लोकाचार्य-शाखा

अस्मद्-देशिकम् अस्मदीयपरमाचार्यान् अशेषान् गुरून्
श्रीमल्-लक्ष्मण-योगि-पुङ्गव–महापूर्णौ, मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणं
सेनेशं श्रियम् इन्दिरा-सहचरं नारायणं संश्रये ॥

श्रीमद्वेङ्कटदेशिकेशवरदश्रीवेङ्कटेशार्यतत्-
तातान् तत्पितृवेङ्कटार्यवरदान् कान्तोपयन्तॄनपि।
श्रीशैलेश्वरलोकदेशिकगुरून् श्रीकृष्णपादं सदा
वन्देऽहं कलिवैरिदासनिंगमान्ताचार्यभट्टारकान् ॥२॥

गोविन्दरामानुजपूर्णमिश्रश्रीयामुनश्रीरघुपुङ्गवार्यान् ।
पद्माक्षनाथार्यपराङ्कुशांश्च श्रयामि सेनेशरमामुकुन्दान् ॥३॥

वाधूलाब्धिसरोजसौम्यविकसद्रङ्गार्यदौहित्रकं
श्रीमत्कोविदश्रीनिवासतनयं सौशील्यभूषाऽन्वितम् ।
श्रीमद्वेङ्कटयोगिराजचरणे न्यस्तात्मभावं मुदा
श्रीरङ्गार्यगुरुं भजामि सततं कारुण्यवारां निधिम् ॥४॥

श्रीमद्वाधूलवंशामृतजलधिविधुं रङ्गराजार्यसूरेः
पौत्रं श्रीश्रीनिवासाह्वयगुरुतनयं तत्पदाम्भोजभृङ्गम् ।
श्रीमच्छ्रीशैलरामावरजयतिपतेः पादपाथोजसक्तं
श्रीरङ्गार्यं गुरूणां गुरुमहमनिशं शान्तचित्तं भजामि ॥ ५ ॥

वाधूलवंशकलशाम्बुधिशीतभानुं
श्रीरङ्गराजगुरुवर्यतनूजरत्नम्।
तत्पाददिव्यसरसीरुहचञ्चरीकं
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ॥ ६ ॥

वाधूलवंशकलशाम्बुधिपूर्णचन्द्र-
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम्।
श्रीवाससूरितनयं विनयोज्ज्वलन्तं
श्रीरङ्गदेशिकमहं शरणं प्रपद्ये ॥ ७ ॥