Source: TW
श्रीः श्रीमते रामानुजाय नमः॥ श्रीमते निगमान्तमहादेशिकाय नमः॥
श्रीमद्रहस्यत्रयसार पॆरिय तनियन्गऴ्
(आण्डवन् आश्रमम् तनियन्गऴ्)
श्रीमूष्णम्-चिन्नाण्डवन्
श्रीमद्-वेदान्त-रामानुज-यति-कृपया - रङ्गिणि न्यस्तभारं
तत्-सम्प्राप्तागमान्त-द्वितयम् अनुगणं
शिष्टतापूर्णम् अग्र्यम् ।
श्रेष्ठ-श्री-रङ्ग-रामानुज-मुनि-करुणा - लब्ध-मोक्षाश्रमं तं
सत्त्व-स्थं श्री-वराहं यति-वरम् अनघं देशिकं संश्रयामि ॥ १ ॥
श्रीमूष्णम्-पॆरिय्-आण्डवन्
वेदान्त-लक्ष्मण-मुनीन्द्र-कृपात्त-बोधम्
तत्-पाद-युग्म–सरसी-रुह–भृङ्ग-राजम् ।
त्रय्य्-अन्त-युग्म-कृत-भूरि-परिश्रमं तं
श्री-रङ्ग-लक्ष्मण-मुनिं शरणं प्रपद्ये ॥ २ ॥
मैसूर्-आण्डवन्
श्रीमच्-छ्री-वास-योगीश्वर-मुनि-करुणा–लब्ध-वेदान्त-युग्मं
श्रीमद्-वेदान्त-रामानुज-गुरु-पदयोर् अर्पित स्वात्म-भारम् ।
श्रीमच्-छ्रुत्य्-अन्त-रामानुज-यति-नृपतेः प्राप्त-मोक्षाश्रमं तं
श्री-मच्-छ्री-वास-रामानुज-मुनिम् अपरं संश्रये ज्ञान-वार्-धिम् ॥ ३ ॥
तिरुकुडन्तै आण्डवन्
श्रीमद्-वेदान्त-रामानुज-मुनि-करुणा-लब्ध-वेदान्त-युग्मं
श्री-मच्-छ्री-वास-योगीश्वर-गुरु-पदयोर् अर्पित-स्वात्म-भारम् ।
श्रीमच्-छ्री-रङ्ग-नाथाह्वय-मुनि-कृपया प्राप्त-मोक्षाश्रमं तं
श्रीमद्-वेदान्त-रामानुज-मुनिम् अपरं संश्रये देशिकेन्द्रम् ॥ ४ ॥
तॆन्बिरै-आण्डवन्
श्रीमद्-वेद-वतंस-लक्ष्मण-मुनेः प्राप्तागमान्त-द्वयं
तेन श्री-रघु-पुङ्गवाङ्घ्रि-युगले न्यस्तात्म-रक्षा-भरम् ।
श्रीमच्-छ्री-निधि-योगि-वर्य-करुणा–लब्धाब्ज-चक्राङ्कनं
वन्दे शान्ति-विरक्ति-पूर्णम् अनघं श्री-रङ्ग-नाथं गुरुम् ॥ ५ ॥
अक्कूर्-आण्डवन्
श्रीमद्-वेदान्त-रामानुज-यति-नृपतेर् लब्ध-वेदान्त-युग्मं
श्रीमद्-देवाधि-नेतुश् चरण-सरसि-जे तेन दत्तात्म-भारम् ।
श्रीमच्-छ्री-वास-योगीश्वर-महित-महा-संप्रदायैक-निष्ठं
वन्दे श्री-वास-योगीश्वर-गुरुम् अनघं वत्सलं भव्य-शीलम् ॥ ६ ॥
नम्माण्डवन्
श्रीमच्-छ्री-वास योगीश्वर-पद-विनतं लब्ध-वेदान्त-युग्मं
श्री-पादू-सेवि-रामानुज-मुनि-तिलकात् तत्-पद-न्यस्त-भारम् ।
श्रीमच्-छ्री-वास-रामावर-ज-मुनि-मणेर् लब्ध–मोक्षाश्रमं तं
श्रीमद्-वेदान्त-रामानुज-यति-नृपतिं संश्रये ज्ञान-वार्-धिम् ॥ ७ ॥
काडन्तेडि-आण्डवन्स्
श्रीमच्-छ्री-वास-योगि-प्रवर-स-करुणापाङ्ग-सङ्गाद् अभङ्गात्
वेदान्त-द्वन्द्व-विद्या-मधु-रस-लहरी-चञ्चरीकायमाणः ।
तेनाचार्येण रङ्ग-प्रभु-चरण-युगे दत्त-रक्षा-भर-श्रीः
श्रीमच्-छ्री-वास-रामावर-ज–मुनि-मणिस् सन्ततं श्रेयसे स्यात् ॥ ८ ॥
चिन्नाण्डवन्
श्रीमन्-नाथ-मुनीन्द्र-यामुन-मुनि–श्री-संयमीन्द्रात्मनः
श्री-श्री-वास-मुनीन्द्र-देशिक-मणेः प्राप्तागमान्त-द्वयम् ।
श्री-रङ्गेश-पदे तद्-अर्पित-भरं श्री-पादुका-सेवक–
श्री-रामानुज-योगिनं गुरु-वरं वन्दे दया-सागरम् ॥ ९ ॥