श्रीः श्रीमते रामानुजाय नमः श्रीमते निगमान्तमहादेशिकाय नमः ॥ श्रीसन्निधि-तनियन् श्लोकाः ॥
॥ श्रीसन्निधि तनियन् श्लोकाः ॥
नारायणः
कम् अप्य् आद्यं गुरुं वन्दे
कमला-गृह-मेधिनम् ।
प्रवक्ता छन्दसां वक्ता
पञ्चरात्रस्य यस् स्वयम् ॥
श्रीः
सहधर्मचरीं शौरेस्
संमन्त्रितजगद्धिताम् ।
अनुग्रहमयीं वन्दे
नित्यम् अज्ञातनिग्रहाम् ॥ २ ॥
सेनेशः
वन्दे वैकुण्ठ-सेनान्यं
देवं सूत्रवती-सखम् ।
यद्-वेत्र-शिखर-स्पन्दे
विश्वम् एतद् व्यवस्थितम् ॥
शठकोपः
यस्य सारस्वत-स्रोतो-
वकुलामोद-वासितम् ।
श्रुतीनां विश्रमायालं
शठारिं तम् उपास्महे ॥
नाथमुनिः
नाथेन मुनिना तेन
भवेयं नाथवान् अहम् ।
यस्य नैगमिकं तत्त्वं
हस्तामलकतां गतम् ॥
नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् ।
शुद्धसत्त्वमयं शौरेरवतारमिवापरम् ॥ ६ ॥
अनुज्झितक्षमायोगमपुण्यजनबाधकम् ।
अस्पृष्टमदरागं तं रामं तुर्यमुपास्महे ॥ ७ ॥
विगाहे यामुनं तीर्थं साधुबृन्दावने स्थितम् ।
निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥ ८ ॥
दयानिघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये ।
येन विश्वसृजो विष्णुरपूर्यत मनोरथः ॥ ९ ॥
यो नित्यमच्युतपदांबुजयुग्मरुक्म -
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १० ॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ ११ ॥
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ १२ ॥
नमो वेदान्तिवेद्याय
जगन्मङ्गलहेतवे ।
यस्य वागमृतासार-
पूरितं भुवनत्रयम् ॥ १३ ॥
वेदान्तिवेद्यामृतवारिराशेः
वेदार्थसारामृतपूरमग्र्यम् ।
आदाय वर्षन्तमहं प्रपद्ये
कारुण्यपूर्णं कलिवैरिदासम् ॥ १४ ॥
श्रीकृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसादप्रभावेन सर्वसिद्धिरभून्मम ॥ १५ ॥
श्रीकृष्णपादपादाब्जलोलुपं सद्गुणार्णवम् ।
श्रीरङ्गार्यमहं वन्दे द्रामिडाम्नायदेशिकम् ॥ १६ ॥
श्रीरङ्गार्यगुरोस्सूनुं धीशमादिगुणार्णवम् ।
केशवार्यमहं वन्दे द्रामिडाम्नायदेशिकम् ॥ १७ ॥
केशवार्यगुरोस्सूनुं धीशमादिगुणार्णवम् ।
श्रीनिवासगुरुं वन्दे द्रामिडाम्नायदेशिकम् ॥ १८ ॥
श्रीरङ्गराजदिव्याज्ञालब्धसाम्राज्यलाञ्छनम् ।
गुरुं द्रमिडवेदानां केशवार्यमुपास्महे ॥ १९ ॥
केशवार्यकृपापात्रं धीशमादिगुणार्णवम् ।
श्रीशठारियतीशानं देशिकेन्द्रमहं भजे ॥ २० ॥
प्रपद्ये निरवद्यानां निषद्यां गुणसंपदाम् ।
शरणं भवभीतानां शठकोपमुनीश्वरम् ॥ २१ ॥
श्री शठारियतीशान पदपङ्कजषट्पदम् ।
श्रीमन्नारायणमुनिं श्रये श्री भाष्यदेशिकम् ॥ २२ ॥
श्रीमन्नारायण मुनेः पद पङ्कजषट्पदम् ।
परार्द्ध्यगुणसंपन्नं पराङ्कुशमुनिं भजे ॥ २३ ॥
श्री पराङ्कुशयोगीन्द्र चरणांबुजषट्पदम् ।
श्रीनिवासमुनिं वन्दे श्रीभाष्यामृतसागरम् ॥ २४ ॥
श्रीनृसिंह दयापात्रं परवादिगजाङ्कुशम् ।
सर्वतन्त्रस्वतन्त्रार्यं शठकोपमुनिं भजे ॥ २५ ॥
श्रीमच्छठारि मुनिपाद सरोजहंसं
श्रीमत्पराङ्कुश तपोधन लब्धबोधम् ।
श्रीमन् नृसिंह वरदार्य दयावलम्बं
श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ २६ ॥
श्रीपराङ्कुशयोगीन्द्र चरणाबुजशेखरम् ।
समस्तशास्त्रपारीणं शठकोपमुनिं भजे ॥ २७ ॥
शठकोपयतिश्रेष्ठ पदपङ्कजषट्पदम् ।
सर्वशास्त्रार्थतत्त्वज्ञं पराङ्कुशमुनिं भजे ॥ २८ ॥
शठारिनारायणसंयमीन्द्र
पराङ्कुश श्रीनिधि वण्शठारीन् ।
पराङ्कुश श्रीशठकोपयोगि
पराङ्कुशांश्चादिगुरून् भजामः ॥
श्रीमन् नृसिंहवरद पराङ्कुश कृपाश्रयम् ।
श्रीमन्नारायणमुनिं श्रये श्रीभाष्यदेशिकम् ॥ २९ ॥
वरदार्यगुरूत्तंस चरणाम्बुजषट्पदम् ।
शठकोपमुनिं वन्दे शठारिप्रवणं सदा ॥ ३० ॥
पराङ्कुश शठाराति पदाम्बोजैक धारकम् ।
श्रीनिवासमुनिं वन्दे मादृशामपि तारकम् ॥ ३१ ॥
श्रीपराङ्कुश योगीन्द्र श्रीनिवासपदाश्रयम् ।
श्रीमन्नारायणमुनिं वन्दे वेदान्तदेशिकम् ॥ ३२ ॥
श्रीमन्नारायणमुनेः पदपङ्कजहंसकम् ।
वीरराघवयोगीन्द्रं वन्दे वरगुणाकरम् ॥ ३३ ॥
प्रणम्य नारायण वण्शठद्विषद् -
रमानिवासाननघान् मुनीश्वरान् ।
नमामि नारायणयोगितल्लजं
तदादिमं वीररघूद्वहं गुरुम् ॥
श्री वीरराघवमुनेर्वरिवस्यैक जीवनम् ।
समाश्रयेमहि श्रीमन्नारायण मुनीश्वरम् ॥ ३४ ॥
श्रीनारायण योगीन्द्र पदाम्बोजैक जीवनम् ।
भजे श्रीरङ्गकल्याण वीरराघव योगिनम् ॥ ३५ ॥
कल्याणराघवमुनेः कृपापात्रं दयानिधिम् ।
सर्वशास्त्रार्थ तत्त्वज्ञं शठकोपमुनिं भजे ॥ ३६ ॥
श्रीमन्नारायणमुनिं श्रीशठारिपदाश्रयम् ।
श्री वीरराघवमुनिं वन्दे वेदान्तदेशिकम् ॥ ३७ ॥
वीरराघव वेदान्त मुनिवर्य पदाश्रयम् ।
श्रीमन्नारायणमुनिं श्रये श्रीभाष्यदेशिकम् ॥ ३८ ॥
श्रीमन्नारायण मुनेः पदपद्मसमाश्रयम् ।
श्रीनिवासमुनिं वन्दे वेदान्तद्वयदेशिकम् ॥ ३९ ॥
श्रीनिवास मुनिश्रेष्ठाल्लब्धवेदान्तसंपदम् ।
श्री वीरराघवमुनिं कल्याणगुणमाश्रये ॥ ४० ॥
वेदान्तोत्तर वीरराघव मुनेर्नारायण श्रीनिधि -
श्रीमद्वीररघूद्वहाख्य यमिनां कल्याणवीक्षास्पदम् ।
विज्ञातोभय वेदमौलिहृदयं विद्वच्छिरोभूषणं
वन्देयानुदिनं पराङ्कुशमुनिं
वैराग्यभक्त्यन्वितम् ॥ ४१ ॥
विद्याम्बोधि पराङ्कुशाख्य मुनिराडङ्घ्रिद्वयीसंश्रितं
त्रय्यन्तामृत वर्षिणं तनुभृतां त्राणाय जातोदयम् ।
क्षोण्यां ख्यातसमस्ततन्त्रकुशलं व्याख्यातृताशालिनं
श्रीनारायण योगिवर्यं अनिशं कारुण्यपूर्णं भजे ॥ ४२ ॥
वीरराघव वेदान्त नारायण पदाश्रयम् ।
श्रीवीरराघवमुनिं संश्रये श्रितवत्सलम् ॥ ४३ ॥
श्रीवीरराघवमुनिं श्रुतिमौलिसूरि - श्रीमत्पदाम्बुज समाश्रय लब्धसत्त्वम् ।
श्रीवीरराघवमुनीन्द्र कृपावलम्बं श्रीमत्पराङ्कुश यतीन्द्र मुनिं भजामः ॥ ४४ ॥
श्री नारायण कल्याणवीरराघवयोगिनौ ।
शठजिद् वीररघुराट् वेदमौलिमुनीश्वरौ ॥
नारायण श्रीनिवास वीरराघवयोगिनः ।
पराङ्कुशमुनि श्रीमन्नारायणमुनीश्वरौ ॥
वीरराघवयोगीन्द्रं वीतरागशिखामणिम् ।
पराङ्कुशयतीशानमुनिं चानिशमाश्रये ॥
श्रीवासवीररघुवर्यपराङ्कुशादि
रामानुजार्यमुनिभिर्गुरुसार्वभौमैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं
श्रीश्रीनिवासयतिशेखरमाश्रयामः ॥ ४५ ॥
श्रीवीरराघव यतीन्द्र पराङ्कुशादि
रामानुजार्यकमलानिधि योगिवर्यैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं
श्रीरङ्गनाथयतिशेखरमाश्रयामः ॥ ४६ ॥
श्रीश्रीनिवासयतिशेखरलब्धबोधं
श्रीरङ्गनाथयतिधुर्यपदाब्जभृङ्गम् ।
श्रीवीरराघवमुनिश्रुतिमौलिसूरिं
श्रीनाथभक्तिभरिताशयमाश्रयामः ॥ ४७ ॥
श्रीवासरङ्गपतिवीररघूद्वहादी
वेदान्तसंयमिवरैर्गुरुसार्वभौमैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं
श्रीरङ्गनाथशठकोपमुनिं भजामः ॥ ४८ ॥
विद्यांभोधिपराङ्कुशाख्ययतिराट् श्रीवासरङ्गाधिप -
श्रीमद्वीररघूद्वहश्रुतिशिरो योगीश्वरैरन्वहम् ।
रङ्गाधीशशठारिसंयमिवरैश्चालोकितं सादरं
विद्यावारिनिधिं पराङ्कुशयतीन्द्राख्यं मुनीन्द्रं
भजे ॥ ४९ ॥
श्रीवासरङ्गपतिवीररघूद्वहादि -
वेदान्तदेशिकपराङ्कुशलक्ष्मणार्यैः ।
संप्रेक्षितं करुणयापरिपूर्णबोधं
श्रीश्रीनिवासनिगमान्तगुरुं भजामः ॥ ५० ॥
श्रीरङ्गनाथयतिवर्यकृपात्तबोधं
श्रीवासवेदशिखरार्यदयावलंबम् ।
वैराग्यभक्तिमुखसद्गुणसागरं श्री -
नारायणश्रुतिशिरोगुरुमाश्रयामः ॥ ५१ ॥
श्रीवासरङ्गपतिवीररघूद्वहादि
वेदान्तमानिलयवेदशिरोयतीन्द्रैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं
श्रीवीरराघवयतीन्द्रगुरुं भजामः ॥ ५२ ॥
श्रीरङ्गनाथशठकोपयतीन्द्रपाद -
पङ्केरुहप्रवणचित्तमुदारबोधम् ।
श्रीवीरराघवयतीन्द्रकृपावलम्बं
श्रीमच्छठारियतिवर्यगुरुं भजामः ॥ ५३ ॥
श्रीमद्वीररघूद्वहश्रुतिशिरोरङ्गेशकार्यात्मज - श्रीवासश्रुतिमौलियोगिशठजिद्योगीशवीक्षास्पदम् ।
विख्यातं शमधीदमादिसुगुणैराढ्यं विपश्चित्तमं वन्दे श्रीशठकोपलक्ष्मणमुनिं वैराग्यवाराकरम् ॥ ५४ ॥
श्रीमच्छ्रीवीररघ्वीट्श्रुतिमकुटगुरू -
त्तंसपादाब्जभृङ्गं
श्रीमच्छ्रीरङ्गभूभृच्छठमथनगुरो -
र्लब्धवेदान्तयुग्मम् ।
श्रीमन्नारायणाद्यश्रुतिशिखरशठा -
रातिरामानुजार्य -
प्रेक्षापात्रं भजामो गुरुवरमनघं
रङ्गनाथं यतीन्द्रम् ॥ ५५ ॥
श्रीनारायणवेदमौलियतिराट् पादारविन्दाश्रयं
ख्यातश्रीशठकोपदेशिकमणेर्लब्धागमान्तद्वयम् ।
श्रीमद्रङ्गधुरीणयोगिचरणन्यस्तात्मरक्षाभरं
सेवे श्रीनिधियोगिवर्यमनघं निर्बाधबोधोदयम् ॥ ५६ ॥
अस्त्यत्त्रैको विशेषो बुध इति शठजिल् -
लक्ष्मणाभ्यां मुनिभ्यां
एकीभूयोदिताभ्यामिव निरुपधिकं
सादरं सद्गुरुभ्याम् ।
वेदान्तद्वन्द्वमन्त्रत्रयविवृतिमुखे
शिक्षितं क्षान्तिमुख्यैः
आढ्यं श्रीवीररघ्वीट् शठमथनगुरुं
सम्यमीन्द्रं भजामि ॥ ५७ ॥
श्रीमच्छठारिशठजिद्यतिधुर्यवीर - रघ्वीट्शठारियतिशेखरदेशिकेन्द्रैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं श्री श्रीनिवासशठकोपमुनिं भजामः ॥ ५८ ॥
श्रीवीरराघवयतीन्द्रपदाब्जभृङ्गं
श्रीमच्छठारियतिवर्यकृपात्तबोधम् ।
श्रीश्रीनिवासशठजिद्यतिधुर्यवीक्षा -
पात्रं पराङ्कुशयतीन्द्रगुरुं भजामः ॥ ५९ ॥
श्रीमच्छठारियतिशेखरलब्धबोधं
श्रीरङ्गनाथयतिधुर्यकृपैकपात्रम् ।
श्रीमत्पराङ्कुशयतीन्द्रदयावलम्बं
श्रीरङ्गनाथशठकोपमुनिं भजामः ॥ ६० ॥
श्रीमच्छठारिशठकोपयतीन्द्ररङ्गि -
कार्यात्मजातमुनिभिर्गुरुसार्वभौमैः ।
संप्रेक्षितं करुणया परिपूर्णबोधं
लक्ष्मीनृसिंहशठकोपमुनिं भजामः ॥ ६१ ॥
श्रीरङ्गेशयतीन्दुना करुणयाऽसौ स्यादिति प्रेक्षितं
ख्यातश्रीनरसिंहकारिजमुनीट्पादांबुजेन्दिन्दिरम् ।
दान्तिक्षान्तिदयादिभिः शुभगुणैर्भान्तं बुधाग्रेसरं
श्रीमद्रङ्गशठारियोगिनृपतिं श्रेयोनिधिं संश्रये ॥ ६२ ॥
श्रीमच्छ्रीरङ्गपृथ्वीश्वरशठरिपुणा संयमीन्द्रेण दृष्टं
न्यस्तात्मानं नृसिंहे नरहरिशठजिद्योगिनेतुः प्रसादात् ।
प्राज्ञश्रीरङ्गकारिप्रभवयतिपतेः प्राप्तलक्ष्मीनृसिंहा -
स्थानं सेवे यतीन्द्रं सकलगुणनिधिं वीररघ्वीट्
शठारिम् ॥ ६३ ॥
श्रीरङ्गनाथशठकोपयतीन्द्रदृष्टं
लक्ष्मीनृसिंहशठजित्करुणैकपात्रम् ।
श्रीरङ्गवीररघुराट्शठकोपहृद्यं
वेदान्तदेशिकयतीन्द्रमहं प्रपद्ये ॥ ६४ ॥
श्रीमद्रङ्गशठारि संयमिवराल्लब्धागमान्तद्वयम्
श्रीमद्वीररघूद्वहाद्यशठजित्पादारविन्दाश्रयम् ।
श्रीमद्वेदवतंसदेशिकयतेः कारुण्यवीक्षास्पदम्
सेवे रङ्गधुरीणशासनवशं नारायणं योगिनम् ॥ ६५ ॥
वेदान्त देशिक यतीन्द्र कटाक्षलब्ध
त्रय्यन्त सारमनवद्य गुणं बुधाग्र्यम् ।
नारायणाद्य यतिधुर्य कृपाभिषिक्तम्
श्रीरङ्गनाथ यतिशेखरमाश्रयाम ॥ ६६ ॥
॥ इति श्रीसन्निधि तनियन् श्लोकाः समाप्ताः ॥