विश्वास-प्रस्तुतिः
अत्यन्ताकिञ्चनो ऽहम् +++(इति कार्पण्यम्)+++,
इतस् त्वद्-आनुकूल्यम् एव करिष्ये +++(इत्य् आनुकूल्यसङ्कल्पः)+++।
त्वत्-प्राति-कूल्यं न करिष्ये +++(इति प्रातिकूल्य-वर्जनम्)+++।
त्वम् एवोपायान्तर-स्थाने स्थित्वा,
एतत्-क्षणोत्तर-कालीन–सायम्-अभिगमन-पर्यन्त–
कैङ्कर्योत्पादन-रूप-रक्षाम्
एतत्-कैङ्कर्याराध्यताऽभ्युपगम-द्वारेण करिष्यसीति
सुदृढम् अध्यवस्यामि +++(इति महाविश्वासः)+++।
त्वम् एवैतद्-रक्षां कुरुष्व +++(इति गोप्तृत्व-वरणम्)+++।
मूलम्
अत्यन्ताकिञ्चनोऽहमितस्त्वदानुकूल्यमेव करिष्ये, त्वत्प्रातिकूल्यं न करिष्ये, त्वमेवोपायान्तरस्थाने स्थित्वा, एतत्क्षणोत्तरकालीनसायमभिगमनपर्यन्तकैङ्कर्योत्पादनरूपरक्षां एतत्कैङ्कर्याराध्यताभ्युपगमद्वारेण करिष्यसीति सुदृढमध्यवस्यामि त्वमेवैतद्रक्षां कुरुष्व,