[[TODO - proofread]]
11 : 11 श्रीमते भगवद्रामानुजाय नमः SRI PADUKAMANDIRAM SERIAL NO 1. श्री भार्गवे उपपुराणे उत्तरखण्डे नरनारायणसंवादे श्री यतिराजोपाख्यानम् नाम ** श्री भगवद्रामानुजमुनिचरित्रम् * श्री यतिराजाष्टोत्तरशतनामस्तोत्र नामावलिसहितम् , इन श्रीमद हो विलमठदिव्यास्थाने ४३ तमे पट्टे विद्योतमान श्रीवशठकोप श्री वीरराघवशठकोपयतीन्द्र महादेशिक चरणाश्रिटेन कोर्यपुत्तर १५३, राजवीथित्रासिना श्री भगवदामानुजसिद्धान्ताभिवृद्धिकार्यालयाध्यक्षेण तृप्पुल, एस्. एस्. श्रीनिवास अय्यङ्गार महाशदन, कोयंपुत्तूर १, आन्ध्रत्राह्मणवीथिवासिना कार्यदर्शिना प्रपन्नाङ्घ्रिरेणुना श्रीपादुकादासेन इळयवल्ली श्रीनिवासाचार्येण च “प्रकाशितम् 1955 मूल्यम् रूप्यमेकम किंगृहपुरीस्थ श्री मालोलमुद्रालये मुद्रितम् MERENDA XRC3C12HORICHCHERCHCHEKERERER Scanned with OKEN Scanner 11: ॥ विजयतां श्री भगवद्रामानुजश्रीः ॥ ॥ श्री श्री गुरुपो नमः ॥ HUMBLE REQUEST TO ASTHIKAS Dear Sirs, नरनारायणप्रोक्तनित्यनूरिजवैभवम् । यथा स्यात् सर्वविदितं तथा कुर्वन्तु धार्मिकाः ॥ The rich Dharmikas are requested to please donate for the publication, of and the Vidwath Dharmikas are requested to kindly preach the Nityasuri Incornating Azhwars’ and Acharyas❜ and 108 Vishnu shrines’ vaibhavams revealed by thefamous Sri Badrinath Narayana to Nara in Bargavo tarapuranam [being published], as the same may be known to all. yours faithfully, Sri Bhagavath Ramanuja siddhantha Abhivriddhi Karyalaya Committee. Treasurer:- SRI PADUKAMANDIRAM, PRAPANNANGRIRENUHU, President:- THOOPPUL, ELAYAVALLI, G. SRINIVASACHARIAR. M. S. SRINIVASA IYANGAR, 1, Teluegu Brahmin st, Coimbatore. Vakil. 153, Raja st, Coimbatore. Donations may be kindly sent to either of the above. Scanned with OKEN Scanner श्रीः SRI BAGAVADH RAMANUJA SIDDANTHA ABHIVRIDDI KARYALAYAM NO 1, TELUGU BRAHMIN St, COIMBATORE, SRI PADUKA MANDIRAM, SERIAL NO 2. [Published] Price Re One only. १ श्री शठारिमुनि सार्वभौमोपाख्यानम् २ श्री मधुरकविमुनिमुख्योपाख्यानम् ३ श्री वराहकवचस्तवरक्षाः ४ श्री भृवराहाष्टोत्तरशतनामस्तवः, नामावलिसहितः Scanned with OKEN Scanner Foreword by Sri Ubha, Mimamsarnava, Mimamsakesari, Panditha Raja, D. T. TATACHARYA Swami, M. O. L. Tirupathi
I do not know what made Sri Paduka Mandiram, Prapannanghrirenu, Ubhaya Vedan- ta Vidvan, Elayavalli G. Srinivasachariar of Coimbatore ask me to write a foreword to this book on Bhagavad Ramanuja, there being a number of scholarly gentlemen better in every respect and more competent than me. His devotion to our Siddhanta and great Acharyas however is such that I cannot but carry out his bidding. The book contains five chapters of a Bhar- gava Upapurana, 34-38, which give a short account of the life of the greatest of our Achar- yas, Bhagavad Ramanuja, the revered Sri Bash- yakara. From the fragments made available to me of this Upapurana in grantha characters which should have been printed many decades ago, it appears that a portion of it is devoted to telling the story of the great Vaishnava saints of the south called Azhvars, and Acharyas. For obvious reasons we cannot think of discussing or endeavouring to ascertain the authenticity and age of this Upapurana. What is really of Scanned with OKEN Scanner 2 importance is the purpose it is intended to serve and from that point of view there is no doubt that the work has its own worth and value. Sri Elayavalli Srinivasachariar is now publishing only the part of it which concerns Bhagavad Ramanuja. Sri Srinivasachariar has done well in pub- lishing the book in Devanagari characters, since otherwise none except a few in Tamil Nad could use it. Devotees of Sriman Narayana will find it very interesting to read the praises of Sri Ramanuja Ashtottara sata na mavali both in the form of verses and that of ARCHANA printed at the end adds to the usefulness of the book: As the pious gentleman, the publisher, is dedicating himself to do many and various KAINKARYAMS to Sampradaya it is hoped that the followers of the great Sri Vaishnava Achar- ya all over the country will purchase copies of this book and thus help and encourage him in realising the objects he has in view. I wish him all suceess. 1-1-1955 Tirupati } D. J. Tatacharya. egli aid Scanned with OKEN Scanner श्रीः श्रीमते भगवद्रामानुजाय नमः लक्ष्मीनाथसमारंभां नाथया मुनमध्यमाम् । अस्मदाचार्य पर्यन्तां वन्दे गुरुपरंपराम् ॥ अस्मदेशिकमस्मदीयपरमाचार्यानशेषान् गुरून् श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् । रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणं सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥ २ अक्षय्यशान्तिमकरन्दरसप्रसक्तानभ्यर्थये मधुजिदङ्घ्रिसरोजभृङ्गान् । कामं प्रसीदत यथाहमनन्यभावः कर्णामृतानि भवतामवतारयेयम् ।। यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो- रामानुजस्य चरणौ शरणं प्रपद्ये ॥ प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम् ॥ १ ४ Scanned with OKEN Scanner w चैत्राद्रसंभवं विष्णुदर्शन स्थापनोत्सुकम् । तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे ॥ जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेंलापूर्णचन्द्रो यतीन्द्रः ॥ Scanned with OKEN Scanner श्रीः श्रीमते भगवद्गामानुजाय नमः श्री भार्गवे उपपुराणे उत्तरखण्डे नरनारायणसंवादे यतिराजोपाख्यानं नाम
- श्री भगवद्रामानुजमुनिचरितम् * नर उवाच- सर्वेषां सूरिणां जन्म भूतले कथितं त्वया । शेषस्य शेषभूतस्य रूपभेदैई रेस्सदा ॥ कथितो नावतारस्तु नारायणमुनीश्वर ! | १ इति ब्रुवति मौनीशे नरे नारायणो हरिः || २ ३ कथामेतां प्रवक्तुं मे सन्तोषो जायते महान् । श्रुणुष्व सावधानं तां वक्ष्ये पुण्यकथामिमाम् ॥ नारायण उवाच- द्राविडे विषये दिव्ये सर्वभूतमनोहरे । पुण्ये पृथुपुरे रम्ये काञ्चया अनतिदूरगे || चैत्रे मासि शुभाद्रायां शुभलग्ने शुभे दिने । महासूर्यन्त्रये पुण्ये केशवस्य द्विजन्मनः ॥ वैष्णवस्याभवत्पुत्त्रोऽनन्तांशोऽनन्ततेजसा । अस्य रामानुज इति पिता नामाकरोन्मुदा ॥ 20 ४ که w Scanned with OKEN Scanner 2 स तु तेनोपनीतस्सन् पञ्चसंस्कारसंस्कृतः । अध्यगैष्टागमान् सर्वान् शास्त्राणि विविधानि च ।। ततः पिता स तं दृष्ट्वा समुपस्थितयौवनम् । कृत्वा विवाह विधिना सुमोद सह बान्धवैः ॥ ततो रामानुजः प्राज्ञो गत्वा काञ्चीपुरोत्तमम् । वरदं सर्वलोकेश कोटिसूर्यसमप्रभम् ॥ नीलमेघनिभश्यामं दिव्यपीताम्बरोज्वलम् । चतुर्भुजं सुन्दराङ्गं वनमालाविराजितम् || श्रीवत्सकौस्तुभोरस्कं दिव्यचन्दनलेपितम् । सुप्रसन्नमुखाम्भोजं नलिनायतलोचनम् ॥ ७ ८ ९ १० १२ हारकेयूरमकुटकुण्डलाङ्गदशोभितम् । शङ्खचक्रधरं लक्ष्मीभूमिनीलादिसंयुतम् ॥ १२ परिषद्भिरनन्ताद्यैस्सूरिभिः परिसेवितम् । सुरेशैर्ब्रह्मरुद्राद्यैस्सनकाद्यैश्च सेवितम् ॥ १३ दृष्ट्वा प्रहृष्टमनसा हर्षपर्याकुलेक्षणः । प्रणम्य स्तोत्रयामास संस्तत्रैर्निगमोक्तिभिः ॥ १४ हस्तिशैलेशप्रपत्तिस्तवः प्रपद्ये हस्तिशैलेश श्रीमन्नारायण प्रभो । चरणौ सर्वलोकानां शरण्यौ शरणतव || १५ Scanned with OKEN Scanner 3 नमो विश्वशरीराय नम आत्मेश्वराय च । विभूतिद्वयनाथाय नमस्ते सर्वशेषिणे ॥ नमस्समदृशे तुभ्यं लोकभर्ते नमोस्तु ते ॥ सर्वभोक्त्रे नमस्तुभ्यं धर्मिणे ते नमो नमः ॥ यस्त्वं समस्तजगतां रक्षकोऽसि सतां पते । पञ्चविंशतितत्वानि हेतूनि जगतां प्रभो ॥ अस्त्रभूषणरूपाणि धृतवानसि माधव । परं ज्योतिः परं ब्रह्म परमात्मा परात्परः | सहस्रमूर्धा विश्वात्मा सहस्राक्षस्सहस्रपात् 1 नित्यस्सर्वगतो यज्ञो यज्ञेशो यज्ञभुग्विभुः ॥ अच्युत शाश्वतः कृष्णो लोकह ल्लोकभृत् गुरुः । सर्वलोकाधिपश्श्रीमान् कल्याणगुणसागरः अकारवाच्यस्त्वं देव श्रीभूनीलाधिप प्रभो । त्वमेव विश्वतो वृत्वा अत्यतिष्ठद्दशांगुलम् || उतामृतत्वस्येशानस्त्वमेव पुरुषोत्तम । त्वमेव व्यापको मन्त्रः वासुदेवस्सनातनः ॥ आदिमध्यान्तरहितः शुद्धसात्विकविग्रहः । वेदवेदान्तमृग्यस्त्वं वेदवेदान्तकृद्विभुः ॥ १६ १७ १८ १९ २० २१ २२ २६ २४ Scanned with OKEN Scanner4 त्वमेव सर्वभूतात्मा सर्वभूताश्रयः परः । अव्यक्तस्त्वममेयस्त्वं सर्गस्थित्यन्तकारणम् ।। · २५ त्वमेव पङ्गणाधीश स्सर्वसाक्षी च सर्वगः । चतुःपञ्चनवव्यूह भेदरूपस्त्वमेव हि ॥ नित्यशुद्धोऽविकारस्त्वं हेयप्रतिभटो हरिः । त्वमेव चिदचिन्नाथः त्वच्छरीरमिदं जगत् ॥ त्वमेवसर्वजीवानां प्रेरकस्सर्वकर्मसु । त्वत्कटाक्षवशाल्लोका गच्छन्ति परमां गतिम् ॥ त्वयी संस्थिता लोकास्त्वया चैव प्रवर्तिताः । त्वय्येव परिलीयन्ते त्वय्येवान्तरिताः पुनः || प्राप्यस्त्वं प्रापकश्चासि सर्वेषां सर्वपालकः । २६ २७ २८ २९ पराभीष्टप्रदस्त्वं हि भक्तानामात्मदो ह्यसि ॥ ३० सर्वलोकशरण्यस्त्वं प्रपन्नानां महात्मनाम् । विधूय सर्वपापानि ददासि परमं पदम् ॥ ३१ ये वा त्वयि न्यस्तभरास्सन्यस्तात्मीयलक्षणाः । भवान् तेषामधीनोऽसि शरणागतवत्सल ।। ३२ त्वमेव सर्वलोकानामुपायोपेयपालकः । त्वमेव धाता गोप्तासि त्वदन्यो न भवेत्प्रभुः ॥ ३३ Scanned with OKEN Scanner 5 प्रसीद प्रसीद प्रभो देवराज प्रसीद प्रसीद प्रपञ्चाधिनाथ | प्रसीद प्रसीद प्रपन्नावनेश प्रपद्ये प्रपद्ये पदाब्जे हृदजे ॥
एवं स्तुत्वा देवदेवं रामानुजमुनीश्वरः । वरदं सर्वलोकेशं तत्रावासमथाकरोत् || तत्र वेदान्तसच्छास्त्रमध्येतुं यादवाभिधम् । संप्राप्य तस्माद्वेदान्तमधिकुर्वन् महामुनिः ॥ 景 ३५ ३६ तस्थौ श्रीहस्तिशैलेश सेवमानश्च सर्वदा । तदा. चोलनराधीशपुत्रिकां ब्रह्मराक्षसः ॥ ३७ सङ्गम्यमन्त्रतन्त्रैश्च न शक्योऽभून्निवारितुम् । ३८ ‘ततो राजसमाहूतो यादवस्सहलक्ष्मणः || सर्वैश्च शिष्यैस्सहितो ययौ राजपुरीं प्रति । तां दृष्ट्वा राक्षसग्रस्तां भिक्षुकस्सर्वमन्त्रवित् ॥ उग्र वीजाक्षरयुतमजपन्मन्त्रमुत्तमम् । तं ब्रह्मराक्षसो दृष्ट्वा यादवं यतिसत्तमम् ॥ निरासयन्नुवाचेदं वाक्यं निखिलजन्मवित् । ३९ ४० श्रीवेङ्कटाद्रियात्रायै गच्छद्भिर्मनुजैस्सदा ॥ ४१ सङ्कीर्णेऽध्वनि सर्वत्र वेतालैस्सुमनोहरे । तटाकप्रान्तवल्मीके गोधा त्वं पूर्वजन्मनि ॥ ४२ Scanned with OKEN Scanner 6 पथिकानां वैष्णवानां भुक्तशेषान्न भोजनात् । ईदृशं रूपमगमः मजन्म शृणु भिक्षुक || मयि पूर्वं याजकत्वं प्रकुर्वति महाध्वरे । मन्त्रलोपवशाद्ब्रह्मराक्षसत्वमुपागतः ॥ ईदृशेन त्वया भिक्षो न शक्योऽहं निवारितुम् । सर्वचेतनरक्षार्थमवतीर्णं दयानिधिम् ॥ नान्यः पुमान् समर्थस्स्यान्मज्जन्मेदं निवारितुम् । एनं शेषांशसंभूतं रामानुजमुनिं विना ॥ त्यक्त्वाहं जन्म गच्छेयमयमाज्ञां ददाति चेत् । इत्युक्त्वा लक्ष्मणमुनेः पपात पदपद्मयोः || यादवाख्येन विप्रेण प्रार्थितो लक्ष्मणो सुनिः । ददावनुज्ञां गच्छेति मुक्तिं त्यक्त्वा त्विमां तनुम् || इत्युक्तं लक्ष्मणमुनौ तां त्यक्त्वा राक्षसीं तनुम् प्रथमं वैष्णवं लोकं सर्वेषां पश्यतां ययौ || संपूजितस्ततो राज्ञा लक्ष्मण सह यादवः । ४३ ४४ ४५ ४६ ४७ ४९ पुनः काञ्चीमुपागम्य श्रुत्यर्थापार्थवादिनम् ॥ यादवं तं परित्यज्य प्रणमन् वरदं सदा । सर्वोपचारैर्ललितैस्तस्थौ रामानुजो मुनिः ॥ [इति श्री भगवद्रामानुजमुनिचरिते प्रथमोऽध्यायः ] ५० ५१ Scanned with OKEN Scanner अथ श्रीभगवद्रामानुजमुनिचरिते द्वितीयोऽध्यायः नारायण उवाच- ततः काले गते तस्मिन् लक्ष्मणार्यो महामुनिः । महापूर्णसुनेरङ्घ्रियुग्मं तत्समुपाश्रयत् ॥ नर उवाच महापूर्णमुनिः कोनु कस्यांशः कोनु तद्गुरुः । एतत्सर्वम्ममाचक्ष्व नारायण कृपानिधे ॥ नारायण उवाच- नाथमुन्यादिवैभवम् पुरा नारायणग्रामे कावेरीतटसंस्थिते । ईश्वरार्य इति ख्यातो भूसुरो वैष्णवोऽभवत् ॥ तस्य पुत्रो महान् जज्ञे विष्वक्सेनस्य मन्त्रिणः । गजांशस्यांशसंजातो नाथनामा महामुनिः । तस्य नाथमुनेजातः प्रश्निगर्भांशसंभवः । पुत्र ईश्वर योगीति धर्मज्ञः परतत्ववित् ॥ तेन पुत्रेण सहितो महात्मा नाथसंयमी । विष्णुक्षेत्रेषु सर्वेषु प्रतिक्षेत्रं दिनत्रयम् ॥ उपित्वा यमुनातीरे गोवर्धनमहागिरौ । योगनिष्ठामुपास्थाय साक्षात्कुर्वन् बलानुजम् ॥ 2 २ ३ ४ ५ ६ ww ७ Scanned with OKEN Scanner 8 तत्र ध्यानरतो योगी चिरकालमुवास सः । ततः श्रीशाज्ञया प्राप नारायणपुरं पुनः ॥ उद्धर्तुकामो निखिलां विनष्टां द्राविडीं श्रुतिम् । कुरूकां समनुप्राप्य तिन्त्रिणीमूलमाश्रितम् ॥ उपासयामास चिरं परांकुशमुनीश्वरम् । शठकोपस्ततो योगी भव्यः प्रादुरभूत्पुरः || प्रणतो भूमौ नाथयोगी महामतिः । ८ ९ १० तं दृष्ट्वा तस्माज्जग्राह निखिलां द्राविडीं श्रुतिष्ठत्तमाम् || ११ न्यासञ्च परमं गुह्यं सर्वपापहरं नृणाम् । सकृदुच्चारणादेव मुक्तिदं शुभदं शुभस् ॥ गृहीत्वा सर्वशिष्याणामुपदेशं चकार सः । ततस्तं पुण्डरीकाक्षं जयत्सेनांशसंभवम् ॥ १२ १३ कुरुकेशश्च नीळांशजातं योगविशारदः । स्वपुत्रञ्च समाहूय वाक्यमेतदुवाच ह । १४ । १५ सिह्नाननांशजः पुत्र पौत्रस्ते प्रभविष्यति । तस्य यामुननामत्वं कुरुष्व सुसमाहितः ॥ पुण्डरीकाक्ष तस्मै त्वं पौत्राय मम जोगिने । उपदेश कुरु ब्रह्म न्यासञ्च द्राविडागमान् ॥ १६ कुरुकेश त्वया चापि योगस्तस्मै प्रदीयताम् । Scanned with OKEN Scanner 9 एवमाज्ञाप्य तं योगी सप्तवर्षशते गते ॥ स्वस्य देहं विहायाथ परं विष्णोः पदं ययौ । ततस्स पुण्डरीकाक्षः कुमुदाक्षांशसंभवम् ॥ शिष्यं श्रीरामिश्राख्यं समानीय प्रहर्पतः । न्यासञ्च द्राविडाम्नायानुपादिष्टद्रहस्यवित् ॥ ईश्वराख्यमुनेः पुत्रो भविष्यति महामुनिः । तस्मै ददस्व न्यासञ्च द्राविडागममेव च ॥ इत्युक्त्वा पुण्डरीकाक्षस्स ययौ परमं पदम् । ततो यामुन मौनीन्द्र सञ्जातो भगवत्प्रियः || सिह्माननांशजः श्रीमानीश्वरार्यस्य वेदवित् । तस्मै श्रीराममिश्राख्यस्सर्वज्ञाय महात्मने || न्यासञ्चोपदिदेशाथ रहस्यान् द्राविडागमान् । तस्य पञ्चाभवन् शिष्या यामुनस्य महामुनेः ॥ कुमुदाक्षांशसंभूतो महापूर्णश्च तत्ववित् । श्री शैलपूर्णश्च महान् सुमुखांशो हरिप्रियः ॥ शंकुकर्णांशसंभूतः काञ्चीपूर्णश्च संयमी । गोष्ठीपूर्णश्च विख्यातः पुण्डरीकांशसंभवः ॥ ‘श्री माल्यधरनामा च वामनस्यांशसंभवः । एते सर्वे महात्मानस्सर्वज्ञास्तत्वकोविदाः || १७ १८ १९ २० २१ २२ २३ २४ २५ २६ Scanned with OKEN Scanner 10 मनुजान् पावयन्तस्ते हरिक्षेत्रेषु संयुताः । महापूर्ण तु सततं गुरुमेवानुवर्तयन् ॥ तस्मादुपात्तनिखिलरहस्यार्थोऽभवद्बुधः । विजित्य दुर्मतान् सर्वान् यामुनो योगिसत्तमः ॥ स्थापयित्वा मतं विष्णोर्भिक्षुकाश्रममाश्रितः । महापूर्णेन सहितो रङ्गक्षेत्रमुवास सः ॥ तं महापूर्णमनधं लक्ष्मणस्समुपेयिवान् । देवराजेन सन्दिष्टः काञ्चीपूर्णो महामुनिः ॥ महापूर्णोऽपि शिष्याय लक्ष्मणाय महात्मने । यामुनार्येण निक्षिप्तं रहस्यमखिलं ददौ || ॥ इति श्री भगवद्रामानुजचरिते द्वितीयोऽध्यायः ॥ २ २ ३. ३: Scanned with OKEN Scanner अथ श्रीभगवद्रामानुजमुनिचरिते तृतीयोऽध्यायः ततो रामानुजो योगी देवराजस्य सन्निधौ । गुरोर्भगवतो विष्णोराददे भिक्षुकाश्रमम् ॥ ततो लक्ष्मणयोगीशस्वस्त्रीयः सर्ववेदवित् । सुप्रतिष्ठांश संजातो नाम्ना दाशरथिर्महान् ॥ श्रीवत्सचिह्न मिश्रश्च सर्वनेत्रांशसंभवः । ७ उभौ काञ्चीमुपागम्य लक्ष्मणं तं यतीश्वरम् ॥ आश्रयामासतुस्तेन पञ्चसंस्कारसंस्कृतौ । १ सेवयन्तौ सदा तस्य पादाब्जे तस्थतुर्मुदा ।। तत्रस्थं यादत्रं प्राह तन्माता तनयं यतिम् । शिखोपवीते सर्वपामाश्रमाणां तु कारणे ।। ते त्यक्तुं नार्हसे पुत्र न्यायोऽयं शास्त्रगर्हितः । उपवीती शिखी योगी त्रिदण्डी लक्ष्मणो मुनिः ॥ यथा तिष्ठति तद्वत्त्वं भव शास्त्रैस्सुपूजितः । इत्युक्तो यादवो मात्रा मोहादेतत् कृतं पुरा ॥ निष्कृतिश्चास्य धरणीप्रदक्षिणमिति श्रुतम् । अशक्तोऽहं करिष्यामि कथं भूमिप्रदक्षिणम् ॥ इति सञ्चिन्तयन्निद्रां प्रपेदे भिक्षुकोत्तमः । तस्य स्वप्ने देवराजः प्रोवाचेदं वचः शुभम् ॥ I Scanned with OKEN Scanner 12 प्रदक्षिणं कुरुष्व त्वं लक्ष्मणार्यस्य योगिनः । तेन त्वं लप्स्यसे भूमिप्रदक्षिणफलं यते ॥ तंत् श्रुत्वा तत्र गत्वाथ मानं त्यक्त्वा महामुनेः । प्रणिपत्य पदाम्भोजद्वंद्वे लक्ष्मणयोगिनः ॥ तावकं कुरु योगीन्द्र ! शरणागतवत्सल । इत्युक्त्वा तं परिक्रम्य मूर्ध्नि बद्धाञ्जलिर्यतिः ॥ स्तोत्रयामास योगीन्द्रं लक्ष्मणं यतिशेखरम् । रामानुजस्तु संस्कृत्य संस्कारैः पञ्चभिः परैः || पुनः कृत्वोपनयनं क्रमाच्चक्रे त्रिदण्डिनम् । ततः श्रीरंगनाथेन समाहूतस्स लक्ष्मणः ॥ श्रीरङ्गं समनुप्राप्य कावेरीं सरितां वराम् । ददर्श लक्ष्मणो योगी पुण्यामृपिनिषेविताम् ॥ सेवितामप्सरस्सङ्घैः प्रहृष्टविमलोदकाम् । गन्धर्वैस्त्रिदशश्रेष्ठैः किङ्करैश्चोपशोभिताम् ॥ त्रिदशोद्यानसंकीणीं क्रीडितां दैवतैस्सदा । . १. देवर्षिगणगन्धर्वकिन्नराप्लुतजीवनाम् ॥ निर्मलोत्पलसंछन्नां अम्भोजवनसंकुलाम् । सौगन्धिकैर्विकसितैः कुमुदैरुपशोभिताम् ॥ कुसुमप्लवसंछन्नां विपुलखच्छवालुकाम् । नानाप्रसूनराजीवसमाकिर्णां सशैवलाम् ॥ Scanned with OKEN Scanner 13 मनोज्ञपुलिनां रम्यां सुधारससमोदकाम् । आवर्तैर्बहुभिः कीर्णां गम्भीरशुभ निस्वनाम् ॥ राजहंसैश्चक्रवाकैस्सारसैरभिपूरिताम् । वृक्षैस्तीररु है स्सर्वैः पुष्पितैरुभशोभिताम् ॥ मत्स्यकच्छपनक्राद्यैस्सर्वैर्जलचरैर्वृताम् । दर्शनात् स्पर्शनात् स्नानान्निहन्त्रीं कल्मषं नृणाम् ॥ मुक्तिं चतुर्विधां नित्यां ददतीमखिलेष्टदाम् । दृष्ट्वा स्नात्वा च विधिना जहवा तु परमं जपम् ॥ श्रीरङ्गनिलयं गत्वा ददर्श श्रीनिकेतनम् । भोगीन्द्र भोगशयनं स्फुरन्मकर कुण्डलम् ॥ इन्द्रनीलमणिश्यामं सूर्यीयुतसमप्रभम् । किरीटहारकेयूरकंकणाङ्गदशोभितम् ॥ श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम् । स्फुरत्पीतांबरधरं दीर्घबाहु विराजितम् ॥ सुप्रसन्नमुखांभोजं पुण्डरीकायतेक्षणम् । सर्वलोकैकशरणचरणांबुजशोभितम् ॥ श्रीभूमिनीलासहितं पुराणपुर. पोतमम् । प्रणम्य दण्डवद्भूमौ स्तोत्रयामास लक्ष्मणः ॥ २० Scanned with OKEN Scanner14 श्रीरङ्गनाथ प्रपत्तिस्तवः * * * प्रपद्ये रङ्गभूमीश चरणौ शरणं तव । श्रितचिन्तामणी विष्णो विभृतिद्वयपालक ॥। वेदान्तात्मन् नमस्तुभ्यं नित्यानन्दस्वरूपिणे । शुद्धज्ञानस्वरूपाय सर्वात्मन् ते नमो नमः || नमो नमस्ते सूक्ष्माय स्थूलरूपाय ते नमः । सर्वज्ञाय नमस्तुभ्यमव्ययाय महात्मने ।। ज्ञान वीर्य बलैश्वर्य तेजश्शक्ति गुणाय ते । आदिमध्यान्तरहितरूपायास्तु नमो नमः ॥ विभूतयस्ते सर्वेश धरण्यग्न्यनिलादयः । गिरा तव समुत्पन्ना मेदिनीपालकौ प्रभो ॥ नभश्च मारुतश्चोभौ जातौ प्राणेन ते प्रभो । नेत्रेण तव संजातौ द्यौश्च जानो महेश्वर || आकाशचन्द्रौ संजातौ त्वत्कर्णेन जनार्दन । आपः प्रचेताः सृष्टश्च चित्तेन कमलेक्षण || ततं महति मीमांसे उक्त ब्रह्म प्रचक्षते । त्वमेव वह्निस्साध्वर्युस्त्वमेव चरुरावृतः ॥ त्वमेव गायतं छन्दो वायौ दिवि जले भुवि । वनस्पतिष्वोषधीषु चन्द्रे सर्वेषु च प्रभो ! ॥ ३० Scanned with OKEN Scanner 15 नक्षत्रेषु गृहेष्वर्के सर्वभूतेषु सर्वतः । संस्थित परमं ब्रह्म त्वामेवाचक्षते श्रुतिः || हिरण्मयवपुर्यज्ञः शुचिपच्छुचिरित्यपि । त्वामेव परमात्मानं प्रशंसति परा श्रुतिः ॥ ओङ्कारस्त्वं वष्टुकारस्त्वं यज्ञस्त्वं क्रतुर्हविः । सर्वेशस्त्वं हि सर्वज्ञः विश्वदेहस्सनातनः ॥ त्वमेव पुण्डरीकाक्ष ! सर्वशेपी सतां पतिः । त्वमेव सर्वजगतां पिता माता सुहृद्विभुः ॥ त्वमुपास्योऽसि जगतां जपास्सर्वेयुपासकाः । सर्वभूतनियन्ता त्वं भूतभर्ता च भूतभृत् ॥ अनन्तार्क प्रकाशस्त्वं अनन्तगुणसंयुतः । दिव्यरूपोऽसि भगवन् शङ्खचक्रगदाधर || उदितादित्यसङ्काशः पुण्डरीकनिभेक्षणः । श्रुतयस्सविशेषात् त्वां वाच्यं चिदचिदीश्वरः ॥ परात्परं परं ब्रह्म वदन्ति निरुपाधिकम् । त्वं नित्यश्चापि निर्वाणं चेतनानाञ्च चेतनः ॥ बहूनामेक एव त्वमीप्सितान् दददप्यसि । त्वामेव प्रविशन्त्यद्य प्रपन्नास्त्वदुपासकाः || लक्ष्यं त्वामेव कृत्वा ते आत्मनो बाणरूपिणः । ४० Scanned with OKEN Scanner 16 ओङ्कारधनुषा योज्य प्रमत्तरंहितात्मना || लक्ष्यं तद्ब्रह्म पश्यन्तः तस्मिन् त्वयि निवेशितम् । नमस्ते शेषपर्यङ्कशायिने ते नमो नमः ॥ श्रीधराय नमस्तुभ्यं पद्मनाभाय ते नमः । वासुदेवाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ सङ्कर्षणाय महते अनिरुद्धाय ते नमः । गोविन्दाय नमस्तुभ्यं अच्युताय नमो नमः ॥ नारायणाय रामाय शाश्वताय नमो नमः । दिव्यभूषणभूषाय नमस्ते पीतवाससें ॥ दिव्यचन्दनलिप्ताय दिव्यस्रग्धारिणे नमः । ५० नमस्ते नमस्ते त्रयीनाथ विष्णो नमस्ते नमस्ते नमो रङ्गशायिन् । नमस्ते नमस्ते प्रपन्नार्तिहारिन् नमस्ते नमस्ते श्रिताभीष्टदायिन् । प्रसीद रङ्गाधिप देवदेव प्रसीद लक्ष्मीश जगन्निवास । प्रसीद मां पाहि कृपासमुद्र प्रसीद भद्रप्रद रामभद्र || * * * * * एवं स्तुत्वा रङ्गनाथं आश्रितामरभूरुहम् । रङ्गेण तेन दत्तश्रीविभूतिद्वयवैभवः ॥ स्थित्वा तत्सेवया कञ्चित्कालं रामानुजो मुनिः । महापूर्णेन संदिष्टो गोष्टी पूर्णमनुत्तमम् ॥ रहस्यान् कतिचिद्वक्तुं शिष्यैः परिवृतो ययौ । Scanned with OKEN Scanner 17 गोष्ठीपूर्णमुनिं तत्र प्रणम्य प्रीतमानसः ॥ तस्माद्विज्ञाय तत्वार्थ सर्वेषामुपदिष्टवान् । पुनस्तं समुपागम्य वाक्यमाह यतीश्वरः || गुरो तवाज्ञामुल्लङ्घय रहस्यार्थमिदं शुभम् | सर्वेषां तारणार्थाय प्रकटीकृतवानहम् ॥ शिष्यं मां दण्डय क्षिप्रं कृतागसमघाकरम् । कृपामलौकिकीं तस्य गोष्ठीपूर्णो विलोक्य सः ॥ संतुष्टहृदयो भूत्वा त्वं सर्वजनरक्षकः । इत्युक्त्वा तं परिष्वज्य प्रशशंस पुनः पुनः ॥ ततस्तेनाभ्यनुज्ञातः श्रीमाल्यधरयोगिनम् । आश्रित्य तस्मात्संप्राप्य रहस्यान् द्राविडागमान् ॥ पुनः श्रीरङ्गमागम्य शिष्याणां ज्ञांनशालिनाम् । वेदान्तशास्त्रमतुलं स तस्थौ वाचयन् मुनिः ॥ ततः काशीपुरवरादेकदण्डी समागतः । यतिं लब्धवरं वाण्या चाप्रतिद्वंद्ववादिनम् ॥ निगमैस्सर्वशास्त्रार्थैः पाराशर्योक्तिभिर्युतैः । • जित्वा त्रिदण्डिनं कृत्वा रहस्यार्थानुवेदिनम् ॥ शिष्यमात्मसमं चक्रे लक्ष्मणो योगिपुङ्गवः । ॥ इति श्री भगवद्रामानुजमुनिचरिते तृतीयोऽध्यायः ॥ ६० Scanned with OKEN Scanner अथ श्री भगवद्रामानुजमुनिचरिते चतुर्थोऽध्यायः नारायण उवाच- ततो जयार्थी स मुनिः वर्तुं भूमिप्रदक्षिणम् । शिष्यैरनन्तैस्सहितो जगाम च यतीश्वरः || स्थानेषु च वसन्विष्णोस्तत्र तत्र जगत्पतेः । नाशयन् कुमतान् सर्वान् स्थापयन् स्वमतं महत् ॥ काशीप्रयागमधुरायोध्याद्वारवतीश्शुभाः । बदरीनैमिशारण्यहरिद्वारगयादयः || ये ये सन्ति हरेर्देशास्तेषु तेषु महात्मनः । स्वशिष्यान् स्थापयित्वासौ शारदापीठमाप सः || प्रत्युद्भतः शारदा पूजितो लक्ष्मणो मुनिः । स्वकृतं शास्त्रमखिलं ददौ तस्या महायशाः || मूर्ध्ना प्रगृह्य तच्छास्त्र भारती प्रशशंस तम् । ततस्तयाभ्यनुज्ञातो गत्वा श्रीपुरुषोत्तमम् || सर्वेश्वरं जगन्नाथं परात्परमजं विभुम् । नीलमेघनिभश्यामं सहस्रतरणिप्रभम् ॥ भृषणैर्भूपितं दिव्यैः काञ्चनांशुकधारिणम् । दिव्यचन्दनलिप्ताङ्गं वनमालाविभूपितम् ॥ ॥ Scanned with OKEN Scanner 19 बलभद्रसुभद्राभ्यां समन्वितमजादिभिः सुरे ब्रह्मर्पिभिर्नित्यं सेवितं सनकादिभिः ॥ दृष्ट्वा प्रणम्य तत्पादौ स्तोत्रयामास तं मुनिम् । * श्रीरामानुजमुनिकृत श्रीमन्नीलाचलाधीशप्रपत्तिस्तवः श्रीमन्नीलाचलाधीश प्रणतार्तिहर प्रभो । प्रपद्ये चरणौ देव शरण्यौ शरणं तव ॥ नमो नमस्ते श्रीशाय प्रभवे लोकसाक्षिणे । सर्वेश्वराय सर्वाय सर्वभूतात्मने नमः ॥ जगच्छरीरिणे तुभ्यं जगतां क्लेशहारिणे । जगद्रक्षणशीलाय जगन्नाथाय ते नमः ॥ पुरुषाय नमस्तुभ्यमच्युतायाविकारिगे । रुपोत्तमदेवाय पुराणाय नमो नमः ॥ परात्मने नमस्तुभ्यं परमानन्ददायिने । परात्परेशाय नमः परमाय नमो नमः ॥ त्वया सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् । त्वया तु रक्ष्यते नित्यं त्वय्येव परिलीयते ॥ प्राणः प्रजायते त्वत्तो मनस्सर्वेन्द्रियाणि च । त्वत्त एव प्रजायन्ते खं वायुज्योतिरेव च ॥ १० Scanned with OKEN Scanner 20 आपश्च पृथिवी विश्वधारिणी च प्रजायते । रुद्रश्च जायते त्वत्त इन्द्रश्चैव प्रजापतिः ॥ त्वत्त एव प्रजायन्ते आदित्या वसवस्तथा । रुद्राश्छन्दांसि सर्वाणि जायन्ते त्वत्त एव हि ॥ ब्रह्मरुद्रादयो देवा दासाः प्रियतमास्तव । अधश्चोर्ध्वञ्च सर्वत्र व्याप्तोऽसि महतो महान् ॥ अणीयसामणीयांस्त्वं जन्तूनां हृद्गुहालयः । निष्कळङ्को निराख्यातः शुद्ध एकस्सनातनः ॥ त्वत्तो नारायणाद्देवान्न द्वितीयोऽस्ति कश्चन । चतुर्व्यूह नमस्तुभ्यं चतुरात्मन्नमोऽस्तु ते ॥ नमः पञ्चस्वरूपाय नमस्ते पाचकालिक । योगिभिः पञ्चकालज्ञैः प्रपन्नैः पूज्यसे सदा || अर्थपञ्चकतत्वज्ञाः पञ्चसंस्कारसंयुताः । पञ्चावस्थस्वरूपं ते विजानन्ति सदा प्रभो ॥ चतुर्वाक्परिपूर्णानि ये पदानि विदुस्तव । ते भृसुरास्सर्वजगद्रक्षन्ति तव किङ्कराः ॥ नमस्ते वासुदेवाय कृष्णदेवाय शार्ङ्गिणे । विष्णवे त्रिजगद्धाम्ने शुद्धसत्वाय ते नमः ॥ विष्णवे त्रिजगद्धाले मुक्तिदायाखिलात्मने । २० Scanned with OKEN Scanner 21 विश्वरूपाय वेद्याय जगन्नाथाय ते नमः ॥ नित्यमुक्तकभोग्याय श्रीभूनीलाधिपाय च । पुरुषोत्तमदेवाय यादवेन्द्राय ते नमः ॥ नमस्ते सच्चिदानन्दरूपाय परमात्मने । नित्याय निर्विकाराय नमस्ते हेतुहेतवे ॥ नमो ब्रह्मेशपूज्याय त्रिगुणाय च ते नमः । नमोस्तु शाश्वतानन्त मूलकन्दाय योगिने || नमो विसर्जितोपाधिस्वरूपाय महात्मने । नमोऽस्तु जगतां पित्रे योगिध्येयात्मने नमः ॥ नमो नीलाद्रिनाथाय सुभद्रानन्दवर्धन | बलभद्रसमेताय जगन्नाथाय ते नमः ॥ सकृत्प्रपन्नजनसंरक्षणत्रतधारिणे कोटिकन्दर्पलावण्यनिधये ते नमो नमः ॥ नमोस्त्वनन्तकल्याणगुणसागर ते नमः । विभूतिद्वयनाथाय सर्वशेषिन्नमो नमः ॥ प्रसीद मे श्रीश जगन्निवास प्रसीद नीलाचलनीलमेघ । प्रसीद लक्ष्मीश परावरेश प्रसीद मां पालय ते प्रपन्नम् ॥ ॥ इति श्री भगवद्रामानुजमुनिचरिते चतुर्थोऽध्यायः ॥ ३० Scanned with OKEN Scanner अथ श्री भगवद्रामानुजमुनिचरिते पञ्चमोऽध्यायः 1 एवं स्तुत्वा जगन्नाथं रामानुजमुनीश्वरः । तेन संभाषितः प्रीत्या वात्सल्यादधिकाद्भृशम् ॥ ततः श्री कूर्ममासाद्य कूर्मनाथं प्रणम्य सः । तस्मात् सिह्माचलं प्राप्य संसेव्य नृहरिं विभुम् ॥ तोताद्रौ श्रीनृसिंहञ्च काकुलाधीश्वरं हरिम् । नारायणं पारमात्म्ये श्रीनृसिंहमहोविले || संसेव्य वेङ्कटगिरिं जगाम यतिपुङ्गवः । परकालादयः पूर्वे शेषरूपमिदं गिरिम् ॥ नारोहन्तीति विज्ञाय नारुरोह स भूधरम् / संप्रार्थितोऽथ तत्त्रत्यैः स्वशिष्यैश्च मुहुर्मुहुः ।। समारुह्य गिरिश्रेष्ठमघौघहरणं नृणाम् । मुनिः श्रीशैलपूर्णाख्यं प्रणम्य विनयान्वितः ॥ स्वामिपुष्करिणीतीरे मुक्ति दे कल्मषापहे । विगाह्य तत्तटे रम्ये जजाप परमं जवम् ॥ भृवराहं प्रणम्याथ श्रीनिवासस्य मंदिरम् । परिक्रम्य प्रणम्याथ ददर्श श्रीपतिं हरिम् ॥ कोटिद्यमणिसंकाशं मदनायुतसुन्दरम् | सुवर्णवसनं दिव्यचन्दनस्रग्विराजितम् ॥ Scanned with OKEN Scanner 23 श्री श्रीवत्समणिश्रेष्ठस्फुरत्पीनोरुवक्षसम् । चतुर्भुजं विशालाक्षं शरदिन्दुसमाननम् ॥ शंखचक्रधरं फुल्लरक्तांघ्रियुगळं हरिम् । हारकेयूरमकुटकुण्डलाद्यैस्सुभपणैः || भक्तिं परमात्मानं परमेशं परात्परम् । प्रणम्य संहृष्टोक्षिभ्यां मुञ्चन्नानन्दजं पयः ॥ कृतांजलिपुटो भूत्वा स्तोत्रयामास तं विभुम् । * * -*- * श्रीमच्छेषाचलाधीश श्रीनिवास प्रपत्ति स्तवः श्रीमच्छेपाचलाधीश श्रीनिवास जगत्पते ।। नारायणाय पूर्णाय ओं नमोथीय ते नमः । नमो नमस्ते श्रीशाय कारणाय नमो नमः ।। रक्षकाय नमस्तुभ्यं सर्व शेषिन् नमो नमः । अनन्यार्हस्य दासस्य मकारार्थस्य मे प्रभो ॥ त्वां विनाऽन्या गतिर्नास्ति नतकल्पतरो गुरो । अनन्यशरणोऽहं ते चरणौ शरणं परम् ॥ - अहङ्कारविनिर्मुक्तः प्रपद्ये ममवर्जितः । नराणां निबंहानां त्वं गतिश्चाप्ययन तथा ॥ सर्वान्तर्यामिणे तस्मै नमस्ते भक्तवत्सल । कैङ्कर्य देहि मे देव नमो वात्सल्यसागर || * Scanned with OKEN Scanner24 मन्त्रमूर्ते नमस्तुभ्यं मन्त्रराजाय ते नमः । जगत्सर्वं हि चिदचिद्दश्यते श्रयतेऽपि यत् ॥ तस्यान्तर्बहिरावृत्य संस्थिताय नमो नमः । इदं गृहीत्वा कल्पान्ते कुक्षौ धृत्वा चरं प्रभो ॥ कल्पादौ सृजसि त्वं वै तस्मै देवाय ते नमः । विश्वतश्चक्षुषे तुभ्यं नमो विश्वमुखाय ते ।। विश्वतः शुभहस्ताय विश्वपादाय ते नमः । सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् ॥ त्वं लोकान् सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ यद्भूतं यच्च भव्यं वै तत्सर्वं माधव त्वयि । पतिर्विश्वस्य जगतः आत्मनामीश्वरः प्रभुः ॥ हिरण्मयस्त्वं भगवन् परमात्मा जगत्सुहृत् । शास्ता चराचरस्यैको न्यासिनां परमा गतिः ।। यस्त्वं रमेश्वरः प्रोक्तः अकाराख्यस्वरो महान् । परो महेश्वरो देवो देवास्ते सुप्रतिष्ठिताः ।। विभृतिद्वयनाथस्त्वं परमेशः परापरः । श्रीभृनीळापतिस्वामिन्नित्यमुक्तैश्च सेवितः ॥ यज्ञेश्वरो यज्ञमयो यज्ञद्यज्ञभुग्विभुः । यज्ञभृद्यज्ञपुरुपस्त्वमेव परमः परः ॥ २० Scanned with OKEN Scanner 25 त्वत्तो यज्ञस्सर्वहुतो यजुस्सामान्यधर्वणः । अश्वाश्चापि व्यजायन्त गाव पुरुषादयः ॥ ब्राह्मणास्त्वन्मुखाज्जाता बाहुभ्यां क्षत्रियाः कृताः । ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्राः प्रजज्ञिरे ॥ २९ त्वत्पद्भयामेव पृथिवी शिरसो द्यौरजायत । मनसश्चन्द्रमा जातश्चक्षुषोर्जायते रविः || ३१ मुखादग्निर्महेन्द्रश्च प्राणाद्वायुरजायत । नाभौ ब्रह्मा च गगनं दिशः श्रोत्रात्प्रजज्ञिरे ॥ ३२ । एवं सृष्ट्वा जगत्सर्वं निजलीलासमुद्भवम् । त्वमेव ग्रससे भृयस्तद्वमन्नूर्णनाभवत् ॥ आदित्यवर्णं तमसः परस्तात् ज्योतिरद्भुतम् । त्वमेवैकार्णवीभूते जले मायावटच्छदे || जगत् स्वजठरे हृत्वा तस्मिन् शेषे सनातनः । एकस्तदा त्वं देवोऽसि विष्णुर्नारायणोऽव्ययः ॥ न ब्रह्मा न शिवो देवा ऋषयश्च न मानवाः । न इमे द्यावापृथिवी न चन्द्रसूर्य एव वा ॥ अनिर्वा न हि लोकाश्च न चाम्भांसि न वा हरे । ३३ ३४ ३५ ३६ पुनस्त्वया ते सृज्यन्ते लोकास्सर्वे यथाक्रमम् ॥३७ दासभूतं तवेदं हि ब्रह्माद्यं सकलं जगत् । Scanned with OKEN Scanner 26 नावलोकयसे चेत् त्वमिमाल्लोकान् श्रियः पते || ३८ भवितुं नालमेवैते प्रवृत्तिस्तु कुतो भवेत् । त्वमेव श्रीः श्रियो देव शुद्ध सात्त्विकविग्रहः || ३९ त्वमेव पुण्डरीकाक्षस्त्वमेव पुरुषोत्तमः । तवायुतायुतशत भागेकांशे स्थितं जगत् ॥ तवायुतायुतशतभागैकांशे 11 त्वं पासि सर्वलोकेश भक्तान् न्यस्तभरान् हरे । सर्वत्रन्धाद्विनिर्मुक्त प्रपन्नामरभूरुह || ४० ४१ नमस्सकृत्तेऽखिललोकनाथ द्विस्ते नमः श्रीश नमस्त्रिरस्तु । नमश्चतुस्ते जगदीश पञ्चकृत्वो नमस्तेऽस्तु कृपापयोधे ॥ नमो नमस्ते शतकृत्व आद्य नमो नमस्ते च सहस्रकृत्वः । नमो नमोऽनन्तकृत्वो नमस्ते पुनश्च भूयोऽपि नमो नमस्ते || प्रसीद शेषाचलनित्यवास प्रसीद लक्ष्मीश जगन्निवास । प्रसीद विश्वाधिप वेङ्कटेश प्रसीद नारायण सर्वशेषिन् ॥ प्रपद्ये शरण्ये शरण्ये पदाब्जौ सदा योगिनां मानसाब्जे वसन्तौ 1 ममोपाय एतावहं चान्यमेतौ विना रक्षणार्थ न जाने न जाने ॥ अयमेव परं तत्वमिदमेव परं पदम् । अस्मात्क्षेत्रात्परन्नास्ति नास्ति दैवमितः परम् ॥ * * * * * इति तं स्तोत्रयामास निगमाद्यैः पुनः पुनः । ततो रामानुजो योगी तत्त्रोषित्वा दिनत्रयम् ॥ ४६ * ४७ Scanned with OKEN Scanner 27 श्री शैलपूर्णात् श्रीमद्रामायणार्थरहस्यकम् । विज्ञायं तेनानुज्ञातः प्रययौ सेतुमुत्तमम् ॥ . तत्र तत्र स्थितान् सर्वान् संसेव्य हरिविग्रहान् । विजित्य समयान् सर्वान् स्थापयित्वा हरेर्मतम् || आससाद पुनः श्रीमद्रङ्गेश्वरनिकेतनम् । संस्तुत्य तत्र रङ्गेशं सेवमानस्तदा विभुम् || सर्वचेतनत्रात्सल्यात्परिपूर्णकृपाम्बुधिः । पापण्डैर्बहुभिर्धृष्टैस्त्यक्तवैदिकबुद्धिभिः || पापैरासुरशास्त्राणि कल्पितानि कुयुक्तिभिः । सर्वतस्संकुलं लोकं विनष्टहरिवैभवम् ॥ उद्धर्तुं लक्ष्मणो योगी कृत्वा श्रीभाष्यमुत्तमम् । पाषण्डबौद्ध चार्वाकमायावादान् वैदिकान् ॥ ४८ ४९ ५० ५१ ५२ ५३ संछिद्य कुमतान् सर्वान् पाराशर्यमुनेर्मतम् । लोकेऽस्मिन् प्रकटञ्चक्रे विष्णोः प्रियतमं मतम् ॥ तस्स दाशरथ्याद्यैरसंख्यैः शिष्यसञ्चयैः । मेवितो वाचयन् तेभ्यस्सच्छास्त्राण्यनिशं हरेः ॥ कुर्वन् रङ्गशकैङ्कर्यं संश्रितामरभूरुहम् । ङ्गेश्वरप्राणतुल्यो ददत्तस्मिन् नृणां सुखम् ॥ सन्तस्थौ लक्ष्मणो योगी संदा योगसमाधिना । ५४ ५५ ५६ Scanned with OKEN Scanner 28 एवं नीत्वा चिरं कालं योगेन यतिपुङ्गवः ॥ सुषुम्नानाड्या निष्क्रम्य परमं पदमाप्नुयात् । एतां कथां श्रुतिसुखां निगमान्तभाष्य- कारस्य लक्ष्मणमुनेः श्रृणुयात्पठेद्यः । सप्राप्य भागवतभक्तिमिहोत्तमश्रीः गच्छेत्पदं विधिशिवार्चितमच्युतस्य ॥ य इदं पुण्यमाख्यानं श्रृणुयात् श्रावयेच्च यः । यतिराजप्रसादात्ससर्वमङ्गळवान् भवेत् ॥ इति श्रीभार्गवे उपपुराणे उत्तरखण्डे नरनारायणसंवादे महायोगिमाहात्म्ये रामानुजयोगिनश्चरित्रन्नाम पञ्चमोऽध्यायः ।। (अध्यायाः 34 / 38 ) श्री भगवद्रामानुजमुनिचरित्रं संपूर्णम् ५७ ५८ ५९ 0 Scanned with OKEN Scanner श्रीः श्रीमते भगवद्रामानुजाय नमः श्री भगवद्रामानुजाष्टोत्तरशतनामस्तोत्रम् [श्री आन्ध्रपूर्णार्यप्रोक्तम् ] अस्य श्री भगवद्रामानुजाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य श्री आन्ध्रपूर्ण ऋषिः । अनुष्टुप्छदः । श्रीमद्भगवद्रामानुजयतीन्द्रो देवता । रां बीजम् श्रीम् शक्तिः, हीम् कीलकम् । श्रीमद्भगवद्रामानुजयतीन्द्रप्रीत्यर्थे, श्रीभगवद्रामानुज प्रसादेन मम परिपूर्णब्रह्मज्ञानपूर्वकसर्वाभीष्टसिद्ध्यर्थे वा, श्री भगव- द्रामानुजाष्टोत्तरशतनामस्तोत्रपारायणे जपे वा विनियोगः । ध्यानम्- यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो- रामानुजस्य चरणौ शरणं प्रपद्ये ॥ (श्रीरङ्गं करिशैलमञ्जनगिरिं तार्थ्याद्रिसिंहाचलौ श्रीकूर्म पुरुषोत्तमश्च बदरीनारायणं नैमिशम् । श्रीमद्द्द्वारवतीप्रयागमधुरायोध्या गयाः पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ि Scanned with OKEN Scanner 2 उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् । काषायशोभिकमनीयशिखानिवेशं दण्डत्रयोज्वलकरं विमलोपवीतम् । उद्यद्दिनेशनिभमुल्लसदृर्ध्वपुण्डं रूपं तवास्तु यतिराज दृशोर्ममाग्रे ॥ ) ओं भूर्भुवस्सुवरिति दिग्बन्धः हरिः ओं “सहस्रशीर्षाय विद्महे विष्णुतपाय धीमहि । तन्नो नागः प्रचोदयात् " हरिः ओम् इति श्रीमच्छेष गायत्रीं यथाशक्ति जपेत् । मानसपूजाञ्च समर्पयेत् ।। रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः । कान्तिमत्यात्मजः श्रीमान् लीलामानुषविग्रहः ॥ सर्वशास्त्रार्थतत्वज्ञस्सर्वज्ञस्सज्जनप्रियः । नारायणकृपापात्रं श्रीभृतपुरनायकः || अनघो भक्तमन्दारः केशवानन्दवर्धनः । काञ्चीपूर्णप्रियसखः प्रणतार्तिविनाशकः ।। पुण्यसंकीर्तनः पुण्यो ब्रह्मराक्षसमोचकः । यादवापादितापार्थवृक्षच्छेदकुठारकः ॥ अमोघो लक्ष्मणमुनिश्शारदाशोकनाशकः । २ १३
- हारीतगोत्नतिलकः श्रीभूतपुरपालकः । इत्यपि पाठः । ४ Scanned with OKEN Scanner निरन्तरजनाज्ञानविमोचनविचक्षणः ॥ वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः । पराभिप्रायतत्वज्ञो यामुनाङ्गुलिमोचकः ॥ देवराजकृपालब्धपड्याक्यार्थमहोदधिः । पूर्णार्यलब्धसन्मन्त्रश्शरिपादाब्जषट्पदः ॥ त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मज्ञानपरायणः । रङ्गेशकैङ्कर्यरंतो विभूतिद्वयनायकः ॥ गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः । चररङ्गानुकम्पात्तद्राविडाम्नायपारगः ॥ मालाधरार्यसुज्ञानद्राविडाम्नायतत्त्वधीः । चतुस्सप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥ प्रपीतविषतीर्थाम्भःप्रकटीकृत वैभवः । प्रणतार्तिहराचार्यदत्त मिक्षैकभोजनः ॥ पवित्रीकृतकूरेशो भागिनेयत्रिदण्डकः । कूरेशदाशरथ्यादिचरमार्थप्रदायकः ॥ रङ्गेशवेङ्कटेश।दिप्रकटीकृतवैभवः । देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः । वरदाचार्यसद्भक्तो यज्ञेशार्तिविनाशकः ॥ अनन्ताभीष्टफलदो विठ्ठलेशप्रपूजितः । ७ ८ ९ १० ११ १२ १३ १४ Scanned with OKEN Scanner 4 श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ।। प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः । १५. व्याससूत्रार्थतच्चज्ञो बोधायनमतानुगः ॥ १६ श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः । अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपारगः ॥ १ ७ कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः । विनाशितेतरमतश्शेषीकृतरमापतिः ।। १८ पुत्रीकृतशठारातिश्श ठजिदृणमोचकः । भाषादत्त हयग्रीवो भाष्यकारो महायशाः || १९. पवित्रीकृतभृभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥ श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः । कृपामात्र प्रसन्नार्यो गोपिका मोक्षदायकः || समीचीनार्यस च्छिष्यसत्कृतो वैष्णवप्रियः । कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः || अङ्गीकृतान्धपूर्ण।र्यस्सालग्रामप्रतिष्ठितः । श्री भक्तग्रामपूर्णेशो विष्णुवर्धनरक्षकः ।। बौद्ध ध्वान्तसहस्रांशुश्शेषरूपप्रदर्शकः । २० २१ २२ २३ नगरीकृतवेदाद्रि डिल्लीश्वरसमर्चितः ॥२४ Scanned with OKEN Scanner 5 . नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः । संपत्कुमारजनक स्साधुलोकशिखामणिः || सुप्रतिष्ठितगोविन्दराजः पूर्ण मनोरथः । गोदाग्रजो दिग्विजेता गोदाभीष्टवपूरकः ॥ सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः । अव्याहतमहद्वर्त्मा यतिराजो जगद्गुरुः ॥ फलश्रुतिः एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि सर्वान् कामान् समश्नुते ॥ यदान्धपूर्णेन महात्मनेदं स्तोत्रं कृतं सर्वजनावनाय । तज्जीवभूतं भुवि वैष्णवानां बभूव रामानुजमानसानाम् ॥ इति श्रीभगवद्रामानुजाष्टोत्तरशतनामस्तोत्रम् . ९५ २६ २७ २८
- कामानवाप्नुयात् ॥ इत्यपि पाठः । Scanned with OKEN Scannerश्रीः अथ श्री भगवद्रामानुजाष्टोत्तरशतनामावलिः’ 1 ओं रामानुज्ञाय नमः 2 ओं पुष्कराक्षाय नमः 3 ओं यतीन्द्राय नमः 4 ओं करुणाकराय नमः 5 ओं कान्तिमत्यात्मजाय नमः 6 ओं श्रीमते नमः 7 ओं लीलामानुषविग्रहाय नमः 8 ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः 9 ओं सर्वज्ञाय नमः 10 ओं सज्जनप्रियाय नमः 11 *ओं नारायणकृपापात्राय नमः 12 *ओं श्री भूतपुरनायकाय नमः 13 ओं अनघाय नमः 14 ओं भक्तमन्दाराय नमः 15 ओं केशवानन्दवर्धनाय नमः 16 ओं काञ्चीपूर्ण प्रियसखाय नमः 17 ओं प्रणतार्तिविनाशकाय नमः 18 ओं पुण्यसंकीर्तनाय नमः 19 ओं पुण्याय नमः
ओं हारीतगोत्ततिलकाय नमः ओं श्रीभृतपुरपालकाय नमः } इत्यपि पाठः । । Scanned with OKEN Scanner 22 23 24 25 26 7 20 ओं ब्रह्मराक्षसमोचकाय नमः 21. ओं यादवापादितापार्थवृक्षछेद कुठारकाय नमः ओं अमोघाय नमः ओं लक्ष्मणमुनये नमः ओं शारदाशोकनाशनाय नमः ओं निरन्तरजनाज्ञानविमोचनविचक्षणाय नमः ओं वेदान्तद्वयसारज्ञाय नमः 27 ओं वरदाम्बुप्रदायकाय नमः 28 29 30 31 32 ओं शौरिपादाब्जषट्पदाय नमः 33 34 35 36 37 38 39 40 41 42 ओं पराभिप्रायतत्वज्ञाय नमः ओं यामुनाङ्गलिमोचकाय नमः ओं देवराजकृपालब्धषड्वाक्यार्थमहोदधये नमः ओं पूर्णार्यलब्धसन्मन्त्राय नमः ओं त्रिदण्डधारिणे नमः ओं ब्रह्मज्ञाय नमः ओं ब्रह्मज्ञानपरायणाय नमः ओं रतेशकैङ्कर्यरताय नमः ओं विभूतिद्वयनायकाय नमः ओं गोष्टी पूर्णकृपालब्धमन्त्रराजप्रकाशकाय नमः ओं वररङ्गानुकंपात्तद्राविडाम्नायपारगाय नमः ओं मालाधरार्यसुज्ञातद्राविडाम्नायतत्वधिये नमः ओं चतुस्सप्ततिशिष्याढ्याय नमः ओं पञ्चाचार्यपदाश्रयाय नमः Scanned with OKEN Scanner 43 44 45 46 47 48 8 ओं प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवाय नमः ओं प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय नमः ओं पवित्रीकृतकुरेशाय नमः ओं भागिनेयत्रिदण्डकाय नमः ओं कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय नमः ओं रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय नमः 49 ओं देवराजार्चनरताय नमः 50 ओं मूकमुक्तिप्रदायकाय नमः 51 ओं यज्ञमूर्ति प्रतिष्ठात्रे नमः 52 ओं मन्नाथाय नमः 53 ओं धरणीधराय नमः 54 ओं वरदाचार्यसद्भक्ताय नमः 55 ओं यज्ञेशार्तिविनाशकाय नमः 56 ओं अनन्ताभीष्टफलदाय नमः 57 ओं विठ्ठलेशप्रपूजिताय नमः 58 59 60 61 ओं श्रीशैल पूर्ण करुणालब्धरामायणार्थकाय नमः ओं प्रपत्तिधर्मैकरताय नमः ओं गोविन्दार्यप्रियानुजाय नमः ओं व्याससूत्रार्थतत्वज्ञाय नमः 62 ॐ बोधायनमतानुगाय नमः 63 ओं श्रीभाप्यादिमहाग्रन्थकारकाय नमः 64 ओं कलिनाशनाय नमः 65 ओं अद्वैतमतविच्छेले नमः Scanned with OKEN Scanner 9 66 ओं विशिष्टाद्वैतपारगाय नमः 67 ओं कुरङ्गनगरी पूर्णमन्त्ररत्नोपदेशकाय नमः 68. ओं विनाशितेतरमताय नमः 69 ओं शेषीकृतरमापतये नमः 70 ओं पुत्रीकृतशठारातये नमः 71 72 ओं शठजिते नमः ओं ऋणमोचकाय नमः 73 ओं भाषादत्तहयग्रीवाय नमः 74 ओं भाष्यकाराय नमः 75 ओं महायशसे नमः 76 ओं पवित्रीकृतभूभागाय नमः 77 ओं कूर्मनाथप्रकाशकाय नमः 78 ओं श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकाय नमः 79 ओं श्रीवेङ्कटेशश्वशुराय नमः 80 ओं श्रीरमासखदेशिकाय नमः 81 ओं कृपामात्र प्रसन्नार्याय नमः 82 ओं गोपिकामोक्षदायकाय नमः 83 ओं समीचीनार्यसच्छिष्य सत्कृताय नमः 84 ओं वैष्णवप्रियाय नमः 85 ओं कृमिकण्ठनृपध्वंसिने नमः 86 ओं सर्वमन्त्रमहोदधये नमः 87 ओं अङ्गीकृतान्त्रपूर्णार्याय नमः 88 ओं सालग्रामप्रतिष्ठिताय नमः Scanned with OKEN Scanner 10 89 ओं श्रीभक्त ग्रामपणेशाय नमः आ विष्णुवर्धनरक्षकाय नमः 90 91 ओं बौद्ध ध्वान्तसहस्रांशवे नमः 92 ओं शेषरूपप्रदर्शकाय नमः 93 ओं नगरीकृतवेदाद्रये नमः 94 ओं डिल्लीश्वरसमर्चिताय नमः 95 ओं नारायणप्रतिष्ठाले नमः 96 ओं संपत्पुत्रविमोचकाय नमः 97 ओं संपत्कुमारजनकाय नमः ओं साधुलोकशिखामणये नमः 99 ओं सुप्रतिष्ठित गोविन्दराजाय नमः 100 ओं पर्णमनोरथाय नमः 98 101 ओं गोदाग्रजाय नमः 102 ओं दिग्विजेते नमः 103 ओं गोदामीष्टप्रपरकाय नमः 104 औं सर्वसंशय विच्छेत्रे नमः 105 ओं विष्णुलोकप्रदायकाय नमः 106 ओं अव्याहतमहद्वर्त्मने नमः 107 ओं यतिराजाय नमः 108 ओं जगद्गुरवे नमः श्री यतिराजः प्रीयतां जगद्गुरुः श्री भगवद्रामानुज मुनिः श्री यतिराजप्रसादेन सर्वाभीष्टसिद्धिरस्तु मङ्गलानि भवन्तु श्री भगवद्रामानुजाष्टोत्तरशतनामावलिः संपूर्णा Scanned with OKEN Scanner शोधनिका Page Sloka As it is To read as १ ३ २ ७ श्रुणुष्व अध्यगैष्ट भृणुष्व • अध्यगीष्ट ६ 2020 59 १३. परिषद्भिः पारिषद्यैः १८ २२ हेतूनि जगतां प्रभो अत्यतिष्टत् कारणानि जगत्प्रभो अत्यतिष्टो ४१ निरासयन् संनिरस्यन् ४५ निवारितुं १ महापूर्ण निवारणे महापूर्ण २ CA सर्वम्मम सर्वं मम गजास्यस्य गंजांशस्य ९ कुरूकां कुरुकां १० उपासयामास चिरं उपासामास सुचिरं १५ नामत्वं नाम त्वं ९ १९ उपादिष्टत् उपादिक्षत् २७ ११ ५ MY S ३ महापूर्ण सर्वनेत्र राममिश्र सर्पनेत्र सर्वषां सर्वेषां १४ २९ श्रितचिन्तामणी श्रितचिन्तामणे १५ ३८ आचक्षते वदति Scanned with OKEN Scanner २५ ४४ चिदचिदीश्वरः १६ ४७ योज्य Page Sloka As it is To read as चिदचिदीश्वर ऽऽयोज्य ४८ निवेशितं विशन्ति हि १७ ५८ भिदं मिमं २१ २९ शाश्वतानन्त शाश्वतानन्द २२ मुक्तिकल्देपमापहे मुक्तिदे कल्मा २३ २४ mo १७ अयन अयनं २० चरं २३ अत्यतिष्टत् चिरं अत्यतिष्टो Scanned with OKEN Scanner श्रीः Sri Paduka Mandiram, SERIAL NO 3. (To be published) श्री विष्णुचित्तोपाख्यानम् श्री गोदावतारादिवैभवम् श्री विष्ण्वष्टो तरशत दिव्यक्षेत्र महिमोपाख्यानम् श्री गोदाकल्याणोपाख्यानम् श्री लक्ष्मीकवचम् श्री लक्ष्म्यष्टोत्तरशतनामस्तवः, नामावलिसहितः श्री गरुडकवचम् श्रीहयग्रीवाष्टोत्तरशतनामस्तत्रः, नामावलिसहितः श्री हयग्रीवकवचम् श्री गोदाष्टो तरशतनामस्तवः, नामावलिसहितः श्री रङ्गनाथा टोत्तरशतनामस्तोत्राणि [५] नामावलिसहितानि श्री वेङ्कटेश सद्यः प्रीतिकराष्टोत्तरशतनामस्तवः, स नामावलिः Price Rs 4-0-0 only Scanned with OKEN Scanner