गोपाल-देशिकः

विश्वास-प्रस्तुतिः

सत्यज्ञानानन्दस्वरूप!
अमल, वत्सल,
स्वामिन्, सुशील, सुलभ, सर्वज्ञ, सर्व-शक्ते,
परम-कारुणिक, कृतज्ञ, स्थिर,
परिपूर्ण, परमोदार,
शुद्ध-सत्त्वमय-दिव्य-मङ्गल-विग्रहोपेत श्रीमन्नारायण!

मूलम्

सत्यज्ञानानन्दस्वरूप अमलवत्सल स्वामिन् सुशील सुलभ सर्वज्ञ सर्वशक्ते परमकारुणिक कृतज्ञ स्थिर परिपूर्ण परमोदार शुद्धसत्त्वमयदिव्यमङ्गलविग्रहोपेत श्रीमन्नारायण

आह्निकार्थ-प्रकाशिका - वत्सलः

यत् तु

प्रपत्ति-प्रकरण-स्थ-वत्सल-शब्दः दोषभोग्यत्व-परः
समन्वयाधिकरण-श्रुत-प्रकाशिकायां वात्सल्यं दोषेष्व् अपि गुणत्व-बुद्धिः
यथा “मातुर् वत्सल” इति।(4)
व्यासार्यकृत-बृहद्-गद्य-भाष्ये ऽप्य् एवम् एवोक्तम् । गुणत्व-बुद्धिः = भोग्यत्व-बुद्धिः ।
दोषेषु भोग्यत्वाभावे तद्-बुद्धेः प्रमात्वायोगात्
दोषभोग्यत्व-सिद्धिर्

इति कैश्चिद् उक्तम् । तद् असारम् ।

[[159]]

उक्तव्यासार्यवचनम् अतिवाद-रूपम्
इत्य् आचार्य-पाद-कृत-पृथु-गद्य-भाष्ये ऽभिहितत्वात्

चण्डालमपि वृत्तस्थं
तं देवा ब्राह्मणं विदुः

इत्यादाव् अपि शब्दस्यातिवाद-लिङ्गत्वं सम्प्रतिपन्नम् ।
गुणत्व-बुद्धिर् इत्यत्र गुणत्व-पदस्य यथाश्रुतार्थ-स्वीकारो नोचितः -
दोषेषु गुणत्वाभावेन तद्-बुद्धेः भ्रमत्वापत्तेः ।
न हि सर्वज्ञे भगवति भ्रमाङ्गीकार उचितः ।

भोग्यत्वं न गुणत्व-पद-वाच्यम् - रूढौ कोशादि-मानाभावात्,
योगे व्याकरण-निरुक्त्य्-आद्य्-अभावात् ।

भगवद्गुणदर्पणे ‘वत्सरो वत्सलो वत्सी’त्य्-अत्र तत्-पदयोगार्थ एवं वर्णितः –

तत्र हेतुः वत्सलः- वत्सान् स्वोत्सुकान् कामयते इति । “वत्सांसाभ्यां कामबले” इति ‘लच्’ प्रत्ययः (अष्टा5.2.98) ।
स हि चिरपरुचीयमानेष्व् अपि शरणागतेषु
कस्यापि हेतोः सद्यः प्रसूतेष्व् इव वत्सेषु
सहुङ्कारास् सपयः-संस्नव-स्तन-वेदनाः कींकर्तव्यताऽऽकुला धेनव इव
संभ्राम्यति इति रावणेऽपि प्रसिद्धम् । “विदितः स हि घर्मज्ञः शरणागतवत्सलः” इति (राम.सु.20.20)।
तच्छील-भगवद्-उपकरणत्वात् +हि
प्रसिद्धस्यापि धर्मस्य ताच्छील्यम् ।। [नि-472. सर्वस्यान्तर्निवसने तस्य हेतुरथोच्यते । वत्से यतो धेनुरिव वत्सलः शरणागते ।।]

उदाहृत-सूत्र-वृत्तिर् एवं वैयाकरण-प्रदर्शिता ।

वत्साभ्याङ् कामबले आभ्यां लच् स्यात्
यथासंख्यं कामवति बलवति चार्थे वत्सलः अंसल इति ।
वत्स-शब्दस्य तर्णक-परत्वम् अभिप्रेत्य
भगवद्गुणदर्पणे तत्-पदं व्याख्यातम् ।
ततश् च तर्णक-विषयक–
धेनु-गत-काम-सदृश–
शरणागत-विषयक–कामनावान् भगवान् इति फलितम् ।
उपमान-विशेष-प्रदर्शनेन कामः स्नेह-रूपः ।
स च दोषानादर-हेतुः फलित इति । उक्तं हि शरण्येन

दोषो यद्यपि तस्य स्यात्
सताम् एतद् अगर्हितम्

इति ।
अत्र गोविन्दराजीय-चरम-व्याख्यानम् -

एतत् दुष्ट-शरणागत-परिग्रहः,
सतां सामान्य-विशेष-शास्त्र-विदाम्,
अगर्हितं = गर्हिताद् अन्यत्
पूजनीयम् इत्य् अर्थः ।

दुष्ट-जन-परिग्रहस्य शिष्ट-गर्हितत्वात्
शास्त्र-निन्दितत्वाच् चायुक्तम्

इत्याशङ्क्य
सत्यम् एतत् दुष्ट-जन-त्याज्यत्व-वचनं सामान्य-विषयम् ।
तस्माद् अपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्तीत्य्-एवम्-आदि-शरणागतापरित्याग-विषय-शास्त्रस्य सद्भावात्
दुष्टस्यापि शरणागतस्य सुरक्षणे शिष्ट-गर्हा नास्ति ।
प्रत्युत श्रेय एवेत्य् आह सताम् एतद् अगर्हितम् इति ।

[[160]]

भगवद्गुणदर्पणे, ‘अविज्ञाता सहस्रांशुर्’ इत्येतद्-व्याख्याने

ननु “आश्रितापराध-व्यतिरिक्त-सर्वज्ञ इति विप्रतिषिद्धम्”?
न, तद्-अपराधेषु +अतात्पर्येण +उपेक्षा हि अज्ञाने विवक्षिता । उपेक्षते हि तेषां दोषम्– “दोषो यद्यपि तस्य स्यात्” इति । (राम.यु. 28.3) “अपि चेत्सुदुराचारो भजते मामनन्यभाक्” इति ।। (गीता. 9.30)

इति भगवतः आश्रित-दोषे उपेक्षेत्य् उक्तम् ।
एवं च दोषाणां परित्याग-हेतुत्वोक्तिः
शरणागत-व्यतिरिक्त-विषयेति विषय-व्यवस्थेति गोविन्दराजोक्तेः
दोषेष्वपि गुणत्व-बुद्धिः परित्यागाहेतुत्व-बुद्धिर् इत्य् अर्थो ग्राह्यः ।
“परित्याग-हेतुत्वेन दोषादराभाव” इति फलितम् ।

श्रीवत्साङ्क-श्रीमन्नारायणमुनि-कृताष्टश्लोकी-व्याख्याने -

अत्र सौशील्यादयः पञ्च गुणाः
व्यासार्यैः शरणागति-गद्यभाष्ये निरूपिता

इत्युक्त्वा

वात्सल्यन् नाम दोषेष्व् अपि गुणत्वबुद्धिः
यथा सद्यःप्रसूताया धेनोर् वत्स

इति व्यासार्य-वाक्यम् उदाहृत्योक्तं ‘इदं च क्षमाकाष्ठारूपम्’ इति ।
‘மாலென்கோ’ इति द्रमिडोपनिषद्-वाक्यं
‘आश्रितवत्सल’ னென்று சொல்லுவனோ इति श्रीभाष्यकाराज्ञा-मूलक-द्रमिडोपनिषद्-भाष्य-षट्सहस्रिकायां विवृतम् ।
மால் என்கிற पदं न दोषभोग्यत्वार्थकम् ।
किन्तु स्नेहार्थकम् इति द्रमिडभाषाविदां प्रसिद्धम् ।
अत एव अन्तर्-अधिकरण-श्रुत-प्रकाशिकायां वात्सल्यं दोषानादरहेतुः स्रेहः यथा मातुः पुत्र इत्युक्तम् ।

वत्सरे कुटजे वत्सस्
सुतादौ तर्णके त्रिषु

इति नानार्थरत्नमालावाक्यात् वत्सपदं सुतपरम् इत्यभिप्रेत्य
यथा मातुः पुत्र इत्युक्तम् । भगवद्-गुणदर्पणे (कुत्र??) -

अथैवम् उत्सुकी-कृतेषु वात्सल्यतोऽप्य्
आनन्त्यं परम-तुङ्गम् आत्मानं
परम-निम्न-भव-पातालात् जीवान् आरोहयतो
महत्यारोहण-सोपान-पर्वानुपूर्वी अस्येति महाक्रमः -
यथा जननी स्तनन्धयम् आदौ स्तन्यं दापययति,
अथ दुग्धम्, अथाहारम्, अथ भोगान् गमयति।

इति वत्सपदस्य सुत-परत्वे स्नेहकार्यम् उदाहृतम् ।
अतो वात्सल्यं दोषभोग्यत्वम् इति कथनम् अमूलकम्,

[[161]]

शब्दव्युत्पत्ति-सम्प्रदाय-ग्रन्थ-विरुद्धं चेति बोध्यम् ।