अथ यदुक्तं प्रतीकोपासन साध्यत्वादित्यादीत्यादि लिङ्गत्रयं तदपि पूर्वोक्तश्रुति भङ्गेनैव प्रबलप्रमाणबाधिततया सगर्भश्रावं विद्रावितमेव तथापि मन्दविषयन्यायेन तस्याप्यनुपेक्षणीयतया तन्निरास आरभ्यते –
तत्र यदुक्तं प्रतीकोपासनसाध्यत्वादिति कैवल्यानित्यत्वसाधकं लिङ्गं तन्निरासिकाः कक्ष्याः प्रदर्श्यन्ते –
०१
तत्रेयं प्रथमा कक्ष्या–
प्रतीकोपासनसाध्यत्वादिति हेतुरसिद्धः प्रमाणाभावात्। ननु कार्याधिकरणभाष्ये नामादिप्राणपर्यन्त प्रतीकालम्बनानामिति प्राणशब्दवाच्यजीनोपासकस्यापि प्रतीकालम्बनत्वस्यानुगृहीतत्वात् श्रुतप्रकाशिकायामस्य वाक्यस्य केपुनरप्रतीकालम्बना इत्यत्राह नामादीति इत्यवतरणिकादानान्नामादि प्राणपर्यन्तान्यतमोपासकत्वमेव प्रतीकालम्बनत्वमिति लक्षणसिद्धेश्च जीवोपासकस्य जिज्ञासोश्च प्रतीकालम्बनत्वं सिद्धमेवेति नासिद्धिरितिचेन्न जिज्ञासोः प्रकृतिवियुक्तात्मोपासकतया नामादिप्राणपर्यन्तान्यतमोपासकत्वस्यैवा सिद्धत्वात् । न हि प्रकृतिवियुक्तात्मनः प्राणशब्दार्थत्वसम्भवः तस्य प्राणविशिष्टवाचित्वात् प्राणविद्याप्रकरणे तस्य हिंसाकर्मत्वोक्त्या प्रकृतिवियुक्तात्मनस्तद संभवेनावश्यमचिन्मिश्रजीवस्यैव प्राणशब्दार्थताया अङ्गीकर्तव्यत्वाच्च। तदुक्तं भूमाधिकरणश्रुतप्रकाशिकायां नहि निष्कृष्टात्मनः केवलस्य शरीरस्य वा हिंस्यत्वमपि तु अचिद्विशिष्टस्यैव चेतनस्येति तस्मात् केवलजीवस्वरूपस्य प्राणशब्दार्थत्वासम्भवेन तदुपासकस्य जिज्ञासोः नामादि प्राणपर्यन्तान्यतमोपासकत्वलक्षणप्रतीकालंबनत्वानु पपत्तेर्निरुक्तोहेतुरसिद्ध एवेति ॥
०२
अथ द्वितीया –
श्रीवेदान्तसारे कार्याधिकरणे नामादिप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूप पर्यन्तं चिदचिद्वस्तुजातं ब्रह्मदृष्ट्या स्वरूपेणवोपासते अप्रतीकालम्बनास्तद्व्यतिरिक्ता इति नामादि प्राणपर्यन्तान्यतमातिरिक्तोपासकानाम प्रतीकालम्बनस्यानु गृहीतत्वात् दीपे च प्रतीकालम्बनास्त्वचिन्मिश्रं केवलाचिद्वस्तु च सिंहो देवदत्त इति वत् ब्रह्मदृष्ट्या स्वरूपेणवोपासत इति प्रतीकालम्बन व्यवस्थाप्रदर्शनपूर्वकमप्रतीकालम्बनास्तद्व्यतिरिक्त इति विशेषणतया विशेष्यतया वा अब्रह्मात्मकाचिद् ग्रहणशून्यानां सर्वेषामुपासकानामप्रतीकालम्बनत्वस्यानु गृहीतत्वाच्च तेनैवाचिद्वियुक्तनिष्कृष्टजीवस्य रूपोपासकानां जिज्ञासूनां प्रतीकालम्बनत्वाभावस्या प्रतीकालम्बनत्वस्य च सिद्धतया निरुक्तो हेतुरसिद्ध एवेति ॥
एतेन कार्याधिकरणोपासं हारे तस्मादचिन्मिश्रं केवलं वा अचिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते न तान्नयतीति भाष्यवाक्ये केवलं वा अचिद्वस्त्वित्यत्र अकारमपलप्य चिद्वस्त्विति पदच्छेदपूर्वकमचिद्वियुक्तात्मोपासकस्यापि प्रतीकालम्बनान्तर्भाव संपादनप्रत्याशाकेषांचिदुन्मूलिता । तथा सत्यशक्यकुकल्पनयोर्दीपसारवाक्ययोर्विरोधात् ब्रह्मदृष्ट्या स्वरूपेणवाकेवलाचिदुपासकानां प्रतीकोपासकत्वेन सर्वसंप्रतिपन्नानां तद्भाष्योपसंहारवाक्ये अनभिधानेन न्यूनतापत्तेश्चेति ॥
०३
अथ तृतीया–
अप्रतीकालम्बनान्नयतीति सूत्रेणार्चिरादिगतेरप्रतीकालम्बनत्व व्याप्यत्वसिद्धेः ।
एकया यात्पनावृत्तिमन्ययावर्तते पुनः ।
इति श्रीगीतावचनादनावृत्तेरर्चिरादिगति व्याप्यत्वसिद्धेश्च संप्रतिपन्नतया यं प्राप्य न निवर्तन्त इति प्रमाणसिद्धया अपुनरावृत्त्यैव कैवल्यार्थिनामर्चिरादिगत्य प्रतीकालम्बनत्वयोस्सिद्धतया निरुक्तहेतुरसिद्ध एवेति ॥
०४
अथ चतुर्थी–
तदेकोग्रज्वलनं तत् प्रकाशि तद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीतः शताधिकयेति सूत्रेण मूर्धन्यनाड्या निष्क्रमणस्याप्रतीकालम्बनत्वव्याप्यतायाः सिद्धतया मूर्ध्न्याधायात्मनः प्राणमितिकैवल्यार्थिनः प्रतिपादितेन मूर्धन्यनाड्या निष्क्रमणेनैव तस्याप्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥
०५
अथ पञ्चमी-
यः प्रयाति त्यजन्देहं सयाति परमां गतिम् ।
इति श्रीगीताष्टमाध्याय वचनभाष्ये यः प्रयाति अर्चिरादिकया गच्छतीति बहुषु प्राचीनकोशेषु पाठदर्शनात् तत्पाठाभिप्रायेणैव श्रीवेदान्ताचार्यैरपि मूर्ध्न्याधायात्मनः प्राणमित्यत्र अर्चिरादिगत्युपक्रमभूत नाडी विशेषनिष्क्रमणाङ्गीकारोपपत्तेः प्रमेयरत्नकृद्यामुनाचार्यविरचिते गीतार्थ संग्रहे यः प्रयाति त्यजन्देहमित्यत्र प्रयाति अर्चिरादिमार्गेण गच्छतीति पूर्वोक्तगीताभाष्यपाठानु सारेणैव व्याख्या तत्वात् ।
अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः ॥
इत्यादि श्रीगीताष्टमाध्यायवचनविषयस्य प्रतिस्मर्येते स्मार्ते चैत इति सूत्रस्य श्रुतप्रकाशिकायां योगिन इति सौत्रयोगिशब्दश्चतुर्विधभगवदुपासक साधारणं चतुर्विधा भजन्ते मामिति भक्ति योगस्य तेषां साधारणत्वात् इति देवयान पितृयान रूपद्विविधगत्यनुसन्धान नियोज्यवाचिनः सौत्रयोगिशब्दस्यार्तादि चतुर्विधाधिकारि विषयताया अनुगृहीतत्वेन तेनपुनरावृत्तिशून्यतया पूर्वोक्तबहुप्रमाणसिद्धस्य जिज्ञासोदेवयानानु सन्धानमेव सूत्रकाराभिप्रेतमिति सिध्या अग्निर्ज्योतिरित्यादौकैवल्य। परमपुरुषनिष्ठस्य च साधारण्येवार्चिरादिगतिः प्रतिपाद्यत इति सिद्धत्वात् तदनुरोधेनाग्निर्ज्योतिरित्यादिश्लोकगीताभाष्ये अथात्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च साधारणीमर्चिरादिगतिमाहेतितितदवतरणिकाग्रन्थगतात्मयाथात्म्यविच्छिब्दस्य कैवल्यार्थिपरत्वस्यैवस्वारसिकत्वात् कैवल्यार्थिन्येव प्रकरणस्वारस्यात् श्रीगीतार्थसंग्रहे तदध्यायविषयश्लोके ऐश्वर्याक्षरयाथात्म्यभगवच्चारणार्थिनां वेद्योपादेय भावानामष्टमे भेद उच्यत इति कैवल्यार्थिविषये अक्षरयाथार्थ्यार्थिशब्दस्य प्रयुक्ततया तत्राक्षरशब्दार्थव्यक्तीकरणार्थं भाष्यकारैरात्मयाथात्मविद इति प्रयोगोपपत्तेश्च शारीरकशास्त्र गीताभाष्यादिसकलस्वारस्यानुरोधेन कैवल्यार्थिनोदेव यानगतेस्सिद्धतया तद्बलेन तस्याप्रतीकालम्बनत्वसिद्धेरुक्तहेतुरसिद्ध एवेति ॥
०६
अथ षष्ठी–
उपासनस्य फलकामनापूर्वकत्वेन जिज्ञासुप्राप्यफलवैषम्यज्ञापकेयं प्राप्यननिवर्तन्ते तद्धाम परमंममेति तत्प्राप्यस्य भगवच्छरीरत्वस्योक्ततया तेन तथा ज्ञातस्यात्मस्वरूपस्य तथैवोपासनमिति वक्तव्यत्वात् अधियज्ञोऽहमेवात्र देहे देह भृतां वर इति कैवल्यार्थिकर्तृकोपासनाङ्ग कर्माराध्यदेवमनुष्यभूतपितृब्रह्मादीनां भगवदात्मकत्वानुसन्धानस्योक्तत्वाच्च जिज्ञासोरप्यात्मयाथात्म्यवित्त्वस्य सिद्धतया तस्याप्य प्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥
०७
अथ सप्तमी–
अक्षरं ब्रह्मपरमं स्वभानोऽध्यात्ममुच्यते ।
भूतभावोद्भवकारो विसर्गः कर्म संज्ञितः ।
इति जिज्ञासुवेद्यविषयाष्टमाध्यायवचन भाष्ये परममक्षरं प्रकृतिविनिर्मुक्तात्मस्वरूपं स्वभावोऽध्यात्ममुच्यत इति स्वभावः प्रकृतिः अनात्मभूतमात्मनि संबध्यमानं भूत सूक्ष्मत द्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितं तदुभयं प्राप्यतयात्याज्यतया च ज्ञातव्यमिति पञ्चाग्निविद्याप्राप्यस्यैव जिज्ञासुप्राप्यत्वेनोक्ततया तेनैव तस्य ब्रह्मात्मकात्मस्वरूपोपासकत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥
०८
अथाष्टमी –
यः प्रयातित्यजन्देहं स याति परमां गतिम् ।
इत्यादिषु जिज्ञासोः प्रकृतिविनिर्मुक्तभगवत्समानाकारस्वरूपप्राप्तेरुक्ततया तत्र प्रकृतिविनिर्मोकस्य तदापीतस्संसाख्यपदेशादिति सूत्रोक्तिरीत्या ब्रह्मप्राप्त्यनन्तरत्वात् भगवत्समानाकारत्वस्य परंज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यत इत्याद्यनुसारेण ब्रह्मसंपत्त्यनन्तरभावित्वाच्च तस्य चा प्रतीकविदसाधारणतया निरुक्तहेतुरसिद्ध एवेति ॥
०९
अथ नवमी–
तद्धामपरमं ममेत्येतद्द्वितीययोजनायाम् अथवाप्रकाशवाचिधामशब्दः प्रकाशश्चेह ज्ञानमभिप्रेतं प्रकृति संसृष्टात् परिच्छिन्नज्ञानरूपादात्मनः अपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परंधामेतिजिज्ञासु प्राप्यस्यासंकुचितज्ञानत्वोक्त्या तस्य च परंज्योतिरुपसम्पद्येत्युक्त संपत्त्यनन्तरमेव सम्भवात् तस्य चा प्रतीकोपासनव्याप्यत्वेन निरुक्तहेतुरसिद्ध एवेति ॥
१०
अथ दशमी–
केवलात्माच भवति केवलेन समेत्यवै ।
इति मोक्षधर्मवचनेन स्वव्यतिरिक्त भोगभोक्तृरहित भोगवत्त्वलक्षणकैवल्यस्य तादृशभोगरूपकैवल्यविशिष्टभगवत्प्राप्त्यनन्तर भावित्वस्य कण्ठोक्ततया जिज्ञासोरात्यन्तिकलयात्मक सम्पत्तिस्थानभूतकेवलब्रह्मस्वरूपप्राप्तेः सिद्धतया तस्याश्च ब्रह्मगमयतीत्युक्ताया अप्रतीकोपासनव्याप्यत्वान्निरुक्तहेतुरसिद्ध एवेति ॥
११
अथैकादशी–
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
इति वचन भाष्ये जिज्ञासोर्भूतसूक्ष्मतद्वासनादीनां त्याज्यत या ज्ञातव्यत्वस्योक्तत्वात् तद्धामपरमं ममेत्यत्र निश्शेषप्रकृतिविनिर्मोकविशिष्टस्यैव प्राप्यत्वेनोक्तत्वाच्च तादृशसूक्षमवासनादिविनिर्मोकस्य लक्ष्मीतत्रे द्वादशाध्याये, –
सप्तम्यात्यन्तिकी प्रोक्ता विलयोयोगिनां मयि। सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम् । इति वचनेन चेतन कर्तृकदेशविशेषावच्छिन्नब्रह्मस्वरूपलयात्मकात्यन्तिक संहृतिविशक्तिकार्यब्रह्मसंपत्तिकाल भावित्वस्योक्ततया तस्याश्च संपत्तेः परंज्योतिरुपसंपद्य तदापीतेस्संसारव्यपदेशादित्यादिश्रुतिसूत्रोक्त स्वरूपाया अप्रतीकोपासन व्याप्यत्वेन निरुक्तहेतुरन्यथासिद्ध एवेति ॥
१२
अथद्वादशी –
अग्निज्योतिरित्यादिश्लोकभाष्योदाहृतपञ्चाग्नि विद्याप्रकरणाधीतगतिवाक्ये तद्य इत्थं विदुरिति पञ्चाग्निविदां केवलात्मयाथात्म्यवेदनमात्रस्य येचेमेरण्येश्रद्धा सत्यमुपासत त्यादिना परमपुरुषनिष्ठानामेवः, –
श्रद्धावान् भजते योमां समेयुक्ततमो मतः ।
इति षष्ठाध्यायोक्तप्राप्यत्वरापूर्वकोपासनास्य योक्ततया तेन तादृशत्वरारहितानां पञ्चाग्निविदां ज्ञान्यनन्तर्भावसिद्व्यापरिशेषादौचित्याच्च जिज्ञासुकोटि निवेशएवेति तेषामप्रतीकालम्बनत्वसिद्धेनिरुक्तहेतुरसिद्ध एवेति ॥
१३
अथ त्रयोदशी
तस्य हवा एतस्य ब्रह्मलोकस्यारेह्वदोमुहूर्तायेष्टिहाविरजानदीतिल्यो वृक्ष इत्यादिना कौषीतक्यधीतस्य वैष्णवाध्वनः पञ्चाग्निविद्याप्रकरष्वनाम्नानात् तदित्थंविदागच्छति ब्रह्मविद्वान् ब्रह्माभिप्रैतीत्यादिना तस्य परमपुरुषनिष्ठासाधारण्येनैवाम्नातत्वाच्च तेषां पञ्चाग्निविदां,
तेषां तत्परमं स्थानं यद्वैपश्यन्ति सूरयः । इत्युक्तसूरिदृश्यस्थानप्राप्तिर्नास्तीत्येव सिद्धेः । तदनुसारेण कार्याधिकरणवेदान्तदीपे पञ्चाग्निविदोहि प्रकृतिवियुक्तात्मस्वरूपविदः ते च तत्कैवल्यं प्राप्य पुनर्ननिवर्तन्त इति प्राचीनकोशपाठात् पञ्चाग्निविदो हि प्रकृतिवियुक्तब्रह्मात्मकात्मस्वरूपविदः ते च तत्प्राप्यपुनर्ननिवर्तन्त इति नवीनमुद्राक्षरकोशादिपाठाच्च पञ्चाग्निविदां स्वोपासितात्मप्राप्तिमात्रस्यैवानुगृहीतत्वात् परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्ननिवर्तन्त इति परमपुरुषनिष्ठानामेव यथावस्थितस्वरूपानुरूपगुणविभूतिपरिपूर्णपरवासुदेव विग्रहविशिष्टब्रह्मप्राप्तेरुक्तत्वाच्च तादृश यथावस्थितपरिपूर्णपरब्रह्मप्राप्तिविधुराणां पञ्चाग्निविदां ज्ञानिकोटिनिवेशासम्भवेन जिज्ञासुत्वमेवोचितमिति तेषामप्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥
१४
अथ चतुर्दशी–
उभयेऽपिहि परिपूर्णं ब्रह्मोपासते मुखभेदेन स्वात्मशरीरकं ब्रह्मकेचन ब्रह्मात्मकं स्वात्मानमितर इति श्रीवेदान्तसारे पञ्चाग्निविदां स्वात्मविशेषणतयैव परिपूर्णब्रह्मानुसन्धानस्यानुगृहीततया वस्तुतः परिपूर्णस्यापि ब्रह्मणश्चेतनशरीरित्वस्य विभूतिविग्रहाद्युपलक्षितवेषेणैव वक्तव्यतया तस्य सर्वविभूतिविग्रहविशिष्टवेषेणात्मविशेषणतया पञ्चाग्निविद्भिरनुसन्धानां योगात् ब्रह्मस्वरूपमात्रस्य तथानुसन्धान सम्भवेऽपि तस्य
स्वात्मविशेषणतयानु सन्धानस्य केवलं स्वात्मव्यावर्तनमात्रायत्वेन ब्रह्मांशे प्राधान्याभावेन स्वात्मनामेव प्रधानतया तत्रैव तेषां निरतिशयप्रीतेस्तान् प्रति ब्रह्मणो निरतिशयप्रियत्वासम्भवेन तेषां प्रियोहि ज्ञानिनोऽत्यर्थमहमित्युक्तभगवद्विषयात्यर्थ प्रीतियुक्तज्ञानिकोटिनिवेशा सम्भवात् जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥
१५
MISSING
१६
अथषोडशी–
पञ्चाग्निविद्भिश्शरीरभूतस्वात्मापेक्षया विविच्यान्तरात्मत्वेनैव ब्रह्मानुसन्धानात्ततः स्वात्मानं विविच्य चत्छरीरत्वेनैव स्वानुसन्धानाच्चकेवलभेदोपासननिष्ठत्वात् तादृशानां योऽन्यां देवतामुपास्ते अन्योसावन्योहमस्तीति न सवेदेति श्रुतिगर्हिता यथोपासननिष्ठत्वात् अथयोपासने प्राप्तिरप्ययथाभूतास्यात् यथा क्रतुरस्मिन् लोके पुरुषोभवति तथेतः प्रेत्यभवतीतिन्यायादिति भाष्यानुसारेण तस्य स्वरूपविरुद्धाहंकार ममकारगर्भतया नित्यसंसार शब्दाभिलापार्हस्वात्मसन्तोषकारित्व लक्षणकैवल्यप्राप्तिहेतुत्वेन तन्निष्ठानामनन्य प्रयोजनज्ञानिकोटिनिवेशा सम्भवेन परिशेषात् जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥
एतेनात्मत्वेनानुसन्धानमेव ब्रह्मविद्यास्वरूपमिति परास्तम्। पृथगात्मानं प्रेरितारं चमत्वेति प्रेरिततृत्वानुसन्धानस्य भेदानुसन्धानरूपत्वश्रुतेः। अत एव आत्मत्वोपासनाधिकरणभाष्यान्ते अहमिति स्वात्मतयानुसन्धानादन्यत्वानुसन्धान निषेधोरक्षित इति अहंग्रहोपासननिष्ठानामेव निषिद्धभेदोपासनवर्जनसिद्धिरनुगृहीता ॥
१७
अथ सप्तदशी–
त्वंवाहमस्मि भगवोदेवते अहं वैत्वमसीति श्रुत्यापूर्वेषां परमपुरुषोपासनप्रकारं माहयन्त्या सामानाधिकरण्येनोपासनस्य ग्राहितत्वात् अविभागेन दृष्टत्वादित्यधिकरणे ब्रह्मविद्यया मुक्तानां सर्वेषां यथा दर्शनं जायमानस्य ब्रह्मानुभवस्य अहं ब्रह्मास्मीत्यविभागेनैव जायमानत्वस्थापितत्वात् तद्बलेनापि तेषां सामानाधिकरण्येनैव ब्रह्मोपासनमिति सिद्धेश्च केवलवैयधिकरण्येनोपासकानां पञ्चाग्निविदां ब्रह्मविद्यानिष्ठज्ञानित्वासम्भवेन जिज्ञासुत्वमेवोचितमिति निरुक्तहेतुरसिद्ध एवेति ॥
१८
अथ अष्टादशी–
त्वंवाहमस्मिभगवोदेवते अहं वैत्यमसि तद्योहं सोसौ योसौ सोहमस्मीत्यादिश्रुत्या पूर्वोपगमप्रकारं दर्शयन्त्या तुल्यवित्तिवेद्यतया भानस्याप्युपासनान्तर्भावसिध्या पञ्चाग्निविदां ब्रह्मविदांचोभयविधब्रह्मोपासन सत्त्वेन विद्याभेदस्यैवासाङ्गत्यापत्त्या सामानाधिकरण्योपासनवैयधिकरण्योपासनाभ्यामेव तयोर्भेदस्यागत्योपपादनीयत्वेन पञ्चाग्निविदां निषिद्धभेदोपासननिष्ठत्वमेवेति तेषां जिज्ञासुत्वस्यैव युक्तत्वात् निरुक्तहेतुरसिद्ध एवेति ॥
१९
अथैकोनविंशी–
पञ्चाग्निविद्ब्रह्मविदोरुभयोरपि विशेष्यतया विशेषणतया च ब्रह्मोपासनत्वेऽपि पञ्चाग्निविदां विशेषणतया ब्रह्मानुसन्धानमेव वैधमन्यदानुषङ्गिकं ब्रह्मविदां तद्विपरीतमिति कल्पनेन भेदोपपादनेऽपि उभयोरप्यानुषङ्गिके तात्पर्याभावेन पञ्चाग्निविदां विशेष्यत या ब्रह्मानुसन्धानस्योपेक्षात्मकत्वेन तस्य भावोज्झितास्तेनफलं लभन्त इति न्यायेन फलाधायकत्वायोगात् फलस्य यथोपासनभावित्वाच्च पञ्चाग्निविदां मोक्षदशायाम् अविभागेन भोगरूपब्रह्मानुभवो नास्त्येवेति सिध्या तेषां न ज्ञानिकोट्यन्तर्भाव इति निरुक्त हेतुरसिद्ध एवेति ॥
२०
अथ विंशी–
आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य साधारणीमर्चिरादिगतिमाहेति श्रीगीता भाष्यवाक्यं पञ्चाग्निविदो ज्ञानित्वेनोपपद्यते पञ्चाग्निविदोऽपि दहरविद्यादिनिष्ठानामिव परमपुरुषनिष्ठविशेषत्वेन परमपुरुषनिष्ठासाधारणीमर्चिरादिगतिमाहेत्येव वक्तव्यत्वात् । न हि पृथिवीघटयो स्साधारणं गन्धमाहेति वक्तुं युक्तं विरुद्धधर्माणामेव साधारण्यनिरूपकतावच्छेदकत्वनियमात्। तस्मादर्चिरादि गति निष्ठसाधारण्यनिरूपकतावच्छेदकत्वेनोपात्तत्वादेवात्म यथात्म्यवित्त्वपरमपुरुष निष्ठत्वयोर्विरुद्धत्वसिध्या तादृशपरमपुरुषनिष्ठत्वविरुद्धात्म याथात्म्यवित्त्वावच्छिन्नस्य पञ्चाग्निविदः परमपुरुषनिष्ठत्वावच्छिन्नज्ञानिकोटिनिवेशा सम्भवेन जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति । न च विशेष्यतया ब्रह्मोपासक एव परमपुरुषनिष्ठशब्दार्थ इति वक्तुं युक्तं व्युत्पत्तेरतथात्वात्। न हि विशेष्यत्वेनानुसन्धानमेव निष्ठाशब्दार्थः । ओमित्यात्मानं युञ्जीतेति श्रुतिविहितात्मविशेष्यकन्यासविद्यावत्सुपरमपुरुष निष्ठाशब्दप्रयोगस्य लाक्षणिकत्वापातात् ब्रह्मैव श्रोतव्यो नान्यदिति व्यवसायो निष्ठेति भूमाधिकरणभाष्यश्रुतप्रकाशिकाविरोधाच्चा तस्मात् परमपुरुष एव परमप्राप्यत या श्रोतव्यो नान्यदिति व्यवसिताः परमपुरुषनिष्ठाः । आत्मयाथात्म्यमेव तथा प्राप्यतया श्रोतव्यमिति आत्मयाथात्म्यविद इत्येव तयोर्भेदस्य आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य चेत्यादिभाष्ये स्वरसतः प्रतीत्या पञ्चाग्निविज्जिज्ञासुरेवेति ॥
२१
अथैकविंशी–
यदिचात्मयाथात्म्यविदोपि ज्ञानिकोटिनिवेशः प्रामाणिकः स्यात् तर्हि कार्याधिकरणसिद्धान्तसूत्रं व्यर्थमेव। पूर्वपक्षिणा जैमिनिनैव परपक्षप्रतिक्षेपपूर्वकं सिद्धान्तस्य स्थापितत्वात्। परं जैमिनिर्मुख्यत्वादिति हि तत्र सूत्रम्। परं ब्रह्मोपासीनानर्चिरादिर्नयतीति जैमिनिराचार्यो मन्यत इति च तत्र भाष्यम्। नह्यत्र विशेष्यत या ब्रह्मोपासीनानेवनयतीति जैमिनिनोक्तं भाषितं वा येन सिद्धान्तसूत्रारम्भः सार्थकस्स्यात्। न च परं जैमिनिरित्यत्र परशब्दोत्तरद्वितीयाया विशेष्यतैवार्थ इति नियन्तुं शक्यम्। उभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेनेति सारवाक्ये ब्रह्मशब्दोत्तरं विषयता सामान्ये द्वितीया प्रयोगात् घट इति घटं घटत्वं च प्रत्येतीत्यादानपि तथादर्शनाच्च। तस्मात् विषयतासामान्यस्यैव द्वितीयार्थत्वेन परं जैमिनिरित्यनेनैव परविषयकोपासननिष्ठानां सर्वेषामेवार्चिरादिगतिरिति स्थापिततया पञ्चाग्निविदोपि परोपासकज्ञानि कोट्यन्तर्भावे अप्रतीकालम्बनान्नयतीति सिद्धान्त सूत्रं व्यर्थमापद्येतेति तस्य जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति ॥
२२
अथ द्वाविंशी–
अप्रतीकालम्बनानित्यादि सिद्धान्त सूत्रभाष्ये ये परं ब्रह्मोपासते येचात्मानं प्रकृति वियुक्तं ब्रह्मात्मकमुपासते तानुभयविधान्नयतीत्यत्र विशेष्यताप्रकारता लक्षणविषयता भेदमात्रेण द्वैविध्यस्य तुल्यवित्तिवेद्यतया भानसंवलनात् त्वंवाहमस्मीत्यादिश्रुति बलाच्चोभयेषामुभयविधानुसन्धानसत्त्वेन दुरुपपादतायाः पूर्वमेवोक्ततया प्रकारान्तरेणैव तदुपपादनीयम्। किन्तत् प्रकारान्तरमिति चेत् ब्रह्मविषयकनिरतिशयप्रीतिमत्त्वं ब्रह्मात्मकात्मविषयनिरतिशयप्रीतिमत्त्वं चैवेति ब्रूमः। शब्दत एवात्र तयोः प्रकारयोः प्रतीतेः तथा हि ये परं ब्रह्मोपासत इत्यत्र ब्रह्मशब्दोत्तरद्वितीयाया विषयत्वमर्थः। तस्याश्च उपास्तावन्वयः। उपासनं नाम निरतिशय प्रीतिरूपोज्ञानविशेषः सेवा भक्तिरुपास्तिरिति निघण्टुपाठेन भक्तिशब्दपर्यायत्वात्। तथा च ये परं ब्रह्मोपासत इत्यनेन परब्रह्मविषयनिरतिशयप्रीतिविशिष्टा ज्ञानिनोऽभिहिताः एवमेव येचात्मानमित्यादिना ब्रह्मात्मकात्मस्वरूपविषयनिरतिशयप्रीति विशिष्टा उच्यन्ते न ब्रह्मविषयनिरतिशयप्रीतिविशिष्टाः तेषां ब्रह्मणि प्रीतेरात्मविशेषणत्वनिबन्धनस्वात्मप्रीत्या सातिशयत्वात्। तथा चैवमुपपादितयोः द्वयोरप्रतीकालम्बनयोरात्मयाथात्म्यविद अन्यभक्त तया तस्य एक भक्तिर्विशिष्यत इत्युक्त ज्ञानिकोट्यन्तर्भावायोगात् जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति ॥
ननु तर्हि कथं वेदान्तसारे उभयोपि हि परिपूर्णं ब्रह्मोपासत इत्युक्तमिति चेत् भ्रान्तोसि ना हि तत्र तयोरविशेषेण ब्रह्मोपासनमुक्तं किन्तु मुखभेदेनैव। प्राधान्याप्राधान्य एव हि तत्र मुखभेदोनाम तथा च तत्रापि पञ्चाग्निविदस्वात्मविषयतया निरतिशय प्रीतिरूपेतदुपासने ब्रह्मण आत्मविशेषणत्वरूपाप्राधान्य लक्षणमुखभेदेनैव विषयत्वामित्युक्तं भवति। यदि च यथा कथञ्चित् ब्रह्मविषयकत्वाभिप्रायक ब्रह्मोपासन शब्द प्रयोगमात्रेण ब्रह्मविद्यानिष्ठत्वसिद्धिः स्यात् तर्हि चतुर्विधा भजन्ते मामिति गीतावचनात् उदारास्सर्व एवैत इत्यादिषु सर्व एवै तेमामेवोपासते इत्युदारावदान्या इत्यादि भाषणात् दक्षिणायनाधिकरणस्थयोगिनः प्रतीत्यादिसूत्र भाष्ये चतुर्विधाधिकारिसाधारणयोगि शब्दस्य योगिनः ब्रह्मविद्यानिष्ठान् प्रति एते देवयानपितृयानगती स्मार्ते स्मर्येते इति ब्रह्मविद्यानिष्ठशब्देन दीपे व्याख्यानाच्च चतुर्णामपि ब्रह्मनिष्ठत्वस्यैव प्रसङ्गात् । तस्मान्निरुक्तसारवाक्यस्य पञ्चाग्निविदामप्रतीकालम्बनत्व समर्थनार्थं तदुपासने यथा कथञ्चित् ब्रह्मणो विषयत्वमस्त्येवेति एतावन्मात्रोपपादन परत्वात् ब्रह्मांशे निरतिशयप्रीतिरूपोपासनवतामेव ज्ञानिशब्दार्थत्वाच्च पञ्चाग्निविदां ज्ञानिकोटिनिवेशो दुर्लभ एवेति ॥
२३
अथ त्रयोविंशी–
कार्याधिकरणे हि न प्रतीकालम्बनत्वमप्रतीकालम्बनत्वं च फलनित्यत्वानित्यत्वयोः प्रहयोजकतया विवक्षितं तत्र प्रमाणाभावात्। न हि क्वचित् प्रतीकालम्बनमनित्यफलमित्यादिकं श्रूयते किन्तु फलनित्यत्वानित्यत्व साधकत्वत् क्रतुन्यायविषयतावच्छेदक विशिष्टोपासनसत्त्वमेव अप्रतीकालम्बनान्न यतीति बादरायण उभयथा च दोषादित्युक्तमर्थमुपपादयता सूत्रकारेण तत् क्रतुश्चेत्युक्तत्वात् तदेतदाह भगवान् भाष्यकारः तस्मादुभयविधान्नयतीति तदेतदाहतत् क्रतुश्चेति इत्यादिना। तथा च पञ्चाग्निविद् ब्रह्मविदोरपि फलमित्यतायास्तत् क्रतुन्यायविषयस्वोपास्य नित्यताप्रयुक्तत्वात् प्रकृते जिज्ञासोरपि प्रकृति विनिर्मुक्तात्मस्वरूपोपासकत्वात्तेनैव तत् क्रतुन्यायेन तत् प्राप्यकैवल्यनित्यताया अपि सिद्धत्वेन तदनित्यत्वसाधतकतयोपन्यस्तः प्रतीकोपासनसाध्यत्वादिति हेतुस्सोपाधिकोपीति नामादि प्राणपर्यन्तफलेष्वनित्येषु अनुत्योपासनसाध्यत्वलक्षणोपाधेस्साध्यव्यापकत्व दर्शनात् पूर्वपक्षिणा प्रतीकोपासन साध्यत्वेनाभिमते जिज्ञासुकर्तृक प्रकृतिविनिर्मुक्तात्म स्वरूपोपासनसाध्ये फले अनित्योपासनसाध्यत्व लक्षणोपाध्यभावेन तस्य साधनाव्यापकत्वाच्च तस्योपाधित्वानपायादिति ॥
२४
अथ चतुर्विंशी–
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्ययुकौन्तेय पुनर्जन्म न विद्यते ॥
इति श्लोकभाष्ये ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तावपुनरावृत्तौ च हेतुमनन्तराहेत्यवतरणिकादानात् ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वमवर्जनीयम्। मां सर्वज्ञं सत्यसंकल्पं निखिलजगदुत्पत्तिस्थितिलयादिलीलं परमकारुणिकं सदैकरूपं प्राप्ताना विनाशप्रसङ्गाभावात् तेषां पुनर्जन्म नविद्यत इति व्याख्यानात् जिज्ञासोरनावृत्तिप्रतिपादकश्लोकेपि – यस्ससर्वेषु भूतेषु नश्यत्सुनविनश्यति ।
अव्यक्तोऽक्षर इत्युक्तास्तमाहुः परमांगतिम् ॥
यं प्राप्य ननिवर्तन्ते तद्धामपरमं मम ।
इति प्राप्यविनाशाभावकथनपूर्वकं तदपुनरावृत्तिकथनाच्च कार्याधिकरणे प्रतीकविदां फलानित्यत्व प्रतिपादनपरे विशेषं च दर्शयतीति सूत्रचिन्तितेषु नामादि प्राणपर्यन्तोपासनफलवाक्येषु तत् क्रतुन्यायानुसारेणैव परिमितफलप्रतिपादनस्य भाषितत्वात्। मध्वधिकरणे मधुविदां ब्रह्मवित्त्वेऽपि तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं तदन्तेकारणं परं ब्रह्मैवाप्नोतीति तत् क्रतुन्यायात् कार्योपासनेनैवानित्यवसुलोकप्राप्तेर्भाषितत्वेना प्रतीकालम्बनत्वस्य तदंशेऽन्यथा सिद्धत्वाञ्च फलानित्यतायां प्राप्यतया अनित्योपासनमेव प्रयोजकं तन्नित्यतायां च तादृशतदुपासनमेव प्रयोजकमित्येव प्रयोज्यप्रयोजकभाव सिध्या प्रकृतजिज्ञासोः प्राप्यतया नित्यवस्तूपासकस्य फलनित्यत्वं सिद्धमेवेति हेतुस्सत् प्रतिपक्षितोपीति। एवेन प्रतीकालम्बनास्तु अचिन्मिश्रं केवलाचिद्वस्तुचेत्यादि प्रतीकोपासनलक्षण प्रदर्शनपरदीपादिवाक्येषु लक्षणया चकारस्यानुक्रसमुच्चायकत्वाश्रयणेनवा पाठान्तर प्रक्षेपेण वा अन्येन वा माहासाहसेन अचिद्वियुक्तचेतनोपासनाभिधानं परिकल्प्यजिज्ञासोरपि प्रतीकोपासकान्तर्भावे भाष्यकारसंमति संपादनपरिश्रमो निष्फलीकृतः। तथा तत् सम्पादनेनासिद्धिपरिहार प्रत्याशायामपि पूर्वोक्तसोपाधिकत्वसत् प्रतिपक्षयोर्दुरुद्धरत्वादिति ॥
२५
अथ पञ्चविंशी–
स एनान् ब्रह्मगमयगीति पञ्चाग्निविद्ब्रह्मविदोः साधारण्येन ब्रह्मप्राप्तिश्रवणेपि तस्या अनुभवरूपत्वं न सम्भवति कार्याधिकरणगतदर्शनाञ्चेति सूत्र भाष्ये ब्रह्मगमयतीति श्रुत्युक्तायाः प्राप्तेः परंज्योति रुपसंपद्येत्युक्तसम्पत्तिरूपत्वस्यानुगृहीतत्वात् । संपत्तिर्नाम नामरूपविभागानर्हतया कारणस्वरूपे लय एवेति अविभागोप्यवचनादिति सूत्रभाष्ये स्पष्टम् । अत्रेयं सम्पत्तिरात्यन्ति कलयरूपा तस्या हि सुखरूपत्वं विश्रमार्थत्वं च सुषुप्त्यादाविव दुरपह्नवम् । सुषुप्तिकाले सतासोम्ये तदा सम्पन्नो भवतीति ब्रह्मणि सम्पन्नस्य हि सुखमहमस्वाप्समिति सुखप्रत्यक्षं भाष्येऽनुगृहीतम् । प्राहुरप्यभियुक्ताः-
स्वापेसुखत्वजिज्ञानात्तद्विच्छेदे ऐषतः ।
इति सुषुप्त्यपेक्षयापि महाप्रलये संपत्तिर्विशिष्यते दीर्घकालविश्रान्त्यादि हेतुत्वात् तदपेक्षयाप्यात्यन्तिकलयात्मक सम्पत्तिर्निरतिशयानित्यविश्रान्तिरूपत्वात् नित्यसुखरूपत्वाच्च तदेवं सम्पत्तिवैलक्षण्यं श्रुतप्रकाशिकायामविभागाधिकरणे दर्शितम् । भारवाहकस्य देहि नस्सभारस्यैव यष्ट्यवष्टम्भेन विश्रमतुल्यस्सुषुप्तौ विश्रमः अपनीतभारस्य विश्रमतुल्यो महाप्रलयइत्यादिना परंज्योतिरूपसम्पद्येत्युक्तायाः सम्पत्तेर्लयात्मकत्वं च दहराधिकरणश्रुतप्रकाशिकायां स्पष्टम् । वाय्वादीनि च स्वकारणद्रव्यमुपगम्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति वायुर्ह्यावहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्वमात्रेणावतिष्ठते विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन अभ्रस्तनयित्नुचाभ्रत्वादि प्रहाणेन स्वकारणभूतरूपेण एवं जीवश्च मार्गविशेषेण गत्वा परं ब्रह्मप्राप्यसंसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवतीत्येवमर्थे सति हि दृष्टान्तदार्ष्टान्तिकवाक्य सामञ्जस्यं भवतीति तत् प्रकरणार्थवर्णनात् सूत्रकारेणापि आसृत्युपक्रमाधिकरणे तदापीतेस्संसारव्यपदेशादिति सूत्रे ब्रह्मगमयतीत्यादिनोक्ता ब्रह्मप्राप्तिर्लयवाचिना अपीति शब्देन निर्दिष्टा श्रुतौ च यथा नद्यस्स्यन्दमाना स्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यमिति ब्रह्मप्राप्तेर्लयरूपत्वं दर्शितम्। लक्ष्मीतन्त्रे द्वादशाध्याये च
सप्तस्यात्यन्तिकी प्रोक्ता विलयो योगिनामपि ।
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदासताम् ।
इति मोक्षस्य भगवत्स्वरूपे चेतनलयात्मकत्वं तस्य च लयस्य सूक्ष्मशरीरनिवृत्ति समानकालीनत्वं चोक्तम्। अस्याश्च ब्रह्मसम्पत्तेः सम्पद्याविर्भावस्स्वेनशब्दादित्यादिषु चेतन स्वरूपाविर्भावहेतुत्व स्योक्ततया तिरोधानकालीनत्वं सिद्धम्। इयं च सम्पत्तिश्चेतनस्य ब्रह्मात्मकस्वात्मावाप्तिरूपैव नामरूपविभागानर्हतया ब्रह्मस्वरूपपृथक् सिद्ध विशेषणत्वेन स्थितेरेव ब्रह्मात्मकत्वापत्तिरूपत्वात् इयन्तु तत् क्रतुन्यायात् पञ्चाग्निविदां प्रधानफलभूता ब्रह्मविदान्त्वप्रधानफलमेव तर्हि कथं स एनान् ब्रह्मगमयतीति गति श्रुतेरत्रैव पर्यवसानमिति चेत् भ्रान्तोसि अवहितमनाश्शृणु अर्चिरादिगतिर्हि आत्मयाथात्म्यविदः परमपुरुषस्येव साधारणीकाचनसाच पञ्चाग्निविप्राप्त्याभिप्रायेणाक्षराध्वेत्युच्यते परमपुरुषनिष्ठस्यैवासाधारणी तदन्यासा च वैष्णवाध्वेत्युच्यते छान्दोग्यबृहदारण्यकयोः पञ्चाग्निवित् प्रकरणयोरधीता ब्रह्मगमनपर्यन्तागतिरक्षराध्वा अक्षिविद्याप्रकरणयोरधीता सैव ब्रह्मपथशिरस्कावैष्णवाध्वा कौषीतकीपर्यङ्कविद्यायां हि स प्रजापतिलोकं स ब्रह्मलोकमित्यन्तेन पञ्चाग्निवित्साधारणीमक्षरगतिमभिधाय तस्य हवा एतस्य ब्रह्मलोकस्यारं हृद इत्यादि ब्रह्मविदसाधारणांशो ब्रह्मपथ आम्नातः अक्षिविद्यायामपि एषदेवपथो ब्रह्मपथ इति ब्रह्मपथशब्देन देवयानस्य विशेषणात् पञ्चाग्निवित्साधारणीगतिर्व्यावर्तिता तर्हि कथं भाष्ये अर्चिरादिरेकैवेत्युक्तमिति चेत्। विद्यानिष्ठानां स्मर्तव्यगतेर्ब्रह्मगमनपर्यन्तत्वेन तावन्मात्रस्यैव विद्यानिष्पत्त्यर्थत्वात् तदंशे भेदाभावेन विद्याशेषानुस्मृतिविषयभूतागतिरेकैवेत्युक्तमिति नानुपपत्तिः अक्षिविद्यायां ब्रह्मगमयतीति स्थाने पर्यङ्कविद्यायां स ब्रह्मलोकमिति पाठात् छान्दोग्ये पञ्चाग्निविद्यायां ब्रह्मगमयतीति स्थाने वाजसनेयपञ्चाग्निविद्यायां स एत्यब्रह्मलोकान् गमयतीति पाठाच्चाप्राकृतलोकावच्छिन्न ब्रह्मस्वरूपसम्बन्ध एव ब्रह्मगमनशब्दार्थ इति सिध्यति तत्रावच्छेदकलोकतात्पर्येणावच्छेद्यतात्पर्येण चोभयधापि प्रयोगसामञ्जस्यात् अयं च ब्रह्मस्वरूप सम्बन्धोविरजानदीगमनकाल भावी विरजाया एवाप्राकृतलोकसीमपरिच्छेदकत्वात् तथा च तत्तोयस्पर्शमात्रेणेत्युक्तमहाप्रभावविरजातोय स्पर्शकालीनोयः सूक्ष्मशरीरादिविमोकः सर्वरहस्यप्रसिद्धः तत् काल एव ब्रह्मस्वरूपे चेतनलयः परंज्योतिरूपसम्पद्येति स्वरूपाविर्भावहेतुतयोक्तः सम्पत्तिलक्षणो ब्रह्मगमनशब्दनिर्दिष्टः आत्यन्तिकलयात्मकत्वेन लक्ष्मीतन्त्रोक्तो यथानद्यस्स्यन्दमानास्समुद्रे अथ सम्पत्स्य इत्यादि श्रुतिप्रतिपन्नः तदापीतेस्संसार व्यपदेश इति सौत्रपीतिशब्दवाच्यः विद्यानिष्पत्त्यर्थसाधारणार्चिरादि गतिकाष्ठाभूतः ब्रह्मात्मकप्राप्तिरूपः पञ्चाग्निविदां प्रधानफलभूतः परमपुरुषनिष्ठानाम प्रधानफलं चेति निश्चीयते तथा च स एनान् ब्रह्मगमयतीति पञ्चाग्निवित्साधारण्येन प्रतिपन्नाया ब्रह्मप्राप्तेः परमपुरुषनिष्ठप्रधानफलोपेक्षया भिन्नप्राप्तेः परमपुरुषनिष्ठप्रधानफलापेक्षया भिन्नत्वेन तावन्मात्रपर्यवसन्नस्य पञ्चाग्निविदः ज्ञानिकोटिनिवेशासम्भवेन निरुक्तहेतुरसिद्ध एवेति ।
एतदुक्तं भवति अर्चिरादिना तत्प्रथितेरित्यधिकरणे भाष्यकारैरर्चिरादिगति
वाक्यान्युपादाय तदैकार्थ्यप्रदर्शनवसरे कौषीतक्यधीतगतिवाक्ये सब्रह्मलोकमित्यन्तमेवोपादाय तस्य पञ्चाग्निवित्साधारणगति वाक्यैरैकार्थ्यनिर्णयात् कौषीतकीवाक्ये ब्रह्मलोकगमनानन्तरश्रुता आरहृदतटस्नानतिल्यकान्तारप्रवेश पञ्चशताप्सरः प्रत्युद्गमन ब्रह्मालङ्कारालंक्रियादयः परब्रह्मजितिजयव्यष्टिभोगादिसविभूतिकब्रह्मानुभवपर्यन्ता विशेषाः पञ्चाग्निनविदां नास्त्येवेति प्रतीतेः तत् प्रकरणे ब्रह्मविद्वान् ब्रह्मैवाभिप्रैतीति मध्ये मध्ये तेषां विशेषाणां परमपुरुषनिष्ठा साधारण्यस्याभ्यस्तत्वात् तमित्थं वित्पादेनाध्यारोहति य एवं वेदय एवं वेदेत्युपसंहाराच्च पञ्चाग्निविदां तादृशोपासनाभावेन तत्राप्येषां विशेषाणामुपसंहारायोगात्। श्रीभाष्यकार्याधिकरणभाष्ये सब्रह्मलोकमिति कौषीतकीपठित ब्रह्मलोकगमनसमानार्थकब्रह्मगमयतीति श्रुत्यर्थानुगुणोपासनमात्रस्यैव पञ्चाग्निविद्यायामगत्या कल्पितत्वेन पर्यङ्कारोहणब्रह्मजितिजयादिकं पञ्चाग्निविदां नास्त्येवेति प्रतीतेः ब्रह्मगमयतीति वत् पर्यङ्कारोहणादीनां पञ्चाग्निविद्याप्रकरणे कुत्रापि पाठाभावेन पञ्चाग्निविदा तदुपासनकल्पकतत् क्रतुन्यायाप्रवृत्त्या कल्पयितुमप्यशक्यत्वात् विकल्पो वा अविशिष्टफलत्वादिति सूत्रित फलाविशेषन्यायस्यापि ब्रह्मविन्मात्रविषयतायास्तत्रैव सिद्धतया विप्रतिपन्नेषु पञ्चाग्निवित्सुतन्न्यायस्याप्य प्रवृत्तेः कार्याधिकरणदीपे पञ्चाग्निविद् ब्रह्मविदोः फलभेदस्यैव सिद्धान्तितत्वाच्च ब्रह्मविदामप्रधानफलभूते ब्रह्मात्मकस्वात्मप्राप्तिलक्षणब्रह्मगमनमात्रे पर्यवसन्नोयं यं पञ्चाग्निविदिति शारीरकशास्त्रसारपरामर्शवतां दुरपह्णवमेवेति तादृशस्य पञ्चाग्निविदः परिशेषात् जिज्ञासुत्वमेव सिद्धमिति हेत्वसिद्धिरिति ।
२६
अथ षड्विंशी–
भाष्यकारैः अर्चिः प्रभृतिप्रजापतिपर्यन्तानां द्वादशदेवतानामेवातिवाहिकाधिकृतत्वेन निर्णीतत्वात् त्रियुगयुगपदारोहणालम्बसूत्रमित्यत्र त्रियुगयुगेति द्वादशसंख्याकानामेव
व्यवस्थापितत्वात् मुक्तोर्चिर्दिनपूर्वपक्षेत्यादिश्लोके वरुणेन्द्रधातृगमित इति प्रजापर्यन्तानामेवातिवहनस्य दर्शितत्वाच्च कैषीतकवाक्ये सवरुणलोकं स इन्द्रलोकं स प्रजापतिलोकमिति धातृपर्यन्ताति वाहिकगमनमुक्तातदनन्तरमुक्तस्य सब्रह्मलोकमित्यस्य ब्रह्मैव लोको ब्रह्मलोक इति कार्यादिकरणभाष्यप्रदर्शितव्युत्पत्त्या ब्रह्मगमयतीत्येतत्
समानार्थकत्वस्यैवावश्यवक्तव्यतया तस्मिन्नेव ब्रह्मगमने पर्यवसन्नानां पञ्चाग्निविदां
तदनन्दराधीत ब्रह्मयानप्राप्यपर्यङ्कारोहणपरब्रह्म संवादब्रह्मजिति जयव्यष्टिव्यशनादीना ततस्सुदूराधीतानां प्रसङ्गस्याप्यभावेन तेषां तद्भोगयोग्यज्ञानिकोटि निवेशासम्भवात् परिशेषाज्जिज्ञासुत्वमेवेति हेतुरसिद्ध एवेति ॥
२७
अथ सप्तविंशी–
ब्रह्मविदा प्रत्युद्गमनपूर्वकं सूरिदृश्यस्थानप्रापणार्थं नित्यपरिषदं प्रतिपरनियमप्रकारं प्रदर्शयति कौषीतकीवाक्ये तमित्थं विदागच्छति तं ब्रह्माह अभिधावतमम यशसा विरजां वा अयं नदीं प्रापत् नवा अयं जरिष्यतीति अयं ब्रह्मविद्विरजामुपाजगाम नायं मन्यवत्तत्र जीर्णोभविष्यति तस्मात् मद्भक्तप्रत्युद्गमननिबन्धमद्यशस्सिद्धये यूयं तं ब्रह्मविदमभिधावत इति परं ब्रह्माहेत्युक्त्या विरजानदीं प्राप्तानामनित्थंविदां पञ्चाग्निविद्यानिष्ठानां स्वरूपविरुद्धफलप्राप्तिलक्षणजीर्त्या तत्रैव पर्यवसानप्रतीत्या न तेषां ज्ञानित्वं किन्तु जिज्ञासुत्वमेवेति हेतुरसिद्ध इति ॥
२८
अथाष्टाविंशी –
अथ तत्रैव कौषीतकी प्रकरणे दिव्याप्सरोभिब्रह्मालंक्रियानन्तरं स आगच्छत्यारं ह्रदं तन्मनसात्येतीति ब्रह्मविद आरह्रदतरणमुक्ता तमित्वासंप्रतिविदोमज्जन्तीति स्वात्मोपासकानां तत्रैव पतनमुच्यते। अयमर्थः सम्प्रतिविदः प्रतिप्रतिकूलं स्वात्मानुभवं सं सम्यक्त्वेन जानन्तीति सम्प्रतिविदः परमप्राप्यत्वेन स्वात्मोपासकाः पञ्चाग्निविद इत्यर्थः । शङ्करेणाप्येवमेवास्य व्युत्पत्तेदर्शितत्वात् तदेवं भूताः पञ्चाग्निविदः तम् आरह्रदं इत्वा प्राप्तय मज्जन्ति तत्रैव निमग्नाभवन्ति न तु तन्तरन्तीति तेषां तत्रैव पतनं प्रतिपाद्यत इति तथा च भगवत्कैङ्कर्यविधुरकेवलात्मप्राप्तेर्नचात्मानन्नान्यदित्यनु गृहीतरीत्यात्यन्त प्रतिकूलत्वेन तामेव प्रधानफलत या स्वीकृत्य स्वात्मविशेष्यभूतं परं ब्रह्मापि वैपरीत्येनानुसन्धाय स्वात्मानमेवोपासीनानां पञ्चाग्निविदां सम्प्रतिविच्छब्दार्थत्वानपायात् तेषामारह्रद एव पर्यवसानस्य प्रमाणसिद्धत्वान्न तेषां ज्ञानित्वमिति परिशेषाज्जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥
२९
अथैकोनत्रिंशी–
तद्य इत्थंविदुरित्यादिच्छान्दोग्यवाजसनेयवाक्ययोर्द्वयोरपि ब्रह्मविदामेवारण्यस्थिति पूर्वकोपासनस्य प्रतिपादितत्वात् तत्रारण्यशब्दस्य यत्रैकाग्रता तत्राविशेषादिति सूत्रविरोधेन देशविशेषनियमपरत्वायोगात् सर्वाश्रमिणां ब्रह्मविद्याधिकारित्वेन आश्रमविशेषवाचित्वायोगाच्च। अथ यदरण्यायनमित्या चक्षते ब्रह्मचर्यमेव तत् इति छान्दोग्यदहरविद्याप्रकरणाधीतरीत्या अरनामकस्यार्णवस्यारहृदस्यारण्यनामकार्णवस्य तदन्यस्य च परमपदस्थस्य प्रापकतयातारकतयाचारण्यायन शब्दनिर्दिष्टब्रह्मचर्यस्यैव तेन विवक्षणीयतया तादृशारण्यनिष्ठाहीनानां पञ्चाग्निविदामरण्यख्यार्णवद्वयप्राप्तिवैथुर्यात् तत् प्राप्तिमतामेव तदैरम्मदीयं सरः तदश्वत्थस्सोमसवनस्तदपराजिता प्रब्रह्मणः प्रभुविमतं हिरण्मयमित्यादि प्राप्यविशेषाभिधानात् तद्रहितानां तेषां ज्ञानिकोटिनिवेशासम्भवेन जिज्ञासुत्वमेव युक्तमिति हेतुरसिद्ध एवेति ॥
३०
अथ त्रिंशी–
तद्या एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोक इति तद्य एवैतावरञ्चण्यच्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोक इति च ब्रह्मोपासकानामेव ऐरम्मदीय हृदादिचिह्नितसूरि दृश्यस्थानविशेषप्राप्तेरसाधारण्येनोक्ततया ब्रह्मात्मकात्मोपासकानां पञ्चाग्निविदां तदसम्भवेन निरुक्तरीत्या हेतुरसिद्ध एवेति ॥
३१
अथैकत्रिंशी–
शारीरकचरमाध्यायचरमपादप्रथमाधिकरणप्रथमसूत्रे मुक्तस्य प्रथमभाविस्वरूपाविर्भावहेतुभूता ब्रह्मसम्पत्तिरर्चिरादिगतिकाष्ठाभूता सम्पद्याविर्भावस्वेन शब्दादितिल्यबन्त सम्पत्तिशब्देन तिरोकालसमकालभाविनीति प्रदर्शिता, चरमे जगद्व्यापारवर्जाधिकरणे मुक्तस्य यथावस्थित स्वरूपाविर्भावान्तर भाविब्रह्मानुभवो विचारित इति तादृशानुभवापेक्षया तादृशसम्पत्तेः भेदस्यात्यन्तव्यक्तत्वेन तादृशसम्पत्तिमात्रपर्यवसन्नानां पञ्चाग्निविदां जिज्ञासुत्वमेवोचितमिति निरुक्तहेतुरसिद्ध एवेति ॥
३२
अथ द्वात्रिंशी–
पञ्चाग्निविद्ब्रह्मविदोर्गतिभेदानङ्गीकारे श्रुतोपनिषत्गत्यभिधानाच्चेत्यक्ष्याधिकरण सूत्रविरोधोदुष्टपरिहरः तथापि तत्रहि अक्षिविद्यावेद्यं अहं पक्षीकृत्य अर्चिरादिगतिस्मरणाङ्गकविद्यावेद्यत्वहेतुना परमात्मत्वं साध्यते । यदि च परमपुरषनिष्ठस्मर्तव्यैर्वार्चिरादिः पञ्चाग्निविदोपि स्मर्तव्यास्यात् तर्हि तस्य हेतोः पञ्चाग्निविद्यावेद्ये प्रत्यगात्मनिव्यभिचारः स्यात् तत्र परमात्मत्वरूप साध्याभावात् अर्चिरादि स्मृत्यङ्गकविद्यावेद्यत्वरूपहेतुसत्त्वाञ्च। यदि च तत् परिहाराय विशेषणतया वेद्यत्वमेव हेतुरित्युच्येत तर्हि ब्रह्मविद्यायां विशेषणतया वेद्ये प्रत्यगात्मनि व्यभिचारः अक्षिविद्यावेद्यस्य विशेषणतया वेद्यत्वाभावादसिद्धिश्च ब्रह्मनिष्ठप्रकारत्वानिरूपित तादृशविद्याविशेष्यत्वमेव हेतुरित्युक्तौ अक्षविद्यायामपि अहं ब्रह्मेत्यहंग्रहेणैवोपासनस्य कर्तव्यतया तद्वेद्यविशेष्यतया अभेदसम्बन्धावच्छिन्नाहं पदार्थब्रह्मनिष्ठप्रकारतानिरूपितत्वेन स्वरूपासिद्धेर्जागरूकत्वात् अन्येनयेनकेनापि रूपेण निवेशेऽपि हेतोरप्रयोजकत्वं दुर्वारम् । तस्मात् त्वन्मते तत् सूत्रविरोधो दुष्परिहर एव ।
गति भेदाङ्गीकारे पञ्चाग्निवित्स्मर्तव्यगतेः केवलाक्षरप्राप्तिसाधनत्वेनाक्षराध्वसंज्ञतया परब्रह्मप्रापकार्चिरादिगत्यपेक्षयाभिन्नत्वात् अक्षिविद्याप्रकरणे एष देवपथो ब्रह्मपथ इति ब्रह्मपथशब्देन ब्रह्मप्रापकार्चिरादि गतेरेवाभिधानप्रतीतेः । श्रीभाष्येऽपि श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्यानु सन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिकागतिर्यातामपुनरावृत्तिलक्षणपरमपुरुष प्राप्तिकरीमिति परमपुरुषनिष्ठानुसन्धेयत्वेन परमपुरुषशब्दवाच्यदिव्यमङ्गलविग्रहविशिष्टपरवासुदेव प्राप्तिकारित्वेन च गतेर्विशेषणात् तदनुसन्धानाङ्गकविद्यामुख्यविशेष्यत्वरूपहेतोः पञ्चाग्निविद्यावेद्यादिष्वभावेन न काचिदप्यनुपपत्तिः स्यादिति तदनुसारेणापि पञ्चाग्निविदां स्वात्मप्राप्तिलक्षणब्रह्मगमनपर्यन्तैव गतिरितिसिध्या तेषां जिज्ञासुकोटिनिवेश एवेति निरुक्तहेत्वसिद्धिरिति ॥
ननु कथं तर्हि ब्रह्मगमयतीति सकृच्छुतेनशब्देन पञ्चाग्निविदपेक्षया प्राधान्येन ब्रह्मगमनं ब्रह्मविदपेक्षया अप्राधान्येन तद्गमनं चोच्येत । नैषदोषः नह्यनेन प्राधान्यमप्राधान्यं वोच्यते किन्तु ब्रह्मगमनसामान्यमेव विशेषलाभस्तु योग्यतापरामर्शलभ्यः अन्नमयप्राणमयमनोमय विज्ञानमयानन्दमयोमेशुध्द्यन्तामित्यत्र शुद्धेर्विशेषलाभवदत्रापि तल्लाभोपपत्तेः नचैवमपि परंजैमिनिर्मुख्यत्वादित्युक्तमुख्यार्थ बाधलक्षणोदोषः ब्रह्मगमयतीत्यस्य ब्रह्मसंपत्तिपरत्वस्यैवोक्तत्वात् तर्हि साकथमात्मप्राप्तिरित्युच्यत इति चेत् तयोर्भेदाभावादिति ब्रूमः । तथा हि ब्रह्मात्मकात्मप्राप्तिर्नाम आत्मनोनामरूपविभागार्हतापादकाचित् सम्बन्धनिश्शेष विनिर्मोष एव आत्मनो ब्रह्मात्मकत्वस्य नित्यसिद्धत्वेन तस्या साध्यत्वात् । स चा चित्सम्बन्धविमोकोभावान्तरमभाव इति न्यायेन नामरूपविभागानर्हतया ब्रह्मस्वरूपेचेतनस्य लीनत्वमेवेति ब्रह्मसम्प्रत्तिरेव ब्रह्मात्मकात्मप्राप्तिरिति तयोरभिन्नत्वात् तस्मान्तकाचिदनुपपत्तिरिति ॥
३३
अथ त्रयस्त्रिंशी–
अविभागेन दृष्टत्वादित्वधिकरणदीपे अहंब्रह्मास्मीत्युपासनेन यथावस्थितपरमात्मात्मकस्वात्मनो दृष्टत्वात् मुक्तः स्वात्मनोप्यात्मभूतं ब्रह्म अहं ब्रह्मास्मीत्यविभागेनैवानु भवतीति यथावस्थित ब्रह्मानुभवस्य समानाधिकरण्येनोपासनसाध्यताया अनुगृहीतत्वेन तेनैव तादृशोपासनरहितानां वैयधिकरण्येनैव ब्रह्मोपासीनानां पञ्चाग्निविदां अविभागेनानुभवरूप यथावस्थित ब्रह्मानुभवोनास्त्येवेति सिक्षाकार्याधिकरणदीपसिद्धान्तसिद्धायथावस्थितानु भव एव तेषां पर्यवसानमिति अयथोपासने प्राप्तिरप्ययथाभूतास्यादित्यात्मेति तूपगच्छन्तीत्याद्यधिकरणभाष्यश्रुतप्रकाशिका प्रतिपादितरीत्याशेषत्व लक्षणस्वस्वरूपविरुद्धस्वभोगान्वयस्य तन्मूलभूताविद्यातरु सम्भूतिबीजभूताहङ्कारममकारयोश्च पात्रभूते नित्यसंसारशब्दाभिलापार्हे तादृशब्रह्मस्वरूपसम्पत्ति सुखे यावदात्मभावितया मग्नानां तेषां न ज्ञानिकोटिनिवेशसम्भावनाशङ्कामप्यर्हतीति तेषां जिज्ञासुत्वस्यैव परिशेषात् सिध्या हेतुरसिद्ध एवेति ॥
३४
अथ चतुस्त्रिंशी–
एक आत्मनश्शरीरे भावादित्यधिकरणदीपसिद्धान्ते यथावस्थित स्वरूपमेवानुसन्धेयमन्यथा प्राप्योपासनयोः प्रकारभेदात् यथा क्रतुरस्मिन्निति विरुध्यत इत्यनुगृहीतत्वात् व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवदिति सूत्रारथे सांसारिकस्वरूपान्मुक्तस्वरूपस्य योव्यतिरेकस्सोऽनुसन्धेयः कुतः तथोपासनभावभावित्वाद्व्यतिरिक्तस्वरूपप्राप्तेः यथा क्रतुरस्मिन् लोकेपुरुषो भवतीतिह्याह उपलब्धिवत् यथा ब्रह्मोपालब्धि यथावस्थित ब्रह्मानुसन्धानयुक्तस्यैव तथात्मोपलब्धिरपीत्यनुगृहीतत्वाच्च तत्क्रतुन्यायबलात् यथोपासनमेव फलदशायामात्मपरमात्मनोरनुभवोनान्यथेति सिद्धतया पञ्चाग्निविदामुपासनस्य देहात्मभावरूपभेद सम्बन्धेनैव ब्रह्मण आत्मविशेषणतया विषयीकरणात् फलदशायामपितथैवानु भवस्स्यादिति तेषामविभागेनानुभवरूप यथावस्थितब्रह्मानुभवहीनतया जिज्ञासुत्वमेव युक्तमितिहेतुरसिद्ध इति । एतेन अविभागेन दृष्टत्वादित्यधिकरणभाष्ये स एनान् ब्रह्मगमयतीत्युक्त ब्रह्मोपसम्पत्तेर्यथावस्थितात्मस्वरूपदर्शनहेतुत्वप्रतीत्या पञ्चाग्निविदामपि ब्रह्मसम्पत्त्यनन्तरमविभागेन ब्रह्मानुभवः सम्भवेदेवेति केषाञ्चित् भ्रान्तिर्निरस्ता सम्पत्तेः कारणत्वेऽपि अविभागेनोपासनलक्षणकारणान्तराभावेन तस्यायुक्तत्वात् ।
ननु अभेदसम्बन्धावच्छिन्न सत्यज्ञानत्वाद्यच्छिन्नप्रकारता निरुपिततुल्यवित्तिवेद्यत्वा प्रयुक्ताहन्त्वावच्छिन्नविशेष्यता शालिज्ञानं पञ्चाग्निविद्या अहन्त्वावच्छिन्नाभेद सम्बन्धावच्छिन्न प्रकारतानिरूपित तुल्यवित्तिवेद्यत्वप्रयुक्ताहन्त्वाद्य वच्छिन्नविशेष्यताशालिज्ञानं ब्रह्मविद्येति परिष्काराश्रयणात्। पञ्चाग्निविदामविभागेन ब्रह्मानुभवस्य न काचिदप्यनुपपत्तिरिति चेत् भ्रान्तोसि तथा सति निरुक्तयोर्द्विविधयोरपि ज्ञानयोर्ब्रह्मनिष्ठमुख्यविशेष्यताशालित्वेन आत्मविशेष्यकविद्या पञ्चाग्निविद्या परविशेष्यकविद्या परविद्येति सिद्धान्तोदोषस्य समुद्रघोषत्वापातात् तद्य इत्थं विदुरिति पञ्चाग्निविद्यामुख्यविशेष्यवाचकतच्छब्दस्य पूर्वपरामर्शित्वात् पूर्वं प्रत्यगात्मन एव द्युपर्जन्यपृथिवीपुरुषयोषिदात्मक पञ्चाग्निभूतभूतान्तर संसृष्टाद्भो विवेकस्य प्रकृतत्वाच्च जीनात्मन एवोपासनमिति प्रतीत्यातद्वाधापत्तेः तत्रापि परमात्मन एव प्रतिपाद्यत्वे तस्यैव सर्वहेयाकरत्वप्रसङ्गात् तद्य इत्थं विदुरिति भूतसूक्ष्मव्यतिरिक्तात्मस्वरूपोपासनमेव विदधातीत्यादिदीपादि सूक्तिविरोध प्रसङ्गात् अचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्यनुसन्धेयमिति श्रीगीताभाष्ये शेषत्वेनैव पञ्चाग्निविद्यावेद्योपासनस्यानुगृहीततया तद्य इत्थं विदुरित्यत्र तच्छब्दस्य विशेष्यपर्यन्तत्वे तदयोगात्। तच्चन्द्रिकायामपि अक्षरयाथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासका इति श्रीवेदान्ताचार्यैरेव तदुपासनप्रकारस्य दर्शितत्वेन तस्य ब्रह्मपर्यन्तत्वेतदयोगात् तद्य इत्थं विदुर्येचेमेरण्ये इति भेदेनोपादानवैयर्थ्यात् सुप्रसिद्धसद्विद्यादि भेदान् उपासात्रैविध्यादित्युक्तोपासनभेदांश्चानादृत्य विशेष्यविशेषणभावभेदस्याकिञ्चित् करस्यादरणे नियामकाभावात् कार्याधिकरणे परंजैमिनिरित्यत्रैव परविशेष्यकविद्यानिष्ठानां सर्वेषामर्चिरादिगतिस्थापनस्यत्वयैवाङ्गीकृतत्वेनास्यापि तथात्वेन तेनैव चारितार्थ्यात् सिद्धान्त सूत्रवैयर्थ्यापाताच्च निरुक्तदिशाभेदोपपादना सम्भवादिति ।
३५
अथ पञ्चत्रिंशी–
श्रीवेदार्थसंग्रहश्रुतप्राकाशिकायां सोऽक्षरः परमस्स्वराडितिश्रुत्यर्थे परमस्वराडिदि मुक्तात्मोच्यते। तत्र परमशब्देन कैवल्यमोक्षव्यावृत्तिरित्यनुगृहीततया कैवल्यस्य मुक्तित्वाभावे तद्व्यावर्तनस्यासाङ्गत्यापत्त्या मोक्षभेदस्य श्रुत्यैव सिद्धत्वात् श्रीसहस्रनामाध्याये सूत्रकारेणापि मुक्तानां परमागतिरित्यत्रपरमशब्देन कैवल्यमुक्तिव्यावर्तनात् तत्र परेमेति विशेषणेन मुक्तानामेव केषाञ्चिदर्वाचीना गतिर्गम्यत इति तद्भाष्येऽनुगृहीतत्वात् । पुराणेष्वपि पाद्मोत्तरे – विरजापरमव्योम्नोरन्तराकेवलं पदम् ।
तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ।
इति नित्यविभूति विस्तारविवरणप्रकरणे –
विरजायाः परे पारे तद्विष्णोः परमं पदम् ।
इत्युक्तं सूरि दृश्यस्थानादर्वाकृकेवलपदमात्मोपासकप्राप्यमुक्तानिश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ।
इति तद्देशानु भाव्यकैवल्यस्य मोक्षत्वदार्याय निश्रेयसं च निर्वाणं कैवल्यं मोक्ष
उच्यते । इति मुक्तिवाचकैस्सर्वैश्शब्दैस्तस्य वाच्यत्वमुक्ताश्रीशाङ्घ्रिभक्तिसेवैकसुखभोगविवर्जितम् । इति तस्य भगवदनुभवकैङ्कर्यादिवैधुर्यमप्युक्ता तदनन्तरं सूरिदृश्यस्थानानुभाव्यपरममोक्षाभिधानात् भगवता पराशरेणापि तथैवयोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् । इति स्वात्मोपासकमोक्षस्थानमुक्ता तदनन्तरं एकान्तिनस्सदा ब्रह्मध्यार्यिनो योगिनो हिये। तेषां तत्परमं स्थानं सद्वै पश्यन्ति सूरयः । इति
परमपुरुषनिष्ठपरममोक्षस्थानाभिधानात् तत् प्रकरणस्य च श्रीसहस्रनामभाष्ये
गीयते च निर्मुक्तजरामरणकैवल्यलक्षणा-
जरामरणमोक्षाय मामाश्रित्य यतन्ति य इति ।
संसारपरमपदयोर्मध्ये तेषां स्थानञ्चयोगिनाममृतं स्थानं स्यात्मसन्तोषकारिणाम्। इतिति श्रीपद्मोत्तरवचनैकार्थ्यस्य दर्शितत्वात् । श्रीपाञ्चरात्रेऽपि पाद्मसंहितायाम्भेदेनवाप्यभेदेन मिश्रेणैव चतुर्मुख । त्रिधैवमुक्तिरुदितेत्यादिना यथोपासनं मुक्तित्रैविध्याभिधानात् भगवताभाष्यकृतापि जिज्ञासाधिकरणे अविद्यानिवृत्तिरेव मोक्ष इति सर्वमोक्षसाधारणलक्षणमभिधाय अत्राधिकरणे त्रय्यन्तनिष्णाता सात्स्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षत इति त्रय्यन्तनिष्ठाशालिपरमपुरुषनिष्ठप्राप्यस्य परमोक्षविशेषस्यापि लक्षणस्योक्तत्वात् संसाराग्निविदीपन
व्यपगतप्राणात्ससंजीविनीमित्यत्रजीवनमुज्जीवनं संसारोन्मोचन समितिकैवल्यव्यावृत्तिरितिश्रुतप्रकाशिकानुगृहीतरीत्यामोक्षतारतभ्य सिद्धान्तसूचनात् कुरुकमिकवुणर्वत्तोडुनोक्तियित्यादिगाधायां पिन्नुं वीडिल्लौयिति स्वात्मानुभवमपि मुक्त्यन्तर्गतमेवाभिधाय वीडते इति भगवत् कैङ्कर्यपर्यन्तमोक्षस्यैव परत्वाभिधानस्य श्रीकुरुकेशाचार्यैरेवाङ्गीकृतत्वात् स्वात्मानुभूतिरिति याकिलमुक्तिरुक्तेति कैवल्यस्यापि मुक्तित्वेन निरुक्तप्रमाणप्रसिद्धेः श्रीकूरनाथगुरुभिः प्रदर्शितत्वाच्च मुक्तितारतम्यस्य प्रामाणिकैर्दुरपह्नवत्वात् तत्र परममोक्षस्य पर विद्यैक साध्यताया वाक्यान्वयाधिकरणे अमृतत्वस्य तु नाशास्ति वित्तेनेति वित्तिदीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्त्यनुपायतामुक्तेति भाष्यकारैर्निरतिशयमोक्षविशेषस्य परमपुरुषव्यतिरिक्तासाध्यत्वोक्तेः ततः पूर्वममृतत्वस्य परमपुरुषवेदनैकोपायताप्रतिपादनादिति तादृशनिरतिशयामृतत्वलक्षणमोक्षविशेषस्य परविद्यैकसाध्यत्वोक्तेश्च पञ्चाग्निविद्यारूपात्मोपासनसाध्यमोक्षस्य जघन्यतायाः प्रदर्शितत्वात् कार्याधिकरणदीपसिद्धान्ते परमपुरुषनिष्ठानामेव यथावस्थितपरिपूर्णब्रह्मप्राप्तिः
पञ्चाग्निविदांतु स्वोपासितात्मप्राप्तिमात्ररूपायथावस्थिता पूर्णमोक्ष एवेति स्फुटतरं प्रदर्शितत्वाच्चायं पञ्चाग्निषिजिज्ञासुगोष्ठीमेवार्हतीति निरुक्तहेतुरसिद्ध एवेति॥ एतेन वाक्यान्वयाधिकरणे
स्वात्मोपासनस्यामृतत्वावच्छिन्नानुपायत्वोक्तेस्तदधिकरणविचारितात्म विद्यावत् पञ्चाग्निविद्यापि अमृतत्वसाधकत्वात् ब्रह्मविद्यैवेति केषाञ्चित् भ्रान्तिर्निरस्ता। तत्रात्मोपासनस्यामृतत्वावच्छिन्नसाधनत्वस्यानुक्तत्वात् किन्तु तद्विशेषासाधनत्वमेव तस्य तत्रोच्यते नोचेन्नित्यनिर्दोषनिरतिशयानन्द रूपेति तत्रैवामृतत्वविशेषणवैयर्थ्यात्। ऐश्वर्यमात्र व्यावर्तनार्थं तदितिचेन्नानिरुक्तबहुप्रमाणसिद्धमोक्षान्तरव्यावृत्तेरप्यसंकोचसिद्धातयास्त्यागस्यामू लकत्वात् अमृतत्वेत्यनेनैवानित्य फलसामान्यव्यावृत्तिसिध्द्यानित्यनिर्दोषेत्यादीनां वैयर्थ्यस्यैव प्रसङ्गाञ्च। तर्हि कथं भवतां मते नित्यशब्दव्यावृत्तिरितिचेत् भगवद्व्यतिरिक्तकैवल्यादिगता भगवदिच्छायत्तत्वेन मृतत्वस्य तादृशान्याधीनत्वलक्षणोत्पत्तिव्यावर्तनेन तस्य शब्दस्य सप्रयोजनत्वात् वियदधिकरणे असम्भवस्तु सतोऽनुपपत्तेरिति सूत्रेण ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यनुत्पत्तेर्निषिद्धत्वात् नात्माश्रुतेरित्यधिकरणभाष्ये कार्यताहि नाम एकस्य द्रव्यस्यावस्थान्तरापत्तिः तज्जीवस्याप्यस्त्येवेति जीवस्यापि कार्यताया उपपादितत्वाच्च। तथा च केवलात्मनिप्रयुज्यमानो नित्यशब्दो यथास्वरूपविकारलक्षणं कार्यत्वमचिद्गतं व्यावर्तयति तथा ब्रह्मस्वरूपगतामृतत्वे प्रयुज्यमानो नित्यशब्दोपि चेतनाचेतनगतस्वभावविकारस्वरूपविकार लक्षणं द्विविधकार्यत्वमपि व्यावर्तयत्येवेति नित्यशब्देन परमपुरुषनिष्ठप्राप्यब्रह्मामृतत्वविशेषणं सार्थकमेवेति॥ तदेवं वाक्यान्वयाधिकरणे नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वलक्षण परममोक्षं प्रत्येव स्वात्मोपासनस्य साधनताया निषिद्धत्वेन तस्य जघन्यमोक्षसाधनत्वस्याक्षततया न तस्य ब्रह्मविद्यात्वसम्भवः। किञ्च पञ्चाग्निविद्याया अपि ब्रह्मविद्यात्वेवाक्यान्वयाधिकरणोक्तरीत्या आत्मावारेदृष्टव्य इत्यादावात्मशब्दस्येव
तद्य इत्थं विदुरित्यत्रापि तुल्यन्यायेन तच्छब्दस्य ब्रह्मपर्यन्तत्वापत्त्या तयोर्द्वयोरपि विद्ययोरविशेषे सति पञ्चाग्निविद्यामात्रस्य तद्य इत्थं विदुरिति पृथक्करणपूर्वकं मैत्रेय्यात्मविद्यादीनां सर्वेषां येचेमेऽरण्य इत्यादिनैकीकरणे नियामकस्य कस्यचिन्निर्विक्तुमुशक्यत्वात् कार्याधिकरणदीपसिद्धान्ते पञ्चाग्निविन्मात्रस्या यथावस्थित ब्रह्मप्राप्तिप्रतिपादनस्य भाष्यकारकृत साङ्गत्यापत्तेश्चेति तेषां जिज्ञासुत्वमेव युक्तमिति हेतुरसिद्ध एवेति ॥
३६
अथषट्त्रिंशी–
अन्धतमः प्रविशन्ति येऽसम्भूतिमुपासते ततो भूय इवते तमो यउसम्भूत्यां रताइतीशावास्योपनिषदि आत्यन्तिकलयात्मकमसम्भूति शब्द वाच्यं प्रधानप्राप्यत्वे नोपासीनानां पञ्चाग्निविदां यावदात्मभाव्यहंकार ममकारान्वयलक्षणान्धतमः प्रवेशोक्तिपूर्वकम् अविभागेन ब्रह्मानुभवादिलक्षणे सम्भूतिशब्दवाच्ये स्वभोगान्वयलक्षणरतिमतां स्वार्थानुभवकैङ्कर्यनिष्ठानामारूढपतितन्यायेन ततोप्यतिशयित तादृशान्धतमः प्रवेशमप्यभिधाय-
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेत मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥
इति सम्भूतिविनाशशब्दवाच्ययोर विभागेनानुभवात्यन्तिकलययोः पूर्वोक्तयोः पूर्वोक्तरीत्यान्तरप्राधान्यमन्तरेण तावुभावपि केवलपार्थतयैकीकृत्योपासीनानामेव तत् क्रतुन्यायात् विनाशासम्भूति शब्दनिर्दिष्टब्रह्मसम्पत्ति लक्षणात्यन्तिकलयध्यानफलेन संसारतरणपूर्वकं सम्भूतिशब्दनिर्दिष्टाविभागेनानुभवाद्युपासनफलेन
निरतिशयामृतानन्दभोगस्योक्ततया ब्रह्मसम्पत्तिमात्रपर्यवसितानां पञ्चाग्निविदां
तादृशान्धतमः प्रवेशपात्राणां न ज्ञानिकोटि निवेशसम्भव इति जिज्ञासुत्वस्यैवोचितत्वात् हेतुरसिद्ध इति ॥
यत्त्वत्र कैश्चिदुक्तं श्रुतिवाक्ये सम्भूतिशब्द उपासनकालीनसम्भूतिपरः विनाशशब्दोपितदनुसारात् तत्कालीननिषिद्धनिवृत्तिपर इति तदयुक्तम्। धूत्वाशरीरमकृतं कृत आत्मा ब्रह्मलोकमभिसम्भवामि एतमितः प्रेत्याभिसम्भवितास्मीत्यादिश्रुत्यन्तरप्रसिद्धसम्भूतिपरित्यागे मानाभावात् उपासनकालीनस्य सम्भूतेरुपासनासम्भवेन ये सम्भूतिमुपासत इत्यादिना बाधात्। एवं निषिद्धपरिहारस्या सम्भूतिशब्दार्थत्वेन तस्य विद्यङ्गत्वेन विनाशेन मृत्युं तीर्त्वति पृथक्फलकथानानुपपत्तेः मृत्युशब्देनोपासनविरोधिविषयप्रावण्यादेरेव विवक्षणे विनाशेन मृत्युं तीर्त्वत्यस्य विनाशेन विनाशमापाद्येत्युक्तिपर्यवसानेनात्माश्रयत्वमविद्ययामृत्युंतीर्त्वा विद्यायामृतमश्नुत इति पूर्वमेव निषिद्धपरिहाराद्यङ्गककर्मणाविद्याविरोधिमृत्युतरणस्य विद्ययाफलप्राप्तेश्चोक्तत्वेन तस्यैवात्राभिधाने पौनरुक्त्यापत्तेः निषिद्धपरिहारस्य निरुपाधिकविनाशशब्दार्थत्वस्यकुत्राप्यदर्शनेन तत्पदास्वारस्यं च। अस्मन्मते तु सम्भुतिशब्दोऽपि श्रुतिप्रसिध्यैवात्यन्तस्वरसः विनाशशब्दोऽपि लयकाष्ठारूपात्यान्तिकलयपरत्वेन नितरां स्वारस्यमश्नुते फलस्य यथोपासनभावित्वात् तत्तध्यानांशानां तत्तत्फलांशहेतुताया यथा क्रतुन्यायसिद्धतया पृथक् फलकीर्तनमप्युपपन्नम्। मृत्युतरणे विनाशस्यामृताशने सम्भूतेश्च करणत्वोक्तिरपि ज्ञायमानं लिङ्गं करणमितिरित्यास्वरसमेतस्माद्यतोक्त एवार्थः ॥ एतेन-
निरस्तातिशयाह्लाद-
सुखभावैक-लक्षणा । भेषजं भगवत्-प्राप्तिर्
ऐकान्त्य् आत्यन्तिकी मता ।
इति श्लोके नित्यनिरवद्य-निरतिशयाह्लाद-लक्षण-भगवत्-प्राप्तेर् एव तापत्रय-भेषजत्वाभिधानात्
मोक्ष-साधनतया अवगता पञ्चाग्निविद्यापि
तादृश-भगवत्-प्राप्ति-फलैवेति केषांचित् भ्रान्तिर् निरस्ता।
तथा सति तस्य वचनस्य पूर्वोक्तश्रुतिविरोधेना प्रामाण्यापातात्।
तत्राहि विनाशध्यानमात्रस्य मृत्युतरणोपायत्वं गम्यते। किञ्च निरस्तातिशयेत्यत्र किमुच्यत इति वक्तव्यम्। नह्यत्यन्तमसतोऽतिशयस्यानेन निरास उपपद्यते नापिसतः मुद्गराभिधातेन घटादेरिवान्यगतस्यतिशयस्यानेन निरासायोगात्। तस्मादन्यातिशयविषयकेच्छादि निरास एवात्र निरासशब्दार्थो वक्तव्यः स च कैवल्यसाधारण इति सर्व सम्मतः पञ्चाग्निविद्भिरपि परमात्मानुभवोपेक्षापूर्वकं स्वात्मानुभव विलम्बेन कालक्षेपस्य श्रीवेदान्ताचार्यैरपि पक्षान्तरेऽनुगृहीतत्वात्। किञ्चास्य निरस्तातिशयत्वस्य यं लब्ध्वाचापरं लाभं मन्यते नाधिकं ततः इति सर्वात्मवित्साधारण्यं गीयते। अनुगृहीतं च श्रीपराङ्कुशमुनिना अत्तेतुपत्तेनिलितिगाधायां कैवल्यमोक्षस्यापि परमात्मानुभवानन्दातिशयनिरासकत्वम् अत एव हि तस्य प्रबलविरोधित्वं गत्वा श्रीभट्टनाथः प्रथममेडुनिलात्तिलित्यादिना तदत्याजयन् निरस्तातिशयाह्लादसुखेत्यत्र निरस्तातिशयशब्द आह्लादसुखविशेषणं तत्राह्लादशब्दस्सुखशब्दसमानाधिकरणो मोह सम्भेदवाचीति पूर्वाचार्यैर्व्याख्यातम्। तथा च तादृशेतरातिशयनिरासकस्य मोहात्मकसुखस्य वस्तुवैलक्षण्यैकसाध्यता नियमाभावस्य काकशब्दादिन्यायसिद्धत्वेना यथावस्थितपरप्राप्तावपि
निरस्तातिशयाह्लादसुखभावैकलक्षणेति विशेषणं न विरुध्यते। तथा ऐकान्त्यशब्दो दुःखासम्भिन्नपरः आत्यन्तिकशब्दो नित्यपर इति पूर्वाचार्यैरेवव्याख्यातम् । तथा च निरस्तातिशयेत्यादिश्लोकस्या यथावस्थित भगवत्प्राप्तिसाधारणत्वेन नात्र निरतिशयभगवत्प्राप्तेरेव संसारभेषजत्वाभिधानमिति ॥
वस्तुतस्तु तस्मिन् श्लोके मतेत्यानेन बहुमतत्वोक्त्या अबहुमतानेवं विधसंसारभेषजपरप्राप्तिसद्भावावगमेनानेन पञ्चाग्निनविदां बहुप्रमाणोपपत्ति सम्प्रदायसिद्धा यथावस्थितभगवत् प्राप्तिपर्यवसानबाधनं युज्यत इति ॥
३७
अथ सप्तत्रिंशी–
प्रमेयशेखरे श्रीमल्लोकाचार्यैरर्चिरादिना गतानां विरजास्नानानन्तरं दिव्यदेह प्राप्तेः पूर्वमेव सूक्ष्मविश्लेषापहतपाप्मत्वाद्याविर्भावयोरनुगृहीतत्वात् अर्चिरादिरहस्येऽपि विरजास्नानदशायोमेव स्वरूपतिरोधाननिवृत्तेरनुगृहीतत्वात् अध्यात्मचिन्तायामपिस्वस्वरूपाभिनिष्पत्त्यालब्धसाम्यं च मां कुरु ।
ततस्त्वैरम्मदीयाख्ये तटाकेऽश्वत्थमूलके ।
दिव्याप्सरोगणैः पञ्चशतसंख्यासमन्वितैः ।
इत्यादिना दिव्याप्सरः प्रत्युद्गमनात् पूर्वमेव स्वरूपाविर्भावस्यानुगृहीतत्वाच्च स एतान् ब्रह्मगमयति परंज्योतिरुपसम्पद्येत्यादिश्रुति सिद्धस्वरूपतिरोधान निवृत्तिहेतु भूतब्रह्मप्राप्तिर्विरजादेशावच्छिन्न ब्रह्मस्वरूपलय एव नान्यदिति सुदृढप्रमाणसिद्धत्वेन जिज्ञासोरपि तस्याङ्गीकारे विरोधाभावात् न तेन पञ्चाग्निविदां जिज्ञासुव्यतिरिक्तज्ञानिकोटिनिवेशसिद्धिरिति तेषां जिज्ञासुत्वां न पायाद्धेतुरसिद्ध एवेति ॥
३८
अथाष्टत्रिंशी–
तेनैव चापराधेन क्षये सत्यपि कर्मणाम् ।
तिरोहितेशानुकूल्यस्वात्मानं भोग्यमश्नुते ॥
इति श्रीवेदान्ताचार्याणां साक्षादाचार्यैर्वादिहं साम्बुवाहदेशिकैरपि केवलस्य सकलकर्मक्षयाङ्गीकारेण तस्य यावदात्मभाविब्रह्मानुभवराहित्यस्योपासनवैषम्यमेवमूलमिति दर्शितत्वेन तादृशोपासनाव्यतिरिक्तसकलकर्मक्षयस्याप्रतीकविद्याव्याप्यत्वेन तेनैव कैवल्यस्या प्रतीकोपासनसाध्यत्वसिध्या हेतुरसिद्ध एवेति ॥
३९
अथैकोनचत्वारिंशी–
अथात्मयाथात्म्यविदः परमपुरुषनिष्ठस्य साधारणीमर्चिरादिगतिमाहेति श्रीगीताभाष्यसूक्तिगतात्मयाथात्म्यविच्छब्दाभिहितस्य पञ्चाग्निविदः कैवल्यार्थिनो जिज्ञासोरनन्यत्वं श्रीमद्वेदान्ताचार्यैरेव तट्टीकायामनुगृहीतम् । तदियं तत् सूक्तिः न चात्र जिज्ञासोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुसोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुवेद्यतयोक्तस्वभावाविसर्गयोरत्र च पञ्चाग्निविद्योदाहरणात् मध्येति कैवल्यार्थिन एव मूर्धन्यानाड्या निष्क्रमणमानावृत्तिश्चोक्ता आत्मयाथात्म्याक्षरयाथात्म्यशब्दयोश्चात्र न भिन्नार्थत्वं तस्योपासने किञ्चिदस्ति विशेषः। अक्षर याथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषस्तद्य इत्थं विदुर्येचेमेऽरण्य इति विभागनिर्देशाभिप्रेत इति भाष्यादिषूक्तः इत्याद्यभिधाय अत एव सप्तमे प्रकान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतिरिक्तत्वात् ब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यमित्यनुगृहीतम्। तथा चात्र श्रीगीताभाष्यव्याख्यानरूपतया अनन्यपरे प्रकरणे जिज्ञासोः पञ्चाग्निविदन्यत्व समर्थनादन्यत्र व्युत्पादनार्थतया अन्यपरेषुन्यायसिद्धाञ्जनादिषु एतद्विरुद्धतयानुगृहीतानां पक्षान्तराणां न तत्त्वपरत्वं वेदान्ताचार्यानुमतत्वं चेति सिद्धेः। तत्रापि न्यायसिद्धाञ्जने अन्ततो गत्वा जिज्ञासुपञ्चाग्निविदोरभेदसिद्धान्तनिष्कर्षस्यैव केचित्तु ब्रह्मभूतस्वात्मा केवलस्य भोगः ब्रह्मणस्तुविशेषानाड्यानिष्क्रमणमनावृत्तिश्चोक्ता आत्मयाथार्थ्याक्षरयाथात्म्य शब्दयोश्चात्र न भिन्नार्थत्वाम्। तस्योपासने किञ्चिदस्ति विशेषः अक्षरयाथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषस्तद्य इत्थं विदुर्येचेमेऽरण्य इति विभागनिर्देशोऽभिप्रेत इति भाष्यादिषूक्तः इत्याद्यभिधाय अत एव सप्तमे प्रक्रान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतक्तत्वात् अब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यम् इत्यनुगृहीतम्। तथा चात्र श्रीगीताभाष्यव्याख्यानरूपतया अनन्यपरे प्रकरणे जिज्ञासोः पञ्चाग्निविदनन्यत्व समर्थनादन्यत्र व्युत्पादनार्थकतया अन्यपरेषु न्यायसिद्धाञ्जनादिष्वेतद्विरुद्धतयानुगृहीतानां पक्षान्तराणां न तत्त्वपरत्वं वेदान्ताचार्यानुमतत्वं चेति सिद्धेः तत्रापि न्यायसिद्धाञ्जने अन्ततो गत्वा जिज्ञासुपञ्चाग्निविदोरभेदसिद्धान्तनिष्कर्षस्यैव केचित्तु ब्रह्मभूतस्वात्माकेवलस्य भोगः ब्रह्मणस्तु विशेषणतया भारमात्रमस्तीति पूर्वाचार्यसिद्धान्तत्वेनानूदितत्वात् तस्यैव कार्याधिकरणदीपसिद्धान्तानु गृहीत पञ्चाग्निविद् ब्रह्मवित्फलभेदानुसारित्वाञ्च तत्रैव तेषां निर्भर इति सिद्धेश्च तत् सिद्धान्तानुसारेणापि जिज्ञासोरप्रतीकवित्त्वमेव सिद्धमिति हेतुरसिद्ध एवेति ॥
४०
अथ चत्वारिंशी–
इत्थं भूत बहुप्रमाणोपपत्ति सम्प्रदायानादरेण केवलमौरर्व्यमात्रावलम्बेन जिज्ञासोः पञ्चाग्निविद्व्यतिरेकोक्तौ जिज्ञासोः प्रतीकवित्त्वेनार्चिराद्यभावान्नित्यविभूत्यन्तर्गतपाद्मोत्तरावगत कैवल्य प्राप्त्य सम्भवात् तस्य प्रकृतिमण्डले किञ्चित् स्थानं कल्पनीयम्। तत् कल्पनेऽपि तत्र प्रकृति विनिर्मोकासम्भवात् प्रकृतिनिर्मुक्तात्मस्वरूपस्य जिज्ञासु प्राप्यताप्रतिपादकवचनानां गौणत्वमपि कल्पनीयम्। तत् कल्पनेऽपि तस्य गति विशेषासिध्यासोपि कल्पनीयः । अथ तत् कल्पनेऽपि शुक्लकृष्णेगतीह्येते इति द्वयोरेव गत्योः प्रामाणिकत्वाभिधायि वचनबाधोऽपि कल्पनीयः । अथास्यागतेर्जिज्ञासोरपुनरावृत्तिप्रमाणानुसारेणानावृत्तिश्च कल्पनीया । अथ तत् कल्पने एकयायात्यनावृत्तिमन्ययावर्ततेपुनरिति वचनविरोधात् तद्बोधोपि कल्पनीयः । अद्बाधकल्पनेऽपि जिज्ञासोरेव मूर्धन्यनाडीनिष्क्रमणादिलिङ्गेनार्चिरादि गति सध्यातद्विरोधात् सापि बाधनीया। अथैतत् सर्वकल्पनेऽपि नित्यविभूत्यन्तर्गततया पाद्मोत्तराधीतकेवलपदस्याधिकारि साधनगत्यादि सापेक्षत्वेन तेऽपि कल्पनीयाः । अथ तत् कल्पने तेनैव नित्यकैवल्यसिध्द्याभक्षितेऽपि लशुन इति न्यायापातभीत्या तस्यापि अनित्यत्वं कल्पनीयम् । अथ तदुपपादनाय तत् पदं प्राप्तानामारोह अवरोहो वा कल्पनीयः । अथारोहकल्पने तस्य श्रीशाङ्घ्रिभक्तिसेवैकसुखभोगविवर्जितम् इति तत्रत्यवचनविरोधापत्त्या सूरिदृश्यस्थानव्यतिरिक्तमूर्धदेशं परिकल्प्य तदारोह एव कल्पनीयः अथ तद्देशानुभाव्य फलविशेषतददिकारितत्साधन विशेषा अपि कल्पनीयाः ॥
अथावरोह कल्पनपक्षे आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन इति नियमोपि बाधनीयः । अथ तद्बाधनेन तत्कल्पने तत् कैवल्यस्य निश्रेयसं च निर्वाणं कैवल्यं मोक्षउच्यत इति मोक्षान्तर्भावस्थापकवचनमपि बाधनीयम् । अथ पञ्चाग्निवेदोपि स्वात्मप्राप्तेः सर्वसम्प्रतिपन्नत्वेन तदनुभवस्थानान्तरं च किञ्चित् कल्पनीयम् । ते च सूक्ष्मपर्यन्त प्रकृति हेयताया उपासितत्वेन तदनुभवस्थान प्राकृतलोकान्तर्भावोपि कल्पनीयः । तत् कल्पनेऽपि अर्चिरादिना प्रस्थितस्य फलान्तरविलम्बाभावस्य कार्याधिकरणबादरि पक्षप्रतिक्षेपपक्षसिद्धत्वेन तदन्यगतेरपुनरावृत्त्यभावाच्च तस्यापि गत्यन्तरं कल्पनीयम् । अथ तत् कल्पनेऽपि तेन तत्र गतानां सूक्ष्मविश्लेषस्यापि कल्पनीयतया तदनन्तरं परमपदारोहस्य गत्यर्थशरीराद्यभावेन शरीरनिरपेक्षमेव गमनमपि कल्पनीयम् । तदेव कल्पनाजालं कस्य वा शास्त्रस्य मुख्यतानिर्वाहायेति विमृशन्तु भवन्तः । जिज्ञासुप्रकरणे श्रूयमाणाया अनावृत्तेरवरोहाभावमात्रपरत्वेन गौणार्था श्रयणात् तत् प्राप्ये प्रकृतिसम्बन्धविनिर्मोकोक्तीनां सर्वासां विवेकमात्रपरत्वेन गौणार्थाश्रयणात् जिज्ञासुप्राप्य विषयामृताक्षरादिशब्दानां चिरकालस्थायित्वमात्र परत्वेन गौणार्थाश्रयणाच्च जिज्ञासुविषयकं शास्त्रं सर्वं हतमेव। पञ्चाग्निविद्विषयशास्त्रेऽपि गतिवाक्ये अव्यवधानेनैव प्रतीयमानं ब्रह्मगमनं बाधित्वा मध्ये स्वात्मानुभवविलम्बकल्पनात् तद्य इत्थं विदुरिति स्वात्मोपासने प्रतीयमाने सति तद्बाधेन तत्र ब्रह्मविद्यात्वकल्पनात् मधुविद्यायामिवात्रानित्यफलप्राप्तिहेतुभूतकार्योपासन प्रसङ्गाभावेऽपि तादृशानित्यफलहेतुभूत केवलकार्यात्मोपासनकल्पनाच्च पञ्चाग्निविद्याशास्त्रमपि हतमेव ॥
ननु सर्वेच्यवनधर्माण इत्यादि कैवल्यानित्यताबोधकशास्त्रं सर्वं मुख्यतयानीतमितिचेत् धिकृत्वां बधिरं तस्य वचनस्य तत्परत्वासम्भवं सहृदयोद्धुष्टमपि यतस्त्वं न शृणोषि । तस्मात् प्रकृतिमुक्तात्मस्वरूपस्यैव यतस्त्वं न शृणोषि । तस्मात् प्रकृतिमुक्तात्मस्वरूपस्यैव जिज्ञासुध्येयत्व प्राप्यत्वादिवचनानां तदमृतत्वानावृत्त्यादिवचनानां च मुख्यत्वस्थेम्ने तस्य पञ्चाग्निविदनन्यत्वमेव गीताभाष्यस्वारस्यसिद्धमङ्गीकर्तव्यम् । इत्थं सति कैवल्यत्रयतदनुबन्ध्यादि कल्पनागौरवमपि न प्रसजेत्। ननु तर्हि कैवल्यं प्राप्तस्य ब्रह्मप्राप्तिर्नास्तीति सिद्धान्तविरोधः प्रसजेदवेतिचेत् तत्कल्पनागौरवं सहतामप्यविशिष्टमेव केवल्यं प्राप्तस्य तदनन्तरमैश्वर्यार्थिनामिव यदाकदाचित् ब्रह्मप्राप्तेरङ्गीकारात् इयांस्तु विशेषः अस्माभिः केवलस्य सुषुप्तिप्रलयादि साधारणसम्पत्तिशब्दवाच्यब्रह्मस्वरूपलयात्मक ब्रह्मप्राप्तिमात्रमङ्गीक्रियते । युष्माभिस्तु परमपुरुषनिष्ठासाधारणपरिपूर्णब्रह्मानुभवमपि तस्याङ्गीकृत्य सकलसम्प्रदायप्रमाणजातन्यायजात संक्षोभपूर्वकं सहस्रविकल्पनागौरवमप्याश्रीयत इति ।
ननु भवतां मते ब्रह्मगमयतीत्यस्य सम्पत्तिपरत्वास्वारस्यं सोढव्यमिति चेत् धिक्त्वां मूर्खं तत्स्वारस्यं हि पूर्वमेव दर्शितम् ब्रह्मगमयतीति हि गमनस्य सामान्यवाची शब्दः स च परंज्योतिरूपसम्पद्येति स्थानप्रमाणसहकृतसम्पत्तिरूपविशेषवाचिशब्देन तत्परत्वं नीत इति कार्याधिकरणगतेन दर्शनाच्चेति सूत्रेणैव दर्शितम् । तत्र सामान्यवाचिब्रह्मशब्दरस्य परंज्योतिः परत्वेन विशेषपर्यवसानं दर्शयतो जैमिनेरस्याप्यभिप्रेतत्वात् । तथा चैवं पञ्चाग्निविजिज्ञासोरनन्यत्वे पञ्चाग्निवद् ब्रह्मविदोर्भेदेनोपादानादिकं श्रीभाष्यकारैर्दीपे फलभेदोपपादनादिकं सर्वमप्युपपन्नं स्यादिति तत्तथात्वस्यैवाकामेनापि स्वीकर्तव्यत्वेन निरुक्तहेतुरसिद्ध एवेति सर्वं निरवद्यम् ॥
॥ इति कैवल्यशतदूषण्यां द्वितीयभङ्गः॥