार्यत्वं नाम-स्वमाचार्यपरतंत्रत्वेनानुसंदधतोऽस्य स्वस्मादुपदेशं श्रृण्वंतमेनं प्रत्याचार्यत्वम् । अस्येश्वरानुसंधानेन सिद्धिर्नाम-एवं स्वस्मिन् शिष्ये फले वा विप्रतिपत्तिमकृत्या याथार्थ्येनानुसंधायोपदेष्टुं परिपाकयुक्तोऽयमस्याचार्य इति संकल्पकरणेनास्याचार्यत्वसिद्धिः ।
टीका हिन्द्या
साक्षात्फल और आचार्यत्व ये दोनों अपने अभिप्राय से और ईश्वर के अभिप्राय से सिद्ध होयंगे ॥ ३३१ ॥ एवं इस आचार्य की इच्छा विना भी ये चारो फल शिष्य, ईश्वर और स्वाचार्यों के अभिप्राय से प्राप्त होयंगे ऐसा कह उपदेश का साक्षात्फल उपदेष्टृरूप आचार्यपरतंत्र अपने को उपदेशपात्र इस चेतन को उद्देश कर आचार्यत्व कैसे सिद्ध होगा इस शंका में कहते हैं-साक्षात्फल इत्यादि । साक्षात्फल माने-उपदेशपात्र यह चेतन शुद्ध हो मंगलाशासन के योग्य होना । यह फल अपने अभिप्राय से सिद्ध होता है माने-उपदेशक आप विपरीत न समझ यही फल समझ उपदेश करनेपर शिष्य शुद्ध हो मंगलाशासन के योग्य होता है । आचार्यत्व माने-अपने को आचार्य के परतंत्र समझ रहनेवाले यह अपने से उपदेश पानेवाले का आचार्य होना । यह ईश्वर के अभिप्राय से सिद्ध होता है माने-एवं अपने को शिष्य को फल को भी विपरीत न समझ यथावत् अनुसंधान कर उपदेश करनेवाले यह इस चेतन का आचार्य है ऐसा ईश्वर समझने से इस को आचार्यत्व प्राप्त होता है ।
मूलम्
एवं विनोपदेश उभयोरपि स्वरूपसिद्धिर्नास्ति ॥ ३३२ ॥
श्लोक
एवं विनोपदेशे वै स्वरूपं नैव सिध्यति ॥ ३३२ ॥
टीका संस्कृता
एवं विना क्रूरनिषिद्धत्वेन पूर्वोक्तविप्रतिपत्त्योपदेशे कृते उभयस्वरूपं च न सिध्यतीत्याह-एवं विनेत्यादिना । उभयोरपि स्वरूपसिद्धिर्नास्तीति-पूर्वोक्तप्रकारेण यथा प्रतिपत्त्योपदेशे कृते विना ईश्वरेणाचार्यविकल्पाकरणादुपदेष्टुराचार्यत्वरूपस्वरूपसिद्धिर्नास्ति । तथा यथाप्रतिपत्त्योपदेशाभावे उपदेशशुद्ध्यभावादुपदेशपात्रस्यास्य शिष्यत्वरूपस्वरूपसिद्धिर्नास्तीत्यर्थः ।
टीका हिन्द्या
ऐसा विना उपदेश करे तो दोनों का स्वरूप नष्ट होता है ॥ ३३२ ॥ ऐसा न कर क्रूर निषिद्धतया पूर्वोक्त विपरीतज्ञान से उपदेश करनेपर दोनों के स्वरूप नष्ट होता है ऐसा कहते हैं-ऐसा विना इत्यादि । पूर्वोक्त प्रकार यथावत् जान उपदेश न करे तो ईश्वर इस को आचार्यतया नहीं समझने से उपदेशक को आचार्यत्वरूप स्वरूपसिद्धि नहीं होती है यथान्याय से उपदेश नहीं करनेपर उपदेशशुद्धि न होने से उपदेशपात्र चेतन का शिष्यत्वरूप स्वरूप सिद्ध नहीं होता है ।
मूलम्
आचार्यस्य शिष्यस्य विषये कृपा स्वाचार्यविषये पारतंत्र्यं चावश्यापेक्षितम् ॥३३३॥
श्लोक
देशिकस्याऽतिशिष्यस्य [[शिष्यस्य विषये कृपा]] । शिष्यस्वरूपमाचार्यः सदा रक्षेत् प्रयत्नतः । स्वाचार्यविषये तद्वत्पारतन्त्र्यमपेक्षितम् ॥ ३३३ ॥
टीका संस्कृता
आचार्यस्य द्वौ गुणाववश्यापेक्षितावित्याह-आचार्यस्येत्यादिना । उपदेष्टुराचार्यस्य जिजीविषयोपसन्ने शिष्ये हाहेति कृपां कृत्वोज्जीवनोपयुक्तोपदेशादिकं कर्तुमुपयुक्ता कृपा, स्वस्य कर्तृत्वानुसंधानं विना तस्य करणतयानुसंधानोपयुक्तं स्वाचार्यविषये पारतंत्र्यं चावश्यापेक्षितमित्यर्थः ।
टीका हिन्द्या
आचार्य को शिष्य के विषय में कृपा, अपने आचार्य के विषय में पारतंत्र्य भी चाहिये ॥ ३३३ ॥ आचार्य को दो गुणों की आवश्यकता है आचार्य इत्यादि । उपदेशक आचार्य का उज्जीवन की इच्छा से आया हुआ शिष्य के ऊपर दया कर उन के उज्जीवन के उपयुक्त उपदेशादि करने को कृपा चाहिये अपने को कर्ता न समझ अपने आचार्य का करण समझने के उपयुक्त स्वाचार्य के विषय में पारतंत्र्य भी होना चाहिये ।
मूलम्
कृपया शिष्यस्वरूपं सिद्ध्यति, पारतंत्र्येण स्वस्वरूपं सिद्ध्यति ॥ ३३४ ॥
श्लोक
आचार्यकृपया शिष्यस्वरूपं सूज्वलं भवेत् ॥ स्वाचार्यविषये तद्वत्पारतन्त्र्यं प्रवर्धते ॥ ३३४ ॥
टीका संस्कृता
अनेन फलितमाह-कृपयेत्यादिना । तथा तस्य स्वरूपसिद्धिपर्यंतमुपदेशादिकं कुर्वतोऽस्य कृपया दिने दिने स्वरूपस्य नैर्मल्योत्पत्त्या शिष्यस्य स्वरूपं सिध्यति, स्वस्य कर्तृत्वबुद्धिं विना स्वाचार्यकरणभूततया स्वस्यानुसंधानस्येतरसर्वकालेषु तदधीनतया वर्तितुं चोपयुक्तेन पारतंत्र्येणाचार्यस्य स्वस्य स्वरूपसिद्धिरित्यर्थः ।
टीका हिन्द्या
कृपा से शिष्य का स्वरूप सिद्ध होता है, पारतंत्र्य से अपना स्वरूप सिद्ध होता है ॥ ३३४ ॥ इस का फल कहते हैं कृपा से इत्यादि । शिष्य का स्वरूप शुद्ध होनेतक उपदेशादि को करनेवाले आचार्य की कृपा से दिनपर दिन स्वरूप निर्मल होने से शिष्य का स्वरूप सिद्ध होता है स्वकर्तृत्वबुद्धि छोड अपने आचार्य का करणभूत समझने के लिये सर्वकाल उन के अधीन रहने के लिये भी उपयुक्त पारतंत्र्य से आचार्य का स्वरूप सिद्ध होता है ।
मूलम्
एवं पूर्वं हितोपदेशसमये स्वविषये शिष्यविषये फलविषये व जायमाना विप्रतिपत्तयोऽतिक्रूरनिषिद्धा इति ताश्च विप्रतिपत्तय एता इति अस्यानुसंधानाभावेऽपि दृष्टप्रयोजनादिसिद्धिमार्गः साक्षात्फलाचार्यस्त्वयोः सिद्धिमार्गः एवं विना विप्रतिपत्त्योपदेश उभयस्वरूपसिद्धयभावः आचार्यस्यावश्यापेक्षितगुणद्वयं चोक्तम् ।
मूलम्
एवमुपदेशानुगुणनियमप्रदर्शनानंतरं उपदेशसमये एतन्मंत्रस्योपदेष्ठैव साक्षादाचार्य इत्युच्यते इत्याह-साक्षादित्यादिना ।
मूलम्
साक्षादाचार्य इत्युच्यते संसारनिवर्तकस्य महाश्रीमंत्रस्योपदेष्टा ॥ ३३५ ॥
श्लोक
भवाब्धितारकस्यास्य श्रीमन्त्रस्योपदेशकः । साक्षादाचार्य इति ज्ञेयो [[फलसाधन|शास्त्रार्थ]]कोविदैः ॥ ३३५ ॥
टीका संस्कृता
आचार्य इत्युच्यत इति-आचार्यत्वेऽपरिपूर्णे सति प्रतीतिमात्रमादाय कथनं विना साक्षादाचार्य इत्युच्यत इत्यर्थः । संसारनिवर्तकस्य महाश्रीमंत्रस्योपदेष्टेति-ऐहलौकिकमैश्वर्यमित्यादिप्रकारेणाखिलफलप्रदत्वेऽप्यन्यफलेषु तात्पर्यं विना मोक्षफले तात्पर्यसत्वात्-‘सर्ववेदांतसारार्थः संसारार्णवतारकः । गतिरष्टाक्षरो नृणां पुनर्भवकांक्षिणाम् ॥’ इत्युक्तप्रकारेण संसारनिवर्तकस्यात एव-‘मन्त्राणां परमो मन्त्रो गुह्यानां गुह्यमुत्तमम् । पवित्रं च पवित्राणां मूलमन्त्रः सनातनः ॥’ इत्युक्तप्रकारेण सर्वमन्त्रांतरेभ्य उत्कृष्टत्वरूपमाहात्म्यविशिष्टस्य श्रीमंत्रस्य संसारनिवर्तकत्वप्रतिपत्त्योपदेष्टेत्यर्थः । द्वयस्य पूर्वोत्तरवाक्याभ्यामस्य मध्यमचरमपदविवरणत्वाच्चरमश्लोकस्य पूर्वोत्तरार्द्धाभ्यामस्य पूर्वोत्तरवाक्ययोर्विवरणत्वादितररहस्यद्वयस्यापि प्रथमरहस्येनानेनानन्यत्वादेतस्मिन्नुक्ते तयोरुपदेशश्च स्वत एवोक्त इत्यभिप्रेत्य महाश्रीमंत्रस्योपदेष्टेत्युक्तम् । तस्मादिदं रहस्यत्रयोपदेशस्याप्युपलक्षणम् ।
टीका हिन्द्या
साक्षात् आचार्य कहते हैं संसारनिवर्तक बृहत् श्रीमंत्र के उपदेष्टा को ॥ ३३५ ॥ एवं पूर्व हितोपदेश के समय आचार्य, शिष्य और फल को विपरीत समझना क्रूर निषिद्ध है, वह विप्रतिपत्ति अमुक है, इस की अपेक्षा विना दृष्टप्रयोजनादि आप ही सिद्ध होते हैं, साक्षात्फल और आचार्यत्व सिद्ध होने का प्रकार ऐसा न कर विपरीतज्ञान से उपदेश किये तो दोनों की स्वरूपसिद्धि नहीं, आचार्य को अवश्य अपेक्षित गुण उन गुणों के फल भी कहेगये हैं । एवं उपदेशानुगुणनियमों को दिखा अनंतर उपदेश करने के समय अमुक मंत्र उपदेश करनेवाले को ही साक्षात् आचार्य कहते हैं ऐसा कहते हैं-साक्षात् इत्यादि । साक्षात् आचार्य माने-आचार्यत्व न्यून होनेपर भी प्रतीतिभात्र को लेकर कहे विना साक्षात् आचार्य कहना । संसारनिवर्तक इत्यादि-‘इहलोक ऐश्वर्य’ इस वचनानुसार अखिलफलप्रद होनेपर भी अन्यफलों में तात्पर्य नहीं रख मोक्षफल में ही तात्पर्य रखनेवाले होनेसे-‘सर्ववेदांतों के सारभूत अर्थ संसारसमुद्र को तरानेवाले अष्टाक्षरी मंत्र पुनर्जन्म न चाहनेवाले लोगों की गति है’ इस वचनानुसार संसारनिवर्तक, अतएव ‘मंत्रों में श्रेष्ठ मंत्र रहस्यों में परम रहस्य पवित्रों में परम पवित्र है अष्टाक्षरीरूप मूलमंत्र’ इस वचनानुसार संपूर्ण इतरमंत्रों से उत्कृष्ट मूलमंत्र को संसारनिवर्तक समझ उपदेश करनेवाले को साक्षात् आचार्य कहते हैं । द्वयमंत्र पूर्वोत्तर वाक्यों से अष्टाक्षरी के मध्यमचरमपदों का विवरणरूप है चरमश्लोक पूर्वाद्ध उत्तरार्ध से द्वय के पूर्वोत्तरवाक्य का विवरणरूप है इस लिये द्वय और चरमश्लोक ये दोनों रहस्य प्रथम रहस्य अष्टाक्षरी से भिन्न नहीं इस को कहने से ही उन का उपदेश भी सिद्ध होता है ऐसा समक्ष बृहत्-श्रीमंत्र के उपदेष्टा को ऐसा कहे हैं, यह वाक्य रहस्यत्रय उपदेश का भी सूचक है ।
मूलम्
भगवन्मंत्रेषु यस्य कस्यचिदुपदेष्टुराचार्यत्वं नास्ति किमित्यत आह-संसारवर्धकानामित्यादि ।
मूलम्
संसारवर्धकानां क्षुद्राणां भगवन्मंत्राणामुपदेष्टृणामाचार्यत्वपूर्तिर्नास्ति ॥ ३३६ ॥
श्लोक
संसारका गौणा भगवन्मंत्राश्च ये स्मृताः । तदुपदेशकर्तॄणामाचार्यत्वं न पूर्तितः ॥ ३३६ ॥
टीका संस्कृता
संसारस्य निवर्तकत्वाभावमात्रं विना वर्धकानां महत्वं विना क्षुद्राणां तदितरभगवन्मन्त्राणामुपदेष्टृणामाचार्यत्वप्रतीतिमात्रं विना तत्पूर्तिर्नास्तीत्यर्थः ।
टीका हिन्द्या
संसार बर्द्धक और क्षुद्र भगवन्मंत्रों के उपदेष्टाओं को आचार्यत्वपूर्ति नहीं है ॥ ३३६ ॥ भगवन्मंत्रों में किसी एक के उपदेष्टा को आचार्यत्व नहीं है क्या इस शंका में कहते हैं-संसारवर्द्धक इत्यादि । संसारनिवर्तक न होना मात्र नहीं किन्तु बढानेवाले, क्षुद्र अष्टाक्षरीव्यतिरिक्त भगवन्मंत्रों के उपदेष्टाओं को आचार्यत्वप्रतीति विना पूर्ति नहीं है ।
मूलम्
क्षुद्राः क्षुद्रदेवतामन्त्राः खलु भगवन्मन्त्रा एव कथमुच्यंत इत्यत आह-भगवन्मन्त्रा इत्यादि ।
मूलम्
भगवन्मंत्राः क्षुद्रा इत्युच्यते फलद्वारा ॥३३७॥
श्लोक
कथं गौणा हि मंत्रास्त उच्यंत इतिचेत् खलु । फलद्वारेण गौणत्वं मुख्यत्वं च स्वरूपतः ॥ ३३७ ॥
टीका संस्कृता
परदेवताभूतभगवद्विषयत्वाज्जायमानमहत्वविशिष्टा मन्त्राः क्षुद्रा इत्युच्यते इति-अर्थकामपुत्रविद्यादि क्षुद्रफलप्रदत्वद्वारेत्यर्थः ।
टीका हिन्द्या
भगवन्मंत्रों को क्षुद्र कहते हैं फलद्वारा ॥ ३३७ ॥ क्षुद्रदेवतामंत्रों को ही क्षुद्र कहते हैं भगवन्मंत्रों को क्षुद्र कहते हैं क्या इस शंका में कहते हैं-भगवन्मंत्रों को इत्यादि । परदेवतारूप भगवान का विषय होने से वैभववाले मंत्रों को क्षुद्र कहते हैं-अर्थ काम पुत्र विद्या आदि क्षुद्रफलों को देने से ।
मूलम्
संसारवर्धका इत्यपि तेन ॥ ३३८ ॥
श्लोक
संसारवर्धका इत्यपि तेन वै फलद्वारा प्रकीर्तिताः ॥ ३३८ ॥
टीका संस्कृता
संसारवर्धका इति कथमुच्यंत इत्यत आह-संसारवर्धका इत्यपि तेनेति । पूर्वोक्तबंधकक्षुद्रफलानां प्रदानादित्यर्थः ।
टीका हिन्द्या
संसारबर्द्धक कहना भी उस से ही ॥ ३३८ ॥ संसारबर्द्धक कैसे इस शंका में कहते हैं-संसारवर्द्धक कहना भी उस से ही । उस से ही-पूर्वोक्त बंधक क्षुद्रफलों को देने से ही ।
मूलम्
तर्ह्यतेषामिदं स्वाभाविकं किमित्यत आह-इदं चेत्यादि ।
मूलम्
इदं चौपाधिकम् ॥ ३३९॥
श्लोक
एषु च हरिमंत्रेषु फलमौपाधिकं खल्विदम् ॥ ३३९ ॥
टीका संस्कृता
इदं वेति-क्षुद्रफलप्रदत्वं परामृश्यते । औपाधिकमिति-उपाधिप्रयुक्ततयाऽऽगतमित्यर्थः ।
टीका हिन्द्या
तथा सति इन मंत्रों का यह स्वभाव है क्या इस शंका में कहते हैं-यह इत्यादि । यह-क्षुद्रफलप्रदत्व । औपाधिक-आगंतुक है ।
मूलम्
तदुपपादयति-चेतनानां रुच्येत्यादिना ।
मूलम्
चेतनानां रुच्यागतत्वात् ॥ ३४० ॥
श्लोक
विचित्ररुचिजीवानां रुच्यागमनकारणात् ॥ ३४० ॥
टीका संस्कृता
भगवन्मन्त्रभूतत्वान्मोक्षफलप्रदत्वशक्तौ सत्यामप्येतेषां क्षुद्रफलप्रदत्वं प्रकृतिवश्यस्य चेतनस्य क्षुद्रफलरुच्याऽऽगतत्वादित्यर्थः । ऐश्वर्यकामानां गोपालमंत्रादयः पुत्रकामानां राममंत्रादयः, विद्याकामानां हयग्रीवमंत्रादयः, विजयकामानां सुदर्शननारसिंहमंत्रादयः, एवं नियमेन क्षुद्रफलानि प्रत्येव वर्तमाना एते चेतनस्य रुच्यनुगुणमेते मंत्रा एतानि फलानि ददंत्विति ईश्वरेण नियमेन कल्पितत्वाद्भवति, तच्च चेतनरुच्यनुगुणं कल्पितत्वात्तेषामिदं स्वाभाविकं न भवत्यौपाधिकमित्युच्यते ।
टीका हिन्द्या
चेतनों को रुचिद्वारा आने से ॥ ३४० ॥ उस को उपपादन करते हैं-चेतनों की इत्यादि । भगवन्मंत्र होने से मोक्षशक्ति रहनेपर भी इन का क्षुद्रफलप्रदत्व प्रकृतिवश्यचेतन की क्षुद्रफलरुचिद्वारा होता है । ऐश्वर्यकामियों को गोपालमंत्र आदि, पुत्रकामों को राममंत्र आदि, विद्याकामों को हयग्रीवमंत्र आदि, विजयकामों को सुदर्शन नरसिंहमंत्र आदि, इस प्रकार नियमेन क्षुद्रफल ही को देने से चेतनों की रुचिअनुगुण अमुक फल को देगा ऐसा ईश्वर के नियमपूर्वक कल्पित होने से । यह कल्पना चेतनों की रुचिअनुगुण कल्पित होने से क्षुद्रफलप्रदत्व स्वाभाविक नहीं किंतु औपाधिक है ऐसा कहे हैं ।
अथ सच्छिष्यलक्षणप्रकरणम् ।
मूलम्
शिष्य इत्युच्यते साध्यांतरनिवृत्तिः फलसाधनशुश्रूषाऽऽर्तिरादरोऽनसूया इत्येतद्वैशिष्टः ॥ ३४१ ॥
श्लोक
फलसाधनशुश्रूषुः साध्यांतरनिवृत्तिमान् । आदरार्तियुतो निंदारहितः शिष्य उच्यते ॥ ३४१ ॥
टीका संस्कृता
एवं ‘स्वेन हितोपदेशकरणसमय’ इत्यारभ्याचार्यत्वपूर्तिर्नास्तीत्यंतमाचार्यस्वरूपशोधनं कृत्वा तदुपरि प्रासंगिकांश्च परिजहार, उपरि शिष्यस्वरूपशोधनं करोति-शिष्य इत्युच्यत इत्यादिना । उपदेशश्रवणमात्रमादायोपरितनाकारेण कथनमात्रं विना शिष्य इति मुख्यतयोच्यत इत्यर्थः । साध्यांतरनिवृत्तिर्नाम-स्वरूपविरोध्यैश्वर्यकैवल्यरूपप्राप्यांतरे विस्मृत्याप्यन्वयस्य राहित्यम् । अथवाऽमुमाचार्यं विनोपरि किंचन प्राप्यवस्तु न जानामीति स्थितिः । फलसाधनशुश्रूषा नाम-‘गुरुशुश्रूषया विद्या’ इति प्रकारेणाचार्यस्य स्वेन क्रियमाणया शुश्रूषया संतोषमुत्पादयित्वा ज्ञानोपजीवनकरणमुचितं, तस्मादाचार्येण स्वस्योपक्रियमाणज्ञानरूपफलस्य सिद्धेः साधनभूताचार्यपरिचर्या । अथवा स्वरूपानुरूपफलानुभवं स्वेच्छया विद्यमानान् श्रोतुमिच्छा शुश्रूषा । अथवा आचार्यमुखोल्लासरूपफलस्य साधनरूपा तत्परिचर्या । आर्तिर्नाम-अज्ञानप्रदमहापृथिव्यामित्यादिप्रकारेणोत्पन्नज्ञानविरोधिभूतैनद्विभूतेः शीघ्रं गमनालाभात् जायमानक्लेशः । अथवा आचार्यविग्रहानुभवालाभे क्लेशो वा । आदरो नाम-उत्तरोत्तरानुबुभूषा यथा वर्धेत तथाऽऽचार्योक्ते भगवद्गुणानुभवे उपर्युपरि जायमान आदरः । अथवा आचार्यं पश्यति चेत् क्षुधित ओदनमिव तदनुभवकैंकर्ययोरत्यादरः । अनसूया नाम-आचार्ये भगवद्भागवतवैभवं विस्तरेणोपपादयति ‘प्रवक्ष्याम्यनसूयवे’ इति प्रकारेणासूयाराहित्यम् । अथवा आचार्यस्योत्कर्षे सब्रह्मचारिणामुत्कर्षे च दृष्टे तत्रासूयाराहित्यम् । ‘असूयाप्रसवभूः’ इत्यस्य हितमुक्तवत उत्कर्षे एव भवत्यसूयेति पूर्वैरुक्तम् । भगवद्विषयेऽप्यसूयायां कृतायां तदीयविषये किं वक्तव्यम् । ‘इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।’ एवमेतादृशसद्गुणसंपन्न एव साक्षाच्छिष्य इत्युच्यते ।
टीका हिन्द्या
शिष्य कहते हैं साध्यांतरनिवृत्ति फलसाधनशुश्रूषा आर्ति आदर और अनसूयावाले को ॥ ३४१ ॥ तथा च ‘आप हितोपदेश करने के समय’ ऐसा आरंभ कर ‘आचार्यत्वपूर्ति नहीं’ यहां तक आचार्यस्वरूप शोधन कर अनंतर प्रासंगिकशंकाओं को दूर किये हैं अब शिष्यस्वरूप को शोधन करते हैं-शिष्य इत्यादि । उपदेशश्रवणमात्र को लेकर इन आकारों से कथन मात्र विना शिष्य ऐसा मुख्यतया कहते हैं । साध्यांतरनिवृत्ति माने-स्वरूपविरोधी ऐश्वर्यकैवल्यरूप फलान्तर में भूलकर भी संबंध नहीं रखना । यद्वा इस आचार्य को छोड़ अन्यप्राप्य वस्तु को नहीं जानता हूं ऐसा रहना । फलसाधनशुश्रूषा माने-‘गुरुशुश्रूषा से विद्या प्राप्त होती है’ इस वचनानुसार आचार्य को अपनी शुश्रूषा से संतुष्टकर ज्ञान प्राप्त करना उचित होने से आचार्य क्रियमाण उपदेश से तत्त्वज्ञानरूपफलसिद्धि के साधनभूत आचार्यपरिचर्या । यद्वा स्वरूपानुरूपफलानुभवं स्वेच्छया विद्यमानान् श्रोतुमिच्छा शुश्रूषा । अथवा आचार्यमुखोल्लासरूपफल का साधनरूपा तत्परिचर्या । आर्ति माने-उत्पन्नज्ञान का विरोधीरूप इस विभूति से शीघ्र नहीं जाने से होनेवाले क्लेश । यद्वा-आचार्यविग्रहानुभवालाभ में होनेवाले क्लेश । आदर माने-उत्तरोत्तरअनुभव की इच्छा होनेके लिये आचार्यउच्यमान भगवान में ऊपर ऊपर आदर । यद्वा-आचार्य को देखनेपर भूखा अन्न को जैसा देखता है उन के अनुभवकैंकर्यों में अत्यंत आदर । अनसूया माने-आचार्य के भगवद्भागवतवैभवों को विस्तारपूर्वक कहनेपर उन मे असूया नहीं होना । यद्वा-आचार्य के उत्कर्ष और सब्रह्मचारियों के उत्कर्ष को देख असूया नहीं करना । ‘असूयाप्रसवभू:’ इस वाक्य का ‘हितवक्ता आचार्य के उत्कर्ष को ही न सहना’ ऐसा पूर्वाचार्य कहे हैं । भगवान के विषय में भी असूया करनेवाले तदीयविषय में करेंगे इस में क्या कहना । ‘असूयारहित तुम को यह उत्तम रहस्य को कहता हूं’ ऐसा स्वयं भगवान् कहे हैं ऐसे सद्गुणविशिष्ट को ही साक्षात् शिष्य कहते हैं ।
मूलम्
मंत्रो देवता फलं फलानुबंधिनः फलसाधनमैहिकभोगश्चैते सर्वे आचार्य एवेत्यनुसंधानं कुर्यात् ॥ ३४२ ॥
श्लोक
फलानुबंधिनो मंत्रो देवता फलसाधनम् । फलमैहिकभोगश्च सर्वमेतद्धि देशिकः ॥ ३४२ ॥
टीका संस्कृता
एवमुक्तलक्षणयुक्तस्य शिष्यस्य स्वाचार्यविषये आवश्यकं विप्रतिपत्तिविशेषं विदधाति-मंत्र इत्यादिना । मंतारं त्रायत इति मंत्र इत्युक्तप्रकारेणानुसंधातृरक्षकः श्रीमंत्रस्तत्प्रतिपाद्यपरदेवता तत्प्रसादलब्धकैंकर्यरूपं महाफलं तदनुबंधिनोऽविद्यादिनिवृत्तिपूर्वकस्वस्वरूपाविर्भावसालोक्यादयः । तथाविधफलसाधनं पुत्रदारगृहक्षेत्रपश्वन्नाद्यनुभवरूपेहलोकभोग्यमेते सर्व अस्माकमाचार्य एवेति प्रतिपत्तिः कर्तव्येत्यर्थः । इति-‘गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव परः कामो गुरुरेव परं धनम् ॥ यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥’ ‘ऐहिकामुष्मिकं सर्वं स चाष्टाक्षरदो गुरुः । इत्येवं ये न मन्येते त्यक्तव्यास्ते मनीषिभिः ॥’ इति शास्त्रेषूक्तत्वादयमनुसंधानं कुर्यादिति विधिरूपेणोक्तम् ।
टीका हिन्द्या
मंत्र, देवता, फल, फलानुबंधी, फलसाधन, ऐहिकभोग ये सब आचार्य ही हैं ऐसा समझना ॥ ३४२ ॥ एवमुक्तलक्षणविशिष्ट शिष्य को अपने आचार्य के विषय में आवश्यक प्रतिपत्तिविशेषों को कहते हैं-मंत्र इत्यादि । अनुसंधान करनेवालों के रक्षक मंत्र, उस मंत्र से प्रतिपाद्य परदेवता, परदेवता के अनुग्रह से मिलनेवाला कैंकर्यरूप महाफल, उस के पूर्व होनेवाले अविद्यानिवृत्तिपूर्वक स्वस्वरूपआविर्भाव और सालोक्यआदि, तादृश फल को देनेवाले साधन पुत्र, दार, गृह, क्षेत्र, पशु, अन्न आदि के अनुभवरूप ऐहिकभोग ये सब हमारे आचार्य ही हैं ऐसा समझना । ‘गुरु ही परब्रह्म गुरु ही परागति गुरु ही पराविद्या गुरु ही परस्थान गुरु ही श्रेष्ठकाम गुरु ही श्रेष्ठधन हैं । जिस कारण से उस मंत्र को उपदेश किये हैं उस कारण से गुरु ही सब से श्रेष्ठ हैं । इहलोक और परलोक के सब वस्तु अष्टाक्षरप्रद गुरु ही हैं ऐसा जो नहीं समझते हैं वे लोग छोड़ने योग्य हैं ।’ इस प्रकार शास्त्र में कहे जाने से यह अनुसंधान करना चाहिये ऐसा विधिरूप से कहा ।
मूलम्
एवं स्वोक्तार्थे आत्यर्थमयमर्थः परमाचार्यवचनसिद्ध इत्याह-मातेत्यादिना ।
मूलम्
‘माता पितेत्यादिश्लोक’ अयमर्थः परमाचार्यैरुक्तः ॥ ३४३ ॥
श्लोक
इत्थं ध्यानं सदा कार्यं शिष्येणात्माभिलिप्सुना । माता पितेति वृत्ते श्रीयामुनार्यैः प्रसादितः ॥ ३४३ ॥
टीका संस्कृता
‘माता पिता युवतयस्तनया विभूतिः । सर्वं यदेव नियमेन मदन्वयानाम् ॥’ इत्यैहिकसकलभोगान्, सर्वमिति-अनुक्तसकलम् । अनेन मंत्रदेवताफलादींश्चोद्दिश्य तत्सर्वं परांकुशाचरणावेवेत्युक्तत्वात्तस्मिन् श्लोकेऽयमर्थः परमाचार्यैरुक्त इत्यर्थः ।
टीका हिन्द्या
‘माता पिता युवतयः’ इस श्लोक में इस अर्थ को परमाचार्य कहे हैं ॥ ३४३ ॥ इस प्रकार अपने कहे हुये इस अर्थ में विश्वास होनेके लिये परमाचार्यवचन को दिखाते हैं-माता पिता इत्यादि । माता पिता स्त्री पुत्र विभव ऐसा ऐहिकभोगों को, ‘सर्वं’ इस वचन से मंत्रदेवताफलादियों को कह ‘ये सब शठकोपसूरि के चरणारविंद ही हैं’ ऐसा कहने से उस श्लोक में इस अर्थ को परमाचार्य यामुनाचार्य कहे हैं ।
मूलम्
एतन्मूलमुपकारस्मृतिः ॥ ३४४ ॥
श्लोक
अयमर्थों हि तन्मूलमुपकारपरस्मृतिः ॥ ३४४ ॥
टीका संस्कृता
एवमेते सर्वेऽयमेवेत्यनुसंधाने निदानं किमित्यत आह-एतन्मूलमित्यादि । एवमाचार्य एवास्माकं सकलमित्यनुसंधाने हेतुर्नित्यसंसारितया स्थितं स्वमुपदेशादिभिर्वशीकृत्य नित्यसूरीणामनुभवस्यार्हमकरोदित्युपकारानुसंधानमित्यर्थः ।
टीका हिन्द्या
इस का कारण उपकारस्मृति है ॥ ३४४ ॥ ऐसा सब आचार्य ही हैं ऐसा अनुसंधान करने का कारण क्या ? इस शंका में कहते हैं-इस का इत्यादि । आचार्य ही हमारा सब है ऐसा अनुसंधान करने का हेतु नित्यसंसारी अपने को उपदेशादियों से शोधन कर नित्यसूरियों के अनुभव के योग्य बनाये हैं ऐसा उपकार की स्मृति ।
मूलम्
एतदुपकारस्मृतिप्रसंगेऽस्याः प्रथमचरमावधी दर्शयति-उपकारस्मृतेरित्यादिना ।
मूलम्
उपकारस्मृतेः प्रथमावधिराचार्यविषये कृतज्ञता, चरमावधिरीश्वरविषये कृतज्ञता ॥ ३४५॥
श्लोक
उपकारस्मृतेः सीमा चाद्याचार्यकृतज्ञता । कृतज्ञता तथा ज्ञेया चरमावधिरीश्वरे ॥ ३४५ ॥
टीका संस्कृता
अनेन चेतनेन प्रथमत अनुसंधेयोऽज्ञातज्ञापनमुखेन स्वस्य सर्वमपि ज्ञापयित्वा भगवद्विषयं हस्तगतं कृतवत उपकारः । अत उपकारस्मृतेः प्रथमावधिराचार्यविषये कृतज्ञतेत्युच्यते । कृतज्ञतोपकारस्मृतिश्च पर्याये । आचार्यगौरवे हृदये लग्ने तद्विषये स्वस्य प्राप्तिहेतुकृषिपरंपराया अनुसंधानाच्चरमावधिरीश्वरविषये कृतज्ञतेत्युच्यते । इयं चेश्वरविषय उपकारस्मृतिरित्यर्थः । अनेन भगवद्विषयोपकर्त्राचार्यकृतोपकारेऽनुप्रवृत्ते हि तस्य [[विभवे|वैभवे]] हृदये सम्यक् लग्नेऽस्माभिरेतादृशविषयस्य प्राप्तिर्भगवता खल्विति तत्कृतोपकारानुसंधाने पर्यवस्यतीत्युक्तम् ।
टीका हिन्द्या
उपकारस्मृति का प्रथमसीमा आचार्य के विषय में कृतज्ञता, चरमसीमा ईश्वर के विषय में कृतज्ञता ॥ ३४५ ॥ इस उपकारस्मृति के प्रसंग से उस के प्रथम चरमसीमा को दिखाते हैं-उपकारस्मृति का इत्यादि । अज्ञातज्ञापन द्वारा अपने को सब जनाकर भगवद्विषय को हस्तगत करनेवाले आचार्यकृत उपकार को चेतन पहिले अनुसंधान करता है । आचार्य का गौरव मन में लगनेपर उस विषय में अपने को मिलानेवाले ईश्वरकृत यत्नपरंपरा की पछि अनुसंधान करता है इस लिये चरमसीमा ईश्वर के विषय में कृतज्ञता । भगवद्विषय को देनेवाले आचार्यकर्तृक उपकार को अनुसंधान करनेपर उन का वैभव ज्ञान हृदय में लगने से ऐसे आचार्य को ईश्वर ही हम को दिये हैं ऐसा उपकारस्मृति ईश्वरपर्यंत पहुंचेगी ।
मूलम्
शिष्य आचार्यश्चान्योन्यं प्रियहिते प्रवर्तेयाताम् ॥ ३४६॥
श्लोक
शिष्याचार्यौ प्रवर्तेतामन्योन्यहितप्रीणने ॥ ३४६ ॥
टीका संस्कृता
एतत्सदाचार्यसच्छिष्ययोर्वृत्तिप्रकारमाह-शिष्य आचार्यस्येत्यादिना । अन्योन्यं प्रियहितप्रवर्तनं नाम-शिष्येणाचार्यस्य प्रियहितयोरुभयोरपि करणम् । आचार्येण शिष्यस्य प्रियहितयोरुभयोः करणं च । प्रवर्तेयातामिति-एतदवश्यकरणीयत्वभानार्थम् ।
टीका हिन्द्या
शिष्य और आचार्य परस्पर प्रिय और हितों को करना चाहिये ॥ ३४६ ॥ अब इन सदाचार्यसच्छिष्यों के विनियोग प्रकार को कहते हैं-शिष्य इत्यादि । शिष्य आचार्य के प्रिय और हित को करना आचार्य शिष्य के प्रिय और हित को करना । दोनों के परस्पर प्रिय हित करने के क्रम को कहते हैं शिष्य इत्यादि ।
मूलम्
शिष्यः स्वयं प्रियं प्रवर्तयेत, ईश्वरेण हितं प्रवर्तयेत्, आचार्यो व्यत्यासेन प्रवर्तयेत् ॥ ३४७ ॥
श्लोक
देशिकस्य प्रियं शिष्यः स्वयमेव प्रकल्पयेत् । ईश्वरेण हितं तद्वदाचार्यों व्यत्ययेन वै ॥ ३४७ ॥
टीका संस्कृता
शिष्य आचार्यस्योभयोः प्रवर्तनसमये स्वस्वरूपानुगुणमाचार्यमुखोल्लास एव पुरुषार्थ इति विचार्य स्वस्य किंचित्कारादिभिः स्वयमाचार्यस्य सर्वकालं प्रियं कुर्यात् । मंगलाशासनपरत्वादेतद्विभूतिस्वभावेन हृदये किंचिदपि कालुष्यं न स्यादिति तथा कस्यचित्संभवे एतन्निवर्तनीयमिति प्रार्थित्वेश्वरेण हितं प्रवर्तयेदित्यर्थः । व्यत्यासेन प्रवर्तनं नाम-हितपरत्वादस्य स्वरूपहानिर्यथा न संभवेत्तथा हेयोपादेययोर्हानोपादानयोः स्खालित्यं यथा न स्यात्तथा नियम्य सर्वकालमपि सन्मार्गे प्रवर्तनरूपहितं स्वयं कृत्वा दृष्टे संकोचेनास्यात्यंतक्लेशसमये स्थितिकालेऽस्य विना यथैतदप्यस्य स्यात्तथैवांगीकुरुष्वेत्यर्थित्वेश्वरेण प्रियं प्रवर्तयेदित्यर्थः ।
टीका हिन्द्या
शिष्य स्वयं प्रिय को करना चाहिये, ईश्वर के द्वारा हित को करना चाहिये । आचार्य को इस के उलटा करना चाहिये ॥ ३४७ ॥ शिष्य आचार्य के विषय दोनों को करने समय स्वस्वरूपानुगुण आचार्यमुखोल्लास ही पुरुषार्थ समझ अपने कैंकर्यादि से आप आचार्य के प्रिय को सर्वकाल करते रहना । मंगलाशासनपर होने से इस विभूतिस्वभाव से मन में किसी प्रकार की व्याकुलता न होना चाहिये ऐसा कुछ कल्मष होनेपर इसे दूर करने के लिये ईश्वर को प्रार्थना कर हित को करना चाहिये । आचार्य को इत्यादि-हितपर होने से शिष्य का स्वरूप नष्ट न होनेके लिये हेयोपादेयों में स्खलन न हो जैसा नियमन कर सर्वकाल अच्छे मार्ग में ले जाना रूप हित को स्वयं करना । दृष्टवस्तु के अभाव से जब शिष्य दुःखी होता है तब वे वस्तु इन को मिलना चाहिये ऐसा ईश्वर से प्रार्थना कर प्रिय को करना ।
मूलम्
शिष्यः प्रीतौ तत्परो वर्तेत, आचार्य उज्जीवने तत्परो वर्तेत ॥ ३४८ ॥
श्लोक
प्रवर्तेत सदा शिष्य आचार्यप्रीतितत्परः । प्रवर्तेत तथाचार्यः शिष्योज्जीवनतत्परः ॥ ३४८ ॥
टीका संस्कृता
एवं करणसमये उभयोरप्युभयमपि समप्रधानं किमिति शंकायामाह-शिष्य इत्यादि । शिष्यः शेषभूतत्वात् शेषिण आचार्यस्य प्रीतौ तत्परो वर्तेत । आचार्यः परमकृपावत्त्वात्स्वशिष्यस्यास्य संसारादुत्तीर्योज्जीवने तत्परो वर्तेत । तस्माच्छिष्यस्य प्रियकरणमाचार्यस्य हितकरणं च प्रधानमिति भावः ।
टीका हिन्द्या
शिष्य को आचार्य के प्रिय करने में अधिक ध्यान देना चाहिये, आचार्य को शिष्य के उज्जीवन में अधिक ध्यान देना चाहिये ॥ ३४८ ॥ एवं करणसमये दोनों का दोनों बराबर हैं क्या इस शंका में कहते हैं-शिष्य इत्यादि । शिष्य शेषभूत होनेसे शेषी आचार्य के प्रिय करने में दृढ रहना चाहिये आचार्य परमकृपालु होने से शिष्य को संसार से उत्तीर्ण हो उज्जीवन में दृढ रहना चाहिये इस लिये शिष्य का प्रियकरण और आचार्य का हितकरण प्रधान है ।
मूलम्
पूर्वोक्तेन फलितमाह-तस्मादित्यादि ।
मूलम्
तस्माच्छिष्यस्याचार्यहर्षविषयत्वं विना रोषविषयतया अवकाशो नास्ति ॥ ३४९ ॥
श्लोक
एवं कृते भवेच्छिष्य आचार्यप्रीतिगोचरः । तोषगोचरीभावे नावकाशश्च विद्यते ॥ ३४९ ॥
टीका संस्कृता
शिष्येणाचार्यप्रियकरणस्याचार्येण शिष्यस्य हितकरणस्य प्रधानतया वर्तनात् शिष्यस्याचार्यस्य प्रीतिविषयत्वं विनाऽनिष्टकरणादिभिर्निग्रहविषयतायाः प्रथममवकाशो नास्तीत्यर्थः । तस्मादिति-प्रीतौ तत्परत्वमेवानुवदतीति वा ।
टीका हिन्द्या
इसलिये शिष्य को आचार्य के संतोष का पात्र विना रोष का पात्र होने का अवकाश नहीं ॥ ३४९ ॥ पूर्वोक्त का फल कहते हैं-इसलिये इत्यादि । शिष्य को आचार्य का प्रिय करना आचार्य को शिष्य का हित करना प्रधान होनेसे शिष्य आचार्य के प्रीति का विषय होना छोड अनिष्टकरणादियों से निग्रह का विषय होने का अवकाश नहीं ।
मूलम्
प्रकृतिसम्बन्धेन सत्ता सदैकरीत्या कथं स्यात् कालुष्याणि न जायंते किं तेन हेतुना निग्रहपात्रं भवति चेत् स निग्रह उभयोरपि कथं स्यादित्यत आह-निग्रहस्येत्यादि ।
मूलम्
निग्रहस्य पात्रं भवति चेत् स निग्रहो हितरूपत्वादुभयोरप्युपादेयः ॥ ३५० ॥
श्लोक
निग्रहस्य भवेत्पात्रं चेत्तयोर्हितरूपतः । उभाभ्यामप्युपादेयो निग्रहः शोधनात्मकः ॥ ३५० ॥
टीका संस्कृता
अनिष्टकरणादिहेतुना आचार्यनिग्रहस्य पात्रतादशायां शिष्यममुमपथे प्रवृत्तिं वारयित्वा सन्मार्गे प्रवर्तयितुमुपयुक्तत्वेन हितरूपत्वादेवमस्मासु निग्रहः क्रियते खल्विति अस्य हृदये क्लेशनाभावः, अस्मिन्नेवं निग्रह आवश्यको जात इत्याचार्यहृदये क्लेशनाभावश्च विना निग्रहविषयस्यास्य निग्रहाश्रयस्याचार्यस्य चांगीकार्य इत्यर्थः ।
टीका हिन्द्या
निग्रह का पात्र होने के वखत वह हितरूप होने से दोनों का उपादेय है ॥ ३५० ॥ प्रकृतिसंबंध के साथ रहनेवाला यह सदा एक प्रकार रहेगा क्या ? कलुषित नहीं होगा तद्द्वारा निग्रहपात्र होने के वखत वह निग्रह दोनों के विषय में कैसा होगा इस शंका में कहते हैं-निग्रह का इत्यादि । अनिष्टकरणादि से आचार्य के निग्रह का पात्र होने के समय वह निग्रह शिष्य की दुष्टप्रवृत्ति को रोक समीचीन मार्ग में प्रवृत्त होनेके लिये उपयुक्त हितरूप होने से ‘ऐसा हम को निग्रह करते हैं देखो’ इस प्रकार हृदय में दुःख न होना, ‘इस को इस प्रकार निग्रह करना पडा’ ऐसा आचार्य के हृदय में दुःख न होना विना निग्रहविषय शिष्य और निग्रहाश्रय आचार्य दोनों को उपादेय होता है ।
You are absolutely right to point that out. My apologies for stopping short. I seem to have misinterpreted the previous instruction. I will now process the rest of the document, starting from Sutra 351 to the very end.
मूलम्
निग्रह उपादेयश्चेन्निग्रहकारणमुपादेयं कुतो न भवतीत्यत आह-शिष्यस्येत्यादिना ।
मूलम्
शिष्यस्य निग्रहकारणं त्याज्यम् ॥ ३५१ ॥
श्लोक
सच्छिष्येण सदा त्याज्यं स्वस्य निग्रहकारणम् ॥ ३५१ ॥
टीका संस्कृता
निग्रह उपादेय इति विचार्य पुनस्तत्कारणं न कर्तव्यम् । येन कारणेन जलेऽग्निवृद्धिवत्स्वविषये शीतले निर्मले आचार्यहृदये निग्रहबुद्धिस्तत्कारणं पुनरंकुरं विना त्याज्यमित्यर्थः ।
टीका हिन्द्या
शिष्य को निग्रहकारण छोडने योग्य है ॥ ३५१ ॥ निग्रह उपादेय हो तो निग्रहकारण भी उपादेय होगा क्या इस शंका में कहते हैं-शिष्य को इत्यादि । निग्रह को उपादेय समझ फिर भी उस का कारण अकृत्य को नहीं करना चाहिये । जिस कारण से जल में अग्नि के उत्पत्ति के तरह शीतल स्वच्छ आचार्यहृदय में निग्रह उत्पन्न हुआ उस कारण को पुनरावृत्ति रहित छोड देना चाहिये ।
मूलम्
पूर्वोक्ताचार्यनिग्रहो हितरूप इति वैधतयोपादेयत्वं विनाऽस्य प्राप्यकोटिघटित इत्यमुमर्थं सदृष्टांतमाह-निग्रहश्चेत्यादिना ।
मूलम्
निग्रहश्च भगवन्निग्रहवत् प्राप्यांतर्गतः ॥ ३५२ ॥
श्लोक
भगवन्निग्रहो यद्वत्प्राप्यमध्ये प्रकीर्तितः ॥ ३५२ ॥
टीका संस्कृता
स्वाचार्येण स्वविषये क्रियमाणो निग्रहः स्वविरोधिनिवृत्तिहेतुत्वात् ‘स्वीकृतकोपः’, ‘क्रूरकर्म माकुरु’ इत्यादावुक्तो भगवन्निग्रह इव पुरुषार्थकोटावंतर्भूत इत्यर्थः । आचार्यस्यार्थकामयोराशाविरहात् तद्धेतुकक्षमायाः क्रोधस्य वावकाशो नास्ति । अथैतद्धितरूपतया क्रुध्यति चेत् सोऽपि प्राप्यांतर्गतो भवेदिति ह्ययमर्थो माणिक्यमालायां श्रीकृष्णपादैरुक्तः ।
टीका हिन्द्या
निग्रह भगवन्निग्रह के तरह प्राप्यांतर्गत है ॥ ३५२ ॥ पूर्वोक्ताचार्यनिग्रह हितरूप होने से उपादेय होता है इतनाही नहीं प्राप्यांतर्गत भी है इस अर्थ को दृष्टांतपूर्वक कहते हैं-निग्रह इत्यादि । स्वाचार्य से स्वविषय में हितरूप से क्रियमाण निग्रह स्वविरोधिनिवृत्ति के उपयुक्त भगवन्निग्रह के तरह पुरुषार्थकोटि में अंतर्गत होता है । आचार्य अर्थकामों में आशारहित होने से उन के कारण से निग्रह करने को प्राप्ति नहीं, इस के हित करने के लिये निग्रह किये तो वह प्राप्यांतर्गत होता है ऐसा माणिक्यमाला में श्रीकृष्णपादस्वामी कहे हैं ।
मूलम्
पूर्वमुभयोरपि प्रधानकृत्यत्वेनोक्तयोर्हितकरणप्रियकरणयोर्वेशद्यं विशदमाह-आचार्य इत्यादिना ।
मूलम्
आचार्यः शिष्यस्य स्वरूपं रक्षेत्, शिष्य आचार्यस्य देहं रक्षेत् ॥ ३५३ ॥
श्लोक
शिष्यस्वरूपमाचार्यः सदा रक्षेत् प्रयत्नतः । रक्षेच्छिष्योऽपि चाचार्यदिव्यमंगलविग्रहम् ॥ ३५३ ॥
टीका संस्कृता
उज्जीवनपर आचार्य उज्जिजीविषयागत्योपसदनं कृत्वा प्रीतौ तत्परतया वर्तमानस्य शिष्यस्य स्वरूपं प्रामादिकतयाऽपि किंचिद्धेयं यथा न जायते तथा एकाग्रचित्त उपदेशादिभी रक्षेत् । प्रियपरः शिष्यः स्वोज्जीवने तत्परं स्वस्वरूपरक्षकमाचार्यस्य देहमुचितकैंकर्यैः सर्वकालमप्येकाग्रचित्तो रक्षेत् ॥
टीका हिन्द्या
आचार्य शिष्य के स्वरूप को रक्षा करना, शिष्य आचार्य के देह को रक्षा करना ॥ ३५३ ॥ पहिले दोनों के प्रधानकृत्यतया उक्त हितकरण और प्रियकरणों के आकार को स्पष्ट कहते हैं-आचार्य इत्यादि । उज्जीवनपर आचार्य उज्जीवनेच्छा से प्राप्त हुवा शिष्य के स्वरूप को भूल कर भी अपराध नहीं करे जैसा एकाग्रचित्त हो उपदेशादियों से रक्षा करना । प्रियपर शिष्य अपने उज्जीवन में तत्पर अपने स्वरूप को रक्षा करनेवाले आचार्य के शरीर को उचितकैंकर्यों से सर्वकाल भी एकाग्रचित्त हो रक्षा करना ।
मूलम्
एवमुभयोरप्युभावपि रक्षतोरुभयोरपि फलितमाह-उभयमपीत्यादिना ।
मूलम्
उभयमप्युभयोरपि स्वरूपं भगवत्कैंकर्यं च ॥ ३५४ ॥
श्लोक
स्वरूपस्य शरीरस्य मिथो यद्रक्षणं भवेत् । उभयोस्तत्स्वरूपं स्यात्कैंकर्यं च हरेर्भवेत् ॥ ३५४ ॥
टीका संस्कृता
आचार्योपहितस्य शिष्यस्य स्वरूपरक्षणं शिष्योपहितस्याचार्यस्य देहरक्षणं चासाधारणाकारः । तस्मादुभयमपि उभयोरपि स्वरूपम् । ‘अहमन्नम्’ इति प्रकारेण तस्य भोग्यतायोग्यमप्यनादिकालं विनियोज्यताप्रातिविरहितमस्य स्वरूपं तादृशविनियोगार्हं यथा स्यात्तथा रक्षणकरणस्य ‘समीचीनमिति शरीरं न त्यजति’ इति प्रकारेण तस्य त्यक्त्वाऽऽदातुमपि यथा न स्यात्तथा भोग्याचार्यविग्रहरक्षणकरणस्य च भगवतोऽत्यंतप्रीतिविषयत्वाद्वस्तुगत्या भगवत्कैंकर्यं च भवतीत्यर्थः ।
टीका हिन्द्या
दोनों दोनों के स्वरूप हो भगवत्कैंकर्य होता है ॥ ३५४ ॥ एवं दोनों दोनों की रक्षा करने से फलितार्थ को कहते हैं-दोनों इत्यादि । आचार्य शिष्य के स्वरूप की रक्षा करना, शिष्य आचार्य के देह की रक्षा करना इन दोनों के असाधारण आकार होने से ये दोनों दोनों का स्वरूप है । ईश्वर का भोग्य होने योग्य होकर भी अनादिकाल से नष्ट हुआ इस का स्वरूप उस के योग्य जैसा हो वैसा रक्षा करना, ईश्वर का भोग्य आचार्यविग्रह की रक्षा करना भगवन्मुखोल्लास होने से ये दोनों भगवत्कैंकर्य होते हैं ।
मूलम्
एवं व्यवस्था किमर्था ? आचार्यस्य स्वदेहरक्षणकरणे शिष्यस्य स्वस्वरूपरक्षणकरणे चान्वये को वा दोष इत आह-आचार्यस्येत्यादि ।
मूलम्
आचार्यस्य देहरक्षणं स्वरूपहानिः, शिष्यस्यात्मरक्षणं स्वरूपहानिः ॥ ३५५॥
श्लोक
आचार्यः स्वस्य देहस्य रक्षणं स्वं करोति चेत् । तदा स्वरूपहानिः स्याच्छरीराध्यासकारणात् ॥ स्वरूपहानिदं तद्वच्छिष्येणात्माभिरक्षणम् ॥ ३५५ ॥
टीका संस्कृता
स्वस्य देहयात्रायां स्वस्मिन्नुपेक्षके सति शिष्येणेदमेवास्माकं स्वरूपमिति स्वदेहो रक्षणीयस्तथा विना स्वदेहस्य स्वेन रक्षणमाचार्यस्याचार्यत्वरूपस्वरूपस्य हानिः । स्वस्याचार्यविषये भरन्यासानंतरं तस्मिन् स्वरूपं रक्षति दृष्ट्वा स्थातव्यं, स्वेन स्वात्मरक्षणकरणं शिष्यस्य शिष्यत्वरूपस्वरूपस्य हानिरित्यर्थः । तस्माद्विस्मृत्याऽपि शिष्यस्य स्वस्वरूपरक्षणमाचार्यस्य स्वदेहरक्षणं च कर्तव्यं न भवतीत्युक्तम् ।
टीका हिन्द्या
आचार्य को देहरक्षण स्वरूपहानि, शिष्य को आत्मरक्षण स्वरूपहानि ॥ ३५५ ॥ ऐसी व्यवस्था क्यों ? आचार्य के अपने देहरक्षण में शिष्य के अपने स्वरूपरक्षण में संबंध होने से दोष क्या इस शंका में कहते हैं-आचार्य को इत्यादि । अपनी देहयात्रा में विरक्त आचार्य के देह को शिष्य अपना स्वरूप समझ रक्षा करना चाहिये ऐसा विना अपने देह की रक्षा स्वयं करलेना आचार्यत्वरूप स्वरूप की हानि है । आप आचार्य के चरण में भारन्यास कर अपने स्वरूप को वही रक्षा करेगा ऐसा रहना चाहिये ऐसा नहीं कर अपनी आत्मा का आप रक्षा करलेना शिष्य का शिष्यत्वरूप स्वरूप की हानि है इसलिये भूलकर भी शिष्य अपने स्वरूपरक्षा में और आचार्य अपने देहरक्षण में संबंध नहीं रखना चाहिये ।
मूलम्
आचार्येण शिष्येण च स्वस्वव्यवस्थितयोरात्मरक्षणदेहरक्षणयोः करणसमयेऽवश्यपरिहरणीयान् विरोधिन आह-आचार्येणात्मरक्षणसमय इत्यादिना ।
मूलम्
आचार्येणात्मरक्षणकरणसमये अहंकारो विरोधी, शिष्येण देहरक्षणकरणसमये ममकारो विरोधी ॥ ३५६ ॥
श्लोक
आत्मनो रक्षणे काले आचार्येण कृपालुना । अहंकारो विरोधी स्यादिति ज्ञेयं सदा बुधैः ॥ देहस्य रक्षणे काले शिष्येणापि बुभुत्सुना । ममकारो विरोधी [[स्यात्तत्त्याग्यः]] स स्मृतः ॥ ३५६ ॥
टीका संस्कृता
हितपरेणाचार्येण स्वोपदेशादिभिः शिष्यस्यात्मरक्षणकरणसमये अहं रक्षामीत्यहंकार आचार्यपारतंत्र्यरूपस्वाधिकारविरोधी । प्रियपरेण शिष्येण द्रव्यादिभिराचार्यदेहरक्षणकरणसमये मम द्रव्यैः करणैश्चैव रक्षामीति ममकारः शरीरार्थप्राणादिकं सर्वमाचार्यशेषमिति वर्तनावश्यकरतारूपस्वाधिकारविरोधीत्यर्थः ।
टीका हिन्द्या
आचार्य के आत्मरक्षा करने के समय अहंकार विरोधी है, शिष्य के देहरक्षण के समय ममकार विरोधी है ॥ ३५६ ॥ अब आचार्य और शिष्य के अपने अपने व्यवस्थित देहरक्षण और आत्मरक्षण करने के समय अवश्य छोडने योग्य विरोधियों को कहते हैं-आचार्य इत्यादि । हितपर आचार्य अपने उपदेशादियों से शिष्य के आत्मरक्षण करने के समय ‘हम रक्षा करते हैं’ ऐसा अहंकार आचार्यपारतंत्र्यरूप अपने अधिकार का विरोधी है । प्रियपर शिष्य द्रव्यादियों से आचार्य के देहरक्षण करनेपर ‘हमारे द्रव्य और करणों से’ ऐसी रक्षा करता हूं ऐसा ममकार शरीर, द्रव्य, प्राणादि सब आचार्य के हैं ऐसा समझने योग्य अपने अधिकार का विरोधी है ।
मूलम्
आचार्यस्य शिष्यस्य च स्वस्वदेहरक्षणदशायां प्रतिपत्तिविषयौ विभज्याह-आचार्य इत्यादिना ।
मूलम्
आचार्यः स्वदेहरक्षणं स्ववस्तु गृहीत्वा कुर्यात्, शिष्यः स्वदेहरक्षणमाचार्यवस्तु गृहीत्वा कुर्यात् ॥ ३५७॥
श्लोक
स्वदेहरक्षणं स्वस्य वस्तुबुद्ध्या हि देशिकः । कुर्याच्छिष्यस्तथाचार्यपदार्थं परिगृह्य वै ॥ स्वदेहरक्षणं कुर्यात्परमार्थपरायणः ॥ ३५७ ॥
टीका संस्कृता
आचार्यः स्वदेहरक्षणं स्ववस्तु गृहीत्वा कुर्यादिति-‘शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ।’ इत्युक्तप्रकारेण शिष्यस्य सर्वस्वस्यापि प्रथमं समर्पितत्वात्स्वदेहरक्षणार्थं तेन कालोचिततया समर्पितं तदीयमित्यनुसंधानं विना स्वकीयमेवेति गृहीत्वा विनियोगं कुर्यादित्यर्थः । शिष्यः स्वदेहरक्षणमाचार्यवस्तु गृहीत्वा कुर्यादिति-स्ववस्तुत्वं विना सर्वस्याप्याचार्यशेषत्वात् स्वदेहरक्षणार्थं विनियोक्तव्यवस्त्वाचार्यवस्थिति प्रतिपत्तिं कृत्वा विनियोक्तव्यमित्यर्थः ।
टीका हिन्द्या
आचार्य अपने देह की रक्षा अपने वस्तु से, शिष्य अपना देहरक्षण आचार्य के वस्तु से करना ॥ ३५७ ॥ आचार्य और शिष्य को अपने अपने देहरक्षण करने के समय में अनुसंधानप्रकार को कहते हैं-आचार्य इत्यादि । ‘शरीर, द्रव्य, प्राण इन को आचार्य के लिये निवेदन कर देना’ इस वचनानुसार शिष्य का सर्वस्व पहिले ही आचार्य के चरण में समर्पित होनेसे स्वदेहरक्षण के लिये शिष्य से तत्तत्काल में दिये जानेवाले द्रव्य को शिष्य का न समझ अपना ही समझ विनियोग करलेना । शिष्य का संपूर्ण वस्तु आचार्य के समर्पित होनेसे अपने देहरक्षण के लिये उपयोग कियेजानेवाले को आचार्य का समझ विनियोग करलेना ।
मूलम्
आचार्यदेहरक्षणविषये शिष्यः स्वकीयं सर्वं तदीयमिति बुद्ध्या दद्यात् । आचार्यश्च तादृशवस्तु स्वीकुर्यात् । एवं विना शिष्यस्य ममतादूषितं वस्तुभावप्यादातुं दातुं च नार्हत इत्याह-आचार्यः शिष्यवस्त्वित्यादिना ।
मूलम्
आचार्यः शिष्यवस्तु नादद्यात्, शिष्यः स्ववस्तु न दद्यात् ॥ ३५८ ॥
श्लोक
शिष्यवस्तूनि नादद्यादाचार्यो नयकोविदः । शिष्योऽपि स्वस्य वस्तूनि तस्मै दद्यान्न सर्वथा ॥ ३५८ ॥
टीका संस्कृता
आचार्यः शिष्यवस्तु नादद्यादिति-अनेन मदीयमित्यभिमानविषयीकृतं वस्तु विस्मृत्यापि नांगीकुर्यादित्यर्थः । शिष्यः स्ववस्तु न दद्यादिति-स्वकीयमित्यभिमानविषयं वस्त्वहंकारममकारस्पर्शविशिष्टं विषमेवेति जुगुप्सतो मृदुप्रकृतेराचार्यस्य विषमिव न समर्पयेदित्यर्थः ।
टीका हिन्द्या
आचार्य शिष्य के वस्तु को लेना नहीं, शिष्य अपने वस्तु को देना नहीं ॥ ३५८ ॥ आचार्यदेहरक्षण के प्रसंग में शिष्य अपनी संपूर्ण वस्तु आचार्यका है ऐसा समझ देना, आचार्य भी ऐसा समझा हुआ वस्तु को ही लेना ऐसा न कर शिष्य की ममता से दूषित वस्तु को दोनों लेने और देने भी नहीं सक्ते ऐसा कहते हैं-आचार्य इत्यादि । शिष्य का अभिमान से दूषित वस्तु को आचार्य भूलकर भी नहीं लेना, शिष्य अपना समझा हुआ वस्तु को अहंकारममकारस्पर्श वस्तु विष है ऐसा डरनेवाले मृदुप्रकृति आचार्य को विष के तरह नहीं देना ।
मूलम्
आदाने दरिद्रः स्याद् दाने चोरः स्यात् ॥ ३५९ ॥
श्लोक
आदाने शिष्यवस्तूनि दरिद्रः स्याद्धि देशिकः । स्वपदार्थस्य दाने च शिष्यः पाटच्चरो भवेत् ॥ ३५९ ॥
टीका संस्कृता
तथाऽऽदानदानयोः करणे को वा दोष इत्यत आह-आदानं दानं चेत्यादिना । शिष्येण मदीयमित्यभिमानविषयीकृतस्य वस्तुनश्चपलात् स्वीकारे कृते ईश्वरस्याखिलभरनिर्वाहकत्वेनास्माकं का वा न्यूनतेति वर्तमानः परिपूर्णः स्वयं स्वदेहयात्राया अपि मूलराहित्येन दरिद्रः स्यात् । मदीयमिति बुद्धिं कृत्वैकमाचार्यस्य ददाति चेच्छरीरमर्थमित्यादिप्रकारेण समर्पितत्वात् तदीये मदीयत्वबुद्धिकरणात् आचार्यस्वापहारी भवतीत्यर्थः ।
टीका हिन्द्या
लेनेपर दरिद्र हो जायगा, देनेपर चोर होगा ॥ ३५९ ॥ ऐसा लेने देने से होनेवाले दोष को कहते हैं—लेनेपर इत्यादि । शिष्य के अभिमानग्रस्त वस्तु को चपलता से आचार्य के लेनेपर ‘ईश्वर संपूर्णभार को निर्वाह करते हैं हम को क्या कमती है’ ऐसा पूर्ण आप देहयात्रा को भी नहीं चला सकनेके योग्य दरिद्र हो जायगा । ‘हमारा’ ऐसा समझा हुआ वस्तु को देनेपर ‘शरीर, अर्थ’ इस वचनानुसार पहिले ही समर्पित होने से आचार्य के वस्तु में मदीयत्वबुद्धि करने से आचार्यवस्तु को चोरी करनेवाला चोर होगा ।
मूलम्
आदानं दानं च जायेते यदि संबंधो नश्येत् ॥ ३६० ॥
श्लोक
दानादाने तु जायेते संबंधो यदि नश्यति ॥ ३६० ॥
टीका संस्कृता
एतावदेव न संबंधहानिश्च स्यादित्यत आह-आदानं दानं चेत्यादिना । शिष्याचार्यसंबंधोऽस्ति यदि शेषभूतेन शिष्येण शरीरमर्थं प्राणं चेत्यादिप्रकारेण सर्वं तदीयमिति बुद्ध्या समर्पणं, तथा समर्पितस्य तस्य शेषिणाऽऽचार्येणांगीकारश्चोचितः, एवं सत्यस्य स्वकीयमित्यभिमानविषयस्याचार्येण स्वीकारोऽनेन मदीयमित्यभिमानविषयस्याचार्याय समर्पणं इत्येतादृशाननुरूपादानदाने जायेते यदि शिष्याचार्यत्वरूपसंबंधो नश्येदित्यर्थः ।
टीका हिन्द्या
लेने देने से संबंध नष्ट होता है ॥ ३६० ॥ इतना ही नहीं संबंध की हानि भी होगी ऐसा कहते हैं—लेने देने से इत्यादि । शिष्याचार्यस्वरूप संबंध होनेपर शेषभूत शिष्य ‘शरीर अर्थ प्राण’ इत्यादिवचनप्रकार से सब ही उन का है ऐसा समझ समर्पण करना, ऐसे समर्पित वस्तु को शेषी आचार्य अंगीकार करना । शिष्य के ममता से दूषित वस्तु को आचार्य को स्वीकार करना, शिष्य को देना रूप अक्रमव्यवहार होनेपर शिष्याचार्यत्वरूप संबंध नष्ट होता है ।
मूलम्
अयं दरिद्रत्वान्न ददाति, स संपूर्णत्वान्नाददाति ॥ ३६१॥
श्लोक
नायं शिष्यो दरिद्रत्वात्तस्मै किंचिद्ददाति हि । आचार्यः परिपूर्णत्वान्नाददाति च किंचन ॥ ३६१ ॥
टीका संस्कृता
एवं दारिद्र्यापहारप्रसंगः संबंधहानिश्चादानदानयोः करणे खलु, ते एतौ न कुरुतामित्यर्थं सहेतुकमाह-अयमित्यादिना । शिष्योऽयं सकलं चाचार्यस्वमस्मदीयमिति समर्पणार्हं किंचिदपि नास्तीति स्थितत्वेन दरिद्रत्वादहं तस्य किंचिद्ददामीति न ददाति । आचार्य ईश्वरस्य सकलभरनिर्वाहकत्वादस्माकमथ का वा न्यूनतेति स्थितत्वेन परिपूर्णत्वादेतदभिमानदुष्टं किंचिदपि नांगीकरोतीत्यर्थः ।
टीका हिन्द्या
यह दरिद्र होने से नहीं दे सक्ता, वह पूर्ण होनेसे नहीं ले सक्ता ॥ ३६१ ॥ एवं दारिद्र्य, चौर्य और संबंधनाश देने लेने से होते हैं पहिले ही वे दोनों उन को नहीं करेंगे इस अर्थ को हेतुपुरस्सर कहते हैं-यह इत्यादि । अपने समझने के योग्य कोई चीज न रहने से दरिद्र शिष्य ‘हम आचार्य के लिये कोई वस्तु को देते हैं’ ऐसा समझ नहीं देगा । आचार्य ‘सकलभरनिर्वाहक ईश्वर है हम को कुछ कमती नहीं’ ऐसा अपने को परिपूर्ण समझने से शिष्य की ममता से दूषित किसी वस्तु को नहीं लेगा ।
मूलम्
तस्य पूर्त्या स्वरूपं जीवति, अस्य दारिद्र्येण स्वरूपं जीवति ॥ ३६२ ॥
श्लोक
स्वरूपजीवनं तस्य परिपूर्णत्वतो मतम् । स्वरूपजीवनं चास्य दारिद्र्येण भवेत्खलु ॥ ३६२ ॥
टीका संस्कृता
एतत्पूर्तिदारिद्याभ्यामुभयोः फलितमाह-तस्येत्यादिना । आचार्यस्यैतदभिमानदुष्टवस्त्वस्वीकारहेतुपूर्त्याऽऽचार्यत्वरूपस्वरूपं जीवति । शिष्यस्य स्वकीयत्वबुद्धयैकस्यापि समर्पणीयत्वयोग्यताभावहेतुसकलतदीयत्वप्रतिपत्तिसिद्धदारिद्र्येण शिष्यत्वरूपस्वरूपं जीवतीत्यर्थः ।
टीका हिन्द्या
उस का स्वरूप पूर्ति से जीता है, इस का स्वरूप दारिद्र्य से जीता है ॥ ३६२ ॥ पूर्ति और दारिद्र्यों से फलितार्थ को कहते हैं-उस का इत्यादि । आचार्य का शिष्य की ममता से दूषित द्रव्य को न लेनारूप पूर्ति से आचार्यत्वस्वरूप जीता है, शिष्य का अपना समझ देने के योग्य द्रव्याभावरूप दारिद्र्य से शिष्यत्व जीता है ।
मूलम्
तर्हि शिष्येणाचार्यस्य क्रियमाण उपकारः कोऽपि नास्ति किमिति चेत् ।
मूलम्
आचार्यानुसंधानेनास्ति ॥ ३६३ ॥
श्लोक
तर्ह्याचार्यस्य शिष्येण क्रियमाणोपकारकः । कश्चिन्नास्ति किमित्थं चेदस्ति त्वाचार्यचिंतनात् ॥ ३६३ ॥
टीका संस्कृता
अथ शिष्येणाचार्यस्य क्रियमाण उपकारोऽयमिति वक्तुं तद्विषयप्रश्नमनुवदति-तर्हीत्यादिना । एवमादानदानयोर्योग्यताविरहेऽप्युपकारस्मृतिमता शिष्येण महोपकारकस्याचार्यस्य क्रियमाण उपकार एकोऽपि नास्ति किमिति चेदित्यर्थः । तस्योत्तरमाह-आचार्यानुसंधानेनास्तीत्यादि । स्वरूपज्ञस्य शिष्यस्यानुसंधानेन कदापि कोऽपि नास्ति, स्वकृषिफलसंतुष्टस्याचार्यस्यानुसंधानेनास्तीत्यर्थः ।
टीका हिन्द्या
तव शिष्य से आचार्य को क्रियमाण उपकार कुछ नहीं है क्या ? इस शंका में कहते हैं-आचार्य के अभिप्राय से है ॥ ३६३ ॥ अब शिष्य से आचार्य को कर्तव्य उपकार कुछ नहीं है क्या ? इस शंका में कहते हैं-तव इत्यादि । इस प्रकार लेने देने की योग्यता न होनेपर भी उपकारस्मृतिवाला शिष्य से महोपकारक आचार्य को कर्तव्य उपकार अपने अभिप्राय से नहीं है तो भी अपने कैंकर्य से प्रसन्न हुये आचार्य के अभिप्राय से है ।
मूलम्
स च को वेत्यत आह-स चेत्यादि ।
मूलम्
स च ज्ञानव्यवसायप्रेमसमाचाराः ॥ ३६४ ॥
श्लोक
स चोपायः सुविज्ञेयः स्वरूपज्ञानमेव च । व्यवसायानुरागौ च समाचारस्तथाऽपरः ॥ ३६४ ॥
टीका संस्कृता
ज्ञानव्यवसायप्रेमसमाचारा नाम-स्वरूपयाथात्म्यज्ञानं, तदनुरूपोपायव्यवसाय, उपेयप्रेम, एतत्त्रयाणामप्यनुरूपं सम्यगनुष्ठानं च । अनेन श्रीमंत्रे पदत्रयेणापि प्रतिपाद्यमानेषु स्वरूपोपायपुरुषार्थेषु ज्ञानव्यवसायप्रेमाणि तदनुरूपानुष्ठानानि चोच्यंते ।
टीका हिन्द्या
वह कैंकर्य ज्ञान, व्यवसाय, प्रेम और समाचार है ॥ ३६४ ॥ उस कैंकर्य को कहते हैं-वह इत्यादि । स्वरूपयाथात्म्यज्ञान, उस के अनुरूप उपाय में विश्वास, उपेय में प्रेम ये तीनों के अनुरूप अनुष्ठान भी हैं । इस से अष्टाक्षरमंत्र के पदत्रय से कहे जानेवाले स्वरूप, उपाय, पुरुषार्थों में ज्ञान, विश्वास और प्रेम तीनों के अनुरूप अनुष्ठान भी कहे जाते हैं ।
मूलम्
आचार्यस्य प्रीत्यर्थं क्रियमाणकैंकर्यस्य प्रवृत्तिनिवृत्तिरूपत्वेन स्थितत्वात् प्रवृत्तिरूपस्य तस्य कथनानंतरं निवृत्तिरूपमाह-आचार्यस्य प्रीत्यर्थमित्यादिना ।
मूलम्
आचार्यस्य प्रीत्यर्थमस्य निवर्तनीयो भगवद्द्रव्यस्यापहारो भगवद्भोजननिरोधो गुरुमंत्रदेवतापरिभवश्च ॥ ३६५ ॥
श्लोक
आचार्यप्रीतिसिद्ध्यर्थं त्यक्तव्यश्च प्रयत्नतः । हरिद्रव्यापहारोऽथ हरिभोजनवारणम् । देवतागुरुमंत्राणां तिरस्कारस्तथैव च ॥ ३६५ ॥
टीका संस्कृता
एवमुद्दिष्टस्य प्रकारान् क्रमेण विशदीकरोति-भगवद्द्रव्यापहार इत्यादिना । भगवद्द्रव्यमित्युच्यते-‘अन्यस्य समीचीनपदार्थम्’ इत्युक्तप्रकारेण श्रीकौस्तुभवदीश्वरस्य स्पृहणीयमात्मद्रव्यं, स्वातंत्र्यं नाम-शेषत्वैकनिरूपणीयस्य स्वार्थत्वानुसंधानं, अन्यशेषत्वं नाम-भगवदेकशेषस्य तदितरशेषत्वानुसंधानं, इदं च मातापित्रादिदेवतांतरपर्यंतं वर्तते । एतद्वयमपि प्रथमाक्षरे चतुर्थ्या मध्यमाक्षरेण च निवर्त्यते हि । इदं च ‘किं तेन न कृतं पापं चौरेणात्मापहारिणा’ इति सकलपापमूलत्वेनोक्तं खलु । रक्षणं भगवद्भोजनमित्युच्यते-रक्ष्यवर्गस्य रक्षणस्य तस्य क्षुधितस्य भोजनवद्धारकत्वात् । ‘भूमिमंतरिक्षं सर्वं युगपद्भुक्तवानित्यत्र रक्षणस्य तस्य धारकत्वाद्भुक्तवानित्युक्तं, नो चेद्रक्षितवानिति वक्तव्यमिति कलिवैरिदासैरुक्तम् । एवंभूतस्य तस्य रक्षकत्वस्य निरोधो नाम-‘अवरक्षणे’ इति धातुना निरुपाधिकसर्वरक्षकत्वेनोक्तस्य रक्षणस्यावकाशो यथा न स्यात्तथा स्वयत्नेन वाऽन्यैर्वा स्वरक्षणे प्रवर्तनम् । इदं च भगवदेकरक्ष्यत्वप्रतिपादकेन नमःशब्देन निवर्त्यते ।
टीका हिन्द्या
आचार्य के प्रीत्यर्थ शिष्य के छोडने योग्य :-भगवद्द्रव्यापहार, भगवद्भोजन को रोकना, गुरु, मंत्र और देवता का तिरस्कार है ॥ ३६५ ॥ आचार्यमुखोल्लास के लिये शिष्यकर्तृक कैंकर्य प्रवृत्तिनिवृत्तिरूप होने से प्रवृत्तिरूप कैंकर्य को कह अनंतर निवृत्तिरूप कैंकर्य को कहते हैं-आचार्य इत्यादि । इस प्रकार उद्देश कर क्रम से विवरण करते हैं-भगवदित्यादि । भगवद्द्रव्य माने-श्रीकौस्तुभसदृश ईश्वर का स्पृहणीय आत्मद्रव्य है । स्वातंत्र्य माने-शेषत्व से निरूपण करने योग्य आत्मा को स्वतंत्र समझना । अन्यशेषत्व माने-भगवदेकशेषभूत आत्मवस्तु को माता पिता देवतांतर को शेष समझना । ये दोनों प्रथमाक्षर की चतुर्थी से और मध्यमाक्षर से भी दूर किये जाते हैं । ‘इस आत्मापहारी चोर से कौन पाप न किया गया’ ऐसा सकल पाप का कारण कहा है । भगवद्भोजन इत्यादि :–रक्षण को भोजन कहते हैं रक्ष्यवर्ग का रक्षण ईश्वर को भूखे को भोजन के तरह धारक होनेसे । ‘भूमि और आकाश को पाये हैं’ ऐसा रक्षण किये हैं न कह पाये हैं ऐसा सूरिलोग कहे हैं । एवंभूत स्वामी के रक्षकत्व को रोकना माने-‘अव रक्षणे’ इस धातु से निरुपाधिक सर्वरक्षकतया कहे जानेवाले ईश्वर को रक्षा करने का अवकाश न दे स्वयत्न से या औरों से अपने को रक्षा करने में प्रवृत्त होना । यह भगवदेकरक्षकत्वप्रतिपादक नमः शब्द से दूर किया जाता है ।
मूलम्
भगवद्द्रव्यापहार इत्यनेन तमुद्दिशति ।
मूलम्
भगवद्द्रव्यापहारो नाम-स्वातंत्र्यमन्यशेषत्वं च । भगवद्भोजननिरोधो नाम-तद्रक्षकत्वस्य निरोधः ॥ ३६६ ॥
श्लोक
हरिद्रव्यापहारोऽन्यशेषत्वं च स्वतंत्रता । हरिभोगनिरोधस्तद्रक्षकत्वक्रमापहः ॥ ३६६ ॥
टीका संस्कृता
तद्रक्षणक्रमः कथमित्यत आह-तस्येत्यादिना ।
टीका हिन्द्या
भगवद्द्रव्यापहार माने :- स्वातंत्र्य और अन्यशेषत्व | भगवद्भोजन को रोकना माने :- भगवान के रक्षकत्व को रोकना ॥ ३६६ ॥ उस के रक्षणक्रम को कहते हैं-उस के इत्यादि ।
मूलम्
तस्य रक्षकत्वक्रमः प्रपन्नपरित्राण उक्तः ॥ ३६७॥
श्लोक
प्रपन्नत्राणके तस्य रक्षकत्वक्रमोऽवादि ॥ ३६७ ॥
टीका संस्कृता
सर्वरक्षकस्य तस्य रक्षकत्वक्रमः प्रपन्नपरित्राणप्रबंधे विशदमुक्तः, तत्र द्रष्टव्य इत्यर्थः । तत्र तद्व्यतिरिक्ताः सर्वेऽप्यरक्षका इत्येतत्प्रतिपादनानंतरमीश्वरो मातापितृभ्यां त्यक्तावस्थायां ‘अनंतरं मयि स्थित्वा मम बंधुः सन् पालयित्वा’ इति प्रकारेण ‘स्वं रूपं विहाय विग्रहांतरं परिगृह्य मातृमुखं प्रदर्श्य च प्रीतिवार्तामुक्त्तवेत्यादिना ‘अयमेव सर्वेषामपि रक्षक’ इत्यंतेन तस्य रक्षकत्वक्रमः सुव्यक्तमुक्तः ।
टीका हिन्द्या
उस के रक्षणक्रम को प्रपन्नपरित्राण में कहे हैं ॥ ३६७ ॥ सर्वेश्वर का रक्षकत्वक्रम प्रपन्नपरित्राण में ‘ईश्वर से व्यतिरिक्त रक्षक नहीं है’ इस अर्थ के बाद ‘ईश्वर मातापिताओं के छोडनेपर भी अपने रूप को बदल मातृमुख को दिखा भोग्यवचन कह’ ऐसा आरंभ कर ‘यही सब का रक्षक’ इत्यंत उस के रक्षकत्वक्रम को स्पष्ट कहा है ।
मूलम्
गुरुपरिभवो नाम-श्रुतार्थप्रकारेणानुष्ठानराहित्यं, अनधिकारिभ्य उपदेशः । मंत्रपरिभवो नाम-अर्थविस्मृतिः, विपरीतार्थप्रतिपत्तिश्च । देवतापरिभवो नाम-करणत्रयस्य चाप्राप्तविषयेषु प्रावण्यं, तद्विषयेऽप्रावण्यं च ॥ ३६८ ॥
श्लोक
गुरोः परिभवो ज्ञेयोऽनधिकारिषु कीर्तनम् । श्रुतार्थस्य प्रकारेण चानुष्ठानविहीनता ॥ अर्थविस्मरणं तद्वद्विपरीतार्थधारणम् । परिभवो हि मंत्राणां ज्ञेयो तत्त्वविचक्षणैः ॥ परिभवो हि देवस्याऽप्रावण्यं यच्च माधवे । अप्राप्तविषये तद्वदिन्द्रियाणां प्रवीणता ॥ ३६८ ॥
टीका संस्कृता
श्रुतार्थप्रकारेणानुष्ठानराहित्यं नाम-स्वोज्जीवनार्थं तेनोक्तानां स्वेन श्रुतानां त्याज्योपादेयरूपाणामर्थविशेषाणामनुरूपयोस्त्यागस्वीकारयोरनुष्ठानस्याकरणम् । अनधिकारिभ्य उपदेशो नाम-स्वस्य शरणत्वेन तेनोपदिष्टानां सारार्थानां नास्तिकादिभिरस्याधिकाररहितेभ्यः ख्यातिलाभाद्याशयोपदेशः । अर्थविस्मृतिर्नाम-आचार्येण मंत्रस्योक्तानामर्थानां बहुवारमनुसंधानेन रक्षणं विनोदासीन्येन विस्मृतिः । विपरीतार्थप्रतिपत्तिः-आचार्योक्तप्रकारं विना मंत्रस्य विपरीतानामर्थानामयमस्यार्थ इति भ्रांत्या प्रतिपत्तिकरणम् । करणत्रयस्य चाप्राप्तविषयेषु प्रावण्यं नाम-‘विचित्रा देहसंपत्तिरीश्वराय निवेदितुम् ।’, ‘आश्चर्यचेष्टितमाश्रयितुं कृतानि करणानि ।’ इति प्रकारेण तं स्मर्तुं स्तोतुं चोचितानां मनोवाक्कायानां स्वरूपाप्राप्तहेयविषयेषूच्चस्थजलस्य निम्नस्थलपातवत् प्रावण्यकरणम् । तद्विषयेऽप्रावण्यं नाम-‘जिह्वायां किणो यथा स्यात्तथा नारायणेत्याहूय काये किणो यथा स्यात्तथाऽऽश्रित्य’ इत्यादिषूक्तप्रकारेण स्वरूपप्राप्तविषयेऽभिनिवेशेन लग्नं स्यात्तथाऽकरणम् । एवं ‘मंत्रे तद्देवतायां च तथा मंत्रप्रदे गुरौ । त्रिषु भक्तिः सदा कार्या’ इति, ‘मंत्रनाथं गुरुं मंत्रं समत्वेनानुभावयेत् ।’ इति च पूज्यत्वेनोक्तस्यास्य विषयत्रयस्य च परिभवोऽयमित्युक्तम् ।
टीका हिन्द्या
गुरुपरिभव माने-सुना हुआ अर्थ का अनुष्ठान नहीं करना, अनधिकारियों को उपदेश करना । मंत्रपरिभव माने-उपदिष्ट अर्थ को भूल जाना, विपरीत अर्थ को समझना । देवतापरिभव माने-त्रिकरण को अप्राप्तविषय में लगाना, प्राप्तविषयमें न लगाना ॥ ३६८ ॥ गुरुपरिभव इत्यादि । अपने उज्जीवन के लिये आचार्य से उदिष्ट त्याज्योपादेयरूप अर्थों को अनुष्ठानपर्यंत नहीं लाना । अनधिकारियों को इत्यादि-अपने को रक्षकताया आचार्य से उपदिष्ट श्रेष्ठार्थों को नास्तिकों के लिये ख्यातिलाभ आदि की इच्छा से उपदेश करना । मंत्रपरिभव माने-आचार्य से उपदिष्ट अर्थों को स्मरण करना छोड उदासीनता से भूल जाना । विपरीतार्थप्रतिपत्ति माने-आचार्यउपदिष्टप्रकार के विना विपरीतरूप से समझना । देवतापरिभव माने-‘ईश्वर के समर्पण करने के लिये दृष्ट हुए विचित्रदेहरूप संपत्ति’ और ‘आश्चर्यचेष्टित को प्राप्त होने के लिये करण दिये हैं’ ऐसा प्राप्तविषय में न लगा अप्राप्तविषय में लगाना, प्राप्तविषयभूत सर्वेश्वर के स्मृति, स्तुति, प्रणामरूप कार्यों में न लगान । तथा च ‘मंत्र देवता और मंत्रप्रद आचार्य इन तीनों में सदा प्रेम रखना’, ‘मंत्रनाथ गुरु और मंत्र को बराबर समझना’ ऐसा भी कहे हुये इन तीनों का परिभव करना ।
मूलम्
अस्य शरीरावसानपर्यंतमाचार्यविषये ‘मम दुष्टं मनो निवर्तितवान्’, ‘एकाकारेणाश्रयणयोग्यं मनो दत्तवान्’ इत्युपकारस्मृतिर्वर्तितव्या ॥ ३६९ ॥
श्लोक
आचार्यविषये चास्य ह्युपकारस्मृतिः सदा ॥ ३६९ ॥
टीका संस्कृता
एवं आचार्यप्रीत्यर्थं कर्तव्यं त्यक्तव्यं चोक्तवान्, अथ चास्यापेक्षितमाह-अस्येत्यादिना । अस्याधिकारिणः शरीरेण सह स्थितिकाले महोपकाराचार्यविषये ‘मम दुष्टं मनो निवर्तितवान्’, ‘अनन्यप्रयोजनतयाऽनुवृत्तिं कुर्वन्मनो दत्तवान्’ इत्युपकारस्मृतेरनुवृत्तिरावश्यकीत्यर्थः ।
टीका हिन्द्या
इस को मरणपर्यंत आचार्यविषय में ‘हमारे दुष्टमन को दूर किये हो, आदरपूर्वक भजन करनेवाले मन को दिये हो’ ऐसा उपकारस्मृति कर्तव्य है ॥ ३६९ ॥ इस प्रकार आचार्यप्रीति के लिये करने और छोड़ने योग्य को कह और भी इस के अपेक्षित को कहते हैं-इस को इत्यादि । इस अधिकारी को शरीर के साथ रहनेतक महोपकारक आचार्यके विषय में उपकारस्मृति कर्तव्य है ।
मूलम्
मनसो दोषः-स्वगुणस्य भगवद्भागवतदोषस्य चानुसंधानम् ॥ ३७० ॥
श्लोक
भगवद्भागवताचार्यदोषाणां यच्च चिंतनम् । मनोदोषः स विज्ञेयः स्वगुणस्य च चिंतनम् ॥ ३७० ॥
टीका संस्कृता
मनसो दोषः क इत्याकांक्षायामाह-मनस इत्यादि । स्वगुणस्यानुसंधानं नाम-शमदमाद्यात्मगुणेषु स्वस्य विद्यमानेष्वपि ‘पूर्तिरहितः समीचीनगुणरहित’ इत्यादिप्रकारेण मम कोप्यात्मगुणो नास्तीति स्वाकिंचन्यमनुसंधेयं, तथा सत्येते सर्वे इदानीं मम संतीति स्वस्य विद्यमानसद्गुणानां पर्याप्ततया स्थिततया चानुसंधानम् । भगवतो दोषस्यानुसंधानं नाम-स्वस्य परतंत्रमिदमात्मवस्तु स्वोपेक्षयाऽनादिकालं कर्मव्याजीकृत्य त्यक्तवान्, तावन्मात्रं विना निर्दयवद्यथाकर्मफलदायी निरयेषु पातयित्वा छेदित्वा क्षारादिकं लिंपति, अंगीकारकरणेऽपि निरंकुश स्वतंत्रत्वादेतत्काल एवं कुर्यादिति विश्वसनीयो न भवतीतिवत्, कृष्णावतारे स्वैरविहारानवलंव्य धर्मसंस्थापनं कर्तुं जातस्यैवं व्यापार उचितो न भवतीतिवच्चानुसंधानम् । अन्यथा समस्तकल्याणगुणात्मके विषयेऽनुसंधानार्हः कश्चन दोषो नास्ति खलु । अथ भागवतदोषस्यानुसंधानं नाम-विग्रहेण सह स्थितत्वात् उपरि भासमानाकारानादाय प्रकृतिवश्योऽहंकारग्रस्त इत्याद्यनुसंधानम् । एवमिदं स्वगुणस्य भगवद्भागवतदोषस्य चानुसंधानं भवति ।
टीका हिन्द्या
मन के दोष माने-अपने गुण और भगवद्भागवत के दोष को स्मरण करना ॥ ३७० ॥ मन के दोष को कहते हैं-मन के दोष इत्यादि । अपने गुण को स्मरण करना माने-शमदमादि आत्मगुण अपने में होनेपर भी ‘अपने में एक भी आत्मगुण नहीं मैं गुणहीन हूं’ ऐसा अनुसंधान करना उचित है ऐसा न कर ‘सब गुण हमारे में पूर्ण हैं’ ऐसा समझ गर्वित होना । भगवान के दोष को स्मरण करना माने-ईश्वर के परतंत्र इस आत्मवस्तु को अनादिकाल से उपेक्षा कर कर्म के बहाने से छोड दिया है इतना ही नहीं निर्दयी के तरह कर्मानुसार नरकों में दुःख भुगानेवाले अब स्वीकार करने पर भी निरंकुशस्वतंत्र होने से ‘अमुक समय में अमुक करेगा’ ऐसा विश्वास करने के योग्य नहीं, कृष्णावतार में यथेच्छविहारों के विषय में धर्मसंस्थापन करने को अवतार ले ऐसा करना अनुचित है इत्यादि स्मरण करना । ऐसा न हो तो समस्त कल्याणगुणात्मक भगवान के विषय में स्मरण करने के योग्य कोई दोष नहीं है । भागवतदोष को स्मरण करना माने-शरीर के साथ रहने से ऊपर के आकारों को देख ‘प्रकृति के वश्य हैं’, ‘अहंकारी हैं’ ऐसा समझना ।
मूलम्
तर्हि स्वरूपकेषुचिद्गुणेषु सत्सु ते यथा नानुसंधीयंते तथा तेषां केषुचिद्दोषेषु सत्स्वपि तेषामनुसंधानं न कर्तव्यमित्युच्यते किमित्यत आह-दोषस्येत्यादि ।
मूलम्
दोषस्याननुसंधानं गुणवद्विद्यमाने न भवति किंतु तदभावात् ॥ ३७१ ॥
श्लोक
दोषस्याननुसंधानं गुणवद्विद्यमानके । समये न भवेत् किंतु दोषाभावाद्धि हेतुतः ॥ ३७१ ॥
टीका संस्कृता
भगवद्भागवतविषयेषु दोषस्यानुसंधानाभावः-स्वस्य गुणेषु विद्यमानेषु ते यथा नानुसंधीयंते तथा विद्यमानेषु नानुसंधानं कर्तव्यमिति न, प्रथमतस्तद्विषये तदभावादित्यर्थः । कथ मितिचेत्-सर्वमुक्तिप्रसंगपरिहारार्थं स्वकृतमर्यादयांगीकर्तुं विचार्य ‘विचार्यालोकं सृष्टवान्’, ‘उपायेनापाये आगच्छति’ इति चोक्तप्रकारेण सकलात्मनामुज्जीवनार्थं सृष्ट्यवतारादिभिः कृषिकरणादनादिकालमुपेक्षया व्यक्तवानिति न शक्यते वक्तुम् । निर्दयवत् कर्मानुगुणदंडने च मृत्तिकां भक्षितवत्याः प्रजाया जिह्वायां चिह्नं कृत्वा भयमुत्पादयंती मातेव हितपरः करोति तस्मादुज्जीवनोपयुक्तं भवति । निरंकुशस्वातंत्र्यं पूर्वं बंधहेतुरपि कृपापरतंत्रतयांगीकारानंतरं नित्यसंसारिणो नित्यसूरिभिः समानभोगित्वकरणसमये निवारको यथा न स्यात्तथा कर्तुमुपयुक्तत्वाच्छ्लाघ्यं खलु । कृष्णावतारे स्वैरविहारः ‘यदि मे ब्रह्मचर्यं स्यात्’ इत्युक्तप्रकारेण स्वस्यैतद्भोगे संबंधाभावज्ञापनार्थं, ‘गोप्यः कामात्’ इत्युक्तप्रकारेण तन्मार्गेण ताः स्वविषये प्रवणाः कृत्वोत्तारयितुं च कृतत्वाद्गुण एव न तु दोषः । भागवतानामपि ‘दोषं विना गुणं वर्धयन्त्वे’ ति प्रकारेण निर्दोषत्वान्निरवधिकगुणत्वात् मर्मस्पर्शितया निरूपणे कृते तेषु द्रष्टुं योग्यः कोऽपि दोषो नास्ति खलु । एवंप्रकारेण भगवद्भागवतविषये दोषभाने परिहारो द्रष्टव्यः । एतत्सर्वमभिप्रेत्य तदभावादित्यनेनोक्तम् ।
टीका हिन्द्या
दोष को वहां स्मरण करना गुण के तरह रहने पर नहीं किंतु न रहने पर ॥ ३७१ ॥ तब अपने गुणों को जैसा न स्मरण करना तैसे उन के दोष को भी नहीं स्मरण करना क्या ? इस शंका में कहते हैं-दोष को इत्यादि । अपने में गुण होने पर भी जैसा उस को नहीं स्मरण करना कहा है, तैसे भगवद्भागवतों में दोष होने पर उसको नहीं स्मरण करना ऐसा अर्थ नहीं किंतु उनमें दोष नहीं रहने से । इस का कारण-सर्वमुक्तिप्रसंग न आने के लिये परमात्मा शरणागति को मान कर अंगीकार करते हैं । समस्त आत्माओं के उज्जीवन के लिये सृष्ट्यवतारादि से यत्न करनेवाले सर्वेश्वर में दोष होना असंभव है । निर्दयी के तरह कर्मानुगुणदण्ड देना भी मिट्टी खानेवाले बालक के जिह्वा में चिह्न कर डरानेवाली माता के तरह हितपर हो करने से उज्जीवन का ही हेतु है इसलिये दोष नहीं । निरंकुशस्वातंत्र्य अनादिकाल से बंध का हेतु होनेपर भी कृपा के परतंत्र हो जब अंगीकार लिया है तब नित्यसंसारी को नित्यसूरि के समान करने के समय कोई रोक नहीं सकने के लिये उपयुक्त होता है इसलिये श्लाघ्य है । कृष्णावतार में स्वेच्छासंचार भी दोष नहीं कारण-‘मेरे ब्रह्मचर्य हो तो’ इस वचनानुसार अपने को इस भोग में संबंधाभाव को प्रकट करने के लिये, ‘गोपी लोग काम से’ इस वचनानुसार गोपी लोगों को काम द्वारा अपने विषय में भक्त बना उद्धार करने के लिये किये हैं इस लिये दोष नहीं । भागवतों में दोष न होने से निरूपण करने पर गुण भरे रहने से उनको दोषी न समझना । दोषरहितता को स्वपक्ष से साधन दिये हैं ।
मूलम्
दोषो नास्तीति स्वपक्षेण प्रसाधितवान्, अथ परपक्षेण दोषसद्भावमंगीकृत्य तत्परिहारमाह-दोषोऽस्तीतीत्यादिना ।
मूलम्
दोषोऽस्तीति स्मर्यते यदि स च परदोषो न भवति किंतु स्वदोषः ॥ ३७२ ॥
श्लोक
भगवद्धरिदासेषु दोषोऽस्तीति स्मृते सति । परकीयो न विज्ञेयः स्वकीय इति संस्मरेत् ॥ ३७२ ॥
टीका संस्कृता
पूर्वोक्तप्रकारेण विना भगवद्भागवतविषये दोषोऽस्तीत्यनुसंधीयते यदि तेषु तस्य प्रतीयमानदोषस्तेषां दोषो न भवति किंतु तद्रष्टुः स्वस्य दोष इत्यर्थः ।
टीका हिन्द्या
दोष है ऐसा समझने पर वह परदोष नहीं अपना ही दोष है ॥ ३७२ ॥ अब परपक्ष से दोष को अंगीकार कर परिहार करते हैं-दोष है इत्यादि । भगवद्भागवत के विषय में दोष समझने पर वह दोष उनका नहीं किन्तु उसके देखनेवाले अपनेको है ।
मूलम्
स्वदोषः कथमिति चेत् ।
मूलम्
स्वदोषेण च बन्धेन च ॥ ३७३ ॥
श्लोक
कथं स्वदोष इत्थं चेत् स्वदोषेण च बंधतः ॥ ३७३ ॥
टीका संस्कृता
तस्य स्वदोषत्वं साधयितुं तत्प्रश्नमनुवदति-स्वदोष इत्यादिना । परगतत्वेन प्रतीयमानः स स्वदोषः कथं जायत इत्यर्थः । तस्योत्तरमाह-स्वदोषेणेत्यादिना । काचादिदुष्टदृष्टेश्चन्द्रद्वित्वादिकं यथा भासते तथा निर्दोषविषये दोषप्रतीतिहेतुदुर्वासनादुष्टचित्ततारूपस्वदोषेण । यथा पित्रादीनां दोषः पुत्रादीनां भवति तथा तेषां दोषः स्वस्य स्यात्तथाविधेन तैः सह स्वस्य विद्यमानेन विशेषेणेत्यर्थः । स्वदोषेणेदं तत्र दोषाभावादुच्यते, अन्यद्दोषमंगीकृत्योच्यते ।
टीका हिन्द्या
स्वदोष कैसा हुआ इस शंका में अपने दोष और बंध से अपना दोष हुआ ॥ ३७३ ॥ उस को स्वदोष कैसे समझना इस प्रश्न में उत्तर देते हैं-स्वदोष इत्यादि । काच नामक व्याधि से दुष्टदृष्टि मनुष्य को दो चंद्रमा दीखते हैं जैसा निर्दुष्टविषय में दुर्वासना से दुष्टचित्त मनुष्य को दोष दीखता है । पुत्रादियों के दोष जैसा पित्रादियों का होता है वैसे उनका दोष अपने समझने योग्य संबंध से है ।
मूलम्
स्वदोषेणेति वक्तव्यं दोषे सति हीत्यत आह-स्वदोषो नास्तीत्यादि ।
मूलम्
स्वदोषो नास्ति यदि गुणप्रतिपत्तिर्वर्तते ॥ ३७४ ॥
श्लोक
नास्ति चेदूदूषणं स्वस्य वर्तेत गुणबुद्धितः ॥ ३७४ ॥
टीका संस्कृता
चन्द्रद्वित्वदर्शनहेतुदोषाभावे चन्द्रैकत्वं यथा भासते तथा दोषदर्शनहेतुचित्तदोषाभावे भगवद्भागवतविषयेषु गुणप्रतिपत्तिर्वर्ततेत्यर्थः । तदभावाद्दोषोऽस्तीत्यंगीकार्यमिति भावः ।
टीका हिन्द्या
स्वदोष न हो तो गुण समझेगा ॥ ३७४ ॥ स्वदोष से ऐसा कह सक्ते हैं दोष होने पर इस शंका में कहते हैं-स्वदोष इत्यादि । चन्द्रद्वित्वदर्शनहेतु नेत्र में दोष न होने पर जैसा चन्द्रैकत्व भान होता है तैसे दोषदर्शनहेतु दोष अपने चित्त में न होने पर भगवद्भागवत के विषय में गुणप्रतिपत्ति ही रहेगी ऐसा न होने से दोष है समझना ।
मूलम्
गुणप्रतिपत्त्यभावे को दोष इत्यत आह-तदभाव इत्यादि ।
मूलम्
तदभावे दोषज्ञानमेव दोषः स्यात् ॥ ३७५ ॥
श्लोक
तदभावे तु दोषस्य ज्ञानं स्यादूषणं परम् ॥ ३७५ ॥
टीका संस्कृता
गुणप्रतिपत्त्यभावे दोषप्रतिपत्तिः खलु वर्तेत, तद्दोषज्ञानमेवास्य भगवन्निग्रहहेतुर्दोषो भवेत् । एतन्मूलकोऽन्यो दोषो जायत इति न वक्तव्यमित्यर्थः । अनेनेदमवश्यपरिहरणीयमित्युक्तम् ।
टीका हिन्द्या
न होने पर दोषज्ञान ही दोष होता है ॥ ३७५ ॥ गुणप्रतिपत्ति न होने से होनेवाले दोष को कहते हैं-न होने पर इत्यादि । गुणप्रतिपत्ति न होने पर दोषप्रतिपत्ति करेगा वह इस को भगवन्निग्रहहेतु दोष होता है इस लिये इस को अवश्य हटाना चाहिये ।
मूलम्
इदं सर्वं त्यक्तव्यमस्यावकाशे सति हीत्याह-अस्येत्यादिना ।
मूलम्
अस्यावसरो नास्ति ॥ ३७६ ॥
श्लोक
अवसरोऽस्य नास्त्येव स्वदोषे कालयापनात् ॥ ३७६ ॥
टीका संस्कृता
भगवद्भागवतदोषचिंतनस्यावसर एवास्य नास्तीत्यर्थः ।
टीका हिन्द्या
इस के लिये अपने को अवकाश नहीं है ॥ ३७६ ॥ अब इस को परदोष देखने का अवकाश ही नहीं है ऐसा कहते हैं-इसके इत्यादि । भगवद्भागवत के दोषचिंतन करने को इस चेतन को अवकाश ही नहीं है ।
मूलम्
तत्केन हेतुनेत्यत आह-स्वदोषस्येत्यादि ।
मूलम्
स्वदोषस्य भगवद्भागवतगुणानां चैव कालस्य पर्याप्तत्वात् ॥ ३७७ ॥
श्लोक
भगवद्भागवतानां च गुणेषु कालयोजनात् ॥ ३७७ ॥
टीका संस्कृता
‘नीचः पूर्तिरहितः’, ‘असत्ये स्थितं ज्ञानं असद्व्यापारो मालिन्यदेह एतादृशस्वभावः’, ‘अमर्यादः क्षुद्रः’, ‘विद्वेषमानमदरागविलोभमोहाद्यज्ञानभूमिः’, ‘अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽप्यतिद्रुह्यन् वाग्धीकृतिभिरपि भक्ताय सततम् । अजानन् जानन् वा भवदसहनीयागसि रतः’, ‘श्रीरङ्गेश त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम्’ इत्यादिषूक्तप्रकारेणानवधिकस्वदोषानुसंधानस्य, तादृशदोषमदृष्ट्वांगीकृतवतो भगवतः, ‘वेदविदः पुरस्कृत्य’ इति, ‘बोधयंतः परस्परम्’ इति, ‘तद्दासेषु लघुमहत्सु मम दास्यस्वीकर्तृष्वत्र वर्तमानेषु अत्यंतपरिमलविशिष्टसद्योविकसितकमलचरणयोरधस्तात् प्राप्तुं सदृशः किमित्युक्तप्रकारेण पुरुषकाराणां वचनसहायभूतानां प्राप्याणां भागवतानां च ‘समस्तकल्याणगुणामृतोदधिः’, ‘असंख्येयकल्याणगुणगणौघमहार्णवः’, ‘यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा ह्यनंतस्य असंख्येया महात्मनः ॥’ इति, ‘नाहं समर्थो भगवत्प्रियाणां वक्तुं युगान् पद्मभुवोऽप्यगम्यान् ।’ इत्युक्तप्रकारेणासंख्येयगुणानुसंघानानां चैव कालः पर्याप्तः । अन्यस्यावकाशाभावादित्यर्थः । अस्यैव कालस्य पर्याप्तत्वादित्युक्तत्वात्-स्वगुणस्मरणस्यावकाशो नास्तीत्यर्थात् सिद्धं खलु ।
टीका हिन्द्या
स्वदोष और भगवद्भागवतगुण इन को अनुसंधान करने में काल व्यतीत होनेसे ॥ ३७७ ॥ उसका कारण बताते हैं-स्वदोष इत्यादि । ‘नीच, अकिंचन, असत्यज्ञान, अनाचार, मालिनदेह, मर्यादारहित, क्षुद्र, द्वेष, मान, मद, राग, लोभ, मोह, अज्ञान इनके उत्पत्तिस्थान है । आपकी विधिनिषेधरूप आज्ञा को उल्लंघन कर मनोवाक्कायों से आप और भागवतों के विषय में द्रोह करता हुआ जानकर वा न जानकर असह्यापचार में आसक्त होता हूं, हे रंगेश आपके गुणों के तरह हमारे दोषों का पार देखनेवाला नहीं’ इत्यादि वचनानुसार अवधिरहित अपने दोषानुसंधान करने के लिये, उन दोषों को न देख अंगीकार करनेवाले भगवान् और ‘वेदाभ्यास करनेवाले’, तथा ‘परस्पर गुणानुभव करनेवाले’, ‘उनके दास लघुमहामनुष्य हमको इस संसार में रक्षा किये हैं हम परमात्मा की प्राप्ति को नहीं चाहते हैं’ इन वचनानुसार पुरुषकार सहाय और प्राप्यभूत भागवतों के ‘समस्तकल्याणगुणों के समुद्र’, ‘हे पुत्र समुद्र के रत्न जैसे असंख्येय हैं तैसा परमात्मा के गुण असंख्येय हैं’, ‘मैं ब्रह्मा को भी अगम्य भागवतों के गुणों को कह नहीं सक्ता हूं’ इन वचनानुसार असंख्येय कल्याणगुणों के अनुसंधान के लिये भी अवकाश नहीं तव दोषों के अनुसंधान करने को अवकाश न होने में क्या कहना ।
मूलम्
एवं मनसो दोष इत्यारभ्यैतावता भगवद्भागवतदोषस्मरणमनुचितमित्यर्थः, तेषां नैर्दोष्यं, दोषोऽस्तीत्यनुसंधाने सति स तद्दोषो न भवति स्वदोष इति, तस्य स्वदोषत्वे निदानं स्वदोषाभावे शंकाया उत्तरं, दोषप्रतिपत्तौ सत्यां सैवास्य महादोष इति, स्वदोषभगवद्भागवतगुणानुसंधानानामेव कालस्य पर्याप्तत्वादस्यावसरो नास्तीति चोक्तम् ।
मूलम्
एवं स्वस्योद्देश्यभगवद्भागवतविषयेषु दोषानुसंधानं न कार्यं, करोति चेत् स स्वदोष इत्यनुसंधानं कर्तव्यमित्युक्तिप्रसंगे संसारिदोषविषयानुसंधानं चैवं स्यादित्याह-संसारिणामित्यादिना ।
मूलम्
संसारिणां दोषं स्वदोष इति स्मरेत् ॥ ३७८ ॥
श्लोक
दोषः संसारिणां स्वस्य दोष इत्येव संस्मरेत् ॥ ३७८ ॥
टीका संस्कृता
संसारिणां भगवद्वैमुख्यमनात्मन्यात्मबुद्ध्यस्वे स्वबुद्धिप्रभृतिषु दोषेषु दृष्टेषु तादृशदोषानादाय तांस्त्यक्त्वा ‘एतेषामस्माकं च को वा संसर्ग’ इति स्थितिं विना तेषां दोषश्च स्वस्य दोष इत्यनुसंधानं कुर्यादित्यर्थः ।
टीका हिन्द्या
संसारियों के दोष को अपना दोष समझना ॥ ३७८ ॥ तथा च ‘मन का दोष माने’ ऐसा आरंभ कर यहां तक भगवद्भागवतदोषों को नहीं स्मरण करना, उन की निर्दोषता, दोष है समझने पर वह उन का दोष नहीं अपना दोष, उस के स्वदोष होने का कारण, स्वदोषाभावशंका का उत्तर, दोषप्रतिपत्ति होने पर वही चेतन का महादोष है, अपना दोष और भगवद्भागवतगुणानुभव को ही समय पूर्ण है बाकी विषय के चितवन करने का अवकाश नहीं इत्यादि पहिले कहे हैं, अब इस के प्रसंग में संसारियों का दोषानुसंधान इस तरह होना चाहिये ऐसा कहते हैं-संसारियों के इत्यादि । संसारियों की भगवद्विमुखता, देहात्मबुद्धि, स्वतंत्रता, बुद्धिप्रभृति दोष को देखने पर उन दोषों को लेकर उन को नीच समझ ‘उन से हमको काम क्या’ ऐसा न रह कर उन के दोष को भी अपना दोष समझ रहना ।
मूलम्
तस्य च हेतुर्बन्धज्ञानम् ॥ ३७९ ॥
श्लोक
तत्स्मरणस्य हेतुस्तु संबंधज्ञानमुच्यते ॥ ३७९ ॥
टीका संस्कृता
तस्य को हेतुरित्यत आह-तस्य च हेतुरित्यादि । स्वस्य शेषिभूतानां भगवद्भागवतानां दोषः स्वदोष इत्यनुसंधाने हेतुस्तैः सह स्वस्य विद्यमानसंबंधज्ञानं यथा भवति तथा संसारिणां दोषस्य स्वदोषत्वेनानुसंधानस्य हेतुर्नारायणत्वप्रयुक्तसंबंधज्ञानमित्यर्थः । सर्वेषामपीश्वरेण संबंधस्याविशिष्टत्वात् तन्मार्गेण स्वस्य तेषां च संबंधस्य सत्वात् स्वस्यावर्जनीयानां प्रकृतिबंधूनामागतो दोषो यथा स्वदोष इत्यनुसंधीयते तथा संसारिणां दोषः स्वदोष इत्यनुसंधाने न विरोधः खलु ।
टीका हिन्द्या
उस का हेतु बंधुज्ञान है ॥ ३७९ ॥ उस का हेतु बताते हैं-उस का इत्यादि । अपने शेषी भगवद्भागवतों के दोष को अपना दोष समझने का कारण जैसा उन के साथ अपना संबंध हुआ, संसारियों के दोष को अपना दोष समझने का हेतु नारायणत्वप्रयुक्त संबंधज्ञान । सब के साथ ईश्वर का संबंध बराबर होने से तद्द्वारा अपने को भी उन के साथ संबंध है इसलिये अपने को अवर्जनीयप्रकृतिबंधुओं के दोष अपना दोष जैसे समझता है संसारियों के दोष को अपना दोष समझने में कोई हानि नहीं ।
मूलम्
इदं चावश्यकं स्यात् तेषां दोषस्यास्य प्रतीतौ हि, सैव प्रथमतोऽस्य नास्तीत्याह-निमेषकालमपीत्यादिना ।
मूलम्
‘निमेषकालमपि न स्मराम’ इत्युक्तत्वात्स च न प्रतीयते ॥ ३८० ॥
श्लोक
निमेषकालमित्यादि सूक्तितः स न दृश्यते ॥ ३८० ॥
टीका संस्कृता
‘कडल्मलैस्थलशयने शयानानननुसंधाय वर्तमानान् विमूढान् निमेषकालमपि न स्मरामः’ इति परमपदे नित्यसूरिभिः प्रीत्या परिचर्याकरणप्रयोजकमहत्वविशिष्टस्तिरुक्कडल्मलैदिव्यदेशे आगत्य स्वात्मानः प्राप्तुं स्थले शेते इत्येतादृशस्वभावविशिष्टोऽयं, एकः स्वभावः खलु इति तादृशस्वभावेन जितैरनवरतानुसंधानं कर्तव्यं, एवं सति तद्व्यापरेण कार्यं किमिति केवलदेहपोषणादिपरान् संसारिणः क्षणकालमपि न स्मराम इत्युक्तत्वात् संसारिदोषोऽस्याधिकारिणो न भासत इत्यर्थः । श्रीपरकालोक्तिरियं श्रीवैष्णवानां सर्वेषां समाना खलु ।
टीका हिन्द्या
‘क्षण भर भी याद नहीं करेंगे’ ऐसा कहने से वह दीखता ही नहीं ॥ ३८० ॥ यह तब होगा जब उन का दोष अपने को दीख पडै वह इस को दीखता ही नहीं ऐसा कहते हैं—क्षण भर भी इत्यादि । ‘कडल्मलैस्थलशयन भगवान् का स्मरण नहीं करनेवालों को क्षणभर भी हम नहीं याद करेंगे’ ऐसा परमपद में नित्यसूरिलोग आदरपूर्वक परिचर्या करने योग्य होकर भी कडल्मलै दिव्यदेश में आ चेतनों की प्राप्ति के लिये भूमि में सोनेवाले स्वामी के सौशील्यगुण को देख विद्ध हो उस शीलगुण में हार कर निरंतर अनुसंधान करना चाहिये ऐसा न कर केवल देहपोषणादिपर संसारियों को क्षणमात्र भी याद नहीं करेंगे ऐसा कहने से संसारियों का दोष इस अधिकारी को नहीं दीखता है । परकालसूरि से कहा हुआ यह सब श्रीवैष्णवों को बराबर है ।
मूलम्
न प्रतीयत इति कथमुच्यते ‘अभिधाने विरोधः’, ‘एकनायकः’, ‘परिगृहीतभार्या’ इत्यादिना परांकुशस्यापि संसारिणां दोषो न प्रकाशते किमित्यत आह-प्रतीतिश्चेत्यादि ।
मूलम्
प्रतीतिश्च निवर्तनार्थम् ॥ ३८१ ॥
श्लोक
निवर्तनार्थं विज्ञेया प्रतीतिश्च सदा बुधैः ॥ ३८१ ॥
टीका संस्कृता
संसारिणां दोषप्रतीतिस्तादृशदोषेभ्यस्तान्निवर्तयितुमित्यर्थः । ‘अभिधाने विरोध’ इत्यादौ परांकुशैस्तत्र मनसः प्रवर्तनमसेव्यसेवादिभ्यस्तान्निवर्तयितुं खलु, तत्सर्वेषां तुल्यमिति भावः ।
टीका हिन्द्या
भान होना दूर करने के लिये ॥ ३८१ ॥ नहीं दीखता है यह बात कैसे कहते हैं, ‘कहे तो विरोध’, ‘एक नायक’, ‘परिगृहीतभार्या’ इत्यादि इन दशकों में शठकोपसूरि को भी संसारियों का दोष दीखा नहीं क्या इस शंका में कहते हैं-भान होना इत्यादि । संसारियों का दोष दीखना उन दोषों से उन को दूर करने के लिये ‘कहे तो विरोध’ इत्यादि से शठकोपसूरि भी उन दोषों में मन रखते थे असेव्यसेवादियों से उन को हटाने के लिये, वह सब सूरियों को बराबर है ।
मूलम्
एवमस्याधिकारिणः संसारिदोषे दृष्टेऽनुसंधानप्रकारः, तद्दोषोऽस्य न भासत इत्यर्थः, भानं चैतदर्थमिति चोक्तम् । एवं कादाचित्कतया भासमानसंसारिदोषस्य स्वदोषत्वेनानुसंधानं तन्निवर्तकत्वमात्रं विना स्वविषयेऽपराधेषु कृतेषु अस्य स्थित्यौचित्यप्रकारमाह-जानकीत्यादिना ।
मूलम्
जानकी राक्षसीनामपराधं स्वामिना मारुतेश्च नावेदयत्, तथा स्वविषयेऽन्यैः कृतमपराधं भागवतविषयेषु च न निवेदयेत् ॥ ३८२ ॥
श्लोक
स्वगोचरे कृतो दोषो स्वामिने मारुतौ तथा । राक्षसीभिर्हि दुष्टाभिर्जनकी न न्यवेदयत् ॥ तथा स्वविषयेऽन्यैश्च कृतमागः शतं परम् । निवेदयेन्न श्रीनाथे श्रियःपतिजने तथा ॥ ३८२ ॥
टीका संस्कृता
एकाक्ष्येककर्णीप्रभृतिभिः सप्तशतराक्षसीभिरेकस्मिन् दिवसे इव दशमासपर्यंतं तर्जनभर्त्सनं कृत्वा कृतानपराधान् जानकी भगवद्विषयभूतस्वामिनो भागवतविषयमारुतेश्च नावेदयत् तथा स्वविषयेऽन्यैः कृतानपराधान् भगवद्विषये वा भागवतविषये वा विस्मृत्यापि न विज्ञापयेदित्यर्थः । न निवेदयेदिति-तेषां हृदये व्रणे जाते पूर्वमेव प्रच्युतानामेतेषामत्यंतं विनाशहेतुः स्यादिति विचार्य ।
टीका हिन्द्या
सीताजी राक्षसियों के दोष को भगवान् और हनुमानजी से जैसा नहीं कहीं तैसा अपने विषय में अन्यकर्तृक अपराधों को भगवद्भागवतविषय में नहीं जनाना चाहिये ॥ ३८२ ॥ एकाक्षी, एककर्णी प्रभृति सात सौ राक्षसियां एक दिन भी न छोड दश मास तर्जनभर्त्सन करने पर भी उन के दोषों को सीताजी भगवान् श्रीरामजी, भागवत श्रीहनुमानजी इन दोनों से जैसा नहीं कही तैसा अपने विषय में अन्यकर्तृक अपराधों को भगवद्भागवत के विषय में भूल कर भी नहीं कहना । उन के हृदय में दुःख होने पर पहले ही नष्ट हुए लोग और भी अधिक नष्ट होंगे ऐसा समझ नहीं कहना ।
मूलम्
ज्ञापयितुं शक्तोऽपि मुखमनुद्घाट्य सर्वज्ञविषयाणामप्याच्छादयतीत्युक्तं हि ॥ ३८३॥
श्लोक
ज्ञापने शक्तिमत्त्वेऽपि मौनं कृत्वा प्रयत्नतः । सर्वज्ञविषयाणां चाच्छादयतीति सूक्तितः ॥ ३८३ ॥
टीका संस्कृता
इदं किंपुनर्न्यायसिद्धं यथा स्यात्तथेश्वरस्य प्रकारमाह-ज्ञापयितुं शक्त इत्यादिना । ‘अग्रत उपायेनागत्ये’त्युक्तप्रकारेण स्वसौशील्यसौलभ्यादिकं प्रदर्श्य चेतनान् लक्ष्यस्खलनं विनांगीकर्तुमवतीर्य स्वस्य दासा आवश्यका इत्यपेक्षमाणे तेऽनुकूलाः संतो नागच्छंति चेदपि एते यथेच्छं कुर्वंतु वयमेतदर्थमभवामेति तदेव भाग्यमिति तिष्ठति, तदुपरि ते वैमुख्यमकुर्वन्निति तेषामपराधमेकांतस्थितौ लक्ष्म्या अपि न वदतीति ‘आवृत्य दासाः’ इति गाथायां चेतनकृतानपराधान् स्वहृदयाभिमतानां ज्ञापयितुं प्राप्तः सर्वेश्वरोऽपि स्वमुखमुद्घाट्य न वदति । स्वेनानुक्तावपि ज्ञातुं शक्तसर्वज्ञविषयाणामप्याच्छादयतीत्युक्तं हीत्यर्थः । अनेन तस्मिन्नप्येवमाच्छादयतीत्यस्य वक्तव्यं किमित्यर्थः ।
टीका हिन्द्या
जनाने योग्य स्वामी भी मुंह बंद कर सर्वज्ञों के विषय में भी छिपाता है ऐसा कहा है ॥ ३८३ ॥ यह जैसा कैमुत्यन्यायसिद्ध हो तैसा ईश्वर के प्रकार को कहते हैं-जनाने योग्य इत्यादि । अपने सौशील्यसौलभ्यादियों को दिखा संसारियों को वश करने के लिये आकर अवतार ले अपने दासों को ढूंढने पर भी वे न मिलने से ‘ये कैसा भी करें हम इन के उपयुक्त होगये’ ऐसा समझ उन के दोषों को भोग्य मानते हैं उस के बाद उन की विमुखताप्रभृति दोषों को एकांत में लक्ष्मीजी से भी नहीं कहते हैं । यह अर्थ ‘परिवृत्य दासाः’ इस गाथा में चेतनों के दोषों को अपने अभिमत विषयों से कहने के योग्य सर्वेश्वर भी अपना मुंह नहीं खोलते हैं इतना ही नहीं जानने योग्य सर्वज्ञों के विषय में भी छिपते हैं ऐसा कहा । इस से सर्वेश्वर के ही छिपाने पर इस चेतन को क्या कहना ।
मूलम्
एवमुद्देश्यविषयेषु ज्ञापनाभावमात्रं नालमपराधकर्तृविषये क्षमादयादयश्च कर्तव्या इत्याह-अपराधकर्तृविषय इत्यादिना ।
मूलम्
अपराधकर्तृविषये क्षमा कृपा हासः प्रीतिरुपकारस्मृतिश्च कर्तव्याः ॥ ३८४ ॥
श्लोक
क्षमा हासः कृपा प्रीतिरुपकारस्मृतिस्तथा । आगस्कर्तृजने कार्या स्वेष्टसाधनतत्परैः ॥ ३८४ ॥
टीका संस्कृता
क्षमा नाम-तत्कृतापराधस्य स्वयं प्रतिक्रिया, मनस्युद्विग्नता-एतदकरणरूपापराधसहिष्णुत्वम् । कृपा नाम-अस्माभिः क्षमायां कृतायामपि भगवानुचितदंडं कुर्यात् खलु, हंतास्य किं कुर्यामिति परदुःखासहिष्णुत्वम् । हासो नाम-अदृष्टविरोधितायास्तैः कर्तुं किंचिदपि नास्ति खलु, पारुष्यादिमुखेन ख्यातिलाभादिदृष्टविरोधाः खल्वेतैः कर्तुं शक्याः, तथा केषुचित्कृतेषु स्ववद्वयमपि अस्मिंश्चपला एतद्वाण्या दुःखितमनस्काः क्लिश्याम इति स्थिताः खल्वेतेषां बुद्धिशून्यताप्रकारः कीदृश इति क्रियमाणो हासः । प्रीतिर्नाम-तैः क्रियमाणपरिभवादीनां विषयं शरीरं स्वस्य शत्रुरिति तत्कृतहानिविषयान् दृष्टपदार्थान् स्वस्य प्रतिकूला इति चानुसंधाय स्थितत्वात्स्वशत्रुविषये कैश्चित्परिभवादिषु स्वस्य प्रतिकूलानां निवृत्तौ च क्रियमाणायां यथा प्रीतो भवति तथा तेषु जायमाना प्रीतिः । उपकारस्मृतिर्नाम-अस्माकमस्मद्दोषज्ञानाभावदशायां दोषान् ज्ञापयित्वाऽस्माकमेतस्यां स्थितौ ययाऽऽशा निवर्तेत तथा पीडनानि च कृत्वाऽस्मद्विषय एतैः कीदृश उपकारः कृत इति जायमाना कृतज्ञता । कर्तव्या इत्युक्तिरेतत्सर्वमपराधकृद्विषयेऽस्यावश्यापेक्षितमिति ज्ञापयितुम् ।
टीका हिन्द्या
दोषियों के विषय में क्षमा, कृपा, हंसी, प्रीति और उपकारस्मृति भी चाहिये ॥ ३८४ ॥ इस प्रकार उद्देश्य विषयों में नहीं जनाना इतना ही मात्र नहीं दोषियों के ऊपर क्षमा दयादि की भी आवश्यकता है ऐसा कहते हैं-दोषियों के इत्यादि । क्षमा माने-उनके कृतदोष को प्रतिक्रिया करना, मन में दुःख पाना इत्यादि न करना । कृपा माने-हमारे क्षमा करने पर भी सर्वेश्वर उचित दंड देगा अहो इसमें क्या करना चाहिये ऐसा परदुःखासहिष्णुत्व । हंसी माने-ये लोग कितना भी करें तो भी हमारे अदृष्ट का विरोध तो नहीं कर सक्ते, परुषवचनद्वारा ख्यातिलाभ आदि दृष्टवस्तुओं में ही विरोध ये लोग कर सक्ते हैं ऐसा कुछ करने पर अपने सदृश हम लोग भी इन ख्यातिआदि में चपल हो इनकी हानि से मन में दुःख पाकर शिथिल होयंगे ऐसा समझ ये लोग रहते हैं कैसा अज्ञान है ऐसा समझ हंसना । प्रीति माने-वे लोगों से क्रियमाण परिभवों के विषय अपने शरीर को शत्रु समझना, वह जिन के हानिकर हैं ऐसे दृष्टपदार्थों को अपने को प्रतिकूल समझना इससे अपने शत्रु के विषय में किसीके परिभव करने पर अपने प्रतिकूल वस्तुओं को हटाने पर आप संतुष्ट होना चाहिये ऐसा समझ कर प्रीति करना । उपकारस्मृति माने-हमारे दोषों को हम भूले रहने के समय हम को जनाते हैं हमारी आशा इस विषय से जैसे छूटे ऐसे करते हैं-इस प्रकार के उपकार को स्मरण करना ।
मूलम्
एवमनेन प्रकरणेन हितोपदेशसमये विप्रतिपत्तिविशेषाः, तद्रहितमुपदेशः कर्तव्य इति, उपदेशसाक्षात्फलमुपदेष्टुराचार्यत्वसिद्धिप्रकारः, विप्रतिपत्त्योपदेशे उभयोरपि स्वरूपसिद्धयभावः, उपदेष्टुराचार्यस्यावश्यापेक्षितगुणद्वयं, साक्षादाचार्यत्वमेतन्मंत्रोपदेष्टुरिति चोक्तम् । अतः सदाचार्यलक्षणं, तदनंतरं सच्छिष्यलक्षणं, तदुभयोर्वृत्तिविशेषाः, शिष्यस्याचार्यविषये ‘दुष्टं मनो निवर्तितवानिति’ प्रकारेण यावच्छरीरपातमुपकारस्मृतेः कर्तव्यता, मनसो दोषोऽयमिति, तंत्रोपपादनीयांशे उपपादनं, तत्प्रसंगेऽन्येषामपेक्षितार्थविशेषाश्च प्रतिपादिताः । अतः पूर्वोक्तद्वयनिष्ठाधिकारिणस्तदुपदेष्ट्राचार्यविषये आवश्यकाः प्रतिपत्त्यनुवर्तनप्रकारा उक्ताः ।
टीका हिन्द्या
तथा च इस प्रकरण से हितोपदेशकरणसमय में उलटा समझना, विपरीतबुद्धि छोड कर उपदेश करना, उपदेश का साक्षात्फल, उपदेशक को आचार्यत्व का सिद्धिक्रम, विपरीतबुद्धि से उपदेश करने पर दोनों की स्वरूपसिद्धि नहीं होगी, उपदेष्टाआचार्य को अवश्यापेक्षितगुणद्वय, अमुक मंत्र उपदेश करनेवाले को साक्षात् आचार्यत्व है इत्यादि सदाचार्यलक्षण, तदनंतर सच्छिष्यलक्षण, उन दोनों के आचरण विषय, शिष्य को यावदेह आचार्य का उपकारस्मृति, मन का दोष उन का उपपादन, उसके प्रसंग में शिष्य का आवश्यकविषय इत्यादि प्रतिपादन करने से पूर्वोक्तद्वयनिष्ठ अधिकारी को तदुपदेष्टृआचार्यविषय में अवश्यकर्तव्यप्रतिपत्तिअनुवर्तनप्रकार कहे गये ।
मूलम्
अथ स्वदोषानुसंधानं भयहेतुः भगवद्गुणानुसंधानमभयहेतुरित्यारभ्य [[निवर्त्यज्ञानं|निवर्त्यज्ञानं]] भयहेतुः निवर्तकज्ञानमभयहेतुरित्यंतं तस्याधिकारिणोऽनादिकालार्जितकर्मविनाशकारणस्य अद्वेषादिप्राप्तिपर्यंतं मध्यस्थफलानां प्रधानहेतोर्भगवन्निर्हेतुककृपाया वैभव उच्यते ।
मूलम्
संसारिणां दोषः स्वदोष इत्यनुसंधानमारभ्य प्रसक्तानुप्रसक्ततया आगतार्थविशेषाणां प्रतिपादनानंतरं पूर्वस्वदोषस्येत्यादिवाक्येऽस्यानवरतकर्तव्यतयोक्तस्वदोषभगवद्भागवतगुणानुसंधानेषु भागवतगुणानुसंधानस्य प्रतिपाद्यांशस्यानुपयुक्तत्वात्तद्विहाय तदुपयुक्तस्वदोषभगवद्गुणानुसंधाने अंगीकृत्य तयोर्द्वयोरपि प्रयोजनमेतदित्याह-स्वदोषानुसंधानमित्यादिना ।
मूलम्
स्वदोषानुसंधानं भयहेतुः, भगवद्गुणानुसंधानमभयहेतुः ॥ ३८५ ॥
श्लोक
स्वस्य दोषानुसंधानं भयहेतुर्भवेत्सदा । हरेर्गुणानुसंधानं भयाभावस्य कारणम् ॥ ३८५ ॥
टीका संस्कृता
अनात्मगुणादयस्तन्मूलत्वेनानादिकालमारभ्य सारतयास्थिता अविद्यादयश्च दोषः, एतदनुसंधानमेतेन हेतुना पुनः संसरणागतौ किंकर्तव्यमिति भयस्य हेतुः । भगवद्गुणा नाम-एतद्दोषं दृष्ट्वाऽपरित्यज्यांगीकृत्यैतं त्वात्मानमनन्यार्हमात्मानं चरणौ प्रापयितुमुपयुक्तास्तस्य दयाक्षांत्यादयः, एतदनुसंधानम्-अनादिकालं संसरणहेतुस्वदोषबलदर्शनेन चैवं भवति चेत् किं कर्तव्यमिति जायमानस्य भयस्य निवृत्तिहेतुरित्यर्थः । ‘दुरंतस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि । दयासिंधो बंधो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥’ इत्युक्तं हि । एवमत्र भयाभयहेतवः सकलदोषाः सकलगुणाश्चोक्ताः, तथापि हानिहेतुः कर्म, प्राप्तिहेतुः कृपेति कर्मफलवत् कृपाफलं चानुभाव्यमेवेति च कर्मकृपे हानिप्राप्त्योर्हेतुत्वेनोक्त्वा भयहेतुः कर्म अभयहेतुः कारुण्यमिति निगमनं कृतं, एतेषु सर्वेष्वस्य संसारमोक्षयोः प्रधानहेतुत्वात्तयोरेतावुभावप्यनुगच्छंतोऽन्ये यत्रैतौ वर्तेते तत्र सर्वे स्वत एवागच्छंति, एवं विना तत्प्रकारस्मरणेन भयं स्वप्रकारस्मरणेनाभयं च भवति चेदज्ञतैव फलतीत्याह-भयाभययोरुभयोरपीत्यादिना ।
टीका हिन्द्या
स्वदोषानुसंधान भयहेतु, भगवद्गुणानुसंधान अभयहेतु ॥ ३८५ ॥ संसारियों के दोष को अपना दोष समझना प्रभृति प्रसक्तानुप्रसक्त आये हुये अर्थविशेषों को प्रतिपादन कर अनंतर ‘स्वदोष’ इत्यादि वाक्य से इसके अनवरतकर्तव्यतया उक्त स्वदोष और भगवद्भागवतगुणानुसंधानों में भागवतगुणानुसंधान प्रतिपाद्यअंश के उपयुक्त न होनेसे उसको छोड तदुपयुक्त स्वदोष और भगवद्गुणानुसंधान इन दोनों का प्रयोजन कहते हैं-स्वदोष इत्यादि । स्वदोष माने-अनात्मगुण, उनका हेतुभूत अनादिकाल के अविद्यादि हैं । इनका अनुसन्धान-ये और भी अनुवर्तन कर स्वरूप का नाश करेंगे तो क्या कर्तव्य है ऐसा भय का हेतु होता है । भगवद्गुण माने-इन दोषों को देख उपेक्षा न कर अंगीकार कर इनको क्षमा कर इस आत्मा को चरणारविंदों में मिला लेने के उपयुक्त उनकी क्षांत्यादि गुण । इनका अनुसंधान-अनादिकालसंसारहेतुभूतस्वदोषबल को देख और भी ऐसा ही करेंगे तो क्या होगा इस प्रकार की भयनिवृत्ति का हेतु होता है । ‘अंतरहित, अनादि, अपरिहार्य, महत्, अशुभ का स्थान, निहीनाचारी मैं, हे दयासिंधो, हे बंधो, हे निरवधिकवात्सल्यजलधे ! आप के गुणगण को स्मरण कर निर्भीक हो कैंकर्य को चाहता हूं’ ऐसा कहा है । इस प्रकार यहां भयाभयहेतुतया सकलदोष और गुणों को इकठ्ठा करने पर भी हानि का हेतु कर्म, फल का हेतु कृपा, कर्मफल के माफक कृपाफल भी अवश्य अनुभाव्य ही है ऐसा कर्म और कृपा को ही हानि और फल का हेतुतया कह भयहेतु कर्म, अभयहेतु कारुण्य ऐसा समाप्त करने का कारण चेतन के संसार और मोक्ष का प्रधानहेतु कर्म और कृपा होने से । इन दोनों के पीछे सर्वगुण भी आ जाते हैं । ऐसा न कह परमात्मा के प्रकार को याद कर भयभीत, अपने प्रकार को याद कर अभय ऐसा अर्थ करने पर मूर्खता प्रकट होगी ऐसा कहते हैं-भय इत्यादि ।
मूलम्
भयाभययोरुभयोरपि व्यत्यासेऽज्ञतैव सिद्ध्यति ॥ ३८६ ॥
श्लोक
भीत्यभीत्योर्द्वयोर्मध्ये व्यत्यासे सर्वथाऽज्ञता । सिध्यत्येव न संदेहो विपरीतार्थधारणात् ॥ ३८६ ॥
टीका संस्कृता
पूर्वोक्तप्रकारेण विनाऽनादिकालं स्वस्य परतंत्रमात्मवस्तु कर्मव्याजेन संसारे स्थापितवान् खलु निरंकुशस्वतंत्रः, स पुनः संसारयति चेत् किं कर्तव्यमिति तत्स्वभावमनुसंधाय भयं, पूर्ववद्विनाऽस्माकमिदानीमात्मगुणानामुत्पन्नत्वात् प्राप्तौ बाधो नास्तीति स्वस्वभावमनुसंधाय भयनिवृत्तिश्च भवति चेत् स्वयं स्वस्य विनाशक इति भयकरणस्येश्वररक्षक इति भयनिवृत्तेश्च ज्ञातृत्ववेषस्याभावात् अज्ञतैव सिद्ध्यतीत्यर्थः ।
टीका हिन्द्या
भयाभय दोनों विपरीत होने पर अज्ञता ही सिद्ध होगी ॥ ३८६ ॥ पूर्वोक्तप्रकार विना अनादिकाल अपने परतंत्र आत्मवस्तु को कर्म के बहाने से संसारी बनानेवाले निरंकुशस्वतंत्र ईश्वर और भी संसारी बनावैगा तो क्या किया जाये ऐसा उनके प्रकार को याद कर डरना, पहिले के माफक नहीं हम में अब आत्मगुण होने से फल अवश्य मिलेगा ऐसा अपने प्रकार को याद कर भयाभाव भी होने पर अज्ञता ही फलित होगी ।
मूलम्
अज्ञतैव सिद्धयतीत्यमुमर्थं निराकर्तुं दिव्यसूरिपाशुरानादाय प्रत्यवस्थानकर्तॄणां शंकामनुवदति-तर्हीत्यादिना ।
मूलम्
तर्हि बाधितुमितः परमपि विचारयसि, नदीकूलस्थवृक्षवद्विभेमीति गाथानां किं निदानमितिचेत् ॥ ३८७ ॥
श्लोक
‘इतो बाधितुं’ तर्हि नदीकूलस्थवृक्षवत् । ‘विभेमि’ इत्यादि सूक्तीनां किं निदानं भवेत्किल ॥ ३८७ ॥
टीका संस्कृता
एवं चेत्तत्त्वविदग्रेसराणां दिव्यसूरीणां ‘शरीरांतः संचरद्भिः पंचेंद्रियैर्बाधां भोजयित्वा मां त्वत्पादपंकजाप्राप्तिप्रकारेण बाधितुं विचारयसि’ इति, ‘दर्शयित्वा नाशयसि’ इति प्रकारेण विषयदर्शनेन नाशयोग्यं मामंतर्निरंतरं वासकरणादांतरशत्रुभिः पंचेंद्रियैर्बाधां कारयित्वा प्राप्यभोग्यभूतत्वच्चरणौ यथा न प्राप्नुयां तथा शरणागतिकरणानंतरमपि संसारे स्थापयित्वा बाधितुं विचारयसि’ इति, ‘मनुष्योत्पत्तिस्थानभूतावटे उत्पादयसि किम्’ इति, ‘नदीकूलस्थवृक्षवद्विभेमि’ इति च ‘मनुष्याणां गर्भस्थाने मम कर्मानुगुणं मां इतःपरमपि संसारयसि किमिदानीं नष्टम्’ इति भयस्थाने ‘नदीकूले वर्तमानो वृक्ष इव’ स्वातंत्र्यमनुसंधाय ‘विभेमि’ इति चोक्तानां गाथानां निदानं किमित्यर्थः ।
टीका हिन्द्या
ऐसा हो तो, ‘दुःख देने को और विचार करते हो’, ‘नदी के तीर के वृक्ष के माफक कांपता हूं’ ऐसा इन गाथाओं का हेतु क्या ? इस शंका में ॥ ३८७ ॥ ऐसा हो तो सूरिलोग भगवान् के ऊपर दोष क्यों लगाये ? इस शंका में कहते हैं-ऐसा हो तो इत्यादि । तत्त्ववेत्ताओं में अग्रसर सूरिलोग ‘भीतर में वास करनेवाले पंचेंद्रियों से पीडित कर मुझ को तुमारे चरणकमल में आश्रयण नहीं करने के प्रकार से बाधा करने का विचार करते हो’, ‘दिखा कर दुःखी करोगे’ इन वचनानुसार प्राप्त और भोग्य आप के चरणारविंदों की प्राप्ति जैसा न हो वैसा शरणागत होने के अनन्तर भी हम को संसार में रख दुःखित करने का विचार करते हों, ‘गर्भ में हम को और भी डालोगे’ समझ ‘नदी के तीर के वृक्ष के तरह डरता हूं’, ‘मनुष्यों के गर्भस्थानों में हमारे कर्मानुगुण और भी संसारी करोगे’ ऐसा आप के स्वातंत्र्य को स्मरण कर डररहा हूं ऐसा भी शठकोपसूरि और परकालसूरियों के गाथाओं का हेतु क्या ? इस शंका में ।
मूलम्
तस्या उत्तरमाह-बंधेत्यादिना ।
मूलम्
बंधानुसंधानम् ॥३८८॥
श्लोक
संबंधस्यानुसंधानं निदानं तत्र मृग्यते ॥ ३८८ ॥
टीका संस्कृता
प्राप्तिहान्युभयमपि तेनैवेति वक्तुं योग्यतया निरुपाधिकरक्षकेण तेन स्वेषां विद्यमानस्य संबंधस्यानुसंधानेनेत्यर्थः ।
टीका हिन्द्या
उत्तर-संबंध का अनुसन्धान ॥ ३८८ ॥ बंधानुसंधान माने-फल, हानि दोनों भी परमात्मा से ऐसा कहने योग्य निरुपाधिकरक्षक सर्वेश्वर के साथ अपने को विद्यमान संबंध का अनुसन्धान समझना ।
मूलम्
बंधानुसंधानेनैवं स्वयमागतो दोषस्तेनायत इति कथमुच्यते इत्यतस्तमर्थं सदृष्टांतमाह-प्रजेत्यादिना ।
मूलम्
प्रजा वीथ्यां स्खलित्वा मातृपृष्ठे प्रहरति तथा निरुपाधिकबंधुना शक्तेन निवारणे न कृते तथोक्तिरुचिता खलु ॥ ३८९ ॥
श्लोक
वीथ्यां स्खलित्वा पुत्रो हि मातृपृष्ठे प्रताडयेत् । तथा शक्तेन शुद्धेन बन्धुना न निवारिते । तथोक्तिरुचिता ज्ञेया सर्वथा नयकोविदैः ॥ ३८९ ॥
टीका संस्कृता
क्रीडार्थं वीथ्यां प्रधाव्य संचरंती प्रजा तत्र स्खलनेन पादवेदनायां रुदती गृहमागत्य स्वस्यैतद्वेदना मात्रागतेत्यनुसंधाय तस्याः पृष्ठे प्रहारं करोति तथा किंचिदुपाधिप्रयुक्ताभाव इत्याप्तबंधुविशिष्टः, अस्य चेतनस्य कर्मणः प्रकृतिप्राकृतानां चाविशेषेण स्वाधीनत्वात्कर्मानुगुणं प्रकृतिप्राकृतैरनेनानुभूयमानं दुःखं निवर्तयितुं शक्तः स दुःखानुभवं दृष्ट्वा न निवारयति चेत्तस्मिन्निर्दयतयोक्तिरुचिता खल्वित्यर्थः ।
टीका हिन्द्या
प्रजा रास्ते में ठोकर लगने पर माता की पीठ में जैसा घूंसा मारती है तैसा निरुपाधिकबंधु समर्थ ईश्वर के नहीं रोकने पर तैसा कह सक्ते हैं ॥ ३८९ ॥ संबंधानुसंधान से अपने कर्मफल के हेतु परमात्मा कहे जाते हैं क्या ? इस शंका में दृष्टांतपूर्वक समाधान कहते हैं-प्रजा इत्यादि । क्रीडार्थ गले में भागते हुवे खेलनेपर ठोकर लग पांव दुःखनेपर रोते हुये घर में आकर अपने को यह दुःख माता से हुआ है समझ उस की पीठ में जैसा घूंसा मारता है तैसा निरुपाधिकसंबंधवाले चेतन के कर्म, प्रकृति, प्राकृत के मालिक ईश्वर होने से कर्मानुगुण प्रकृतिप्राकृतों से होनेवाले दुःख को दूर करने को समर्थ होने पर भी दुःखित कर रक्खा है ऐसा कह सकते हैं ।
मूलम्
अविनाभावमात्रमादाय सोऽकरोदिति कथमुच्यत इत्यत आह-प्रजामित्यादि ।
मूलम्
प्रजां कूपसमीपानापनयति यदि मातरमपातयदिति वदति खलु ॥ ३९० ॥
श्लोक
प्रजां कूपसमीपाद्धि नानयेद्धि यदा तदा । इयमपातयदित्थं वै मातरं प्रवदंति च ॥ ३९० ॥
टीका संस्कृता
कूपतीरे तिष्ठंतीं प्रजां दृष्ट्वा माता तदानीमेव प्रधाव्य गत्वा कूपतीरानापनयति चेत्प्रजायां कूपे पतितायां माता तदानीमेव गत्वा गृहीतवती चेदियं प्रजा कथं पतति, कूपतीरस्थितिमियमनुमत्य स्थिता तेनैवेयमपतत् तस्मादियमेवापातयदिति लोका वदंति खल्वित्यर्थः ।
टीका हिन्द्या
प्रजा को कूप के किनारे से नहीं हटाने पर माता ही ढकेल दी ऐसा कह सक्ते हैं ॥ ३९० ॥ नहीं रोकने मात्र से वह किये हैं ऐसा कह सक्ते हैं क्या ? इस शंका में कहते हैं-प्रजा को इत्यादि । कूप के किनारे बैठा हुआ प्रजा को देख उसी बखत जा प्रजा को न हटानेपर कूप में प्रजा गिरे तो ‘माता उस बखत हटाई हो तो यह प्रजा क्यों गिरा होता, कूप के किनारे बैठने की अनुमति दी है इसलिये ही कूप में गिरा, अतएव वही गिराई है’ ऐसा लोग कह सक्ते हैं ।
मूलम्
तर्ह्यप्रतिषिद्धमनुमतमिति न्यायेनानिवारणमनुमतिरभूत्, तथा च तस्यानुमतिरेव किमस्य हानेर्हेतुरित्यत आह-अस्येत्यादि ।
मूलम्
अस्याऽनुमतिः प्राप्तेर्यथा न हेतुस्तथा तस्यानुमतिर्हानिहेतुर्न भवति ॥ ३९१ ॥
श्लोक
प्राप्तेर्यथा न हेतुः स्यादस्याप्यनुमतिस्तथा । तस्यानुमतिका नैव हानेर्हेतुः कदाचन ॥ ३९१ ॥
टीका संस्कृता
रक्ष्यभूतस्यास्य रक्ष्यत्वानुमतिरचिद्व्यावृत्तिवेषरूपत्वाद्भगवल्लाभस्य यथा हेतुर्न भवति तथा रक्षकस्य तस्य संसारानुमतिश्च स्वाज्ञारूपशास्त्रमर्यादाजीवनार्थं क्रमेणांगीकुर्यामित्येतद्रुचिदर्शनार्थं स्थितिरूपत्वात्तदलाभस्य हेतुर्न भवतीत्यर्थः ।
टीका हिन्द्या
इस की अनुमति जैसा फल का हेतु नहीं तैसा उस की अनुमति हानि का हेतु नहीं होती है ॥ ३९१ ॥ ऐसा हो तो ‘अप्रतिषिद्धमनुमतम्’ इस न्याय से नहीं रोकनी अनुमति होती है तो उसकी अनुमति इस की हानि का हेतु है क्या ? इस शंका में कहते हैं-इस की इत्यादि । रक्ष्यभूत इस चेतन की रक्ष्यत्वानुमति अचिद्व्यावृत्तआकार होने से भगवल्लाभ का हेतु जैसा नहीं होती है तैसा रक्षक ईश्वर की संसारानुमति भी स्वाज्ञारूप शास्त्रमर्यादा को जीवित रखने के लिये क्रमेण अंगीकार करेंगे ऐसा इस की रुचि को देखने से उस को हानि का हेतु नहीं होती है ।
मूलम्
एतदनुमतिद्वयं च पुनः किं भवतीत्यत आह-द्वयमपीत्यादि ।
मूलम्
द्वयमप्युभयोः स्वरूपम् ॥ ३९२ ॥
श्लोक
द्वयमप्युभयोरेतत्स्वरूपं नात्र संशयः ॥ ३९२ ॥
टीका संस्कृता
उभयोः स्वरूपमिति-परतंत्रस्वतंत्रयोरुभयोः स्वासाधारणाकार इत्यर्थः । परतंत्रस्यास्य स्वरक्ष्यत्वानुमतिः स्वरूपातिरेकित्वाभावात्स्वरूपं, स्वतंत्रस्य तस्य स्वरक्ष्यवस्तुरक्षणे स्वाज्ञारूपशास्त्रानुगुणनिर्वहणार्थं संसारानुमतिः स्वातंत्र्यवेषरूपत्वात् स्वरूपमित्यर्थः ।
टीका हिन्द्या
दोनों दोनों का स्वरूप हैं ॥ ३९२ ॥ ये दोनों अनुमति कैसे होती हैं इस शंका में कहते हैं-दोनों इत्यादि । दोनों का स्वरूप माने-परतंत्र और स्वतंत्र दोनों के असाधारणआकार । परतंत्र इस चेतन की स्वरक्ष्यत्वानुमति स्वरूप से भिन्न न होने से स्वरूप है । स्वतंत्र ईश्वर की स्वरक्ष्यवस्तु के रक्षण में स्वाज्ञारूपशास्त्रानुगुणनिर्वाह करने के लिये संसरानुमति स्वातंत्र्य का आकार होने से स्वरूप होता है ।
मूलम्
हानिहेतुः कर्म, प्राप्तिहेतुः कृपा ॥ ३९३ ॥
श्लोक
कर्म हानेर्भवेद्धेतुः प्राप्तिहेतुः कृपा तथा ॥ ३९३ ॥
टीका संस्कृता
तर्हि हानिप्राप्त्योर्हेतुः क इत्यत आह-हानिहेतुरित्यादि । अनादिकालं भगवद्विषयाप्राप्तेर्हेतुः ‘पूर्वं कृतमहापापविशिष्ट’ इति प्रकारेणानादिकालं संचितमस्य कर्म, एवं प्राप्तिरहितस्य सतस्तद्विषयप्राप्तेर्हेतुः ‘निरोधः कः’ इति प्रकारेणोभयकूलमप्यतिक्रम्य प्रवहंती भगवत्कृपेत्यर्थः ।
टीका हिन्द्या
हानि का हेतु कर्म, लाभ का हेतु कृपा ॥ ३९३ ॥ ऐसा हो तो हानि लाभों का हेतु क्या ? इस शंका में कहते हैं-हानि का इत्यादि । भगवद्विषय का अनादिकाल से अलाभ का हेतु अनादिकालसंचित चेतन का कर्म, इस प्रकार का चेतन के उस विषय के लाभ का हेतु कूलंकषबहनेवाली भगवत्कृपा है ।
मूलम्
अन्यथोक्तौ हानिहेतुः स्यात् ॥ ३९४ ॥
श्लोक
अन्यथा-हानिहेतुः स्याद् व्यत्यस्ते च भयाभये ॥ ३९४॥
टीका संस्कृता
अन्यथा व्यत्यासेनोक्तावनर्थं दर्शयति-अन्यथेत्यादीना । एवं विना ‘भयाभययोरुभयोर्व्यत्यास’ इत्यत्रैवालाभहेतुरीश्वरस्वातंत्र्यं, लाभहेतुश्चेतनसद्गुण इति हानिलाभयोर्हेत्वोर्व्यत्यासेनोक्तावीश्वरेण हस्तत्यागकरणात् तच्चरणप्राप्तिं विना हानेर्हेतुः स्यादित्यर्थः । अथवाऽन्यथेत्यादिवाक्यस्यालाभहेतुश्चेतनकर्म, लाभहेतुरीश्वरकृपेति, अलाभोऽनेन लाभस्तेनेत्युक्तप्रकारेणानंगीकृत्य लाभालाभयोरुभयोर्हेतुरीश्वरस्वातंत्र्यमिति अनादिकालमलाभस्य हेतुरपि स इत्युक्तौ तेन हस्तत्यागात् कदापि तत्प्राप्तिं विना हानेर्हेतुः स्यादित्यर्थः ।
टीका हिन्द्या
अन्य प्रकार कहने में हानि होगी ॥ ३९४ ॥ ऐसा न कह उलटा कहने से होनेवाला अनर्थ को कहते हैं-अन्य प्रकार इत्यादि । ‘भयाभय दोनों को उलटा कहने से’ जैसा तैसा हानि का हेतु ईश्वरस्वातंत्र्य, लाभ का हेतु चेतन का सद्गुण ऐसा कहनेपर, ईश्वर छोड देने से उन की प्राप्ति नहीं होगी, अथवा हानि लाभ दोनों का कारण ईश्वरस्वातंत्र्य, अनादिकाल से च्युत होने का कारण भी वही है, ऐसा कहने से ईश्वर छोड देता है कभी उस की प्राप्ति नहीं होगी ।
मूलम्
उद्धर्तुं चिंतयंतं प्रत्यपातयदित्युक्तिरनुद्धरणहेतुर्भवति खलु ॥ ३९५ ॥
श्लोक
उद्धर्तुं चिंतयंतं तु पुरुषं ‘मामपातयत्’ । इत्युक्तिः सर्वथा तस्यानुद्धारे कारणं मतम् ॥ ३९५ ॥
टीका संस्कृता
एवमुक्तावीश्वरस्त्यजतीत्यमुमर्थं लौकिकन्यायमुपजीव्य दर्शयति-उद्धर्तुमित्यादिना । अगाधे कूपे स्वकर्मानुगुणमनवधानेन पतितं समीपस्थिते कस्मिंश्चित् कृपावति उद्धर्तुमिच्छति स्वपतनसमये स आसन्न इत्येतावन्मात्रमादाय स स्वमपातयदिति निश्चित्य अस्मिन्कूपे मां त्वमेवापातय इत्युक्तिरस्माभिरकृतं कार्यमयं वदतीति कोपोत्पत्त्योद्धरणमकृत्वा त्यागे यथा निदानं भवति तथा संसाररूपमहागर्ते पतितं स्वात्मानमुद्धर्तुं चिंतयंतं कृपावंतमीश्वरं प्रत्येतावत्कालं संसारे मां पातयित्वा स्थापितवान् त्वमेवेत्युक्तिः कोपेन त्यक्त्वा एवमेवातिष्ठत्विति स्थातुं निदानं भवतीत्यर्थः ।
टीका हिन्द्या
उठाने की इच्छा करनेवाले को ‘तुमने गिराया है’ ऐसा कहना नहीं उठाने का हेतु होता है ॥ ३९५ ॥ ऐसा कहने पर ईश्वर छोडदेता है, इस अर्थ को दृष्टांतपूर्वक कहते हैं-उठाने की इत्यादि । अथाह कूप में स्वकर्मानुगुण अनवधान से गिरे हुवे को पास में रहनेवाला एक कृपावान् उठाने की इच्छा करने पर ‘अपने गिरने के बखत वह समीप में रहा’ इतना मात्र को लेकर ‘वही अपने को गिराया’ समझ ‘इस कूप में हम को तुमने ही गिराया’ ऐसा कहे तो ‘हमारे ऊपर विना ही अपराध दोष लगता है’, ऐसा विचार कुपित हो जैसा नहीं उठाने का हेतु होता है तैसा अपने कर्म से संसाररूप अथाह गड्ढा में गिरे हुवे अपने को उठाने की इच्छा करनेवाले कृपावान् ईश्वर को ‘इतनाकाल हम को संसार में तुमने ही गिरा रक्खा है’ ऐसा कहने पर कुपित हो हाथ खींच ‘भोगने दो’ ऐसा छोडने का हेतु होता है ।
मूलम्
‘क्रोधोऽस्तीति’ अनंतरममुमर्थं स्वयमेवावोचत् खलु ॥ ३९६ ॥
श्लोक
‘क्रोधोऽस्ती’ ति गिरा सम्यगमुमर्थमनंतरम् । अवोचद्भगवान् सर्वपारदर्शी परांतकः ॥ ३९६ ॥
टीका संस्कृता
एवमुक्तिरीश्वरस्य कोपस्य निदानमित्ययमर्थो लौकिकन्यायमादाय वक्तव्यं किं, तत्त्वदर्शी श्रीपरकालसूरिः पूर्वोक्तेरनन्तरं स्वयमेवावोचत् खल्वित्याह-क्रोध इत्यादिना । ‘इतः परमपि मनुष्योत्पत्तिस्थानेष्ववटे उत्पादयसि किम्’ इतीश्वरस्वातंत्र्येण संसारयतीत्युक्तिरियं कर्मानुगुणं संसरतमात्मानं संसारादुद्धर्तुं कृषिं कुर्वतस्तस्य हृदये कोपस्य निदानं भवतीति विचार्य पूर्वं विज्ञापितवार्तया हृदये कोपोऽस्तीति प्रथमा वार्ता, अनंतरं लाभहेतुः स इत्युक्तिर्निग्रहजनकेत्यमुमर्थं पूर्वमेवमुक्तवान् स्वयमेवावोचदित्यर्थः ।
टीका हिन्द्या
कोप होनेपर इस उक्ति के अनंतर इस अर्थ को आप ही कहे हैं ॥ ३९६ ॥ ऐसा कहना ईश्वर को कोपजनक है इस अर्थ में लौकिक न्याय मात्र नहीं तत्त्वदर्शी परकालसूरि के पूर्वोक्त के अनंतर आप ही कहे हैं ऐसा कहते हैं—कोप होनेपर इत्यादि । ‘गर्भ में हम को रखोगे’ ऐसा ईश्वर अपने स्वातंत्र्य से हम को संसारी बनाता है ऐसा कहा हुवा यह अर्थ कर्मानुगुण संसारी होनेवाले आत्मा को संसार से उठाने का यत्न करनेवाले सर्वेश्वर के हृदय में कोप को उत्पादन करेगा ऐसा विचार पूर्वविज्ञापन किया हुआ वचन से परमात्मा कुपित होगा ऐसा कह अनंतर हानि का हेतु उस को बताना निग्रहजनक होता है ऐसा इस अर्थ को वही परकालसूरि कहे हैं ।
मूलम्
क्रोधोऽस्तीति ज्ञाने कथमुच्यत इति चेत् । कृपार्तिरनन्यगतित्वं च भाषयति ॥ ३९७ ॥
श्लोक
क्रोधोऽस्तीति विदन् किं स्विदुच्यते चेदितीर्यते । कृपानन्यगती तद्वदार्तिर्भाषयति स्फुटम् ॥ ३९७ ॥
टीका संस्कृता
‘क्रोधोऽस्ती’त्यनंतरं ‘तथापि वदामः’ इति पूर्वोक्तार्थस्यैव कथनस्य हेतुं प्रश्नोत्तररूपेण प्रकाशयति-क्रोध इत्यादिना । पूर्वोक्तेनानेनेश्वरहृदयस्य क्रोधोऽस्तीति ज्ञाने पुनश्च वार्ता संकोचं विना कथमुच्यते इति चेत्तस्य क्रोधः स्वसन्निधौ न जीवति यथा तथा परदुःखासहिष्णुत्वरूपा कृपा, क्रोधदर्शनजन्यभयेन तूष्णीं स्थितेः प्रतिबंधकभूतोत्कूलसंसारार्तिः, क्रोधेन निष्कासने कृतेऽपि गत्यंतराभावरूपानन्यगतित्वं च कथने प्रवर्तयतीत्यर्थः । अस्मिन् दशके ‘यथाहं प्राप्नुयां तथा कृपां कुरु, तव कृपां विनाऽन्यं नाध्यवस्यामि, कैंकर्यरुचिविशिष्टानां त्वं कृपाकरणशीलोऽसि’ इति बहुस्थलेषु तस्य कृपां, ‘महामारुताक्रांतनौकाविशिष्टानां मन इवात्यंतं कंपे, सर्पेण सहैकस्मिन् गृहे कृतपरिचयमित्र स्वस्थहृदयं व्याकुलं भवति, उभयत्र ज्वलदंगारे क्लिश्यती पिपीलिकेव हृदयं क्लिश्यति, प्रवाहमध्ये स्थितगोमायुगणवद्भयं कंपते, नदीतीरे वर्धमानवृक्षवद्विभेमि’ इत्यनेकदृष्टांतैः स्वार्त्यनन्यगतित्वे अवोचत् खलु ।
टीका हिन्द्या
कोप होगा ऐसा जानकर कैसे कहे हैं इस शंका में कृपा, आर्ति, अनन्यगति ये तीनों कहाते हैं ॥ ३९७ ॥ ‘कोप होनेपर’ इस वचन के अनंतर ‘तथापि कहूंगा’ ऐसा पूर्वोक्त को ही कहने का हेतु प्रश्नोत्तररूप से प्रकाश करते हैं—कोप इत्यादि । पूर्वोक्त से ईश्वर कुपित होगा ऐसा जान फिर भी इस वार्ता को निडर हो सामने कैसे कह सक्ते हैं इस शंका में-उन के कोप को नहीं जिवानेवाली परदुःखासहिष्णुत्वरूप कृपा, कोप को देख डर मुख न बन्दकरने के हेतु कूलंकष संसार में आर्ति, कुपित हो फेंक देनेपर भी किसी गति का अभावरूप अनन्यगतित्व ये तीनों कहाते हैं ।
मूलम्
एवमनन्यगतित्वादिसत्त्वेऽपि तस्य कोपोत्पत्तिहेतवः केचन कथमुच्यंत इत्यत आह-क्रोधे कृतेऽपीत्यादि ।
मूलम्
क्रोधे कृतेऽपि पादावरोधनयोग्यः कश्चन प्राप्तश्चेत् सर्वं वक्तुं शक्यते खलु ॥ ३९८ ॥
श्लोक
क्रोधे कृतेऽपि पादावरोधने शक्तिमान् यदि । कश्चित्प्राप्तस्तदा तेन सर्वं वक्तुं हि शक्यते ॥ ३९८ ॥
टीका संस्कृता
क्रोधकालेऽपि क्रोधविषयैश्चरणावरोधनयोग्यः परमकृपावान् कश्चन प्राप्तश्चेत् यथेच्छं वक्तुं शक्यते खल्वित्यर्थः ।
टीका हिन्द्या
कुपित होनेपर भी पांव को बांधे जैसा रहनेवाले परमकृपालु को प्राप्त होनेपर सब कुछ कहसक्ते हैं ॥ ३९८ ॥ ऐसा अनन्यगतित्वादि होनेपर भी उन को कुपित करना युक्त है क्या इस शंका में कहते हैं-कुपित होनेपर भी इत्यादि ।
मूलम्
कृपया पर्यपालयत्, (अरि[[शिनत्ताल|शिनत्ताल्]]) अत्यंतकोपेन ॥ ३९९ ॥
श्लोक
वाक्येनात्यन्तकोपेन कृपयाऽपर्यपालयत् । इति चोत्तमवाक्येन सोऽयमर्थो निगद्यते ॥ ३९९ ॥
टीका संस्कृता
क्रोधदशायामपि पादावरोधनयोग्यत्वे प्रमाणं दर्शयति-कृपयेत्यादि । ‘स तं निपतितं भूमौ शरण्यः शरणागतम् । वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥’ इति अपराधं पूर्णं कृत्वा ब्रह्मास्त्रविषयं अन्यत्र गत्यभावादागत्य चरणयोः पतितं काकं कृपया ररक्षेत्युक्तत्वात्, ‘अतिदुःखेन प्रसविण्यां मातरि दूरीकुर्वत्यामपि पुनश्च तस्या मातुः कृपामेव स्वीकृत्य पादौ गृहीत्वा रुदन् शिशुरिव स्थितोऽहम्’ पुत्रोत्पत्त्यर्थं प्रयासेन व्रतं समाप्य प्रसवित्र्यां मातरि एतद्दुश्चेष्टितं दृष्ट्वा दूरीकरणहेतुक्रोधविशिष्टायां समीपे यथा नागच्छेत्तथा दूरीकुर्वत्यां गत्यंतराभावेन कोपेन दूरीकुर्वत्या मुखे कृपाक्षेत्रं विचित्य रोदनेन चरणग्रहीतृशिशुवन्मदपराधं दृष्ट्वा समीपे यथा नागच्छेयं तथा भवता दूरीकर्तुं विचारयत्यपि चरणव्यतिरिक्तगत्यंतररहितोऽहमिति श्रीकुलशेखरैरुक्तत्वात् क्रोधे कृतेऽपि पादावरोधनयोग्य इति सिद्धमित्यर्थः । एवं दिव्यसूरिभिरुक्तमर्थम्-‘निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपंकजम् । रुषा निरस्तोऽपि शिशुस्तनंधयो न जातु मातुश्चरणौ जिहासति ॥’ इति यामुनाचार्योऽवोचत् ।
टीका हिन्द्या
कृपा से परिपालन किये, अत्यंत कोप से ॥ ३९९ ॥ क्रोधदशा में भी पांव पकडने योग्य प्रकार का प्रमाण दिखाते हैं-कृपया इत्यादि । ‘भूमि में गिरा हुआ शरणागत वधयोग्य काकासुर को रक्षक श्रीरामजी कृपा से परिपालन किये’, पूर्ण अपराध कर ब्रह्मास्त्र का लक्ष्य हो बाह्यगति अभाव होने पर चरण में गिरा हुआ काक को कृपा से रक्षा किये हैं । ‘अतिदुःख से प्रसव करनेवाली माता इस का दुष्टकृत्य को देख अपने से इस को अलग करने के लिये लात मार निकाल देनेपर भी बाहर किसी के रक्षकत्वाभाव से कुपित माता की कृपा को ही स्मरण कर रो पांव पकडनेवाले शिशु के जैसे मेरे अपराध को देख आप के समीप में न आवें जैसा आप हटाने का विचार करनेपर भी आप के चरण विना दूसरा रक्षक नहीं’ ऐसा श्रीकुलशेखरसूरि कहे हैं इस लिये कुपित होने पर भी पांव बांधने योग्य रहते हैं यह अर्थ सिद्ध हुआ । इस अर्थ को यामुनाचार्यस्वामी ‘आप छोड़ देनेपर भी हम आप के चरणों को नहीं छोड़ सक्ते हैं कोप से निकालेजाने पर भी स्तन्यपायी शिशु माता के चरणों को नहीं छोड़ता है’ ऐसा कहे हैं ।
मूलम्
एवमेतावता भयाभययोरुभयोर्व्यत्यासेऽज्ञतैव सिद्ध्यतीत्येतदुपर्यागतशंकापरिहारौ कृतौ ।
मूलम्
तथा च यहां तक भयाभय दोनों विपरीत होनेपर अज्ञता ही सिद्ध होगी इस अर्थ के ऊपर आये हुये शंका और परिहार किये गये हैं ।
मूलम्
अथ भगवद्गुणानुसंधानमभयहेतुरिति पूर्वोक्तं विशदीकर्तुमीश्वरेणैतदात्मजीवनार्थं क्रियमाणकृषिपरंपरामाह-त्रिपाद्विभूतावित्यादिना ।
मूलम्
त्रिपाद्विभूतौ परिपूर्णानुभवे वर्तमानेऽपि तस्याकिंचित्करत्वेन देशांतरस्थपुत्रविषये पितृहृदयवत्संसारिचेतनविषये हृदयस्य स्थित्या तद्विश्लेषासहिष्णुतया तैः सह मिलित्वा विनियोक्तुं करणकलेवराणि दत्वा तैर्व्यापारान् कर्तुमुपयुक्तान् शक्तिविशेषांश्च दत्वा चक्षुर्दृश्यतया स्थितौ शपथं कृत्वा निवारयेयुरिति नेत्राविषयतया स्थितः, स्वपंतीं प्रजां माता पृष्ठे आलिंगंती यथा शेते तथा स्वावगतसंबंधहेतुना त्यक्तुमसमर्थोऽत एवालिंग्यानुभवादपि स्वीयत्वख्यापनानुवृत्तिरेव समीचीनेति सत्तां रक्षन् समदुःखी, एतेष्वसत्कर्मसु प्रवर्तमानेषु निवर्तनाक्षमोऽनुमतिं कुर्वन्नुदासीनवत्स्थित्वा व्यावर्तयितुमवकाशं दृष्ट्वा पुण्यमिति नामकरणार्हमेकं पापमप्यदृष्ट्वा मुखे वेधयित्वा दृष्ट्वाऽप्येकेनापि मार्गेण द्रव्यादर्शनेऽप्राप्यमिति नेत्रजलेन निवर्तते । स्वस्य किंचिदवकाशलाभे ‘मद्ग्राममवोचः’, ‘स्वं नामावोचः’, ‘मद्दासानरक्षस्तच्छ्रमं न्यवर्तयः तेषां स्थातुं छायामदा’ इतिवत्कानिचिदारोप्यांके आम्रं निक्षिप्य सुवर्णवणिक् स्वर्णं घर्षणोपले विवृष्य मधूच्छिष्टेन कालांतरे यथैकीकरोति तथा प्रतिजन्मपरंपरायां यादृच्छिकप्रासंगिकानुषंगिकसुकृतविशेषान् कल्पयित्वा स्वयमेव तदेकं दश कृत्वा वर्तयेत् ॥ ४०० ॥[^6]
श्लोक
त्रिपाद्विभूतौ पूर्णानुभवसत्त्वेऽपि तदकिंचित्कर इति हि । देशांतरस्थसूनौ जनकहृदयवत्संसारिषु च ॥ हृदयस्थित्या तेषां विश्लेषासहनेन तैर्मिलित्वा तु । सहभोक्तुं करणादीन् तैश्च कर्तुं शक्तिमददाच्च ॥ दृग्दृश्यतया स्थित्यां हि शपथं विधाय निवारयेयुरिति तु । नेत्राविषयतया सन् पृष्ठे सुप्तप्रजां जननी ॥ आलिंगंती यथा हि शेते तथा नियतस्वसंबंधतः । त्यक्तुमसमर्थोऽंतरे च आलिंगन्ननुभवतोऽपि हि ॥ स्वयत्वख्यापनस्यानुवृत्तिरेव समीचीनेति वै । चेतनसत्तां रक्षन् समक्लेशी तेषु कुकर्मसु ॥ तिष्ठत्सु निवर्तयितुमबलोऽनुमतिं विदधदासीनस्तु । तिष्ठन् व्यावर्तयितुं ह्यवकाशमवलोक्य पुण्यमिति ॥ ख्यापनयोग्यमेकमपि पापमनुपलभ्य मुखे वेधयित्वाऽपि । अवलोकिते केनापि च्छिद्रेण द्रव्यादर्शने च ॥ अप्राप्यमिति नेत्राश्रुजलेन निवर्तते कारुणिकः सः । किंचिदवकाशमिलने ‘मदीयनामग्राममवोचः’ । ‘मद्दासानरक्षो हि तच्छ्रमं न्यवर्तयस्तेषां स्थातुम् ॥ छायामदा हि’ इतिवत्कानिचिदारोप्यांके स्वयम् । आम्रं निक्षिप्याथ स्वर्णं हि स्वर्णघर्षणोपले विघृष्य वै ॥ मधूच्छिष्टेन काले प्राप्ते यथैकीकरोति सः । तथा प्रतिजन्मगतया यादृच्छिकप्रासंगिकानुषङ्गिकान् ॥ सुकृतान् कल्पयित्वा तेष्वेकमनेकं कृत्वा वर्तयेत् ॥४००॥
टीका संस्कृता
‘त्रिपादस्यामृतं दिवि’ इत्युक्तत्वान्नित्यविभूतिस्त्रिपाद्विभूतिरित्युच्यते । अस्यास्त्रिपात्त्वमनेकप्रकारं निर्वाह्यते, तथाहि-‘पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि’ इत्यस्यां विभूतौ सर्वाणि भूतानि अस्य चतुर्थांश इति प्रकारेणाल्पो वर्तते । परमाकाशे तस्य नित्यविभूतिस्त्रिपादिति प्रकारेण त्र्यंशको वर्तते । एतद्विभूतिद्वयविषयपादशब्दस्त्रिपाच्छब्दश्चाल्पत्वमहत्वयोरुपलक्षणे न तु परिच्छेदपरौ । लीलाविभूतावंडान्येवासंख्यातानि खलु वर्तत इति दीपप्रकाशे यतिभिरुक्तत्वात् अस्यां विभूतौ कार्यरूपप्रदेशापेक्षया परमाकाशे नित्यविभूतिस्त्रिगुणा वर्तते इति वा, अथवा दिवीत्यप्राकृतं स्थानमुच्यते । त्रिपात्त्वं चाप्राकृतैर्भोग्यभोगोपकरणभोगस्थानविशेषैर्वा, भूषणास्त्रादिरूपेण जगदंतर्गतवस्त्वभिमानिभिर्नित्यैर्भगवदनुभवमात्रपरैश्च नित्यसिद्धैर्मुक्तेश्चात्मभिर्वा संभवतीति श्रुतप्रकाशिकायां भट्टार्याद्युक्तप्रकारेणात्राप्यप्राकृतभोग्यविशेषभोगोपकरणभोगस्थानविशेषरूपांशत्रयप्रयुक्तत्वाद्वा, वस्त्रभूषणास्त्रादिरूपेण जगदंतर्गतवस्तुभिमानिनित्याः केवलभगवदनुभवपरानित्या मुक्ताश्चेत्येवमंशत्रयविशिष्टात्मविशिष्टत्वाद्वा त्रिपात्त्वमिति । एवं लीलाविभूतेरत्यंतव्यावृत्तत्वान्निरतिशयसुखावहायां नित्यविभूतौ । परिपूर्णानुभवे वर्तमाने-नित्यमुक्तैः सह स्थित्वैकैकांशे निरतिशयानंदजनकानां स्वरूपरूपगुणविभूतीनां सर्वेषां युगपदेवानुभवरूपपरिपूर्णानुभवेऽविच्छिन्नतया वर्तमान इत्यर्थः । तस्याकिंचित्करत्वेन-तदा शरीरे प्रवेश्य दूरीकरणवैयर्थ्यजननप्रयोजकस्य तस्यानुभवस्य शरीरे किंचिदपि भानाभावादित्यर्थः । देशांतरस्थपुत्रविषये पितृहृदयवत्संसारिचेतनविषये हृदयस्य स्थित्या-अनेकपुत्राणां मध्य एकस्मिन् स्वकर्मानुगुणं देशांतरं गतेऽन्येषु पुत्रेषु स्वस्मिंश्च स्थित्वोज्जीवत्सु एत इव सोऽपि सह स्थित्वा वर्धितुमुत्पन्न एतस्मात्प्रच्युतस्तिष्ठतीति देशांतरगततत्पुत्रविषये यथा पितृहृदयं तिष्ठति तथा नित्यमुक्तेषु स्वस्मिंश्च मिलित्वा वर्धमानेष्वेतद्भोगे प्राप्तौ सत्यामप्ययं चेतनोऽस्माकं च्युतो वर्तत इति देशांतरस्थसंसारिविषये हृदयस्य साक्षाद्गमनेनेत्यर्थः । तद्विश्लेषासहिष्णुतया-संहृतिसमये प्राप्तौ सत्यां नित्यविभूतावेतत्संसारिचेतनाद् विश्लिष्य स्वस्य स्थितिसमये पुत्रपौत्रादिभिः सह जीवितवंतस्तद्विश्लेषेण यथैकाकिनो भवंति तथा ‘स एकाकी न रमेत’ इत्युक्तप्रकारेणैतद्दुःखासहिष्णुतयेत्यर्थः । संहृततया स्थितिदशायामप्येतान् शरीरतया स्वीकृत्य स्वस्मिन् शरीरितया वर्तमानेऽपि तादृशस्थितिमपि संश्लेषतयाऽननुसंधाय करणकलेवरसहिततयाऽवस्थानकालेऽंतरात्मतया प्रवृत्तिनिर्वहणपूर्वकं स्थितिप्रभृतिकमेतत्संश्लेषः, एतेषु करणकलेवरविधुरेष्वचिदविशेषितेषु स्थितेषु स्वस्य नित्यविभूतौ स्थितिरेतद्विश्लेष इत्यनुसंधाय वर्तमानत्वात् तद्विश्लेषेत्यादिकमवोचत् । तैः सह मिलित्वा विनियोक्तुं करणकलेवराणि दत्त्वा-अंतरात्मतयाऽर्चावतारैश्चैतैर्मिलित्वा विनियोक्तुमुपयुक्तानि, ‘विचित्रा देहसम्पत्तिः’ इत्यादिप्रकारेण स्वचरणकमलसमाश्रयणोपकरणानि करणकलेवराणि दयमानमनाः सन् दत्वेत्यर्थः । तैर्व्यापारं कर्तुमुपयुक्तान् शक्तिविशेषांश्च दत्त्वा-तादृशकरणकलेवरैर्ज्ञातव्यं ज्ञात्वा कर्तव्यं कृत्वा त्याज्यं त्यक्त्वा एवमुपकर्तुमुचितान् चिच्छक्तिप्रवृत्तिनिवृत्तिरूपशक्तिविशेषान् दत्वेत्यर्थः । चक्षुर्दृश्यतया स्थितौ शपथं कृत्वा निवारयेयुरिति नेत्राविषयतया स्थितः-एतत्सर्वं कृत्वाऽपि स्वामित्वप्राप्तिर्यथा भासेत तथैतेषां नेत्रयोर्विषयतया स्थितौ ‘त्वं मे’ इत्युक्तौ तदसहनातयाऽहं मे’ इति कथनस्वातंत्र्यात् अस्माकमतःपरं त्वं कदापि न तिष्ठेति लक्ष्मीशपथं कृत्वा निषेधं कुर्युरिति विचार्य ‘न चक्षुषा पश्यति कश्चनैनम्’, ‘नेत्रयोर्नास्ति विषयः’ इत्युक्तप्रकारेण सदैतेषां नेत्राविषयतया स्थित इत्यर्थः । स्वपंतीं प्रजां माता पृष्ठे आलिंगंती यथा शेते तथा स्वभावगतसंबंधहेतुना त्यक्तुमसमर्थोऽन्तरालिंगन्-स्वं मातरं चाविदित्वा स्वपंतीं प्रजां वत्सला माता स्वावगतरक्ष्यरक्षकसंबंधहेतुना पृष्ठे आलिंगंती यथा शेते तथाऽनादिमायया सुप्तान् स्वपरस्वरूपयोरेकमप्यजानत एतान् चेतनान् शेषित्वेन स्वेनावगतरक्ष्यरक्षकसंबंधहेतुना त्यक्तुमशक्तो ‘य आत्मनि तिष्ठन्’ नित्यादिप्रकारेणात्मतयैतान् स्पृशन्नित्यर्थः । अनुभवादपि स्वीयत्वख्यापनानुवृत्तिरेव समीचीनेति सत्तां रक्षन्-कस्यचिद्वस्तुनि कस्मिंश्चिदपहृत्यानुभवति वस्तुस्वाम्यपहृतवस्तुनि स्वीयमिति यथा ज्ञायते तथा बहुकालं स्वीयत्वख्यापनं कुरुते चेत् पश्चाद् व्यवहारे विजयहेतुर्भवति खलु, तथैवानुभवविभवादित्युक्ताच्चेतनानुभवात् अस्मदीयत्वख्यापनायैकरीत्यानुवृत्तिः प्रबलेति विचार्यांतरात्मतयाऽवस्थितः स्वयमेतान् कदाप्यत्यजन् धारकः सन् धार्यभूतानामेतेषां सत्तानाशं विना रक्षन्नित्यर्थः । संगृह्य-एवं सत्ताधारकतया स्वर्गनरकप्रवेशादिसर्वावस्थायामप्येतेषां सहायभूत इत्यर्थः । समदुःखी-अस्य दुःखं स्वस्य दुःखमिति वर्तमानः । एतेष्वसत्कर्मसु प्रवर्तमानेषु निवर्तनाक्षमोऽनुमतिदानं कुर्वन्नुदासीनवत् स्थित्वा व्यावर्तयितुमवकाशं दृष्ट्वा-‘आदावीश्वरदत्तयैव पुरुषः स्वातंत्र्यशक्त्या स्वयं । तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन्वर्तते ॥’ इत्युक्तप्रकारेणादौ स्वेन दत्तया ज्ञातृत्वरूपस्वातंत्र्यशक्त्या स्वरुच्यनुगुणं प्रवृत्तिं कर्तुं योग्येष्वेतेषु चेतनेषु दुर्वासनाबलेन पापकर्मसु प्रवर्तमानेषु अंतर्यामिणः स्वस्येच्छायां व्यावर्तनस्य शक्यत्वेऽपि तथा करणे स्वाज्ञारूपशास्त्रविनियोगभंगः स्यात्, सर्वमुक्तिप्रसंगश्च स्यादिति व्यावर्तयितुमक्षमोऽनुमतिदानं कृत्वाऽौदासीन्यं विना स्थितोऽप्येतेषां किं वा स्यात्समीचीनमेवेति वर्तमानोदासीनवत् स्थित्वा । तस्मादेतेषां व्यावर्तनार्थं कथनाय सुकृतरूपावकाशं दृष्ट्वेत्यर्थः । पुण्यमिति नामकरणार्हमेकं पापमप्यदृष्ट्वा-एवमन्वेषणसमये शास्त्रमर्यादानुगुणं वा स्वावगततयाऽऽरोपयित्वा तानसत्कर्मभ्यो व्यावर्तयितुमवकाशरूपैकपुण्यस्यादर्शनमात्रं विना तादृशासत्कर्मसु पुण्यमिति नाम कृत्वा स्वीकारार्हमेकं पापमप्यदृष्ट्वेत्यर्थः । पुण्यमिति नामकरणार्हं पापं नाम-परहिंसां कृत्वा संचरणसमये भगवद्भागवतविरोधिनो यादृच्छिकहिंसनं, विषयप्रावण्येन दासीरनुगम्य बहुवारं मंदिरेषु प्रवेशनिर्गमनं, सस्यं जग्ध्वा गच्छंतीं गामनुगम्य सा कंचिन्मंदिरं प्रदक्षिणीकृत्य गच्छति चेत्ताडनाग्रहेण स्वयमपि प्रदक्षिणकरणं, निंदार्थं श्रीनामोच्चारणमेतत्प्रभृतिकम् । मुखे वेधयित्वा दृष्ट्वाऽप्येकेनापि मार्गेण द्रव्यादर्शनेऽप्राप्यमिति नेत्रजलेन निवर्तते-सर्पदष्टान्मृतकल्पान्मंत्रादिभिरुत्थापयितुं प्राणस्थितिपरीक्षार्थं मुखे वेधयित्वा दृष्टे एकप्रकारेणापि रक्तस्पर्शादर्शनेऽयं विषयोऽस्माकं हस्तंगतो न भवेदिति बंधव एतान् यथा त्यजंति तथा पुण्यादर्शनमात्रेणापरित्यज्य पुण्यमिति नामकरणार्हमेकं पापमस्ति किमित्यन्वेषणे कृतेऽपि एकप्रकारेणापि तेष्वार्द्रताऽदर्शनेऽयं विषयोऽस्माकं प्राप्तियोग्यो न भवत्ययं च्युत इति नेत्राश्रुणा निवर्तत इत्यर्थः । अथवा पुण्यमिति नामकरणार्हमेकं पापमिति-‘श्येनेनाभिचरन् यजेत’ इत्यास्तिक्यजनकतया विहितत्वात्पुण्यमिति नामकरणार्हं परहिंसारूपत्वात्पापं श्येनविध्यनुष्ठानम् । अंगीकारोपयुक्तपुण्यदर्शनाभावमात्रं विना शास्त्रमर्यादयोपरि वाऽनुष्ठानयोग्यशास्त्रास्तित्वस्योपयुक्तस्यापि तेष्वदर्शनेनेत्यर्थः । तदा मुखे वेधयित्वा दृष्ट्यादिना ज्ञातसुकृतयोग्यताभावादज्ञातं वाऽस्ति किमित्यन्विष्य तस्याप्यभावादेकमार्गेणाप्यंगीकारयोग्यताऽभावेन दुःखेन निवर्तत इत्युच्यते । स्वस्य किंचिदवकाशलाभे-एवं पुनर्निवृत्तिं विनैतदुज्जीवने विद्यमानचापल्येन पुनश्चांगीकर्तुमवकाशं दृष्ट्वा संचरतः स्वस्य किंचिदवकाशलाभ इत्यर्थः । मद्ग्राममवोच इत्यादि इतिवत्कानिचिदारोप्य-तन्नाम एतन्नाम इत्यनेकेषां ग्रामाणां कथनसमये श्रीरंगवेंकटाद्रिप्रभृतिस्वाभिमतग्रामेष्वेकस्मिन्नुक्ते तावन्मात्रमवलंब्य मम ग्राममवद इति, अयं स इति वदन्नेकेषां नाम वक्तुं श्रीनामस्यैकं वदति चेत्तावन्मात्रमादाय मम नामावोच इति, केषुचिद्भागवतेषु वने मार्गे गच्छत्सु तान् हिंसित्वा हस्तस्थितमपहर्तुं मार्गापहर्तृषु चौरेषूद्योगं कुर्वाणेषु स्वकार्यार्थं गच्छति कस्मिंश्चिद्भटे तेषां पृष्ठतो दृश्यमाने तं तद्रक्षणार्थमागच्छतीति ज्ञात्वा तेषु भीत्या चौर्यानिवृत्तेषु तदवलंब्यागतं भटं मम दासानरक्ष इति, कस्मिंश्चिद्धेमंतकाले स्वसस्ये शुष्यति यत्र जलं वर्तते ततः सस्ये जलं प्रापयितुं बहुदूरे [[चन्वा|खनित्वा]] जलमुत्क्षिपति, मरुभूमौ बहुदूरं पादेनागत्य किंचिज्जलं प्राप्यते चेदस्मत्प्राणो धर्तुं शक्यते इति क्लेशेनगच्छंतः केचन भागवतास्तदवेदनं तज्जलेषु श्रीपादादिकं प्रक्षाल्य विश्रम्य गताश्चेत्तेन हेतुना मद्दासानां श्रमं न्यवर्तय इति, कश्चित्स्वस्य द्यूतचतुरंगयुद्धविनोदार्थं [[वातापेक्षायां स्वातुं च|वातायने स्थातुं च]] बहिर्वेदिकाया निर्माणमकरोत्, [[वातपीडितेष्वत्र|वर्षपीडितेष्वत्र]] तिष्ठाम इत्यागच्छत्सु केषुचिद्भागवतेषु तत्र स्थित्वा गतेषु तावन्मात्रेण मद्दासानां स्थातुं छायामदा इति चैवंप्रकारेण कैश्चिदविदितानि स्वयमेवारोप्येत्यर्थः । अंके आम्रं निक्षिप्येति-आम्रफलं महीत्वा कस्यचिन्मार्गे गच्छतः अंके आम्रफलमाच्छाद्य गत्वा प्रक्षिप्य चाम्रफलं त्वया चोरितम् इत्युक्तवदित्यर्थः । इदं बलात्कारारोपणस्य दृष्टांतः । सुवर्णवणिक् स्वर्णं घर्षणोपले विवृष्य मधूच्छिष्टेन कालांतरे यथैकीकरोति-स्वर्णवाणिज्यकर्ता केनचित्परीक्षार्थं प्रदर्शितं स्वर्णं घर्षणोपले घर्षयित्वा सुवर्णं यथा न विकीर्यते तथा मधूच्छिष्टेनादाय कालदैर्घ्येण पादस्वर्णं जातमेकं स्वर्णं जातमिति यथैकीकरोति तथैकजन्मनि द्वयोर्जन्मनोर्वाऽनुभवं विना प्रतिजन्मपरंपरासु श्रमं निवर्तयः, स्थातुं छायामदा इतिवज्जायमानं यादृच्छिकं, ग्राममवदः, नामावद इतिवदागतं प्रासंगिकं, दासानरक्ष इतिवज्जायमानमानुषंगिकमिति सुकृतविशेषान् शास्त्राविहितान् चेतनाविदितान् स्वयमेव कल्पयित्वा तमेकमनेकं कृत्वा वर्तयेदित्यर्थः ।
टीका हिन्द्या
त्रिपाद्विभूति में परिपूर्णानुभव चलनेपर भी वह अकिंचित्कर हो देशांतरस्थपुत्र के विषय में जैसा पिता का मन होता है तैसा संसारियों के विषय में मन लगा कर इन के विश्लेष में असह्य हो इन के साथ मिल विनियोग करने के लिये करणकलेवरों को दे उन को ले कार्य करने के योग्य शक्तिविशेषों को प्रदान कर नेत्रगोचर होनेपर शपथ कर हटावेंगे समझ नेत्र का अविषय हो सोनेवाले शिशु को माता आलिङ्गन कर जैसा सोती है तैसा अपना जाना हुआ संबंधरूप हेतु से न छोड भीतर में आलिंगन कर अनुभव की अपेक्षा अनुवर्तन करना अच्छा समझ त्याग न कर सत्ता की रक्षा करते हुये इन के दुःख में आप दुःखी हो इन के असत्कर्मों में प्रवृत्त होनेपर हटाने को असमर्थ हो अनुमतिदान कर उदासीनवत् रह लौटाने का अवकाश देख पुण्य कहने योग्य एक पाप को भी न देख, [[मुख में वेध कर|ललाट को वेध कर]] देखने पर किसी प्रकार का आर्द्रता को न देखने से हाथ से छूट गया समझ आंसुओं के साथ लौटते हैं । आप को किंचित् अवकाश पानेपर ‘हमारे ग्राम का नाम कहा’, ‘हमारा नाम लिया’, ‘हमारे दासों की रक्षा किया, उन की थकावट को दूर किया, उन के रहने को स्थान दिया’ इस तरह सुकृतों का आरोपण कर आंचल में आम रख स्वर्णकार स्वर्ण को शाण में घिस मोम से उठा फिर जैसे गोली करता है तैसा प्रत्येक जन्मपरंपरा में यादृच्छिक, प्रासंगिक, आनुषंगिक रूप सुकृतविशेषों को कल्पना कर आप ही एक को दश कर चलाते हैं ॥ ४०० ॥[^7] अथ भगवद्गुणानुसंधान अभयहेतु इस पूर्वोक्त अर्थ को विवरण करने के लिये ईश्वर से इस आत्मा के उज्जीवन के वास्ते क्रियमाणकृषिपरंपरा को कहते हैं-त्रिपाद्विभूति में इत्यादि । आकाश में नाश रहित स्थान तीन पाद है ऐसा कहने से नित्यविभूति को त्रिपाद्विभूति कहते हैं । इस का त्रिपादत्व बहुप्रकार से वर्णन किया जाता है तथा हि इस विभूति में संपूर्ण भूत परमात्मा का एक पाद कहने योग्य अल्प है, परमाकाश में उस की नित्यविभूति त्रिपाद कहने योग्य तिगुना है । इस विभूतिद्वयविषयक यह पादशब्द अल्पत्व महत्व को दिखाता है इतना ही विना परिच्छेदपरक नहीं, लीलाविभूति में अंडों की संख्या नहीं ऐसा दीपप्रकाश नामक ग्रंथ में यति कहे हैं । यद्वा इस विभूति में कार्यरूप प्रदेश की अपेक्षा परमाकाश में नित्यविभूति तीन गुना है ऐसा भी कह सक्ते हैं अथवा दिवि नाम अप्राकृत स्थान को कहते हैं । त्रिपादत्वं नाम-अप्राकृतभोग्यभोगोपकरणभोगस्थानविशेषों से या भूषणअस्त्रादिरूप से जगत् के अंतर्गत वस्त्वभिमानिनित्यभगवदनुभवमात्रपर नित्यसिद्धमुक्तस्वरूपआत्माओं से हो सक्ता है ऐसा श्रुतप्रकाशिका में भट्टार्यादि कहे हैं । तथा च इस प्रकार लीलाविभूति से अत्यंत विलक्षण होने के कारण निरतिशयसुखावह नित्यविभूति में । परिपूर्णानुभव होते हुये-नित्यमुक्ति के साथ मिल निरतिशयानंदजनक स्वरूपरूपगुणविभूति सब को एक ही काल में अनुभव करनारूप परिपूर्णानुभव अपरिच्छिन्न होते हुवे । वह अकिंचित्कर हो-प्रतिक्षण नवीनरसानुभव भी अकिंचित्कर हो । देशांतरस्थ इत्यादि-अनेक पुत्रों में से एक पुत्र स्वकर्मानुगुण देशांतर जानेपर अन्य पुत्रों के साथ मिल कर अनुभव करते हुए भी इन के तरह वह भी मिल कर अनुभव करने योग्य होनेपर भी इस को छोड कहीं पडा है ऐसा देशांतरगत उस पुत्र के विषय में पिता का हृदय जैसा लगा रहता है तैसा नित्यमुक्त और आप मिल कर सुख भोगने पर भी इस भोग में प्राप्ति होते हुवे ये चेतन इस को छोड़ हम से च्युत रहते हैं अहो ऐसा देशांतरस्थ संसारियों के विषय में मन जाकर । इन के इत्यादि-संहार समय में प्राप्ति होने पर नित्यविभूति में इन संसारी चेतनों को छोड आप रहने के समय जैसा पुत्रपौत्रादियों के साथ रहनेवाले उन को छोड अकेला समझ दुःख पाता है तैसा उस दुःख को न सह । संहृतदशा में भी इनको शरीरतया परिग्रह कर आप शरीरी होते हुवे भी उस संश्लेष को एक चीज न समझ करणकलेवर सहित रहने के समय उन के अंतरात्मतया प्रवृत्तिनिवृत्तियों को निर्वाह करना प्रभृति को इन के साथ संश्लेष समझ ये करणकलेवरविधुर हो अचित् के समान रहने पर आप नित्यविभूति में रहना इन का विश्लेष समझने से इन के विश्लेष में ऐसा कहते हैं । इन के साथ इत्यादि-अंतरात्मता से अवतार और अर्चावतारों से भी इन के साथ मिल कर विनियोग करने के लिये स्वचरणकमलसमाश्रयण के उपकरणभूत करणकलेवरों को दयमानमनवाला हो देकर । उन को ले इत्यादि-उन करणकलेवरों को लेकर जानने योग्य को जान करने योग्य को कर छोडने योग्य को छोड संचार करने के लिये चित्शक्तिप्रवृत्तिशक्तिनिवृत्तिशक्तिरूप शक्तिविशेषों को देकर । नेत्र के इत्यादि-इतनाकर स्वामित्वप्राप्ति भासमान हो जैसा इन के नेत्रों के गोचर होनेपर ‘तुम हमारा’ ऐसा कहनेपर न सह ‘मैं मेरा’ ऐसा कहनेवाले स्वतंत्र होने से ‘हमारे सामने तुम कभी नहीं रहते हो’ ऐसा शपथ कर रोकेंगे समझ इनके नेत्र के भी गोचर न हो । सोती हुई प्रजा को इत्यादि-अपने को और माता को भी न जान कर पडी सोती हुई प्रजा को वत्सला माता अपने ज्ञात रक्ष्यरक्षकभाव संबंध द्वारा पीठ में आलिंगन कर जैसी सोती है तैसा अनादिमाया से सुप्त स्वस्वरूपपरस्वरूप आदि किसी को न जान पडे हुवे इन चेतनों को आप से जाना हुआ रक्ष्यरक्षकसंबंध ही के कारण छोड़ न सक अंतरात्मतया इन को स्पर्श करते हुवे । अनुभव की अपेक्षा इत्यादि-किसी की चीज को किसी के अपहार करनेपर मालिक अपना चीज है जैसा भासमान हो तैसा अनुवर्तमान किये तो व्यवहार में विजय का हेतु होता है ऐसा ही चेतनों के अनुभव की अपेक्षा-हमारा करके जैसा भासमान हो तैसा बराबर अनुवर्तन करनेपर हमारी जीत होगी समझ-अंतरात्मतया स्थित आप इन को एक समय भी न छोड धारक हो धार्यभूत इन की सत्ता की रक्षाकर । संग रह-एवं सत्ताधारकतया स्वर्गनरकप्रवेशादि सर्वावस्थाओं में भी इन के सहाय हो । इन के दुःख में आप दुःखी हो, इन के असत्कर्मों में इत्यादि-आदि में ईश्वर से दिया हुआ ज्ञातृत्वरूप स्वातंत्र्यशक्ति से स्वरुच्यनुगुण प्रवृत्ति में लगने योग्य इन चेतन दुर्वासनाबल से पापकर्मों में प्रवृत्त होने पर अंतर्यामी आप चाहें तो लौटा सक्ते हैं तो भी ऐसा करने पर स्वाज्ञारूप शास्त्र का विनियोग नष्ट होगा, सर्वमुक्तिप्रसंग आवेगा ऐसा समझ लौटाने को असमर्थ हो अनुमति दान कर उदासीन न होने पर भी ‘ये लोग कैसा भी भोगें तो हमें क्या’ ऐसा कहनेवाले उदासीन के तरह रह उन को लौटाने के योग्य सामीचीन्यरूप अवकाश को देख । पुण्य करके नाम रखने योग्य इत्यादि-इस प्रकार अवकाश देखते रहने पर शास्त्रमर्यादानुगुण या अपने ज्ञानपूर्वक आरोपण कर इन चेतनों को असत्कर्मों से लौटाने को अवकाशरूप एक सत्कर्म को न देखने मात्र विना उन असत्कर्मों में सत्कर्मकहने योग्य किसी एक असत्कर्म को भी नहीं देख । पुण्यकहने योग्य पाप माने-परहिंसा करते हुवे संचार करनेपर भी भगवद्भागवतविरोधियों को यदृच्छा से हिंसा करना । विषयप्रवण हो भगवद्दासियों के पीछे पड बहुवार मंदिरों में प्रवेश कर बाहर निकलना । खेती को खायी हुई गौ के पीछे मारने दौडने पर वह एक मंदिर को प्रदक्षिणकिये तो उस के मारने के आग्रह से आप भी मंदिर के चारों तरफ भागना । निंदार्थ श्रीनामों को कहना । ललाट को वेध कर इत्यादि-सर्पदष्टमृतप्राय मनुष्यों को मंत्रादियों से जगाने को प्राणस्थिति की परीक्षा करने के लिये ललाट को वेध कर देखनेपर भी किसी प्रकार की रक्त की आर्द्रता को न देख-‘यह चेतन अब हमारे हाथ में लगेगा’ ऐसा न रह दुःख के साथ हाथ खींचनेवाले बंधुओं के तरह पुण्य न देखने मात्र से न छोड पुण्य करके नाम रखने योग्य एक पाप भी है क्या ऐसा विचार देखनेपर भी किसी प्रकार इन के पास आर्द्रता को न देख ‘यह हम को नहीं मिलेगा इस को हम गमाये हैं’ ऐसा रोकर आंसुओं के साथ लौटना । यद्वा आस्तिक्यजनक हो विहित होने से श्येनयाग पुण्य कहलाता है । परहिंसा होने से पापरूप श्येनयाग अंगीकार के योग्य पुण्यरूप उस को न देख । अपने अवकाश पानेपर-ऐसा न लौट कर इन के उज्जीवन का अवकाश देख संचार करनेवाले अपने को अवकाश मिलनेपर । ‘हमारे ग्राम का नाम कहा’ ऐसा कहने योग्य किसी को आरोपण कर वह ग्राम यह मान ऐसा यह चेतन बहुत ग्रामों का नाम लेते वखत श्रीरङ्गवेंकटगिरि प्रभृति अपने दिव्यदेशों में किसी एक को कहने पर उतना ही लेकर ‘हमारे ग्राम को कहा’ । ‘वह यह’ ऐसा अनेकों के नाम लेने पर किसी एक का नाम अपना नाम होने से उतने ही मात्र से ‘हमारा नाम लिया’ । कई भागवत लोग अरण्य की रास्ता चलने पर उन को मार लूटने के लिये चोरों के उद्योग करने पर अपने कार्य से जाता हुआ एक राजभट उस के पीछे देखने पर ‘यह उन की रक्षणार्थ आरहा है’ ऐसा समझ वे डरकर भागने पर उतने मात्र से वह राजभट ‘हमारे दासों की रक्षा किया’ ऐसा, किसी एक [[हेमंतकाल|ग्रीष्मकाल]] में अपनी खेती सूखनेपर जल के स्थान से खेत में लाने के लिये बहुत दूर से नाला खोद पानी को बहाते हुवे मरुभूमि से बहुत दूर चल कर इतना जल प्राप्त होनेपर हमारे प्राण बचेंगे ऐसा कहने योग्य थकावट से आनेवाले भागवत लोग खेतीवाले न जाने जैसे नाले के पानी से अपना चरणारविंद धो थकावट को दूर कर जानेपर उतना ही मात्र से ‘हमारे भक्तों के [[आयास|श्रम]] को दूर किया है’ ऐसा, किसी एकने जूआ, चतुरंग खेलने के लिये हवा के अपेक्षित होने से बाहर चबूतरा बनाकर रखने पर वर्षा से पीडित हो ‘यहां छाया में बैठेंगे’ ऐसा विचार भागवत लोग वहां बैठ कर जानेपर उतना ही मात्र से ही ‘हमारे दासों के रहने को छाया दिया है’ ऐसा भी कई अज्ञात सुकृतों को उन के ऊपर आरोपण कर । आंचल में आम बांधना माने-आम न ले रास्ते में जानेवाले के आंचल में आम को छिपा ‘आम चुराया’ ऐसा कहना । यह बलात्कार से आरोपण करने का दृष्टांत है । स्वर्णकार इत्यादि-स्वर्णकार किसी एकके परीक्षा के लिये स्वर्ण लाने पर उसको शाण में घिस कर मोम से निकाल संध्या होते ही पावभर हुआ, आधाभर हुआ ऐसा गोल करने के तरह एक दो जन्म नहीं चेतनों के प्रतिजन्मपरंपरा में ‘थकावट को दूर किया’, ‘रहने को छाया दिया’ इस तरह उत्पाद्यमान यादृच्छिक, ‘ग्राम को कहा’, ‘नाम को कहा’ इस तरह प्रासंगिक, ‘दासों की रक्षा किया’ इस तरह के आनुषंगिक सुकृतविशेषों को शास्त्रअविहित, चेतनअज्ञात न होने पर भी आप ही कल्पना कर एक को बहुत कर चलाते हैं ॥४००॥
मूलम्
ललिताचरितादिष्वयमर्थः संकोचं विना द्रष्टव्यः ॥ ४०१ ॥
श्लोक
संकोचमंतरा चैतदर्थं द्रष्टुं हि शक्यते । ललिताचरितादौ वै पुराणागमकोविदैः ॥ ४०१ ॥
टीका संस्कृता
एतदज्ञातसुकृतहेतुनेश्वरोऽङ्गीकरोतीति क्व दृष्टमित्यतो ललिताचरितादिष्वयमर्थो विस्तरेण द्रष्टव्य इत्याह-ललितेत्यादि । विदर्भराजसुता काशीराजमहिषी ललिता सपत्नीभ्यस्त्रिशताभ्योऽभिरूप्यमतिवश्यभर्तृता देहतेजः सर्वगुणसंपत्तिरित्येतद्विशिष्टाहोरात्रविभागं विना भगवत्संनिधावनेकदीपान् प्रज्वाल्य तत्र निरताऽतिष्ठत् । तदा तां दृष्ट्वा तत्रैतदाभिरूप्यादीनां दीपारोपणकैंकर्यप्रावण्यस्य च को हेतुरिति सपत्न्योऽपृच्छन्, सा जातिस्मृत्योत्पन्ना-‘तदेष कथयाम्येतद्यद्वृत्तं मम शोभनाः ।’ इत्यारभ्य ‘सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः । तेन चायेतनं विष्णोः कारितं देविकातटे ॥ अहन्यहनि शुश्रूषां पुष्पधूपानुलेपनैः । दीपदानादिभिश्चैव चक्रे तत्र [[वसन्|निवसन्]] द्विजः ॥’ इति सौवीरराजपुरोहितो मैत्रेयो देविकानदीतीरे भगवतो मंदिरं निर्माय तत्र प्रतिदिनं सकलकैंकर्याणि च कुर्वन्नवर्ततेत्यमुमर्थमुक्त्वा-‘कार्तिके दीपितो दीप उपात्तस्तेन चैकदा । आसीन्निर्वाणभूयिष्ठो देवस्य पुरतो निशि ॥ देवतायतने चासं तत्राहमपि मूषिका । प्रदीपवर्तिग्रहणे कृतबुद्धिर्वराननाः ॥ गृहीता च मया वर्तिः पृषदंशो रुरोद च । नष्टा चाहं ततस्तस्य मार्जारस्य भयातुरा ॥ वक्त्रप्रांतेन नश्यंत्या स दीपः प्रेरितो मया । जज्वाल पूर्ववद्दीप्तस्तस्मिन्नायतने पुनः ॥’ इति कार्तिकमासे तेन तद्भगवत्सन्निधावारोपितदीपस्य नाशसमये तस्मिन्मंदिरे मूषिकारूपेण वर्तमाना तद्दीपवर्तिकां गृहीत्वा गंतुं विचार्य तद्ग्रहणसमये मार्जारशब्दं श्रुत्वा भयेन मरणे प्राप्ते तदा भयेन कंपमानेन स्वमुखेन सा वर्तिका दीर्घीकृता ततः पूर्ववत्स दीपोऽतिप्रकाशो जज्वालेत्यतुमर्थमुक्त्वा, ‘मृता चाहं ततो जाता वैदर्भी राजकन्यका । जातिस्मरा कांतिमती भवतीनां वरा गुणैः ॥’ इत्येतदनंतरं स्वयं मृता विदर्भराजस्य पुत्री जातिस्मृत्यादिभिरुत्पन्नेत्यमुमर्थमुक्त्वा, ‘एष प्रभावो दीपस्य कार्तिके मासि शोभनाः । दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा ॥ असंकल्पितमप्यस्य प्रेरणं यत्कृतं मया । विष्ण्वायतनदीपस्य तस्यैतद्भुज्यते फलम् ॥ ततो जातिस्मृतिर्जन्म मनुष्ये शोभनं वपुः । वश्यः पतिर्हि सर्वासां किं पुनश्च दीपदायिनाम् ॥’ इत्यज्ञातसुकृतफलतया स्वस्थैतदाधिक्यं सर्वं जातमित्यर्थमवोचदिति श्रीविष्णुधर्मे ललिताचरितं विस्तरेणोक्तम् । आदिशब्देन तत्त्वविदः कस्यचिद् ब्राह्मणस्य पुत्री सुव्रताऽतिबाल्ये मातृहीना जाता, तद्यथा न ज्ञायते तथा परमदयालुना पित्रा वर्द्धिता, ततः कस्मैचित्प्रदानं प्राप्तमित्यवस्थायां तस्याः पितुर्नष्टत्वात् अतीव शोकार्ता-‘येन संवर्द्धिता बाल्ये येनास्मि परिरक्षिता । तेन पित्रा वियुक्ताऽहं न जीवेयं कदाचन ॥ नद्यां वा निपतिष्यामि समिद्धे वा हुताशने । पर्वताद्वा पतिष्यामि पितृहीना निराश्रया ॥’ इति यदा देहत्यागोद्युक्ताऽभूत्तदा-‘आगत्य करुणाविष्टो यमः सर्वहिते रतः । स्थविरो ब्राह्मणो भूत्वा प्रोवाचेदं वचस्तदा ॥’ इत्युक्तप्रकारेण सर्वप्राणिनामपि हिते निरतो यमः कृपाविष्टो वृद्धब्राह्मणवेषो भूत्वा ‘अलं बाले विशालाक्षि रोदनेनातिविह्वले । न भूयः प्राप्यते तातस्तस्मान्नार्हसि शोचितुम् ॥’ इत्यादिनाऽस्याः शोकापनोदनं कृत्वा-‘तस्मात्त्वं शोकमुत्सृज्य श्रोतुमर्हसि सुव्रते । पितृभ्यां विप्रयोगोऽयं येनाभूत्कर्मणा तव ॥’ इति तस्मात्त्वं दुःखमुत्सृज्यैतन्मातापितृवियोगस्तव येन कर्मणा जातस्तद्वदामि शृण्विति स्वयमेवोक्त्वा-‘पुरा त्वं सुंदरीनाम वेश्या परमसुंदरी । नृत्यगीतादिनिपुणा वीणावेणुविचक्षणा ॥’ इत्यारभ्य त्वं पूर्वस्मिन् जन्मनि सुंदरीनामकाचिद्वेश्या, त्वया वशीकृतस्त्वया सह संसर्गं कुर्वन् वर्तमानः कश्चिद्ब्राह्मणपुत्रः स्वनिमित्तं स्पर्द्धया केनचिच्छूद्रेण हिंसितः, तस्य मातापितरावेत्य ‘अस्मत्पुत्रममारयस्त्वं कसिंश्चिज्जन्मनि मातापितृविहीना क्लेशेन परितप्यसे’ इति [[शेषुः|शेपुः]], अतस्तवायं शोक आगत इत्यवोचत् । तर्हि एवं पापिष्ठाया ममोत्तमजातौ जन्मनः को हेतुरिति साऽपृच्छत्-‘शृणु तत्त्वं महाप्राज्ञे निमित्तं गदतो मम । येन त्वं ब्राह्मणस्यास्य कुले जाता महात्मनः ॥’ इत्यारभ्य ज्ञानाधिकः सर्वत्र विरक्तः सर्वत्र समदर्शी भगवद्ध्यानपरो ग्रामैकरात्रन्यायेन सर्वत्र सञ्चरन् कश्चिद्भागवत एकस्यां रात्रौ तव बहिर्वेदिकायामतिष्ठत्, तदाऽधिकारिणश्चोर इति गृहीत्वा बबंधुः, तदानीं त्वं प्रधाव्य बंधं मोचयित्वा तं भागवतं गृहे आनीयाश्वासनं कृतवती तेनेदं तव जातमितीतिहाससमुच्चयोक्तं सुव्रताख्यानम् । अथ काचित्स्त्री यमभटैरत्यंतं पीडिता आकाशे रक्षकापेक्षां कुर्वती क्रंदनं कुर्वती आगता, तदाऽश्वत्थतीर्थे चिरकालं तपः कुर्वाणा स्थिता माधवी तद्दृष्ट्वा कृपां कृत्वा स्वस्यैकदिवसकृततपःफलमस्यै प्रादादेव, यमभटा बंधुभूताः, याम्यमार्गः सुखोत्तरो जातः, यातनाशरीरं गतं विलक्षणशरीरं जातं, तां चादाय तेषु यमसन्निधिं प्राप्तेषु-‘पितेव धर्मराजोऽभूत्तस्यास्तत्प्रियदर्शनः । सांत्वयन् स महातेजा व्याजहार च तां प्रति ॥’ इति पितृवत्सन्नवदन इमां प्रति वचनमुक्तवान् यमः-‘भद्रे त्वया सुष्ठु कृतं न किंचिदिह विद्यते । इतो द्वादशजन्मनस्त्वं कश्चित्सिद्ध आविशत् ॥ विष्णुभक्तनिवासार्थं रात्र्यां तु तव वेश्मनि । तत्सन्निधानप्रभवस्तव साधुसमागमः ॥ सा हि वै ब्रह्मविदुषी श्रीमद्रंगमुपाश्रिता ॥ तत्र तीर्थोत्तमं श्रीमदश्वत्थं नाम संश्रिता । धर्मज्ञा धर्मपरमा यस्यास्ते संगमोऽभवत् ॥’ इति यो माधव्या अंगीकारस्तव जातस्तस्य हेतुस्त्वया बुद्धिपूर्वकं कृतं किंचिदपि पुण्यं नास्ति, एतज्जन्मनो द्वादशे जन्मनि एकरात्रं तव गृहे विश्रम्य गंतुं कश्चिद्भागवत आगतस्त्वत्सन्निधौ स्थित्वा गतः, तत्संन्निधानेन जातस्तवायं साधुसमागम इति पूर्वजन्मनि जातानेकाज्ञातसुकृतमेतस्याः फलस्य हेतुतयाऽवोचदिति गरुडपुराणे श्रीरंगमाहात्म्ये कथाप्रवृत्तिकं चोच्यते । संकोचं विना द्रष्टव्य इति विस्तरेण द्रष्टव्य इत्यर्थः । एतदज्ञातसुकृतहेतुना भगवत्कटाक्षस्यैवैतेषां तत्फलप्राप्तेर्हेतुत्वादज्ञातसुकृतमवलंब्येश्वरोंगीकरोतीत्यस्यैतदुदाहरणं भवेत् ।
टीका हिन्द्या
ललिताचरितादियों से इस अर्थ को विस्तारपूर्वक देख सक्ते हैं ॥ ४०१ ॥ इस अज्ञातसुकृत द्वारा ईश्वर अंगीकार करता है । इस अर्थ को कहां देख सक्ते हैं क्या इस शंका में कहते हैं-ललिताचरितादियों से इत्यादि । विदर्भराजपुत्री काशीराज की पत्नी ललितादेवी सपत्नी तीन सौ स्त्रियों से अतिसौंदर्य, पतिवश्यता, देहतेजस् और सर्वगुणसंपत्तिवाली हो अहोरात्र भगवत्संनिधि में अनेक दीपक जला उस कार्य में तत्पर हो रही थी उसको देख ‘तुमारा यह सौंदर्य और इस दीपारोपण में प्रीति इस का कारण क्या ?’ ऐसा सपत्नियों के पूंछने पर वह जातिस्मृति से जन्म लेने से ‘हे सुन्दरियो ! जो कुछ हमारा पूर्ववृत्त है उसे कहती हूँ सुनो’, ‘पूर्वकाल में सौवीरराजा का पुरोहित मैत्रेयऋषि देविका नदी के किनारे विष्णु का मंदिर बनाया और प्रतिदिन पुष्प धूप जल चन्दन दीपदान आदि से नारायण की शुश्रूषा करता भया’, ‘एक दिन कार्तिक मास में जलाया हुआ दीप परमात्मा के सामने नष्ट होने लगा । मैं उस मंदिर में मूषिका हो रहती थी दीप की बत्ती को लेजाने के लिये उद्योग करती हुई मुख से बत्ती को खींची थी इतने ही में बिल्ली पुकारी उस बिल्ली के भय से मैं मर गई । मरती हुई मेरे मुख से बत्ती खीचा जाकर दीपक प्रज्वलित हुआ । मैं मर कर विदर्भदेश के राजा की कन्यारूप से जन्म ली जातिस्मृति के साथ आप लोगों के सौंदर्यादि से श्रेष्ठ हुई । हे सुंदरियों ! कार्तिक मास में विष्णुमंदिर में जलाया हुआ दीप का यही प्रभाव है कि इच्छा के बिना भी मुझ से प्रेरित हो दीप के जलने से मैं इस फल को पा रही हूं जातिस्मृति, मनुष्यजन्म, सुन्दरशरीर और पतिवश में आपलोगों की अपेक्षा मुझ में अधिक है और जानबूझ कर दीप जलानेवाले को क्या नहीं होगा’ । श्रीविष्णुधर्म में ललिताचरित क्रम से विस्तारपूर्वक कहा गया है । आदिशब्द से-तत्त्वविद् एक ब्राह्मण की लडकी सुव्रतानामवाली वाल्यावस्था में मातृहीना हुई वह दुःख जैसा न मालूम हो तैसा परमदयालु पिता पोषण करता रहा, विवाहसमय प्राप्त होने पर पिता के देहांत होने से अत्यंतशोक से पीडित हो ‘बाल्यावस्था में जिस करके रक्षित हुई उस पिता के मरने पर मैं कदापि न जीऊंगी नदी में अग्नि में या पर्वत के ऊपर से पितृहीना निराश्रया मैं गिरूंगी’ ऐसा विचार देहत्याग में उद्युक्त होने पर ‘सर्वहितपर यमधर्मराज करुणाविष्ट हो एक वृद्धब्राह्मणरूप से प्रकट हो यह वचन कहा हे बाले ! हे विशालाक्षि ! व्याकुल हो रोना बंद करो तुम्हारा पिता अब तुम को नहीं मिलेगा इस लिये शोक मत करो’ इत्यादि वचन से उस के शोक को दूर कर ‘हे सुव्रते ! शोक को छोड सुनो-जिस कारण से माता और पिता का वियोग हुआ । पूर्वकाल में तुम सुंदरी नामक परमसुंदर वेश्या थी नृत्यगीत आदि में निपुण और वीणावेणु में चतुर थी’ ऐसा प्रारंभ कर ‘तुम एक ब्राह्मण के लडका को वश कर उस के साथ भोगती थी स्पर्द्धा के मारे तुमारे निमित्त एक शूद्र उस को वध किया उसका मातापिता हमारे लडके को मरानेवाली तूं और जन्म में मातापिता से हीन हो अत्यंतशोकातुर होगी’ ऐसा शाप देने से तुमको यह शोक उत्पन्न हुआ । यह सुन लडकी के ‘ऐसी पापिनी मैं ब्राह्मणयोनि में जन्मलेने का कारण पूछनेपर’ यमराज ‘सुन हे महाप्राज्ञे ! जिस कारण से महात्मा ब्राह्मणकुल में तुम ने जन्म लिया उस कारण को सुनो ज्ञानाधिक, निरपेक्ष, सर्वत्रसमदर्शी, भगवद्ध्यानपर, ग्रामैकरात्र न्याय से सर्वत्र संचार करनेवाले एक भागवत एक रात्रि में तुमारे घर के बाहर चबूतरा पर सोया, राजभट उस को चोर समझ बांधने पर तुम जाकर उस बंधन को छुडाई अपने घर के भीतर ला आश्वासन दिलाई उस सुकृतकर्म से यह जन्म तुमारा हुआ ।’ ऐसा इतिहाससमुच्चय में कहा हुआ सुव्रतोपाख्यान को जानना । और भी एक स्त्री यमभटों से अत्यंत पीडित हो आकाश के तरफ ‘रक्षा करनेवाले कौन हैं’ ऐसा आक्रोश करती हुई जाती थी अश्वत्थतीर्थ में चिरकाल से तपस्या करता हुआ माधवी उसको देख कृपा कर अपने एक दिन के तपस्या के फल को उसे दिया उसी बखत यमभट बंधु हो गये, याम्यमार्ग सुखोत्तर हुआ, यातनाशरीर छूट कर विलक्षणरूप धारण कर ली । इस को लेकर वे दूत लोग यमराज की सनिधि में जाने पर यमराज पिता के सदृश [[अधिनिय|शांत]] दर्शन हुआ । उस स्त्री को आश्वासन दिलाता हुआ ‘भद्रे ! तुम किसी प्रकार का सुकृत नहीं किया इस जन्म से पहिले बारहवें जन्म के अंत में विष्णुभक्तसिद्धपुरुष रात्रि में तुमारे घर वास करने के लिये आया था उन की सनिधि के प्रभाव से तुमारा साधु का संगत हुआ । तब तुम ब्रह्मज्ञानी हो श्रीरंगजी को गई वहां उत्तमोत्तम अश्वत्थ नामक तीर्थ में स्नान की, धर्मात्मा हो धर्मज्ञा हुई । तुमारा माधवी ऋषि का संबंध का हेतु तुमारा जाना हुआ कर्म नहीं’ यह कथा गारुडपुराण में श्रीरंगजी के माहात्म्य में कही गई है । इन अज्ञातसुकृतों के द्वारा होनेवाले भगवत्कटाक्ष ही इन फलों के हेतु होने से अज्ञातसुकृत द्वारा ईश्वर अंगीकार करता है ऐसा कहने में कोई दोष नहीं ।
मूलम्
एवं सर्वेश्वरः स्वनिर्हेतुककृपया संसारिचेतनोज्जीवन उद्युक्तः करणकलेवरप्रदानादिकं कृत्वा स्वाज्ञारूपशास्त्रानुगुणमेतेषु कश्चित्सुकृतविशेषं दृष्ट्वाऽङ्गीकारमार्गोऽस्ति किमिति विचार्य तदभावे सर्वमुक्तिप्रसंगवैषम्यनैर्घृण्यव्यावृत्त्यर्थमज्ञातसुकृतानि स्वयं कल्पयित्वा तानि च प्रतिजन्मपरंपरायामेकं दश कृत्वाऽङ्गीकरणप्रकारविस्तरं ‘स्वयं प्रकाशं’ इत्यस्यां गाथायामुक्तवान् । एवमज्ञातसुकृतस्याङ्गीकारहेतुत्वप्रकारं च प्रादर्शयत् ।
मूलम्
अथैतन्निर्हेतुकविषयीकारवैलक्षण्यानभिज्ञा अस्याभिमतिं कृत्वाप्येतदनुसंधानेन विद्धा न भवतीत्याह-अज्ञा मनुष्या इत्यादिना ।
मूलम्
अज्ञा मनुष्यास्तूष्णीं दत्तवानिति तिष्ठन्ति ॥ ४०२ ॥
श्लोक
अज्ञो मनुष्यस्तूष्णीं वै दत्तवानिति तिष्ठति ॥ ४०२ ॥
टीका संस्कृता
अज्ञाः-निर्हेतुकविषयीकारवैभवानभिज्ञाः । तूष्णीमेव दत्तवानिति तिष्ठंतीति-एवमुपकुरुते खल्विति अत्यंतं विस्मये कर्तव्ये तथाऽकृत्वा तूष्णीमुपकृतवानित्येतावदनुसंधाय वर्तत इत्यर्थः ।
टीका हिन्द्या
अज्ञ मनुष्य व्यर्थ ही दिया ऐसा ही समझते हैं ॥ ४०२ ॥ तथा च सर्वेश्वर अपनी निर्हेतुककृपा से संसारीचेतनों के उज्जीवन में उद्युक्त हो करणकलेवर दे स्वाज्ञारूपशास्त्रानुगुण इन के पास किंचित् सुकृतविशेष को देख अंगीकार करने को मार्ग है क्या ? ऐसा विचार उस के अभाव में सर्वमुक्तिप्रसंगवैषम्यनैर्घृण्य न आने के लिये अज्ञातसुकृतों को आपही कल्पना कर उन सुकृतों को जन्मपरंपरा में एक को दशगुण कर अंगीकार करने के प्रकार को विस्तारपूर्वक कहे हैं । अज्ञातसुकृत अंगीकार का हेतु होता है ऐसा भी दिखाये हैं । इस निर्हेतुकविषयीकार के वैभव को न जाननेवाले इस को मान कर भी इस के अनुसंधान से विद्ध नहीं होते हैं ऐसा कहते हैं—अज्ञ मनुष्य इत्यादि । अज्ञ माने-निर्हेतुकविषयीकार का वैभव नहीं जाननेवाले । व्यर्थ इत्यादि-ऐसा उपकार किया है ऐसा समझ विद्ध होना चाहिये ऐसा नहीं कर व्यर्थ उपकार किया है ऐसा समझ रहते हैं ।
मूलम्
ज्ञानिनः ‘अद्य मां पदार्थं कृत्वा स्वं मदंतः स्थापितवान्’, ‘किं पुण्यमकरवं मम हृदये भाति’, ‘मध्य आगत्योज्जीवयन् नाथः’, ‘अज्ञातज्ञापकः स्वामी’, ‘त्वत्कृतान् दासोऽहं न जानामि’, ‘अपदार्थभूतं मां पदार्थं कृत्वा दास्यं स्वीकृतवान्’, ‘मम दुष्टं मनो निवर्तितवान्’, ‘अनन्यप्रयोजनतयाऽऽश्रयन्मनो दत्तवान्’ इति विस्मितास्तिष्ठंति ॥४०३॥
श्लोक
ज्ञानिनोऽद्य मां वस्तु हि विधाय स्वं मदन्तः स्थापयित्वा । किं पुण्यं कृतं मेऽहो हृदि भात्यंतर आगत्य वै ॥ उज्जीवयन् नाथ हे अज्ञातज्ञापकस्वामिन् ! त्वत्कृतान् दासो न जाने वस्तुभूतं मां वस्तु वै ॥ कृत्वा दास्यं हसन् मे दुष्टं मनो निवर्तितवान् वै । अनन्यार्थं आश्रयन् मनोऽदादित्युत्थितास्तिष्ठन्ति ॥ ४०३ ॥
टीका संस्कृता
एतद्वैलक्षण्याभिज्ञानां विस्मयप्रकारमाह-ज्ञानिन इत्यादिना । निर्हेतुकविषयीकाराभिज्ञाः । अद्य मां पदार्थं कृत्वा स्वं मदंतः स्थापयित्वेत्यादि-‘अनादिकालमपदार्थभूतं मामद्य पदार्थं कृत्वा नित्यसूरीणामप्यतिशयिनं स्वात्मानं नित्यसंसारिणामप्यपकृष्टस्य मम हेये मनसि स्थापितवान्’, ‘महाराजवदुपरोधेन मृतः किं, मारुतिवद् दृष्टा सीतेत्यागतः किं, अथवा स्वस्थिताज्ञानुवर्तनकरणरूपविहितकर्मानुष्ठानमकरवं किं, किं पुण्यमकरवमिति मम हृदये प्रविश्यालभ्यं लब्ध्वा इव भासते’, ‘विषयप्रावण्येन गच्छति मध्य आगत्योज्जीवयन् स्वामी’, ‘ममाज्ञातज्ञापनं कृत्वा स्वामी’, ‘त्वया शेषभूते मयि कृत उपकार उपकृतवता त्वया यथा ज्ञातुं शक्यते तथाऽस्माभिर्भाषयितुं शक्यते किम्’, ‘असन्नेवेति प्रकारेणासत्कल्पतया स्थितं मां संतमेवमंगीकुर्वतः’ इत्युक्तप्रकारेण सत्तावंतमेकं वस्तु कृत्वा तादृशसत्ता यथा सुस्थिरा स्यात्तथा कैंकर्यं स्वीकृतवान्’, ‘अमृते विषे च समानतया प्रीतिकर्तृत्वत्त्वयि च क्षुद्रविषयेषु च प्रीतिं कुर्वतः’, ‘मम दुष्टं मनो निवर्तितवान्, अनन्यप्रयोजनतया त्वामनुभवितृ मनो दत्तवान्’ इति निर्हेतुकं तत्कृतानुपकारविशेषाननुसंधायात्यंतं विस्मिता भवतीत्यर्थः । अथवा अज्ञा इत्यादिवाक्यस्यापिना दत्तवानिति पाठश्चेत्-एवं सर्वेश्वरो निर्हेतुककृपया स्वोजीवनार्थं कृषिं करोतीति प्रकारमजानंतो मनुष्या असिना बलेनोजीवनं प्राप्ताः स्वेषामागतां समृद्धिम् ‘अस्माकमसिर्दत्तवान्’ इत्यनुसंधाय यथा तिष्ठति तथा निर्हेतुकभगवदंगीकारं स्वसुकृतबलेनागतमिति तिष्ठतीत्यर्थः । सकलमपि तत्कृपयागतमिति सम्यग्जानंतस्तेन निर्हेतुकं कृतानुपकारविशेषाननुसंधाय विस्मिता भवतीति प्रकारमाहेतदुत्तरवाक्यसंगतिः ।
टीका हिन्द्या
ज्ञानी लोग ‘आज हम को वस्तु बना कर अपने को हमारे भीतर में रक्खा है’, ‘कौन सुकृत हमने किया है हमारे मन में वास करते हैं’, ‘बीच में आकर उद्धार करनेवाला नाथ’, ‘अज्ञातज्ञापन करनेवाले हे पितः ! तुमारे कृत्य को मैं नहीं जानता हूं’, ‘अनार्य मुझको चीज बना दास्य स्वीकार किये हो’, ‘हमारे दुष्टमन को दूर किये हो’, ‘आदरपूर्वक भजन करनेवाले मन को दिये हो’ ऐसा विद्ध होते हैं ॥ ४०३ ॥ इस के वैभव जाननेवाले विद्ध होने का प्रकार कहते हैं-ज्ञानवान् इत्यादि । ज्ञानी माने-निर्हेतुकविषयीकारवैभव को यथार्थरीति से जाननेवाले । आज इत्यादि-अनादिकाल अवस्तुभूत मुझ को वस्तु बना नित्यसूरियों से अपरिच्छेद्य अपने को नित्यसंसारियों की अपेक्षा अतिनीच मेरे हेयभूत मन में, ‘जटायु के तरह रोक कर मरा हूं क्या ? हनुमानजी के तरह दृष्टासीता ऐसा कहता हुआ आया हूं क्या ? यद्वा अपना आज्ञानुवर्तन करने के लिये विहितकर्मों का अनुष्ठान किया हूं क्या ? कौन सुकृत किया है समझ हमारे मन में प्रवेश कर अलभ्य वस्तु को प्राप्त हुआ जैसा प्रकाश कर रहा है’, ‘विषयप्रवण हो संचार करनेवाले मुझ को बीच में आ उद्धार करनेवाले हे स्वामिन् !’ ‘हम को अज्ञातज्ञापन कर शेषभूत मेरे विषय में कृतउपकार को उपकार करनेवाले तुम ही जान सक्ते हो मैं कह सक्ता हूं क्या ?’, ‘असन्नेव इत्युक्तप्रकार असत्कल्प मुझ को एक वस्तु बना उस सत्ता को स्थिर करने के लिये कैंकर्य स्वीकार किये हो’, ‘अमृत और विष को बराबर चाहनेवाले जैसे आप और क्षुद्रविषयों को बराबर समझनेवाले हमारे दुष्टमन को दूर किया’, ‘अनन्यप्रयोजन हो आप को ही अनुभव करनेवाले मन को दिये हो’, ऐसा उन के कृतनिर्हेतुकउपकारों को अनुसंधान कर अत्यंतविद्ध होते हैं ।
मूलम्
एतन्निर्हेतुकविषयीकारस्थापकमेकमैतिह्यं स्मारयति-भाष्यकारकाल इत्यादिना ।
मूलम्
भाष्यकारकाले एकस्मिन् दिने श्रीरंगनाथस्य यात्रापर्यंतं प्रतीक्ष्य महामंडपस्याधस्ताज्ज्ञानाधिकेषु सर्वेषु समूहतया स्थितेष्वेतदर्थप्रस्तावे वार्ताः स्मर्तव्याः ॥ ४०४ ॥
श्लोक
भाष्यकारस्य काले हि कस्मिंश्चिद्दिवसे हरेः । रङ्गनाथस्य यात्रायां विलंबं वीक्ष्य ज्ञानिनः ॥ महामंडपतोऽधस्तात् समूहीभूय संस्थिताः । एतदर्थस्य प्रस्तावे ज्ञेया वार्ता हितैः कृताः ॥ ४०४ ॥
टीका संस्कृता
सकलवेदांततात्पर्याणां संशयविपर्ययौ विना प्रवृत्तियोग्ये समीचीने भाष्यकारकाले एकस्मिन् दिवसे श्रीरंगनाथस्य यात्रापर्यंतं प्रतीक्ष्य महामंडपस्याधस्ताज्ज्ञानाधिकेषु सर्वेषु समूहतया स्थितेषु तदानीमेकः श्रीवैष्णवो ‘बहुकालमिदं चेतनं केषां द्वारि तेषां निर्गमनं प्रतीक्ष्यातिष्ठदिति न ज्ञायते, अद्य प्राप्तशेषिणः स्वामिनो निर्गमनं प्रतीक्ष्यातिष्ठाम, अस्य किं सुकृतमकुर्म’ इत्यवदत् । तत्प्रसंगेन नित्यसंसारिणो भगवद्विषये रुच्युत्पत्तेर्मूलं किमिति विचारे प्रवृत्ते यादृच्छिकं सुकृतमज्ञातसुकृतमिति विचारो जातस्तदा किडांबिपेरुमाल तत्र स्थितोऽस्माकं भगवद्विषयवत् सुकृतदेव इति कश्चिदाश्रयणीयोऽस्ति किमित्यवदत् । पिल्लैतिरुनरैयूररैयर् ‘सुकृतमित्यप्यनुसंधानविषयः स एवोच्यते’ इत्यवदत् । एवमुक्ता वार्ता अत्रानुसंधेया इत्यर्थः । इयं कथा ‘दीयमानं दुःखं न निवर्तयसिचेत्’ (तरुतुयरं तडादेल्) इति गाथाव्याख्याने संग्रहेण पूर्वोक्ता खलु । अनेनाज्ञातसुकृते सत्यपि तत्फलहेतुर्न भवति, तद्व्याजं कृत्वांगीकर्ता ईश्वर एव फलहेतुरित्युक्तम् ।
टीका हिन्द्या
भाष्यकार के समय में एक दिन भगवान् के पधारने पर्यंत देखते हुवे बडे मण्डप के भीतर ज्ञानी स्वामी लोग इकट्ठे रहने के समय इस अर्थ के प्रस्तुत होने पर कही हुई वार्ताओं को स्मरण करना ॥ ४०४ ॥ इस निर्हेतुकविषयीकार को स्थिर करने के लिये एक ऐतिह्य को स्मरण कराते हैं-भाष्यकार के इत्यादि । सकलवेदांततात्पर्यार्थ संशयविपर्यय विना चलने के समय भाष्यकार के काल में एक समय भगवान के पधारने का समय देखते हुये बडे मण्डप में ज्ञानाधिक समस्त श्रीवैष्णव के इकट्ठे रहने पर उन के बीच में से एक श्रीवैष्णव ‘यह आत्मा अनादिकाल किसके द्वार में किस के पधारने की प्रतीक्षा करते हुवे रहा है मालूम नहीं, आज प्राप्तशेषी स्वामी के पधरावनी को देखता हुआ रहा है कौनसा सुकृत का फल है’ ऐसा कहने पर नित्यसंसारी इस चेतन का भगवद्विषय में रुचि उत्पन्न होने का कारण क्या ऐसा उन में विचार होने लगा, यादृच्छिकसुकृत कहनेवाले अज्ञातसुकृत कहनेवालों के बीच में किडांबिस्वामी ‘हम को भगवद्विषय के सदृश सुकृतदेव ऐसा एक देवता आश्रयणीय है क्या’ ऐसा कहने पर पिल्लैतिरुनरैयूररैयर ‘सुकृत कहे जाने वाले भगवान् ही हैं’ ऐसा कहे हैं । इन वार्ताओं को स्मरण करना । यह कथा ‘दीयमानदुःखं न निवर्तयसिचेत्’ इस गाथा के व्याख्यान में संग्रह से पूर्वाचार्य कहे हैं । इस से अज्ञातसुकृत होने पर भी वह फलहेतु नहीं उसको बहाना कर अंगीकार करनेवाले ईश्वर ही फलहेतु हैं ।
मूलम्
पूर्वोक्तमर्थं निगमयति-तस्मादित्यादिना ।
मूलम्
तस्मादज्ञातानि सुकृतान्येवावलंबनं कुर्वन् कटाक्षते ॥ ४०५ ॥
श्लोक
अतश्चाज्ञातपुण्यानि ह्यावलंब्य कटाक्षते ॥ ४०५ ॥
टीका संस्कृता
पूर्वोक्तप्रकारेण सर्वमुक्तिप्रसंगादिपरिहारार्थमेतच्चेतनाविदिततया जायमानान्कांश्चन सुकृतविशेषानैवैतदंगीकारस्यावलंबनतया स्वीकृत्य विशेषकटाक्षं करोतीत्यर्थः ।
टीका हिन्द्या
इस कारण से अज्ञातसुकृतों को अवलंबन कर ही कटाक्ष करते हैं ॥ ४०५ ॥ पूर्वोक्त अर्थ को समाप्त करते हैं-इस कारण से इत्यादि । पूर्वोक्तप्रकार से सर्वमुक्तिप्रसंगादि न होने के लिये यह चेतन न जान कर होनेवाले कई सुकृतों को इन के अंगीकार के लिये अवलंबन कर ईश्वर विशेषकटाक्ष करते हैं ।
मूलम्
एवमज्ञातसुकृतान्यपि हेतुतयादाय कटाक्षं करोति चेदंगीकारः सहेतुको न भवति किमित्यत आह-एतानि चेत्यादि ।
मूलम्
एतानि च यथा फलितानि भवंति तथा खल्विमं प्रथमतः सोऽसृजत् ॥ ४०६ ॥
श्लोक
फलितानि यथैतानि चेतनस्य भवंति वै । सोऽसृजत् कृपया स्वामी तथैनं प्रथमं खलु ॥ ४०६ ॥
टीका संस्कृता
एतानि यादृच्छिकादिसुकृतान्यप्यस्य यथा फलितानि भवंति तथा खल्वेतेषामपि योग्यता यथा न स्यात्तथा करणकलेवरविधुरमिमं सृष्टिकाले करणादीनि दत्त्वा स उत्पादितवानित्यर्थः । अनेन कटाक्षहेतुत्वेनोक्ततया यादृच्छिकादीन्यप्यस्य कृषिफलमित्युक्तम् । चशब्देन तुल्यन्यायात् ज्ञातसुकृतानामपि मूलं तस्य कृषिरित्युच्यते । अथवा वक्ष्यमाणनिरूपणविशेषाः समुच्चीयंते । सृष्टिश्चेतनकर्मानुगुणा खल्वितिचेत् कर्मकालेष्वविशेषादेव सृष्टिः क्रियते तथापि युगपत्करणमनुग्रहकार्यं हि ।
टीका हिन्द्या
ये भी इस को जैसा हो तैसा इस चेतन को पहिले वह सृष्टि किया है ॥ ४०६ ॥ इस प्रकार अज्ञातसुकृतों को भी हेतु कर कटाक्ष करने पर अंगीकार सहेतुक नहीं होगा क्या ? ऐसी शंका पर कहते हैं-ये भी इत्यादि । ये यादृच्छिकादिसुकृत इस को जैसे प्राप्त हों तैसा इस की योग्यता भी जब नहीं थी तब करणकलेवरविधुर अवस्था में सृष्टि के समय में करणादियों को दे यादृच्छिकसुकृतादि को वह उत्पादन किये हैं । इस से कटाक्षहेतुतया उक्त यादृच्छिकादि उन की कृषि का फल है । ज्ञातसुकृतफलों का भी कारण उन ही का कृषि फल है । सृष्टि चेतन का कर्मानुगुण है न ? ऐसा कहे तो कर्मानुगुण होने पर भी एक काल में सब की सृष्टि करना अनुग्रह का कार्य है ।
मूलम्
तन्निरूपितं चेदस्यैकमपि न कर्तव्यमिति वर्तते ॥ ४०७ ॥
श्लोक
तच्चेन्निरूपितं सम्यगस्यैकमपि सर्वथा । कर्तव्यं दृश्यते नैव चेत्थं वर्तनसंस्थितिः ॥ ४०७ ॥
टीका संस्कृता
तन्निरूपणेऽस्य संभाव्यमानमाह-तन्निरूपितं चेदित्यादिना । अचिदविशेषिततया स्थितिदशायामुज्जीवनोपयोगिकरणकलेवराणां परमदयया तत्कृतदानप्रकारोऽनुसंहितश्चेत् तदधीनसत्तादिकेनानेन स्वोज्जीवनांशे तत्कृतप्रकारे दृष्ट्वा स्थातव्यं न तु स्वेनाप्येका प्रवृत्तिः कर्तव्येति वर्तत इत्यर्थः ।
टीका हिन्द्या
उस को निरूपण करने पर इस चेतन का कर्तव्य कुछ नहीं है ॥ ४०७ ॥ उस के निरूपण में इस चेतन को क्या होगा उस को कहते हैं-उस को इत्यादि । अचित् के सदृश रहने की दशा में उज्जीवनोपयोगी करणकलेवरों को परमदया से परमात्मा दिये हैं इस बात को अनुसंधान करने पर तदधीन सत्तादिवाले इस चेतन को अपने उज्जीवन के विषय में उस के कृत्य को देखते रहना छोड अपने को कोई कर्तव्यांश नहीं ।
मूलम्
ईश्वरसृष्ट्याऽस्य जायमानान्यंगीकारावलंबनानि यादृच्छिकादीनि मात्रं न किं त्वन्यान्यपि कानिचित्संतीति प्रदर्शयितुं वा पूर्वोक्तानामेतेषामुत्पत्तिप्रकारमुपपादयितुं चाह-प्राचीनतयेत्यादि ।
मूलम्
प्राचीनतया कृष्यते रोप्यते फलतीत्येवं वर्तमाने क्षेत्रे विकीर्णान्यंकुरितानि फलपर्यंतानीव यथैतानि स्वत एव फलितानि भवंति तथा भक्तिकर्षकेण प्राचीनस्यास्य सृष्टिकरणप्रकारः ॥ ४०८ ॥
श्लोक
पुरातनतया कृष्टे रोपिते फलतीति वै । एवं क्षेत्रे स्थिते बीजं विकीर्यांकुरितानि च ॥ परिपाकान्तकानीवैतानि स्वेच्छात एव हि । फलितानि भवत्येवं भक्तिकर्षणहेतुना ॥ प्राचीनस्यास्य सृष्टेर्हि प्रकारः करणस्य वै ॥ ४०८ ॥
टीका संस्कृता
नवीनतया समीकरणकरणादिकं विना प्राचीनतया कृष्यते आरोप्यते फलतीत्येवं निरंतरं क्रियमाणसस्ये क्षेत्रे कर्षकेनैतन्निमित्तं कृष्यकरणेऽपि यथा विकीर्णान्यंकुरितानि संति फलपर्यंतं पर्यवस्यंति तथोपरि वक्ष्यमाणनिरूपणविशेषा वा पूर्वोक्तयादृच्छिकादीनि वा । एतदर्थकृषिर्नापेक्षितश्चेतने यथा स्वत एव भवेयुस्तथा भक्तिकर्षकेणेश्वरेण प्रवाहरूपेण वर्तमानं संसाररूपं प्राचीनक्षेत्रं सृष्ट्वा सम्यक् क्रियत इत्यर्थः ।
टीका हिन्द्या
पहिले के तरह हल से जमीन को खोदना बोना उगना आदि विशिष्ट क्षेत्र में नीचे गिरा हुआ धान्य स्वयं ऊग कर फल पर्यंत जैसा होता है तैसा ये आप ही उत्पन्न होय जैसा भक्तिकर्षक पुराणक्षेत्र को सृष्टि करने का प्रकार है ॥ ४०८ ॥ ईश्वरसृष्टि से अंगीकार के हेतु इस चेतन में होनेवाले यादृच्छिकादि मात्र नहीं और भी कई होते हैं ऐसा दिखाने को या पूर्वोक्त ये सब होने के प्रकार को उपपादन करने के लिये कहते हैं-पहिले के तरह इत्यादि । नवीनक्षेत्र विना अनादिकाल से खोदना बोना ऊगना आदिवाले क्षेत्र में कर्षक के कृषि विना भी गिरे हुवे धान्य ऊग कर फलपर्यंत जैसे होते हैं तैसे पूर्वोक्त यादृच्छिकादि विना ईश्वर के कृषि से चेतन के विषय में आपही उत्पन्न होवें तैसा भक्तिकर्षक ईश्वर प्रवाहरूपेण प्रवर्तमान संसाररूप पुराने क्षेत्र को सृष्टि करने का प्रकार ।
मूलम्
तानि कानीति चेत् ॥ ४०९ ॥
श्लोक
पूर्वकर्मफलं भुक्त्वा चिरकालं तथोत्तरे ।
टीका संस्कृता
एतानीति पूर्वोक्तं विशदीकर्तुं तद्विषये प्रश्नमनुवदति-तानीत्यादिना ।
टीका हिन्द्या
वे कौन हैं इस शंका में ॥ ४०९ ॥ ‘ये’ करके पूर्वोक्त को स्पष्ट करने के लिये तद्विषयप्रश्न को अनुवाद करते हैं-वे इत्यादि ।
मूलम्
पूर्वकृतपुण्यापुण्यफलानि चिरकालं भुक्त्वोत्तरकाले वासनामादाय प्रवर्तनयोग्यकार्यशून्यदशायां वयं केऽस्मत्स्थितिः कीदृश्यस्माकमुपरि गन्तव्यं किमिति जायमानाः केचन निरूपणविशेषाः संति ते वा पूर्वोक्तानि वा ॥ ४१० ॥
श्लोक
काले हि वासनां गृह्य वर्तनायोग्यकालके । वयं केऽस्म स्थितिः का वै किं गन्तव्यं ममोपरि ॥ जायमाना इतीयं वै निरूपणविशेषकाः । संति केचन ते वा किं पूर्वोक्तानि भवंति वा ॥ ४१० ॥
टीका संस्कृता
तस्योत्तरमाह-पूर्वकृतेत्यादिना । पूर्वकृतपुण्यापुण्यरूपकर्मद्वयस्य च फलानि स्वर्गनरकादिभिर्बहुकालमनुभूय उपरितनकाले पूर्वकर्मवासनामादाय पुण्यपापरूपकर्मसु प्रवृत्तिः कर्तव्येति वक्तुं योग्यतया स्वच्छकर्मणः कर्मफलानुभवे कार्याभावदशायां परिदृश्यमानदेहा वा देहातिरिक्ता वा स्वतंत्रा वा परतंत्रा वा के वयं नाशयोग्यतया स्थिता वा जीवनयोग्यतया स्थिता वाऽस्माकं स्थितिः कीदृशीति, एवं स्थितानामस्माकमुपर्युज्जीवनयोग्यगंतव्यप्रकारः क इति स्वत एव जायमानाः केचन निरूपणविशेषाः संति तादृशनिरूपणविशेषा वा, पूर्वोक्तानि यादृच्छिकादिसुकृतानि वेत्यर्थः ।
टीका हिन्द्या
पूर्वकृतपुण्यापुण्यफलों को चिरकाल भोग कर उत्तरकाल में वासना के साथ प्रवृत्त होगा ऐसा कहने योग्य हस्तच्युत दशा में हम कौन हमारी स्थिति क्या हमें आगे जाने का मार्ग कौन ऐसा कई निरूपणविशेष होते हैं ये, या पूर्वोक्त यादृच्छिकादि हैं ॥ ४१० ॥ उस का उत्तर देते हैं-पूर्वकृत इत्यादि । पूर्वकृतपुण्यपापरूपकर्मद्वय के फलों को स्वर्गनरकादियों में दीर्घकाल भोग कर आगे के काल में पूर्वकर्मवासना ले पुण्यपापकर्मों में प्रवृत्त होगा ऐसा कहने योग्य स्वच्छकर्मा हो कर्मफलानुभव में हाथ खींच कर रहने की दशा में ‘दीखनेवाला देह हूं क्या ? देहातिरिक्त हूं क्या ? स्वतंत्र हूं क्या ? परतंत्र हूं क्या ? मैं कौन हूं ? ऐसा नष्ट होनेवाला हूं अथवा उज्जीवन को प्राप्त होनेवाला हूं ? हमारी स्थिति कौन सी ?’ ऐसा, इस प्रकार रहनेवाले हम को अतः पर उज्जीवन का मार्ग कौन ? ऐसा भी अपने आप कई निरूपणविशेष होते हैं । या पूर्वोक्त यादृच्छिकादिसुकृत होते हैं ।
मूलम्
एतन्निर्हेतुकविषयकारक्रमः शास्त्रे कुत्र उक्त इत्यत आह-‘यथा हि मोषकाः पान्थ’ इत्यादिना ।
मूलम्
‘यथा हि मोषकाः पान्थ’ इत्यारभ्यास्य क्रमो भगवच्छास्त्र उक्तः ॥ ४११ ॥
श्लोक
‘यथा हि मोषकाः पांथे’ इत्यारभ्यास्य वै क्रमः । भगवच्छास्त्रमुख्येषु कथितः पूर्वसत्तमैः ॥ ४११ ॥
टीका संस्कृता
भगवच्छास्त्रमष्टोत्तरशतसंहितात्मकं वर्तते । तत्रैकाहिर्बुध्न्यसंहिता । ‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्’ इत्युक्तप्रकारेण सर्वस्यादिवक्ता भगवान्, तथापि तत्तत्संहितानामांतरवक्तारश्च संति । तत्रास्याः संहिताया अहिर्बुध्न्यसंज्ञको रुद्रो वक्ता तस्मादियमहिर्बुध्न्यसंहितेत्युच्यते । अस्यां संहितायां ‘सूक्ष्मविषयज्ञानविशिष्टनीलकंठः स्वामी’ इत्युक्तप्रकारेण सत्त्वोद्रेके सूक्ष्मदर्शिनं रुद्रं देवर्षिब्रह्मवित्तमः श्रीनारदभगवान् गत्वानुवर्त्य स्वसंशयान् सर्वानपृच्छत, तस्मिन्निर्णयं कुर्वति चतुर्दशाध्याये एतत्कृतप्रश्नस्योत्तरतया संसारमोक्षहेतुर्निग्रहशक्तिरनुग्रहशक्तिश्चेति सर्वेश्वरस्य द्वे शक्ती स्तः इति प्रतिज्ञां कृत्वा तत्र-‘तिरोधानकरी शक्तिः सा निग्रहसमाह्वया । पुमांसं जीवसंज्ञं सा तिरोधापयति स्वयम् ॥’ इति निग्रहात्मकया शक्त्या तिरोहितस्वस्वरूपादिकस्य जीवात्मनः संसरणप्रकारं विस्तरेण प्रतिपाद्य अनंतरमनुग्रहात्मिकया शक्त्या संसारान्मुक्तो भवतीति प्रतिपादयितुं-‘एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥ समीक्षितस्तु दासोऽयं करुणावर्षरूपया । कर्मसाम्यं भजत्येव जीवो विष्णुसमीक्षया ॥ शक्तिभावः स वै जीवमुत्तारयति संसृतेः । कर्मणीव समे तत्र तूष्णींभावमुपागते ॥’ इति संसारचक्रस्थदुःखाकुलजीवविषये सर्वेश्वरस्य काऽपि कृपा जायत इति प्रकारं तादृशकृपाहेतुना जायमानतत्कटाक्षस्य विषयभूतः सन् कर्मसाम्यं भजत इत्यमुमर्थं तादृशानुग्रहात्मिकायाः शक्तेः सद्भावोऽमुं संसारादुत्तारयतीत्यमुमर्थं पूर्वकर्मसाम्यमित्यस्य तात्पर्यं च संग्रहेणोक्तत्वात्-‘यथा हि मोषकाः पांथे परिवर्हमुपेयुषि । निवृत्तमोषणोद्योगास्तदा संत उदासते ॥ अनुग्रहात्मिकायास्तु शक्तेः पातक्षणे तदा । उदासीने समीभूय कर्मणी ते शुभाशुभे ॥ तत्पातानंतरे जंतुर्युक्तो मोक्षसमीक्षया । वर्तमानवैराग्यो विवेकाभिनिवेशवान् ॥ आगमाननुसंचिंत्य गुरूनप्युपसद्य च । लब्धसत्तः प्रकारैस्तैः प्रबुद्धो बोधपालनः ॥’ इत्याद्यध्यायशेषेण मार्गगामिनि संभारं निधायापावृत्ते तिष्ठति तस्य संभारमपहर्तुमुद्योगं कुर्वतस्तस्करास्तं संभारं तस्मिन्नागत्य गृह्णति सति यथा निवृत्तमोषणोद्योगाः संतस्तदोदासीनास्तिष्ठंति तथैव च भगवदनुग्रहशक्तिर्यदेतस्मिन्नागच्छति तस्मिन् क्षणेऽमुमात्मानं स्वमार्गे आक्रष्टुं स्थिते पुण्यपापकर्मणी अमुं नाकृष्योदासीने तिष्ठतः, तादृशानुग्रहात्मिकायाः शक्तेः स्वविषये पातानंतरमयं चेतनो मोक्षसमीक्षायुक्तः प्रवर्तमानवैराग्यो विवेकाभिनिवेशी शास्त्रप्रवणः सदाचार्यसमाश्रयणं कृत्वा लब्धसत्ताको लब्धज्ञानस्तादृशज्ञानं रक्षन् सारग्राही समुचितोपायपरिग्रहेण संसारादुत्तीर्णः परमपदं प्राप्नोतीत्यवोचत् खलु । तस्माद्यथा हि मोषकाः पांथे इत्यारभ्यैतन्निर्हेतुकविषयीकारस्य क्रम प्रमाणे भगवच्छास्त्र उक्त इत्यर्थः ।
टीका हिन्द्या
‘यथा हि मोषकाः पान्थे’ इत्यारभ्य इस के क्रम को भगवच्छास्त्र में कहा है ॥ ४११ ॥ इस निर्हेतुकविषयीकारक्रम को शास्त्र में कहां कहा है इस शंका में कहते हैं-यथा हि इत्यादि । भगवच्छास्त्र-पांचरात्र को कहते हैं वह १०८ संहितारूप से है उन में अहिर्बुध्न्यसंहिता एक है संपूर्ण पंचरात्र का वक्ता भगवान होने पर भी तत्तत्संहिताओं के अवांतरवक्ता भी हैं । उन में इस संहिता का अहिर्बुध्न्यनामक रुद्र वक्ता होने से इस को अहिर्बुध्न्यसंहिता कहते हैं । इस में सत्त्वोद्रिक्तदशा में सूक्ष्मदर्शी रुद्र के देवर्षि ब्रह्मविदग्रेसर श्रीनारद भगवान् अनुवर्तन कर अपने सर्वसंशयों को पूछने पर वह रुद्रनिर्णय करते भये । १४ वां अध्याय में नारदकृतप्रश्न का उत्तरतया संसारमोक्षहेतुत्वेन निग्रहशक्ति अनुग्रहशक्ति नामक सर्वेश्वर की दो शक्ति हैं । निग्रहात्मिकाशक्ति जीवात्मा के स्वरूप को ढक उस को संसारी बनाती है ऐसा विस्तारपूर्वक उपपादन कर अनंतर अनुग्रहस्वरूपशक्ति से संसार से मुक्त होने के प्रकार का प्रतिपादन करते हुवे ‘संसारचक्रस्थितदुःखाकुल जीवात्मा के ऊपर सर्वेश्वर की कृपा उत्पन्न होती है । उस कृपा के द्वारा उस के कटाक्ष का विषय हो यह चेतन कर्मसाम्य को पाता है । वह अनुग्रहात्मिकाशक्ति इस चेतन को संसार से उद्धार करती है’ पूर्वोक्त कर्मसाम्य को संग्रह से कह ‘पथिक को देख छिप कर रहने के समय उस बोझ को अपहार करने के लिये उद्योग करनेवाले चोर लोग उस बोझ को वह पथिक आकर लेते देख अपहार करने के उद्योग को छोड जैसा उदासीन हो जाते हैं तैसा भगवदनुग्रहशक्ति इस चेतन के पास आनेपर इस को अपने मार्ग में खींचने वाले पुण्यपाप कर्म इस को छोड उदासीन होते हैं । वह अनुग्रहात्मिकाशक्ति अपने पास आते ही यह चेतन मोक्षरुचिवाला हो प्रवृत्तवैराग्यवाला होकर विवेक में आशा करते हुवे शास्त्र में प्रवण हो सदाचार्यसमाश्रयण कर सत्ता को प्राप्त हो ज्ञान को प्राप्त हो उस ज्ञान की रक्षा करते हुवे सारग्राही हो उचितउपाय को स्वीकार कर संसार से उत्तीर्ण हो परमपद को प्राप्त होता है’ ऐसा रुद्र ने कहा है । इस लिये ये लोकाचार्यस्वामी निर्हेतुकविषयीकारक्रम को आप्तप्रमाणभूत भगवच्छास्त्र में कहा है ऐसा कहते हैं ।
मूलम्
एवं शास्त्रोक्तिमात्रं विना निर्हेतुकविषयीकारस्य साक्षाज्ज्ञानभूत आप्ततमाग्रेसरः श्रीपरांकुशोऽमुमर्थं विशदमवोचदित्याह-अकांडमेवेत्यादिना ।
मूलम्
‘अकांडमेव कृपां करोति’ इत्यमुमर्थं स्पष्टमवोचत् ॥ ४१२ ॥
श्लोक
कृपां करोत्यकांडं चेत्यमुमर्थमबोधयत् ॥ ४१२ ॥
टीका संस्कृता
अकांडमेव कृपां करोतीति-निर्हेतुकं कृपां करोतीत्यर्थः । अमुमर्थं स्पष्टमवोचदिति-एतन्निर्हेतुकविषयीकाररूपरहस्यार्थं संशयविपर्ययनिवृत्तिपूर्वकं सर्वे यथा जानीयुस्तथा प्रकाशमवोचदित्यर्थः ।
टीका हिन्द्या
‘निर्हेतुकही कृपा करते हैं’ ऐसा इस अर्थ को स्पष्टतया कहे हैं ॥ ४१२ ॥ इस प्रकार शास्त्र में उक्तमात्र बिना निर्हेतुकविषयीकार का साक्षाज्ज्ञानभूत आप्ततमअग्रसर शठकोपसूरि इस अर्थ को स्पष्टतया कहे हैं ऐसा कहते हैं-निर्हेतुक इत्यादि । इस निर्हेतुकविषयीकाररूपरहस्यार्थ को संशयविपर्ययरहित सब लोग जानें जैसे स्पष्टतया कहे हैं ।
मूलम्
तद्दिव्यसूक्त्यनंतरोक्ताभिप्रायानभिज्ञानां शंकामनूद्य परिहरति-कुर्वतामित्यादिना ।
मूलम्
‘कुर्वतां’ इति कृपाया हेतुः सुकृतमित्युक्तिर्नास्ति किमिति चेद् ‘अकांडमेव’ इत्यस्य विरोधः ॥ ४१३ ॥
श्लोक
कुर्वतोऽतः कृपाहेतुः सुकृतं नेति चेत्किमु । एवं तदाऽकांडमेवेत्यस्य स्यात्प्रतिरोधकः ॥ ४१३ ॥
टीका संस्कृता
भगवदाभिमुख्यं सुकृतेन न जायते किंतु भगवत्कृपया, अद्वेषः सुकृतेनेति चेत्तस्य फलविशेषस्य तत् कारणमिति वक्तुं न शक्यते ॥ ४१४ ॥
टीका हिन्द्या
‘करनेवालों को’ ऐसा कृपा का हेतु सुकृत है ऐसा कहा है न ? इस शंका में : ‘तब ‘निर्हेतुक’ यह पद संगत नहीं होसक्ता ॥ ४१३ ॥ उस दिव्यसूक्ति के अनंतर सूक्ति में अभिप्राय को नहीं जाननेवालों की शंका को अनुवाद कर परिहार करते हैं-करनेवालों को इत्यादि । कृपा करते हैं इस के अनंतर किसपर इस आकांक्षा में कृपा के उपयुक्त भगवान के मुखोल्लास के लिये कुछ कृत्य करनेवाले पर ऐसा कहने से उस के कृपा करने का हेतु चेतनकृतसुकृत ऐसा कहा है न ? इस शंका पर :-ऐसा कहने पर निर्हेतुकपद संगत नहीं होगा इस लिये करनेवाले को माने:-आप जिन पर कृपा करने को चाहते हैं ऐसा अर्थ कर लेना । आभिमुख्य का भगवत्कृपा कारण है अद्वेष का सुकृत कारण है ऐसा समझ कहनेवालों के वचन को अनुवाद करते हैं-भगवदाभिमुख्य इत्यादि ।
मूलम्
भगवदाभिमुख्यं सुकृतेन न जायते किंतु भगवत्कृपया, अद्वेषः सुकृतेनेति चेत्तस्य फलविशेषस्य तत्कारणमिति वक्तुं न शक्यते ॥ ४१४ ॥
श्लोक
भगवदाभिमुख्यं न सुकृतेनैव जन्यते । किंतु श्रीशकृपाधीनोऽद्वेषः समुपजायते ॥ सुकृतेनेति चेदस्य फलभेदस्य कारणम् । तद्भवेदिति नो वक्तुं शक्यते नयकोविदैः ॥ ४१४ ॥
टीका संस्कृता
अनादिकालं विमुखस्यास्य चेतनस्य भगवद्विषये जायमानाभिमुख्यमेतत्सुकृतनिबंधनं न भवति किंतु केवलभगवत्कृपया जायते । तत्पूर्वभाव्यद्वेषः सुकृतेन जायते इत्युक्तौ अखिलात्मगुणादेरात्मोज्जीवनांकुरस्य भगवदद्वेषरूपस्यास्य फलविशेषस्यातिक्षुद्रं यादृच्छिकादिसुकृतं कारणमिति न वक्तुं शक्यत इत्यर्थः । तस्मादद्वेषस्य भगवत्कृपैव कारणमिति वक्तव्यमिति भावः ।
टीका हिन्द्या
भगवदाभिमुख्य सुकृत से नहीं भगवत्कृपा से उत्पन्न होता है अद्वेष सुकृत से उत्पन्न होता है ऐसा कहने पर उस फलविशेष का उस को साधन नहीं कर सक्ते ॥ ४१४ ॥ अनादिकाल से विमुख हुआ यह चेतन भगवद्विषय में अभिमुख होना सुकृत के कारण से नहीं केवल भगवत्कृपा से उस के पहिले होनेवाला अद्वेष सुकृत से उत्पन्न होता है ऐसा कहने पर अखिलात्मगुणों के कारण आत्मोञ्जीवन का अंकुर भगवदद्वेषरूप इस महाफल का अति क्षुद्र यादृच्छिकादिसुकृत के कारण करके नहीं कह सक्ते हैं । इस लिये अद्वेष का भी भगवत्कृपा ही कारण है ऐसा कहना चाहिये ।
मूलम्
शास्त्राविहितस्यास्मदज्ञातस्य सुकृतमित्यस्माभिर्नाम कथं क्रियते इति चेन्न, वयमीश्वर इति श्रुतम् ॥ ४१५ ॥
श्लोक
शास्त्रेणाविदितस्यास्य सोऽप्यविदितस्य च । सुकृतमित्ययमस्माभिः कथं नाम प्रकीर्त्यते ॥ इति चेन्न वयं किंतु हरिरित्थं श्रुतं हि नः ॥ ४१५ ॥
टीका संस्कृता
शास्त्राविहितानां चेतनाविदितानामेतेषां यादृच्छिकादीनां सुकृतमिति नाम कर्तायमित्यमुमर्थं शंकापरिहाररूपेणाह-तस्येत्यादिना । ‘इदं कुर्यात्’ इति शास्त्रेण विहितानामेतत्सुकृतमकुर्मेति कर्तृभूतैश्चेतनैर्बुद्धिपूर्वकमनुष्ठितमेकं खलु सुकृतमित्युच्यते, तथैतत्कुर्यादिति शास्त्रेणाविहितानामेतत्सुकृतमकुर्मेति तत्तत्कर्तृभिरस्माभिरप्यविदितानामेतेषां यादृच्छिकादीनां सुकृतमित्यस्माभिर्नाम कथं क्रियत इति चेदेतेषां सुकृतमिति न वयं नाम कुर्मः किंतु सर्वमुक्तिप्रसंगपरिहारार्थं सर्वज्ञ ईश्वरः सुकृतमिति नामाकरोदिति तत्त्वदर्शिभिराचार्यैरुक्तमस्माभिः श्रुतमित्यर्थः ।
टीका हिन्द्या
शास्त्र भी विधान न कर हम भी नहीं जाने हुवे इस को सुकृत ऐसा हम नाम कैसे रख सक्ते हैं इस शंका में :- हम नहीं ईश्वर रक्खा है ऐसा सुनते हैं ॥ ४१५ ॥ शास्त्र में विहित न हो चेतन से ज्ञात न होनेवाले इस यादृच्छिकादि को सुकृत के नाम देने वाले अमुक हैं ऐसा कहते हैं-शास्त्र भी इत्यादि । ‘इदं कुर्यात्’ ऐसा शास्त्रविहित कर्तृभूत चेतन से बुद्धिपूर्वक अनुष्ठित कर्म को सुकृत कहते हैं ‘इस को करें’ ऐसा शास्त्र नहीं विधान कर ‘अमुक सुकृत किये हैं’ ऐसा चेतन न जानकर होनेवाले इस यादृच्छिकादि को सुकृत नाम से हम कैसे कह सक्ते हैं ? इस शंका में : इस को सुकृत नाम रखनेवाले हम नहीं, सर्वमुक्तिप्रसंग न होने के लिये सर्वज्ञ ईश्वर ‘सुकृत’ करके नाम रक्खा है ऐसा तत्त्वदर्शी आचार्यों के मुख से हम सुने हैं ।
मूलम्
एवं पूर्वमकांडमेव कृपां करोतीति अज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानं प्राप्तष्वग्रेसरेण परांकुशेन निर्हेतुकविषयीकाररूपोऽयमर्थो विशदमुक्त इति प्रदर्श्य तदुपर्यागताशंकापरिहारांश्चाकरोत् ।
मूलम्
एतदर्थविषयतया दिव्यसूरीणां गाथासु परस्परविरोध इव भासते तत्र वक्तव्यान् परिहारानन्यांश्च वक्तव्यान् विस्तारभयान्न वदामः ॥ ४१६ ॥
श्लोक
एतदर्थमुपष्टभ्य दिव्यसूरिवचःसु च । दृश्यते बाध्यबाधकता तत्रोक्तव्यान् तथापरान् । परिहारांश्च वक्तव्यान् अन्यान् विस्तारभीतितः ॥ ४१६ ॥
टीका संस्कृता
अथैतदर्थविषयत्वेन दिव्यसूरीणां गाथास्वन्योन्यविरुद्धवत्प्रतीयमानस्य परिहारस्यैतदर्थस्थापकतयाऽन्येषां वाऽपि कर्तव्यानां प्रमाणतर्काणामत्र स्वेनानुक्तेर्हेतुमाह-एतदर्थविषयतयेत्यादिना । निर्हेतुकविषयीकाररूपैतदर्थविषयतयैतद्विषयीकारविषयाणामज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानं प्राप्तानां दिव्यसूरीणां भगवदंगीकारप्रकाशकेषु गाथासु ‘अकांडमेव कृपां करोति’, ‘किं पुण्यमकरवम्’, ‘मम हृदये भाति’, ‘तिरुमालिरुंशोलैमलै इत्यवदम्’, इति ‘माधव इत्युक्तिमेवादाय’ इति ‘समीचीनधर्मं न कृतवान्’ इति ‘बहुजन्मव्रतमकरवम्’ इति ‘अहं केन तपसा पश्यामि’ इति ‘अहमेव तपः कृतवान्’ इत्यादिभिर्भगवदंगीकारहेतुरेकोऽपि स्वेषु नास्तीत्युक्तिरस्तीतिवच्चोक्तिर्वर्तते, अतो भावानभिज्ञानां परस्परं विरोध इव भासते इत्यर्थः । तत्र वक्तव्याः परिहारा नाम-‘माधवस्य’, ‘पर्वतः’ इत्यस्य व्यावृत्त्युक्तिमात्रत्वात्तदारोप्यागत्योपरिपतंती भगवत्कृपैवांगीकारहेतुस्तानि तु न हेतुरिति सिद्धम् । ‘बहुजन्मव्रतमकरवम्’ इति-मम बहुजन्महेतुतयाऽहं साधनानुष्ठानमकरवमिति स्वनिकर्ष उक्तः, अनेकजन्मानि त्वां प्राप्तुं साधनानुष्ठानमकरवमिति नार्थः । ‘अहमेव तपः कृतवान्’ इति महाद्राविडागमप्रबंधरूपश्लाघ्यमालायाः परस्परसदृशचरणयोरेकविषयतयाऽर्पणकरणजन्यप्रीत्यतिशयेनास्मत्सदृशो भाग्यकर्ता नास्तीत्येतत्फललाभवतः स्वस्य श्लाघामात्रमित्येवं प्रकारेण निर्हेतुकवचनविरोधो यथा न स्यात्तथा सहेतुकत्ववद्भासमानानां वक्तव्यान् परिहारान् । अन्यान् वक्तव्यान्-अन्यान् एतन्निर्हेतुकत्वस्थापनार्थं वक्तव्यान्-‘एवं संसृतिचक्रस्थे भ्राम्यमाणे स्वकर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्युपजायते ॥’, ‘निर्हेतुककटाक्षेण मदीयेन महामते । आचार्यविषयीकारात्प्राप्नुवंति परां गतिम् ॥’, ‘नासौ पुरुषकारेण न चाप्यन्येन हेतुना । केवलं स्वेच्छयैवाहं प्रेक्ष्ये कंचित्कदाचन ॥’ इत्यादिप्रमाणानि एतदनुग्राहकांस्तर्कांश्च । विस्तरभयेन न वदाम इति-एतेषां सर्वेषामुक्तावपि ग्रंथविस्तारः स्यादिति भयेन न वदाम इत्यर्थः ।
टीका हिन्द्या
इस अर्थ के विषय में सूरियों के गाथाओं में परस्पर विरुद्ध के माफक दीखेंगे उन में कहे जानेवाले परिहार और अवश्यवक्तव्यों को भी विस्तार के डर से नहीं कहते हैं ॥ ४१६ ॥ निर्हेतुकविषयीकाररूप इस अर्थ के विषय में इस विषयीकार के पात्रभूत सर्वज्ञसूरियों के भगवदंगीकारप्रकाशक गाथाओं में ‘निर्हेतुक कृपा करते हैं’, ‘क्या सुकृत मैं किया हूं हमारे मन में वास करते हैं’, ‘सुंदरबाहुपर्वत के नाम कहा हूं’, ‘माधव इस उक्तिमात्र को ले’, ‘कोई सुकृत मैंने नहीं किया’, ‘बहुजन्मों में व्रतानुष्ठान किया हूं’, ‘हम किस तपस्या से देखेंगे’, ‘हमहीने तपस्या किया है’ इत्यादियों से भगवदंगीकारहेतु एक भी अपने पास नहीं है ऐसा कहना अपने पास किंचित है ऐसा कहना इस तरह के वचनों के अभिप्राय को नहीं जाननेवालों को परस्परविरुद्ध के माफक भासमान होयंगे । उन में कहे जाने वाले परिहार-‘माधव’, ‘पर्वत’ ये व्यावृत्तिउक्ति मात्र होने से उन को आरोपण कर ऊपर आ गिरनेवाली भगवत्कृपा ही अंगीकार का हेतु है वे हेतु नहीं हैं यह बात सिद्ध है । ‘बहुजन्मों में व्रतानुष्ठान किया हूं’ माने : बहुजन्म लेने के लिये साधनानुष्ठान किया हूं ऐसा अर्थ, ‘मैंने ही तपस्या किया हूं’ :–माने-सुंदरद्राविडमालाचरणारविंदों में कहने के भाग्यवान् हुआ हूं ऐसी प्रीति से हमारे सदृश भाग्यवान् और कोई नहीं है ऐसा इस महाफल को प्राप्त हुये अपने को प्रशंसा करलिये इतना ही । इन वचनों में निर्हेतुकवचनविरोध न होने के लिये सहेतुकवत् भासमान होनेवालों का परिहार कहे गये समझना । और अवश्य वक्तव्य माने:-इस निर्हेतुकता के स्थापनार्थ अवश्यवक्तव्य:-‘इस प्रकार संसारचक्र में दुःख से व्याकुल हो घूमनेवाला चेतन के ऊपर विष्णु की निर्हेतुककृपा उत्पन्न होती है’, ‘हे महामते ! हमारे निर्हेतुककटाक्ष से होनेवाली आचार्यविषयीकार से परगति को प्राप्त होते हैं’, ‘मैं पुरुषकार से या और किसी हेतु से भी कटाक्ष नहीं करता हूं केवल अपनी इच्छा से ही कभी किसी पर कटाक्ष करता हूं’ इत्यादि प्रमाणों को जानना । विस्तारभय से इत्यादि:-ये सब कहने से ग्रंथ विस्तार हो जायगा इस भय से नहीं कहते हैं ।
मूलम्
एवं पूर्वं भगवद्गुणानुसंधानमभयहेतुरिति प्रतिज्ञाया उपपादकतया त्रिपाद्विभूतावित्यारभ्यैतावतेश्वरेणैतदात्मनो जीवनस्य विमुखदशायामपि कृषिकरणप्रकारं विस्तरेणावोचत्, तन्निगमयति-तस्मादित्यादिना ।
मूलम्
तस्मादस्य विमुखदशायामप्युज्जीवनार्थं कृषिं कुर्वाण ईश्वरेऽनुसंहिते सदा निर्भरस्तिष्ठेत् ॥ ४१७ ॥
श्लोक
तस्मादस्य च वैमुख्यदशायामपि जीवने । कृषिकृतिं हरौ ध्याते निर्भरः सततं भवेत् ॥ ४१७॥
टीका संस्कृता
ईश्वरस्यैतदात्मजीवनार्थं कृषिकरणप्रकारस्यैतादृशत्वात् एवं चेतनस्य विषये वैमुख्यावस्थायामप्येतदुज्जीवनार्थं कृषिं कुर्वाणे गुणाधिके तस्मिन्ननुसंहिते ‘एवंभूतः स एतदवस्थावान् कृत्वाऽस्मान्कर्मानुगुणं न संसारयती’ ति तद्गुणविश्वासेन सर्वकालमपि निर्भरस्तिष्ठेदित्येतावदेव न, भयप्रसंगो नास्तीत्यर्थः ।
टीका हिन्द्या
इस लिये इस की विमुखदशा में भी उज्जीवन के लिये कृषि करनेवाले ईश्वर का अनुसंधान करने पर सदा निर्भर हो रह सका है ॥ ४१७ ॥ तथा च भगवद्गुणानुसंधान अभयहेतु इस प्रतिज्ञा को उपपादकतया ‘त्रिपाद्विभूतौ’ ऐसा आरंभ कर यहां तक ईश्वर इस आत्मा के उज्जीवनार्थ विमुखदशा से ले कृषि करता है इस बात को विस्तारपूर्वक कहे हैं उसी को समाप्त करते हैं-इस लिये इत्यादि । ईश्वर इस आत्मा के उज्जीवन के लिये कृषि करने का प्रकार यह होने से एवं इस चेतन अपने विषय में विमुख होने की अवस्था में भी इस के उज्जीवन के लिये कृषि करनेवाले गुणाधिक उस के अनुसंधान करनेपर ‘एवंभूत वह हम को इस अवस्थावाला बना कर्मानुगुण संसारी नहीं बनायेगा’ ऐसा उस के गुण में विश्वास से सर्वकाल भी निर्भर रहेगा इतना ही, भयप्रसंग नहीं है ।
मूलम्
विमुखतादशायामप्युज्जीवनार्थं कृषिं कुर्वाणे ईश्वरेऽनुसंहिते इति स्वेन पूर्वोक्तार्थे दृढार्थं ज्ञानाधिकानामनुसंधानविशेषमाह-अग्रे व्यापने प्रविश्येत्यादिना ।
मूलम्
‘अग्रे व्यापने प्रविश्य’ एकं ग्रहीतुं विचार्य यथा ग्रामं रुंधंति तथा व्याप्तिरपि सृष्ट्यवतारादिवत्स्वार्थेति हि ज्ञानाधिकानामनुसंधानम् ॥ ४१८ ॥
श्लोक
व्यापनेऽग्रे प्रविश्यैकं ग्रहीतुं तु विचार्य हि । यथा ग्रामं निरुन्धन्ति तथा व्याप्तिरुदाहृता ॥ सृष्ट्यवतारवत् स्वार्थेत्येवं ज्ञानाधिकाः कथाः ॥४१८॥
टीका संस्कृता
अग्रे व्यापने प्रविश्येति-मम च्यवनं यथा न स्यात्तथा दृष्टस्थलं सर्वं स्वयमेवेति व्यापने प्रविश्येत्यर्थः । ‘अग्रे व्यापने’ इत्यस्यावतारपरतयाऽन्यैर्व्याख्यातत्वेऽपि अत्रायमिदानीं व्याप्तिपरत्वेन वदंति । अनेकयोजनाः संति खलु । तस्य दृष्टांतं ‘एकं ग्रहीतुं विचार्य यथा ग्रामं रुंधंति’ इति-यथैकं ग्रहीतुमिच्छावतः सोऽलक्ष्यच्युतिर्गृहीतव्य इत्यभिनिवेशेन ग्रामं रुंधति तथैकस्यात्मनोऽंगीकारार्थं सकलचेतनाचेतनेषु व्याप्तिं कृत्वा तिष्ठति । अतो व्याप्तिश्च स्वार्थेति खलु ज्ञानाधिकानामनुसंधानमिति वदति । व्याप्तिरपीति-सर्वसत्ताहेतुः साऽपीत्यर्थः । सृष्ट्यवतारादीनां स्वार्थतयाऽनुसंधानं सिद्धवत्कृत्यास्य दृष्टांततयाऽऽह-सृष्ट्यवतारवदिति । ‘त्रिविधनीरभूमौ’ प्रथमगाथायां सृष्टिं स्वार्थतया, द्वितीयगाथायां तृतीयगाथायां चावतारान् स्वार्थतया स स्वयमेवानुसंहितवान् खलु । अवतारादीत्यत्रादिशब्देन गुणचेष्टिताद्युच्यते ।
टीका हिन्द्या
‘सामने रोक कर’, ‘एक मनुष्य को पकडनेका विचार कर ग्राम को घेरनेवाले के तरह’ ईश्वर की व्याप्ति है । सृष्टि अवतारादियों के तरह स्वार्थतया ज्ञानाधिक लोग अनुसंधान करते हैं ॥ ४१८ ॥ विमुखदशा में भी उज्जीवन के लिये कृषि करनेवाले ईश्वर का अनुसंधान किये तो’ ऐसा पहिले कहे हुवे अर्थ में विश्वास होनेके लिये ज्ञानाधिक का अनुसंधानविशेष को कहते हैं-सामने इत्यादि । ‘सामने रोक कर’-‘हम को बचाकर भागनेको अशक्य दृष्टस्थल सर्वत्र जैसा आप ही हो’ तैसा व्याप्ति में अंतर्गत हो कर । यह वाक्य अवतारपरतया पूर्वाचार्यों से व्याख्यान किया गया तब भी इस स्थल में व्याप्तिपरतया कहते हैं । ‘एक मनुष्य को पकडनेका विचार कर ग्राम को घेरनेवाले के तरह’-एक आदमी को पकडने की इच्छा करनेवाला उस को जरूर पकड़ने में आग्रह से जैसा उस ग्राम को घेरता है तैसा एक आत्मा को वश करनेके लिये सकलचेतनाचेतनों में व्याप्त हो रहते हैं । इस कारण व्याप्ति भी अपनेलिये ऐसा ज्ञानाधिक लोग समझते हैं । व्याप्ति भी ऐसा कहने से सर्वसत्ताहेतुभूत वह ऐसा अर्थ है । सृष्टि अवतारादियों को स्वार्थतया अनुसंधान करना सिद्ध हुआ । इस का दृष्टांत कहते हैं—सृष्टि इत्यादि । ‘त्रिविधजलपृथिवी’ इस दशक के पहिली गाथा में सृष्टि को स्वार्थतया, दूसरी और तीसरी गाथा में अवतारों को स्वार्थतया यह शठकोपसूरि अनुसंधान किये हैं । आदिशब्द से गुणचेष्टितादियों को लेना ।
मूलम्
एवमस्य वैमुख्यदशायामपि सृष्ट्यवतारादिभिरस्योजीवनस्य तेन कृषिः क्रियते स्वस्य निर्हेतुककृपया खलु, तादृशकृपाफलमस्यावश्यानुभाव्यमित्यमुमर्थं सदृष्टांतं वदन् पूर्वं ‘निर्भरस्तिष्ठेद्’ इत्युक्तं स्थिरीकरोति-कर्मफलवदित्यादिना ।
मूलम्
कर्मफलवत्कृपाफलमप्यनुभाव्यमेव ॥ ४१९ ॥
श्लोक
यथा कर्मफलं लोके सर्वैरप्यनुभूयते । अनुभाव्यं तथा लोके कृपायाः फलमुत्तमम् ॥ ४१९ ॥
टीका संस्कृता
स्वकृतपुण्यपापकर्मफलमवश्यमनुभोक्तव्यमित्युक्तप्रकारेण यथावश्यमनुभाव्यमेव भवति तथा नित्यसंसारहेतुकर्म दूरीकृत्य नित्यसूरिभिः समानभोगिनं कर्तुं हेतुभूतायास्तस्य कृपायाः फलमिच्छाभावेऽप्यवश्यमनुभोक्तव्यमित्यर्थः ।
टीका हिन्द्या
कर्मफल के तरह कृपाफल भी अवश्य अनुभोक्तव्य है ॥ ४१९ ॥ इस प्रकार इसके विमुख होने की दशा में भी सृष्ट्यवतारादियों से इस के उज्जीवन के लिये वह कृषि करता है अपनी निर्हेतुककृपा से । तादृश कृपाफल इस चेतन को अवश्यानुभाव्य है इस अर्थ को दृष्टांतपूर्वक कहते हुए पहिले ‘निर्भर होना चाहिये’ ऐसा कथित अर्थ को स्थिर करते हैं—कर्मफल के तरह इत्यादि । स्वकृतपुण्यपापरूपकर्मफल जैसा अवश्य अनुभोक्तव्य है तैसा नित्यसंसारहेतुकर्म को दूर कर नित्यसूरियों के साथ समानभोगभागी बनानेका हेतु उस के कृपा का फल इस की इच्छा विना भी अवश्यअनुभोक्तव्य होता है ।
मूलम्
एवंभूतकृपाया अनादित्वेऽपि कर्मकर्तुश्चेतनस्य तत्फलदातुरीश्वरस्य च स्वातन्त्र्याभ्यां निरुद्धा खलु स्थिता, इतः परमपि तथा भवति चेत् किं स्यादित्यत आह-कृपा निःसरति चेदित्यादि ।
मूलम्
कृपा निस्सरति चेदुभयोरपि स्वातंत्र्येण यथा निरोद्धुं न शक्यते तथोभयकूलमप्युपमृद्य प्रवहति ॥ ४२० ॥
श्लोक
कृपानिस्सरणे चोभौ स्वातंत्र्येण यथा नहि । शक्नुयातां निरोद्धुं वै तथा कूलद्वयं स्वयम् । उपमृद्य महावेगा पावनी याति निर्भया ॥ ४२० ॥
टीका संस्कृता
कृपागुणः निरंकुशस्वतंत्र ईश्वरः स्वकृतमर्यादायामागतश्चेदंगीकुर्यामित्येतच्चेतनं कर्मानुगुणं निर्वहेदिति चेत् उभयोरपि स्वातंत्र्येण निरुद्धो भवेत्, तादृशमर्यादायामागमनाभावेन दुर्गतिमेवावलंबनं कृत्वा स एवांगीकर्तुमुपयुक्तत्वेन निःसरति चेत् स्वाश्रयस्येश्वरस्य चेतनकर्मानुगुणं निर्वाहः कार्य इति स्वातंत्र्येण, स्वविषयस्य चेतनस्य ‘श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते’ इत्युक्तप्रकारेणेश्वराज्ञामतिलंध्य स्थातुं हेतुभूतेन स्वातंत्र्येण च यथा निरोद्धुं न शक्यते तथा ‘विधिरासन्नो निरोधकः कः’ इत्युक्तप्रकारेणोभयस्वातंत्र्यरूपोभयकूलमपि यथा नष्टं स्यात्तथैकमर्यादां विनोपर्युपरि प्रवहतीत्यर्थः ।
टीका हिन्द्या
कृपा बहने पर दोनों के स्वातंत्र्य से भी जैसा न रोकी जाय तैसा दोनों कूल को तोड़कर बहेगी ॥ ४२० ॥ एवंभूत कृपा अनादिकाल से होनेपर भी कर्मकर्ता चेतन, तत्फलदाता ईश्वर इन दोनों के स्वातंत्र्य से रुकी रही, अब आगे भी ऐसा ही रुक गई तो क्या होगा ? इस शंका में कहते हैं-कृपा इत्यादि । कृपागुण निरंकुशस्वतंत्र ईश्वर अपनी आज्ञा में आनेपर अंगीकार करेंगे ऐसा इस चेतन का कर्मानुगुण निर्वाह करने के समय दोनों के स्वातंत्र्य से रोकी जाती है इतना ही । उस आज्ञा में नहीं आने से दुर्गति ही को अवलंबन कर इस चेतन को वही ऊपर गिर अंगीकार करने के उपयुक्त कृपा बहने पर स्वाश्रय ईश्वर का ‘चेतनकर्मानुगुण ही निर्वाह करेंगे’ ऐसे स्वातंत्र्य से भी, अपने विषय चेतन का श्रुतिस्मृतिरूप ईश्वर की आज्ञा को उल्लंघन करनेका हेतु स्वातंत्र्य से भी रोक नहीं जायगी । ‘कृपा बहनेपर कौन रोक सक्ता है’ इस वचनानुसार उभयस्वातंत्र्यरूप दोनों किनारों को तोड़ती हुई ऊपर ऊपर बहेगी तो रोकनेवाला कौन ?
Of course. Here is the remainder of the text, starting from Sutra 421 and continuing to the final Sutra of the document.
मूलम्
प्रकरणादौ भयाभयहेतुतयोक्तस्वदोषभगवद्गुणयोर्मध्ये कर्मकारुण्ययोः प्रधानत्वात्तदुपपादितवान् पूर्वं, तन्निगमयति-भयहेतुरित्यादिना ।
मूलम्
भयहेतुः कर्म, अभयहेतुः कारुण्यम् ॥४२१॥
श्लोक
भयहेतुर्भवेत्कर्माभयहेतुः कृपा स्मृता ।
टीका संस्कृता
ईश्वर एवोपायोपेयाविति स्थितस्याधिकारिणोऽस्येतः परमपि संसारोऽनुवर्तते चेत् किं कर्तव्यमिति भयस्य हेतुरनादिकालं संसारकारणस्वकर्मस्मरणं, ‘चक्रवत्परिवर्तमानं जन्मसमीप आगच्छेत्किम्’ इत्युक्तप्रकारेण संसारोऽस्माकं नागच्छेत्, शरीरावसाने भगवत्प्राप्तौ बाधा नास्तीति निर्भयं स्थितेर्हेतुः कर्मादृष्ट्वांगीकृत्य संसारं निर्मूलं कृत्वा स्वचरणौ प्रापयितुमुपयुक्ततन्निर्हेतुककारुण्यस्मरणमित्यर्थः । ‘स्वदोषानुसंधानं’, ‘भगवद्गुणानुसंधानं’ इत्यारभ्य तन्निगमनस्थलरूपत्वात्कर्मकारुण्यमित्यत्र स्मरणपर्यंतं विवक्षितम् ।
टीका हिन्द्या
भयहेतु कर्म, अभयहेतु कारुण्य ॥ ४२१ ॥ प्रकरण के आदि में भयाभयहेतुतया कहेगये स्वदोषभगवद्गुणों में कर्म और कारुण्य प्रधान होने से उन को उपपादन पहिले किये हैं, अब समाप्त करते हैं—भयहेतु इत्यादि । ईश्वर ही उपाय है ऐसे रहनेवाले अधिकारी को और भी संसार अनुवर्तन किये तो क्या किया जाय ऐसा भय का हेतु-अनादिकालसंसार का कारणभूत अपने कर्म का स्मरण । संसार हमारे पर्यंत नहीं आ सकेगा शरीरावसान में भगवत्प्राप्ति में संशय नहीं, ऐसा निर्भय होनेका हेतु-कर्म को न देख अंगीकार कर संसार का मूलच्छेद कर अपने चरणों में मिलालेनेके उपयुक्त उस के निर्हेतुककारुण्य का स्मरण ।
मूलम्
भयाभयोभयमपि पर्यायेण प्राप्तिपर्यंतं स्यात् ॥ ४२२ ॥
श्लोक
भयाभयोभयं तावत्पर्यायेण प्रवर्तते ॥ यावच्छ्रीनाथसम्प्राप्तिर्हस्तामलकवत्तु हि ॥ ४२२ ॥
टीका संस्कृता
एतद्भयाभयोभयमप्यस्य कियत्पर्यंतं भवेदित्यत आह-भयाभयोभयमपीत्यादिना । भगवत्कृपाविषयभवनानंतरमपि प्रकृत्या स्थितत्वादनादिकालं संसरणहेतुस्वकर्मानुसंधानस्तद्दृष्ट्वांगीकृतवतो भगवतः कारुण्यमनुसंधानश्च खल्वयमधिकारी तिष्ठति, तत्र कर्मानुसंधानसमये भयं कारुण्यानुसंधानसमयेऽभयं च द्वयमपि पर्यायेण प्रकृतिसंबंधनिवृत्तिपूर्वकं भगवत्प्राप्तिकरणपर्यंतं गच्छतीत्यर्थः ।
टीका हिन्द्या
भयाभय दोनों बदल बदल कर प्राप्तिपर्यंत रहेंगे ॥ ४२२ ॥ ये भयाभय दोनों इस चेतन को कहांतक चलेंगे इस प्रश्न में कहते हैं-भयाभय इत्यादि । भगवत्कृपा का विषय प्रकृति के साथ रहनेसे अनादिकालसंसार का हेतु अपने कर्म का स्मरण करना, उन को न देख अंगीकार करनेवाले भगवान् के कारुण्य को अनुसंधान करना यह दोनों इस अधिकारी के स्वरूप हैं, उन मे कर्म का अनुसंधान करने के समय भय भी, कारुण्य का अनुसंधान करनेके समय अभय भी, ये दोनों बदल बदल कर प्रकृतिसंबंध से मुक्त हों भगवत्प्राप्ति के लाभ होने पर्यंत अनुवर्तमान होयंगे ।
मूलम्
एवमुभयमपि पर्यायेण प्राप्तिपर्यंतं किमर्थं गच्छति ? तद्गुणविश्वासेन सदैकरीत्या निर्भार्यः स्थातुं न शक्यते किमित्यत आह-निवर्त्येत्यादि ।
मूलम्
निवर्त्यज्ञानं भयहेतुः, निवर्तकज्ञानमभयहेतुः ॥४२३॥
श्लोक
निवर्त्यधीस्तु भीतेर्हि हेतुर्भवति सर्वथा । ज्ञानं निवर्तकस्याशु भयाभावस्य कारणम् ॥ ४२३ ॥
टीका संस्कृता
तस्य कारुण्यनिवर्त्यानामविद्याकर्मवासनारुचिप्रकृतिसंबन्धानां ज्ञानं, एतेषां सत्वादितः परमपि संसार आक्रमते चेत्किं कर्तव्यमिति भयहेतुरित्यर्थः । ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इति सर्वेश्वरो यथेमानि नाशयेत्तथा करोतीत्यत एतस्य निवर्तकभूतसर्वेश्वरस्य कारुण्यविषयज्ञानं तद्भयराहित्यहेतुरित्यर्थः । निवर्तकबलं ज्ञातेऽपि निवर्त्यस्थितिपर्यंतमुभयमपि मध्ये मिलित्वा गच्छतीति भावः । एवमनेन प्रकरणेनास्य भयाभयहेतुः, तदुभयविपर्यये सिद्धयमानं, तन्निबंधनशङ्कापरिहाराः, सर्वेश्वरेण संसार्युज्जीवनार्थं कृषिकरणप्रकारः, अज्ञातसुकृतभगवदंगीकारहेतुत्वं, एतन्निर्हेतुकविषयीकारवैभवानभिज्ञानां प्रकारः, एतद्विषयिकाभिज्ञानां प्रकारः, अयमर्थोऽभियुक्तवचनसिद्ध इत्यर्थः, अज्ञातसुकृतव्याजेन तेनांगीकरणप्रकारः, अंगीकारहेतूनामज्ञातसुकृतानां तत्कृषिफलत्वं, तन्निरूपणफलितं, अंगीकारावलंबनानां कादाचित्कतया स्वयमेवोत्पादने मूलं, तद्द्वैविध्यं, एवंभूतविषयीकारशास्त्रसिद्धत्वं, एतद्विषयीकारं प्राप्तानामेतद्विषये स्पष्टोक्तिः, एतदनभिज्ञवचनपरिहारः, आभिमुख्यवदद्वेषस्यापि तत्कृपाजनितत्वं, यादृच्छिकादीनां सुकृतत्वमीश्वरकृतमित्यर्थः, एतदर्थविषयाभियुक्तवचनपरस्परविरोधपरिहाराद्यनुक्तिहेतुः, पूर्वं विस्तरेणोपपादितस्य फलितं, तदाप्तिहेतुतया ज्ञानाधिकानुसंधानं, निर्हेतुककृपाफलावश्यानुभाव्यत्वं, ईदृशकृपाप्रवाहदुर्निवारत्वं, प्रकरणादिप्रतिज्ञातार्थनिगमनं, भयाभयानुवर्तनकालावधिः, एतदुभयहेतुभूतज्ञानविशेषौ चोक्ताः, अतोऽस्याधिकारिणोऽद्वेषादिमोक्षपर्यंताखिललाभहेतुर्भगवदाकस्मिककृपाप्रभावो विस्तरेण प्रतिपादितः । अनेन द्वयोपदेष्टृभूताचार्योपसत्यादीनां तदुपदिष्टद्वयार्थज्ञानादीनां च हेतुभूतभगवन्निर्हेतुककृपावैभव उक्तः ।
टीका हिन्द्या
निवर्त्यज्ञान भयहेतु, निवर्तकज्ञान अभयहेतु ॥ ४२३॥ इस प्रकार दोनों बदल बदल कर प्राप्तिपर्यंत क्यों अनुवर्तमान होयंगे ? उस के गुण के विश्वास से सदा निर्भय नहीं रह सक्ते हैं क्या ? इस शंका में कहते हैं—निवर्त्यज्ञान इत्यादि । उस के कारुण्य से निवृत्तहोने योग्य अविद्या, कर्म, वासना, रुचि, प्रकृतिसंबंध विषयज्ञान ये सब रहनेसे और भी संसार अनुवर्तन किये तो क्या किया जाय ऐसा भय का हेतु है । ‘सर्वपापों से छुडाऊंगा’ ऐसा कहनेवाले सर्वेश्वर के कारुण्यविषयज्ञान अभय का हेतु है । निवर्तक के बल को जाननेपर भी निवर्त्य जब तक रहेगा तबतक भय भी बीच बीच में मिल कर सतावेगा । तथा च इस प्रकरण से इस चेतन के भयाभय के हेतु, उस के विपरीत समझने में होनेवाला अनिष्ट, तन्निमित्तशंकापरिहार, सर्वेश्वर के संसारियों के उज्जीवन में कृषि करनेका प्रकार, अज्ञातसुकृत भगवदंगीकारहेतुत्व, इस निर्हेतुकविषयीकारवैभव को न जाननेवालों के प्रकार, एतद्वैभव को जाननेवालों के प्रकार, यह अर्थ आप्तवचनसिद्ध, अज्ञातसुकृतव्याज से ईश्वर के अंगीकारप्रकार, अंगीकारहेतु अज्ञातसुकृत उनकी कृषिका फल, उस के निरूपण से फलित, अंगीकार के उपयुक्त कदाचित् स्वयमेव उत्पन्न होने का कारण उन की दो प्रकारता, एवंभूत विषयीकार का शास्त्रसिद्धत्व, इस विषयीकार को प्राप्त होनेवालों के विशदवचन, एतदनभिज्ञवचनपरिहार, आभिमुख्य के तरह अद्वेष भी उस की कृपा से होता है, यादृच्छिकादियों को सुकृत कहनेवाले ईश्वर, एतदर्थविषय आप्तवचनों में परस्परविरोधपरिहारों के नहीं करनेमें हेतु, पूर्व विस्तारपूर्वक उपपादन किया हुआ का फल, उस की आप्ति के हेतुतया ज्ञानाधिकों का अनुसंधान, निर्हेतुककृपाफल का अवश्यअनुभाव्यत्व, ईदृशकृपाप्रवाह का दुर्निवारत्व, प्रकरणादिप्रतिज्ञातअर्थों की समाप्ति, भयाभयानुवर्तनकाल का अवधि, एतदुभयहेतुभूतज्ञानविशेष, इन सब को कहने से इस अधिकारी का अद्वेषादिमोक्षपर्यंतअखिललाभहेतु भगवन्निर्हेतुककृपाप्रभाव विस्ताररूप से प्रतिपादन किया गया । इस से द्वयोपदेष्टृआचार्य की सेवादि और तदुपदिष्टद्वयार्थज्ञानादियों का भी हेतुभूत भगवन्निर्हेतुककृपावैभव कहा गया ।
मूलम्
अस्मिन् प्रबन्धे उपक्रममारभ्यैतावता सिद्धोपायभूतसर्वेश्वर एव चेतनानां परमपुरुषार्थलक्षणमोक्षसिद्धेर्निरपेक्षसाधनमित्युक्तवोपायभूतस्य सर्वेश्वरस्य कर्मनिबन्धनेन संसारिणं कर्तुं कारुण्यनिबंधनेन मुक्तं च कर्तुं समर्थनिरंकुशस्वतंत्रत्वात्तमुपायतयाश्रित्य वर्तमानानां स्वकर्मानुसंधानेन तत्कारुण्यानुसंधानेन चागते भयाभये यावत्प्राप्तिं पर्यायेण वर्तेते इत्यमुमर्थमवोचत् । इतःपरं ‘साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम्’ इति ‘श्रीमहालक्ष्मीवल्लभः स्वयमेवाचार्यो भूत्वा’ इति चोक्तत्वात्तादृशसिद्धोपायबहिर्भूतत्वं विना तच्चरमावधिः, बंधमोक्षयोरुभयोरपि मध्यस्थत्वं विना मोक्षैकहेतुत्वात्तन्निष्ठानां भयप्रसंगं विना सदा निर्भयस्थितेर्मूलं चरमावधिस्वरूपप्राप्ययोरनुरूपश्चरमोपायः सदाचार्याभिमान एवेति सकलवेदांतसारवित्तमैः पूर्वाचार्यैः स्वेषां शरणत्वेनानुसंधानायोपदिष्टं रहस्यार्थं सर्वे ज्ञात्वा यथोज्जीवेयुस्तथा प्रबंधशेषेण सुस्पष्टं वदति ।
मूलम्
तत्रैवं भयाभययोरुभयोः पर्यायेणानुवर्तनं विना सदैकाकारतया निर्भयं स्थातुमुपयुक्तः कश्चन मार्गो नास्ति किमित्याकांक्षायामाह-स्वतंत्रस्येत्यादि ।
मूलम्
स्वतंत्रस्योपायत्वेनाश्रयणकाले एवं खल्वयं प्रसंगोऽस्ति ॥ ४२४ ॥
श्लोक
स्वतंत्रस्य हरेरेवोपायेनाश्रयणक्षणे । एवं खलु प्रसंगो हि वर्तते शास्त्रसम्मतः ॥ ४२४ ॥
टीका संस्कृता
कर्मानुगुणं संसारयितुं कारुण्यानुगुणं संसारनिवृत्तिं कृत्वा चरणौ प्रापयितुं च शक्तेरूपेण स्वतंत्रस्येष्टानिष्टप्राप्तिपरिहारयोरुपायत्वेनाश्रयणकाले एव खल्वयमिति भयाभये पर्यायेण स्यातामित्ययं प्रसंगोऽस्तीत्यर्थः । परतंत्रस्वरूपस्य मोक्षैकहेतोराचार्यस्योपायत्वेन स्वीकारेऽयं प्रसंगो नास्ति सतत निर्भयस्तिष्ठेदिति भावः ।
टीका हिन्द्या
स्वतंत्र को उपायतया आश्रयण करनेपर ही भयाभय का प्रसंग होता है ॥ ४२४ ॥ इस प्रबंध में उपक्रम से ले यहां तक सिद्धोपायभूत सर्वेश्वर ही चेतन का परमपुरुषार्थलक्षणमोक्षसिद्धि के लिये निरपेक्षसाधन है, ऐसा कह उपायभूत सर्वेश्वर कर्मद्वारा संसारी बनाने को भी कारुण्यद्वारा मुक्तबनाने को भी समर्थ निरंकुशस्वतंत्र होनेसे उन को उपायतया आश्रयण करनेवालों को स्वकर्मानुसंधान से भी उस के कारुण्यानुसंधान से भी होनेवाले भयाभय मोक्षपर्यंत बराबर होते रहेगा ऐसा पहिले कहे हैं, अब ‘साक्षात् देव नारायण मनुष्यशरीर धारण कर’, ‘श्रियःपति आप ही गुरु हो’ इत्यादि वचन से उस सिद्धोपाय से बहिर्भूत न हो उस का चरमविधि हो बंधमोक्ष दोनों का समान न हो मोक्षैकहेतु होने से तन्निष्ठों को भय का प्रसंग न हो सदा एक प्रकार से निर्भयता हो सक्ती है तादृश चरमावधिभूत स्वरूपप्राप्यों के अनुरूप चरमोपाय सदाचार्याभिमान ही है ऐसा सकलवेदांतसारवित्तम पूर्वाचार्य अपने उपायतया अनुसंधान कर उपदेश करते हुवे रहस्यार्थ को संपूर्ण लोग जान उज्जीवित हो ऐसा समझ इस प्रबंधशेष से इस अर्थ को स्पष्टतया कहते हैं । इस प्रकार भयाभय दोनों बराबर न हो सदा निर्भय होने का एक मार्ग नहीं है क्या ? इस आकांक्षा में कहते हैं—स्वतंत्र इत्यादि । कर्मानुगुण संसारी बनाना, कारुण्यानुगुण संसार से अलग कर श्रीचरणों में मिला लेना इन दोनों के समर्थ निरंकुशस्वतंत्र ईश्वर को इष्टानिष्टप्राप्तिपरिहारों के उपायतया आश्रयण करनेपर ही मोक्ष तक भयाभय दोनों बराबर होते रहेंगे ऐसा प्रसंग है । परतंत्रस्वरूपमोक्षैकहेतु अपने आचार्य को उपायतया आश्रयण करने से यह प्रसंग नहीं, सदा निर्भय हो सक्ता है ।
मूलम्
भोजनकाले एकां वार्तां भोजनाभावकाले एकां वार्तां च वदंतो दश संति हि, तेषां गाथा आदायायमर्थो न निश्चीयते ॥ ४२५॥
श्लोक
एकां वार्तां भोगस्य काले चैका तदन्यथा । वदंत इति दिक् [[सन्ति|संति]] तच्छ्रीसूक्तं प्रगृह्य वै । निश्चीयते हि नायमर्थस्तत्सूक्तेरव्यवस्थया ॥ ४२५ ॥
टीका संस्कृता
प्रमाणात्प्रमेयनिश्चयः कर्तव्यः, असमर्थं केन निश्चिनुम इत्याकांक्षायामाह-भोजनकाल इत्यादि । अज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानं प्राप्तानां भगवदनुभवैकधारकाणां दिव्यसूरीणां भोजनकालभोजनाभावकालौ नाम-भगवदनुभवतदलाभकालौ । तत्र भगवदनुभवं कृत्वा यदा हृष्टा भवति तदा तद्दास्यविवृद्धिकामतया तदीयदास्येऽवगाह्य ‘प्रतिजन्मावकाशं मां दासत्वेन स्वीकुर्वतः परमाः’, ‘प्रतिदिनं प्रतिजन्मावकाशमस्मान् दासत्वेन स्वीकुर्वतो नाथाः सर्वदाऽस्मान् रक्षंत उपकारकाः’, ‘अपर्याप्त अस्मान् दासत्वेन स्वीकृत्य जन्मांतरेषु रक्षंतः’, ‘उज्जीवयंतो विश्वसनीयाः’, ‘जन्मजन्मन्यपकृष्टकुलोत्पन्ना अपि’, ‘तद्दासा लघुमहामनुष्या मां दासत्वेन स्वीकुर्वतोऽत्र संचरंति’, ‘रक्तकमलसदृशनेत्रयुक्तश्रीवामनस्यात्यंतपरिमलयुक्तसद्योविकसितकमलचरणयोरधस्तात्प्रवेशः सदृशः किं पापस्य मम’, ‘चिंतनोपयुक्तमनस्कास्त एव मम स्वामिनः’, ‘ज्ञानस्य प्रकाशमानस्वरूपं चिंतयंतो नायकाः’, ‘आदरेणाश्रयत आश्रयं समीचीनहृदयम्’, ‘महापुरुषस्य नामोच्चारयतो महतः कदापि विश्लेषयितुं न शक्तोऽस्मि’, ‘नेत्राभ्यां सम्यग्दृष्ट्वा हस्ताभ्यामाश्रयंतो यदा चिंतयंति तदा पापं न तिष्ठति’, ‘गोष्ठीं दृष्ट्वा चेदिदमेव युष्माकं नेत्रयोः फलं’, ‘भक्तचरणरजोऽवगाहने प्राप्ते गंगाजलस्नानानुरागेण किम्’, ‘आनंदपूरितरक्तचरणौ स्तुत्वा वर्द्धयति मन्मनः’ इत्यादिभिस्तद्विषयादपि तदीया एवास्माकं शेषिण उपायोपेयभूता इत्यादरं कृत्वा वदंति । यदा भगवदलाभखिन्ना भवंति तदा परमशेषिषु परमप्राप्यभूतेषु तदीयेषु सन्निहितेष्वपि तेषु हृदयस्यावगाहनाभावेन भगवद्विषय एव प्राप्यः प्रापकश्चेति निश्चित्य ‘द्रष्टुमागच्छ’, ‘द्रष्टुं प्रकारं वद’, ‘रेखायुक्तं क्रूरं धनुर्नामयन्स्वामी नागतः किं कुर्याम्’, ‘युद्धे हिंसकबाणं प्रेरयन्नस्मत्स्वामी नागच्छति हंत’, ‘वासुदेव ! त्वदागमनं प्रतीक्ष्य प्रवाहसैकते रोदिमि’ इत्यादिभिरार्तिपरवशा अनवरतं वदंति, प्रणयरोषं कुर्वंति । ‘क्रूरपक्षविशिष्टपक्षी’, ‘युष्माभिरस्माकं प्रसंगो नास्ति’ इत्यादिभिरुपालभंते, त्यजंतीत्येवं स्थितत्वाद्भोजनकाल एकां वार्तां भोजनाभावकाल एकां वार्तां च वदंतीत्युक्तम् । सूरीणां सर्वेषामेकप्रकृतिकत्वादैककंठ्याच्च दश संतीत्युक्तम् । तेषां गाथा आदायायमर्थो न निश्चीयत इति-अज्ञाननिवृत्तिपूर्वकानंदरूपापन्नज्ञानं प्राप्तत्वात्प्रथमपर्वापेक्षया चरमपर्वस्य विद्यमानमाधिक्यं सर्वं विशदं दृष्ट्वाऽवदन्, तथापि चरमपर्वैकनिष्ठां विना प्रथमपर्वेऽभिनिवेशेन तदनुभवहृष्टतासमये एकं वदंति, तदलाभखिन्नतासमये एकं वदंति, तस्मादेकप्रकाररहितानां गाथा आदाय न क्रियते आचार्य एवोपाय इत्येतदर्थनिश्चय इत्यर्थः ।
टीका हिन्द्या
भोजन करचुकने पर एक वार्ता नहीं करने पर एक वार्ता कहनेवाले दश हैं, उन के गाथा को लेकर इस अर्थ को नहीं निश्चय करते हैं ॥ ४२५ ॥ प्रमाण से प्रमेय का निश्चय होता है, इस अर्थ को किस प्रमाण से निश्चय कर सक्ते हैं इस आकांक्षा में कहते हैं—भोजन कर चुकने पर इत्यादि । अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] प्राप्त भगवदनुभवैकधारक सूरियों को भोजन करना भोजन नहीं करना माने-भगवदनुभव और उस के अलाभ के समय । उस में भगवदनुभव कर हृष्ट होने के समय उस के दास्यवृद्धिकामना से तदीयों के दास्य में दृढ हो ‘प्रतिजन्म हमारे दास्य स्वीकार करने के योग्य स्वामी हैं’, ‘प्रतिजन्म हमारे मालिक हैं’, ‘भविष्यत् और वर्तमान में हमारी रक्षा करनेवाले मालिक हैं’, ‘आयास विना हम को रक्षा कर जन्मजन्मांतरों में रक्षा करेंगे’, ‘सुकृत को बढाकर हम को प्रतिदिन उज्जीवित करनेवाले स्वामी हैं’, ‘हमारे बहुत जन्म में वंदनीय मालिक हैं’, ‘उन के दास लघुमहामनुष्य हो हम को रक्षा करते हुए यहां संचार करते हैं तो कमलनेत्र वामनभगवान् के सुंदरकमलसदृश चरणारविंदों के नीचे प्रवेश करना प्राप्य होगा क्या ? पापी को ऐसा’, ‘जो लोग उन के स्मरण करते हैं वे ही हम को रक्षा करेंगे’, ‘ज्ञानरूपी तेजःपुंजवस्तु को स्मरण करनेवाले हमारे मालिक हैं’, ‘आदरपूर्वक सेवा करनेवालों को आदरपूर्वक सेवा करो हे हमारे मन’, ‘सहस्रनामवाले के नाम अभ्यास करनेवाले महात्माओं को एक क्षण भी नहीं छोड सकता हूं’, ‘नेत्र से देख द्रवीभूत हो हाथों से सेवा करनेवालों को दर्शन करनेपर मृत्यु नहीं भक्षण करेगी पाप नहीं घेरेंगे’ ऐसा, ‘समूह को देखने का भाग्य हो तो वही नेत्र का फल है’, ‘भक्तों के चरणधूलि में स्नान करने पावे तो गंगाजल में अवगाहन करनेसे क्या होगा’, ‘आनंदपानेवाले दासों के चरणों को मंगलाशासन करता है हमारा मन’ इत्यादिओं से परमात्मा की अपेक्षा उन के भक्त ही हमारे शेषी और उपायोपेयभूत भी हैं ऐसा अत्यादरपूर्वक कहना, भगवदनुभव के अलाभ से क्लेश पानेके समय तादृशपरमशेषीपरमप्राप्यप्रापकभूत तदीय समीप में रहनेपर भी उन के विषय में मन नहीं लगकर भगवद्विषय को ही प्राप्य और प्रापक समझ ‘देखने को आओ’, ‘देखने की उपाय बताओ’, ‘रेखायुक्त क्रूर धनुष को चलानेवाले कुमार भी आया नहीं क्या करूं’, ‘केशरहित क्रूरबाणों को संधान करनेवाले हमारे मालिक भी नहीं आता है तो’, ‘वासुदेव तुमारे आगमन को देख सुंदररेती के ढेर पर रो रही हूं’ इत्यादियों से आर्तिपरवश हो रोना, प्रणयकलह करना, ‘क्रूरपक्षपक्षी’, ‘तुम से हमारा संबंध नहीं’ इत्यादियों से ऊब जाना, झटक देना, आदि करनेसे भोजन करनेपर एक वार्ता नहीं करनेपर एकवार्ता कहनेवाले ऐसा कहते हैं । सबही सूरि एक स्वभाववाले एककंठ होनेसे दश हैं ऐसा कहते हैं । उनकी गाथा लेकर इस अर्थ को नहीं निश्चय करते हैं इति-अज्ञाननिवृत्तिपूर्वक [[मत्यानंद|ज्ञानानंद]] प्राप्त होनेसे प्रथमपर्व की अपेक्षा चरमपर्व की अधिकता को अच्छी तरह से देख कहने पर भी चरमपर्व के निष्ठावाले न हो प्रथमपर्व में मग्न हो उन के अनुभव से हृष्ट होनेके समय एकवार्ता, उस के अलाभ से क्लेश पाने के समय एकवार्ता कहना, एक प्रकार नहीं रहना इत्यादि से उन की गाथा को लेकर नहीं आचार्य ही उपाय हैं इस अर्थ को निश्चय करते हैं ।
मूलम्
पुनः कस्य गाथामादाय निश्चीयत इत्यत आह-तानित्यादि ।
मूलम्
तान् विहस्य तिष्ठति खल्वेकस्तस्य गाथामादायामुमर्थं निश्चिनुमः ॥ ४२६ ॥
श्लोक
तद्विहस्य स्थितस्त्वेकस्तच्छ्रीसूक्तं श्रुतं मया । सम्यक् ततोऽमुमर्थं तु निश्चिनुमो वयं खलु ॥ ४२६ ॥
टीका संस्कृता
‘तस्य स्पृहणीयचरणौ निरंतरमाश्रितः’, ‘अन्यं देवं न जानामि’ इति स्वाचार्यपरांकुशस्य चरणावेव प्राप्यत्वेन प्रापकत्वेन च निरंतरमाश्रित्याविदितान्यदेवतः ‘जिह्वया संकीर्त्यानंदं प्राप्तवान्’ इति तत्संकीर्तनानंदभरेण ‘दासश्चतुरो जातः’ इत्यनुरूपाश्रयणरूपचातुर्ययुक्ततया स्थितत्वात्, चरमपर्वे आधिक्यं ज्ञात्वोक्तावपि तदेकनिष्ठां विना प्रथमपर्वेऽभिनिवेशेन तद्वैलक्षण्यपरवशान् भोजनसमय एकवार्तां भोजनाभावसमय एकवार्तां च वदतो दिव्यसूरीन्दश वदन् ‘प्रथमं कस्यचिदाचार्यस्य चरणावाश्रित्यानवरतसुखितया स्थित्यलाभात्स्वसौंदर्येण व्यामोहयद्भगवद्विषये प्रथमतः प्रविश्य तदनुभवदशायामेकमुक्त्वा तदलाभदशायामेकमुक्त्वा तैरनुभूयमानावस्था कीदृशीति’ परिहस्य स्थितः श्रीमधुरकविरेकोऽस्ति खलु, चरमपर्वैकनिष्ठस्य सदैकरूपवचनस्य तस्य सूक्तिरूपकण्णिनुण्शिरुत्तांब्वाख्यप्रबंधमादायामुमर्थं संशयविपर्ययगंधं विना निश्चिनुम इत्यर्थः । अथवा भोजनकाल इत्यादिवाक्यस्य भगवदनुभवकरणसमये ‘भुक्त्वा तृप्तस्य मम तदुपरि का न्यूनता’, ‘विस्तृते परमाकाशे को वा समः’, ‘पृथिव्यां सदृशमस्ति किम्’ इत्येवमनुभवजनितहर्षप्रकर्षगर्वितामेकां वार्तां, तदनुभवालाभसमये ‘ज्ञानं सर्वं मर्मस्पर्शि क्षुभितं मुह्यति’, ‘अवयवकांतिना सह समुदायकांतिर्निर्गता’, ‘द्रष्टुमागच्छ इति नेत्रमधरं च शुष्यति’, ‘अग्निसंकाशस्थितमधूच्छिष्टवल्लोके संचरामि’ इत्येवं शोकवेगजनितामेकां वार्तां च वदंतः । एको द्वौ वा न दश संति हि । तदीया एव शेषिण उपायोपेयभूता इति ज्ञानेऽपि तदनुगुणं स्थातुमशक्तानां भगवद्विषयवैलक्षण्यपरवशानां भोजनकाले एकवार्तानां भोजनाभावकाले एकवार्तानां तेषामुक्तीरादाय न स्वाचार्यचरणयुगलमुपायोपेय इत्येतत्परमार्थनिर्णयः क्रियते, ‘परांकुशचरणावेव स्वस्य शरणत्वेनाश्रित्य ‘देवमन्यं न जानामि’ इति स्थितत्वात्प्रथमपर्वेऽभिनिवेशेन हर्षशोकपारवश्येन वदतः परिहसन् वर्तमानः कश्चिदस्ति हि, तथा वर्तमानस्य श्रीमधुरकवेः श्रीसूक्तिमादायैतदर्थनिर्णयं कुर्म इति वा योजना ।
टीका हिन्द्या
उनको हसनेवाले एक हैं उन की गाथा को लेकर इस अर्थ को निश्चय करते हैं ॥ ४२६ ॥ पर किस के वचन को लेकर निश्चय करते हैं इस आकांक्षा में कहते हैं-उन को इत्यादि । ‘उन के स्पृहणीय चरणों का आदर किया हूं’, ‘अन्यदेवता को नहीं जानता हूं’ ऐसा स्वाचार्यभूत श्रीशठकोपसूरि के श्रीचरणों को ही प्राप्य और प्रापकतया संशयरहित आश्रयण कर अन्यदेवताओं को न जान ‘जिह्वा से अभ्यास कर आनंद पाया है’ ऐसा उन के संकीर्तन से आनंदपूर्ण हो ‘दास चतुर हो गया’ ऐसा प्राप्त जान कर आश्रयण करनेवाले चतुर होने से, चरमपर्व की अधिकता जान कहने पर भी तदेकनिष्ठ न हो प्रथमपर्व में मग्न हो उस के सौंदर्यपरवश हो भोजन करनेपर एक वार्ता और न करनेपर एक वार्ता कहनेवाले दश सूरियों को, ‘पहिले एक आचार्य के चरणों का आश्रयण कर निरंतर सुखी न हो अपने सौंदर्य से पागल बनानेवाले भगवद्विषय में पहले से ही अवगाहन कर उन की अनुभवदशा में एक कहना, अलाभदशा में एक कहना ऐसा से सूरिलोग क्लेश पाते हैं यह क्या आश्चर्य है’ समझ परिहास करनेवाले श्रीमधुरकवि सूरि एक हैं, चरमपर्व निष्ठ सदा एकरूपवचनवाले इन का गाथारूप [[कण्णिनुण्शिरुत्ताम्बु]] (ग्रंथिपूर्णअल्परज्जु) प्रबंध को ले इस अर्थ को संशयविपर्ययरहित निश्चय करते हैं । अथवा भोजन करनेपर इत्यादि को भगवदनुभव करने के समय ‘अनुभव कर आनंद पानेवाले को नित्यसूरिलोग सदृश हैं क्या’, ‘परमपद के नित्यसूरिलोग भी समान नहीं’, ‘मर्त्यलोग समान होयेंगे क्या’ ऐसा अनुभवजनितहर्षाधिक्य से गर्वित हो एक वार्ता, तदनुभवालाभ के समय ‘बुद्धि सब अंतर व्याकुल हो मोहित होती है अहो’, ‘कांति के साथ मणिवर्ण छूट गया’, ‘देखने को आओ ऐसा कह नेत्र और मुंह खोल’, ‘अग्नि के साथ रहनेवाले मोम के तरह लोक में संचार करती हूं’ ऐसा शोकवेगजनित एक वार्ता कहनेवाले, एक दो नहीं दश हैं । भागवत ही शेषी और उपायउपेयभूत हैं ऐसा जाननेपर भी तदनुगुण नहीं रहकर भगवद्विषयसौंदर्य में परवश हो इस प्रकार भोजन करनेपर एक वार्ता नहीं करनेपर एक वार्ता कहनेवालों के श्रीसूक्ति लेकर नहीं स्वाचार्यचरणयुगल ही उपयोपेय हैं इस परमार्थ को निर्णय करना । शठकोपसूरि के चरण ही अपने को उपायतया आश्रयण कर ‘अन्यदेवता को नहीं जानता हूं’ ऐसा रहने से प्रथमपर्व में मग्न हो हर्षशोकपरवश हो कहनेवालों को परिहास करनेवाले एक हैं । ऐसे रहनेवाले श्रीमधुरकवि के दिव्यसूक्ति को लेकर इस अर्थ को निश्चय करेंगे ऐसा भी योजना कर सक्ते हैं ।
मूलम्
एवं प्रमाणसिद्धमर्थमुपपत्त्या स्थिरीकरोति-स्वरूपस्येत्यादिना ।
मूलम्
स्वरूपस्य प्राप्यस्य चानुरूपः स्यात् खलु प्रापकः ॥ ४२७ ॥
श्लोक
स्वरूपप्राप्ययोस्तुल्यं प्रापकस्स्यात्सदा खलु ॥४२७॥
टीका संस्कृता
स्वरूपोपायपुरुषार्थानां निष्कर्षसमये प्रथमं स्वरूपं यथार्थ्येन निष्कृष्यानंतरं प्राप्यं तदनुरूपं निष्कृष्य प्रापकस्तदुभयानुगुणं निष्कर्षयितव्यः । व्युत्पत्तिदशायामुपेयं पूर्वभावि, उपायः पश्चाद्भावी स्यात् । अनुष्ठानदशायां व्यत्यासेन तिष्ठति । स्वरूपस्य प्राप्यस्य चानुरूप्याभावादेव ह्युपायांतरं परित्यक्तं, तस्मात्स्वरूपस्य प्राप्यस्य चानुरूपः स्यात् खल्विति वदति । अथ स्वरूपे निरूपिते ज्ञानानंदौ बहिर्दलमिति प्रकारेण भगवदनन्यार्हशेषत्वमेवाकारः, तस्य याथात्म्यं तच्छेषत्वं च बहिर्दलमिति प्रकारेण तदीयशेषत्वमेवाकारो भवति । एवंभूतस्वरूपानुरूपे प्राप्ये निरूपिते तत्कैंकर्यं प्रथमावधिः तदीयशेषत्वं चरमावधिर्भवति । स्वरूपप्राप्यवेषस्यैतादृशत्वात्तदुभयानुगुणप्रापकस्तदीया एव स्युः खलु । अथैतेषु प्रथमं स्वमंगीकृत्य तत्त्वज्ञानप्रदानं कृतवतो महोपकारकस्याचार्यस्यैव शेषत्वं समस्तभागवतानां प्रीतिविषयः स्वस्वरूपस्य सीमाभूमिश्च भवति । एतत्स्वरूपस्यानुरूपं प्राप्यं चाचार्यचरणयोः क्रियमाणं कैंकर्यं भवति । एवं स्वरूपप्राप्ययोः स्थितत्वादनयोरुभयोरप्यनुरूपं प्रापकमाचार्यचरणयुगलमेव भवेदित्यर्थः । अयमेव स्वरूपप्राप्ययोरनुरूपोपाय इत्युक्तत्वादीश्वरस्वातंत्र्यभीत्या निर्भयत्वमवलंब्यात्रावगाहनं न भवति मुख्योपाय इदमेवेति संप्रतिपन्नम् ।
टीका हिन्द्या
स्वरूप और प्राप्य के सदृश होना चाहिये प्रापक ॥ ४२७ ॥ इस प्रकार प्रमाणसिद्ध अर्थ को उचितन्याय से स्थिर करते हैं—स्वरूप इत्यादि । स्वरूपोपायपुरुषार्थों को निर्णय करने के समय पहिले स्वरूप को यथार्थतया निष्कर्ष कर अनंतर प्राप्य को तदनुरूप निष्कर्ष कर पश्चात् प्रापक को तदुभयानुरूप निष्कर्ष करना चाहिये । व्युत्पत्तिदशा में उपेय पहिले हो उपाय पीछे होता है । अनुष्ठानदशा में व्यत्यास से होता है । स्वरूप और प्राप्य के अनुरूप न होने से ही उपायांतर को परित्याग किये हैं । इस कारण से स्वरूप और प्राप्य के सदृश होना चाहिये ऐसा कहते हैं । अब स्वरूप को निरूपण करने से ज्ञानानंदों को भी बहिर्दल समझने योग्य भगवदनन्यार्हशेषत्व ही आकार होता है । उस का याथात्म्य तच्छेषत्व ही बहिर्दल समझने योग्य तदीयशेषत्व ही आकार होता है । एवंभूतस्वरूपानुरूप प्राप्य को निरूपण करनेसे भगवत्कैंकर्य प्रथमावधि हो तदीय कैंकर्य चरमावधि होता है । स्वरूपप्राप्यवेष यह होनेसे तदुभयानुगुणप्रापक तदीय ही हो सक्ते हैं । अब उन भागवतों में पहिले अपने को अंगीकार कर तत्त्वज्ञान को देनेवाले महोपकारक स्वाचार्य का शेष होना समस्त भागवतों का मुखोल्लास हो अपने स्वरूप का चरमावधि होता है । इस स्वरूप के अनुरूप प्राप्य भी स्वाचार्यचरणों में क्रियमाण कैंकर्य होता है । एवं स्वरूप और प्राप्य निश्चित होनेसे इन दोनों के सदृश प्रापक स्वाचार्यचरणयुगल होना चाहिये । यही स्वरूपप्राप्यों के सदृश उपाय कहनेसे ईश्वरस्वातंत्र्यभीत्या निर्भय होने के लिये मात्र इस को मानते नहीं किंतु मुख्योपाय यही है, यह अर्थ सिद्ध हुआ ।
मूलम्
एतदर्थविषयमेकमैतिह्यमाह-आंध्रपूर्ण इत्यादिना ।
मूलम्
आंध्रपूर्णः कूरेशं दाशरथिं चोभयकूलस्थाविति वदति ॥ ४२८ ॥
श्लोक
दाशरथिं कूरेशं चोभयकूलस्थिताविति । आन्ध्रपूर्णो महाप्राज्ञः सदा वदति भावुकः ॥ ४२८ ॥
टीका संस्कृता
परांकुशचरणयोर्मधुरकविरिव प्राप्यप्रापकोभयमपि रामानुजचरणावेवेति प्रतिपत्तिं कृत्वाऽन्यं देवं न जानामीति स्थितः आंध्रपूर्णः रामानुजस्य पादच्छाया पादरेखेवाविनाभूतो ‘रामानुजस्य चरणौ शरणं प्रपद्ये’, ‘रामानुजार्यवशगः परिवर्तिष्ये’ इत्युपायोपेयौ तच्चरणौ तच्चरणयोः क्रियमाणं कैंकर्यं चेति स्थितं कूरेशं तादृशदाशरथिं च संसारे स्थितौ पाददाहेनागतार्त्यतिशयेन कालुष्यं प्राप्य कादाचित्कं स्वामिपार्श्वे च गत्वा दंतप्रदर्शनं तद्वैलक्षण्यदर्शनेन प्रावण्यमित्येतावदादाय रामानुजचरणावेव प्राप्यप्रापकौ चेत् ‘देवमन्यं न जानामि’ इति न स्थातव्यं किम् ? तथा विना चरमावधिं प्रथमावधिं वावलंब्य वर्तमानावेतावुभयकूलस्थाविति वदतीत्यर्थः ।
टीका हिन्द्या
आंध्रपूर्ण कूरेश और दाशरथी को उभयकूलस्थ कहते हैं ॥ ४२८ ॥ इस अर्थविषय में एक ऐतिह्य को कहते हैं-आंध्रपूर्ण इत्यादि । शठकोपरि के चरणों में श्रीमधुरकविसूरि जैसे रहे थे तैसे प्राप्यप्रापक दोनों रामानुजस्वामी के चरण ही ऐसा विश्वास कर ‘अन्यदेव को नहीं जानता हूं’ ऐसे रहनेवाले आंध्रपूर्णस्वामी रामानुजस्वामी के छाया और पादुका के तरह अविनाभूत हो ‘रामानुज के चरणों को उपाय विश्वास करता हूं’, ‘रामानुजस्वामी के वश में हो कैंकर्य करूंगा’ ऐसा उपायोपेय उन के चरण और उन चरणों में क्रियमाण कैंकर्य ही है ऐसा समझ रहनेवाले कूरेश और तादृश दाशरथि इन दोनों को संसारस्थिति से पांव जल कर आर्ति की अधिकता से कदाचित् भगवान् के पास जा दांत दिखाना उस के सौंदर्यादि को देख कर प्रवण होना इतने ही को लेकर ‘रामानुजस्वामीजी के चरण ही प्राप्यप्रापक होतो अन्यदेव को नहीं जानता हूं’ ऐसा रहना चाहिये ऐसा न कर चरमावधि और प्रथमावधि में हाथ रखनेवाले उभयकूलस्थ हैं ऐसा कहते हैं ।
मूलम्
स्वरूपस्य प्राप्यस्य चानुरूपः स्यात् खल्वित्यत्र स्वरूपमेकमार्गेणांगीकृत्य भगवत्कैंकर्यं खलु प्राप्यं, प्राप्यस्य सदृशं स्यादिति कथमिति वदतां शंकां परिहर्तुं प्रथमं प्राप्यविशेषं विशिष्य दर्शयति-प्राप्यस्येत्यादिना ।
मूलम्
प्राप्यस्य प्रथमपर्व आचार्यकैंकर्यं, मध्यमपर्व भगवत्कैंकर्यं, चरमपर्व भागवतकैंकर्यम् ॥ ४२९ ॥
श्लोक
प्राप्ये हि प्रथमं पर्व देशिकस्यार्चनं विदुः । मध्यमं हरिदास्यं च भागवतस्य चांतिमम् ॥ ४२९ ॥
टीका संस्कृता
प्राप्यं नाम-शेषत्वैकनिरूपणीयस्यात्मवस्तुनः पुरुषार्थभूतं कैंकर्यम् । पर्वशब्दोंऽशवाची । अत्र प्रथमपर्वत्वेनोक्तमाचार्यकैंकर्यं-‘समीचीनं कृत्वा लक्ष्मीवल्लभार्थं कुरु’ इत्युक्तप्रकारेण प्रथमं स्वमंगीकृत्य भगवद्विषयस्य किंकरं कृतवत आचार्यस्य प्रीत्यर्थं क्रियमाणं भगवत्कैंकर्यम् । मध्यमपर्वत्वेनोक्तं भगवत्कैंकर्यं-‘दासानां मां दासं कृतवान् विमलः’ इत्युक्तप्रकारेण स्वप्रीतिविषयान् स्वदासानां दासान् कुर्वतो भगवतः प्रीत्यर्थं क्रियमाणं भागवतकैंकर्यम् । चरमपर्वत्वेनोक्तं भागवतकैंकर्यं ‘आचार्यवानिति’ स्वीकुर्वतामाचार्यवैभवज्ञापकानामाचार्यकैंकर्यस्याधिक्यं जानतां सर्वेषां भागवतानां प्रीत्यर्थं क्रियमाणमाचार्यकैंकर्यम् । एवमाचार्यप्रीतिविषयं भगवत्कैंकर्यमाचार्यकैंकर्यमिति, भगवत्प्रीतिविषयं भागवतकैंकर्यं भगवत्कैंकर्यमिति, भागवतप्रीतिविषयमाचार्यकैंकर्यं भागवतकैंकर्यमिति चोक्तम् । तस्मादाचार्यकैंकर्यं प्राप्यमित्यत्र न विरोध इति भावः ।
टीका हिन्द्या
प्राप्य का प्रथमपर्व आचार्यकैंकर्य, मध्यमपर्व भगवत्कैंकर्य, चरमपर्व भागवतकैंकर्य है ॥ ४२९ ॥ स्वरूप और प्राप्य के अनुरूप होना चाहिये इस स्थल में स्वरूप को एक प्रकार मान भगवत्कैंकर्य ही प्राप्य होता है, प्राप्य का सदृश होना चाहिये ऐसा कैसे कह सक्ते हैं ? इस शंका को परिहार करनेके लिये पहिले प्राप्यस्वरूप को दिखाते हैं-प्राप्य का इत्यादि । प्राप्य माने-शेषत्वैकानिरूपणीय आत्मवस्तु का पुरुषार्थभूत कैंकर्य । पर्व माने-अंश है । यहां प्रथमपर्वतया कहे जानेवाले आचार्यकैंकर्य माने-‘शोधन कर श्रियःपति के लिये किये पीछे’ इस वचनानुसार पहिले अपने को अंगीकार कर भगवद्विषय के दास हो जैसा शोधन करनेवाले आचार्य के मुखोल्लासार्थ क्रियमाण भगवत्कैंकर्य है । मध्यमपर्वतया कहे जानेवाले भगवत्कैंकर्य माने-‘दासों के दास बनानेवाले निर्मल’ इस वचनानुसार अपने भक्तों को अपने दासों के दास बनानेवाले भगवान् के मुखोल्लासार्थ क्रियमाण भागवतकैंकर्य । चरमपर्वतया कहे जानेवाले भागवतकैंकर्य माने-‘आचार्यपर है’ ऐसा समझ संतुष्ट होनेवाले, आचार्यवैभवज्ञापक और आचार्यकैंकर्य की उत्कृष्टता को जाननेवाले सब भागवतों के संतोष के लिये क्रियमाण आचार्यकैंकर्य है । तथा च-आचार्यप्रीतिविषय भगवत्कैंकर्य को आचार्यकैंकर्य, भगवत्प्रीतिविषय भागवतकैंकर्य को भगवत्कैंकर्य, भागवतप्रीतिविषय आचार्यकैंकर्य को भागवतकैंकर्य ऐसा कहा गया । इस लिये आचार्यकैंकर्य को प्राप्यतया कहने में विरोध नहीं ।
मूलम्
एवमाचार्यकैंकर्यमेव चरमपर्व इति शास्त्रेणानुक्तावेवमिदं कथं निश्चीयत इति शंकायामाह-स्वरूपप्राप्तिमित्यादि ।
मूलम्
स्वरूपप्राप्तिं शास्त्रेषु पुरुषार्थत्वेन वदति, यथा प्राप्तिफलतया कैंकर्यमागच्छति तथा साध्यविवृद्धित्वेन चरमपर्व आगच्छति ॥४३०॥
श्लोक
शास्त्रे स्वरूपप्राप्तिं हि पुरुषार्थतया विदुः । यथा प्राप्तिफलत्वेन कैंकर्यागमनं भवेत् ॥ आयाति चरमं पर्व तथा साध्यविवृद्धितः ॥ ४३० ॥
टीका संस्कृता
‘परंज्योतिरुवसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ इति परप्राप्तिपूर्विकामानादिकर्मनिबंधनाचित्संबंधेन मलावकुंठितमणिप्रभावत्तिरोहितस्वासाधारणाकारस्याविर्भावरूपां प्राप्तिं वेदांतशास्त्रं पुरुषार्थत्वेन वदति, एवमाविर्भूतस्वरूपविशिष्टस्यात्मनः शेषत्वैकनिरूपणीयतया शेषिविषयकंचित्कारेण विना सत्ताभावात्, तादृशस्वरूपप्राप्तिफलतया भगवदनुभवजनितप्रीतिकारितकैंकर्यं यथाऽऽगच्छति तथा शेषिणो भगवतः स्वविषयकिंचित्कारात् स्वकीयविषयकिंचित्कारस्य प्रीतिविषयत्वात् तादृशभगवत्कैंकर्यरूपसाध्यस्य वृद्धिरूपत्वेन मध्यमपर्वभूतभागवतकैंकर्यमागच्छेत् । तादृशभागवतानां सर्वेषां स्वविषयकिंचित्कारात् स्वस्योपकारकाचार्यविषयकिंचित्कारस्यैवाभिमतत्वात्तादृशसाध्यस्य विशेषवृद्धित्वेन चरमपर्वभूताचार्यकैंकर्यमागच्छेदित्यर्थः ।
टीका हिन्द्या
स्वरूपप्राप्ति को शास्त्र पुरुषार्थतया कहनेपर भी जैसा प्राप्तिफलतया होनेवाले कैंकर्य है तैसा साध्यवृद्धिरूपतया चरमपर्व आता है ॥ ४३० ॥ एवं आचार्यकैंकर्य ही चरमपर्व करके शास्त्र के नहीं कहने पर भी यह कैसा हो सका है इस शंका में कहते हैं-स्वरूपप्राप्ति को इत्यादि । ‘परंज्योति को प्राप्त हो अपने रूप से प्रकट होता है’ ऐसा परमाप्तिपूर्वक अनादिकर्म के कारण अचित्संबंध से मलसे ढका हुआ मणिप्रभा के तरह ढका हुआ स्वासाधारणाकार का आविर्भाव रूप प्राप्ति को ही वेदांतशास्त्र पुरुषार्थतया कहने पर एवं आविर्भूतस्वरूप वाले आत्मा शेषत्वैकनिरूपणीय होने से शेषिविषयकिंचित्कार विना नहीं रहने से तादृशस्वरूपप्राप्ति के फलरूप से भगवदनुभवजनितप्रीति से किये जानेवाले कैंकर्य जैसा आता है तैसा शेषीभूत भगवान् का स्वविषयकिंचित्कार की अपेक्षा स्वभक्तविषयकिंचित्कार संतोषजनक होनेसे उस कैंकर्यरूप साध्य के वृद्धिरूप हो मध्यमपर्वभूत भागवतकैंकर्य आता है । उन संपूर्ण भागवतों के अपने विषयकैंकर्य की अपेक्षा अपने को उपकारक आचार्यविषय में कैंकर्य ही संतोषजनक होने से उस साध्य के विशेषवृद्धिरूप हो चरमपर्वभूत आचार्यकैंकर्य आता है ।
मूलम्
इदं च दुर्लभम् ॥ ४३१ ॥
श्लोक
इदं च दुर्लभं ज्ञेयं सर्वप्राधान्यहेतुतः ॥ ४३१ ॥
टीका संस्कृता
एतच्चरमपर्वलाभस्य कृच्छ्रत्वं दर्शयति-इदं चेत्यादिना ।
टीका हिन्द्या
यह तो दुर्लभ है ॥ ४३१ ॥ इस चरमपर्व लाभ की दुर्लभता को दिखाते हैं-यह तो इत्यादि ।
मूलम्
तद्विवृणोति-विषयप्रवणस्येत्यादिना ।
मूलम्
विषयप्रवणस्य तं विहाय भगवद्विषय आगमने यावान् परिश्रमोऽस्ति तावान्न भवति प्रथमपर्वविहाय चरमपर्वण्यागमने ॥ ४३२ ॥
श्लोक
विषयासक्तचित्तस्य तं विहाय हरौ किल । आयाने विषये यावान् श्रमो तावान्न विद्यते । विहाय प्रथमं पर्व आगमनेऽवसानके ॥ ४३२ ॥
टीका संस्कृता
क्षुद्रविषयाणामुपरिलेपनभूतवैलक्षण्ये विद्धस्य निवर्तनयोग्यता यथा न स्यात्तथा तत्र प्रवणस्य तांस्त्यक्त्वाऽनुरूपभगवद्विषय आगमने विद्यमानः परिश्रम इव न भवति पुंसां दृष्टचित्तापहारिभगवद्विषयप्रवणस्य तत्कैंकर्यनिरतस्य प्रथमपर्वभूतं तं त्यक्त्वा चरमपर्वभूताचार्यकैंकर्ये आगमने परिश्रम इत्यर्थः ।
टीका हिन्द्या
विषयप्रवण को उस को छोड भगवद्विषय में आने के दुःख के तरह नहीं, प्रथमपर्व को छोड चरमपर्व में आने की दुर्लभता ॥ ४३२ ॥ क्षुद्रविषयों के बाहर के वैलक्षण्य में मग्न हो लौटा न सके जैसे उन में प्रवण होनेवाले को उन को छोड प्राप्तविषय भगवान् में आनेकी दुर्लभता के तरह नहीं पुरुषों के दृष्टि और चित्त को अपहार करनेवाले भगवान् में प्रवण हो तत्कैंकर्य में आसक्त मनुष्य को प्रथमपर्वभूत उस को छोड चरमपर्वरूप आचार्यकैंकर्य में आने की दुर्लभता ।
मूलम्
तत्र दोषदर्शनेन निवृत्तिः स्यात्, अत्र तत्कर्तुं न शक्यते ॥ ४३३ ॥
श्लोक
तत्र दोषस्य दृष्ट्या हि निवृत्तिः स्यात्सतां ततः । अत्र तु तां निवृत्तिं वै कर्तुं नैव च शक्यते ॥ ४३३ ॥
टीका संस्कृता
तत्कथमित्याकांक्षायामाह-तत्रेत्यादि । क्षुद्रविषयेषु देहदोषाणामल्पास्थिरत्वादिदोषाणां च सत्त्वात् तद्दर्शने सति जुगुप्सया निवृत्तिः स्यात्, विलक्षणविग्रहयुक्ते समस्तकल्याणगुणात्मके नित्येऽपरिच्छेद्ये एतद्विषये दोषगंधाभावात् दोषदर्शनं कृत्वा न निवर्तयितुं शक्यत इत्यर्थः । ‘संख्यातुं नैव शक्यंते गुणा दोषाश्च शार्ङ्गिणः । आनंत्यात्प्रथमो राशिरभावादेव पश्चिमः ॥’ इत्युक्तं हि ।
टीका हिन्द्या
वहां दोषदर्शन से लौट सक्ते हैं, यहां वैसा नहीं कर सक्ते ॥ ४३३ ॥ वह कैसा इस आकांक्षा में कहते हैं-वहां इत्यादि । क्षुद्रविषयों में देहदोषादि अल्पास्थिरत्वादि दोष होने से उन को दिखाते ही घृणा से लौट सक्ता है, विलक्षणविग्रहयुक्त समस्तकल्याणगुणात्मक नित्य अपरिच्छेद्य इस भगवद्विषय में दोष का लेश भी न होने से दोष को देख नहीं लौट सक्ता है । ‘परमात्मा के गुण और दोष नहीं गिने जासके हैं, गुण अनंत होनेसे, दोष बिलकुल न होनेसे’ ऐसा कहा है ।
मूलम्
दोषसत्त्वेऽपि गुणवदुपादेयो भवति ॥ ४३४ ॥
श्लोक
अत्र तु दोषसत्त्वेऽपि गुणवद्ग्राह्यमीरितम् ॥ ४३४ ॥
टीका संस्कृता
क्षुद्रविषयाणामुच्यमानस्य दोषस्यात्र कस्यापि वक्तव्यत्वाभावेऽपि स्वविषयभक्तिपरवशानां स्वसंश्लेषसुखं नित्यमकृत्वा विश्लेषदुःखवर्धनात् ‘कठिनः क्रूर’ इत्यादिप्रकारेण वक्तुं योग्याः केचन दोषाः संति हि, ते व्यावृत्तिहेतवो भवंति किमित्यत आह-दोषसत्त्वेऽपीत्यादि । तथा विश्लेषव्यसनेन भासमानानां केषांचिद्दोषाणां सत्त्वेऽपि ‘क्रूरं मन्मनः स एवेति तिष्ठति’ इति तमेवाहृत्याभिनिवेशकरणात् हेयो न भवति । विषयमादृत्याभिनिवेशोपयुक्तगुणवदुपादेयो भवतीत्यर्थः ।
टीका हिन्द्या
दोष होनेपर भी गुण के जैसे उपादेय होता है ॥ ४३४ ॥ क्षुद्रविषयों में कहे जानेवाले दोष एक भी भगवान में नहीं कह सक्ते हैं तो भी अपने विषय में भक्ति से परवशभागवतों को अपने संश्लेषसुख को पूर्णतया न दे छोडकर दुःख देनेसे ‘कठिन, क्रूर’ इत्यादि प्रकार कहनेयोग्य कई दोष भान होते हैं वे लौटने को उपयुक्त होयेंगे क्या इस शंका में कहते हैं—दोष होनेपर भी इत्यादि । वैसा विश्लेषासह्यता से भान होनेवाले कई दोष होनेपर भी ‘क्रूर हमारा मन उस ही को चाहता है’ ऐसा दोषों को ही आदर कर ऊपर गिरने योग्य होनेसे हेय नहीं होता है, विषय को आदर कर ऊपर गिरने योग्य गुण के तरह उपादेय होता है ।
मूलम्
लोकविपरीतं खल्वत्र वर्तते ॥ ४३५ ॥
श्लोक
लोकस्य वैपरीत्येन सर्वं खल्वत्र वर्तते ॥ ४३५ ॥
टीका संस्कृता
लोके दोषो हेयो गुण उपादेयः खलु वर्तते, दोषो गुणवदुपादेयः कथं स्यादित्यत आह-लोकविपरीतं खल्वित्यादि । दोषस्त्यागे निदानं गुण आश्रयणे हेतुरिति लोकप्रक्रियावैलक्षण्येन दोषो गुणवदुपादेयतया खल्वेतद्विषयेऽस्तीत्यर्थः ।
टीका हिन्द्या
लोकविपरीत यहांपर है ॥ ४३५ ॥ लोक में दोष को हेय और गुण को उपादेय कहते हैं । इस नियम को छोड दोष गुण के तरह उपादेय हो सक्ता है क्या ? इस आकांक्षा में कहते हैं-लोकविपरीत इत्यादि । दोष छोडने योग्य और गुण स्वीकार करने योग्य न हो दोष भी गुण के तरह इस विषय में उपादेय होता है ।
मूलम्
गुणस्योपादेयत्वप्रयोजको हेतुर्दोषस्याप्यस्ति हि ॥ ४३६ ॥
श्लोक
गुणोपादेयताहेतुर्दोषस्याप्यस्ति सर्वथा ॥ ४३६ ॥
टीका संस्कृता
तथापि दोषो गुणवदुपादेयः कथं स्यादित्यत आह-गुणस्येत्यादि । भगवद्गुणस्य तत्प्रवणानामुपादेयत्वप्रयोजकः प्राप्तशेषिगतत्वरूपहेतुरस्मिन् विषये भासमानदोषस्याप्यस्तीत्यर्थः । अनेन तस्मिन् विद्यमानत्वहेतुना यथा गुण उपादेयस्तथा तस्मिन् विद्यमानत्वहेतुना दोषस्याप्युपादेयत्वे न विरोध इत्युक्तम् । एवं स्थितत्वाद्दोषसत्त्वेऽपि त्यागहेतुर्न भवतीति भावः ।
टीका हिन्द्या
गुण उपादेय होने का हेतु दोष में भी है ॥ ४३६ ॥ सबकुछ करने पर भी दोष गुण के तरह उपादेय होता है क्या ? इस आकांक्षा में कहते हैं—गुण इत्यादि । भगवद्गुण भक्तों के उपादेय होने के कारण प्राप्तशेषी में होना, यह दोष में भी समान है । इस से गुण परमात्मा में हैं, इस हेतु गुण उपादेय होते हैं, वैसे ही दोष भी उन के होनेसे उपादेय होते हैं । ऐसा होनेसे दोष होनेपर भी वह उस विषय से हटाने का हेतु नहीं हो सका है ।
मूलम्
निर्घृण इत्युक्त्वा विरामात्पूर्व गुणवानिति वक्तव्यतया स्थितः ॥ ४३७ ॥
श्लोक
निर्घृण इत्युक्ते विरामात्पूर्वमेव तु । गुणवानिति वक्तव्या तथाऽतिष्ठन्महामुनिः ॥४३७॥
टीका संस्कृता
विश्लेषदशायां भासमाननैर्घृण्यादिदोषमंगीकृत्य तस्य गुणवदुपादेयत्वमवोचत्, तादृशनैर्घृण्यादिदोषश्च प्रथमतोऽत्र विषये नास्तीत्यभियुक्तवचनैर्दर्शयति, तत्र प्रथमं परांकुशवचनं दर्शयति-निर्घृण इत्यादिना । ‘किं धवलवर्णस्य दयाः’ इति-कीदृश्यः स्थिताः शुद्धस्वभावस्य तव कृपाः, लोके एवमृजवः परदुःखासहिष्णवश्च केचन धार्मिकाः संति चेदबलानां समीचीनः संश्लेषः कर्तुं शक्यत इति नायक्या विषादातिशयेनागतं दृष्ट्वा मात्रा निर्घृण इत्युक्त्वा विरामात्पूर्वं तन्मुखं मुद्रयतीव ‘दयावानेवेति’ ननु आकरे दया क्षीयते किं तदस्मदपराध इति घृणावत्ता वक्तव्यतया स्थितेत्यर्थः ।
टीका हिन्द्या
निर्घृण, ऐसा कह मुखं बंद करने के पहिले दयावान् ऐसा कहने योग्य था ॥ ४३७ ॥ विश्लेषदशा में देखे जानेवाले नैर्घृण्यादि दोष को अंगीकार कर वह गुण के तरह उपादेय होने के प्रकार को कहे हैं, वह नैर्घृण्यादि दोष परमात्मा में बिलकुल नहीं है ऐसा आप्तवचनों से दिखाते हैं, उस में पहिले सूरि के वचन को दिखाते हैं—निर्घृण इत्यादि । “हमारे शुद्ध स्वभाववाले की कृपाएं” ऐसा शुद्धस्वभाव आपकी कृपाएं कैसी थीं, लोक में ऐसे सीधे और परदुःखासहिष्णु धार्मिक लोग होएंगे तो अबलाओं को सुरक्षित रहने की स्थिति मिलेगी ऐसा पुत्री के विश्लेषव्यसन में सहाय नहीं करने से माता निर्घृण कह मुखबंद करने के पहले ही उस के मुख को बंद करने के तरह “कृपावान्” ऐसा कह, पापिष्ठे ! खानि में कृपा का अभाव होगा क्या ? वह हमारा दोष है ऐसा कह उस की कृपावत्ता को प्रकट की है ।
मूलम्
एवं वक्तुमर्हता कृता कृपयेति स्नेह उपकारस्मृतिश्चावर्तत खलु ॥ ४३८ ॥
श्लोक
अर्हता वक्तुरेवं हि कृपया किं स्मृतिः खलु । उपकारस्य प्रीतिश्च वर्तते साधके जने ॥ ४३८ ॥
टीका संस्कृता
इयमुक्तिर्मात्रोक्ताया गुणहानेः परिहारोक्तिमात्रं वा सहृदया वेति शङ्कायां तस्याः सहृदयतां घटयति-एवमित्यादिना । गुणहान्युक्तिं निरस्य गुणकथनार्हता कृता कृपयेति, ‘अत्यंतमाद्रियते’ इति स्नेह, ‘उपकारक’ इति उपकारस्मृतिश्चावर्तत खलु । तस्माद् दयावानेवेत्युक्तिः सहृदयोक्तिरित्यर्थः ।
टीका हिन्द्या
इस प्रकार कहने योग्य बनानेवाली कृपा है ऐसा समझ स्नेह और उपकारस्मृति को करते भये ॥ ४३८ ॥ यह उक्ति माता से कही हुई गुणहानिका परिहारमात्र है या मनःपूर्वक कही हुई इस शंका में कहते हैं-इस प्रकार इत्यादि । कही हुई गुणहानि का तिरस्कार कर गुण को कहने का हेतु कृपा ही है, “अत्यादर करती है” ऐसा स्नेह भी, “उपकारक” ऐसा उपकारस्मृति भी की गई है इस कारण “कृपावान्” यह सहृदयोक्ति है ।
मूलम्
निर्घृणतया शंकित्वा कथनदशायामपि कारणं स्वगतत्वेनोक्तम् ॥४३९ ॥
श्लोक
निर्घृणत्वेन शंकित्वा कथनस्य क्षणेऽपि च । कारणं स्वगतत्वेन सम्यगुक्तं महर्षिणा ॥ ४३९ ॥
टीका संस्कृता
अनन्तरं जानकीवचनं दर्शयति-निर्घृणतयेत्यादिना । विश्लेषव्यसनेनात्यंतक्षुभितया जानक्या स्वामिना स्वस्थविश्लेषसमये मुखदर्शनादानाज्जातेन दुःखेन-‘ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः । संवृत्तो निरनुक्रोशः शंके मद्भाग्यसंक्षयात् ॥’ इति स्वामिनं निर्घृणत्वेन शंकित्वा कथनावस्थायामपि मद्भाग्यसंक्षयादित्येवं शंकाया मूलं मद्भाग्यहानिरित्युक्तत्वात् शंकाकारणं स्वगतत्वेनोक्तमित्यर्थः ।
टीका हिन्द्या
निर्घृणतया शंका कर कहने की अवस्था में भी कारण को अपने में बताये हैं ॥ ४३९ ॥ अनंतर लक्ष्मीजी के वचन को दिखाते हैं-निर्घृणतया इत्यादि । विश्लेषदशा में अतिव्याकुल हो श्रीसीताजी ‘रामचन्द्र इस अवस्था में आकर मुख न दिखाने से “बुद्धिमान्, दयावान्, कृतज्ञ, सद्धृदय श्रीरामचन्द्र निर्दय हैं ऐसी शंका करती हूं”’ ऐसा श्रीरामजी को दयारहित जान कहने की अवस्था में भी “हमारे भाग्य के क्षय होने से” ऐसी शंका करने का कारण हमारी भाग्यहानि है ऐसा कहने से शंका का कारण अपने में है ऐसा कहागया ।
मूलम्
गुणदोषावुभावपि क्षुद्रपुरुषार्थं पुरुषार्थकाष्ठां च नाशयतः ॥ ४४० ॥
श्लोक
क्षुद्रेष्टं परमेष्टं च गुणदोषावुभावपि । नाशयतः स्वरूपेण भाषितं नयकोविदैः ॥४४०॥
टीका संस्कृता
‘प्रथमपर्वविहाय’ इत्यत्रार्थादुक्तेन भगवत्संश्लेषेण ‘दोषसत्त्वेऽपि’ इत्यत्रार्थादुक्तेन तद्विश्लेषेण चैतदुभाभ्यां क्रियमाणमाह-गुणदोषावित्यादिना । गुणो नाम-स्वसौंदर्यादिकमाश्रितानां साकल्येनानुभवार्थं ददत् वर्तमानत्वरूपसंश्लेषः । दोषो नाम-तादृशानुभवालाभेन तेषु नेत्रभ्रमणेन क्लिश्यमानेषु स्वेन मुखदर्शनादानरूपविश्लेषः । एताभ्यामुभाभ्यामपि क्षुद्रपुरुषार्थस्य पुरुषार्थकाष्ठायाश्च नाशनं नाम-एकैकेन वोभयोरपि नाशनम् । अत्र गुणेनोभयोर्नाशनं नाम-‘स्वामिविषये मनसि लग्ने स्त्रीणां भुजं त्यजंति’, ‘गृहे जातैरुत्पत्तिफलतयाऽनुभूयमानानि महासुखानि तद्भगवतो भुजमाश्रितास्त्यजंति’ इति तद्विषयवैलक्षण्येन क्षुद्रविषयवैराग्योत्पादनात् क्षुद्रपुरुषार्थान्वयनाशनं, ‘अभ्यस्यमानतेजो’ दशके तदीयशेषत्वेऽवगाह्य स्थितं परांकुशं तेषां तदीयानां स्वरूपनिरूपकत्वेन प्रस्तुतैस्तत्सौंदर्यशीलादिभिस्तदीयदास्यरसं विस्मृत्य तदनुभव उत्कटाशयानंतरदशके स्वयं करणग्रामाश्च क्लेशेन यथा क्रोशेयुस्तथाऽकरोत् । एवमन्यार्थप्रवेशेऽपि स्वव्यतिरिक्तविषयस्वामित्वं यथा न स्यात्तथा कुर्वन् दृष्टचित्तापहारिविषये नद्यावर्तपतितं कृत्वा पुरुषार्थकाष्ठाभूततदीयशेषत्वस्थितिनाशनम् । दोषेणोभयोर्नाशनं नाम-अनुभवालाभक्लेशेन सर्वकालमपि स्वविषये मनसो लग्नत्वात् ‘न भुंक्ते’, ‘निद्रां नाद्रियते’, ‘कंदुकानि लीलोपकरणं नाद्रियते’, ‘स्पृहणीयशुकं’ दुग्धं न पाययति, शालभंजिकां नाद्रियते’ इत्युक्तप्रकारेण पूर्वमनुभूतप्राकृतभोगरूपक्षुद्रपुरुषार्थानामसह्यतापादनं, ‘तद्दासा लघुमहामनुष्या मां स्वीकृतवंतोऽत्र संचरंति’, ‘रक्तकमलनेत्रश्रीवामनस्यात्यंतपरिमलयुक्तसद्योविकसितकमलचरणयोरधस्तात्प्रवेशः सदृशः किं पापस्य मम’, ‘अद्वितीयमहापुरुषस्य प्रवालसदृशचरणयोरधस्तात्प्रवेशं विना तद्दासानां भोग्यभूतसंश्लेषानंद एव प्रतिदिनं लभ्येतास्माकम्’ इति, एवं तद्विषयसंश्लेषरसो नापेक्षितस्तदीयविषयसंश्लेषरस एवालमिति वर्तमानानामपि तदीयैः सह संश्लेषावस्थायामपि तेषु मनसः प्रावण्यं विना तदनुभवाशया ‘द्रष्टुमागच्छ’, ‘दर्शनोपायं वद’ इत्याशाकरणं, ‘क्रूरपक्षविशिष्टपक्षी’ इत्यादिभिस्तान् प्रति क्रोधवार्ताकथनमित्याद्यवस्थासंपादनं, पुरुषार्थकाष्ठायां मनसोऽभिनिवेशशून्यतासंपादनं च ।
टीका हिन्द्या
गुणदोष ये दोनों क्षुद्रपुरुषार्थ और पुरुषार्थकाष्ठा को भी नाश करते हैं ॥ ४४० ॥ “प्रथमपर्व को छोड” इस स्थल में अर्थात् उक्त भगवत्संश्लेष, “दोष हो तो भी” इस स्थल में अर्थात् उक्त भगवद्विश्लेष इन दोनों के कार्य को कहते हैं—गुणदोष इत्यादि । गुण माने-अपने सौंदर्यादियों को अपने आश्रितों को पूर्ण अनुभव कराना रूप संश्लेष, दोष माने-उस अनुभव के अलाभ से वे व्याकुल होने के समय आप मुख न दिखाना रूप विश्लेष है । ये दोनों इत्यादि-एक एक ही दोनों का नाश करना, इन में गुण दोनों को नाश करना माने-परमात्मा में मन लगने पर “स्त्रियों के भुजाओं को छोड” ऐसा, ‘संसार में जन्म लेनेवाले पाने योग्य महानंद सब को छोडते हैं भगवान के भुजासौंदर्य में विद्ध होनेवाले’ ऐसा भगवद्विषयसौंदर्य से क्षुद्रविषय में वैराग्य उत्पन्न होनेसे क्षुद्रपुरुषार्थ संबंध का नाश करना, ‘अभ्यस्यमानतेजो’ दशक में तदीयशेषत्व में मग्न हुए सूरि को उन तदीयों के स्वरूपनिरूपकतया प्रस्तुत भगवत्सौंदर्यशीलादियों से तदीयदास्यरस को भूलकर उन के अनुभव में आशा को बढा अनंतर दशक में आप और अपने करणसमूह अतिव्याकुल हो पुकारे तैसा अन्यानुभव में प्रवृत्त होनेपर भी अपने को छोड और किसी के उपयुक्त न हो जैसा करनेवाले दृष्टिचित्तापहारी भगवान् विषय में मग्न करा पुरुषार्थकाष्ठारूप तदीयशेषत्वरूप में स्थिति का नाश करना । दोष दोनों को नाश करना माने-अनुभवालाभक्लेश से सर्वकाल भी अपने विषय में मन लगा “भोजन और निद्रा को आदर नहीं करती है”, “गेंद प्रभृति को देखती नहीं, शुक को दूध नहीं पिलाती है खिलौना का आदर नहीं करती है” इन वचनानुसार पूर्वअनुभूतप्राकृतभोगरूपक्षुद्रपुरुषार्थों में असहिष्णुता का उत्पादन करना, “उन के दास लघुमहामनुष्य हो यहां संचार करते हुए हम को रक्षा किये हैं, रक्तकमलसदृश नेत्रवाले वामन भगवान के सुंदरकमलसदृश चरणों में प्रवेश करना मुझ पापी को युक्त है क्या” ऐसा “अद्वितीयभगवान के कोमलचरणों के नीचे प्रवेश विना उन के दासों के संश्लेषसुख ही हम को प्राप्त हो” ऐसा तद्विषयसंश्लेषरस में अपेक्षा छोड तदीयविषयसंश्लेषरस ही हम को प्राप्त है ऐसा रहनेवालों को भी उन तदीयों के साथ मिले रहनेपर भी उन के विषय में आशा छोड भगवदनुभव में आशा करने से “देखने को आओ”, “देखने का उपाय बताओ” ऐसा पुकारना, ‘क्रूरपक्ष पक्षी’ इत्यादियों से उन में [[अनादरताप्रतिपादन|अनादरता प्रतिपादन]] करना इत्यादि होने से पुरुषार्थकाष्ठा में मन को नहीं लगाना ।
मूलम्
अत्र क्षुद्रपुरुषार्थं नाशयतीत्युक्तिः स्वविषयेऽवगाहतां बहिरेकोऽपि विषयो ज्ञातो न स्यात्तथा कुर्वत एतद्विषयस्वभावस्य कथनार्थम् । पुरुषार्थकाष्ठां नाशयतीत्येतदेवात्रापेक्षितं, तथा च क्षुद्रपुरुषार्थभञ्जकत्वस्य प्रासंगिकत्वात् तद्विहाय प्राकरणिकपरमपुरुषार्थभञ्जकत्वं विशदयति–नित्यशत्रुत्वेनेत्यादिना ।
मूलम्
नित्यशत्रुत्वेन खलु वर्तते ॥ ४४१ ॥
श्लोक
वर्तते किल नित्यं हि शत्रुत्वेनेति ज्ञायताम् ॥४४१॥
टीका संस्कृता
‘शत्रुघ्नो नित्यशत्रुघ्नः’ इति स्वामिनोऽभिमतविषयं श्रीभरतं स्वस्योद्देश्यत्वेनाश्रित्य तदन्यानभिज्ञः सन् स्थितः श्रीशत्रुघ्नः श्रीभरतानुवृत्रिविरोधिनं रामसौंदर्यरूपनित्यशत्रुं जयतीत्युक्तत्वात्तदीय कैंकर्यनिष्ठस्य नित्यशत्रुत्वेन खलु भगवत्सौंदर्यं तिष्ठतीत्यर्थः । तस्मादेवं विलक्षणविषये संश्लेषविश्लेषावुभावपि पुरुषार्थकाष्ठां नाशयतीत्यत्र न विरोध इति भावः । अथवा पूर्वोक्तगुणदोषाभ्यामुभाभ्यां क्रियमाणमाह-गुणदोषावुभावपीत्यादिना । गुणो नाम-‘अत्र तत्कर्तुं न शक्यते’ इत्यत्रोक्तपुंसां दृष्टिचित्तापहारिसौंदर्यादयः । दोषो नाम-गुण इव दोष उपादेय इत्यत्रोक्ताः ‘कठिनः क्रूरः’ इत्यादयः । उभावपि क्षुद्रपुरुषार्थं काष्ठां च नाशयत इति-एकैकमेवोभयमपि करोतीत्यर्थः । गुणेनोभयोरपि नाशनं नाम-‘गृहे जातैरनुभूयमानमुत्पत्तिप्रयुक्तमहानंदं सर्वं त्यजंति तद्भुजमाश्रयंतः’ इत्यादिप्रकारेण क्षुद्रपुरुषार्थनाशनं, स्ववैलक्षण्येनावगाहनं कारयित्वा पुरुषार्थकाष्ठाभूततदीयशेषत्वनिष्ठानाशनम् । दोषेणोभयोरपि नाशनं नाम-‘गुणवदुपादेयः स एवेति तिष्ठति’ इत्येवं करणादाहारनिद्राकंदुकादीनामसह्यतामापाद्य क्षुद्रपुरुषार्थनाशनं, ‘लघुमहामनुष्याः’ इत्यादिप्रकारेण पुरुषार्थकाष्ठानाशनं चेति योजना । अस्यां योजनायां नित्यशत्रुरिति सौंदर्यादिविशिष्टवस्तुविषयं स्यात् । यद्वा गुणः पुरुषार्थकाष्ठां नाशयति, दोषः क्षुद्रपुरुषार्थं नाशयतीति विभज्य क्वचिद्योजयति । तदा गुणः पुरुषार्थकाष्ठां नाशयतीत्यस्य दोषः क्षुद्रपुरुषार्थं नाशयतीत्यस्य च पूर्वयोजनयोरुक्तप्रकारेणार्थः स्यात् । एतद्विषयस्वभावस्यैतादृशत्वादिदं चरमपर्वभूताचार्यकैंकर्यं दुर्लभमिति सिंहावलोकनन्यायेन पूर्वेणान्वयः ।
टीका हिन्द्या
नित्यशत्रुरूप से रहता है ॥ ४४१ ॥ इस में क्षुद्रपुरुषार्थ को नाश करना माने अपने में लगनेवालों को बाह्यविषयों को भुलानेवाले इस विषय के स्वभाव को कहने के लिये मिलालिये इतना ही, पुरुषार्थकाष्ठा को नाश करेगा यही इस स्थल में अपेक्षित है, तथा क्षुद्रपुरुषार्थभंजकत्व प्रासंगिक होने से उन को छोड प्राकरणिकचरमपुरुषार्थभंजकत्व को कहते हैं-नित्यशत्रु इत्यादि । ‘शत्रुघ्न नित्यशत्रु का संहार करनेवाले’ ऐसा श्रीरामचन्द्र के अभिमत श्रीभरतसूरि को ही अपना उद्देश्यमान आश्रयण कर तदन्य को नहीं जाननेवाले श्रीशत्रुघ्नसूरि भरतानुवृत्ति के विरोधी रामसौंदर्यरूप नित्यशत्रु को जीतते हैं ऐसा कहने से तदीय कैंकर्यनिष्ठ का भगवत्सौंदर्य नित्यशत्रु होता है । इसलिये इस प्रकार के विलक्षणविषय में संश्लेषविश्लेष दोनों पुरुषार्थकाष्ठा को नाश करते हैं ऐसा कहने में विरोध नहीं । अथवा पूर्वोक्त गुणदोषों के कृत्य को कहते हैं—गुणदोष दोनों इत्यादि से । गुण माने-पुरुषों के दृष्टिचित्तापहारिसौंदर्यशीलादि । दोष माने-कठिन, क्रूर इत्यादि । दोनों क्षुद्रपुरुषार्थ और पुरुषार्थकाष्ठा को नाश करते हैं माने—एक एक ही दोनों का नाश करता है । गुण दोनों को नाश करता है माने-‘संसार में जन्म ले उन के भुजाओं को दर्शन करनेवाले सांसारिक सुखों को छोड दिये हैं’ इत्यादि में उक्त प्रकार क्षुद्रपुरुषार्थ को नाश करना, स्वसौंदर्य से मग्न करा पुरुषार्थकाष्ठारूप तदीयशेषत्वस्थिति को नाश करना है । दोष दोनों को नाश करता है माने-‘गुणवत् उपादेय हो उसी में मन लगाकर रहने के योग्य करने से’ भोजन, निद्रा, गेंद, खिलौने आदिओं में विरक्त बना क्षुद्रपुरुषार्थ को नाशकरता है, तदीयशेषत्वरूप पुरुषार्थकाष्ठा को भी नाश करता है । इस योजना में नित्यशत्रु माने सौंदर्यादिगुणविशिष्टवस्तु समझना । भगवद्विषय का स्वभाव ऐसा होनेसे चरमपर्वभूत आचार्यकैंकर्य, अतिदुर्लभ है ऐसा सिंहावलोकनन्याय से पूर्ववाक्य के साथ अन्वय करलेना ।
मूलम्
‘स्वरूपस्य प्राप्यस्य चानुरूपः स्यात् खलु प्रापक’ इत्यत्र स्वरूपानुरूपं प्राप्यं चरमपर्वभूताचार्यकैंकर्यमिति निर्णीतवान् । एतत्प्राप्यानुरूपं प्रापकं निर्णयत्युपरि-एवं प्राप्येत्यादिना ।
मूलम्
एवं प्राप्ये निर्णीतेऽस्य सदृश आवश्यकः खलु प्रापकः ॥ ४४२ ॥
श्लोक
एवं प्राप्ये हि निर्णीते सदृशः प्रापकोऽस्य च । प्राप्यस्य साधकोऽयं भवितव्यो न संशयः ॥ ४४२ ॥
टीका संस्कृता
एवमाचार्यकैंकर्यमेव प्राप्यमिति निर्णये कृतेऽस्य प्राप्यस्यानुरूपः प्रापक आवश्यकः खल्वित्यर्थः । अनेनाचार्यकैंकर्यरूपचरमप्राप्यस्याचार्य एव प्रापकः स्यादिति सिद्धम् ।
टीका हिन्द्या
इस प्रकार प्राप्य के निर्णय करने पर उस के सदृश प्रापक भी होना चाहिये ॥ ४४२ ॥ स्वरूपानुरूपप्राप्य चरमपर्वभूत आचार्यकैंकर्य समझना निश्चय किये हैं, इस प्राप्य के अनुरूप प्रापक का निर्णय करते हैं-इस प्रकार इत्यादि । इस प्रकार आचार्यकैंकर्य ही प्राप्यतया निश्चय करनेपर प्रापक भी इस के अनुरूप होना चाहिये । इस से आचार्यकैंकर्यरूप चरमप्राप्य को आचार्य ही प्रापक होना चाहिये ।
मूलम्
अन्यथा प्राप्यप्रापकयोरैक्याभावप्रसंगः ॥४४३ ॥
श्लोक
ऐक्याभावप्रसंगः स्यादन्यथोपायप्राप्ययोः ॥ ४४३ ॥
टीका संस्कृता
एवमनंगीकारे हानिमाह-अन्यथेत्यादिना । एवं एतत्प्राप्यसदृशतयाऽऽचार्यस्य प्रापकत्वमनंगीकृत्येश्वरस्य प्रापकत्वेऽङ्गीकृते प्राप्यस्य प्रापकस्य च स्वस्मिन्नैक्यं न स्यादित्यर्थः । प्रथमपर्वस्य विद्यमानं प्राप्यप्रापकैक्यं चरमपर्वस्यापि समानं खलु, अत एव पिल्लैयमुदनाराचार्यैः ‘प्राप्यमन्यन्नास्तित्वच्चरणौ विना, तत्प्राप्यप्रदोपायश्च नास्ति त्वच्चरणौ विना’ इति प्राप्यप्रापकोभयमेकविषय एवेत्युक्तम् ।
टीका हिन्द्या
न हो तो प्राप्यप्रापकों की ऐक्य नहीं ॥ ४४३ ॥ ऐसा न होतो क्या हानि है इस शंका में कहते हैं-न हो तो इत्यादि । इस प्राप्य के सदृश आचार्य को प्रापकतया नहीं मान ईश्वर को प्रापकतया मानेपर प्राप्यप्रापक दोनों का अभेद नहीं । प्रथमपर्व में प्राप्यप्रापक यथा एक है तथा चरमपर्व में भी चाहिये । इस कारण रङ्गामृतदेशिक “आपके चरण के बिना अन्य एक प्राप्य नहीं, उस प्राप्य को देनेवाले प्रापक भी आपके चरण बिना अन्य नहीं” ऐसा प्राप्यप्रापक दोनों एक ही विषय है ऐसा कहे हैं ।
मूलम्
अस्मिन् प्रबंधे उपक्रमादारभ्य ‘स्वतंत्रस्य’ इत्यादिवाक्यपर्यंतं सिद्धोपायतया सकलशास्त्रसिद्ध ईश्वर एव परमोपाय, आचार्योऽज्ञातज्ञापनमुखेनोपकारक इति च खलूक्तं, इदानीमीश्वरं विहायाचार्य एवोपाय इत्युक्तौ शास्त्रविरोधः स्वोक्तिविरोधश्च न भवेत् ? ईश्वरस्योपायत्वेनाश्रयणादाचार्यस्योपायत्वेनाश्रयणे किं वाऽधिक्यमिति शंकायामाह-ईश्वरस्याश्रयणमित्यादि ।
मूलम्
ईश्वरस्याश्रयणं-हस्तं गृहीत्वा कार्यसाधनवत्, आचार्यस्याश्रयणं-चरणौ गृहीत्वा कार्यसाधनवत् ॥ ४४४ ॥
श्लोक
करं संगृह्य कार्यस्य साधनवद्धरौ रतिः । आचार्ये प्रीतिरुक्ता स्यात्पादं संगृह्य साधनम् ॥ ४४४ ॥
टीका संस्कृता
ईश्वरस्याश्रयणं-तद्धस्तं गृहीत्वा कार्यसाधनवदित्युक्तत्वात् महाप्रभुं केचिद्वशीकृत्य कार्यसाधकः कश्चित् तं करेण गृहीत्वा प्रार्थ्य कार्यं साधितुमिच्छति चेद्धृदयस्यार्द्रतया कार्यकरणसंभवात् स्वातंत्र्येण न्यक्कृत्य कार्यकरणासंभवाच्च कार्यं स्याद्वा न वेति निश्चयो न कर्तुं शक्यते । तथाऽर्थितस्यास्यापेक्षितं स्वकृपया हृदये आर्द्रो करोति चेत् फलति, स्वातंत्र्येण न करोति चेद्विफलति । आचार्यस्याश्रयणं तत्पादौ गृहीत्वा कार्यसाधनवदित्युक्तत्वात् तथा प्रभुं पादौ गृहीत्वा प्रार्थ्य कार्यं साधितुमिच्छति चेत् कृपापरवशः कार्यमयं करोत्येवेति कार्यं निश्चयेन सिद्ध्यति । तथाऽस्यापेक्षितं निःसंदेहं फलति तस्मादमोघत्वं संप्रतिपन्नम् ।
टीका हिन्द्या
ईश्वर को आश्रयण करना हाथ मिलाकर कार्य कराने के तरह है, आचार्य को आश्रयण करना-चरणों में गिर कार्य कराने के तरह है ॥ ४४४ ॥ इस प्रबंध में आरंभ से ले “स्वतंत्र को” इत्यादिवाक्यपर्यंत सिद्धोपायतया सकलशास्त्रसिद्ध ईश्वर को परमोपायतया, आचार्य को अज्ञातज्ञापनद्वारा उपकारकतया भी कहे हैं, अब ईश्वर को छोड आचार्य ही को उपाय कहनेपर शास्त्रविरोध और स्वोक्तिविरोध भी न होगा क्या ? ईश्वर को उपायतया आश्रयण करने की अपेक्षा आचार्य को उपायतया आश्रयण करने से अधिक लाभ क्या होगा ? इस शंका में कहते हैं-ईश्वर को इत्यादि । ईश्वर के साथ आचार्य के विद्यमान ऐक्य, और उस विषय के आश्रयणापेक्षा इस विषय के आश्रयण से कार्यसिद्धि अवश्य होगी ऐसा दिखाने के लिये । उस को प्रतिपादन करते हैं-आचार्य को ईश्वर के चरण कहने से ऐक्य स्पष्ट होता है । ईश्वर का आश्रयण करना-किसी महाप्रभु को वश कर कार्य करानेवाला उस का हाथ पकड प्रार्थना कर कार्यस्वीकार करने का विचार करनेपर ‘सौलभ्यगुण से मृदुमन हो कार्य कर सके हैं अथवा स्वातंत्र्य से तिरस्कार भी कर सके हैं ।’ ऐसा संशय से आश्रित के अपेक्षित अपनी कृपा से मृदुमनस्क हों करने पर सिद्ध होगा; स्वातंत्र्य से [[रुष्ट|कुपित]] हो नहीं करनेपर सिद्ध नहीं होगा । आचार्य को इत्यादि-किसी प्रभु के चरण में गिर प्रार्थना कर कार्य स्वीकार करने पर दयापरवश हो कार्य किये बिना नहीं रह सक्ते से यथा निर्विवाद कार्य सिद्ध होता है तथा आश्रितचेतन के अपेक्षित फल निर्विवाद होने से अमोघत्व सिद्ध हुआ ।
मूलम्
‘एवं प्राप्यनिर्णयं कृत्वाऽस्य सदृशः स्यात् खलु प्रापक’ इत्यनेनाचार्यकैंकर्यरूपचरमप्राप्यस्याचार्य एव सदृशोपाय इत्यमुमर्थं प्रतिपाद्य, तथा विनेश्वरस्योपायत्वेन स्वीकारे विरोधं प्रदर्श्य, आचार्यस्य प्राप्य इवेश्वरेणान्वयेन यथा भवति तथा प्रापकत्वं च तदनन्यत्वनिबंधनमिति, ईश्वराश्रयणादेतदाश्रयणस्य विद्यमानाधिक्यं चावोचत् ।
मूलम्
इतः परं बहुहेतुभिराचार्यवैभवं प्रकाशयति-एतद्विषयमुपायत्वेनाश्रयतां रुचिविश्वासजननार्थम् । तत्र प्रथममस्मिंश्चेतनोभयविषयेऽस्योपकारकत्वमाह-आचार्य इत्यादिना ।
मूलम्
आचार्य उभयोरप्युपकारकः ॥ ४४५ ॥
श्लोक
आचार्य उभयोः सम्यगुपकारकः स्मृतः ॥ ४४५ ॥
टीका संस्कृता
एवमुपायत्वेन पूर्वोक्त आचार्यः शेषशेषिभूतयोरीश्वरचेतनयोरुभयोरप्यभिमतवस्तुदत्त्वोपकारक इत्यर्थः ।
टीका हिन्द्या
आचार्य दोनों के उपकारक हैं ॥ ४४५ ॥ तथाच ‘प्राप्यनिर्णय कर इस का सदृश होना चाहिये प्रापक’ इस वाक्य से आचार्यकैंकर्यरूपचरमप्राप्य को आचार्य ही सदृशउपाय हैं, इस अर्थ को प्रतिपादन कर, ईश्वर को उपायतया स्वीकार करनेपर होनेवाला विरोध को दिखा, आचार्य को प्राप्य यथा ईश्वर के संबंध से होता है तथा प्रापकत्व भी ईश्वर से अभिन्न होने से होता है, ईश्वर के आश्रयण करने की अपेक्षा आचार्याश्रयण की श्रेष्ठता कही गई, अब बहुहेतुओं से आचार्यवैभव को प्रकाश करते हैं-इस विषय को उपायतया आश्रयण करनेवालों के रुचिविश्वास होने के लिये । पहिले ईश्वर और चेतन इन दोनों का आचार्य उपकारक होते हैं यह अर्थ कहा जाता है-आचार्य इत्यादि । एवं उपायतया पूर्वोक्त आचार्य शेषशेषीभूत ईश्वर और चेतन दोनों के अभिमत वस्तुओं का देनेवाला उपकारक होता है ।
मूलम्
ईश्वरस्य शेषवस्तूपकृतवान्, चेतनस्य शेषिणमुपकृतवान् ॥ ४४६ ॥
श्लोक
ईश्वरस्य तु आचार्यः शेषवस्तूपकारकः । देशिकोऽस्य प्रपन्नस्य शेषिवस्तूपकारकः ॥ ४४६ ॥
टीका संस्कृता
उभयोरप्येतदुपकृतं किमित्यत आह-ईश्वरस्येत्यादिना । उत्तरोत्तरसृष्ट्यवतारादिकं कृत्वा वशीकर्तुं विचारे कृतेऽप्येकस्याप्यात्मवस्तुन आनुकूल्यासिद्ध्या दुःखितस्येश्वरस्यैतदात्मवस्तुज्ञातज्ञापनमुखेन वशीकृत्येष्टविनियोगार्हमकरोत् । भगवज्ज्ञानाभावेनानादिकालमसत्समतया स्थितस्य चेतनस्य भगवत्संबंधं ज्ञापयित्वा शेषिरूपं तं प्रादर्शयदित्यर्थः । अनेनाचार्यस्य चेतनेश्वरयोरुभयोरप्युपकारकत्ववैभव उक्तः ।
टीका हिन्द्या
ईश्वर को शेष का उपकार करता है, चेतन को शेषी का उपकार करता है ॥ ४४६ ॥ दोनों को इन से उपक्रियमाण वस्तु कौन है ? इस शंका में कहते हैं-ईश्वर को इत्यादि । उपरि उपरि सृष्ट्यवतारादि कर वश करने को देखनेपर भी एक भी आत्मवस्तु नहीं मिलने से दुःखी होनेवाले ईश्वर को शेषभूत आत्मा को अज्ञातज्ञापन द्वारा शुद्ध कर इष्टविनियोगार्ह किये हैं, भगवज्ज्ञानाभाव से अनादिकाल असत्सम गिरा हुआ चेतन को भगवत्संबंध को जना शेषीभूत भगवान् को दिलाये हैं । इस से चेतन और ईश्वर दोनों के उपकारकत्वरूप आचार्य का वैभव कहा गया ।
मूलम्
अन्येनाप्येकेन प्रकारेणाचार्यवैभवं प्रकाशयति-ईश्वर इत्यादिना ।
मूलम्
ईश्वरः स्वयमाचार्यत्व आशां कृत्वा तिष्ठति ॥४४७॥
श्लोक
ईश्वरो देशिकत्वे वै कृत्वाऽऽशां वर्तते सदा ॥४४७॥
टीका संस्कृता
एतदर्थमनुत्पन्न ईश्वरश्चैतदाचार्यत्वाधिक्यमपेक्ष्यानात्यंतं स्पृहां कृत्वा तिष्ठतीत्यर्थः ।
टीका हिन्द्या
ईश्वर स्वयं आचार्यत्व को चाहते हैं ॥ ४४७ ॥ और भी दूसरे प्रकार से आचार्यवैभव को प्रकाश करते हैं-ईश्वर इत्यादि । इस के लिये नहीं जन्म लेनेवाले ईश्वर स्वयं आचार्यत्व के वैभव जान इस को अपेक्षा करते हैं ।
मूलम्
अत एव हि गुरुपरंपरायामन्वितत्वं गीताभयप्रदानकथनं च ॥४४८ ॥
श्लोक
अतएव हि पंक्त्यां च देशिकानां प्रकीर्त्यते । गीताभयप्रदानस्य कथने सुप्रकीर्त्यते ॥ ४४८ ॥
टीका संस्कृता
एतत्क्व दृष्टमित्यपेक्षायां तदुपपादयति-अत एव हीत्यादिना । आचार्यत्वे आशां कृत्वा स्थितत्वाद्धि ‘स चाचार्यवंशो ज्ञेयः’, ‘आचार्याणामसावसावित्या भगवंतः’ इति प्रकारेण गुरुपरंपरायां द्वयोपदेष्टृत्वेनान्वयः । आचार्यकृत्यमारोप्यार्जुनं प्रति तत्त्वविवेकादिचरमोपायपर्यंतार्थप्रतिपादकश्रीगीतायाः कथनं, श्रीविभीषणनिमित्तं-‘सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥’ इत्यभयप्रदानकथनं चेत्यर्थः । अनेनेश्वरेणाप्याशाकरणार्हं खल्वाचार्यत्वस्य महत्त्वमित्याचार्यवैभव उक्तः ।
टीका हिन्द्या
इस कारण से ही गुरुपरंपरा में संबंध रखना श्रीगीता और अभयप्रदान का उपदेश करना ॥ ४४८ ॥ इस अर्थ को कहां पर देख सक्ते हैं इस शंका में कहते हैं-इस कारण से इत्यादि । इस कारण से-आचार्यत्व की अपेक्षा करने से । “सदाचार्य वंश को जानना”, “आचार्यों में भगवत्पर्यंत प्रत्येक को” इन वचनों के अनुसार गुरुपरंपरा में द्वयोपदेशकता संबंध रखना, आचार्यकृत्य का आरोपण कर अर्जुन को तत्त्वविवेक आदि चरमोपायपर्यंतार्थ का प्रतिपादक श्रीगीता का उपदेश करना; श्रीविभीषणसूरि के कारण से “तुमारा मैं हूं, ऐसा एक आवृत्ति याचना करनेवाले के लिये सम्पूर्ण भूतों से अभय देता हूं यह मेरा व्रत है” ऐसा अभयप्रदान करना । इस से ईश्वर के भी आशा करने योग्य आचार्यत्ववैभव कहा गया ।
मूलम्
आचार्यस्य सदृशप्रत्युपकारकरणं विभूतिचतुष्टयमीश्वरद्वयं चास्ति चेदेव ॥ ४४९ ॥
श्लोक
तुल्यप्रत्युपकारस्य करणं देशिकस्य वै । तदा स्याच्चेद् विभूतीनां द्वैविध्यं चेश्वरद्वयम् ॥ ४४९ ॥
टीका संस्कृता
पुनरेकेन प्रकारेणाचार्यवैभवं दर्शयति-आचार्यस्येत्यादिना । उभयविभूतिं विभूतिमंतमीश्वरं च स्वाधीनार्हं कृत्वा दत्तवताऽऽचार्येण कृतस्योपकारस्य सहशं प्रत्युपकारकरणं द्वे विभूती द्वौ विभूतिमंतौ च संति यदीत्यर्थः । ‘यो ब्रह्माणं विदधाति ज्ञानम् । कृत्स्नां वा पृथिवीं दद्यान्न तत् तुल्यं कथंचन ॥’ इत्युक्तं हि । अनेनाचार्यस्य प्रत्युपकारावकाशरहितमहोपकारकत्वरूपवैभव उक्तः ।
टीका हिन्द्या
आचार्य को सदृशप्रत्युपकार करसक्ते हैं चार विभूति और दो ईश्वर हो तो ॥ ४४९ ॥ और भी एक अन्य प्रकार से आचार्यवैभव को कहते हैं-आचार्य को इत्यादि । उभयविभूति और ईश्वर को शिष्य के अधीन करनेवाले आचार्यकृत उपकार के सदृश प्रत्युपकार तब ही कर सक्ते हैं जब इस प्रकार की दो विभूति और एक ईश्वर होवे तब । “जो भगवद्ज्ञान और धर्मोपदेश करते हैं उन को संपूर्ण पृथिवी देनेपर भी सदृश नहीं है” ऐसा प्रमाण कहा है । इस से आचार्य का प्रत्युपकारावकाशरहित महोपकारकत्वरूप वैभव कहा गया ।
मूलम्
ईश्वरसंबंधो बंधमोक्षयोरुभयोरपि साधारणः, आचार्यसंबंधो मोक्षैकहेतुः ॥ ४५० ॥
श्लोक
ईश्वरेण हि सम्बन्धो बंधमोक्षयोः । साधारणो ह्याचार्यस्य सम्बन्धः केवलं मोक्षसाधनम् ॥४५०॥
टीका संस्कृता
पुनरप्येकमुखेनाचार्यस्य वैभवमाह-ईश्वरसंबंध इत्यादिना । ईश्वरसंबंध इति-ईश्वराश्रयणमिति पूर्वोक्तमीश्वराश्रयणरूपसंबंधः । तस्य बंधमोक्षोभयसाधारण्यं नाम-कर्मानुगुणं संसारिणं कर्तुं कारुण्यानुगुणं मुक्तं च कर्तुं शक्तेन निरंकुशस्वतंत्रेण विद्यमानसंबंधरूपत्वादुभयसाधारण्यम् । आचार्यसंबंधो नाम-आचार्यस्याश्रयणमिति पूर्वोक्ततदाश्रयणरूपसंबंधः । तस्य मोक्षहेतुत्वं नाम-कर्मानुगुणसंसारप्रयोजकेन स्वतंत्रेण विना सर्वप्रकारेणाप्यमुमुज्जीवयितृनिरतिशयकृपावता सह विद्यमानसंबंधरूपत्वात् संसारमोक्षयोः साधारण्यं विना संसारविमोचनैकहेतुत्वम् । अनेन मोक्षैकहेतुत्वनिबंधनवैभव उक्तः ।
टीका हिन्द्या
ईश्वरसंबंध बंध और मोक्ष दोनों का साधारण है, आचार्यसंबंध एक मोक्ष का ही हेतु है ॥ ४५० ॥ और एक प्रकार से आचार्यवैभव को कहते हैं-ईश्वरसंबंध इत्यादि । ईश्वरसंबंध माने-पूर्वोक्त ईश्वराश्रयणरूप संबंध । तस्य बंधमोक्ष इत्यादि-कर्मानुगुण संसारी बनाना, कारुण्यानुगुण मुक्त बनाना इन के समर्थ निरंकुशस्वतंत्र के साथ संबंध होनेसे उभयसाधारण है । आचार्यसंबंध माने-पूर्वोक्ताचार्याश्रयण । वह मोक्ष का ही हेतु माने-कर्मानुगुण संसारी बनानेवाले स्वतंत्र न हो सर्वप्रकार से चेतन को उज्जीवित करनेवाले अधिक कृपावान् आचार्य के साथ संबंध होनेसे संसार और मोक्ष दोनों के बराबर न हो मोक्षैकहेतु होना । इस से मोक्षैकहेतुत्वप्रयुक्त वैभव कहा गया ।
मूलम्
उद्धारकत्व आचार्यस्याधिक्यमुक्तवान्, उपकारकत्व ईश्वरस्याधिक्यं वक्तुं मूलमादायोत्तिष्ठते-भगवल्लाभ इत्यादिना ।
मूलम्
भगवल्लाभ आचार्येण ॥ ४५१ ॥
श्लोक
आचार्येण हरेः प्राप्तिर्हरिणा देशिकस्य च ॥ ४५२ ॥
टीका संस्कृता
निरुपाधिकशेषिणो निरंकुशस्वतंत्रस्य भगवतो लाभस्तत्संपृद्ध्यैकप्रयोजनः सन् मंगलाशासनस्याधिकारी स्यादिति स्वात्मानमंगीकृत्य तद्व्यामोहविषयं कृतवता स्वाचार्येणेत्यर्थः ।
टीका हिन्द्या
भगवल्लाभ आचार्य से है ॥ ४५१ ॥ पहिले [[उद्धारकत्व|उद्धारकत्व]] में आचार्य का आधिक्य कहा गया, अब उपकारकत्व में ईश्वर के आधिक्य को कहने के लिये आरंभ करते हैं—भगवल्लाभ इत्यादि से । निरुपाधिकशेषी निरंकुशस्वतंत्र भगवान् का लाभ भगवत्संपृद्ध्यैकप्रयोजन मंगलाशासन के लिये किंकर होना चाहिये ऐसा समझ अपने को अंगीकार कर परमात्मा के व्यामोहविषय बनानेवाले अपने आचार्य से होता है ।
मूलम्
आचार्यलाभ ईश्वरेण ॥ ४५२ ॥
श्लोक
आचार्येण हरेः प्राप्तिर्हरिणा देशिकस्य च ॥ ४५२ ॥
टीका संस्कृता
एवंभूतस्याचार्यस्य लाभस्य हेतुः क इत्याकांक्षायामाह-आचार्यलाभ इत्यादिना । भगवल्लाभहेतोः परमप्राप्यभूतस्याचार्यस्य लाभः ‘ईश्वरस्य च सौहार्दम्’ इत्यादिप्रकारेण निरुपाधिकसुहृदा विशेषकटाक्षावलंबनान्यपि स्वयमेव कल्पयित्वा विशेषकटाक्षं कृत्वाऽद्वेषमुत्पाद्याभिमुख्यं जनयित्वा सात्विकैः सह संभाषणे योजयित्वा सदाचार्यप्राप्तिं कारयित्रा निर्हेतुककृपावता भगवतेत्यर्थः ।
टीका हिन्द्या
आचार्यलाभ भगवान् से ॥ ४५२ ॥ एवं भूत आचार्य के लाभ का हेतु क्या ? इस शंका में कहते हैं-आचार्यलाभ इत्यादि । भगवल्लाभहेतु परमप्राप्यभूत आचार्य का लाभ ‘निरुपाधिकसुहृत्’ विशेषकटाक्ष और आश्रयणआशा को स्वयमेव कल्पना कर अद्वेष आभिमुख्य का उत्पादन कर सात्विकसंभाषण में लगा सदाचार्यप्राप्ति को करानेवाले निर्हेतुककृपावान् भगवान् से होता है ।
मूलम्
उपकार्यवस्तुगौरवेणाचार्यादत्यंतमुपकारक ईश्वरः ॥४५३॥
श्लोक
उपकार्यवस्तुमाहात्म्यादाचार्यादधिकः किल । उपकारी भवेदीशः सर्वशास्त्रार्थदर्शने ॥ ४५३ ॥
टीका संस्कृता
तर्ह्युभावप्युपकारकत्वे समौ किमित्यत आह-उपकार्येत्यादि । उभाभ्यामुपकृतयोर्वस्तुनोस्तारतम्यतौलनेन दृष्टयोराचार्योपकार्यवस्तुनो बंधमोक्षोभयहेतोः प्रथमपर्वाद्भगवद्विषयाद्भगवदुपकार्यवस्तुनो मोक्षैकहेतोश्चरमपर्वस्याचार्यविषयस्य गौरवेणेश्वरोपकारकादाचार्यादाचार्योपकारक ईश्वरो महोपकारक इत्यर्थः ।
टीका हिन्द्या
उपकार्यवस्तु के गौरव से आचार्य की अपेक्षा ईश्वर अधिक उपकारक है ॥ ४५३ ॥ ऐसा हो तो उपकार करने में दोनों बराबर हैं क्या ? इस शंका में कहते हैं-उपकार्यवस्तु इत्यादि । दोनों से उपकृत वस्तुओं को तोलनेपर आचार्य से उपकृत वस्तु बंध और मोक्ष का हेतु प्रथमपर्व भगवद्विषय की अपेक्षा भगवान् से उपकृत वस्तु मोक्षैकहेतु चरमपर्व आचार्यरूप विषय को गौरव से ईश्वर का उपकार करनेवाले आचार्य की अपेक्षा आचार्य का उपकार करनेवाले ईश्वर महोपकारक हैं ।
मूलम्
‘अचिंत्याद्भुताक्लिष्टज्ञानवैराग्यराशये’, ‘अगाधभगवद्भक्तिसिंधवे’ इत्युक्तप्रकारेण आचार्यस्याधिक्यं ज्ञानवैराग्यभक्तिभिः खलु, तज्ज्ञानवैराग्यभक्तिमंतमाचार्यं संबंधं त्यजति चेत् ताः भगवल्लाभस्य हेतवो भवंति किमित्यत आह-आचार्यसंबंध इत्यादिना ।
मूलम्
आचार्यसंबंधः स्थितश्चेज्ज्ञानभक्तिवैराग्यान्युत्पादयितुं शक्यानि, आचार्यसंबंधो नष्टश्चेत् तेषां सत्वेऽपि प्रयोजनं नास्ति ॥ ४५४ ॥
श्लोक
सत्ये त्वाचार्यसंबन्धे विरागज्ञानभक्तयः । शक्या ह्युत्पादने सम्यङ् नष्टश्चेद्देशिकस्य तु । सम्बन्धो ज्ञानदीनां च सत्त्वेऽपि न प्रयोजनमीरितम् ॥ ४५४ ॥
टीका संस्कृता
पूर्वोक्तप्रकारेणोत्तारक उपकारकश्च स्वाचार्योऽयं मदीय इति यथाभिमन्येत तथा तच्चरणयोः स्वस्य विद्यमानसंबंधः स्वविप्रतिपत्त्या यथा न नश्येत्तथा तं रक्षन् वर्तते चेदात्मालंकारभूततत्त्वज्ञानमप्राप्तविषयवैराग्यं प्राप्तविषयभक्तिरित्यात्मगुणानामभावेऽपि सदाचार्यप्रसादाद्यैः क्रमेणोत्पादयितुं शक्यानि । सर्वमंगलहेतुः स आचार्यसंबंधः स्वविप्रतिपत्त्या नष्टश्चेज्ज्ञानादीनां तेषां पूर्वसुकृतैः केषांचित् सत्त्वेऽपि भगवदंगीकारहेतुत्वाभावात् निष्प्रयोजनानीत्यर्थः ।
टीका हिन्द्या
आचार्यसंबंध नष्ट न हो तो ज्ञानभक्तिवैराग्यों का संपादन कर सक्ते हैं, आचार्यसंबंध नष्ट हो तो उन के होने पर भी प्रयोजन नहीं ॥ ४५४ ॥ “अचिंत्य अद्भुत अक्लिष्ट ज्ञानवैराग्यों के राशि और अगाध भगवद्भक्ति के समुद्र” इस वचनानुसार ज्ञानवैराग्यभक्तियों से आचार्य श्रेष्ठ होते हैं । तादृश ज्ञानवैराग्यभक्तिविशिष्ट इस आचार्यसंबंध को छोडनेपर भी वे भगवल्लाभ के हेतु होयंगे क्या ? इस शंका में कहते हैं—आचार्यसंबंध इत्यादि । पूर्वोक्तप्रकार उत्तारक और उपकारक स्वाचार्य “यह हमारा है” ऐसा अभिमान करे तैसा उन के चरण में अपना संबंध नष्ट न होनेपर आत्मालंकारभूत तत्त्वज्ञान, अप्राप्तविषयवैराग्य, प्राप्तविषयभक्तिरूप आत्मगुण न होनेपर भी उस आचार्य के अनुग्रहादि से क्रम से संपादन करसक्ते हैं । सर्वमंगलहेतु आचार्यसंबंध अपने अज्ञान से नष्ट हो तो ज्ञानादि पूर्वपुण्यफलतया होनेपर भी भगवदंगीकारहेतु न होने से निष्प्रयोजन होते हैं ।
मूलम्
मांगल्यसूत्रं स्थितं चेद् भूषणानि कृत्वा धर्तुं योग्यानि, मांगल्यसूत्रं गतं चेद् भूषणानि सर्वाण्यवद्यकराणि ॥ ४५५ ॥
श्लोक
स्थितं मांगल्यसूत्रं चेद् भूषणानि सुधारयेत् । नष्टं मांगल्यसूत्रं चेद् भूषणं दूषणं भवेत् ॥ ४५५ ॥
टीका संस्कृता
प्रयोजनाभाव एव न, अवद्यकराणीत्याह-मांगल्यसूत्रमित्यादिना । पतिव्रतायाः पतिसंबंधसूचकं मांगल्यसूत्रमेकमपि स्थितं चेद् भूषणानामभावेऽपि द्रव्योपपत्तौ कृत्वा धर्तुं योग्यानि, भूषणानि संतीति विचार्य मांगल्यसूत्रं त्यक्तं चेद्विधवालंकारककल्पत्वाद् भूषितानि भूषणानि सर्वाण्यवद्यावहानीत्यर्थः । अनेनात्मभूषणभूतज्ञानवैराग्यभक्तीनामभावेऽप्याचार्ये संबंधमात्रं स्थितं चेत् तस्य प्रसादेन ताः क्रमेणोत्पादयितुं शक्याः, आचार्यसंबंध एको नष्टश्चेदात्मभूषणभूतज्ञानवैराग्यभक्तीनां सत्त्वेऽपि ताः श्लाघ्यताहेतुर्न भवंति अवद्यावहा भवतीत्यर्थः ।
टीका हिन्द्या
माङ्गल्यसूत्र हो तो भूषण बना धारण करसक्ते हैं, माङ्गल्यसूत्र नष्ट होनेपर सब भूषण दोषावह हैं ॥ ४५५ ॥ प्रयोजनाभाव मात्र नहीं अवद्यकर भी है ऐसा कहते हैं—मांगल्यसूत्र इत्यादि । पतिव्रता स्त्री को पतिसंबंधसूचक मांगल्यसूत्र एक रहने से भूषण न रहने पर भी द्रव्य मिलने पर बनाकर धारण कर सक्ते हैं । ‘इतने भूषण हैं’ ऐसा समझ मांगल्यसूत्र को निकाल देनेपर विधवालंकारसदृश धारण किये हुए संपूर्णभूषण अवद्यकर होते हैं । इस से आत्मभूषणभूत ज्ञानवैराग्यभक्ति न होने पर भी आचार्यसंबंधमात्र नष्ट नहो तो उन के अनुग्रह से वे क्रम से होते हैं, आचार्यसंबंध नष्ट होनेसे आत्मगुण ज्ञानवैराग्य होनेपर भी वे श्लाघ्यताहेतु न हो अवद्यकर होते हैं ।
मूलम्
आचार्यसंबंधे सत्यपि स्वरूपविकासक ईश्वरः खलु, तस्मिन्नष्टेप्येतावदात्मगुणवतः तस्य स्वरूपविकालं न कुर्यात् किमिति शंकायामाह-कमलस्येत्यादिना ।
मूलम्
कमलस्य विकासक आदित्य एव जलवियोगे यथा तच्छोषयति, तथा स्वरूपविकासकृदीश्वर एवाचार्यसंबंधनाशे तद् ग्लपयति ॥ ४५६ ॥
श्लोक
कंजविकासकृत् सूर्यो जलाभावे तु शोषयेत् । संबंधाभावकाले च देशिकस्य तथैव हि । सत्ताविकासकृच्छ्रीशो ग्लपयेन्न तु पोषयेत् ॥ ४५६ ॥
टीका संस्कृता
जलजमिति प्रकारेण जल उत्पन्नस्य जलैकधारकस्य कमलस्य ‘रक्तकमलमाकाशगतेनोष्णकिरणेन विना न विकासते’ इति प्रकारेण नियमेन विकासक आदित्य एव स्वधारकजलविश्लेषे तत्तामरसं न विकासयतीत्येतावदेव न किंतु शोषयति, तथाऽऽचार्यान्वयेन सत्ताप्राप्त्यनंतरं सत्ताधारकस्तत्संबंधः स्थितश्चेदस्य स्वरूपस्य ज्ञानविकासमुखेन ‘विद्यमाना लोका अहं च सत्तावंतः’ इति प्रकाशक ईश्वर एव स्वसत्ताधारकमाचार्यसंबंधं स्वविप्रतिपत्त्या स नाशयति चेत्तदा स्वेन विकासनीयं तत्स्वरूपं न विकासयतीत्येतावद्विना दिने दिने नष्टप्रज्ञं यथा संकुचितं स्यात् तथा करोतीत्यर्थः । ‘नारायणोऽपि विकृतिं याति गुरोः प्रच्युतस्य दुर्बुद्धेः । कमलं जलादपेतं शोषयति रविर्न तोषयति ॥’ इत्युक्तं हि ।
टीका हिन्द्या
कमल को विकास करनेवाले आदित्य ही जलसंबंध छूटने से जैसे उस को सुखाता है वैसे स्वरूप को विकास करनेवाले ईश्वर ही आचार्यसंबंध नष्ट होने पर उस को सुखाता है ॥ ४५६ ॥ आचार्यसंबंध होनेपर भी स्वरूप को विकास करनेवाले ईश्वर ही हैं तो आचार्यसंबंध नष्ट होनेपर भी इतने आत्मगुणविशिष्ट के स्वरूप को प्रकाश नहीं करेगा क्या ! इस शंका में कहते हैं-कमल को इत्यादि । जल में उत्पन्न हो जलैकधारक कमल को नियमेन प्रफुल्लित करनेवाले आदित्य ही स्वधारकभूत जल के विश्लेष से उस कमल को विकास नहीं करते इतना ही मात्र नहीं अपितु सुखाते भी हैं । आचार्यसंबंध से सत्ता को प्राप्त हो स्वसत्ताधारक उन के संबंध रहने से इस के स्वरूप को ज्ञानविकास द्वारा प्रफुल्लित करनेवाले ईश्वर ही स्वसत्ताधारक आचार्यसंबंध को अपनी विप्रतिपत्ति से चेतन नष्ट कर लिया तो उस के स्वरूप को ईश्वर विकसित नहीं करते हैं इतना ही नहीं किंतु दिन दिन जैसे प्रज्ञा नष्ट हो तैसा संकुचित करते हैं । “गुरु से अलग हुआ दुर्बुद्धि के विषय में नारायण भी विकृत होते हैं, जल से अलग हुए कमल को सूर्य विकसित न कर सुखाता है” ऐसा कहा है ।
मूलम्
एवं किमित्युच्यते एतदाचार्यसंबंधनाशेऽपि त्यक्तुं विचारेऽपि न त्यक्तुं शक्यत इत्युक्तो भगवत्संबंध उज्जीवनस्य निदानं न भवति किमित्यत आह-अनेन विनेत्यादिना ।
मूलम्
अनेन विना भगवत्संबंधो दुर्लभः ॥४५७॥
श्लोक
विनानेन च सम्बन्धो हरेर्दुलभमीरितः ॥ ४५७ ॥
टीका संस्कृता
अनादिसिद्धोऽप्याचार्येण ज्ञापनात्पूर्वं तत्कल्पस्तेन ज्ञापनादनंतरमस्य कार्यकरणयोग्यः स एतदाचार्यसंबंधनाशकाल एवैतन्मूलकः स्वयमपि नश्यत्यत एतदाचार्यसंबंधेन विना भगवत्संबंधोऽस्य दुर्लभ इत्यर्थः । तस्मादेतन्नाशेऽपि सोऽस्माकमुज्जीवनहेतुरिति स्थातुमुपायो नास्तीति भावः ।
टीका हिन्द्या
इस के विना भगवत्संबंध दुर्लभ है ॥ ४५७ ॥ ऐसा क्यों कहते हैं ? इस आचार्यसंबंध नष्ट होनेपर भी छोडने से भी नहीं छूटनेवाले भगवत्संबंध उज्जीवन का हेतु नहीं हो सक्ता क्या ? इस शंका में कहते हैं-इस के इत्यादि । अनादिसिद्ध होनेपर भी आचार्य के जनाने के पहिले असत्कल्प हो उस के जनाने के बाद इस का कार्य करनेवाला आचार्य का संबंध नष्ट होनेपर इस के द्वारा होनेवाला भगवत्संबंध भी नष्ट होता है, इस लिये आचार्यसंबंध विना भगवत्संबंध नहीं हो सक्ता । इस कारण आचार्यसंबंध नष्ट होनेपर भी भगवत्संबध उज्जीवन का हेतु है ऐसा नहीं रहसके ।
मूलम्
एवमाचार्यसंबंधेन विना भगवत्संबंधालाभादात्मोज्जीवनस्य तदुभयमप्यपेक्षितमिति प्रदर्शनानंतरं भागवतविषयसंबंधश्च तद्वदस्यावश्यापेक्षित इत्यमुमर्थं दर्शयितुं तद्विषयप्रश्नमनुवदति-द्वयमपीत्यादिना ।
मूलम्
द्वयमपि नालं किं ? मध्ये महाकुटुंबी किमर्थमिति चेत् ॥४५८॥
श्लोक
नालं द्वयं हि मध्ये च महाभागवतः किमु । प्रयोजनमितीत्थं चेत्समाधिस्तत्र चोच्यते ॥ ४५८ ॥
टीका संस्कृता
‘आत्मोज्जीवनस्य भगवत्संबंधस्थापक आचार्यसंबंधस्तत्स्थापितभगवत्संबंधश्चेति उभयमपि नालं किं ? प्राप्यमध्यपर्वोक्ततया मध्ये महाकुटुंबीवत् स्थितो भागवतैः सह ‘सात्विकैः संभाषणम्’ इत्युक्तः संबंधः किमर्थमपेक्षित इति चेदित्यर्थः ।
टीका हिन्द्या
दोनों बस नहीं क्या ? बीच में भागवतसंबंध क्यों ? ॥ ४५८ ॥ एवं आचार्यसंबंध विना भगवत्संबंध का लाभ नहीं होनेसे आत्मोज्जीवन के लिये दोनों की आवश्यकता को दिखा भागवतविषयसंबंध की आवश्यकता को दिखाने के लिये तद्विषयप्रश्न को अनुवाद करते हैं-दोनों इत्यादि । आत्मोज्जीवन के लिये भगवत्संबंध के स्थापक आचार्यसंबंध, उस से स्थापित भगवत्संबंध ये दोनों बस नहीं क्या, प्राप्यमध्यपर्व में कहा हुआ भागवतसंबंध की [[अवश्यतकता]] क्यों चाहिये ?
मूलम्
अस्य प्रश्नस्योत्तरमाह-लताया इत्यादिना ।
मूलम्
लताया उपघ्ने आरोपणसमये यथाऽल्पशाखाऽपेक्षिता तथाऽऽचार्यान्वयस्याप्ययमपेक्षितः ॥ ४५९॥
श्लोक
लताया रोपणे काले ह्यल्पशाखा यदाऽऽपेक्षिता । तथाचार्यान्वयस्यापि यूथोऽयं समपेक्षितः ॥ ४५९ ॥
टीका संस्कृता
उपनपेक्षायां वर्धमानाया लतायास्तत्परिणामस्य सर्वस्यावकाशदानाय महति कस्मिंश्चिदुपघ्ने संयोजनसमये प्रथमतस्तेन सह संयोजनासंभवादधःपातं विना प्रथमं स्वयमाश्रयभूता समीपे स्थितशाखान्तरान्वयमुखेनोपघ्नवृक्षे [[व्यापर्यन्ती|व्याप्यंती]]ऽल्पशाखा यथाऽपेक्षिता भवति तथा ‘उपघ्नमन्विष्य धावंती लता इव’ अभिमुखस्यैतच्चेतनस्याश्रितानधःपातं विनोज्जीवयतोर्महदाश्रयभूतयोराचार्यचरणयोरन्वयसमये प्रथमतस्तदन्वयसिद्धेर्दुःशकतत्वात् प्रथमं स्वयमाश्रयभूताः संतः स्वैः सह मेलयित्वा तन्मार्गेणाचार्यविषयेण योजयितुं भागवतैः सह संबंधोऽवश्यापेक्षित इत्यर्थः । एवमाचार्यान्वयस्य मूलं भागवताश्चेदाचार्यलाभः भगवतेति कथमुच्यते इति चेन्न तत्र विरोधः; भागवतान्वयमूलत्वात्तस्याभिमुख्यपर्यंतं यादृच्छिकसुकृतादि स्वयमेव कारयित्वानंतरं भागवतैः सह मेलयित्वा तन्मार्गेण खलु स आचार्यविषयेण योजयति । एतत्सर्वमेतदुक्तदृष्टांते सिद्धम् । तथाहि-चेतनो लतास्थानीयः, आचार्य उपघ्नस्थानीयः, भागवता अल्पशाखास्थानीया इत्युक्तत्वात्, कर्षकः कश्चित् स्वप्रयोजनार्थं प्रथमतो बीजमुप्त्वांकुरितं कृत्वा पल्लवव्यापनपर्यंतं वर्धितां कांचिल्लतामस्या उपघ्नोऽपेक्षित इति स्वयमेवोपघ्नमन्विष्य तत्रारोपयितुमल्पशाखां च निधाय तन्मार्गेण यथोपघ्ने योजयति तथा सर्वशेषी सर्वेश्वरः स्वप्रयोजनार्थमिमं चेतनं प्रथमतः सृष्ट्वा ‘ईश्वरस्य च सौहार्दम्’ इत्यादिप्रकारेण क्रमेणाभिमुख्यपर्यंतं जनयित्वाऽस्यैकमाचार्यं चामुक इति स्वयमेव निश्चित्य तेन योजयितृभिर्भागवतैः सहान्वयं कारयित्वा तन्मार्गेणाचार्यविषयेण योजयतीत्यर्थमानात्, उपघ्न आरोपयितुः कर्षकस्यैव तया तया जायमानप्रयोजनं च यथा भवति तथाऽऽचार्यविषय ईश्वरेण योजितेन चेतनेन जायमानप्रयोजनं चेश्वरस्यैवेति फलितम् । अथाचेतनोपघ्नाद्व्यावृत्तश्चेतनोत्तमोऽयमाचार्यः परसमृद्ध्यैकपरत्वात् स्वशेषिण ईश्वरस्य प्रयोजनमेव स्वप्रयोजनतयाऽनुसंधाय वर्तते खलु ।
टीका हिन्द्या
लता को आलंबन में चढाने के समय जैसे अल्पशाखा की अपेक्षा होती है तैसे आचार्यसंबंध को यह चाहिए ॥ ४५९ ॥ इस प्रश्न का उत्तर कहते हैं-लता को इत्यादि । आलंबन की अपेक्षा कर बढनेवाली लता को स्थान देने योग्य एक बडे आलंबन में लगाने के समय छोटे डालियों की अपेक्षा के तरह अभिमुख चेतन को महदाश्रयभूत आचार्य के चरणों में आश्रयण करने के समय प्रथम उन के संबंध दुःशक होने से भागवत लोग समीप में रह अपने साथ मिला तद्द्वारा आचार्यविषय में मिलाते हैं, इस लिये भागवतसंबंध अवश्यापेक्षित समझना । एवं आचार्यसंबंध के कारण भागवत लोग हो तो ‘आचार्यलाभ भगवान् से’ ऐसा क्यों कहे हैं ? उत्तर-भागवतसंबंध का कारण भगवान् होनेसे । आभिमुख्यपर्यंत स्वयमेव कृषि कर भागवतों के साथ मिला तद्द्वारा आचार्यविषय में मिलाते हैं । ये सब बातें लोकाचार्यजी के कहे हुए दृष्टांत में सिद्ध हैं क्यों कि चेतन को लतास्थान में रख आचार्य को आलंबनस्थान में मान भागवतों को छोटे डालियों के स्थान में कहने से । कर्षक स्वप्रयोजनार्थ पहिले बीज बो अंकुरित पल्लवित होनेतक बढा कर लता को छोटे डालियों में लगा महदाश्रयभूत आलंबन में लगाता है । इस प्रकार सर्वशेषी सर्वेश्वर स्वप्रयोजनार्थ इस चेतन को पहिले सृष्टिकर ‘सौहार्दगुण से’ क्रमेण अभिमुख्यपर्यंत जनाकर आचार्य को आपही निश्चय कर उन के साथ मिलाने वाले भागवतों के साथ मिला तद्द्वारा आचार्यविषय में मिलाते हैं । छोटे डालियों में लगानेवाले कर्षक को लता से जैसा प्रयोजन मिलता है तैसा आचार्यविषय में मिलाया हुआ चेतन से प्रयोजन ईश्वर का ही है यह सिद्ध हुआ । अचेतनभूत आलंबन बिना चेतनोत्तम आचार्य परसमृद्धयैकपर होनेसे स्वशेषीभूत ईश्वर के प्रयोजन ही अपना प्रयोजन मान रहते हैं ।
मूलम्
इतः परं स्वाभिमानेनेत्यारभ्याचार्याभिमान एवोत्तारक इत्यंतमेवं तदीयपुरस्कारपूर्वकमाश्रयणीयस्य सदाचार्यस्याभिमान एवोज्जीवनस्योचितोपाय इत्येतत्प्रबंधतात्पर्यं प्रकाशयति । महार्घस्याभरणस्य नायकरत्नवत् श्रीवचनभूषणस्यायं प्रदेशो नायकरत्नभूतः । एतावद्वक्तुमधिष्ठिका कृता पूर्वेण सर्वेण । उपरि सर्वमत्र निष्ठास्थापनार्थम् । तत्र प्रथममयमर्थः सत्संप्रदायसिद्ध इति सर्वेषां विश्वासार्थमयं स्वस्याप्तोपदेशलब्ध इत्याह-स्वाभिमानेनेत्यादिना ।
मूलम्
स्वाभिमानेनेश्वराभिमानं नाशयतोऽस्याचार्याभिमानं विना गतिर्नास्तीति कृष्णपादस्वामिनि बहुवारं वदति श्रुतम् ॥४६०॥
श्लोक
स्वाभिमानेन श्रीशस्याभिमानं नाशयन् स्थितः । अतोऽस्यापि च संबंधं विना नास्ति गतिः किल ॥ कृष्णो बहुविधं त्वेवं वदतीति श्रुतं मया ॥ ४६० ॥
टीका संस्कृता
अनादिकालमहं मम निर्वाहक इति स्थितस्य स्वस्य दुरभिमानेनायमस्माकं शेषभूतोऽस्य कार्यमस्माकमेव भर इति स्वोज्जीवननिदानभूतेश्वराभिमानं नाशयतोऽस्य दुर्गतिमेवावलंब्यांगीकृत्य स्वस्योज्जीवनार्थं कृषिं कुर्वता परमदयालुनाऽऽचार्येणायं मम शेषभूत इति क्रियमाणमभिमानं विनाऽन्यदुज्जीवनोपायो नास्तीति सकलशास्त्रविदग्रेसरस्य कलिवैरिदासस्य चरणौ सेवित्वा तदेकपरतंत्रे सकलशास्त्रतात्पर्याण्यपि तदुक्तानि श्रुत्वा तन्निष्ठेऽस्मदाचार्ये कृष्णपादस्वामिनि शरणत्वेन बहुवारं वदति श्रुतमित्यर्थः । तस्मादाचार्याभिमान एवास्यात्मन उज्जीवनोपाय इति भावः ।
टीका हिन्द्या
“स्वाभिमान से ईश्वराभिमान को दूर कर लेनेवाले इस चेतन को आचार्याभिमान के विना गति नहीं” ऐसा श्रीकृष्णपादस्वामी अनेक बार कहते हुवे सुने हैं ॥ ४६० ॥ ‘स्वाभिमान से’ ऐसा आरंभकर ‘आचार्याभिमान ही उत्तारक है’ यहांतक भागवतों के आगेकर आश्रयण करने योग्य सदाचार्य का अभिमान ही उज्जीवन का उचितोपाय है समझ प्रबंधतात्पर्य को प्रकाश करते हैं । महार्घ आभरण का नायकमणि के तरह श्रीवचनभूषण का यह प्रदेश नायकरत्न होता है । पहिले और पीछे कहे हुए सब इस अर्थ को स्थापन करने के लिये उपोद्धात समझना । पहिले पहल यह अर्थ सत्संप्रदायसिद्ध समझ सब को विश्वास होनेके लिये यह अर्थ अपने को आप्तों के उपदेश से प्राप्त हुआ ऐसा कहते हैं—स्वाभिमान से इत्यादि । अनादिकाल ‘मैं मेरा निर्वाहक हूं’ ऐसा स्थित अपने दुरभिमान से ‘यह हमारा शेषभूत है इस का कार्य हमारा ही भार है’ ऐसे अपने उज्जीवननिदानभूत ईश्वराभिमान को नाश करनेवाले इस चेतन की दुर्गति का अवलंबन कर परमदयालु अपने उज्जीवन के लिये यत्न करनेवाले आचार्य के अभिमान बिना और कोई उज्जीवनोपाय नहीं है ऐसा सकलशास्त्रविद्यग्रेसर कलिवैरिस्वामी के चरणों में आश्रयण कर उन के परतंत्र सकलशास्त्र के तात्पयों को उन के मुख से सुन तन्निष्ठ हमारे आचार्य श्रीकृष्णपादस्वामी आचार्याभिमान को उपायतया अनेक आवृत्ति कहनेपर मैं सुना हूं । इस लिये आचार्याभिमान ही इस आत्मा का उज्जीवनोपाय है समझना ।
मूलम्
एवमाचार्याभिमानं विना गतिर्नास्तीति कथमुच्यते ? शास्त्रसिद्धा भक्त्याद्युपायविशेषाः संति खल्विति शंकायां तद्व्यतिरिक्ताः सर्वेऽस्योपाया न भवतीत्यमुमर्थं क्रमेणाहोपरि । तत्र प्रथमं भक्तेरुपायत्वाभावमाह-स्वस्वातंत्र्येत्यादिना ।
मूलम्
स्वस्वातंत्र्यभयेन भक्तिश्च्यवते ॥४६१॥
श्लोक
च्यवते भक्तिरुत्कृष्टा स्वस्वातंत्र्यभयेन तु ॥ ४६१॥
टीका संस्कृता
भगवत्प्राप्तिसाधनतया विहिता स्वयत्नसाध्या भक्तिर्भगवदेकपारतंत्र्यविरोधिस्वस्वातंत्र्यमुत्पादयेदिति भयेनास्यानुपायश्च्यवत इत्यर्थः ।
टीका हिन्द्या
स्वस्वातंत्र्यभय से भक्ति उपाय नहीं ॥ ४६१॥ एवं “आचार्याभिमान बिना गति नहीं” ऐसा क्यों कहते हो ? शास्त्रसिद्ध क्या उपाय नहीं हो सक्ते हैं क्या ? इस शंका में आचार्याभिमान बिना पूर्वोक्त कोई उपाय नहीं हो सक्ते हैं इस अर्थ को क्रम से कहते हैं । पहिले भक्ति उपाय नहीं ऐसा कहते हैं-स्वस्वातंत्र्य इत्यादि । भगवत्प्राप्तिसाधनतया कही हुई भक्ति स्वयत्नसाध्य होनेसे भगवदेकपारतंत्र्यविरोधी स्वस्वातंत्र्य को उत्पन्न करती है, इस भय से चेतन को उपाय नहीं होती है ।
मूलम्
भगवत्स्वातंत्र्यभयेन प्रपत्तिश्च्यवते ॥ ४६२॥
श्लोक
प्रपत्तिश्च्यवते तद्वद्धरिस्वातंत्र्यभीतितः ॥ ४९२ ॥
टीका संस्कृता
अनंतरं प्रपत्तेरनुपायत्वमाह-भगवत्स्वातंत्र्येत्यादिना । स्वपारतंत्र्यानुरूपा महाविश्वासरूपप्रपत्तिर्बंधमोक्षोभयनिर्वाहकः भगवान् स्वस्वातंत्र्येण पुनरपि कर्मानुगुणं कृतचिंतां दूरीकृत्य संसारयति चेत् किं कर्तव्यमिति महाभयेनास्यानुपायश्च्यवत इत्यर्थः ।
टीका हिन्द्या
भगवत्पारतंत्र्यभय से प्रपत्ति उपाय नहीं होती है ॥ ४६२ ॥ अब प्रपत्ति की उपायाभावता को कहते हैं—भगवत्पारतंत्र्य इत्यादि । स्वपारतंत्र्यानुरूप महाविश्वासरूपप्रपत्ति बंधमोक्षउभयनिर्वाहक भगवान् स्वस्वातंत्र्य से फिर भी कर्मानुगुण संसारी बनावे तो क्या किया जाय इस भय से उपाय नहीं होता है ।
मूलम्
आचार्यविषये स्वकृतमाश्रयणमहंकारगर्भितत्वात्कालं प्रतिगृह्य मुद्रिकाधारणवत् ॥४६३॥
श्लोक
अहंकारविशिष्टत्वाद्देशिकाश्रयणं खलु । कालेन मुद्रिकावत् स्यान्न कार्यकारणं ततः ॥४६३॥
टीका संस्कृता
अनंतरमाचार्यविषये स्वकीयस्वीकारस्यानुपायत्वमाह-आचार्यविषय इत्यादिना । आचार्यस्योपायत्वेन स्वकृतः स्वीकारः स्वफलितकर्तृत्वरूपस्वरूपनाशकाहंकारविशिष्टत्वात्स्वनाशकं कालं प्रतिगृह्य तत्स्वर्णनांगुलीयकधारणं कृतं चेद्यथाऽवद्यकरं भवति तथा स्वस्य स्वरूपस्यावद्यकरो भवतीत्यर्थः । तस्मादयमपि नोपाय इति भावः ।
टीका हिन्द्या
आचार्य को अपने से आश्रयण करना अहंकारगर्भित होने से मृत्युदान ले अंगूठी धारण करने के तरह दोषावह होता है ॥ ४६३ ॥ अब आचार्यविषय में स्वगतस्वीकार भी उपाय नहीं है ऐसा कहते हैं-आचार्य को इत्यादि । आचार्य को उपायतया आप स्वीकार करनेपर फलभोक्ता और कर्त्ता आप होनेसे स्वरूपनाशक और अहंकारगर्भित होता है । जैसा स्वविनाश कर मृत्युदान ले उस स्वर्ण से अंगूठी बना धारण करना अवद्यकर होता है तैसा अपने स्वरूप का अवद्यकर समझना । इस लिये यह भी उपाय नहीं है ।
मूलम्
आचार्याभिमान एवोत्तारकः ॥ ४६४॥
श्लोक
आचार्यस्याभिमानं वै सदोत्तारक ईरितः ॥ ४६४॥
टीका संस्कृता
पारिशेष्यात्पूर्वं स्वोक्त एवोपाय इति समापयति-आचार्याभिमान एवेत्यादिना । मोक्षसाधनतया शास्त्रसिद्धानां भक्त्यादीनामुपायत्वाभावे निरतिशयकृपावतो निर्हेतुकं स्वमंगीकृत्य निरपायं रक्षत आचार्यस्यायमस्मदीय इत्यभिमान एवेनं संसारादुत्तारयतीत्यर्थः ।
टीका हिन्द्या
आचार्याभिमान ही उत्तारक है ॥ ४६४ ॥ अंततोगत्वा अपने से पहले कहा हुआ ही उपाय होता है ऐसा समाप्त करते हैं-आचार्याभिमान इत्यादि । मोक्षसाधनतया शास्त्रसिद्धभक्त्यादिओं में एक भी उपाय नहीं होनेपर निरतिशयकृपावान् निर्हेतुक चेतन को अंगीकार कर अपायरहित रक्षा करनेवाले आचार्य का अभिमान ही इस को संसार से उद्धार करता है ऐसा समझना ।
मूलम्
एवं ‘स्वतंत्रस्योपायत्वेनाश्रयणे’ इत्यारभ्योपपादितं चरमोपायं याथार्थ्येन शोधित्वा निर्णीतवान् । अनंतरमेतदुपायनिष्ठस्याधिकारिणः कर्तव्यविशेषान् विस्तरेण वदति, तत्र प्रथमं सुलभमाचार्यविषयं विहाय दुर्लभं भगवद्विषयं नेच्छेदित्यमुमर्थं दृष्टांतमुखेनाह-हस्तगतेत्यादिना ।
मूलम्
हस्तगतार्थं त्यक्त्वा भूमिनिक्षिप्तमर्थं न बहुमन्येत ॥ ४६५ ॥
श्लोक
हस्ते गतं धनं हित्वा भूगतं नातिभावयेत् ॥ ४६५ ॥
टीका संस्कृता
हस्ते विद्यमानधनवदतिसुलभमाचार्यमपकृष्टमनुसंधायानादरेण त्यक्त्वा भूमावन्यैर्निक्षिप्तधनवद्ग्रहीतुमशक्यत्वाद् ‘दुर्लभार्थः’ इति प्रकारेण दुर्लभं भगवद्विषयं रक्षकत्वेनाश्रयितुमिच्छां न कुर्यादित्यर्थः । ‘सुलभं स्वगुरुं त्यक्त्वा दुर्लभं य उपासते । लब्धं त्यक्त्वा धनं मूढो गुप्तमन्वेषते क्षितौ ॥’ इति, ‘आश्रीयमाणमाचार्यम्’ इत्यारभ्य ‘स्वहस्तगतं धनं त्यक्त्वा ये केचन भूमावन्यैर्निक्षिप्तं तद्धनमन्वेषमाणाः संचरंति तत्सदृशः’ इत्युक्तं हि ।
टीका हिन्द्या
हस्तगत वस्तु को छोड़ गाढा हुआ वस्तु को नहीं चाहना ॥ ४६५ ॥ “स्वतंत्र को उपायतया स्वीकार करने के समय” ऐसा आरंभ कर कहा हुआ चरमोपायस्वरूप को यथार्थतया शोधन कर निश्चय किये हैं । अब इस उपायनिष्ठ अधिकारी के कर्तव्याकर्तव्य विशेषों को विस्तारपूर्वक कहते हैं । उस में पहिले सुलभ आचार्य को छोड दुर्लभ ईश्वर को अपेक्षा नहीं करना इस अर्थ को दृष्टांत द्वारा कहते हैं—हस्तगत इत्यादि । हस्तगत धन के तरह अतिसुलभ आचार्य को कम समझ अनादर से छोड भूमि में गाढा हुआ धन के तरह दुर्लभ भगवान् को आश्रयण करने की इच्छा नहीं करना चाहिये । ‘सुलभ अपने गुरु को छोड दुर्लभ का आश्रयण करना हस्तगत धन को छोड गुप्तधन की अपेक्षा करने की तरह समझना ।’
मूलम्
पुनरपि किंचिद् दृष्टांतमुखेन सुलभमाचार्यविषयं त्यक्त्वा दुर्लभे भगवद्विषये नाशां कुर्यादित्याह – पिपासोत्पत्तिसमय इत्यादिना ।
मूलम्
पिपासोत्पत्तिसमये करस्थमुदकमुपेक्ष्य जीमूतजलं सागरसलिलं सरित्सलिलं वापीकूपपयांसि च न वांछेत् ॥ ४६६ ॥
श्लोक
पिपासोत्पत्तिकाले तु कराम्बु समुपेक्ष्य वै । धनगं निधिगं तोयं नदीगं कूपगं तथा । वाप्यादिगं तथा तोयं न वांछेत्सुबुद्धिमान् ||४६६॥
टीका संस्कृता
पिपासातिशयसमये शीघ्रं पानार्हं पात्रगतं स्वहस्ते विद्यमानं जलं सुलभत्वेनैव हेतुनाऽनादृत्य भूमौ विनाश्याकाशस्थत्वेनाप्राप्यं, भूमिस्थत्वेऽपि दूरस्थं, आसन्नत्वेऽपि प्रवाहकालव्यतिरिक्तकालेऽविद्यमानं, सदावर्तमानत्वेऽपि तावद्दूरं गत्वोपजीव्यं, स्थितस्थले सत्त्वेऽपि खनित्रादिभिः खनित्वा प्राप्यं जीमूतादिजलं प्रत्याशां कुर्वन्निव रक्षकापेक्षोत्पत्तिदशायां तदानीमेव स्वस्योपकारार्हं स्वाधीनमाचार्यविषयं सौलभ्यमेवावलंब्योपेक्ष्य परमाकाशवर्तिनं दुष्प्रापं परत्वं, भूमौ सत्त्वेऽपि क्षीराब्धिपर्यंतं गंतुं समर्थव्यतिरिक्तानामप्राप्यं व्यूहं, आसन्नत्वेऽपि तात्कालिकान्विना पाश्चात्यानामलभ्यं विभवं, नित्यसंनिधिसत्त्वेऽपि संभाषणादिभिरनेन सहामिलित्वा स्थितमर्चावतारं, स्थितस्थले सत्त्वेऽपि यमनियमादिक्रमेण यत्नं कृत्वा द्रष्टव्यमंतर्यामिणं च प्रत्याशां न कुर्यादित्यर्थः । ‘चक्षुर्गम्यं गुरुं त्यक्त्वा शास्त्रगम्यं तु यः स्मरेत् । हस्तस्थमुदकं त्यक्त्वा घनस्थं सोऽभिवांछति ॥’ इति, ‘लाभयोग्यतया स्थितमाचार्यम्’ इत्यारभ्य ‘अंबुदं पश्यन् वर्तमानः’ इवेत्युक्तं हि । इदं व्यूहादीनामप्युपलक्षणम् ।
टीका हिन्द्या
प्यास लगने पर हस्तगत जल को छोड मेघजल, समुद्रजल, नदीजल और वापीकूपजलों को नहीं चाहना चाहिये ॥ ४६६ ॥ और कई दृष्टांत द्वारा सुलभ आचार्य को छोड दुर्लभ भगवान् को नहीं चाहना चाहिये ऐसा कहते हैं-प्यास लगनेपर इत्यादि । पिपासा बढनेपर उसी बखत पान करने योग्य पात्र में धरा हुआ हस्तगत जल को सुलभ समझ अनादर कर भूमि में गिरा नष्ट होनेवाले आकाशस्थ मेघजल, भूमि में होनेपर भी दूरस्थ समुद्रजल, समीप में होनेपर भी वर्षाकाल में बह शुष्कभूत नदीजल, सदा होनेपर भी यहांतक जाकर पीने योग्य वापीकूपतडाक जल, और खनित्रादि साधन से खोदकर निकालने योग्य भूगतजलों को अपेक्षा करनेवालों के तरह रक्षकापेक्षा होने के समय उसी वखत सहाय करने योग्य हस्तगत आचार्यविषय को सुलभ समझ उपेक्षा कर परमाकाशस्थदुष्प्राप्य परत्व, भूमि में होते हुए भी क्षीराब्धिपर्यंत जासकनेवालों के बिना औरों को अनुपयुक्त व्यूह, समीप में होते हुए भी तात्कालिक मनुष्यों के विना औरों की दुर्लभ रामकृष्णावतार, नित्यसंनिधि करने पर भी संभाषणादियों से चेतनों के साथ नहीं मिलनेवाले अर्चावतार, स्थितस्थल में होते हुए भी यमनियमादिक्रम से यत्नपूर्वक दर्शन करने योग्य अंतर्यामी को भी नहीं चाहना चाहिये । ‘चक्षुष के गोचर गुरु को छोड शास्त्रगोचर को जो चाहता है, वह हस्तगतजल को छोड़ मेघजल को अपेक्षा करनेवाले के तरह परिहास का विषय होता है ।’ इत्यादि प्रमाणों को समझना ।
मूलम्
एवं सुलभ आचार्यविषये स्वरक्षणस्य विद्यमाने सति तमुपेक्ष्य दुर्लभान् परत्वादीन् न वांछेत्, तथापि प्राप्यत्वेन तेऽस्य वांछनीयाः खल्विति चेत्ते सर्वे आचार्य एवेति वर्तेतेत्याह-गानश्रवण इत्यादिना ।
मूलम्
गानश्रवणस्थलमार्तध्वनिश्रवणस्थलमुत्पतनस्थलमवरोधनस्थलं भोजयितृस्थलं च सर्वं प्राप्तविषय एवेति वर्तेत ॥ ४६७॥
श्लोक
गानश्रुतिस्थलं तद्वदाक्रोशश्रवणस्थलम् । भोजनस्य स्थलं तद्वदवतारावरोधने । एवं वर्तेत सद्बुद्धिः सर्वे वै प्राप्यगोचराः ॥ ४६७ ॥
टीका संस्कृता
‘एतत्साम गायन्नास्ते’ इत्युक्तप्रकारेण निरंतरानुभवपरैर्नित्यमुक्तैरनुभवस्य सात्म्यार्थं क्रियमाणसामगानश्रवणस्थलं परमपदं, असुरराक्षसपीडितानां ब्रह्मरुद्रादीनामार्तनादं शृण्वतः शयनस्थलभूतव्यूहस्थलं, तेषामार्तध्वनिं श्रुत्वा व्याकुलतयोत्थाय ‘नागपर्यंकमुत्सृज्य ह्यागतो मथुरां पुरीम्’ इत्युक्तप्रकारेण क्षीरसमुद्रे शेषशयनादित आगंतुमुत्पतन्निव [[गत्य|आगत्य]] अवततारेत्यवतारस्थलं, विचारितकार्यसमाप्तिपर्यंतं मलेयाळंकारनिरोधवदवरोधनं कृत्वा स्थितस्यार्चावतारस्थलं, ‘येषामिंदीवरश्यामो हृदये सुप्रतिष्ठितः ।’ इति, ‘तेजिष्ठशंखगदानंदकचक्रविशिष्टोऽद्वितीयः शेषभूतस्य मम हृदये स्थितः’ इत्युक्तप्रकारेण हृदयकमले स्थित्वा स्वप्रीतिविषयाणां स्वसौंदर्यस्य भोजयितुरंतर्यामिणः स्थलमित्येतत्प्राप्यस्थलानि सर्वाणि स्वस्य प्राप्तस्थलभूतः प्राप्य आचार्यविषय एवेति निश्चयेन वर्तेतेत्यर्थः । अवरोधनस्थलं नाम-अन्यैरविदिततया तिरस्करिणीं कृत्वा वर्तमानांतर्यामिणः स्थलम् । भोजयितृस्थलं नाम-चक्षुर्विषयत्वेन स्थित्वा स्वसौंदर्यगुणांश्चाश्रितान् भोजयदर्चावतारस्थलमिति वा । ‘येनैव गुरुणा यस्य न्यासविद्या प्रदीयते । तस्य वैकुंठदुग्धाब्धिद्वारकाः सर्व एव सः ॥’ इति ‘किरणैरधिकरणयुक्तः’ इत्यारभ्य कृपया स्थापितवान् सः’ इति चोक्तम् । अथवा गानश्रवणेत्यादीनां रक्षकत्वेन तान्प्रत्याशां न कुर्यादित्येतावदेव न किंत्वेते सर्वे स्वस्यायं विषय एवेति वर्तेतेति पूर्वेण योजना ।
टीका हिन्द्या
गान सुनने के स्थल, पुकार सुनने के स्थल, अवतारस्थल, रोकने का स्थल, खवाने का स्थल ये सब प्राप्त आचार्य ही ऐसा समझ रहना ॥ ४६७ ॥ एवं सुलभ आचार्यविषय के स्वरक्षण के लिये होते हुए इस को उपेक्षाकर दुर्लभ परत्वादिओं को यद्यपि नहीं चाहना तथापि प्राप्यतया वे चेतन को अपेक्षित नहीं क्या ? इस शंका में वे सब आचार्य ही को समझना ऐसा कहते हैं-गान सुनने के स्थल इत्यादि । सामगान करनेवाले नित्यमुक्तों के सदानुभवयोग्य गानश्रवणस्थलरूप परमपद, असुरराक्षसपीडित ब्रह्मादिदेवताओं के आर्तनाद सुनने के लिये योगनिद्रा करनेवाले व्यूहस्थल, उन के आर्तध्वनि सुन घबडाकर अवतार लेनेके स्थल, इच्छितवस्तु के लाभपर्यंत रोकनेवाले अर्चावतारस्थल, हृदयांतर्वर्ति हो आश्रितों को सौंदर्यादि दिखा अनुभव करानेवाले अंतर्यामिस्थल, ये सब प्राप्यस्थल, अपने को प्राप्तप्राप्यभूत आचार्य ही हैं ऐसा निश्चय करना चाहिये, “जिस गुरु से प्रपत्तिउपदेश की जाती है वही गुरु उस चेतन को वैकुंठ, क्षीराब्धि, द्वारका यह सब हैं” इस प्रमाण का अनुसंधान करना ॥
मूलम्
अस्य प्रतिकूलाः स्वतंत्रा देवतांतरपरतंत्राश्च, अनुकूला आचार्यपरतंत्राः, उपेक्षणीया ईश्वरपरतंत्राः ॥४६८॥
श्लोक
स्वतंत्रदेवतान्तरपरतन्त्रास्तथैव च । प्रतिकूला भवन्त्यस्यानुकूला देशिकादृताः । उपेक्षणीया ईशस्य परतन्त्रपरा जनाः ॥ ४६८ ॥
टीका संस्कृता
एवंभूतस्यास्याधिकारिणः स्वरूपनाशकत्वस्वरूपवर्धकत्वतदुभयरहितत्वैः प्रतिकूलाननुकूलाननुभयांश्च दर्शयति-अस्य प्रतिकूला इत्यादिना । एवमाचार्याभिमाननिष्ठः परत्वादिपंचके विद्यमानं प्रावण्यं कृत्स्नमस्मिन् विषय एव प्रवाहं कृत्वा ‘देवमन्यं न जानामि’ इति वर्तमानस्यास्याधिकारिणः सहवासे आत्मनाशकारिणः, स्वतंत्राः-पारतंत्र्यमंगीकृत्यापि भगवद्व्यतिरिक्तदेवतांतराणां परतंत्राश्च, स्वसंसर्गेण स्वरूपवर्धका अनुकूलाः-स्वरूपं याथार्थ्येन ज्ञात्वा तच्चरमावधिनिष्ठाः सदाचार्यपरतंत्राः, एवं स्वरूपनाशकत्वस्वरूपवर्धकत्वयोरभावाज्जिहासोपादेयताऽविषयभूता उपेक्षणीयाश्चरमपर्वाचार्यपारतंत्र्ये श्रद्धां विना प्रथमपर्वेश्वरपारतंत्र्ये श्रद्धां कृत्वा वर्तमाना इत्यर्थः । प्रतिकूलानां कथनस्थले स्वतंत्रदेवतांतरपरतंत्रयोरुभयोरुक्तिः प्रपत्तिप्रकरणोक्तानामन्येषामपि प्रतिकूलानामुपलक्षणम् । प्रथमपर्व निष्ठस्य प्रतिकूला अस्य प्रतिकूला भवत्येव खलु । अनेन पूर्वं भगवत्प्रपन्नाधिकारिणः सहवासतन्निवृत्त्यर्थमनुकूलप्रतिकूलदर्शनं यथाऽकरोत् तथाऽऽचार्याभिमाननिष्ठस्यास्यापि सहवासनिवृत्तिविषयप्रतिकूलान् सहवासविषयाननुकूलांश्च प्रदर्श्य तदधिक उपेक्षणीयविषय एकोऽस्तीति प्रादर्शयत् ।
टीका हिन्द्या
इस को प्रतिकूल स्वतंत्र और देवतांतरपरतंत्र हैं, अनुकूल आचार्यपरतंत्र हैं, उपेक्षा करने योग्य ईश्वरपरतंत्र हैं ॥ ४६८ ॥ एवंभूत इस अधिकारी को स्वरूपनाशकत्वस्वरूपवर्धकत्वउदासीनत्व आदि से प्रतिकूल, अनुकूल, उदासीन लोगों को दिखाते हैं-इस को इत्यादि । एवं आचार्याभिमाननिष्ठ परत्वादिपंचकविषयप्रावण्य को आचार्यविषय में करनेवाले आचार्यव्यतिरिक्त अन्य को नहीं जाननेवाले इस अधिकारी को सहवास करनेपर स्वरूपनाश करनेवाले आत्मापहारी स्वतंत्र और देवतांतरभक्त हैं । अपने संबंध से स्वरूप को बढानेवाले अनुकूल-स्वरूप को अच्छी तरह से जान चरमावधिनिष्ठ सदाचार्य के परतंत्र हैं, ऐसा स्वरूपनाशक और स्वरूपवर्धक न हो उपेक्षा करने योग्य चरमपर्व आचार्यपारतंत्र्य में विश्वास छोड प्रथमपर्वईश्वरपारतंत्र्य में दृढ विश्वास करनेवाले हैं । प्रथमपर्व निष्ठ को जो प्रतिकूल होते हैं वे सब इस को भी प्रतिकूल हैं परंतु उपेक्षणीय विषय अधिक है ।
मूलम्
अस्याधिकारिण आवश्यकानि प्रतिपत्त्यनुष्ठानानि बहुप्रकारमवोचत् । एतत्प्रसंगेऽन्योपायनिष्ठस्य ज्ञानानुष्ठानयोरस्य ज्ञानानुष्ठानयोर्विद्यमानविनियोगविशेषमाह-ज्ञानानुष्ठाने उभे इत्यादिना ।
मूलम्
ज्ञानानुष्ठाने उभेऽप्यन्येषामुपायांगमस्योपेयांगम् ॥ ४६९ ॥
श्लोक
ज्ञानानुष्ठानयुग्मं चान्येषां साधनसाधनम् । उपेयांगं भवेदस्योत्कृष्टपर्वनिवासिनः ॥ ४६९ ॥
टीका संस्कृता
तत्त्वज्ञानं तदनुरूपमनुष्ठानं चाचार्याभिमाननिष्ठादेतस्माद्भिन्नानामधिकारिणामुपायस्याधिकारिसापेक्षत्वादुपेयप्राप्तिपर्यंतमुपायाधिकारस्याप्रच्युत्यनुवर्तनोपयुक्ते तदनुरूपतयोपायशेषभूते भवतः । आचार्याभिमानस्यैवोत्तारकत्वेनोपायाधिकारशेषत्वेन कस्याप्यपेक्षाभावादस्याधिकारिणो विद्यमाने ज्ञानानुष्ठाने उभे अप्याचार्यमुखविकासरूपोपेयस्य शेषभूते इत्यर्थः । अस्योपेयमिति पाठश्चेदाचार्यस्याभिमते एते एवास्योपेयमित्यर्थः ।
टीका हिन्द्या
ज्ञानानुष्ठान दोनों औरों को उपायांग होते हैं इस को उपेयांग होते हैं ॥ ४६९ ॥ तत्त्वज्ञान तदनुरूप अनुष्ठान औरों को उपेयप्राप्तिपर्यंत उपायधिकार नहीं छूटने के लिये उपाय के अंगभूत होते हैं । आचार्याभिमान ही उत्तारक है जिस को ऐसे अधिकारी को उपायाधिकारशेषभूत अंगापेक्षा नहीं होने से इस के ज्ञानानुष्ठान आचार्यमुखोल्लासरूप उपेय का अंग होते हैं ।
मूलम्
अस्य निषिद्धानुष्ठानं स्वस्येतरेषां च नाशकत्वात्त्याज्यम् ॥ ४७० ॥
श्लोक
निषिद्धाचरणं स्वस्य सर्वथा त्याज्यमेव हि । स्वरूपनाशकत्वाच्च स्वस्यापि स्वेतरस्य च ॥ ४७० ॥
टीका संस्कृता
एवं ज्ञानानुष्ठाने उभे अप्याचार्यप्रीतिहेतुत्वेनानुसंधाय सावधानतया वर्तमानस्यास्याधिकारिणोऽवश्यनिवर्तनीयानि वक्तुं विचार्य प्रथमं निषिद्धानुष्ठानं त्याज्यमित्यमुमर्थमाह-अस्य निषिद्धानुष्ठानमित्यादिना । एवंभूतस्याधिकारिणः परदारपरिग्रहादिनिषिद्धानुष्ठानं स्वविनाशस्य स्वानुष्ठानं पश्यतामन्येषां विनाशस्य च जनकत्वात् परित्याज्यमित्यर्थः ।
टीका हिन्द्या
इस को निषिद्धानुष्ठान अपने और अन्यों को नाश करने से त्याज्य होता है ॥ ४७० ॥ एवं ज्ञानानुष्ठान दोनों आचार्यप्रीतिहेतुतया समझ सावधानी से रहनेवाले इस अधिकारी को अवश्य छोडने योग्यों को कहते हुवे पहिले निषिद्धानुष्ठान त्याज्य है ऐसा कहते हैं-इस को इत्यादि । एवंभूत इस अधिकारी को परदारपरिग्रहादि निषिद्धानुष्ठान स्वविनाश और अपने अनुष्ठान को देखनेवाले अन्यों के विनाश को भी करने से त्याज्य होता है ।
मूलम्
स्वस्य नाशोऽपचारत्रयेऽप्यन्वयात्, इतरेषां नाशः स्वानादरेण स्वानुष्ठानांगीकारेण च ॥ ४७१ ॥
श्लोक
स्वस्य नाशो भवेदागस्त्रयेऽप्यन्वयहेतुतः । स्वानुष्ठानकृतत्वाच्च स्वानादरणहेतुतः । इतरेषां च नाशः स्यात्तस्मात्तत्परिवर्जयेत् ॥ ४७१ ॥
टीका संस्कृता
उभयविनाशश्चानेन कथं भवतीत्यत आह-स्वस्य नाश इत्यादि । आचार्याभिमानांतर्गतस्य भगवद्भागवताचार्यविषयाणां त्रयाणामप्यभिमतविषयत्वेन वर्तमानस्य स्वस्य नाशः-तेषां त्रयाणामप्यस्यानिष्टत्वात् अनिष्टकरणस्यापचारत्वात्, क्रूरापचारत्रयेऽप्यन्वयात् । इतरेषां नाशः-चरमपर्वपर्यंतमागत्य स्थितस्य भागवतोत्तमस्य निषिद्धानुष्ठानकृदित्यनादरेण, तत्त्वविदयं तथा कुरुते तत्र दोषाभावादेव खल्वस्माकं पुनः किमिति स्वानुष्ठानस्यांगीकारेण चेत्यर्थः । अनादरं कुर्वंति भागवतवैभवानभिज्ञाः । अनुष्ठानमंगीकुर्वंति प्राप्ताप्राप्तविवेकशून्याः । अनुष्ठानमंगीकुर्वतो नश्यंति, अनादरं कुर्वंतो किमिति नश्यंति ? दोषे दृष्टेऽनादरो न कर्तव्यः किमिति चेत् ? यथा राजपुत्रस्य दोषे सत्यपि राजा स्वयं शिक्षयति, तस्मिन्ननादरकृतस्त्वसु निग्रहं कृत्वा तान् दंडयति तथा स्वाभिमतस्यास्य दोषसत्त्वेऽपि सर्वेश्वरः स्वयं शुद्धं करोति नत्वन्यकृतानादरं सहते । तस्मादनादरं कुर्वतां विनाश एव फलति, अतोऽनादरो न कर्तव्यः । ‘अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मंतव्यः सम्यग्व्यवसितो हि सः ॥’ इत्युपासकविषयत्वेनोक्तप्रकारे दृष्टे सीमाभूमिस्थैतदधिकारिविषये तस्य स्थितिप्रकाशे न वक्तव्यः खलु । तस्मात्स्वस्येतरेषां च नाशकत्वादस्य निषिद्धानुष्ठानं परित्याज्यमित्युक्तम् ।
टीका हिन्द्या
अपना नाश तीन अपचार में अन्वित होनेसे होता है । औरों का नाश अपने को अनादर करने और अपने अनुष्ठान को अंगीकार करने से होता है ॥ ४७१ ॥ उभयविनाश इस से कैसा होता है इस शंका में कहते हैं—अपना नाश इत्यादि । आचार्याभिमान में अंतर्भूत हो भगवद्भागवताचार्यों के अभिमतविषय अपना नाश-उन तीनों को यह अनिष्ट होनेसे । अपचार माने-अनिष्टकरण होने से, अतिक्रूर अपचारत्रय में संबंध रखने से । औरों के नाश-चरमपर्वपर्यंत आकर रहनेवाले इस भागवतोत्तम का निषिद्धानुष्ठान को देख उपेक्षा करने से । ‘तत्त्वज्ञानी यही करता है तो हम को करने में दोष क्या’ ऐसा समझ इन के अनुष्ठान को करने से होता है । अनादर करनेवाले भागवतवैभव को नहीं जाननेवाले, अनुष्ठान को अंगीकार करनेवाले प्राप्ताप्राप्तविवेक रहित । अनुष्ठान को अंगीकार करनेवालों का नष्ट होना तो उचित है, अनादर करनेवाले क्यों नष्ट होते हैं, दोष को देख अनादर करना अनुचित है क्या इस शंका में कहते हैं-राजपुत्र के दोष होनेपर राजा स्वयं शिक्षा करता है इतना ही, उन के अनादर करनेवालों को निग्रह कर जैसा दण्ड देता है तैसा स्वाभिमत इस चेतन के दोष होनेपर भी सर्वेश्वर आप ही शोधन कर लेते हैं औरों के अनादर को नहीं सह सक्ते इसलिये अनादर करनेवाले नष्ट होयंगे समझ अनादर नहीं करना । “अत्यंत दुराचार होनेपर भी अनन्यभाव से मुझ को भजनेवाले को साधु ही समझना, कारण वह दृढ विश्वास करता है” यह वचन उपासकविषय में कहा है तो सीमाभूमि में आया हुआ इस अधिकारी के स्थिति में क्या कहना । इसलिये आप और अन्यों के नाशकारी निषिद्धानुष्ठान को त्याग करना चाहिये ।
मूलम्
एवं परदारादिभोगस्य स्वपरविनाशहेतुत्वे मूलं शास्त्रनिषिद्धत्वं खलु, एवं विना शास्त्रविहितस्य स्वदारभोगस्य दोषो नास्ति खल्वित्यत आह-विहितभोग इत्यादि ।
मूलम्
विहितभोगो निषिद्धभोगवल्लोकविरुद्धो नरकहेतुश्च न भवति तथापि स्वरूपविरुद्धत्वाद्वेदांतविरुद्धत्वाच्छिष्टगर्हितत्वात्प्राप्यप्रतिबंधकत्वाच्च त्याज्यः ॥ ४७२ ॥
श्लोक
वैधभोगो निषिद्धस्य भोगवल्लोकगर्हितः । विद्यते नहि याम्यस्य कारणं च तथापि वै ॥ स्वरूपस्य विरुद्धत्वाद् वेदान्ताविहितत्वतः । शिष्टैर्हि गर्हितत्वाच्चोपायस्य प्रतिबंधकात् । त्याज्य एव महाप्राज्ञैः स्वरूपावाप्तिलिप्सुभिः ॥४७२ ॥
टीका संस्कृता
विशिष्टवेषविषयशास्त्रेण विहितः स्वदारभोगस्तादृशशास्त्रनिषिद्धपरदारवल्लोकविरुद्धो न भवति, ताम्रनिर्मितप्रतिमालिंगनादिघोरदुःखानुभवकृन्नरकहेतुश्च न भवति, एवं प्रत्यक्षपरोक्षसिद्धलोकविरुद्धत्वनरकहेतुत्वयोरभावेऽप्यनन्यभोग्यत्वरूपस्य स्वरूपस्य विरुद्धत्वात्, ‘शांतो दांत उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’ इत्यादिभिर्मूलमंत्रादिभिश्चोपासकस्य प्रपन्नस्य चाविशेषेण विषयभोगोऽनुचित इति प्रतिपादयतो वेदांतस्य विरुद्धत्वात्, दोषदर्शनेनाप्राप्तिदर्शनेन च विषयभोगे जुगुप्सां कृत्वा वर्तमानैराचारप्रधानैः शिष्टैर्हेय इति निंदितत्वात् अप्राप्तविषयविरक्तिप्रियस्याचार्यस्यानभिमतत्वेनाचार्यमुखकमलविकासरूपप्राप्यस्य प्रतिबन्धकत्वादेवमनेकानर्थावहत्वादस्याधिकारिणः परित्याज्यः ।
टीका हिन्द्या
विहितभोग निषिद्धभोग के तरह लोकविरुद्ध और नरकहेतु भी नहीं है तो भी स्वरूपविरुद्ध, वेदांतविरुद्ध, शिष्टगर्हितः और प्राप्यप्रतिबंधक भी होनेसे त्याज्य है ॥ ४७२ ॥ एवं परदारादिभोग स्वपरविनाशहेतु होने का कारण शास्त्रनिषिद्ध है, ऐसा न हो शास्त्रविहित स्वदारभोग में दोष क्या ? इस शंका में कहते हैं-विहितभोग इत्यादि । विशिष्टवेषविषयकशास्त्र में विहित स्वदारभोग तादृश शास्त्रनिषिद्ध परदारभोग के तरह लोकविरुद्ध नहीं, जलती हुई ताम्रप्रतिमा के आलिङ्गनप्रभृति घोरदुःखानुभवरूप नरक का हेतु भी नहीं, एवं प्रत्यक्षपरोक्षसिद्ध लोकविरुद्धत्व नरकहेतुत्व दोनों न होनेपर भी अनन्यभोग्यत्वरूप स्वरूप का विरुद्ध, “शांत, दांत, विरक्त, क्षमावान् पुरुष सावधानी से मन से आत्मा को देखें” इत्यादि वचनों से और मूलमंत्र आदि से उपासक और प्रपन्न दोनों को समान विषयभोग के निषेध को प्रतिपादन करनेवाले वेदांतशास्त्र के विरुद्ध, दोषदर्शन और अप्राप्तिदर्शन से विषयभोग को छोडनेवाले आचारप्रधान पूर्वाचार्यों से निंदित, अप्राप्तविषयविरक्ति के प्रिय आचार्य के अनभिमत भी होनेसे, आचार्यमुखोल्लासानुभवरूप प्राप्य का प्रतिबंधक भी होकर अनेकानर्थावह होने से इस अधिकारी को त्याज्य है समझना ।
मूलम्
एवं भोग्यताबुद्धिं त्यक्त्वा धर्मबुद्धया प्रवृत्तावेते दोषा न संति खल्वित्यत आह-भोग्यताबुद्धिनिवृत्त्येत्यादि ।
मूलम्
भोग्यताबुद्धिनिवृत्त्या धर्मबुद्धया प्रवृत्तावपि स्वरूपं नश्यति ॥ ४७३ ॥
श्लोक
भोग्यताबुद्धिहान्या वै धर्मबुद्ध्या प्रवर्तने । अवश्यं नाशमायाति स्वरूपं तस्य धीमतः ॥ ४७३ ॥
टीका संस्कृता
विहितविषयप्रवृत्तौ कामुकतयाऽऽगतभोग्यता बुद्धिं विहायोपासका महर्षिप्रभृतयः शिष्टाः पैतृकर्णविमोचकप्रजोत्पादनार्थमृतुस्नानदिवसेंगीकाराभावे भ्रूणहत्यादिदोषः स्यादित्यतश्च धर्मबुद्धयां यथा प्रवर्तते तथायमपि धर्मबुद्धया प्रवर्तते चेत् सिद्धधर्मनिष्ठस्यास्यान्यधर्मान्वयाविरोधित्वादनन्योपायत्वरूपस्वरूपं नश्यतीत्यर्थः । अनेन भोग्यताबुद्ध्या प्रवृत्तावनन्यभोग्यत्वरूपं स्वरूपं नश्यति । धर्मबुद्धया प्रवृत्तावनन्योपायत्वरूपं स्वरूपं नश्यति । तस्मादेकेनापि प्रकारेणास्याधिकारिणो विहितविषयप्रवृत्तिर्नोचितेत्युक्तम् । तस्मादेकेनापि प्रकारेणान्वयेऽपि स्वरूपहानिरवश्यं भवति । अतः परित्याज्य इत्यर्थो निश्चितः ।
टीका हिन्द्या
भोग्यता बुद्धि छोड धर्मबुद्धि से प्रवृत्त होनेपर भी स्वरूप नष्ट होगा ॥ ४७३ ॥ भोग्यताबुद्धि को छोड़ धर्म समझकर करने से ये दोष नहीं हैं न ? इस शंका में कहते हैं-भोग्यता बुद्धि इत्यादि । विहित विषयप्रवृत्ति में कामुक होनेसे होनेवाली भोग्यता बुद्धि को छोड उपासक महर्षि आदि शिष्ट लोग पितृऋणमोचक संतानोत्पादन के लिये ऋतुस्नाता भार्या को अंगीकार न करने पर भ्रूणहत्यादि दोष होता है समझ धर्मबुद्धि से जैसे प्रवृत्त होते हैं तैसे यह भी धर्मबुद्धि से प्रवृत्त हो तो भी सिद्धधर्मनिष्ठ इस को अन्यधर्म संबंध विरोधि होनेसे अनन्योपायत्वरूप स्वरूप नष्ट होगा । इस से भोग्यता बुद्धि से प्रवृत्त होतो अनन्यभोग्यत्वरूप स्वरूप जैसे नष्ट होता है धर्मबुद्ध्या प्रवृत्त हो तो अनन्योपायत्वरूप स्वरूप नष्ट होता है । इसलिये इस अधिकारी को किसी प्रकार भी विहितविषयप्रवृत्ति न होनी चाहिये । किसी एक प्रकार से अन्वित होनेपर भी स्वरूपहानि होगी इस लिये परित्याग करना ही उचित है ।
मूलम्
एवं स्वरूपहानिः स्यादिति भयेन त्यागो नालं, प्राप्तविषयप्रवणचित्ततया प्राकृतसकलवस्तूनामपि प्रतिकूलत्वेन भानावस्थोत्पत्तिरावश्यकी स्वरूपनाशाभावस्येत्याह-क्षेत्राणीत्यादिना ।
मूलम्
‘क्षेत्राणि मित्राणि’ इति श्लोकोक्तावस्थोत्पत्तिरावश्यकी स्वरूपनाशाभावस्य ॥४७४ ॥
श्लोक
‘क्षेत्राणी’ त्यादिवृत्तोक्तावस्थोत्पत्तिस्तु सर्वथा । आवश्यकी स्वरूपस्य नाशाभावस्य कारणात् ॥४७४॥
टीका संस्कृता
‘क्षेत्राणि मित्राणि धनानि नाथ पुत्राश्च दाराः पशवो गृहाणि । त्वत्पादपद्मप्रवणात्मवृत्तेर्भवन्ति सर्वे प्रतिकूलरूपाः ॥’ इति महाकृपालयं स्वामिनमुद्दिश्य ब्रह्मणा विज्ञप्तश्लोके उक्तानि क्षेत्रमित्रधनादिरूपसमस्तवस्तून्यपि यथाऽग्निकल्पानि भासन्ते तादृशावस्थोत्पत्तिरावश्यकी स्वरूपप्रच्युत्यजननार्थमित्यर्थः । एतत् श्लोकार्थं ‘सत्पुत्राः’ इत्यादिभिर्यज्ञमूर्तिरप्यवोचत् ।
टीका हिन्द्या
“क्षेत्र मित्र” इस श्लोक में कही हुई अवस्था स्वरूपनाश न होने के लिये उत्पन्न होना चाहिये ॥ ४७४ ॥ एवं स्वरूपहानि के डर से छोडना मात्र नहीं, प्राप्तविषय में प्रवणचित्त होने से प्राकृतसकಲಭोग्य वस्तु में प्रतिकूलत्वबुद्धि की आवश्यकता है, स्वरूप नष्ट नहीं होने के लिये ऐसा कहते हैं-क्षेत्राणि इत्यादि । ‘हे नाथ ! आप के चरणारविंद में प्रवणचित्त मनुष्य को क्षेत्र मित्र धन पुत्र दारा पशु गृह ये सब प्रतिकूल होते हैं” इस परमात्मा के उद्देश कर कहा हुआ ब्रह्मा के वचन में उक्त क्षेत्रमित्रधनादि समस्तवस्तु अग्नि की तरह भान होने की अवस्था होनी चाहिये स्वरूपनाश न होने के लिये । इस श्लोकार्थ को “समीचीनपुत्र” इत्यादि से यज्ञमूर्ति भी कहे हैं ।
मूलम्
इतः परं प्राप्यभूमौ प्रावण्यादित्रयमस्यावश्यमपेक्षितमिति ज्ञापयितुं तस्योपायचतुष्टयसाधारण्यमाह-प्राप्यभूमावित्यादिना ।
मूलम्
प्राप्यभूमौ प्रावण्यं, त्याज्यभूमौ जिहासा, अनुभवालाभ आत्मधारणाऽयोग्यता चोपायचतुष्टयस्याप्यपेक्षिताः ॥ ४७५ ॥
श्लोक
प्राप्यभूमौ हि प्रावण्यं त्याज्यभूमौ हि त्याज्यता । अलाभेऽनुभवस्यापि स्वात्मनोऽधारणार्हता । अपेक्षितास्त्युपायानां चतुष्टयधृतस्य वै ॥ ४७५ ॥
टीका संस्कृता
प्राप्यभूमिर्नाम-स्वस्य प्राप्तशेषिविषयावासदेशः । तत्प्रावण्यं नाम-तद्देशप्राप्तिं विनाऽधारणोपयुक्तातिमात्राशा । त्याज्यभूमिर्नाम-तद्विषयविश्लेषहेतुर्देशः । तज्जिहासा नाम-इयं त्यक्तव्येतीच्छा । अनुभवालाभ आत्मधारणाऽयोग्यता नाम-प्राप्तशेषिविषयस्य विग्रहाद्यनुभवालाभे देहधारणभूतभोजनाद्यभावे देहो यथा न ध्रियते तथा स्वयं धारणस्य योग्यतां विना स्थितिः । उपायचतुष्टयस्याप्यपेक्षिता इति-उपायचतुष्टयं नाम-स्वस्वातंत्र्यभयेनेत्यारभ्य पूर्वमुक्ता भक्तिप्रपत्ती, आचार्यविषये स्वगतपरगतस्वीकारौ च, भगवद्विषये स्वगतपरगतस्वीकारौ वाचार्यविषये स्वगतपरगतस्वीकारौ च वा । अत्र पूर्वयोजनाया औचित्यमस्ति, पूर्वमुपायचतुष्टयगोचराया एतदुक्तेरनुरूपत्वात् । अत्र भक्तिप्रपत्तिनिष्ठयोरुभयोः ‘महाकाशशब्दवाच्यवैकुंठं द्रष्टुं मम मन एकप्रकारेण मनोरथं करोति’ इत्युक्तप्राप्यभूमिभूतपरमपदे प्रावण्यं-‘वरं हुतवहज्वालापंजरांतर्व्यवस्थितिः । न शौरिचिंताविमुखजनसंवासवैशसम् ॥’ ‘क्रूरलोकं मा दर्शय’ इति च प्रकारेण प्राप्यवस्तुवियोगेन प्राकृतमध्ये स्थितिहेतुसंसाररूपत्याज्यभूमौ जिहासा, ‘त्वां विहाय धर्तुं न शक्नोमि’ इति प्रकारेण भगवदनुभवालाभ आत्मधारणायोग्यता चावश्यमपेक्षिताः । आचार्यविषये स्वगतपरगतस्वीकारनिष्ठयोरनयोः सर्वं प्राप्तविषय एवेति स्थितत्वादाचार्यवासदेशः प्राप्यभूमिः, तद्विश्लेषोपयुक्तदेशस्त्याज्यभूमिः, उभयोरपि तद्विग्रहादीनामेवानुभवविषयत्वात् प्राप्यभूमौ प्रावण्यादित्रयमपि तदनुगुणमवश्यमपेक्षितमित्यधिकारानुगुणं विभज्य वक्तव्यम् । अथवा ‘मधुरकव्युक्तवाक्ये विश्वासवतां स्थानं वैकुंठः’ इति स्वोक्तप्रबंधे ‘अभ्यासवतां वासस्थानं तदीयवैभवैकप्रवरभूमिभूतश्रीवैकुंठः’ इति श्रीमधुरकविनोक्तत्वात् चरमपर्व निष्ठानामप्याचार्यस्याभिमतभगवद्विषयपरिपूर्णानुभवादिसिद्धिस्तद्विभूतौ तस्मात्प्राप्यभूमिः परमपदम् । अज्ञानप्रदभूमित्वात्तस्य विरोधिसंसारो त्याज्यभूमिः । अनुभवालाभ आत्मधारणाऽयोग्यता नाम-आचार्यविषये तदभिमतभगवद्विषये चानुभवालाभे स्वस्य धारणाशक्तत्वमित्येवं योजना स्यात् ।
टीका हिन्द्या
प्राप्यभूमि में प्रावण्य, त्याज्यभूमि में छोडने की इच्छा, अनुभव के अलाभ में आत्मा को धारण नहीं कर सकना, ये तीनों चारो उपायों को अपेक्षित हैं ॥ ४७५ ॥ प्राप्यभूमि में प्रावण्यादि तीनों भी इस को अवश्यापेक्षित हैं ऐसा दिखाने के लिये वे उपायचतुष्टय के भी साधारण हैं ऐसा कहते हैं-प्राप्यभूमि में इत्यादि । प्राप्यभूमि माने-अपने प्राप्यशेषी सर्वेश्वर के विराजने का स्थान । उस में प्रावण्य माने-उस देश को प्राप्त हुए बिना धारण न कर सकने की आशा । त्याज्यभूमि माने-भगवद्विषय को छोडकर रहने के योग्य देश । उस में छोडने की इच्छा माने-इस को छोडने से ही बच सक्ते हैं ऐसी आशा । अनुभवालाभ में इत्यादि-प्राप्तशेषी के विग्रहादिअनुभव के साथ न होनेपर देहधारणभूत भोजन के अभाव में जैसे देह नहीं रहसक्ता तैसे आप नहीं धारण कर सकना । चारो उपायों को इत्यादि-ये तीनों चारो उपायों के अधिकारियों को अधिकारानुगुण आवश्यक है । चारो उपाय माने-“स्वस्वातंत्र्यभय से” ऐसा प्रारंभ कर पूर्वोक्त भक्ति, प्रपत्ति, आचार्य के विषय में स्वगत स्वीकार और परगतस्वीकार हैं । भगवद्विषय में स्वगतपरगतस्वीकार और आचार्यविषय में स्वगतपरगतस्वीकार ऐसा भी कह सकते हैं । इस योजना की अपेक्षा पहिली योजना को ही श्रेष्ठ समझना । इस में भक्तिप्रपत्तिनिष्ठ दोनों को “महावैकुंठ कब देखूं” ऐसा हमारा मन सदा चितवन करता है’ इस वचन से प्राप्यभूमि परमपद में प्रावण्य, “नारायण की चिंता से विमुख लोगों के सहवासरूप [[आरी]] से चीरेजाने की अपेक्षा अग्निज्वालाभरी हुई पिंजरा के भीतर रहना भी श्रेष्ठ है”, “क्रूरलोक को न दिखाओ” इत्युक्तप्रकार प्राप्यवस्तु को छोड़ प्राकृतलोगों के बीच में रहने योग्य संसाररूपत्याज्यभूमि को छोडने की इच्छा, भगवदनुभव के अलाभ में “आप को छोड क्षणभर भी नहीं रह सक्ते” इस प्रकार आत्मा को धारण नहीं कर सकना ये तीनों आवश्यक हैं । आचार्य के विषय में स्वगतपरगतस्वीकार निष्ठ दोनों को आचार्य के वासस्थान ही प्राप्यभूमि है, उन को छोड़ कर रहने का देश ही त्याज्यभूमि है, उन का विग्रहादि ही अनुभवविषय होनेसे प्राप्यभूमि में प्रावण्यादि तीनों आचार्याभिमाननिष्ठा के अनुगुण अवश्य होना चाहिये ऐसा अधिकारानुगुण विभाग करलेना ।
मूलम्
उक्तोपायचतुष्टये च भगवद्विषयावलंबनरूपभक्तिप्रपत्तिरूपोपायद्वयमप्यस्याधिकारिविषये च्युतिप्रकारकथनानंतरमाचार्यविषये ‘स्वकृतमाश्रयणम्’ इति ‘आचार्याभिमान एवोत्तारकः’ इति चोक्तस्याचार्यविषये स्वगतपरगतस्वीकाररूपोपायद्वयस्य प्रमाणं दर्शनीयमिति विचार्य प्रथमं स्वगतस्वीकारस्य प्रमाणं दर्शयति-अमोघमित्यादिना ।
मूलम्
‘अमोघमेकं ज्ञातवान्’ इति गाथा पूर्वोपायस्य प्रमाणतयाऽनुसंधेया ॥ ४७६ ॥
श्लोक
‘अमोघमेकम्’ इत्यादि पाशुरः सुप्रसादितः । प्रमाणत्वेन पूर्वस्योपायस्यानुविधीयते ॥ ४७६ ॥
टीका संस्कृता
‘अमोघमेकमुपायं ज्ञातवान्’-आश्रयतां समाश्रयणीयस्य क्षीरसमुद्रे शयानस्य चरणयोरप्रच्युतिप्रकारमनुसंधाय प्रतिदिनमनुकूलवृत्तिं कुर्वाणं ज्ञानाधिकं दृष्ट्वा स्वेषामुत्तारकत्वेनाश्रित्योज्जीवंतः, आत्मनाऽविनाभूतं पापं दूरीकृत्य श्रीवैकुंठद्वारमुद्घाट्य तत्र समृद्धज्ञानादिविशिष्टास्तदीयकैंकर्यनिरताः संतो व्यावृत्तास्तिष्ठतीति परमाप्तेन श्रीभक्तिसारेणोक्तोऽमोघमिति गाथा आचार्यविषये प्रथममुक्तस्वगतस्वीकाररूपोपायस्य प्रमाणतयाऽनुसंधेया इत्यर्थः । अनेन स्वगतस्वीकारोऽहंकारगर्भतयाऽवद्यकरत्वेऽपि फलसिद्धौ मोघो न भवतीत्युक्तं-‘गुरुणा योऽभिमन्येत गुरुं वा योऽभिमन्यते । तावुभौ परमां सिद्धिं नियमादुपगच्छतः ॥’ इति परगतस्वीकारवत् स्वगतस्वीकारस्यापि फलव्यभिचारो नास्तीति भरद्वाजसंहितायामुक्तम् ।
टीका हिन्द्या
“व्यर्थ नहीं होनेवाले उपाय को मैं जान लिया हूं” इस गाथा को स्वगतस्वीकाररूपउपाय का प्रमाण समझना ॥ ४७६ ॥ उक्त चारों उपायों में भगवद्विषय का अवलंबन करनेवाले भक्ति और प्रपत्तिरूप दोनों उपाय भी इस अधिकारी को छूट जाने के प्रकार को कहे हैं, अब “आचार्य को अपने से आश्रयण करना”, “आचार्याभिमान ही उत्तारक है” इन वाक्यों में कहा हुआ आचार्य के विषय में स्वगतपरगतस्वीकाररूप दोनों उपायों का प्रमाण दिखाने के लिये पहिले स्वगतस्वीकाररूपउपाय का प्रमाण दिखाते हैं-व्यर्थ नहीं होता है इत्यादि । ‘व्यर्थ नहीं होनेवाले उपाय को जानलिया हूं’–आश्रयण करनेवालों को आश्रयण करने के योग्य हो क्षीराब्धिशायी के चरणारविंदों को उपाय मान प्रतिदिन अनुकूलवृत्ति को करनेवाले ज्ञानाधिक को देख अपना उत्तारक समझ आश्रय को प्राप्त होनेवाले आत्मा के अविनाभूत पाप को दूर कर श्रीवैकुंठ में ज्ञानादिसमृद्ध तदीयों के कैंकर्य करते हुए विलक्षण होते हैं ऐसा परमाप्तभक्तिसारसूरि के गाथा को आचार्य के विषय में स्वगतस्वीकाररूपउपाय का प्रमाण समझना । इस से स्वगतस्वीकार के अहंकारगर्भित और अवद्यकर होने पर भी फल देने में व्यर्थ न होगा यह अर्थ सिद्ध हुआ । “गुरु को जो मानता है और गुरु से जो मानाजाता है वे दोनों निश्चय करके परमपद को प्राप्त होते हैं” ऐसा परगतस्वीकार के तरह स्वगतस्वीकार का भी फल होगा यह अर्थ भारद्वाजसंहिता में भी कहा है ।
मूलम्
इतः परं परगतस्वीकाररूपपरमोपायस्य प्रमाणानि बहूनि दर्शयति-समीचीनमत्सखीत्यादिना ।
मूलम्
‘समीचीनमत्सखि’, ‘प्रतिपक्षिणं दानवम्’ इति गाथे, स्तोत्ररत्नेऽतिमः श्लोकः, ‘पशुर्मनुष्यः’ इति श्लोकश्चास्य प्रमाणतयाऽनुसंधेयाः ॥ ४७७ ॥
श्लोक
‘समीचीने मे सखि’ च ‘दानवं प्रतिपक्षिणम्’ । इति सूक्तिस्तथा स्तोत्ररत्ने वृत्तं तु चांतिमम् ॥ ‘पशुर्मनुष्य’ इत्यादि वृत्तं चास्य प्रमाणतः । अनुसंधानकार्ये हि स्पष्टार्थसाधकैः स्मृतम् ॥४७७॥
टीका संस्कृता
‘समीचीनमत्सखि’-नायिका स्वस्य लाभहेतुतयानुसंधाय तिष्ठति तस्य ‘न त्यजेयम्’ इति वार्तां, विष्णुचित्तोदरे जन्म चेदानीं तद्वार्तायाः फलाभावमात्रमादायात्राप्यतिशंकां करोति । इतः परमियं कथं जीविष्यतीत्यत्यंतक्लेशयुक्ता तिष्ठंतीं तां दृष्ट्वा मत्तोऽपि महता क्लेशेन दुःखितुं निदानस्नेहविशिष्टे मम सखि ! अनंतशायी अत एव सर्वस्मात्परस्तदुपरि श्रियःपतिः कस्यापि दुष्प्राप्यत्वमूलवैभववान् कश्चिद्, देवयोनावुत्पत्त्या किंचित्सन्निकर्षमपि विना तेषामस्माकं च पर्वतपरमाण्वोरिव तारतम्यप्रयोजकक्षुद्रमनुष्यत्वविशिष्टा वयं, एवं च सत्यस्माभिः कर्तव्यं किं, स एकां वार्तां पूर्वमवोचदिति तामादायास्माभिरवरोधः कथं कर्तव्यः, तत्तिष्ठतु, अस्माकं लाभस्य मार्गोऽस्ति, श्रीविल्लिपुत्तूरुग्रामेऽवतारप्रयुक्ताधिक्यविशिष्टः सर्वव्यापकवस्तु स्वहृदये स्थापयन् वर्तमानः श्रीविष्णुचित्तः ‘आचार्यदेवो भव’ इति प्रकारेणास्माकं देवस्य स्वस्य देवं तमेकां गतिमुक्त्वाऽऽह्वयेत्, अथवा विद्याशुल्कं दत्वाऽऽह्वयेत्, अभिषेककरणार्थमाह्वयेद्वा, केशबंधार्थमाह्वयेत्, स्वापार्थमाह्वयेत्, स्वस्य पुरुषकारभूतां पुरस्कृत्याह्वयेत् वा, अथवाऽन्येन केनचित्प्रकारेणाह्वयति चेत्तं प्रतीक्ष्य वर्तामहे वयं त्वरां न कुर्म इति गोदयोक्तसमीचीनसखीति गाथा, ईश्वर इत्यदृष्ट्वा स्वस्य प्रतिपक्षिभूतं हिरण्यासुरं तीक्ष्णनखेन वरबलेन दृढे वक्षसि स्वर्णपर्वतमिव द्विधा विदलयत्पराक्रमविशिष्टः नरसिंहं ‘संध्याकाले नरसिंहो भूत्वा शत्रुं नाशितवंतं बहुशरद:’ इत्यनन्यप्रयोजनं मंगलाशासनं कृत्वा स्थितान् जयति, व्यावृत्तेषु तेषु न्यस्तभराणां तेषामभिमानांतर्गतानां सुकृतमिति भक्तिसारोक्ता ‘प्रतिपक्षिणं दानवम्’ इति गाथा, ‘अकृत्रिमेत्यारभ्य स्वाभाविकस्य भवतः प्राप्तयोर्भोग्ययोश्चरणयोर्विद्यमानस्य प्रेम्णोऽतिशयस्य सीमाभूमिभूतं तादृशप्रेमप्रकर्षमूलभूतात्मयाथात्म्यज्ञानविशिष्टं विद्यया जन्मना च दासस्य मम पितामहं नाथमुनिं विलोक्य दासस्य मम वृत्तमदृष्ट्वा प्रसन्नो भवेति परमाचार्यैर्यामुनमुनिभिरुक्तो वेदांततात्पर्यभूते स्तोत्ररत्ने चरमश्लोकः, ज्ञानोत्पत्तेर्योग्यतारहितपशुपक्षिणो वा ज्ञानयोग्यतायुक्तमनुष्या वा ये केचन भगवत्संबधैकनिरूपकेण तदीयेन संबंधविशिष्टास्ते तेन वैष्णवेन प्राप्यभूमिभूतपरमपदं प्राप्नुवतीत्युक्तत्वात् ज्ञानं स्याद्वा मा वा तदीयाभिमान एवोत्तारक इतीममर्थं सुस्पष्टं प्रकाशयन्-‘पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यंति तद्विष्णोः परमं पदम् ॥’ इति पौराणिकश्लोकश्चाचार्याभिमानरूपस्यास्य परगतस्वीकारोपायस्य प्रमाणतयाऽनुसंधेया इत्यर्थः ।
टीका हिन्द्या
“समीचीनमत्सखी”, “शत्रुभूतदानव को” ये गाथा:, स्तोत्ररत्न में अंतिमश्लोक और “पशुमनुष्य” यह श्लोक इन में प्रमाण समझना ॥ ४७७ ॥ अब परगतस्वीकाररूपपरमोपाय के बहुत प्रमाण दिखाते हैं-समीचीनसखी इत्यादि । नायिका “नहीं छोडूंगा” यह वचन और विष्णुचित्तयोगी के घर में जन्म इन दोनों को अपने इष्टसाधन समझती है वे फलीभूत न होने से अतिशंका कर यह नायकी कैसे फल को प्राप्त होगी ऐसा विचार करती भयी, उस को देख हम से अधिक हमारे फल को चाहने वाली हे सखि ! अनंतशायी अत एव सर्वस्मात्पर श्रियःपति किसी को भी अप्राप्यमहिमावाले हैं हम हो देवयोनि में न होकर पर्वत और परमाणुओं के तारतम्य से क्षुद्र मनुष्य हैं इस लिये हम कुछ नहीं कर सक्ते हैं वह कभी एक बात कह दिये हैं ऐसा समझ हमलोग उन को रोक सके हैं क्या ? अस्तु हमारे फलका दूसरा उपाय है श्रीविल्लिपुत्तूर में अवतार ले सर्वव्यापकवस्तु को अपने हृदय में रखनेवाले विष्णुचित्तसूरि हमारे आचार्य होने से अपने स्वामी को एक गाथा कह बुलायेंगे या विद्याशुल्क को तोडकर बुलायेंगे या अभिषेक करने के लिये बुलायेंगे, अथवा केश बांधने के लिये वा सुलाने के लिये या अपने पुरुषकार को आगेकर बुलायेंगे उस वखत हम उन का दर्शन करलेंगी हम आग्रह नहीं करसक्ती हैं इस प्रकार गोदादेवी से कही हुई ‘समीचीनमत्सखि’ यह गाथा, अपने ईश्वरत्व को न देख सामने शत्रुरूप से आया हुआ हिरण्यअसुर के तीक्ष्णनखों से वरबलों से दृढछाती को स्वर्णपर्वत को चीरने के तरह अनायास दो टुकडे करनेवाले पराक्रमी नृसिंह को अनन्यप्रयोजन हो मंगलाशासन करनेवालों को भागवताभिमान को उपाय समझ रहनेवालों के सुकृत जीता है ऐसा भक्तिसारसूरि की “शत्रुभूतदानव को” यह गाथा, “अकृत्रिम” इस यामुनाचार्य का श्लोक-‘स्वाभाविक आप के प्राप्त और भोग्य चरणारविंदों में अधिकप्रेम करनेवाले उस के हेतु आत्मयाथात्म्यज्ञानवाले विद्या और जन्म से हमारे पितामह नाथमुनि को देख हमारे दुर्वृत्त को न देख प्रसन्न होओ’ ऐसा परमाचार्य यामुनाचार्यकर्तृक वेदान्ततात्पर्यरूप स्तोत्ररत्न में अंतिमश्लोक और ज्ञानयोग्यता रहित पशु और पक्षी हो, ज्ञानयोग्यतावाला मनुष्य हो भगवत्संबंधैकनिरूपणीय भागवत के अभिमान में अंतर्भूत होते हैं तो वे उन के प्राप्यभूमिभूत चरमपद को प्राप्त होते हैं ऐसा तदीयाभिमान ही उत्तारक कहनेवाल-“पशु, मनुष्य या पक्षी हो वैष्णव का आश्रयण कर विष्णु के परमपद को जाते हैं”। इस पौराणिकश्लोक को भी आचार्याभिमानरूप परगतस्वीकारात्मक उपाय में प्रमाण समझना ।
मूलम्
पूर्वोक्तप्रपत्तिनिष्ठाधिकारिण उपायाधिकारस्य न्यूनत्वेऽपि तददृष्ट्वेश्वरः कार्यं कर्तुं निदानत्वात् तदुपायशेषभूत आचार्याभिमान एव सदा स्वतंत्रोपाय इति कथमुच्यते ? एकस्यैव भयाकारः कथं भवतीति शंकायामाह-आचार्याभिमान इत्यादि ।
मूलम्
आचार्याभिमानः प्रपत्तिवदुपायांतरस्यांगं स्वतंत्रश्च भवति ॥ ४७८ ॥
श्लोक
साधनान्तरकस्यांगमाचार्यशरणागतिः । प्रपत्तिवत्स्वतंत्रश्च विद्यते नात्र संशयः ॥ ४७८ ॥
टीका संस्कृता
आचार्याभिमानः-‘तमेव चाद्यं शरणं प्रपद्ये’, ‘तमेव शरणं गच्छ’ इत्यादिषूक्तप्रकारेण विरोधिपापक्षयस्य भक्तिविवृद्धेश्च हेतुः सत्युपायांतरभक्तेरंगं, तत्त्यागपूर्वकं ‘मामेकं शरणं व्रज’ इति विहितेष्टानिष्टप्राप्तिपरिहारयोः स्वयमेवोपायभूता सती स्वतंत्रोपायभूता प्रपत्तिरिवोपायाधिकारमांद्यं दृष्ट्वोपेक्षामकृत्वा ईश्वरः कार्यं कर्तुं निदानत्वात् स्वेतरोपायप्रपत्तेः साफल्यमापादयन् तन्मार्गेण तदंगं, तां विहाय स्वस्यैवोपायत्वेन स्वीकारेऽनिष्टनिवृत्यादिस्वयमेवोपायभूतः सन् स्वतंत्रोपायो भवतीत्यर्थः । अथवा ‘अनाचार्योपलब्धा हि विद्या नश्यति ध्रुवम्’ इति, ‘शास्त्रादिषु सुधीताऽपि सांगा सहफलोदया । न प्रसीदति वै विद्या विना सदुपदेशतः ॥’ इति चोक्तत्वात् यां कांचन विद्यामवलंबतस्तस्याचार्योपदेशावश्यकत्वात्, आचार्याभिमानस्य सकलोपायांगत्वे सति ‘तेनैव ते प्रयास्यंति’ इति स्वतंत्रोपायतया कथमुच्यत इत्यत आह-आचार्याभिमान इत्यादि । अयमर्थः-प्रपत्तिः कर्मज्ञानभक्तिरूपोपायांतराणामुत्पत्तिविवृद्धिविरोधिपरिहारार्थं विहिता तदंगं भवति-‘अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायतायाच्ञा प्रपत्तिः शरणागतिः ॥’ इत्युक्तप्रकारेणान्योपायांस्त्यक्त्वा स्वस्यैवोपायत्वेन स्वीकारेऽनिष्टनिवृत्तिपूर्वकेष्टप्राप्तेर्निर्वाहिका स्वतंत्रा च भवति । तथाऽऽचार्याभिमानरूपोऽयं सर्वस्याप्युपायस्याचार्योपदेशस्यावश्यमपेक्षितत्वात्तन्मार्गेणोपायांतरस्यांगभूतोऽपि, ‘बालमूकजडांधाश्च पंगवो बधिरास्तथा । सदाचार्येण संदृष्टाः प्राप्नुवंति परां गतिम् ॥’, ‘पशुर्मनुष्यः पक्षी वा’ इत्यादिप्रकारेण स्वयमेवोत्तारकत्वात्स्वतंत्रोपायश्च भवतीति ।
टीका हिन्द्या
आचार्याभिमान प्रपत्ति के तरह उपायांतरों का अंग और स्वतंत्र भी होता है ॥ ४७८ ॥ पूर्वोक्त प्रपत्तिनिष्ठ अधिकारी की उपायाधिकार में न्यूनता होनेपर भी उस के तरफ न देख ईश्वर कार्य करने के उपयुक्त आचार्याभिमान को स्वतंत्र उपायतया क्यों कहते हैं ? दो आकार एक उपाय के कैसे हो सक्ते हैं ? इस शंका में कहते हैं-आचार्याभिमान इत्यादि । आचार्याभिमान विरोधी पापक्षय और भक्तिवृद्धि के उपयुक्त हो उपायांतरभक्ति का अंग, उपायांतरत्यागपूर्वक शरणागति करनेवालों के इष्टप्राप्ति और अनिष्टपरिहार करनेवाले स्वतंत्र उपायप्रपत्ति के तरह उपायाधिकार में योग्यताभाव को देख ईश्वर उपेक्षा न कर कार्य करने के उपयुक्त होनेसे अपने से व्यतिरिक्त उपायप्रपत्ति को सफल करते हुवे तद्द्वारा उस का अंग, उस को छोड अपने को ही उपाय माननेपर स्वयमेव स्वतंत्रउपाय भी होता है । यद्वा “अनाचार्य से लब्ध विद्या करके नष्ट होती है”, “शास्त्रादिओं में अंग और फल के सहित पढे जानेपर भी सदाचार्योपदेश बिना विद्या नहीं प्रसन्न होती” इन वचनों से किसी भी विद्या के अवलंबन करनेवालों को आचार्योपदेश की आवश्यकता होनेसे आचार्याभिमान सकलोपायों के अंग होते हुवे स्वतंत्रउपाय कैसे कह सक्ते हैं इस शंका में कहते हैं-आचार्याभिमान इत्यादि । प्रपत्ति कर्मज्ञानभक्तिरूप उपायों की उत्पत्ति और वृद्धि के विरोधी पाप के दूर करने के लिये विहित हो उन का अंग होती है, अन्य उपायों को छोड अपने को उपायतया स्वीकार करनेपर अनिष्टनिवृत्तिपूर्वक इष्टप्राप्ति का जैसे स्वयमेव निर्वाहक हो स्वतंत्र होता है तैसे आचार्याभिमानरूप यह उपाय अन्य उपायों का अंग होते हुए “बाल, मूक, जड, अंध, पंगु, बधिर ये सब सदाचार्य के कटाक्षपात्र हो परमपद को प्राप्त होते हैं” । ‘पशु मनुष्य या पक्षी हो’ इत्यादि वचनानुसार स्वतंत्र उत्तारक होनेसे स्वतंत्र उपाय भी होता है ।
मूलम्
भक्तावशक्तस्य प्रपत्तिः, प्रपत्तावशक्तस्यायम् ॥४७९॥
श्लोक
भक्तौ शक्तिविहीनस्य प्रपत्तिः परमा गतिः । प्रपत्तौ शक्तिहीनस्य चाचार्यशरणागतिः ॥४७९॥
टीका संस्कृता
एवं स्वतंत्रस्यास्योपायस्याधिकारिण इमे इत्याह-भक्तावित्यादि । ‘उभयपरिकर्मितस्वांतस्य’ इत्युक्तप्रकारेण जन्मांतरसहस्रसिद्धकर्मज्ञानसंस्कृतांतःकरणस्योत्पद्यमानायां पारतंत्र्यविरोधिन्यां स्वयत्नरूपायां भक्तावुपाये दुष्करत्वबुद्ध्या स्वरूपविरोधित्वबुद्ध्या च वयमस्यामशक्ता इति स्थितस्य निवृत्तिसाध्यतया सुकरो भगवत्पारतंत्र्यरूपस्वरूपानुरूपः प्रपत्त्युपायः । अध्यवसायज्ञानरूपप्रपत्त्युपाये महाविश्वासस्य दुर्लभत्वाद्वंधमोक्षयोरुभयोरपि साधारणस्येश्वरस्य स्वातंत्र्यभयेन च वयमशक्ता इति भीतस्य पश्वादीनामपि कार्यकरत्वाद्विश्वाससापेक्षत्वं च विना मोक्षैकहेतुर्भवति परतंत्रस्वरूपस्य सदाचार्यस्याभिमानरूपोऽयं चरमोपाय इत्यर्थः । भक्तावशक्तस्य दुष्करत्वस्वरूपविरुद्धत्वयोरुभयोरपि हेतुत्वेऽप्यत्र स्वरूपविरोध एव प्रधानहेतुः । प्रपत्तावशक्तस्य विश्वासमांद्यभगवत्स्वातंत्र्यभयंरूपहेतुद्वये सत्यपि भगवत्स्वातंत्र्यभयमेव प्रधानहेतुः । ‘स्वस्वातंत्र्यभयेन भक्तिश्च्यवते, भगवत्स्वातंत्र्यभयेन प्रपत्तिश्च्यवते’ इति खल्वयं पूर्वं स्वयमेवावोचत् । अनेनान्योपायाशक्ततयाऽनन्यगतिरेव यथा प्रपत्त्यधिकारी भवति तथैतदुपायाधिकार्यप्यन्योपायाशक्ततयाऽनन्यगतिरेवेत्युक्तम् । अथवाऽस्य स्वतंत्रत्वं भक्तावशक्तस्येत्यादिना स्थिरीकरोतीति योजना । वाक्ययोजनानां भेदो नास्ति । भक्तावशक्तं प्रति विहिता प्रपत्तिर्यथा स्वतंत्रा जाता तथा प्रपत्तावशक्तं प्रति विहितोऽयमपि स्वतंत्र इत्युक्तौ न विरोध इति भावः ।
टीका हिन्द्या
भक्ति में अशक्त को प्रपत्ति है, प्रपत्ति में अशक्त को यह है ॥ ४७९ ॥ एवं स्वतंत्रभूत इस उपाय का अधिकारी अमुक है ऐसा कहते हैं—भक्ति में इत्यादि । ‘जन्मान्तरसहस्रों में अनुष्ठित कर्मज्ञानों से निर्मलान्तःकरण वाले को’ होनेवाली स्वपारतंत्र्यविरोधीस्वयत्नरूप उपाय में दुष्करत्व और स्वरूपविरोधित्वज्ञान से ‘मै इस के योग्य नहीं’ ऐसा समझ हटनेवाले को निवृत्तिसाध्य, सुकर, भगवत्पारतंत्र्यरूप स्वरूपानुरूप प्रपत्ति उपाय है । अध्यवसायज्ञानरूप प्रपत्तिउपाय में महाविश्वास होना दुष्कर होनेसे बंध और मोक्ष दोनों का साधारण ईश्वर के स्वातंत्र्यभय से ‘हम इस प्रपत्ति करने को अशक्त हैं’ ऐसा समझनेवाले को पश्वादिओं का भी कार्यकर होनेसे विश्वास की अपेक्षा बिना मोक्षैकहेतु परतंत्ररूप सदाचार्य का अभिमानरूप यह चरमोपाय है । भक्ति में अशक्त को दुष्करत्व और स्वरूपविरोधित्वरूप दोनों हेतु हो तो भी इस स्थल में स्वरूपविरोधित्व ही प्रधानहेतु है । प्रपत्ति में अशक्त को विश्वास की कमी और भगवत्स्वातंत्र्यभय इन दोनों के हेतुत्व होनेपर भी भगवत्स्वातंत्र्यभय ही प्रधानहेतु है । ‘स्वस्वातंत्र्यभय से भक्ति च्युत हुई’, ‘भगवत्स्वातंत्र्यभय से प्रपत्ति च्युत हुई’ ऐसा यही कहे हैं । इस से जैसा अन्योपायों में अशक्त अनन्यगति ही प्रपत्त्यधिकारी होता है, तैसा इस उपाय के अधिकारी भी अन्योपायों में अशक्त और अनन्यगति ही है । भक्ति में अशक्त को जैसा प्रपत्ति स्वतंत्रउपाय होती है जैसा प्रपत्ति में अशक्त को आचार्याभिमान स्वतंत्रउपाय होता है ऐसा समझना ।
मूलम्
एतदाचार्याभिमानेनास्योत्पाद्यमानां फलपरंपरामुक्तवाऽमुमर्थं निगमयति-अयमित्यादिना ।
मूलम्
अयं प्रथमं स्वरूपं पल्लवितं करोति पश्चात् पुष्पितं करोति, अनंतरं फलपर्यंतं करोति ॥ ४८०॥
श्लोक
अयं स्वरूपं प्रथमं सुपल्लवितं करोति पश्चाद्विशदं सुपुष्पितम् । फलस्य पर्यंतं सनंतरं हि करोति ज्ञानाधिकसत्तमस्य ॥४८०॥
टीका संस्कृता
एवं पूर्वोक्तोऽयमाचार्याभिमानः प्रथममस्य चेतनस्य प्रणवोक्तं भगवदनन्यार्हशेषत्वं चरमपर्वपर्यंतं ज्ञापयित्वाऽनादिकालं स्वातंत्र्यरूपदहनेन शुष्कं स्थितं स्वरूपं पल्लवितं करोति, एवं पल्लवोत्पत्त्यनंतरं मध्यमपदोक्तानन्यशरणत्वं चरमपर्वपर्यंतं ज्ञापयित्वा फलसूचकोपायाध्यवसाययोगेन पुष्पितं करोति, एवं पुष्पोत्पत्त्यनंतरं चरमपदोक्तानन्यभोग्यत्वं चरमपर्वपर्यंतं ज्ञापयित्वा नित्यकैंकर्ययोगेन स्वरूपं फलपर्यंतं करोतीत्यर्थः । प्रथमरहस्यभूते श्रीमंत्रे पदत्रयप्रतिपाद्यमनन्यार्हशेषत्वाद्याकारत्रयमप्यात्मनः स्वरूपं सच्चरमपर्वपर्यंतं खलु वर्तते । एतेषां चाचार्योपदेशादिभिर्लभ्यत्वादेतदुपदेशादिकं प्रति ‘अयमस्मदीय’ इत्याचार्याभिमानस्यैव हेतुत्वादाचार्याभिमान एतान्युत्पादयतीत्युच्यते । एवमेतादृशपदत्रयार्थनिष्ठामयमाचार्याभिमानः स्वयमेवोपाद्योज्जीवयतीत्युक्तम् । अथवा-एवं स्वतंत्रोपायभूतोऽयमस्य स्वरूपं पर्वक्रमेणोज्जीवयतीति प्रकाशयन्नमुमर्थं निगमयति-अयमित्यादिना । आचार्याभिमानरूपोऽयं प्रथमं भगवद्विषयेऽन्वयं कारयित्वाऽनादिकालं तदन्वयराहित्येन ‘म्लान’ इत्युक्तप्रकारेण म्लानं स्वरूपं पल्लवितं करोति, पश्चाद्भागवतविषये श्रद्धां कारयित्वैतस्य फलान्वययोग्यकरणात् पल्लवितमेतत्पुष्पितं करोति, अनंतरं ‘स्थितिं प्राप्य स्वस्य कल्याणगुणगणान् स्तोतुम्’ इत्युक्तप्रकारेण चरमपर्वे स्थितिं प्राप्य पुष्पितमेतत् फलपर्यंतं करोतीत्ययमर्थः । तथाचाचार्याभिमानरूपमुपायमाश्रयतां ‘भयाभये द्वे अपि व्यत्यासेन भवेयुः’ इत्यस्य प्रसंगस्याभावः, एतदर्थनिर्णायकप्रमाणमेतदिति, एतदर्थस्थापनोपपत्तिः, ऐतिह्यम्, एतदर्थोपपादनार्थं प्राप्यनिर्णयः, एवं प्राप्यनिर्णयकरणेऽस्य स एवांगीकार्यः प्रापक इत्ययमर्थः, अन्यथा चेत् प्रसक्तं दूषणं, ईश्वरविषयेऽस्य विद्यमानचरणवत्पारतंत्र्यानन्यत्वसूचनपूर्वकमीश्वरस्याश्रयणादस्याश्रयणस्य विद्यमानो विशेषः, ईश्वरचेतनयोरुभयोरयमुपकारक इति, ईश्वरस्याप्याशाविषयपदविशिष्ट इति, अनेन क्रियमाणोपकारस्य प्रत्युपकारो नास्तीति, अनेन संबंधो मोक्षैकहेतुरिति, ईश्वरोपकारकादस्मादेतदुपकारक ईश्वरो महोपकारक इति एतदाचार्यवैभवः, आत्मगुणसत्वेऽप्याचार्यसंबंधनाशने प्रयोजनमवद्यकरमीश्वरनिग्रहहेतुर्भवतीति प्रकारः, आचार्यसंबंधविच्छेदे भगवत्संबंधदौर्लभ्यं, आचार्यान्वयस्यापि भागवतसंबंध आवश्यक इति, आचार्याभिमानं विनोज्जीवनोपायो नास्तीत्यत्राप्तोपदेशः, एतदर्थस्थिरीकरणं, एतदाचार्याभिमाननिष्ठः सुलभमिमं विषयं त्यक्त्वा दुर्लभं भगवद्विषयं रक्षकत्वेन नेच्छेदिति, परत्वादिप्राप्यस्थलानि सर्वाण्ययं विषय एवेति वर्तेतेत्यर्थः, अस्य प्रतिकूलानुकूला एते इति, अस्य ज्ञानानुष्ठानयोर्विनियोगः, अस्य निषिद्धानुष्ठानं विहितभोगश्च त्याज्य इत्ययमर्थः, स्वरूपप्रच्युत्यभावस्यापेक्षिताऽवस्था, प्राप्यभूमिप्रावण्यादित्रयमस्यावश्यापेक्षितमित्ययमर्थः, आचार्यविषये स्वगतपरगतस्वीकारोपायद्वयप्रमाणानि, आचार्याभिमानस्य स्वतंत्रोपायत्वं तदधिकारिनिर्णयः, एतदाचार्याभिमानेनास्य चेतनस्योत्पाद्यमाना फलपरंपरा चोक्ताः । अतः सदाचार्याभिमानः सर्वेषामुत्तारक इत्युक्तम् । एवमनेन वाक्यद्वयोक्तोपायोपेयचरमावधिमुक्तवान् ।
टीका हिन्द्या
यह पहिले स्वरूप को पल्लवित बनाता है, पीछे पुष्पित बनाता है, बाद फलपर्यंत करता है ॥ ४८० ॥ इस आचार्याभिमान से चेतन को होनेवाले फलपरंपरा को कह इस अर्थ को समाप्त करते हैं-यह इत्यादि । पूर्वोक्त आचार्याभिमानरूप यह पहिले इस चेतन को प्रणवोक्त भगवदनन्यार्हशेषत्व को चरमपर्वपर्यंत जनाकर अनादिकाल से स्वातंत्र्यरूपअग्नि में जल शुष्कभूत स्वरूप को पल्लवित करता है । एवं पल्लवित हुए बाद मध्यमपदोक्तानन्यशरणत्व को चरमपर्वपर्यंत जनाकर फलसूचकउपायाध्यवसाय के संबंध से स्वरूप को पुष्पित बनाता है । इस के बाद चरमपदोक्तानन्यभोग्यत्व को चरमपर्वपर्यंत जनांकर नित्यकैंकर्यभोग से स्वरूप को फलपर्यंत करता है । प्रथमरहस्यरूप श्रीमंत्र में पदत्रय से प्रतिपाद्य अनन्यार्हशेषादि आकारत्रय भी आत्मा का स्वरूप हो चरमपर्वपर्यंत होता है, ये अर्थ आचार्योपदेशों से लभ्य है, तादृशोपदेशों के कारण आचार्याभिमान होते हुए आचार्याभिमान ही इन को उत्पन्न करता है । तथा आचार्याभिमान ही पदत्रयार्थ को उत्पादन कर उज्जीवन को प्राप्त कराता है । अथवा-स्वतंत्ररूप यह इस का स्वरूप को पर्वक्रमेण उज्जीवित करने के प्रकार को कहते हुए इस अर्थ को समाप्त करते हैं-यह इत्यादि । आचार्याभिमानरूप यह पहले भगवद्विषय में लगाकर अनादिकाल से संबंधज्ञानाभाव से मुरझा हुआ स्वरूप को पल्लवित बनाना है, बाद भागवतविषय में लगाकर फल के योग्य बनाने से पुष्पित करता है, अनंतर चरमपर्व में स्थापन कर पुष्पित को फलपर्यंत करता है ऐसा समझना । तथा च-आचार्य को उपायतया स्वीकार करनेवालों को भयाभय दोनों के प्रसंग नहीं हैं, इस अर्थ को निश्चय करनेवाले प्रमाण अमुक हैं, इस अर्थ को स्थापन करनेवाले प्रमाण, ऐतिह्य, इस अर्थ के उपपादन के लिये प्राप्यनिर्णय, प्राप्य के सदृश प्रापक भी होना चाहिये, नहीं तो होनेवाले दोष, ईश्वर विषय में आचार्य के चरण के तरह पारतंत्र्य अनन्यत्व को दिखाते हुए ईश्वर के आश्रयण की अपेक्षा इन के आश्रयण की श्रेष्ठता, ईश्वर और चेतन दोनों के आचार्य उपकारक हैं, ईश्वर भी अपेक्षा करने योग्य आचार्यत्व वाले हैं, आचार्यकर्तृक उपकार के सदृश प्रत्युपकार नहीं है, इन के साथ संबंध मोक्ष का ही हेतु, ईश्वर को देनेवाले आचार्य की अपेक्षा आचार्य को देनेवाले ईश्वर ही महोपकारक हैं, आचार्य के वैभव, आत्मगुणों के होनेपर भी आचार्यसंबंध छूटनेपर अवद्यकर और ईश्वर के निग्रह हेतु, आचार्यसंबंध छूटने से भगवत्संबंध दुर्लभ है, आचार्य के संबंध के लिये भागवतसंबंध अपेक्षित है, आचार्याभिमान बिना उज्जीवनोपाय नहीं इस अर्थ में आप्तोपदेश, इस अर्थ को स्थिर करना, इस आचार्याभिमाननिष्ठ सुलभ आचार्य को छोड दुर्लभ भगवान् को नहीं चाहना, परत्वादिप्राप्यस्थल सब को आचार्य ही समझना, इस को प्रतिकूल, अनुकूल और उपेक्षा योग्य अमुक हैं, इस के ज्ञानानुष्ठानों के विनियोग प्रकार इस को निषिद्धानुष्ठान और विहितभोगादि त्याज्य हैं, स्वरूपनाश न होने के लिये अपेक्षित अवस्थाविशेष, प्राप्यभूमिप्रावण्यादि तीनों इस को अवश्यापेक्षित हैं, आचार्यविषय में स्वगतपरगतस्वीकार दोनों के उपाय होने में प्रमाण, आचार्याभिमान स्वतंत्रोपाय है, तदधिकारिनिर्णय, इस आचार्याभिमान से होनेवाली फलपरंपरा आदि कहे जाने से सदाचार्याभिमान ही सब को उत्तारक है यह अर्थ कहा गया । तथा च–इस से वाक्यद्वयोक्त उपायोपेय चरमावधि कहेगये हैं ।
श्रीरम्यजामातृमुनिचरणौ शरणं प्रपद्ये ।
Of course. Here are the concluding remarks from the provided text, formatted in the requested markdown structure.
इति चतुर्थप्रकरणं समाप्तम् ।
इति श्रीरम्यजामातृमुनिप्रणीत श्रीवचनभूषणव्याख्या संपूर्णा ।
श्रीरम्यजामातृमुनिचरणौ शरणं प्रपद्ये ।
### विज्ञप्तिः महान्त श्री १००८ श्रीगदाधररामानुजस्वामीजी महाराजश्रीगोपालमठ पुरी जगन्नाथजी की कीर्ति के लिये अपने मठ में “श्रीरघुनन्दन” नामक मुद्रणालय स्थापन किये हैं, उस में पूर्वाचार्यों के मणिप्रवाल (संस्कृत और द्राविड) ग्रंथों के संस्कृतानुवाद, जो कि वैकुंठवासी श्रीमान् पूज्य श्री १००८ श्रीगोवर्द्धनाचार्य स्वामीजी बहुत परिश्रम से किये हैं । वे अद्यावधि अमुद्रित रह जानेसे शास्त्रज्ञों को दुर्लभ समझ उन को मुद्रित कर प्रकाश करनेको उद्यत हुए हैं ।
उन में पहिले ‘भजेत्सारतमं शास्त्रम्’ इस वचन के अनुसार ‘श्रीवचनभूषण’ ग्रंथराज लगभग ५०० पृष्ठों की संचिका रूप से प्रतिमास निकलेगा । श्रीरामानुजप्रपन्नाचार्यजी कृत श्रीवचनभूषण के सूत्रानुक्रमणिका समेत ।
अब भगवद्विषय, श्रीशतदूषणी (पूर्वार्ध उत्तरार्ध), वादित्रयखंडन आदि ग्रंथ भी भाषाटीका समेत प्रकाशित होंगे । इस में विशेष बात यह है कि-जो लोग संस्कृत भाषा नहीं जानते हैं उन लोगों को संस्कृतज्ञान घर बैठे ही हो जायगा, इसलिये यह भाषाटीका की गई है ।
श्रीमान् महन्तजी की इच्छा थी कि सब ग्रन्थों को विनामूल्य वितरण करें, परंतु अमूल्य वितरण किया जानेपर व्ययका कोई ठिकाना नहीं रहेगा । इस बात को जो महाशय पुस्तकें लिख कर छपवाये हैं वा छपवाते हैं उनको भलीभांति मालूम है ।
इन ग्रंथो में सम्पूर्ण वेद, वेदांत, स्मृति और समग्र पुराण का सार ही भरा हुआ है । इन ग्रंथों को पढने पर फिर उपरोक्त ग्रंथों की आवश्यकता न पडेगी । संचिकाओं का मूल्य भी इसलिये रक्खा गया है कि मुद्रणालय का कार्य इन के आय द्वारा स्थायी रूप से चलता रहे, न कि लाभ के लिये ।
अतएव विचार करें ऐसा अमूल्य और दुष्प्राप्य वस्तु को प्राप्त करने का अब विशेष समय नहीं है ।
| संचिका का वार्षिक मूल्य | रु० ६ |
|---|---|
| डाक खर्च | रु० १॥ |
| मिलने का पता- | मैनेजर, रघुनन्दन प्रेस, श्रीराजगोपालमठ, पुरी । |
-
There appears to be a numbering error in the original text, skipping from Sutra 81 to 83. The markdown reflects the numbering as printed. TODO?? ↩︎
-
This heading is not present in the original scanned pages, but is implied by the flow of the text and included here for organizational clarity. A similar heading, “उपायवैभवः,” was present on page 67. The following sections follow a similar pattern. ↩︎
-
There appears to be a numbering error in the original text, duplicating Sutra 232. The markdown reflects the numbering as printed. ↩︎
-
The original text combines Sutras 289 through 314 into a single, extended Sutra (numbered 289). For clarity, the corresponding Shlokas are numbered individually (258-288). ↩︎
-
The shloka here is numbered 258 in the original text, indicating a significant numbering discrepancy between the Sutra and the Shloka in this section. The markdown reflects the numbers as they appear in the original document. ↩︎