अथ कैवल्यशतदूषणी

यत्पादपद्मरसिका परिषद्गुरूणा-
मात्मानुभूतिमतिदूरतराज्जहाति-
तन्नौमि दिव्यपुरुषं वननानराद्यै-
र्विस्मारिताभिजनमञ्जनशैललोलम् ॥

यद्गाथया विनिद्रा
हेतिवाराद्याः परावने?? व्यग्रतं
भट्टनाथम् ईडे केवलकरुणापराधीनम् ॥

लोके समस्तमुनिमानसपद्मकोशा
यद्भाष्यभानुपरिरम्भणः स्फुटन्ति ।
यस्यैवते विकसिताश्च विहारभूमि
स्तौ भावये परमहंसवराननन्यौ ॥
कमलनयनकान्ताकामनाकल्पवल्ली
परिणतिफलभूतार्यगोष्ठीं विभाव्य।
प्रतिमतशतदूषण्युग्रकैवल्यचिन्तां
कलयति कुतुकाच्छीशैलयोगीशदासः ॥

तत्र तावद् भव-दहन-दन्दह्यमान-सकल-जीव-संजीवनोपदेशा भट्टनाथ-पराङ्कुशादयः
कैवल्यम् एव प्रथमतस् त्याजयन्ति।
तत्र च निदानं तन्-नित्यानिबन्धनं निरतिशय-क्रौर्यम् एव ।

तत्र केचिद् विवदन्ते – “कैवल्यम् अनित्यं सर्वे च्यवन-धर्माण” इति वचनात्
प्रतीकोपासन-साध्यत्वात् अज्ञान-संवलितत्वात् ब्रह्मप्राप्त्य्-उदर्कत्वाच् च इति तानि च श्रुतिलिङ्गानि क्रमयो+++(=??)+++ निरस्यन्ते
तत्र “च्यवनधर्माण” इति श्रुतिनिरसनार्थं
तद्-अन्यथा-सिद्धि-साधिकाः कक्ष्याः प्रदर्श्यन्ते-

०१

तत्रेयं प्रथमा कक्ष्या–

नेदं वचनं कैवल्यानित्यत्व-साधकं तस्य तद्विषयत्वानिर्धारणात् तथाहि इदं हि वचनं श्रीमहाभारते मोक्षधर्मे नाम-निर्वचनाध्याये श्रूयते ।
तत्रेयं पूर्वोत्तरावचनानुपूर्वी-

सब्रह्मकास्सरुद्राश्च सेन्द्रादेवामहर्षिभिः ।
अर्चयन्तिसुरश्रेष्ठं देवं नारायणं हरिम् ॥
भविष्यतां वर्ततां च भूतानां चैव भारत ।
सर्वेषामग्रणीर्विष्णु स्सेव्यः पूज्यश्च नित्यशः ॥
नमस्वहव्यदं विष्णुं तथा शरणदं नम ।
वरदंनम कौन्ते च हव्यकव्यभुजं नम ।
चतुर्विधाममजना भक्ता एवहि ते श्रुताः ॥
तेषामेकान्तिनः श्रेष्ठास्ते चैवा नन्यदेवताः ।
येतु शिष्टास्त्रयोभक्ताः फलकामाहिते मताः ॥
सर्वेच्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ।
ब्रह्माणं शितिकण्ठं च याश्चान्यादेवताः स्मृताः ।
प्रतिबुद्धानसेवन्ते यस्मात्परिमितं फलम् ॥

इति। अत्र च्यवनधर्माण इत्यनेन च्यवनं धर्मः येषामिति व्युत्पत्त्या यत्किञ्चिच्च्य वनधर्मधर्मित्वस्यैकान्तिव्यतिरिक्तेषु प्रतीतावपि तच्च्यवनं कैवल्यादिफलसम्बन्ध्येवेत्यत्र नियामका भवान्नेदं कैवल्यानित्यत्व साधकमिति ॥

०२

अथ द्वितीया

उद्देश्यविधेयभावस्थले विधेये उद्देश्यतावच्छेदक समानकालीनत्वभाननियमस्य तिलकीकर्मकुर्वीतेत्यादौन्यायविद्भिरङ्गीकृतत्वेन एकान्तिभिन्नाः फलकामास्सर्वे भक्ताश्च्यवनधर्माण इत्यत्र फलकामभक्तोद्देशेन च्यवनधर्मत्वविधौच्यवनस्य फलार्थभक्तिसमानकालीनत्वलाभेन तस्य फलसम्बन्धित्वा सम्भवाच्च नेदं तत् साधकमिति ॥

०३

अथ तृतीया

फलकामा हितेमता इति प्रसिद्धवन्निर्देशात् त्रैवर्गिकफलकामानामेव प्रतीतेः चतुर्विधा इत्यत्रापि धर्मार्थकाममोक्षाख्यसर्वलोक प्रसिद्धचतुर्विध फलकामानामेव प्रथमोपस्थितेश्च सर्वेच्यवनधर्माण इत्यस्य त्रैवर्गिकपरमात्रविषयत्वेन नेदं तत्साधकमिति ॥

०४

अथ चतुर्थी

ते चैवानन्यदेवता इत्यनेन एकान्तिभिन्नानां च्यवनधर्माणां देवतान्तरपरत्व प्रतीत्या सर्वेच्यवनधर्माण इत्यस्यारोग्यश्रीज्ञानकाममात्रविषयत्वान्नेदं तत् साधकमिति ॥

०५

अथ पञ्चमी

तेषामेकान्तिनश्श्रेष्ठा इत्यत्र-

एकान्तीतु विनिश्चित्य देवता विषयान्तरैः ।

भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ॥

इति लक्षणानुरोधात् प्रपन्नस्यैव एकान्तिशब्देन प्रतीत्या चतुर्विधा इत्यत्र कर्मज्ञानभक्तिप्रपत्तिनिष्ठानामेव प्रतिपादनौचित्यात् सर्वेच्यवनधर्माण इत्यस्य वशीकारार्थकाष्ठा वशीकारलक्षणप्रपत्तिविधुरकेवलकर्मज्ञान भक्तिच्यवनमात्रपरत्वेन नेदं तत्साधकमिति ॥

०६

अथ षष्ठी

चतुर्विधाममजना इत्येतत्पूर्वश्लोके हव्यदं शारणदं वदरं हव्यकव्यभुजमिति चतुर्भिन्नन्तव्यविशेषणैर्हव्यार्थिशरणार्थिवरार्थिभागवत् कर्तृकभोगार्थिभेदेन नन्त्रधिकारिचातुर्विध्यलाभेन तदनन्तरश्लोके तस्येवभिधानोपपत्त्या तत्र हव्यहब्दस्य धर्मोपकरणार्थसामान्योपलक्षकत्वात् शरणशब्दस्य यथार्थत्वात् वरशब्दस्य व्रियमाणकाम सामान्यपरत्वाच्च सर्वेच्यवनधर्माण इत्यस्य त्रैवर्गिककाममात्रपरत्वेन नेदं तत्साधकमिति ॥

०७

अथ सप्तमी

एतदध्यायपूर्वपूर्वाध्यायान्ते –

यदश्चेदं पठते नित्यं यश्चेदं शृणुयान्तरः ।

एकान्तभवोपगत एकान्तेषु समाहितः ॥

प्राप्यश्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।

स सहस्रार्चिषं देव प्रविशेन्नात्र संशयः ॥

इत्येकान्निनां भगवत्प्राप्तिलक्षणफलमभिधाय –

मुच्येतार्तस्तथारोगाच्छ्रुत्वे मामादितः कथाम् ।

जिज्ञासुर्लभते भक्तिं भक्तो भक्तगतिं व्रजेत् ।

इत्यौचित्यात् परिशेषाच्च आरोग्यं भास्करादिच्छेदिह्याद्युक्तारोग्य कामज्ञानकामश्रीकामानामेव फलाभिधानप्रतीत्या तदधिकारिचतुष्टयस्यैव बहुग्रन्थव्यवहितगीतासप्तमोक्ताधिकारि चतुष्टया भयात्यन्तसन्निहितत्वात् एकान्तिशब्दार्थसाहचर्याञ्च च तुर्विधा इत्यत्रोपस्थितत्वेन सर्वे च्यवनधर्माण इत्यस्यारोग्यश्रीज्ञानकाममात्रपरत्वेनेदं तत् साधकमिति ॥

०८

अथाष्टमी

यान्ति देवव्रता देवात् पितॄन्यान्ति पितृव्रताः।

भूतानि यानति भूतेज्या यान्ति मद्याजिनोपि मामिति ॥

श्रीगीतानवमाध्यायोक्ताधिकारिणामेव अष्टमाध्यायापेक्षया सन्निहितत्वेन चतुर्विधा मम जना इत्यत्रतेषामेव परामर्शौचित्यात् फलकामाहिते मताः ते चैवानन्यदेवता इत्यादिना देवतान्तरसायुज्यकामत्वस्यैव प्रतीत्यौचित्याच्च सर्वेच्यवनधर्माण इत्यस्य देवतान्तरपरमात्रविषयत्वेन नेदं तत् साधकमिति ॥

०९

अथ नवमी–

सर्वे च्यवनधर्माणस्तेचैवानन्यदेवताः ।

इत्युक्तार्थ विवरणरूपे सर्वे च्यवनधर्माण इत्येतदनन्तरश्लोके-

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ति यस्मात्परिमितं फलम् ।

इति च्यवनधर्मत्वस्य देवतान्तरभजनप्रयोज्यत्व ज्ञापनपूर्वकमेकान्तिवर्जनीयायां तद्व्यतिरिक्तभजनीयदेवातानां त्रेधोपापानेन त्रैविध्यज्ञापनात् तत्र ब्रह्मशब्दस्य राजसदेवता सामान्योपलक्षकत्वात् शितिकण्ठशब्दस्य तामसदेवता सामान्योपलक्षकत्वात् याश्चान्या इत्यस्य संकीर्णदेवता विषयत्वाच्च चतुर्विधामम जना इत्यस्य शुद्धसात्त्विक राजसतामस संकीर्णदेवता परमात्र विषयतया नेदं तत् साधकमिति ॥

१०

अथ दशमी–

चतुर्विधा मम जना इत्ये तत् पूर्वपूर्वपूर्वश्लोके-

सब्रह्मकास्सरुद्रांश्च सेन्द्रादेवामहर्षिभिः ॥

अर्चयन्ति सुरश्रेष्ठं देवं नारायणं रहिम् ॥

इति सब्रह्मकादेवा राजसाः सरुद्रा देवास्तामसास्सेन्द्रादेवाः संकीर्णाश्च महर्षिभिः सात्त्विकैस्सह नारायणं यजन्तीति वैयधिकरण्यज्ञापक कारात् महहच्छब्देन ज्ञातृवाचिऋषिशब्दार्थ विशेषणाच्च स्वरसतः प्रतीत्या तदधिकारिचतुष्टयस्यैव चतुर्विधा इत्यत्र प्रतिपादनौचित्यात् सर्वेच्यवनधर्माण इत्यस्य महर्षिशब्दनिर्दिष्ट निष्कृष्ट सत्त्वनिष्ठव्यतिरिक्तमात्र विषयत्वान्वेदं तत् साधकमिति॥

११

अथैकादशी

पूर्वोक्तश्लोके महर्षिणां पृथक् करणं विना सेन्द्रा इत्युक्त संकीर्णान्तः प्रवेशनेऽपि तादृशगणत्रयस्य भगवदर्चकत्वोक्तेर्देवतान्तर पराणामपि भगवद्भक्तत्वस्य भक्ता एव हिते श्रुताः ते चैवा नन्यदेवता इति दर्शयिष्यमाणस्योपपादनार्थतया येतु शिष्टास्त्रयो भक्ता इत्यस्य भगवदर्चकनिरुक्तगणत्रय यजनद्वाराभगवद् भजनपर्यवसन्नाधिकारित्रयमात्र परत्वौचित्यात्तदनुसाराच्चतुर्विधा इत्यस्याद्वारकभगवद्याजि सहित पूर्वोक्ताधिकारित्रय परत्वौचित्याच्च सर्वे च्यवनधर्माण इत्यस्य गणत्रययाजिस द्वारकभक्तमात्रविषयत्वेन नेदं तत् साधकमिति ॥

१२

अथद्वादशी–

सब्रह्मकास्सरुद्राश्चेत्येतदनन्तर श्लोके –

भविष्यतां वर्ततां च भूतानां चैव भारत ।

सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥

इति भगवत अग्रं न यतीत्यग्रणीरिति उन्निनीषा प्रयुक्तसाधुकर्मकारचितृत्वस्य सेव्य इति एहलौकिक पारलौकिकैश्वर्यार्थसेवाद्वयकर्मत्वस्या नित्यशः पूज्य इति सदातन स्वयं प्रयोजनशेषवृत्तिप्रतिसम्बन्धितत्त्वस्य च प्रतिपादनेन तदनुसारात् एषमे सर्वधर्माणां धर्मोधिकतमो मतः ।

इत्युक्तचतुर्विध धर्माधिकारिणामत्र प्रतीत्या चतुर्विधा मम जना इत्यत्र तेषामेवाभिधानौचित्यात् सर्वे च्यवनधर्माण इत्यस्याधिकतमधर्मभूत भक्तिपूर्वकभगवदाराधन व्यतिरिक्तधर्म त्रयमात्रनिष्ठविषयत्वात् तेषां च मुमुक्षूणामपि नायमात्मा प्रवचनेन लभ्यइत्यादिना स्वाभिमतासिद्धि लक्षणच्यवनत्वावच्छिन्नवत्तायाः सिद्धत्वाच्चनेदं तत् साधकमिति ॥

एतदुक्तं भवति – धर्माश्चतुर्विधाः । यथाहुः श्रीसहस्रनामभाष्ये – धर्माहि ऐहिकाः पशुपुत्राद्यर्थाः आमुष्मिकाः स्वर्गाद्यर्थाः असङ्गैर्भगवदाराधन बोधानुष्ठितेष्टा पूर्तपरिकर्मिततत्त्वज्ञान समाधिशरीरो मोक्षार्थः स्वानुरागभगवत् स्मरणकीर्तिन प्रणामादि स्तदसाधारण परिचरणात्माचेति चतुर्विधाः तत्राधिकतम इति तम पात्रिभ्यश्चतुर्थमुत्कर्षति तमुपपाद यति – यद्भक्त्येत्यादिनेति तदेवं चतुर्विधेषु धर्मेषु चरमस्यैव मोक्षसाधनप्रकरणे श्रीसहस्रनामाध्याये तमपा यद्भक्त्येत्यादिनाच श्री भीष्मेण निष्कृष्योपदेशात् तस्यैव वस्तुतो मोक्षसाधनत्वादितरेषां न तत् साधनत्वमिति तन्निष्ठानां च्यवनधर्मत्व मत्रोच्यत इति सर्वेषामग्रणीरित्यादिना प्रतीयते । तत्राग्रणीरित्यनेन तृतीय धर्मनिष्ठानां भगवताचरमधर्म प्रापणस्योच्यमानतया तेषां ततस्साक्षान्मोक्षासिद्धिलक्षणं च्यवनं सूच्यते। सेव्य इत्यनेन पौनरुक्त्य परिहारार्थं फलान्तरार्थ सेवाकर्मत्वस्यैव वक्तव्यतया प्रथमद्वितीय धर्मनिष्ठानामेव तत्र प्रतीत्या तत् फलस्वभावादेव तेषां च्यवनं सूच्यते । पूज्यश्च नित्यश इत्यत्र नित्यशब्दस्वारस्याच्चतुर्थ धर्मनिष्ठानामेव तत् पूजाकर्तृत्वेन प्रतीत्या तेषामेव च्यवनं सूच्यत इति चतुर्विधा इत्यादिकं तदधिकारिचतुष्टयविषयमेवेति वक्तुं युक्तमिति ॥

१३

अथ त्रयोदशी

अथ चतुर्विधाममजना इत्यत्र चतुर्विधशब्देन चतुर्विधा भवजन्ते मामिति गीतासप्तमाध्यायोक्ताधिकारिणामेव कस्यचित् प्रत्यभिज्ञानेऽपि तत्रार्तार्थार्थित्वयोरैश्वर्यार्थित्वा व्याप्ततया भक्तविभाजकत्वायोगात् त्रिविधेष्वेव तत्र मुखभेदमात्रालम्बनेन चतुर्विधशब्दप्रयोगस्य भाष्यतच्चन्द्रिकादिष्वनुगृहीतत्वेनैतत् प्रकरणस्य तदेकार्थत्वे चतुर्विधाममजना इति चतुर्विधशब्दस्य येतु शिष्टास्त्रयोभक्ता इत्यत्र त्रय इत्यस्य च गौणत्वापत्त्या तत् प्रत्यभिज्ञाया बाधितत्वेन सर्वेच्यवनधर्माण इत्यस्य न जिज्ञासुविषयत्वसम्भव इति नेदं तत् साधकमिति ॥

१४

अथ चतुर्दशी–

एवं चतुर्विधामम जना इत्यनेन गीतासप्ताष्टमोक्ताधिकारिचतुष्टयाभिधानाङ्गीकारे अनभिसंहितफलानां कर्मणामेव ज्ञानयोगाङ्गतायाः प्रथमषट्कसिद्धत्वेन ज्ञाननिष्ठस्य जिज्ञासोः अपि निराशीः कर्मकारितायास्तत्रैव सिद्धत्वेनात्र निराशीः कर्मकारिणामिति तस्य ज्ञानिमात्रासाधारण्योक्तेर्विरोधापत्त्या तद्बलेनापि तत्प्रसभिज्ञाया बाधनीयत्वेन नेदं तत् साधकमिति ॥

१५

अथ पञ्चदशी

किञ्च आर्तादीनामेवात्राभिधानस्वीकारे तदधिकारिचतुष्टयस्याप्यनन्यदेवता कत्वस्य चतुर्विधाभजन्ते माम्, उदारास्सर्व एवैते इत्यादिभाष्ये मामेवभजन्ते मामेवोपसस्त इत्यनुगृहीतत्वात्,

एकान्त्यं भगवत्येषां समानमधिकारिणाम्। इति श्रीगीतार्थसंग्रहे यामुनमुनिभिरनुगृहीतत्वाच्यात्र तेचैवानन्यदेवता इति तस्य ज्ञानिमात्रासाधारण्योक्ति विरोधापत्त्या तेनापि तत् प्रत्यभिज्ञाया बाधनीयतया नेदं तत् साधकमिति ॥

१६

अथ षोडशी–

अपिचात्रार्तदीनामेवाभिधाने जिज्ञासोरपि मोक्षभाक्तस्य गीताष्टम एव सिद्धत्वेनात्र प्रतिबुद्धस्तु मोक्षभागिति तस्य ज्ञानिमात्रासादारण्योक्ति विरोधापत्त्या तेनापि तत् प्रत्यभिज्ञाया बाधनीयत्वे न वेदं तत् साधकमिति॥

श्रीगीताष्टमे जिज्ञासुप्राप्यं हि-

यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम।

इत्यपुनरावृत्तिलक्षणं मुक्तस्वरूपमेवेत्युक्तम् ॥ तत्र च भाष्यम् – यमेवं भूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्मम परमं धाम नीयमानस्यानम् अचेतन प्रकृतिरेकं नियमनस्थानं तत् संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम्। अयित्संसर्गवियुक्तं स्वरूपेणावस्थितं परमं नियमनस्थानमित्यर्थः । तच्चापुनरावृत्ति रूपम्। अथवा प्रकाशवाचीधामशब्दः प्रकाशश्चेह ज्ञानमभिप्रेतम्। प्रकृति संसृष्टात् परिच्चिन्नज्ञानरूपादात्मनोऽ परिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परमं धामेति। अत्र द्वयोरपि योजनयोः मुक्तास्वरूपस्यैव जिज्ञासुप्राप्यतया भाषितत्वेन तेषामपि मोक्षभाक्तं सिद्धमेवेति ॥

१७

अथ सप्तदशी–

अथाप्यार्तादीनामेवात्राभिधाने पूर्वोक्तगीताष्टमाध्यायवाक्येनैव जिज्ञासुप्राप्यस्य अविनाशिताया अनावृत्तेश्चोक्ततया अत्र च्यवनधर्माण इति तत् फलच्यवनोक्तौ विरोधापत्त्या तत् प्रत्यभिज्ञा वा बाधनीया च्यवनशब्दो वान्यथानेय इत्युभयोरपि कल्पयो इच्यवनधर्माण इत्यस्यान्यथा सिद्धेनैवं तत् साधकमिति। तदिदं तत् प्रकारणभाष्यम्। अथ कैवल्यं प्राप्तानां पुनरावृत्तिर्नविद्यत इत्याह-

पुरस्तस्मात्तु भावान्यो व्यक्तो व्यक्तात्सनातनः।

यस्सर्वेषु भूतेषु नश्यत्सुनविनश्यति।

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥

तस्मादव्यक्ताद चेन प्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्मात् विसजातीयः अव्यक्तः स्वसंवेद्यस्वासाधरणाकार इत्यर्थः। सनातनः उत्पत्तिविनाशानर्हतया नित्यः यस्सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र स्थितोपि न विनश्यति सोव्यक्तोक्षर इत्युक्तः,

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

कूटस्थोक्षर उच्यत इत्यादिषु तं वेदविदः परमां गतिमाहुः अयमेव

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।

इति इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षरः प्रकृतिसंसर्गवियुक्तः स्वरूपेणावस्थित आत्मेत्यर्थः । यमेवम्भूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्ममपरमं धामेत्यादि शिष्टं पूर्वकक्ष्यायां लिखितम् । तथाचात्रजिज्ञासोः प्राप्यविनाशाभावस्य प्राप्यानुभवविरामाभाव लक्षणानावृत्तेश्च कण्ठोक्ततया तद्विरोधोदुष्परिहर एवेति। एतेन जिज्ञासोरुच्यमानमपुनरावृत्तिमवरोहा भावमात्ररूपं तस्मान्नकैवल्यानित्यत्वविरोध इति कैश्चिदुक्तं परास्तम् । संकोचे मानभावात् शोकनिवृत्तिर्भयनिवृत्तिः प्रवृत्तिनिवृत्तिरित्यादौ विरामस्यै स्वरसतः प्रतीत्यायं प्राप्य न निवर्तन्त इत्यत्रापि यं प्राप्य न विरमन्त इत्येवार्थ प्रतीतेः । न च पुनरावर्तिन इत्यत्रापि अवरोहाभावमात्रपरत्वापत्त्या परमपदस्थानामेव सतामुक्तानां भगवत् स्वातन्त्र्यात् भगवदनुभवावेरामस्यस्याशङ्कामानस्यानिवारणापत्तेः सर्वान् लोकान् कामान्नीत्याद्युक्तमुक्त कर्तृकभगवदनुभवार्थावरोह विरोधापत्तेः वसुपदश्वेत द्वीपादीनामप्यवरोहा भाववतां विद्यमानत्वेन – आब्रह्मभवनल्लोकाः पुनरावर्तिनोऽर्जुन । शुश्रूयमाणा अनावृत्त्यादिशब्दाः फलानुभवविरामाभावपरा एवेत्यवश्यमङ्गीकरणीयतया यं प्राप्य ननिवर्तन्ते इत्यनेन कैवल्यस्यापि विरामाभावावगमेन सर्वे च्यवनधर्माण इत्यत्र न तदनित्यत्वमभिधातुं शक्यत इति ॥

१८

अथाष्टादशी

चतुर्विधामम जना इत्यत्र चतुर्विधा भजन्तेमामिति गीतासप्तमोक्ताधिकारिणामेव परामर्शे, – देवान्देन यजो यान्ति मद्भक्तायान्ति मामपि ।

इति तत्रोक्तचतुर्विधभगवद् भक्तानामपि मोक्षभाक्तोक्तेः तथैव श्रीनारायणार्यैर्व्याख्यातमिति तद्भाष्य चन्द्रिकायामनु गृहीतत्वात् ।

भगवन्तं समुद्दिश्यतदेकशरणानराः ।

कदाचिन्नावहीयन्ते काम्यकर्मरता अपि ॥

इति तदुपष्टम्भकवचनस्य शाण्डिल्यसंहिता भागवताचार संङ्ग्रहगतस्य तत्रैवोदाहृतत्वात् । जिज्ञासोरपि परंज्योतिरूप संपद्येत्युक्त संपत्ति लक्षणब्रह्मप्राप्तिर्नविरुध्यत इति वक्ष्यमाणत्वाञ्च मोक्षभाक्तस्यार्तादि सर्वसाधारणत्वेनात्र प्रतिबुद्धस्तु मोक्षभागिति तस्य ज्ञानिमात्र साधारण्ये विरोधापत्त्या तत्प्रत्यभिज्ञाया बाधनीयत्वेन नेदं तत् साधकमिति ॥

१९

अथैकोनविंशति–

तदेवं गीता सप्तमाष्टमाध्यायोक्तार्तादि चतुष्टयस्यात्र परामर्शासंभवेन –

तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥

इति षष्ठाध्यायोक्ताधिकारि चतुष्टयस्याप्यत्र परामर्शसम्भवात् च्यवनधर्माण इत्यस्य केवलज्ञानतपोनिष्ठमात्र विषयत्वान्नेदं तत् साधकमिति ॥

२०

अथ विंशी–

एवं त्रैगुण्यविषयावेदा निस्त्रैगुण्यो भवार्जुन ।

इति ततः पूर्वमुक्तस्य राजसतामससंकीर्णशुद्धसात्त्विकभेदे भिन्नाधिकारिचतुष्टयस्याप्यत्र चतुर्विधाममजना इत्यनेनाभिधान संभवेन सर्वे च्यवन धर्माण इत्यस्य निष्कृष्टसत्त्वनिष्ठव्यतिरिक्ताधिकारिमात्र विषयत्वेन नेदं तत् साधकमिति ॥

२१

अथैकविंशी

अन्तवत्तुफलं तेषां तद्भवत्यल्पमेधसाम् ।

इति देवतान्तरपरविषयगीता सप्तमवचनभाष्ये

न तु मामभिजानन्ति तत्त्वेनातश्यवन्ति ते ।

इति तदेकार्थनवमाध्यायवचनभाष्ये च श्रीभाष्यकारै स्तत्सायुज्यं प्राप्तास्तैस्साह प्रच्यवन्ते परमित भागिनश्च्यवनस्वभावा भवन्ति संकल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवन स्वभावाभवन्तीति सर्वेच्यवनधर्माणः यस्मात्परिमितं फलमित्यादि प्रत्यभिज्ञापकैश्शब्दैरेव भाषितत्वान्मूलेऽपि तत् प्रकारणयोरेवैतत् प्रकरणेन प्रत्यभिज्ञाबाहुल्यदर्शनात् मन्त्रार्थकारिकायां श्रीमदभयप्रदानदेशिकैश्चरमश्लोक प्रकरणान्ते चतुर्विधाममजना इत्येतदपि सङ्गतम् ॥

देवतापितृभूतानां मम भक्ताश्च ये जनाः ।

तेषां मद्याजिनश्श्रेष्ठास्त्रयोऽप्यन्येऽन्यदेवताः ॥

अतश्च्यवनधर्माण इति तस्यार्थवर्णनात् ।

इति श्रीगीताभाष्यस्वारस्यानुरोधेनैव साम्प्रदायिकयोजनाया दर्शितत्वात् तत्त्वदीपकारिका तात्पर्यदीपिका संप्रदायचन्द्रिकाकैवल्य दीपिकातत्त्वविवेकाष्टादश संवादाष्टश्लोकी व्याख्याषट् सहस्रिकागुरुभावप्रकाशिकादि मन्येषु तस्या एव योजनाया आहतत्वाच्च चतुर्विधा इत्यस्य –

यान्ति देवव्रतादेवान् पितॄन्यान्ति पितृ व्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ।

इति गतानवसाध्यायोक्ताधिकारि चतुष्टयविषयत्वमेव साम्प्रदायिकमिति सर्वे च्यवनधर्माण इत्यस्य देवतान्तरपरमात्र विषयत्वेन नेदं तत् साधनकमिति ॥ तत् प्रकरणस्यैवात्र प्रत्यभिज्ञाबाहुल्यं कथमिति चेत् अत्र हव्यकव्यभुजंनमेत्यनेन अहं हि सर्वयज्ञानां भोक्ताचेत्यक्तं प्रत्यभिज्ञायते। हव्यदं शरणदं वरदमित्यादिना प्रभुरेव चेत्युक्तं प्रत्यभिज्ञायते। प्रभुशब्दस्य तत्र फलप्रदार्थकत्वात् चतुर्विधा इत्यनेन यान्ति देवव्रता इत्याद्युक्ताश्चत्वारः

प्रत्यभिज्ञायन्ते । मम जना भक्ता एव हिते श्रुता इत्यनेन-

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।

तेपि मामेव कौन्तेय यजन्तीत्युक्तं प्रत्यभिज्ञायते ॥

तेषामेकान्तिन श्श्रेष्ठास्ते चैवानन्यदेवताः ।

अहमेव गतिस्तेषां निराशीः कर्मकारिणाम्॥ इत्यनेन,-

अनन्याश्चिन्तयन्तोमां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ इत्याद्युक्तं प्रत्यभिज्ञायते ॥

येतु शिष्टास्त्रयो भक्ताः फलकामाहिते मताः ।

इत्यनेन देवव्रताः पितृव्रता इत्यादि व्रतादिशब्दोक्ताः फलसंकल्पाः प्रत्यभिज्ञायन्ते ।

सर्वे च्यवन धर्माण इत्यनेन,

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।

इत्युक्तं शब्दतोऽर्थतश्च प्रत्यभिज्ञायते। प्रतिबुद्धस्तु मोक्षभागित्यनेन यान्ति मद्याजिनोपिमां मोक्ष्यसे कर्मबन्धनैरित्याद्युक्तं प्रत्यभिज्ञायते इति तदेवं देवपितृभूतादि यादिप्रकरणस्यैवात्र प्रत्यभिज्ञापकबाहुल्य सत्त्वात् आर्तादिचतुष्टय प्रकरणस्यात्र पूर्वोक्तरीत्या प्रत्यभिज्ञाभञ्जकबाहुल्य सत्त्वाच्च चतुर्विधा मम जना इत्यादेर्यथा संप्रदायं देवपितृभूत भगवद्याजि विषयत्वमेव युक्तं नान्यदिति सर्वेच्यवनधर्माण इत्यस्यान्या विषयत्वान्नेदं तत् साधकमिति ॥

२२

अथ द्वाविंशी

इत्थं पूर्वोक्त सर्वन्यायकलापानादरेण केवलमौर्य्यमात्रेण सर्वेच्यवनधर्माण इत्यस्य जिज्ञासुविषयत्वकल्पनेऽपि तात्पर्यचन्द्रिकायां परिमितसुखानुभवविलम्बेन निरतिशयसुरवानुभवात् भ्रष्टत्वेनापि निन्दोपपत्तेश्च उपासनदशानुभूते परमात्मनि फलदशायां किञ्चित्कालमनुभवविच्छेदाद्वा प्राप्तभ्रंशलक्षणं च्यवनधर्मत्वमिति वेदान्ताचार्यप्रदर्शितदिशैव कैवल्यस्य नित्यत्वेऽपि यावदात्मभावितया केवलस्य स्वरूपप्राप्तभगवदनुभवभ्रंशात् कैवल्यसाधनोपासनादशाप्राप्त-भगवदनुभवकैङ्कर्ययोः फलदशायामुन्मूलनेन प्राप्तफलभ्रंशाच्च च्यवनधर्मत्वोक्तेः तावन्मात्रविषयत्वेनाप्यन्यथा सिद्धेर्दुरपह्नवत्वे नेदं तत्साधतमिति॥

२३

अथ त्रयोविंशी

यं प्राप्य न निवर्तन्ते तद्धामपरमं मम ।

इति श्रीगीताष्टमवचनेन,

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्यायस्य च ।

इति चतुर्दशाध्याय वचनेन,

योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् ।

इति श्रीविष्णुपुराणवचनेन च कैवल्यानावृत्तेः तद्भ्रंशाभावलक्षणव्ययराहित्यस्य तत्स्थाननित्यतायाश्च कण्ठोक्तत्वेऽपि तद्विरोधे नानारभ्याधीतस्या ज्ञात प्रतिसम्बन्धिनः सर्वे च्यवनधर्माण इत्युक्त च्यवनधर्मत्वस्यान्यथा सिद्धिशतदूषितत्वेना व्यवस्थितस्य जिज्ञासु विषयत्वकल्पनपूर्वकं सकलशास्त्रविक्षोभं सम्पाद्य तेनानावृत्तिशब्दामृत शब्दच्यवनशब्दानाम् अनावृत्ति शब्दः अवरोहाभावमात्रपरः अमृतशब्द आपेक्षित स्थिरकालस्थायित्वमात्रपरः च्यवनशब्दः फलविलम्बादिमात्रपर इति सर्वेषां तथा तथा संकोचकल्पनानामत्यन्तभ्रान्ति कृत्यत्वान्नेदं तत् साधकमिति॥

२४

अथ चतुर्विंशी–

उत्तरमीमांसायामपशूद्राधिकरणे आजहारेमाश्शूद्रेत ब्रह्मविविदिषोर्जानश्रुतेः शुद्रत्वप्रतीतावपि ब्रह्मविद्यायास्त्रैवर्णिकाधिकारिकाध्य यनादिकमन्तरा दुस्साधत्वलक्षणात् नस्तु विरोधात् शूद्रत्वश्रुत्यन्यथासिद्धिवदत्रापि कैवल्यस्याक्षरं ब्रह्मपरममित्याद्यवगत प्रकृतिविमुक्तात्मस्वरूपतया तथा सम्पन्नस्य चात्मविदोगत्यर्थशरीराद्यभावात् गन्तव्योर्ध्व देशस्याप्यप्रामाणिकत्वात् स एनान् ब्रह्मगमयतीति पञ्चाग्निविद्यायामात्मविदनुगतेर्ब्रह्म संपत्तिपर्यन्तताया एव श्रूयमाणत्वाच्च कैवल्यं प्राप्तानामूर्ध्वारोह प्रयुक्तपूर्वपदभ्रंशलक्षणगौणच्यवन शब्दार्थस्याप्य सम्भवात् वस्तु विरोधादेव च्यवनश्रुतिरन्यथा सिद्धेति नेदं तत् साधकमिति ॥

२५

अथ पञ्चविंशी–

जानश्रुतेः क्षत्रियत्वावगमकलिङ्गैस्तद्विषयशूद्रशब्दस्य तत्रान्यथासिद्धिवदत्रापि मूर्ध्न्याधायात्मनः प्राणमिति जिज्ञासोर्मूर्धन्यनाड्या निष्क्रमण प्रतीतेर्वेदान्ताचार्यैरप्यङ्गीकृततया तस्य च

तासां मूर्धानमभिनिस्सृतैका

तयोर्ध्वमायन्नमृतत्वमेवति ।

इति श्रुत्या नित्यफलप्राप्तिलिङ्गत्वेन तत् सहकृताया अमृतस्य चाव्य यस्य च नामरत्वमहं वृणे अत्रामुत्रय भोगमक्षयसुखमित्यादि कैवल्य नित्यता श्रुतेः च्यवनशब्दबाधकत्वेन तदन्यथा सिध्यानेदं तत् साधकमिति ॥

२६

अथ षड्विंशी-

अग्नीषोमीयं पशुमालभेदेति विशेषशास्त्रेण न हिंस्यात् सर्वाभूतानीति सामान्य शास्त्र संकोचवदत्रापि सर्वे सर्वे च्यवनधर्माण इत्यस्य एकान्ति व्यतिरिक्त सर्वभक्तप्राप्यफलसामान्यविषयतया सामान्यशास्त्रत्वात् यं प्राप्य ननिवर्तन्ते, अमृत स्याव्ययस्य च, योगिनाममृतं स्थानमित्यादिवचनानां जिज्ञासुप्राप्यफलमात्र विषयतया विशेषशास्त्रत्वाञ्चाने नैव तस्य संकोचावश्यकतया सर्वे च्यवनधर्माण इति वचन मैश्वर्यकाममात्रविषयमेवेति नेदं तत् साधकमिति ॥

२७

अथ सप्तविंशी–

भगवता पराङ्कुशमुनिना मायाप्येरुविरलिति कैवल्यस्य नाशाभावाभिधानात् पिन्नु वीडिल्लैयित्यत्र मोक्षवाचिना वीडित्यनेन तस्याभिधानात् तद्गाधावतरणिकायामस्थिरत्वादि दोषासंभिन्न मान कैवल्यत्तैयिति श्रीकुरुकेशाचार्यैर्भाषणात् कुरुकानीकावित्यादि गाधायामिरुतिकूडाविति कैवल्यानन्दस्य नाशसम्भवाभिधानात् तदवतरणिकायां कुरुकेशाचार्यैः प्राचुर्यस्थिरत्वाद्यनेकगुणयुक्तमानकेवलात्मानुभवलक्षणमान सुरवत्तै इत्यानुगृहीतत्वाच्च सर्वेच्यवनधर्माण इत्यस्य प्रबलप्रमाणबाधितत्वेन नेदं तत् साधकमिति ॥

२८

अथाष्टाविंशी

अत्ततुपत्तेनिलितिगाधायां केवलं मन्नुरिलित्यनुक्ता अतुशेत्तुमन्नुरिलित्युक्तेः कैवलस्थैर्यव्यावर्तनप्रतीत्यास्थिरफलमोक्षवाचिनो वीडित्यस्य तत्रापि प्रयोगात् तद् गाधाव्याख्यायामपि श्रीकुरुकेशाचार्यैः अतिलकप्पडाते भगवच्छेषतैकर समानवुन्नुडैय स्वरूपत्तैप्पेत्तुनिलैनिर्कवेण्डि इति कैवल्यस्थैर्यापेक्षाव्यावर्तनार्थमपेक्षाविषयेस्थैर्ये

भगवच्छेषत्वरूपस्वरूपलाभपूर्वकत्वरूपविशेषणदानाच्च स्थैर्यमात्रस्य कैवल्यमोक्षभगवत् प्राप्तिलक्षणमोक्षयोस्साधारण्यप्रतीत्या तेनापि सर्वे च्यवनधर्माण इत्यस्यान्यथाने यत्वान्नेदं तत् साधकमिति ॥

एतेन मन्नुरिलित्यनेन कैवल्यस्यानित्यत्वं प्रतीयत इति कैश्चिदुक्तम् प्रतिक्षप्तम्। नह्यत्रकेवलं स्थैर्यकामः कैवल्यं मुक्त्वा प्रथमतोभगवन्तमाश्रयेदित्युच्यते तथा कुरुकेशाचार्यैव्याख्या तत्वात् तथा मूलेऽप्यप्रतीतेः । किन्तु स्वरूपविरोधिकैवल्य प्रहाणपूर्वक भगवच्छेषतैकरसस्वरूपाविर्भाव विशिष्टस्थैर्यकामः प्रथमत एव भगवन्तमाश्रित्य रागादिकं त्यजेदित्युच्यते। एवमेव मूले श्रीकुरुकेशाचार्यव्याख्याने च प्रतीतेः। अत्र यदि स्थैर्यं भगवल्लाभलक्षणमोक्षामात्रासाधारणमिति श्रीपराङ्कुशादीनां सिद्धान्तस्स्यात्तर्हि काम्यमानस्थैर्ये शेषत्वलाभपूर्वकत्वादि विशेषणदानं व्यर्थमेव । न हि तदानीं शेषत्वलाभमन्तरापि स्थैर्यं सम्भवेत् येन तद्व्यावृत्तिसिध्येत्। तस्मात्तत्रतद्विशेषणदानेनैव स्थैर्यं कैवल्यसाधारणमिति प्रदतीयत एवेति मन्नुरुलित्येतावतैव कैवल्यस्यानित्यत्वं प्रतीयत इत्युक्तिरपरामर्शनिवबन्धनैवेति ॥

२९

अथैकोनत्रिंशी–

श्रीवेदान्ताचार्याणां स्वाचार्यैर्वादिहं साम्बुदाचार्यैः

दृष्ट्वानुकूलमात्मानमन्यत्र विगतस्पृहः ।

भोग्यभूतं परात्मानमुपायमनुसन्धयत् ।

तेनैव चापराधेन क्षये तस्यापि कर्मणाम् ।

तिरोहितेशानुकूल्यस्स्वात्मानं भोग्यमश्नुते ॥

इति कैवल्यस्य सकलकर्मक्षयानन्तरभावित्वस्य तत्र यावदात्मभाविब्रह्मानु भवराहित्यस्य तत्तथात्वस्योपासनवैपरीत्य लक्षणापराधप्रयुक्तत्वस्य च यथा संप्रदायमनुगृहीतत्वेन तन्मातनुसारेणापि च्यवनशब्दोऽन्यथाने य एवेति नेदं तत् साधकमिति ॥

३०

अथ त्रिंशी–

श्रीमद्वेदान्ताचार्यैरेव श्रीतात्पर्यचन्द्रिकाप्रणयनान्तरप्रमीते न्यायसिद्धाञ्जने कैवल्यविचारावसरे सर्वकल्पप्रदर्शनानन्तरं केचित्तु ब्रह्मभूतस्वात्मा केवलस्य भोग्यः ब्रह्मणस्तुविशेषणतया भानमात्रमस्तीत्याहुरिति सर्वप्रमाणानुगुणपूर्वाचार्य सिद्धान्तानु वादात् तदनन्तरं यस्य कस्यचित् कल्पस्य वा तद्दूषणस्य वा अनभिधानेन तत्रैव तेषां नैर्भयप्रतीतेः। तत्र च केवलानां ब्रह्मभानस्योदासीनकाष्ठलोष्ठादि भानतुल्यत्वेननाभोगरूपत्वाङ्गीकारपूर्वक मात्मानुभवस्यैव भोगरूपस्य यावदात्मभावित्वस्वीकारात्तन्मतानुसारेणापि सर्वेच्यवनधर्माण इत्यस्यान्यथानेयत्वेन नेदं तत्साधकमिति ॥

सर्वे च्यवनधर्माण इत्येतन्नीतमन्यथा ।

त्रिंशत् कक्ष्याभिरित्थं वैसुधीभिस्तद्वि भाव्यताम् ॥

तदेवं सर्वे च्यवनधर्माण इत्यस्य बहुधान्यथा सिद्धतया तस्य कैवल्यानित्यत्वावगमकत्वा योगात्यं प्राप्य ननिवर्तन्त इत्यादि प्रमाणसिद्धं भट्टनाथादि विवक्षितं कैवल्यक्रौर्यातिशयनिदानभूतं तन्नित्यत्वं सुप्रतिष्ठितमेवेत्यास्तां विस्तरः ॥

इति कैवल्यशतदूषण्यां प्रथमभङ्गः