अथ जयदुक्तं कैवल्यमनित्यमज्ञानसंवलितत्वादिति तदपि न क्षोदक्षमं हेतोरप्रयोजकत्वात् अविनाशि प्राप्योपासनसाध्यत्वहेतुना सम्प्रतिपक्षितत्वाञ्च न चास्यापि हेतोरप्रयोजकत्वं तत् क्रतुन्यायेन न तच्छङ्कावारणात् न च तत् क्रतुन्या यस्यायोगव्यवच्छेदमात्रपरत्वेनानित्योपासकानां नित्यफलप्राप्तेः नित्योपासकानामनित्य फलप्राप्तेश्च तेनानिवारितत्वात् तस्य व्याप्तिप्रयोजकत्वाभावान्नात्रानुकूलतर्कत्व सम्भव इति शङ्काम् । तस्य बहुभिर्न्यायैरन्ययोगव्यवच्छेदकत्वस्यैव सिद्धेः तथा हि-

तत्रैयं प्रथमा कक्ष्या–

तं यथायथोपासते तथैव भवतीति श्रुतौतथैवेत्येवकारेणानुपासिताकार प्राप्तेर्व्यवच्छेदात् अप्रतीकालम्बनानित्यादि सूत्रभाष्ये तथोपासीनस्तथैव प्राप्नोतीत्यर्थ इति भाष्यकारैरपि तथैव भाषितत्वाच्च तदुभयानुरोधेन तत् क्रतुन्यायस्यान्ययोगव्यवच्छेदकत्वसिद्धिर्दुरपह्नवा । न च विशेषण संगतैवकारस्यान्ययोगव्यवच्छेदकत्वाभावः शङ्क्यः । अयं विद्वानेवेत्यनेनाविद्वत्तव्यवच्छेद प्रतीतेरानुभाविकत्वात् सदेवसोम्येदमग्र आसीदित्यत्रेदंशब्दविशेषणीभूत सच्छब्दसंगतेनैवकारेणासत्त्वव्यावर्तनस्य भाष्यकारादिभिरनुगृहीतत्वाच्च व्यक्तं चेदं महासिद्धान्तश्रुतप्रकाशिकायामिति दुषणद्वयगर्भा प्रथमा कक्ष्या ॥

अथ द्वितीया–

एक आत्मनश्शरीरेभावादित्यधिकरणदीपे कर्तृत्वभोक्तृत्वादि बद्धदशासाधारणाकार मात्रेण जीवोपासकस्य फलदशायामपहतपाप्मत्वाद्याकारेणापि जीवस्वरूपप्राप्तेत् क्रतुन्याय विरुद्धताया अन्यथा प्राप्योपास्ययोः प्रकारभेदाद्यथाक्रतुरिति विरुध्येतेत्यनुगृहीतत्वात् तदधिकरणभाष्ये तं यथायथोपासते तथैव भवतीति यथोपासनमेव हि प्राप्तिः श्रूयत ति सावधारणमेव भाषितत्वाच्च तत्सूक्तिद्वयनिर्णीतार्थकश्रुतिवाक्यद्वय भलात् तत्तथात्वसिद्धिर्दुरह्नवैवेति दूषणद्वयगर्भाद्वितीयाकक्ष्या ॥

अथ तृतीया–

तद्य इत्थं विदुरित्यत्र कार्याधिकरणदीपभाष्यश्रुत प्रकाशिकादिषु फलबलादुपास्याकार विशेषस्य साधिततया तद्बलेनापि तत् सिद्धेश्च तत्र हि पञ्चाग्निविद्या ब्रह्मविषया ब्रह्मगमनफलकत्वादित्यनुमाने ब्रह्मगमनफलकत्वमस्तु ब्रह्मविषयकत्वं मास्त्वित्यप्रयोजकशङ्कायां तत् क्रतुन्याय एव हि अनुकूलतर्कतया विवक्षितः । यदि तत्क्रतुन्यायो अयोगव्यवच्छेदमात्रपरस्स्यात् तर्हि केवलजीवोपासकस्यापि ब्रह्मगमनसम्भवात् तन्यायस्य तदप्रयोजक शङ्कापरकत्वायोगेन तदनुमानमनुपपन्नमेव स्यादिति तद्बलेन तस्यान्ययोगव्यवच्छेदकताया आवश्यकत्वात् एवमेक आत्मनश्शरीरभावादित्यधिकरण सिद्धान्तादपि तत् सिद्धिर्द्रष्टव्येति दूषणद्वयगर्भातृतीया कक्ष्या ॥

अथ चतुर्थी–

अप्रतीकालम्बनान्नायतीति बादरायण उभयधा च दोषात्तत्क्रतुश्चेति सूत्रे पञ्चाग्निविद् ब्रह्मविदोरुभयोरपि अप्रतीकालम्बनत्वसाधनार्थं सूत्रकारेणैव तत् क्रतुश्चेति तत् क्रतुन्या यस्योपात्तत्वात् तत्र प्रतिपन्नयोरुभयोरपि अप्रतीकालम्बनत्वं साधयितुं सूत्रकारस्तत्क्रतुश्चेत्युक्तवानित्यर्थ इति श्रुत प्रकाशिकायां तथैव सूत्र कृदभिप्रायस्यानुगृहीतत्वाच्च तदुभयबलादपि तत्तथात्वसिद्धिर्दुरपह्नवैवेति दूषणद्वयगर्भा चतुर्थकक्ष्या ॥

अथ पञ्चमी–

कार्याधिकरणदीपे पञ्चाग्निविद् ब्रह्मविदोस्तत् क्रतुन्यायबलेन फलभेदस्य मुक्तकण्ठमनुगृहीतत्वात् ब्रह्मोपासकानां हिरण्यगर्भप्राप्तेस्तत् क्रतुन्यायप्रतिषिद्धत्वाभिधानपूर्वकं ते ब्रह्मलोक इति श्रुतेरन्यथानयनात् अचिन्मश्रं केवलाचिद्वस्तुचोपासीनानां तत् क्रतुन्यायादेव पुनरावृत्तिरवर्जनीयेति कार्योपासकानां नित्यफलप्राप्तेरपि तत् क्रतुन्यायेनैव निवारितत्वाच्च तद्बलेनापि तत्तथात्वसिद्धिर्दुरपह्नवैवेति दूषणत्रयगर्भा पञ्चमीकक्ष्या एव मन्यदपि द्रष्टव्यम् ॥

तदित्थं बहुभिर्न्यायैस्तत्क्रतुन्यायान्ययोगव्यवच्छेदकतायाः सिद्धत्वेन तत् सहकृतेन कैवल्यं नित्यमविनाशि प्राप्यविषयोपासनसाध्यत्वात् ब्रह्मप्राप्तिवदित्यनुमानेन कैवल्यनित्यतासिद्धेर्निष्प्रत्यूहतया तदनित्यत्वसाधकहेतुस्सत्प्रतिपक्षित एव ॥

किं च तत् क्रतुन्यायस्यायोगव्यवच्छेदमात्रपरत्वेऽपि नित्यफलोपासकस्य तत् क्रतुन्यायान्नित्यफलान्वयायोगव्यवच्छेदस्याक्षतत्वे न तद् बलेन कैवल्यनित्यत्वसिद्धिरनिवार्यैव ॥ अपि च नोपजनं स्मरन्निदं शरीरमितिश्रुत्याभगवत् प्राप्तावपि

कतिपयविषयाज्ञानस्योच्यमानतया अज्ञानसंवलितत्वहेतोर्व्यभिचरितत्वेन तेनानित्यत्वानुमानायोगाच्च । न चोपजनस्मरणादिजनितदुःखाभावमात्रं तत्र विवक्षितमिति वाच्यं लक्षणाप्रसङ्गात् अनादिकालमारभ्यक्रियासमभिहारेण स्वानुष्ठितभगवत्प्राप्तिकूल्यविशेषाणामनन्तानां स्मरणे सति दुःखस्यावश्यं भावेन तदभावायोगाच्च । यदि च तत् स्मरणे सत्यपि तदभाव इष्येत तर्हि मुक्तस्य कठोरचित्तत्वमेव स्यात् । न हि भगवद्विषयप्रेमार्द्रचित्तानां तद्विषयप्राप्तिकूल्यस्मरणे दुःखाभाव उपपद्यते । पूर्वानुष्ठितानां प्राप्तिकूल्यविशेषाणां तदानीं भगवदभिमतत्वेनैव भानान्नदोष इति वाच्यं तदानीमपि तत्राज्ञानसंवलनानपायात्। न हि प्रातिकूल्यविशेषावस्तुतोभगवदभिमताः यदि तेऽपि भगवदभिमता एव तर्हि संसारोऽप्युपादेया एव स्यात् । ईश्वरस्यपापकारिषु निग्रहोपि निर्हेतुक एव स्यात्। नह्याभिमत कारिषु निग्रहो युज्यते तस्मान्मुक्तिदशायां पूर्वप्रातिकूल्यस्मरणमेवावश्याभ्युपगन्तव्यमिति हेतोर्व्यभिचारो दुरुद्धर एव ।

अथ किञ्च न्यायसिद्धाञ्जने सूक्ष्मप्रकृतिसम्बन्धस्यैव सतो नित्यकैवल्यानुभवस्य कल्पान्तरे स्थापितत्वेनवेदान्ताचार्य सिद्धान्तानुसारेणापि हेतोर्व्यभिचारो दुरुद्धर एवेति सिद्धमज्ञानसंवलितत्वहेतुर्दुष्ट एवेति ॥

इति कैवल्यशतदूषण्यां तृतीयभङ्गः॥

अथ यदुक्तं ब्रह्मप्राप्त्युदर्कत्वात् कैवल्यमनित्यमिति तदप्यनुपपत्रं हेतोरसिद्धत्वात् । न च जिज्ञासुर्लभते भक्तिमिति प्रमाणबलात् तत् सिद्धिरिति वाच्यम् । मुच्येतार्तस्तथारोगादित्युक्तरुग्णसाहचर्याल्लिङ्गात् आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात् ।

शङ्कराज्ज्ञानमन्विच्छेदित्युक्तज्ञानकामपरत्वावगमेन तस्य कैवल्यार्थिविषयकत्वायोगात्। किञ्च यूयं जिज्ञासवो भक्ता इति ज्ञान्यन्तर्गतैक तद्वितत्रितविषयेऽपि जिज्ञासुशब्दस्य तत्रैव प्रयुक्तत्वेन तस्य कैवल्यार्थिविषयत्वनिर्धारणस्याशक्त्यत्वाच्च ॥ अपि च-

आत्मार्थीचेत्रयोप्येते तत् कैवल्यस्य साधकाः इति श्रीगीतार्थ संग्रहे कर्मज्ञानभक्तियोगानां त्रयाणामपि कैवल्यसाधनताया अनुगृहीततया भक्तिश्चेत् परप्राप्तिफलैवेति नियमाभावेन जिज्ञासोर्भक्तिसिद्धावपि तस्य तेन ब्रह्मप्राप्त्यसिध्द्याहेत्वसिद्धेर्दुर्वारत्वाच्च । अथ किञ्च –

चतुर्विधाममजना भक्ता एव हितेश्रुताः ।

इत्यत्र जिज्ञासोरपि भक्तिनिष्ठतायास्त्वयैवाङ्गीकृतत्वेन तद्विरोधेनात्र जिज्ञासुर्लभते

भक्तिमिति भक्तिमिति भक्तिश्रवणमात्रेण जिज्ञासोर्ब्रह्मप्राप्त्यनुमानायोगाच्च ॥

अथ कैवल्यस्य ब्रह्मप्राप्त्यदर्कत्वं वदन्वादी प्रष्टव्यः किं कैवल्यं ब्रह्मप्राप्तिश्च एक विद्यासाध्यमुतभिन्नविद्यासाध्यंवेति । नतावदाद्यः एकस्योभयफलकत्वायोगात् । न च मधुविद्याया इव तदुपपद्यत इति वाच्यं मधुविद्यायाः कार्यनित्योभयविषयकत्वेन तत् सम्भवेपि प्रकृते तादृशविषयभेदस्याप्रामाणिकत्वेन तदयोगात् । न च पञ्चाग्निविद्यायां स्वात्मपरमात्मनोरुभयोरपि विषयतायाः प्रामाणिकत्वान्नदोष इति वाच्यम् । तथा सति ब्रह्मविद्याया अपि तदुभयविषयकत्वेन ज्ञानिनामपि कालभेदेनैव स्वात्मपरमात्मनोरनुभाव्यत्वापातात् । न च मधुविद्याफलकार्यनित्यानुभवयोरेककालावच्छेदा सम्भवात् ब्रह्मविद्याफलस्वात्मपरमात्मानुभवयोरेककालावच्छेदे विरोधाभावाद्युक्तं

ब्रह्मविद्याफलमात्मब्रह्मानुभवयोरेकर्यौगपद्यं कैवल्यब्रह्मानुभवयोर्मधुविद्याफलवदेव

यौगपद्यबाधात् कालभेदेनानुभाव्यत्वमेवावश्याश्रयणीयमिति वाच्यम् । पञ्चाग्निविद्यायां ब्रह्मात्मकत्वेनैवात्मन उपासिततया तत् फले केवलात्मनः पृथगनुभाव्यत्वायोगात् ।

न च पञ्चाग्निविदः केवलात्मोपासनस्याविकल्पनान्नदोष इति वाच्यं कल्पकाभावात् । अथ नापि द्वितीयः एकेनैवाधिकारिणा विद्याद्वयानुष्ठानायोगात् । विद्याद्वयानुष्ठाने परस्परप्रतिबन्धात् । कस्याश्चिदपि विद्यायाध्रुवस्मृतित्वापत्त्ययोगात् गुणप्रधानभावे गुणविद्याया निष्फलत्वेन फलान्तरसाधकत्वायोगात् । तस्मात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वे साधनानुपपत्तिर्दुरुद्धरैवेति हेत्वसिद्धिदुर्वारैव ॥

ननु-

ऐश्वर्यमक्षरगतिं परमं पदं वा

कस्मैचिदञ्जलिभरं वहते वितीर्य ॥

इत्येकस्यैव फलत्रयदानस्यानुगृहीततया तद् बलात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वं सिद्धमिति नानुपपत्तिरिति चेन्न। अत्र अस्मा इत्यनुक्तेः वाकारेणविकल्पस्यैवाभिधानेन समुच्चयोक्तेस्तद्विरोधाञ्च। न चात्र वाकारश्चकारार्थ एवेति वाच्यम् । निर्हेतुकस्वार्थत्यागार्थान्तरकल्पनयोरयोगात् । एतेन कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति । इत्यादि कमपिव्याख्यातम् । अधिकारिभेदेन सर्वफलसाधनत्वस्यैव तत्रापि विवक्षितत्वात् । अथ कैवल्यस्य ब्रह्मप्राप्त्यदर्कत्वं वदन्वादीपुनः पृष्टव्यः कैवल्यं कदानुभाव्यमिति किमर्चिरादिमार्गमध्ये उत ततः प्रागेवेति। नतावदाद्यः उत्थायपरंज्योतिरुपसम्पद्येत्यव्यवधानवश्रुति विरोधात् । न च दक्षिणायनमृतानां ब्रह्मविदां चन्द्रसायुज्यवत् कैवल्यस्यापि विश्रममात्ररूपत्वेनाव्यवधायकत्वं युक्तं तथा सति तस्याफलत्व प्रसह्गात् । न चेष्टापत्तिः बहुशास्त्रविरोधापत्तेः कैवल्यं भगवन्तं च, ऐश्वर्याक्षरयाथात्म्यसर्वकामांश्च साक्षराम्, ऐश्वर्यमक्षरगतिं, संसृत्यक्षरवैष्णवाध्वस्वित्यादिषु पुरुषार्थकोटौ तस्यापि प्रतिपादितत्वात् तत्र तत्र तस्य पृथगेव साधनाधिकारस्थानानां प्रतिपादनाच्च । न हि चन्द्रसायुज्यं पुरुषार्थमध्ये क्वचित्परिगण्यते तत् साधनाधिकारादिकं वा क्वचिद्विशिष्यविधीयते ।

येतु शिष्टास्त्रयो भक्ताः फलकामाहि ते मताः । इत्यत्र कैवल्यस्यापि फलत्वेन त्वयैवाङ्गीकृतत्वेन तस्यात्र विश्रममात्रत्वोक्तिः स्ववचनविरुद्धैव । अपि च सर्वकामांश्च साक्षारानित्यादावैश्वर्यवत्कैवल्यस्यापि त्यागो विधीयते । यदि च तस्य । चन्द्रसायुज्यतौल्यं स्यात्तर्हि तत्त्याग एववनशक्यते वक्तुं विश्रममन्तराशिष्टमार्गगमनासम्भवेन गत्यर्थतया तस्यावश्यकत्वात् । न हि चन्द्र सायुज्यं क्वचित्त्याज्यतयोच्यते । किञ्चार्चिरादिमार्गभाविनां विश्रमादीनां विद्यामाहात्म्यमात्रायत्तत्वेन विद्यानिष्ठानां तत्त्यागायोगेन कैवल्यत्यागविधीनां सागरतरणविधिवन्मूकत्वापाताच्च। न च कैवल्यत्यागविधीनां विद्याविशेषत्यागविधौपर्यवसानान्नदोष इति वाच्यम् । तस्य विद्याविशेषस्यैवासिद्धेः । न च केवलात्मोपासनरूपैवसेति वाच्यम् । तस्या प्रतीकालम्बनत्वाभावेनार्चिरादिगतेरेवासिध्या गतिमध्यभाविकैवल्यकत्वायोगात् । न च पञ्चाग्निविद्यैवास्तु सेति वाच्यम्। तस्या ब्रह्मविद्यातौल्येनैव गत्याम्नानात् गतौविश्रमविलम्बादिना ब्रह्मविद्यागतिवैषम्यकल्पनस्य प्रमाणविरुद्धत्वात् तस्मात् गति मध्ये कैवल्यानुभवपक्षोत्यन्तानुपपन्न एव ॥

नापिगतेः प्राकृतस्यानुभवः सम्भवति। जिज्ञासोः प्रयाणकाले मूर्ध्न्याधायात्मनः प्राणमितिमूर्धन्यनाह्यानिष्क्रमणाभिधानात् स्थूलदेहावसान एव गत्यारम्भप्रतीत्या ततः पूर्वं तदनुभवायोगात् । न च मूर्ध्न्याधायेति निष्क्रमणवचनं सूक्ष्मदेहान्निष्क्रमणमेवेति शङ्क्यम् । सूक्ष्मदेहवियोगे सति गतेरेवासम्भवात् तदापीतेस्संसारव्यपदेशादिति ब्रह्मसम्पत्तिपर्यन्तं सूक्ष्मशरीरानुवृत्तेः प्रमाणसिद्धत्वाच्च । न च स्थूलशरीरावच्छेदेनैव कैवल्यानुभवोस्त्विति वाच्यम् । जरामरणमोक्षायेत्यस्य समुद्रघोषत्वापातात् ॥

किञ्च सूक्ष्मशरीरावच्छेदेन वा स्थूलशरीरावच्छेदेन वा कैवल्यानुभवो दुरुपपाद एव कैवल्यस्य प्रकृतिविनिर्मुक्तात्मस्वरूपावाप्तिरूपत्वेन तदवच्छेदेन तदसम्भवात् सूक्ष्मवियोगानन्तरं गतेरेवाभावात् । गति मध्ये ततः प्राग्वा कैवल्यानुभव इति मतं दुर्मततमेव ॥

ननु प्रकृतिविनिर्मुक्तात्मस्वरूपानुभव एव कैवल्यं न तु तद्विमुक्तात्मस्वरूपावाप्तिरूपं येनोक्तदोषाः प्रसज्येरन् विविक्तात्मानुभवस्य च प्रकृतिवैशिष्ट्यदशायामेव सम्भवान्नानुपपत्तिरिति चेन्न ।

अक्षरं ब्रह्म परमं स्वभावोध्यात्ममुच्यते ।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥

इति श्रीगीताष्टमाध्यायवचने तद् ब्रह्मोति निर्दिष्टं परममक्षरं नक्षरतीत्यक्षरं क्षेत्रज्ञसमष्टिरूपं तथा च श्रुतिः – अव्यक्तमक्षरेलीयते अक्षरंतमसिलीयते इत्यादिकं परममक्षरं प्रकृतिविनिर्मुक्तस्वरूपं स्वभावोऽध्यात्ममुच्यत इति स्वभावः प्रकृतिरनात्मभूतमात्मनि सम्बद्धमानं भूत सूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितं तदुभयं प्राप्यत या त्याज्यतया च ज्ञातव्यमिति भाष्यकारैः कैवल्यार्थिनाः प्रकृतिविनिर्मुक्तात्मस्वरूपस्यैव प्राप्यतायाः

प्रकृतिसूक्ष्मतद्वासनादीनां त्याज्यतायाश्चानुगृहीततया तद्विरोधात् ॥ किञ्च-

ओमित्येकाक्षरं ब्रह्मव्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं सयाति परमां गतिम् ।

इत्यष्टमाध्यायवचने स परमां गतिं याति प्रकृति वियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थ इति प्रकृतिवियुक्तात्मस्वरूपस्यैव कैवल्यार्थिप्राप्यतया भाषितत्वेन तद्विरोधाच्च । अपि च-

परस्तस्मात्तु भावोऽन्योव्यक्तोऽव्यक्तात्मनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सुनविनश्यति ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥

इत्यष्टमाध्यायवचनभाष्ये तस्मादव्यक्तादचेतन प्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीयो व्यक्तस्वसंवेद्यस्वासाधारणाकार इत्यर्थः । सनातनः उत्पत्तिविनाशानर्हतया नित्यः यस्सर्वेषु वियदादिषु भूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र

स्थितोपि न विनश्यति सोव्यक्तोक्षर इत्युक्तः ।

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

कूटस्थोऽक्षर इत्यादिषु तं वेदविदः परमां गतिमाहुः अयमेव यः प्रयातित्यजन्देहं स याति परमां गतिं इत्यत्र परमं नियमस्थानमचेतन प्रकृतिरेकं नियमनस्थानं तत् संसृष्टरूपाजीवप्रकृतिद्वितीयं नियमनस्थानम् अचित्संसर्ग वियुक्तं स्वरूपेणावस्थितं परमं नियमानस्थानमित्यर्थः । तच्चापुनरावृत्तिरूपम् अथवा प्रकाशवाचिधामशब्दः प्रकाशश्चेहज्ञानमभिप्रेतं प्रकृतिसंसृष्टात् परिच्छिन्नज्ञानरूपादात्मनो अपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परमं धामेति परमनियमनस्थानभूतासंकुचितज्ञानप्रकृतिविनिर्मुक्तात्म स्वरूपस्यैव कैवल्यार्थिप्राप्यताया भाषितत्वेन तद्विरोधाच्च ॥

अथ किञ्च अव्यक्तोऽक्षर इत्युक्त इति पूर्वोक्त वचनैकार्थतया

भाष्योदाहृतस्य-

द्विविमौपुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

इति श्रीगीतापञ्चदशाध्यायवचनस्य भाष्येक्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौलोके प्रधितौ तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीव शब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि अत्राचित्संसर्गरूपैकोपाधिता पुरुष इत्येकत्वनिर्देशः अक्षरशब्दनिर्दिष्टः कूटस्थोचित्संसर्गवियुक्तस्वेनरूपेणावस्थितो मुक्तात्मा स क्वचित् संसर्गाभावात्

अचित्परिणामविशेषब्रह्मादिदेहसाधारणो न भवतीति कूटस्थ इत्युच्यते । तत्राचिद्वियोगरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः । कूटस्थ इत्यत्राप्येकत्वनिर्देशोऽचिद्वियोगरूपैकोपाधिनाभिहित इत्यादिना अक्षरशब्दस्य मुक्तपरत्वेनैव भाषणात् श्रीवेदान्तदीपस्यादौ कूटस्योऽक्षर उच्यत इति वचनमुपादाय कूटस्थः मुक्तस्वरूपमिति व्याख्याय-

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥

इत्यादि व्यपदेशादिति तत् संवादतयां

मुक्तविषयकद्वादशाध्यायवचनस्योदाहृतत्वात् ।

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥

इति चतुर्दशाध्यायवचने अमृतस्याव्ययस्य ब्रह्मण इति कैवल्यस्य शाश्वतस्य धर्मस्येति ऐश्वर्यस्य ऐकान्तिकस्य सुखस्येति भगवदनुभवस्य च प्रतिपादितत्वेन भाषणात् जगाद्व्यापाराधिकरणश्रुतप्रकाशिकायामस्य कैवल्यविषयामृतशब्दस्यामृतं मोक्ष इति व्याख्यातत्वाच्च मुक्तस्वरूपस्यैव कैवल्यार्थिभिः प्राप्यगयादुरपह्नवतया सिद्धत्वाच्च ॥

तदेवं बहुभिः प्रमाणैः कैवल्यास्य प्रकृतिवियुक्तात्मस्वरूपावाप्तिरूपत्वसिध्या तस्य यावत् प्रकृतिसंसर्गमसम्भवात् प्रकृतिवियोगानन्तरमेव कैवल्यानुभवइत्यकामेनापि स्वीकरणीयमेवेतिमार्गमध्ये वा ततः प्रागेव वा कैवल्यानुभव इति मतं दुर्मतमेव ॥

नन्व स्त्वेवं तथापि मोक्षानन्तरमेव किञ्चित्कालमनुभूय ततः परं परं ब्रह्मप्राप्नोति केवल इति नानुपपत्तिरिति चेत् मैवम् परब्रह्मप्राप्तिमन्तरा मोक्षासम्भवात् । तदापीतेस्संसारव्यपदेशादिति सूत्रे ब्रह्मप्राप्तिपर्यन्तं देहसम्बन्धलक्षणसंसारनिवृत्त्युक्तेः ननु कथं तर्हि केवलस्य ब्रह्मप्राप्तिवैधुर्यवचनमिति चेत् भ्रान्तोसि सूरिदृश्यस्थानावच्छिन्नपरवासुदेव विग्रह विशेषादिविशिष्ट ब्रह्मानु भवो हि केवलस्य नास्तीति निषिध्यते । न हि सुषुप्तिप्रलयमरणादिकालीन सम्पत्तितुल्या ब्रह्मस्वरूपे चेतनात्यन्तिकलयात्मिका ब्रह्मप्राप्तिः केवलस्य नास्तीति निषिध्यते न चैवं केवलः प्रथमं ब्रह्मस्वरूपसम्पत्त्या किञ्चित्कालमात्मानमनुभूय तदनन्तरं सूरिदृश्यस्थानावच्छेदेन परवासुदेवमनुभवतीति नानुपपत्तिरिति वाच्यम् । तत्र प्रमाणाभावात् तेषां ज्ञानी नित्ययुक्त इति वचनभाष्ये मदेकप्राप्यस्यमया योगोनित्यः इतरयोस्तु यावत्स्वाभिलषितप्राप्तिमया योग इति कैवल्यार्थिनः फलदशायां भगवदनुभवाभावस्थानुगृहीत तया तद्विरोधाच्च न चैश्वर्यार्थिनामैश्वर्यानुभवानन्तरं साधनानुष्ठानेन कदाचिन्मोक्षप्राप्तिवत् कैवल्यार्थिनोपि भगवदनुभवः संभवतीति वाच्यं कैवल्यं प्राप्तानामुपासनार्थशरीराद्यभावेन तदयोगात् न च पुनरावृत्त्या तत् सम्भवः शङ्काः अपुनरावृत्तिः प्रतिपादकवचनशतविरोधात् । न च तत्रैव परित्यक्तं शरीरमुपादाय पुनरप्युपासनानुष्ठानां शङ्काम्। शरीरोपादानहेतुभूत कर्माद्यभावात् अर्चिरादिना गच्छतामुत्थानकाल एव हि सर्वकर्मनाशः प्रतिपादितः । न च विद्यामाहात्म्यादेव पुनरपि देहसम्बन्धसम्भवः शङ्काः तादृशविद्यामाहात्म्य विषयकप्रमाणस्य शशविषाणसोदारत्वात् । तस्मात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वं कथञ्चिदपि दुरुपपादमेवेति तस्य हेतोरसिद्धिर्दुर्वारैवेति तेन कैवल्यस्यानित्यत्वानुमानमनुपपन्नमेवेति कैवल्यानित्यत्वे प्रमाणाभावात् तन्नित्यत्वमपुनरावृत्तिग्राहक प्रमाणादिसिद्धमक्षतमेवेति तस्य क्रूरनिषिद्धत्वात् पराङ्कुशादिभिस्तस्य प्रथमतस्त्याजनं तन्नित्यताप्रयुक्तक्रौर्यातिशयनिबन्धनमेवेति सिद्धो न स्सिद्धान्त इति समञ्जसम् ॥

इति कैवल्यशतदूषण्यां चतुर्थभङ्गः समाप्तः

श्री श्रीनिवासदासेन श्रीभूतपुरवासिना ।

रचितावर्धतामेषा कैवल्यशतदूषणी ॥

हरिः ओम् ॥