पॆरिय्-आण्डवन् श्रीनिवास-देशिकः
श्री-रङ्गेश-पदे समर्पित-भरं श्रुत्य्-अन्त-रामानुज-
श्री-योगीन्द्र-गुरूत्तमेन यमिनश् श्रुत्य्-अन्त-विद्याऽऽत्मनः ।
प्राप्त-श्रुत्य्-अवतंस-युग्म-हृदयं श्री-वास-रामानुजात्
श्री-श्री-वास-मुनीन्द्र-देशिक-मणिं श्रेयो-निधिं संश्रये ॥ १० ॥
श्रीनिवास-रामानुज-यतिः
श्रीमद्-गोपाल-सूरेर् निरवधि-करुणावाप्त-सत्-संप्रदायं
श्रीमद्-वेदान्त-रामानुज-यति-नृपतिस् सर्वतः स्थापयित्वा ।
यस्मिन् सत्-संप्रदायं स-कलम् उपदिशन्न् अंशतो ऽनुप्रविष्टः
श्रीमच्-छ्री-वास-रामानुज-मुनिम् अनघं तं भजे देशिकेन्द्रम् ॥ ११ ॥
वऴुतूर्-आण्डवन्-वेदान्त-रामानुजः
गोपाल-देशिक-पदाब्ज-मधु-व्रतस्य
प्रज्ञा-विरक्ति-करुणा-मुख-सद्-गुणाब्धेः ।
वेदान्त-लक्ष्मण-मुनेः श्रित-भाग-धेयं
पादारविन्द-युगलं शरणं प्रपद्ये ॥ १२ ॥
तिरुक्कुडन्तै-गोपाल-देशिकः
श्री-कृष्ण-देशिक-पदाम्बुज-भृङ्ग-राजं
वेदान्त-लक्ष्मण-मुनीन्द्र-कृपात्त-बोधम् ।
त्रय्यन्त-देशिक-यतीन्द्र-शठारि-मूर्तिं
गोपाल-देशिक-शिखा-मणिम् आश्रयामः ॥ १३ ॥
साक्षात्-स्वामी वेदान्त-रामानुजः
श्री-रङ्ग-नाथ–गुरु-पाद–सरो-ज–हंसं
वेदान्त-देशिक–पदाम्बुज-भृङ्ग-राजम् ।
श्रीमद्-यतीन्द्र–शठ-कोप–दया-वलम्बं
वेदान्त-लक्ष्मण-मुनिं शरणं प्रपद्ये ॥ १४ ॥
रङ्गनाथः
कल्याणावहम् अस्माकं कारुण्य-कलशाम्बु-धेः ।
प्रपद्ये रङ्गनाथस्य
पद-पङ्क-ज-तल्लजम् ॥ १५ ॥
वीरराघवः
श्री-वीर-राघव-गुरोस् तनयं ततश् च
शारीरकादि समधीत्य समस्त-शास्त्रम् ।
विद्योतमानम् अनवद्य-गुणैक-तानं
श्री-रङ्ग-नाथ-गुरु-वर्यम् अहं प्रपद्ये ॥ १६ ॥
श्री-वेङ्कटेश-गुरुणा करुणाकरेण
श्रीशे समर्पित-भरं श्रित-पारिजातम् ।
श्री-रङ्ग-नाथ-गुरु-वीक्षण-लब्ध-बोधं
श्री-वीर-राघव-गुरुं शरणं प्रपद्ये ॥ १७ ॥
परवस्तु-वेङ्कटेशार्यः
वत्स-वंश-पयोधीन्दोः
कल्याण-गुण-वारिधेः ।
श्रीमतो वेङ्कटेशस्य
चरणौ शरणं भजे ॥ १८ ॥
रङ्ग-रामानुजः
श्रीमतो रङ्गनाथस्य
गुणैर् दास्यम् उपागतम् ।
रामानुजं द्वितीयं तम्
अद्वितीयम् उपास्महे ॥ १९ ॥
(येनोपनिषदाम् भाष्यं
रामानुज-मतानुगम्।
सम्यक् कृतम् प्रपद्ये मे??
रङ्गरामानुजम् मुनिम्॥)
वात्स्यानन्तः
श्री-तात-गुरु-सेवात्त-
वेदान्त-युगलाशयः ।
वात्स्यानन्त-गुरुः श्रीमान्
श्रेयसे मेऽस्तु भूयसे ॥ २० ॥
पञ्च-मत-भञ्जन-ताताचार्यः
श्रीशैल-पूर्ण-कुल–वारि-धि–पूर्ण-चन्द्रं
श्री-श्री-निवास–गुरु-वर्य–पदाब्ज-भृङ्गम् ।
श्रेयो-गुणाम्बु-निधिम् आश्रित-पारिजातं
श्री-तातयार्यम् अनघं शरणं प्रपद्ये ॥ २१ ॥
पराङ्कुश-मुनिः षष्ठाहोबिल-यतिः
श्रीमच्-छठारि-मुनि-पाद-सरो-ज-हंसं
श्रीमत्-पराङ्कुश-तपो-धन लब्ध-बोधम् ।
श्रीमन्-नृसिंह-वरदार्य–दयाऽवलम्बं
श्रीमत्-पराङ्कुश-मुनिं प्रणतोऽस्मि नित्यम् ॥ २२ ॥
अहोबिल-गुरुः
श्रीमद्-वरद-विष्ण्व्-आर्य–
पद-पङ्क-ज-षट्-पदम् ।
अहोबिल-गुरुं वन्दे
वत्स-वंशैक-मौक्तिकम् ॥ २३ ॥
नडादूर्-महा-दयाधीशः
महा-दया-धीशितुर् अम्बुजा-क्ष-
निध्यान-नित्याभिनिविष्ट-बुद्धेः ।
अ-ज्ञान-निग्राहकम् अञ्जसाऽहं
अस्मद्-गुरोर् अङ्घ्रि-युगं प्रपद्ये ॥ २४ ॥
नडादूर्-घटिक-शतक-चिन्नम्माळ् वरद-विष्णुः
महा-दयाधीश-गुरोस्
तनयं तत्त्व-विद्-वरम् ।
वन्दे वरद-विष्ण्व्-आर्यं
वात्सल्यादि गुणार्णवम् ॥ २५ ॥
नमो वरद-विष्ण्वार्य–
नयनानन्द-दायिने ।
वात्स्याय वरदार्याय
वादि-नीहार-भास्वते ॥ २६ ॥
ब्रह्म-तन्त्र-यतीन्द्रः
पर्याय-भाष्यकाराय
प्रणतार्तिं विधून्वते ।
ब्रह्म-तन्त्र-स्व-तन्त्राय
द्वितीय-ब्रह्मणे नमः ॥ २७ ॥
वेङ्कटनाथः
आत्रेय-रामानुजः आपुळ्ळार् किडाम्बिकुलः
यस्माद् अस्माभिर् एतद् यति-पति-कथित-प्राक्तन-प्रक्रियोद्यत्-
कर्म-ब्रह्मावमर्श-प्रभव-बहु-फलं सार्थम् अग्राहि शास्त्रम् ।
तं विष्वग्-भेद–विद्या–स्थिति-पद-विषय–स्थेय-भूतं प्रभूतं
वन्देयात्रेय-रामानुज-गुरुम् अनघं वादि-हंसाम्बु-वाहम् ॥ २९ ॥
किडाम्बि-रङ्गराजः / पद्म-नाभः
रामानुजार्य-तनयं रमणीय-वेषम्
आत्रेयम् आत्म-गुण-पूर्णम् अनर्घ-शीलम् ।
श्री-रङ्ग-राजम् इव तद्-दयया ऽवतीर्णं
श्री-रङ्ग-राज-गुरु-वर्यम् अहं प्रपद्ये ॥ ३० ॥
किडाम्बि-रामानुज आत्रेयः
आत्रेय-गोत्राम्बु-धि-पूर्ण-चन्द्रं
आचार-युक्तात्म-गुणोपपन्नम् ।
नतार्ति-हृद्-देशिक–रत्न-सूनुं
रामानुजार्यं गुरुम् आश्रयामः ॥ ३१ ॥
किडाम्बि-प्रणतार्तिहर आत्रेयः
आत्रेय-गोत्र-संभूतम्
आश्रये श्रित-वत्सलम् ।
यतीन्द्र-माहानसिकं
प्रणतार्ति-हरं गुरुम् ॥ ३२ ॥
रामानुजः
प्रणामं लक्ष्मण-मुनिः
प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत्-सूक्तिः
स्वाधीन-पतिकां श्रुतिम् ॥ ३३ ॥
महा-पूर्णः
दया-निघ्नं यतीन्द्रस्य
देशिकं पूर्णम् आश्रये ।
येन विश्व-सृजो विष्णोः
अपूर्यत मनोरथः ॥ ३४ ॥
यामुनः
विगाहे यामुनं तीर्थं
साधु-बृन्दा-वने स्थितम् ।
निरस्त-जिह्म-ग-स्पर्शे
यत्र कृष्णः कृतादरः ॥ ३५ ॥
राममिश्रः मणल्-काल्-नम्बिः
अनुज्झित-क्षमा-योगम्
अ-पुण्य-जन-बाधकम् ।
अ-स्पृष्ट-मद-रागं तं
रामं तुर्यम् उपास्महे ॥ ३६ ॥
उय्यक्कॊण्डर्-पुण्डरीकाक्षः
नमस्याम्य् अरविन्दाक्षं
नाथ-भावे व्यवस्थितम् ।
शुद्ध-सत्वमयं शौरेः
अवतारम् इवापरम् ॥ ३७ ॥
नाथमुनिः
नाथेन मुनिना तेन
भवेयं नाथवान् अहम् ।
यस्य नैगमिकं तत्त्वं
हस्तामलकतां गतम् ॥ ३८ ॥
शठकोपः
यस्य सारस्वत-स्रोतो-
वकुलामोद-वासितम् ।
श्रुतीनां विश्रमायालं
शठारिं तम् उपास्महे ॥ ३९ ॥
सेनेशः
वन्दे वैकुण्ठ-सेनान्यं
देवं सूत्रवती-सखम् ।
यद्-वेत्र-शिखर-स्पन्दे
विश्वम् एतद् व्यवस्थितम् ॥ ४० ॥
श्रीः
सह-धर्म-चरीं शौरेः
सम्मन्त्रित-जगद्+हिताम् ।
अनुग्रहमयीं वन्दे
नित्यम् अज्ञात-निग्रहाम् ॥ ४१ ॥
नारायणः
कम् अप्य् आद्यं गुरुं वन्दे
कमला-गृह-मेधिनम् ।
प्रवक्ता छन्दसां वक्ता
पञ्चरात्रस्य यस् स्वयम् ॥ ४२ ॥
रहस्य-त्रय-सारः
विगाहे निगमान्तार्य- विष्णु-पाद-समुद्भवाम् ।
रहस्य-त्रय-साराख्यां
त्रिस्रोतसम् अकल्मषाम् ॥ ४३ ॥
अविज्ञातं विजानतां
विज्ञातम् अविजानताम् ।
रहस्य-त्रय-साराख्यं
परं ब्रह्मास्तु मे हृदि ॥ ४४ ॥
वेङ्कटनाथः
शीरॊन्ऱु तूप्पुल् तिरुवेङ्गडमुडैयान्
पारॊन्ऱच्चॊन्न पज़मॊज़ियुऴ् - ओरॊन्ऱु
ताने अमैयादो तारणियिल् वाऴ्वार्क्कु
वानेऱप् पोमऴवुम् वाऴ्वु ॥ ४५ ॥
गोष्ठी-पूर्णः
वैशाखे रोहिणी-जातं
काश्यपान्वय-वारिधेः ।
इन्दुं श्रीपुण्डरीकांशं
गोष्ठी-पूर्णम् अहं भजे ॥ ४६ ॥