विश्वास-प्रस्तुतिः
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानून्य् आधाय-सव्येतरम् इतर-भुजं नाग-भोगे निधाय।
पश्चाद् बाहुद्वयेन प्रतिभटशमने धारयन् शंखचक्रे
देवी-भूषादि जुष्टो जनयतु जगतां शर्म वैकुण्ठनाथः॥
मूलम्
सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूषादिजुष्टो जनयतु जगतां शर्म वैकुण्ठनाथः ॥