वन्दे श्री-रङ्ग-नाथार्यं
श्रीरङ्ग-पति-देशिकम् ।
श्री-वीर-राघवाचार्यं
वेङ्कटेश-महागुरुम् ॥
रामानुजम्, अनन्तार्यम्
ताताचार्य-पराङ्कुशौ।
वरदाहोबिल-महा-
दयाधीश-गुरूत्तमान्॥
श्रीमद्-वरद-विष्ण्व्-आर्यं
वात्स्यं वरद-देशिकम्।
ब्रह्म-तन्त्र-स्व-तन्त्रार्यम्
श्रीमद्-वेदान्त-देशिकम्॥
वादि-हंसाम्बु-वाहार्यं
रङ्ग-राज-गुरूत्तमम्।
रामानुजार्यम् आत्रेयं
प्रणतार्तिहरं गुरुम् ॥
श्रीमल्-लक्षमण-योगीन्द्रं
श्रीपूर्णं यामुनं मुनिम् ।
श्री-राम–पुण्डरीकाक्षौ
श्रीमन्नाथशठद्विषौ॥
सेनेश-लक्ष्मी–लक्ष्मीशान्
अपि येषां प्रसादतः।
रहस्यत्रयसारे मे
समुदञ्चति शेमुषी ॥
रहस्य-त्रय-सारः
विगाहे निगमान्तार्य- विष्णु-पाद-समुद्भवाम् ।
रहस्य-त्रय-साराख्यां
त्रिस्रोतसम् अकल्मषाम् ॥ ४३ ॥
अविज्ञातं विजानतां
विज्ञातम् अविजानताम् ।
रहस्य-त्रय-साराख्यं
परं ब्रह्मास्तु मे हृदि ॥ ४४ ॥
वेङ्कटनाथः
शीरॊन्ऱु तूप्पुल् तिरुवेङ्गडमुडैयान्
पारॊन्ऱच्चॊन्न पज़मॊज़ियुऴ् - ओरॊन्ऱु
ताने अमैयादो तारणियिल् वाऴ्वार्क्कु
वानेऱप् पोमऴवुम् वाऴ्वु ॥ ४५ ॥