रहस्ये

श्रीनिवासगोपाल-महादेशिकः (பறவாக்கோட்டை சின்னாண்டவன்)

श्रीवासयोगियतिवर्यकृपात्तचिह्नं गोपालसूरिमुनिवर्यकृपात्तबोधम् ।
श्रीनारसिंहगुरुवर्यकृपात्तमन्त्रं श्रीवासगोपमुनिवर्यमहं प्रपद्ये ॥

रघुवीर-महादेशिकः

श्रीवासयोगिगुरुवर्यकृपात्तचिह्नं गोपालदेशिकयतेस्समवाप्तबोधम् । तत्पादपद्मविनिविष्टनिजात्मभारं भक्त्यादिपूर्णरघुवीरगुरुं प्रपद्ये ॥

गोपालदेशिक-महादेशिकः

श्रीवास रङ्गपरकाल मुनित्रयाप्त - लक्ष्मात्मरक्षणयतित्व युगागमान्तम् । आचार्यभक्तिपरिपूतमनर्घशीलं गोपालदेशिकमुनिं गुरुमाश्रयामः॥

श्रीनिवासदेशिकः

(விண்ணாற்றங்கரை ஆண்டவன்)

नारायणाख्ययतिराजपदाब्जभृङ्ग
श्रीवासयोगिगुरुणार्पितभारमीशे।
भक्त्यादिपूर्णवरदार्यकृपात्तचिह्नं
श्रीश्रीनिवासमुनिवर्यमहं प्रपद्ये ॥

रङ्गनाथमहादेशिकः

आद्य-श्री-निधि-योगि-लब्ध-मनुमच्-छ्री-वात्स्य-रामानुजात्
संप्राप्ताङ्कन-मन्त्र-जातम् अपर-श्री-वास-योगीश्वरात्।
प्राप्तान्त्याश्रम-वेद-मौलि-युगलं तेनार्पितं श्रीपतौ
ज्ञानाब्धिं सुगुणाकरं मुनिवरं श्रीरङ्गनाथं भजे ॥

श्रीनिवासमहादेशिकः

(பௌண்டரீகபுரம் ஆண்டவன்)

श्रीनारायण-योगीन्द्र-
वरदार्य-कृपाश्रयम्।
रङ्गेश-पाद-विनतं
श्री-निवास-मुनिं भजे ॥

नारायणमहादेशिकः

श्री-वास-योगीन्द्र-कृपात्त-बोधं
श्रीशैलरामानुजलब्धचिह्नम्।
वैराग्य-भक्त्य्-आदि-गुणैक-तानं
नारायणाख्यं मुनिमा श्रयामः॥