वेङ्कतनाथार्यः - सङ्गतिः
एवं प्राप्यं भगवन्तं यथाऽवस्थितम् अनुसन्धाय
तज्-जनित-हर्ष-प्रकर्षेण परम-पुरुषार्थ-काष्ठा-भूतं
निरुपाधिक-कैङ्कर्यम् अभ्यर्थयते –
विश्वास-प्रस्तुतिः
भवन्तम् एवानुचरन् निरन्तरं
प्रशान्त-निश्शेष-मनोरथान्तरः ।
कदाऽहम् ऐकान्तिक-नित्य-किङ्करः
प्रहर्षयिष्यामि स-नाथ-जीवितः ॥ ४६ ॥
MS Rajajee (En)
Constantly waiting on you alone, having turned away from all other desires, not having any one other than you and serving you alone, having you alone as the Lord, when will I be blessed (when will I reach you?).
What is begun in Sloka 32 is concluded in Sloka 46 with the word “bhavantam” (More on this word later in the note on this sloka). The seeker, the beseecher has been constantly or eternally (“nirantaram”) waiting (“anusaran”) on the Lord. He has not sought or pursued other desires (“prashaanta nissesha manorathantharah”). He has been serving only the Lord (“Aikantika nitya kinkarah”). It may be noted that both the words have been used –waiting on the Lord and serving only the Lord. Apart from the emphasis to be conveyed, it is possible to wait on one and still manage to serve another also. Yamuna makes it clear that he has been serving only the Lord.
Yamuna uses also the word “sanathajivitah”. He has become an orphan, essentially due to the lack of grace of the Lord. This orphanship can be cured only by the will of the Lord to shower His Grace on the hapless devotee.
The concluding words “bhavantam praharshayishyami” needs a special comment. Translated literally this means, “when will I make you happy?” (and not when will you make me happy). Where is the question of the devotee making the Lord happy? Is it happiness for the beseecher or the One who blesses when the devotee attains the Lord? Sampradaya tells us that the reclamation of the jiva gives greater happiness to the Lord as it is a gain for the Svami. The pleasure or happiness which the Lord derives from such reclamation makes the jiva also happy, but the source of such happiness is the Lord.
मूलम्
भवन्तमेवानुचरन् निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाऽहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६ ॥
वेङ्कटनाथार्यः
भवन्तमिति ॥ प्राप्यप्रापकत्वानुगुणप्रागुक्तसर्वाकारपरिपूर्णमित्यर्थः । कर्माधीनसेव्यान्तरनिवृत्तिव्यञ्जनार्थ एवकारः । एतेन “गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते” इत्यादिषूक्तं रुद्राद्यनुचरणं च व्यवच्छिन्नं भवति । यद्वा, मुक्तस्य स्वेच्छया भगवत्परिजनसेवाऽपि तच्छेषिपर्यन्तत्वबुद्धिपूर्विकेत्यभिप्रायः । अनुचरन् तत्तदवस्थोचितवृत्त्या सेवमान इत्यर्थः । अत्र तु (अत्रत्यसान्तर) अवान्तरसेवाव्यावृत्त्यर्थं निरन्तरमित्युक्तम् । उत्तरावधिराहित्यमभिप्रेत्य वर्तमानव्यपदेशः । “एतमानन्दमयमात्मानमुपसंक्रम्य । इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्” (तै. आन.) इति श्रुतिश्चानेन सूच्यते । अत्र “कुरुष्व मामनुचरम्” (रामा. अयो. ३१-२४), “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतस्स्वपतश्च ते ॥” (रामा. अयो. ३१-२७) “तवानुभूतिसंभूतप्रीतिकारितदासताम् । देहि मे कृपया देव न जाने गतिमन्यथा ॥ सर्वावस्थोचिताशेषशेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व माम् ॥” इत्यादिकमनुसन्धेयम् । एवंविधकैङ्कर्यसिद्ध्यर्थं प्रयोजनान्तरेच्छा त्वयैव प्रशमनीयेत्यभिप्रायेणाह – प्रशान्तनिश्शेषमनोरथान्तर इति । ऐकान्तिकः एकस्मिन्नेव नियतः । यद्यपि ब्रह्मरुद्रप्राप्तौ क्वचिदपुनरावृत्तिरुच्यते, तथाऽपि “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” (कूर्मपूराणे १२-२७३) इत्युक्तन्यायात् क्रमेण मुक्तिपर्यन्तत्वं तत्राभिप्रेतम् । अतोऽत्र नित्यशब्देन देवतान्तरकिङ्करत्वव्यवच्छेदः । तदेतत् “क्वाहमत्यन्तदुर्बुद्धिः” (जितन्ते १.१८) इत्यादिवादिनं पुण्डरीकं प्रति भगवतोक्तम् – “आगच्छ वत्स भद्रं ते पुण्डरीक महामते । मद्रूपधारी नित्यात्मा मम पादपरिग्रहः ॥” इति । प्रहर्षयिष्यामि त्वद्दासभूतस्य मे त्वत्प्रहर्ष एव प्रधानं प्रयोजनमिति भावः । एवं स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमरहितकैङ्कर्यप्रर्थिना कृता भवति । इतः पूर्वं त्वदुपेक्षया त्वत्सनाथोऽपि नाथहीन इवाहमासम् । ईदृशं दैन्यं त्वत्सङ्कल्पादेव हि मे निवर्तिष्यत इत्यभिप्रायेणाह – सनाथजीवित इति ॥ ४६ ॥
कार्पण्यम्, त्वरा
वेङ्कतनाथार्यः - सङ्गतिः
नन्व् एवं मुमुक्षुदशां मया त्वं प्रापितोऽसि;
इयं च मद्-गुणास्वाद-गर्भतया मुक्त्य्-अवस्था-समाना
त्वया सनकादिभिर् इव कञ्चित् कालम् अनुभूयताम्
इति भगवदभिप्रायम् आशङ्क्य
स्वस्य कार्पण्य-स्थेम्ने विलम्बाक्षमतया त्वरातिशयव्यञ्जनाय च दुर्लभप्रार्थिनं स्वात्मानं निन्दति –
विश्वास-प्रस्तुतिः
धिग् अशुचिम् अविनीतं निर्दयं माम् अ-लज्जं
परम-पुरुष योऽहं योगि-वर्याग्र-गण्यैः ।
विधि-शिव-सनकाद्यैर् ध्यातुम् अत्यन्त-दूरं+++(=दुर्लभम्)+++,
तव परिजन-भावं कामये काम-वृत्तः ॥ ४७॥+++(5)+++
MS Rajajee (En)
O Supreme Lord, even the foremost among the Yogis like Brahma, Siva, Sanaka and others cannot, even in their thoughts, [[69]] attain You. I who am not holy, am sinful, merciless and shameless, am seeking to be Your immediate attendant (that is seek You) deserve to be condemned.
In the previous sloka, Alavandar has said “when will I be able to make you happy”, by enabling You to reclaim me. But then, serious doubts assail him. He has begun to think of his limitless ineligible qualities. Where is the Lord and where is he? Is it appropriate for him to even contemplate attaining to the Lord? To describe his ineligibility four words are used - asuchim, avinitam, nirdayam and alajjam. “Asuchim” means impure, having a nature opposed to doing service (kainkarya) to the Lord; “avinitam” means not having good conduct or not having humility, not having humility even while having an acharya; ’nirbhayam’ means not having fear (there are some who feel that the word to be used here is nirdayam and not nirbhayam. Nirdayam would mean not having mercy or pity like one who mixes poison with amrita (nectar) which is the bhoga for parama bhagavatas); ‘alajjam’ means not having shame.
Alavandar says that he does not have the above feelings. Why should he have them in the first instance? He should have them because the Lord cannot have any desire or wish for service from such a person like him, when the nitya suris like Adisesha, Garuda and Vishvaksena are constantly attending on Him. Such a thought of an ineligible person wanting to serve the Lord will not cross the mind of people like Brahma, Siva, Sanaka and other sages. He says that for this reason, he needs to be condemned.
The pitiable condition of the aspirant does not admit of delay. To express his overwhelming eagerness and anxiety to attain the Lord, the hymnologist is indulging in self-deprecation. Actually, Sri Yamuna equals the Nityasuris in his eligible qualities. This line is really intended for the vast number of persons who are ineligible and are seeking to attain the Lord. This is most relevant for all of them, of largely ineligible qualities, who are seeking the Lord, of exemplary qualities.
मूलम्
धिगशुचिमविनीतं निर्भ(र्द)यं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ ४७ ॥
वेङ्कटनाथार्यः
धिगशुचिमिति ॥ धिक्शब्दयोगात् द्वितीया । ननु “आत्मनिन्दाऽऽत्मपूजा च” इति स्वनिन्दाऽपि निषिद्धा । सत्यम्; न तु सर्वत्र । यथा खल्वाञ्जनेयादेः स्वप्रशंसा क्वचिद्गुणः, तथाऽऽत्मनिन्दाऽप्येतस्य स्वदैन्यख्यापनस्थले, इति । अशुचिं त्वत्कैङ्कर्यविरुद्धप्रकृतिसंस्पृष्टं तदनुबन्धिक्लेशकर्मादिदूषितं (तया) भावशुद्धिरहितत्वेऽपि तद्वत्तां भावयन्तं च । नित्यशुद्धाः सूरयश्शान्तदोषा मुक्ताश्च त्वत्कैङ्कर्ययोग्याः । तत्र कोऽहमिति भावः । नन्वाचार्यवन्तमात्मानं किमर्थं निन्दसीत्यत्राह – अविनीतमिति । यद्वा, आचार्यनियोगे ममावस्थानं स्यात्, तदा क्षत्रबन्धुवत् क्रमेण मुक्तः स्याम्, मम त्वाचार्यवत्ताऽपि विनयाभावात् सात्त्विकविडम्बनार्थैव संवृत्तेति भावः । अयोग्यस्य दुर्लभाभिलाषः “परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं मानसं स्मृतम् ॥” इति स्मरणादपचारस्स्यात् । अतः पुरोडाशार्थिनः शुन इव मे दण्डघातस्सादिति भयरहितोऽहमित्याह – निर्भयमिति । निर्दयमिति केषांचित्पाठे तु परमभागवतभोग्ये परमामृते विषं सञ्जनयन्तमिति व्याचख्युः । अत्र च मदपराधेन मदनुबन्धिनामपि प्रत्यवायो भवेदिति ज्ञात्वाऽपि प्रवृत्ततया तेषु दयारहितोऽहमिति व्याख्यातुं युक्तम् । माम् – अहङ्कारादिग्रस्तमित्यभिप्रायः । घटदास्यास्सार्वभौमपरिष्वङ्गाभिलाषवत् अनुचितविषयोऽस्य मनोरथ इति सद्भिः परिहास्यतामनुसन्धायाह – अलञ्जमिति । सूरिसेव्यस्य भगवतः स्वसंबन्धानर्हं तुङ्गत्वं व्यनक्ति – परमपुरुषेति । स्वस्य निहीनतमत्वप्रसिद्धिमिदानीमपि दोषानुवृत्तिं चाभिप्रेत्याह – योऽहमिति । योगिषु वर्याः योगिवर्याः भगवद्भक्ताः । तथा च गीयते – “योगिनामपि सर्वेषाम्” (गीता. ६-४७) इत्यादि । तेष्वग्रगण्याः प्रथमपरिगणनीयाः । विधिशिवसनकाद्यैरित्युभयभावनानां ब्रह्मभावनानां च सर्वेषां संग्रहः । ध्यातुमत्यन्तदूरमित्यनेन किं पुनः प्राप्तुमिति व्यज्यते । तव परिजनभावं – स्वानुरूपानन्तगरुडाद्यपरिमितपरिजनवत्तया निरपेक्षं त्वां प्रति किङ्करत्वम् । यद्वा, परिजनक्रियां सेवामित्यर्थः । कामये न मे केवलं सङ्गमात्रं, किन्तु विलम्बाक्षमतीव्रतमश्रद्धावानस्मीत्याशयः । कामतो वृत्तं यस्य सः कामवृत्तः । लोकशास्त्रानादरेणापरीक्षितयथेष्टकारी इत्यर्थः । “लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तेन सङ्गितम् ॥” इति सर्वपरित्याज्योऽहं कथं त्वत्प्राप्त्यर्ह इति भावः ॥ ४७ ॥
कार्पण्यम्, महाविश्वासः
वेङ्कतनाथार्यः - सङ्गतिः
यद्येवं स्वेनापि निन्दनीयस्
त्वम् इदानीम् अप्य् अपराध्यसि,
तर्हि कथं ते शीघ्रं मत्प्राप्तिं दास्याम्?
इत्यत्र
अनर्हस्यापि ममात्यन्त-दयनीयतया त्वत्-प्राप्त्य्-अर्हतापादनम् आत्मसात्-करणं च
कृपया स्वयम् एव कुर्व्
इत्य् आह –
विश्वास-प्रस्तुतिः
अपराध-सहस्र-भाजनं
पतितं भीम-भवार्णवोदरे ।
अ-गतिं शरणागतं हरे
कृपया केवलम् आत्मसात् कुरु ॥ ४८ ॥
MS Rajajee (En)
Sri Yamunacharya’s Out of Your sheer grace, please make me Your own - me who am fallen into the depths of the terrible ocean of worldly existence and who being unable to resort to any one else, have sought refuge at your feet.
In a sense, this sloka continues from sloka 23 and 24. In sloka 23, it had been said that all the sinful acts had been committed hundreds of times and when the time to suffer for these had come, he is crying helplessly before the Lord. In sloka (24), it had been said that when he was drowning in the ocean of samsara, he had found the Lord. In sloka 47, Alavandar had piteously cried that he is ineligible to receive the grace of the Lord and needs to be condemned for his various bad qualities. For this reason, is he to stand aside, so that he may be passed over? No. Instead, he appeals to Hari. Who is Hari? As the name itself symbolizes, He is One who washes off the sins of the sinner, provided he approaches the Lord and does “saranagati” so that the Lord may make him as His person.
He appeals to Hari. Please see the third line in the sloka. He confesses that he has committed hundreds of sins (“aparaadha sahasra bhajanam”). He has fallen into the middle of the fierce ocean called samsara (“bhima bhava arnava udare patitam). He does saranagati and seeks the grace of the Lord (“kevalam kripaya”) to make him the Lord’s man (“atmasat kuru”). It is part of Vaishnava sampradaya to recite this sloka, when one goes to a shrine to offer worship.
71 One may refer here to sloka (9) of Mukunda Mala. Says Kulasekhara. “I plunge in the sacred lake called Hari….the depth of the lake is unknown; but the very touch of its waters is most refreshing. I plunge in this lake and drink of the divine light that is its water and leave aside the long drawn weariness of my wanderings in that vast mirage of a world”.
मूलम्
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ ४८ ॥
वेङ्कटनाथार्यः
अपराधेति ॥ “न निन्दितम्” (श्लो. २३) इति पूर्वोक्तमत्र अपराधसहस्रभाजनमित्यनूदितम् । तच्च क्षमादिगुणैकभाजनेन त्वया सर्वं क्षन्तव्यमिति सूचनार्थम् । “निमज्जतः” (श्लो. २४) इति प्रागुक्तं पतितमित्यादिना पुनर्गृहीतम् । ज्ञानिनां पुण्यफलांशोऽपि रागानुवृत्तिहेतुतया अत्यन्तभयावह इत्यभिप्रायेण भीमशब्दः । एवं संसारस्यातिघोरत्वोक्त्याऽपि स्वस्य परप्राप्तौ विलम्बाक्षमत्वं प्रतिष्ठाप्यते । अगतिमित्यनेन प्रागुक्तानन्यगतित्वं स्थूणानिखननन्यायेन स्थिरीक्रियते । शरणागतमिति च पूर्वप्रयुक्तरक्षणव्याजानुवादः । तेन च “शरणं च प्रपन्नानां तवास्मीति च याचताम् । प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥” (विष्णुधर्मे १०६-५३) इति सामान्यप्राप्तं त्वयि कैमुत्यसिद्धमिति व्यज्यते । “शरण्य!” (श्लो. २२) इत्युक्तं हरिशब्देन स्थापितम् । समर्थः कारुणिको हि शरण्यः; तत्रानितरसाधारणं भगवतः सामर्थ्यम् । “ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च । प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते ॥” (हर्यष्टके) इति पुराणोक्तम् । तथा कारुणिकत्वं चाश्रितानामनिष्टानि हरतीति विवक्षया व्यञ्जितम् । स्मर्यते हि “हरिर्हरति पापानि” (हर्यष्टके), “देव! प्रपन्नार्तिहर!” इत्यादि । उक्तं च परमसंहितायां – “यस्माद्व्याप्तं जगत्तेन तस्माद्विष्णुरिति स्मृतः । हरणादेव दुःखानां हरिरित्यभिधीयते ॥” इति । “ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना । महतीमापदं प्राप्य स्मर्तव्यो भगवान् हरिः ॥”, “परमापदमापन्नो मनसा चिन्तयेद्धरिम्” (विष्णुधर्मे ६९-४७) इत्यादिकमप्येतदभिप्रायम् । कृपया लब्धावसरयेत्यभिप्रेतम् । केवलम् इतः परं मद्व्यापारनिरपेक्षमिति भावः । एतेन साधनान्तरनिष्पादनद्वारकं रक्षणं व्यवच्छिद्यते । आत्मसात्कुरु – दासभूतं मामुपायोपेयान्तरवैमुख्यकरणेन स्वकैङ्कर्यैकरसं कुरुष्वेत्याशयः । “धिगशुचिम्” (श्लो. ४७) इति पूर्वोक्तस्वात्मतिरस्कारानुवृत्त्या आत्मन्यनादरद्योतनायात्र मामित्यनुक्तिः ॥ ४८ ॥
वेङ्कतनाथार्यः - सङ्गतिः
“न धर्मनिष्ठोऽस्मि” (श्लो. २२) इत्यारभ्य “अकिञ्चनः”, इत्यन्तेनोक्तं प्रपञ्चयति –
विश्वास-प्रस्तुतिः
अविवेक-घनान्ध-दिङ्मुखे
बहुधा सन्तत–दुः-ख-वर्षिणि ।
भगवन् भव-दुर्दिने पथः
स्खलितं माम् अवलोकयाच्युत ॥ ४९ ॥
MS Rajajee (En)
I who have lost my sense of direction and moved away from the path of rectitude, bewildered by the cloudy day, called samsara, enveloped in dark dense clouds of ignorance and beaten continously by ever expanding miseries, O Achyuta, please look on me.
This sloka elaborates what was said in sloka 22. The Lord is both the ‘upaya’ and the ‘upeya’.
The day when the shining sun is not seen is a gloomy day. “Samsara” has been compared to a gloomy day (“bhava durdine”). Ignorance is like a cloud (“aviveka ghana”). This cloud of ignorance is covering the rays of the Sun, called knowledge. The rain which is coming down due to the cloud (ignorance) is the samsaric sorrow (‘santata dukha varshini’). Because of all this, he has lost the way. Alavandar is praying to the Lord to show him the way, to him who has lost his way due to “samsara” (pathah skhalitam maam avalokaya”).
Alavandar is addressing the Lord - bhagavan. The Lord alone is capable of giving him liberation. He is further addressed as Achyuta - one who remains steadfast by His devotees. Alavandar wishes to reinforce his prayer by reminding Him that He is Achyuta and therefore does not address Him by the other names. He calls Samsara as a gloomy day (bhava durdine) to emphasise that it is what is opposed to the salvation of the individual. It is this same samsara which has made him to lose his way meaning that it is what made him to stray from the path of dharma. What does he seek from the Lord? He calls on the Lord to look (‘avalokaya’), meaning to have mercy on him, to shower His grace on him so that he gives up his ‘aviveka’.
मूलम्
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत ॥ ४९ ॥
वेङ्कटनाथार्यः
अविवेकेति ॥ अविवेकरूपैर्घनैरन्धानि प्रकाशरहितानि दिङ्मुखानि यस्य तत् तथोक्तम् । बहुधा – तापत्रयरूपेण, शारीरमानसादितदवान्तरभेदैश्च । संततदुःखवर्षिणि – अविच्छेदेन प्रतिकूलवर्गं सर्वत्र विदधाने । भगवन् – हेयप्रतिभटकल्याणैकतान, त्ववेव मां मोचयितुमर्हसीति भावः । प्रकाशगतिविरोधितया भवस्य दुर्दिनत्वरूपणम् । पथः – कर्मयोगादिनिवृत्तिधर्मरूपमुक्तिमार्गात्; स्खलितं – प्रभ्रष्टमित्यर्थः । माम् – “त्वत्पादमूलं शरणं प्रपद्ये” (श्लो. २२) इति वादिनमिति भावः । अवलोकय – अनुगृह्णीष्वेत्यर्थः । अच्युत – “न त्यजेयं कथञ्चन” (रामा. यु. १८-३) इत्यादिवादिनं त्वामाश्रितः च्युतो न भवतीत्यभिप्रायः । “मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽस्य विषयैः न मयि प्रसङ्गी । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव! नेशः” (विष्णुधर्मे) इति क्षत्रबन्धूक्तम्, “सोऽहं ते देवदेवेश!” (वि.पु. ५-७-७०) इत्यादि कालियवाक्यं चानुसन्धेयम् ॥ ४९ ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथ संसारिणामानन्त्येन
त्वदधिक-दयनीयलाभात् तत्रैव मे त्वरा युक्ता,
किं त्वद्-अवलोकनेन
इत्यत्र “त्वयाऽपि लब्धम्” (श्लो. २४), “अभूतपूर्वम्” (श्लो. २५) इत्याद्युक्तं मुखान्तरेण शरण्यस्याप्यनिष्टप्रसङ्गं सूचयन् द्रढयति –
विश्वास-प्रस्तुतिः
न मृषा, परमार्थम् एव मे
शृणु विज्ञापनम् एकम् अग्रतः ।
यदि मे न दयिष्यसे ततो
दयनीयस् तव नाथ! दुर्लभः ॥ ५० ॥
MS Rajajee (En)
O Lord, listen to my prayer that is genuine, and without a trace of falsehood. If You do not take pity on me, it will be difficult to find one more worthy of compassion.
Alavandar had said in sloka 24 that the Lord had found in him a worthy recipient for his mercy. He had said in sloka 25 that it is not becoming of the Lord if those who had sought Him were to become frustrated. It is possible that the Lord may tell Alavandar that there are many others in this position, like him and that being so, how is he different and how is his seeking compassion, to be treated differently. Alavandar anticipates this question of the Lord and replies in the sloka.
Though there may be many who need to be saved by the Lord, for the person who is seeking the grace of the Lord, the Lord alone is the saviour. In this sloka, it is being said that the Lord would not find one who has more deficiencies. That being73 so, if the Lord were to now ignore him, then the grace of the Lord would be wasted. Saving him is the immediate duty of the Lord, as the Lord would find it difficult to locate one on whom He can show grace, if He passes over the hymnologist.
This concept of the protectee submitting to the Lord that he is the most eligible sinner has been used by Desika in several slokas. Says Desika in Daya Satakam: “O Daya, when I, the foremost among sinners, am present here, how are you able to survive on the limited sins of others, which will not be sufficient to fill Your stomach?” (Sloka 29).
“O Daya! I am the emperor among sinners and You are the empress of all virtues. O knowledgeable one, knowing this situation, You, of Your own accord, come and place me at the feet of the Lord” (Sloka 30).
Again, says Desika in Saranagati Dipika, “O Master! Every moment I do things which are not to be done, as if they are to be done. I give up things which are to be actually performed by me, as if they are to be avoided. There is also a host of other violations (done by me). May Grace, the empress among your qualities, take the place of means (of saving) in my case: (Sloka 44) “O Lord, long ago you yourself had said that compassion to those who seek refuge is the highest virtue. Because you are the One who gives refuge, you are now being reminded by me. Indeed, these undertakings of yours are meant for people like me. Is it not?” (Sloka 45).
“O Bhagavan, enough of Your going on thinking about me. I, the bold one, bear the name of a prapanna. Therefore, make me the object of Your grace, so as to avoid Your getting a bad name (Since You have already promised to protect a person who even entertains the idea of doing prapatti”).
मूलम्
न मृषा परमार्थमेव मे शृणु विज्ञापनमेकमग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ! दुर्लभः ॥ ५० ॥
वेङ्कटनाथार्यः
न मृषेति ॥ स्ववाक्यसत्यत्वाभिसन्धिद्योतनायात्र व्यतिरेकतोऽन्वयतश्च निर्देशः । परमार्थमेव विज्ञापनं शृणु इत्यत्र नेदं स्वरक्षणप्रोत्साहनमात्रेण प्रयुक्तमित्यवधारणाभिप्रायः । विज्ञापनं – सर्वज्ञेऽपि स्वामिनि दासोचितं स्वकार्यार्थवाक्यमित्यर्थः । शृण्विति चानादरपरिहारपरम् । एकं – रक्ष्यरक्षकयोर्द्वयोरपि लाभार्थतया प्रधानभूतम् । अथवा, इदमेकमेव विज्ञापनम् । वक्ष्यमाणं सर्वमेतत्परिकरबन्ध इति भावः । अग्रतः – न हि त्वं दूरस्थः सन् पुरुषान्तरमुखेन विज्ञाप्यस इति भावः । मे – कर्मयोगादिसुकृतलेशरहितस्यापराधसहस्रभाजनतया सर्वाधिकदुःखभागिनः । अत्र “अधीगर्थदयेशां कर्मणि” (अष्टाध्यायी २.३.५२) इति षष्ठी । तव दयाविषयान्वेषिण इति भावः । तव दयनीय इत्यन्वयः । दुर्लभ इत्यनेनान्वये तु संबन्धसामान्ये षष्ठी नेतव्या । मम च शरण्यान्तरं दुर्लभमित्यभिप्रायेण नाथेति संबुद्धिः । उक्तं हि पूर्वं “चिराय मे कूलमिवासि लब्धः” (श्लो. २४) इति । “पराभवो नाथ! न तेऽनुरूपः” (श्लो. २५) इति प्रागुक्तं चात्र प्रतिसन्धेयम् ॥ ५० ॥
वेङ्कतनाथार्यः - सङ्गतिः
“अस्त्व् एवं दुर्लभः, ततः किं कर्तव्यम्?” इत्यत्र –
ममैव लाभेऽपि त्वया त्वरितव्यम्;
किं पुनस्तवापि लाभे सति;
तस्माद् आवयोर् इष्ट-भङ्गानिष्ट-प्रसङ्ग-परिहारार्थं
त्वन्-मूल-त्वत्-प्रवृत्ति-सिद्धं रक्ष्य-रक्षकत्व-रूपं संबन्धं
निवारक-रहित-निरङ्कुश-स्वातन्त्र्यान् निष्फली-कर्तुं नार्हसि
इत्यभिप्रायेणाह –
विश्वास-प्रस्तुतिः
तद् अहं त्वद्-ऋते न नाथवान्
मद्-ऋते त्वं दयनीयवान् न च ।
विधि-निर्मितम् एतम् अन्वयं
भगवन्! पालय मा स्म जीहपः ॥ ५१ ॥+++(4)+++
MS Rajajee (En)
Sri Yamunacharya’s Lord, without You, I am lost and without me, You lose a worthy recipient for your compassion. This relationship of Your Lordship and my (state of) pitiableness, needs to be preserved. This has been ordained by fate.
This sloka takes forward the plea made in the previous sloka (sloka 50) wherein it was stated that if the Lord did not save him, He would find it difficult to find another (’tatah tava dayaniyah durlabhah”). The plea now is that there is none other than the Lord and for the Lord there is none else who better deserves compassion. He says that there is no other lord (ananthavan) for him and for the Lord there is none else (“madrute”) to shower His compassion. One who deserves the compassion of the Lord is one who is struggling because he has committed sins. One who most deserves the compassion of the Lord is, by the above logic, one who is greatly suffering because he has committed limitless sins. Alavandar says in this sloka that if the Lord were to leave him, he would not find one who better deserves compassion. He says that there is always this connection for him there is none else than the Lord and for the Lord there is none else than him.
Alavandar goes on to say that this relationship of Protector - Protectee is fated (“vidhinirmitam”). This raises a question. Apart from the Lord, is there such a thing called “fate”, for it to be said that this relationship is fated?. Here, the word ‘vidhi’ or fate is not as is commonly understood. It is not destiny. It is the Divine Grace which forges the mutual bonds between man and God.
75 In the previous sloka, we had quoted from Vedanta Desika to explain how he had also expatiated on the theme of the beseecher being the most sinful person. Since this sloka of Yamuna carried forward the same theme, we may once again, with advantage, quote from Desika. Says Desika in “Sri Devanayaka Panchasat”: “O Vibudhanatha, having obtained me, who is an oçan of ignorance, leader of the wrong doers, breaker of commands and emperor among the destitute, why do You, the omniscient, think of any one else as the proper recipient of your compassion?” (Sloka 49).
Says Desika in Nyasa Dasakam: “O Divine Lord, Remover of the distress of those who bow down! Forgive every thing - my doing forbidden things and not doing things that ought to be done”. (Sloka 9).
मूलम्
तदहं त्वदृते न नाथवान् मदृते त्वं दयनीयवान् न च ।
विधिनिर्मितमेत(द)मन्वयं भगवन्! पालय मा स्म जीहपः ॥ ५१ ॥
वेङ्कटनाथार्यः
तदहमिति ॥ तत् उक्तस्यार्थस्य सत्यत्वादित्यर्थः । अहं मुमुक्षुः सन्नाकिञ्चन्यधनः । त्वदृते न नाथवान् सर्वशक्तेः परमकारुणिकात् त्वत्तोऽन्येन शरण्यवान् न भवामीत्यर्थः । मदृते त्वमित्यादि । अपरिच्छेद्यापराधफलभूतानन्तदुःखाकरान्मत्तोऽन्येन त्वं दयाविषयवान्न भवसि । मत्परित्यागे मादृशास्सर्वेऽपि तव परित्याज्याः स्युः । एवं सति विषयालाभात् दयागुणस्ते हीयेतेति भावः । सर्वस्मात् संसारिवर्गात् स्वकार्यसिद्ध्यर्थं स्वदोषाधिक्यमारोप्य वा मदृते इत्युक्तम् । विधिनिर्मितम् अनतिक्रमणीयतया दिष्ट्या निर्मितम् । अज्ञातसुकृतविशेषरूपव्याजावलम्बिन्या त्वत्कृपयैवावसरे कॢप्तमिति यावत् । एतमन्वयं – दयावत्त्वदयनीयत्वरूपं संबन्धम् । एतदन्वयमिति केचित् पठन्ति । तत्रापि स एवार्थः । एतयोरावयोः संबन्धमिति वा । भगवन् इत्यनेन मोक्षप्रदत्वमुक्तप्राप्यत्वानुगुणमुभयलिङ्गत्वमुद्घाट्यते । पालय सफलीकुरुष्वेति भावः । मा स्म जीहपः – यद्यप्यहमपर्यनुयोज्यदुष्कर्मवशादिमं संबन्धं हातुमिच्छामि, तथाऽपि त्वया न तथा प्रवर्तनीयोऽहमिति भावः ॥ ५१ ॥
शेषत्वम्, प्रत्यर्पणम्
वेङ्कतनाथार्यः - सङ्गतिः
अस्त्व् एवं त्वद्-उक्तं सर्वं सत्यम् उचितं च;
तथाऽपि“ज्ञानानन्दमयस् त्वात्मा
शेषो हि परमात्मनः”,इत्य्-आद्य्-उक्त-स्वरूपज्ञानम् अन्तरेण
स्वरूपानुरूप-पुरुषार्थापेक्षापूर्वक-तद्-उपायः कथं ते निष्पन्नः?
त्वयि च सहज-संबन्ध-परित्यागिनि
ममापि रक्ष्यरक्षकत्व-संबन्धपरित्यागे को दोषः?
“त्वं मेऽहं मे” (पराशर-भट्टारक-मुक्तक-श्लोकः) इति च
आवयोरनादिर्विवाद इदानीम् अपि न शान्त
इत्यत्र “स्वामिन्” (श्लो. १०) इत्यादिभिः प्रागपि संक्षिप्तं,
“तद् वा एतद् अनुज्ञाऽक्षरं
यद्धि किंचानुजानाति,
ओमित्येव तदाह”,
इति च्छान्दोग्याधीतानुज्ञाक्षर-प्रदर्शित-शेषत्वाभ्युपगमेनोत्तरम् आह –
विश्वास-प्रस्तुतिः
वपुर्-आदिषु योऽपि कोऽपि वा
गुणतो ऽसानि यथा-तथाऽविधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् +++(इतः परं निर्विवादं←)+++ अद्यैव मया समर्पितः
+++(यतो वक्ष्यमाणरीत्या वस्तुतस् तवैवाहम्)+++ ॥ ५२ ॥+++(5)+++
MS Rajajee (En)
Whatever might be the nature of the body and my organs, with which I am endowed, according to the Gunas of Prakriti, I am offering them this very moment at Your lotus feet, as also what is denoted as I in me.
Alavandar had stated in the previous sloka that the Lord needs to protect the relationship between the Lord and himself. The Lord asks Alavandar that for quite some time now there has been a discussion between Alavandar and himself as to whether he belongs to himself or to the Lord and that this has not been resolved. That being the position, how can the Lord accept the proposition of Alavandar pertaining to the protector and protectee? It is this 76.
Sri Yamunacharya’s question which Alavandar answers in this sloka. He says that there is no such discussion as to whom Alavandar belongs. He belongs to the Lord only. Hence he makes an offering of himself - of his body and organs. In this context sloka 10 may also be seen.
In the fourth line of the sloka the word “aham” is used. This is to be taken to mean “atma”. The ‘atma’ has been said to be different things by different persons. Some say that the body is the atma; some say that the prana is the atma; some say that it is intelligence. Alavandar does not wish to enter into any such intellectual disputation. He says that in the opinion of the Lord whatever form ‘atma’ assumes, Alavandar is willing to submit at the lotus feet of the Lord that ‘aham’ (“Ayamham tava padapadmayoh adya eva maya samarpitah”). In effect, what Alavandar is saying is that what is important is servitude.
Alavandar is submitting to the Lord that he is giving up his attachment to the organs, to the body and not being able to realise the self, he is solely depending on the feet of the Lord and that the Lord should save him (as He did save Gajendra and Draupadi).
मूलम्
वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥ ५२ ॥
वेङ्कटनाथार्यः
वपुरादिष्विति ॥
आदिशब्द इन्द्रियादि-सङ्ग्रहार्थः ।
यथोक्तम् आत्मसिद्धौ –
“देहेन्द्रिय-मनः-प्राण-
धीभ्योऽन्योऽनन्य-साधनः ।
नित्यो व्यापी प्रतिक्षेत्रम्
आत्मा भिन्नस् स्वतस् सुखी ॥”
इति ।
योऽपि कोऽपि वा – अहं वपुरादिषु यः कश्चित् स्याम् ।
प्रमाण-सिद्धस्याहम्-अर्थस्य सार-भूते त्वच्-छेषत्वे मम निर्बन्धः ।
सामान्यतश् च स्वानुगुण-सार-ग्रहणम् उच्यते “यावानर्थ उदपाने” (गीता.२.४६),
“बहुभ्यश् च महद्भ्यश् च
शास्त्रेभ्यो मतिमान् नरः ।
सर्वतः सारम् आदद्यात्
पुष्पेभ्य इव षट्पदः ॥” (भार.शान्ति. १७६-६६)
इत्य्-आदिभिः ।
अत्र देहात्मभ्रमाद्य्-अनुवृत्तिर् भवतु वा मा वा,
“योऽहमस्मि स सन् यजे” (तै.ब्रा ३.७)
इति न्यायम् इहाश्रयामीति भावः ।
तथाऽपि ज्ञातृत्व-कर्तृत्व-भोक्तृत्वादि-विवेकम् अन्तरेण
कथम् उपायानुष्ठानं फलितं वा स्याद् इत्यत्राह –
गुणतोऽसानि यथा-तथा-विध इति ।
अणुत्व-विभुत्व–मध्य-परिमाणत्व–
जडत्वाजडत्व–नित्य-ज्ञानत्व–करणाधीन-ज्ञानत्वादि-विवेको
ऽत्र नातीवापेक्षितः ।
अपेक्षितत्वेऽप्य् आत्म-स्वरूप-प्रकारयोर् अत्यन्त-परिज्ञाने मम शक्तिर् नास्ति । +++(4)+++स्वतः सर्व-ज्ञस् त्वम् एव
योऽसौ यत्-प्रकारश् चेति मन्यसे,
स तथाऽहम् इति सामान्यतः प्रबुद्धोऽहम्
इति भावः ।
तत् – एतावताऽपि प्रस्तुतशास्त्रार्थ-विरोधाभावाद् इति यावत् ।
अयम् अहं – त्वद्-अनुसंहित–यथावस्थिताकार–
शरण-वरणानुगुणार्थित्व-सामर्थ्यवान् अहम् इत्यर्थः ।+++(5)+++
आत्म-स्वरूप-निरूपण-दशायाम्
अहं-शब्द-प्रयोगाद् अहम्-अर्थ एवात्मेति स्थापितं भवति ।
तव पाद-पद्मयोः समर्पितः –
“यस्यास्मि न तम् अन्तरेमि” (यजुर्ब्राह्मणे ३.७)
इति न्यायात् त्वच्-छेषत्वेन न्यस्त
इत्यर्थः ।
मया – त्वद्-दत्त-करण-कलेबर-बुद्धि-श्रद्धा-कार्पण्यादि-शालिना । स्मर्यते हि –
“विचित्रा देह-संपत्तिर्
ईश्वराय निवेदितुम् ।
पूर्वम् एव कृता ब्रह्मन्!
हस्त-पादादि-संयुता ॥”
(विष्णुतत्त्वे)+++(5)+++
इति ।
इतः परं त्वया सह विवादो मे न भविष्यतीत्यभिप्रायेणाह – अद्यैवेति । अत्र
“यदि क्षणिकम् एव मम स्वरूपम्,
तथाऽपि तस्मिन्न् एव क्षणे निक्षिप्तः”
इति केषांचिद् व्याख्यानं त्व् अतिवाद-मात्रम् ।
+++(क्षणिकेतरत्वं तु ज्ञेयम् एव भर-समर्पणाय। )+++
एवं “मुमुक्षूणाम् आत्मात्मीयं सर्वं भगवच्-छेषत्वेनानुसन्धेयम्”
इति निवृत्ति-धर्म-सारो निष्कृष्टः ।
उक्तं चैतद् उपरिचराख्याने (भार.शान्ति. ३४३.२४)
“आत्मा राज्यं धनं मित्रं
कलत्रं वाहनानि च ।
एतद् भगवते सर्वम्
इति तत्-प्रेक्षितं सदा ॥”
इति । श्रीविष्णुतत्त्वे च –
“स्वत्वम् आत्मनि संजातं
स्वामित्वं ब्रह्मणि स्थितम् ।
उभयोर् एष संबन्धो
न परोऽभिमतो मम ॥स्वोज्जीवनेच्छा यदि ते,
स्व-सत्तायां स्पृहा यदि ।
आत्म-दास्यं हरेस् स्वाम्यं
स्वभावं च सदा स्मर ॥”,
इति । सर्वसंशयनिर्मोक्ता नारदश्च पुण्डरीकसंवादे प्राह –
“दासोऽहं वासुदेवस्य
देव-देवस्य शार्ङ्गिणः ।
शङ्ख-चक्र-गदा-पाणेस्
त्रैलोक्यस्यैक-चक्षुषः ॥”
इति । ईश्वरसंहितायां महादेवश्चाह –
“दास-भूतास् स्वतस् सर्वे
ह्य् आत्मानः परमात्मनः ।
अतोऽहम् अपि ते दास
इति मत्वा नमाम्य् अहम्”
(मन्त्रराजपदस्तोत्रे १२)
इति ॥ ५२ ॥
वेङ्कतनाथार्यः - मणिप्रवाळेन
मुद्रैय् इट्ट् इरुक्किऱ राजाविऩ् किऴिच्-चीरै
ऒरु हेतुवाले तऩ् कैयिलेय् इरुन्दाल्
“राजा कैक् कॊळ्ळुम्” ऎऩ्ऱु उळ्ळ् इरुक्किऱ
माणिक्कत्तिऩ् स्व-रूप–स्व-भावङ्गळै विशदम् आग अऱियादे
किऴिच्-चीरैयोडे मीळक्+++(=पुनः)+++ कॊडुक्कुमाप् पोले
देहाद्य्-अतिरिक्तात्माविऩ् स्व-रूप–स्व-भाव–स्थितिगळै विशदम् आग विवेकिक्क अऱियादारुम्
उळ्ळ अऱिवैक् कॊण्डु आत्म-समर्पणम् पण्णिऩाल्
अव्व् अळवालुम् अनादि-कालम् पण्णिऩ आत्मापहार-चौर्यत्ताल् उण्डाऩ
भगवन्-निग्रहम् शमिक्कुम्
ऎऩ्गिऱ शास्त्रार्थत्तिले तिरुव्-उळ्ळम्।
वेङ्कतनाथार्यः - सङ्गतिः
ननु “मया समर्पितः” (श्लो. ५२) इत्य्-अत्र
स्वशेषत्वानुसन्धान-पूर्वकं स्वाधीन-कर्तृत्व-बुद्ध्या समर्पयसि चेत्“योऽन्यथा सन्तम् आत्मानम्
अन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं
चोरेणात्मापहारिणा ॥” (भार.उद्योग. ४१-३७)इत्युक्तात्मापहारादि-दोषः परिहृतो न स्याद्+++(5)+++
इत्यत्र स्वोक्ताभिप्रेतं विवृणोति –
विश्वास-प्रस्तुतिः
“मम नाथ यद् अस्ति यो ऽस्म्य् अहं
स-कलं तद्+धि तवैव माधव! ।
नियत-स्वम्” इति प्रबुद्ध-धीर्
अथवा किं नु +++(शिष्टं)+++ समर्पयामि ते? ॥ ५३ ॥+++(5)+++
+++(अतो यत् प्रत्य्-अर्पितं, तत् तवैवेति प्रतिज्ञानमात्रम्। ततो ह्य् आत्मचौर्य-पाप-निवृत्तिः।)+++
MS Rajajee (En)
O Lord, whatever I have and whatever I am, all these are yours. What shall I then offer You? O Madhava, being awakened to the conciousness that all these are Your inalienable property, there is nothing else left for me to offer.
In the previous sloka, Alavandar had said that he is offering the body and the ‘aham’ at the feet of the Lord. But having realized that he is in servitude, Alavandar entertains a doubt. When 77 he is already in servitude, is it appropriate for him to offer the body and the organs, as if he is independent? He therefore, hurriedly, clarifies the position. He says that whatever he has and whatever he is, is already that of the Lord (“niyatasvam”). He has nothing else to offer.
In this sloka, the Lord has been addressed as “Madhava” to signify his eternal Lordship. We are all dependent on the goddess Sri and She is dependent on the Lord.
मूलम्
मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव! ।
नियतस्वमिति प्रबुद्धधीरथवा किं नु समर्पयामि ते? ॥ ५३ ॥
वेङ्कटनाथार्यः
मम नाथेति ॥
अत्र जीव-परमात्मयाथात्म्य-विषयः प्रमाण-गणः पद-द्वये प्रतिसन्धेयः ।
यद् अस्तीति स्वानुबन्धितया प्रमाण-सिद्ध-गुण-विग्रहादि-सर्व-संग्रहः ।
ममेति व्यतिरेकोक्त्या देहात्म-भ्रमादिः परिहृतः ।
त्र्य्-अक्षर-ब्रह्मणि तृतीयाक्षर-विवक्षितं विविक्तात्म-स्वरूपम् आह – योऽस्म्यहम् इति ।
सकलं तत् – आत्मात्मीयं तत्सर्वम् । हि-शब्देन प्रमाणप्रसिद्धिर्द्योत्यते ।
तव – सर्वकारणतया सर्वरक्षकतया च प्रथमाक्षरप्रकृत्युक्तस्य ।
एव-कारेण मध्यमाक्षर-सिद्धम् अनन्यार्हत्वं प्रकाश्यते ।
माधव – श्रियः पते! । एतेन निरुपाधिकसर्वशेषित्वं सूच्यते ।
चतुर्थीविवक्षितम् आह – नियतस्वम् इति । नित्यशेषभूतमित्यर्थः ।
इति प्रबुद्धधीः – एवं त्वत्प्रसादसन्धुक्षितैः शास्त्रैः विकसित-बुद्धिर् इति भावः ।
शङ्कित-दोष-व्यवच्छेदाभिप्रायेणाह – अथवेति ।
किं नु समर्पयामि ते?
सर्वस्वामिनः सर्वेश्वरस्य तव पूर्वम् अ-शेषभूतं
मयेदानीं स्वातन्त्र्य-स्वामित्वाभिमान-पूर्वकं शेषी-कर्तव्यं न किञ्चिदस्ति ।
अतः पूर्वश्लोककृतं समर्पणं
त्वच्-छेषत्व-प्रतिपत्ति-मात्र-रूपम्;
न तु मदीयस्य त्वच्-छेषत्वापादन-रूपम् इति भावः ।
“अत्र पूर्व-कृत–स्व-रूप-समर्पणानुशयेन
तद् एव प्रतिक्षिप्यते”,
इति पक्षस् त्व् अ-प्रति-बुद्धानाम् आत्म-समर्पणम् अभिप्रेत्योक्तिः ।
अस्य तु यामुनाचार्यस्य
प्राग् एव प्रतिबुद्धत्वाद्
अस्मद्-उक्तैव गमनिका ।
न खलु
“अद्यैव मया समर्पितः” (श्लो. ५२) इत्य्-उक्तेर्
अनन्तरम् अस्य तत्त्व-प्रतिबोधः ।
एवं
भर-समर्पण-रूप-प्रपत्ति-परः पूर्व-श्लोकः ।
अयं तु तत्त्व-विदां तस्यैवाकर्तव्यत्व-स्थापनार्थः”
इति पक्षोऽपि
नियत-स्वमिति प्रबुद्ध-धीः,
“अवबोधितवान् इमां यथा” (श्लो. ५४)
इत्य्-आदिभिर् न सङ्गच्छते ।
भर-न्यास-विधायक-शास्त्रैश् च विरुध्येत ।
“संबन्ध-ज्ञान-मात्रम् एव प्रपत्तिः” इति वादश्चात एव निरस्तो लोक-विरुद्धश्च ॥
अप्रपन्नेऽपि संबन्धबुद्धिर्दासे हि दृश्यते । अमित्रे गत्यभावेन प्रपन्नेऽपि न दास्यधीः ॥ ३२ ॥
अन्यथा “तां त्वां दास इति प्रपन्न इति च” (चतुश्लोकी २) इत्य्-आदिभिर् अपि विरुध्येत ।
अतो मुमुक्षूणां भर-समर्पण-रूप-प्रपत्तौ
संबन्ध-ज्ञानम् अधिकार-कोटौ स्थित्वा
ऽनुष्ठान-कालेऽपि फल-सङ्ग–कर्तृत्वादि-त्यागवत् तिष्ठतीति मन्तव्यम् ॥+++(5)+++
महताम् अपि केषांचिद्
अतिवादाः पृथग्-विधाः ।
तत्-तद्-अर्थ-प्रशंसादि-
तत्-परत्वाद् अबाधिताः ॥ ३३ ॥ +++(5)+++
५३ ॥
वेङ्कतनाथार्यः - मणिप्रवाळेन
इदुक्कु मेल्
‘‘मम नाथ यदस्ति’’ (आळवन्दार् स्तोत्रम् ५३।) ऎऩ्गिऱ श्लोकत्तिल्
इस्-समर्पणत्तैप् पऱ्ऱ अनुशयम् पण्ण्-इऱ्ऱुम् स्व-रूपादि-विवेकम् अऩ्ऱिक्के
समर्पिक्कप् पुक्कालुम् तऩ्ऩ्-उडैय द्रव्यत्तै राजावुक्कु उपहारम् आगक् कॊडुप्पारैप् पोलेय्
ऎऩ्ऩद् ऎऩ्गिऱ अभिमानत्तोडे समर्पिक्किल्
आत्मापहार-चौर्यम् अडिय्-अऱ्ऱद् आगाद्
ऎऩ्गैक्कागव् अत्तऩै।
अल्लदु शास्त्र-चोदितम् आय्त् ताम् अनुष्ठित्त समर्पणत्तै
अ-ज्ञ-कृत्यम् आक्किऩ बडिय् अऩ्ऱु।
सार-बोधिनी
अस्य श्लोकस्यायमर्थः । हे नाथ – नाथत्वेन पतिं विश्वस्येत्यादि प्रमाणप्रसिद्धऩाऩ भगवाऩे! मम – जीवतया प्रसिद्धऩाऩ अहमर्थमाऩ ऎऩक्कु। यदस्ति – स्वानुबन्धितया प्रमाणसिद्धमाऩ गुणविग्रहादिगळ् यादु उण्डो? योऽस्म्यहं – त्र्यक्षरब्रह्मत्तिल् अदावदु प्रणवत्तिल् तृतीयाक्षरत्तिल् विवक्षितऩाऩ यादॊरु अहमर्थऩाऩ नाऩुण्डो? सकलं – तत् – आत्मात्मीयङ्गळाऩ अन्द सर्वम्। हिशब्देन प्रमाणप्रसिद्धिर्द्योत्यते । तवैव – सर्वकारणतया सर्वरक्षकतया च प्रथमाक्षरप्रकृत्युक्तऩाऩ उऩ्ऩुडैयदे। एवकारत्ताले मध्यमाक्षरसिद्धमाऩ अनन्यार्हत्वं प्रकाश्यते । माधव - इदऩाल् निरुपाधिकसर्वशेषित्वं सूच्यते । चतुर्थियिल् विवक्षितत्तैच् चॊल्लुगिऱदु नियतस्वमिति । नित्यशेषभूतमित्यर्थः । इति प्रबुद्धधीः –नित्यशेषभूतमॆऩ्ऱु त्वत्प्रसादसन्धुक्षितशास्त्रङ्गळाले विकसितबुद्धिः । अथवा – पक्षान्तरेण, किन्नु समर्पयामि ते – ‘‘मया समर्पितः’’ ऎऩ्ऱु सॊऩ्ऩविडत्तिल् शेषत्वज्ञानमिरुन्दालुम् स्वाधीनसमर्पणकर्तृत्वबुद्ध्या किन्नु समर्पयामि ते? न किमपीत्यर्थः । सर्वस्वामिनः सर्वेश्वरस्य तव पूर्वम् अशेषभूतम् इदानीं मया स्वातन्त्र्यस्वामित्वाभिमानपूर्वकं शेषीकर्तव्यं न किञ्चिदस्ति । अतः पूर्वश्लोकोक्तं समर्पणं त्वच्छेषत्वप्रतिपत्तिमात्रकृतम्; न तु मदीयस्य त्वच्छेषत्वापादनरूपमिति भावः ऎऩ्ऱु।
जीवित-शेषे प्रार्थना
वेङ्कतनाथार्यः - सङ्गतिः
यद्य् एवं मच्छेषत्व-प्रतिबोधस्ते संजातः,
तेन लब्धाधिकार उपायनिष्पत्त्या मुक्तो भविष्यसि;
अद्य पुनर् आ-देह-पातात् किम् अपेक्षितम्
इत्य्-अत्र त्वत्-प्राप्ति-त्वरा-जननीं त्वद्-एक-भोग्यत्वानुगुण-भक्तिं देहीत्याह – अवबोधितवानिति ॥
विश्वास-प्रस्तुतिः
अवबोधितवान् इमां यथा
मयि नित्यां भवदीयतां स्वयम् ।
कृपयैवम् अन्-अन्य-भोग्यतां
भगवन्! भक्तिम् अपि प्रयच्छ मे ॥ ५४ ॥
MS Rajajee (En)
Just as You have awakened in me the consciousness of being eternally Yours, O Lord, grant me, out of compassion, that devotion which consists of enjoying You alone.
Alavandar had said in sloka (52) that he is offering at the feet of the Lord his body and organs. In sloka (53), he had said that whatever “I have is yours and what then, shall I offer you?” Thus, the knowledge that he is eternally that of the Lord has been awakened. Since the knowledge has been awakened, the Lord seems to ask what he would like to have in this world. Alavandar’s gratitude is encapsulated in this sloka.
He begins by stating that the Bhagavan has himself awakened in him (“avabodhitavan”) the consciousness of being eternally (’nityam’) His. The Lord should, in the same manner, give him the devotion to enjoy Him alone (‘ananya bhogyatam’).
Alavandar does not wish to have any other enjoyment and specifically so prays to the Lord. A question may be asked that a supplicant can seek liberation, but is it correct to make a specific plea to the Lord, more so for Alavandar? It has been laid down that devotees cannot seek food, water, wealth, clothes, a house and longevity from the Lord, even in times of acute distress. But it is permitted to seek liberation or to seek devotion to the feet of the Lord.
In this connection, the episode of Kuchela may be recalled. Kuchela comes home and finds opulence every where. He prays to the Lord that though the Lord had given him, unasked, extreme wealth, he should never forget his devotion to the feet of the Lord. Seeking such devotion is in order. Kulasekhara Alwar says similarly in Mukunda Mala (sloka 15): “O let me not look at those hapless creatures who do not turn their thoughts to Your feet. I will not listen to stories other than those relating to Your pastimes, which stories are worth hearing. O Lord of the universe, let me pay no attention to those who avoid thinking of You. Let me be able to serve You, birth after birth”. Thus, while Kulasekhara concludes by praying that he wishes to serve the Lord, birth after birth, Yamuna concludes that he wishes to have that devotion which consists of enjoying Him alone.
मूलम्
अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् ।
कृपयैवमनन्यभोग्यतां भगवन्! भक्तिमपि प्रयच्छ मे ॥ ५४ ॥
वेङ्कटनाथार्यः
त्वमेव ह्यनभिज्ञं मां ज्ञानिनं कृतवानिति कृतज्ञता-प्रकाशनम् इदम् ।
इमां – दृढप्रमाणप्रमितामदृष्टपूर्वतयाऽद्भुतत्वेन स्वादुतयाऽनुभूयमानां निरपेक्षकर्तृत्वादिदूरोज्झितां चेति भावः । मयि नित्यां भवदीयतां – त्वच्छरीरभूते मयि कालपरिच्छेदरहितां त्वच्छेषतामित्यर्थः । स्वयं – कृपानिविष्टस्त्वमेवेति यावत् । कृपयैवमिति पाठस्समीचीनः, यथाशब्दप्रतिनिर्देशस्य अपेक्षितत्वात् । अनन्यभोग्यतां – भगवद्व्यतिरिक्तं भोग्यं यस्य सोऽन्यभोग्यः, तद्व्यतिरिक्तोऽनन्यभोग्यः, तादृशताम् । परमभक्तिगोचरत्वं तत्प्रदातृत्वं च तव युक्तमित्यभिप्रायेण संबोधयति – भगवन्निति । भक्तिमपि – त्वयि प्रकृष्टां प्रीतिं च । तदिदमुच्यते –
“परमात्मनि यो रक्तो
विरक्तोऽपरमात्मनि” (बार्हस्पत्यस्मृतिः)
इति । कृपयैतत् इति पाठे तु एतदिति वाक्यभेदः । एतदनन्यभोग्यतामिति समस्तं वा भक्तिविशेषणम् । स्वव्यतिरिक्तभोग्यतारहितमित्यर्थः । भक्तिमपि प्रयच्छ मे – अत्र “या प्रीतिरविवेकानाम्” (वि.पु. १-२०-१९) इत्यादिश्लोकद्वयं भाव्यम् ।
ननु परमैकान्तिनां भगवति याञ्चा निषिध्यते ।
“निराशीः-कर्म-संयुक्तं
सात्त्वतं चाप्य् अकल्पयम्”
इति चोक्तम् । सत्यम्; अहितं न याच्यो भगवानिति हि तत्र तात्पर्यम् । तदभिप्रायेण ह्युच्यते
“अन्नं पानं धनं वस्त्रम्
आयुर् आरोग्यम् आस्पदम् ।
आपद्य् अपि न याचेत
पूजकः पुरुषोत्तमम् ॥नाप्रप(स)न्ने ददाम्य् एतद्
याचितोऽपि दिनेदिने ।
अयाचतोऽपि तत् सर्वं
प्रप(स)न्ने विदधाम्य् अहम् ॥”+++(5)+++
इति । तथा
“याचितोऽपि सदा भक्तैर्
नाहितं कारयेद्+धरिः ।
बाल-मग्नौ पतन्तं तु
माता किं न निवारयेत् ॥”
(विष्णुधर्मे)
इति च ।
संहितान्तरे च
“तत्-पाद-भक्ति-ज्ञानाभ्यां
फलम् अन्यत् कदाचन ।
न याचेत् प्रणतो विष्णुं
याचनान् नश्यति ध्रुवम् ॥”
इति ।
अत्र भक्ति-ज्ञान-वचनं वक्ष्यमाण-भागवत-कटाक्षादेर् अप्य् उपलक्षणम् ।
अवश्यापेक्षित-विषये तु भगवन्तम् एव याचेतेत्य् अपि नियम्यते ॥ ५४ ॥+++(5)+++
वेङ्कतनाथार्यः - सङ्गतिः
न केवलं त्वद्-भक्तिर् एव मे प्रार्थनीया ।
तद्-विवृद्धये तत्-फलत्वेन च
त्वदीयेषु भक्तिस्
तत्-सन्निकर्षश् च मे स्याद्
इत्य् अभिप्रायेणाह –
तव दास्येति ॥
विश्वास-प्रस्तुतिः
तव दास्य-सुखैक-सङ्गिनां
भवनेष्व् अस्त्व् अपि कीट-जन्म मे ।
इतरावसथेपु मा स्म भूद्
अपि मे जन्म चतुर्मुखात्मना ॥ ५५ ॥+++(5)+++
+++(अग्रिमे वक्ष्यमाणेन प्रयोजनेन, तद्-व्यक्तेनेतर-तृणी-भावेन)+++
MS Rajajee (En)
May I be born even as a worm in the houses of those who are solely devoted to the joy of serving You. But, let me not be born even as the four faced Brahma in the houses of those who are not Your devotees.
In the previous sloka, the prayer was only for the enjoyment of devotion to the feet of the Lord. Is this enough? No. That devo79 tion has to increase. For this to happen, it is necessary to be in the community of devotees and not of non-devotees.
Those who render service to the Lord are “bhagavathas”. To render service to those who are rendering service to the Lord is the first step in devotion (it would also be the ultimate step, because more than service to Him, the Lord prefers service to His devotees). To render service to the devotees, one has to be in that group or be born in the houses of those who are serving the Lord. How significant or insignificant such a birth is, is immaterial. That is why Alavandar says that he would prefer to be born even as a worm, an insect (‘kita janma’) in the houses of those who are solely devoted (’ekasanginam’) to the joy of serving the Lord (‘dasyasukha’). In this connection, apart from sloka (15) of Mukunda Mala to which we made a reference in the previous sloka, we would make reference also to sloka (27) in Mukunda Mala. Says Kulasekhara, “O slayer of Madhu and Kaitabha, O lord of the Universe, the fruition of my life and the most cherished mercy You could show me would be for You to consider me the servant of Your servant…..” Kulasekhara prefers to be a servant, seven degrees removed. Yamuna prefers to be an insect in the house of the devotees.
In sloka (2) of chapter (2) of the Srimad Bhagavatam, there is an excellent summarization of one who is not devoted to the Lord. Says Sage Saunaka: “A man has really lived, only during those moments of his life, that have been spent in the thought of the Lord. Vain are the lives of the rest, their lifespan being merely food for time to swallow through its jaws of sunrise and sunset. Do not trees live their lifespan? Do not bellows take in and set out air? Do not animals, wild and domestic, eat and mate? Alas, what is human life worth, if it fulfills only these very same functions? He who into whose ears, the Lord’s name has not entered, he is a man in form, but only an animal - a dog, a pig, a camel, an ass or the like. That ear into which words dealing with the Lord’s excellences have not entered is a mere cavity and nothing more… the eyes that are not 7 accustomed to see the images of the Lord and holy men, are as purposeless as the eyes in the centre of the feathers of a peacock….a man whose heart is unmoved, whose eyes shed not tears and hairs stand on end when the Lord’s names are uttered - he verily is possessed of a heart of stone….” That is why Yamuna says that he does not wish to be born even as the four faced Brahma in the houses of (‘avasatheshu’) of persons who are not the devotees.
मूलम्
तव दास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे ।
इतरावसथेपु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ॥ ५५ ॥
वेङ्कटनाथार्यः
उक्तं हि तत्-सङ्गति-फलं च्यवन-नहुष-संवादे –
‘संभाषा दर्शनं स्पर्शः
कीर्तनं स्मरणं नतिः ।
पावनानि किलैतानि
साधूनाम् इति शुश्रुम ॥सेव्याः श्रियोऽर्थिभिस् सन्तः
पुण्य-तीर्थ-फलोपमाः ।
क्षणोपासन-योगोऽपि
न तेषां निष्फलो भवेत् ॥साधूनां दर्शनं पुण्यं
तीर्थ-भूता हि साधवः ।
कालेन फल-दं तीर्थं
सद्यस् साधु-समागमः’
इति । एवं
‘सद्भिरेव सहासीत
सद्भिः कुर्वीत सङ्गमम् ।
सद्भिर्विवादं मैत्रीं च
नासद्भिः किञ्चिद् आचरेत् ॥’
(वि.ध. २-८) ॥
‘अहन्य् अहनि धर्मस्य
योनिः साधुसमागमः ।
मोहजालस्य योनिर् हि
मूढैर् एव समागमः ॥’,+++(5)+++
‘वासो यथा राग-वशं प्रयाति
तथा स तेषां वशम् अभ्युपैति ।
सत्-सन्निकर्षे परिवर्तितव्यं
विद्याधिकाश्चापि निषेवणीयाः ॥सुवर्णतां गच्छति सन्निकर्षात्
नीलः खगो मेरुम् इवाश्रयन् वै’
इत्यादि वचनानि द्रष्टव्यानि ।
तव दास्यसुखैकसङ्गिनां – त्वत्कैङ्कर्यप्रीतिमात्रासक्तानामित्यर्थः ।
एतेन
‘एकान्तशीलस्य दृढव्रतस्य
पञ्चेन्द्रिय-प्रीतिनिवर्तकस्य ।
अध्यात्म-विद्या-गत-मानसस्य
मोक्षो ध्रुवो नित्यम् अहिंसकस्य ॥’
(भार. शान्ति. ३१३ अ)
इत्यादिप्रसिद्धं वैषयिक-सुख-वैमुख्यं व्यज्यते ।
ईदृशानां स्वेनान्यैश् च बहुमन्तव्यत्वं भगवतोक्तम् –
‘मद्-भक्त-जन-वात्सल्यं
पूजायां चानुमोदनम् ।
स्वयम्(आराधने यत्नः) अभ्यर्चनं चैव
ममार्थे डम्भ-वर्जनम् ॥
मत्कथाश्रवणे भक्तिः
स्वर-नेत्राङ्ग-विक्रिया ।
ममानुस्मरणं नित्यं
यच् च मां नोपजीवति +++(→उदरनिमित्तत्व-वारणम् इतः)+++ ॥
भक्तिर् अष्टविधा ह्येषा
यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्
स यतिः स च पण्डितः ॥
तस्मै देयं, ततो ग्राह्यं,
स च पूज्यो यथा ह्यहम् ।’
(गरुडपुराणे २१९-६,७,८,९)
इति ।
मोक्षधर्मे च
‘ब्रह्मादिभ्योऽपि भक्त्या वै
परया यत् प्रयुज्यते ।
तत्सर्वं देवदेवस्य
चरणाव् उपतिष्ठते
(भार.शान्ति. ३५३-६३)
इत्य् उक्त्वा ऽनन्तरम् उच्यते –
‘याः क्रियाः संप्रयुक्ताः स्युर्
एकान्त-गत-बुद्धिभिः ।
ताः सर्वाश् शिरसा देवः
प्रतिगृह्णाति वै स्वयम् ॥
अहो ह्य् एकान्तिनः सर्वान्
प्रीणाति भगवान् हरिः ।
विधिप्रयुक्तां पूजां च
गृह्णाति शिरसा स्वयम् ॥’
(भार.शान्ति. ३५३-६४,६५)
इति च ।
ईदृश-भागवताभिमान-गोचरत्वाय
स्थानान्तर-गमनानर्हानन्यगतित्व-विवक्षया कीट-जन्मापीत्युक्तम् ।
‘शुचीनां श्रीमतां गेहे
योग-भ्रष्टोऽभिजायते’ (गीता. ६-४१)
इत्युक्तम् उत्कृष्टजन्म तिष्ठतु -
‘पशुर् मनुष्यः पक्षी वा
ये च वैष्णव-संश्रयाः ।
तेनैव ते प्रयास्यन्ति
तद्विष्णोः परमं पदम्’
(शाणडिल्यस्मृतिः १-१५)
इत्य्-आदिषूक्तम् अपकृष्ट-जन्मापि त्वद्-इष्ट-विनियोग-सिद्धत्वाच् छेषत्व-काष्ठा-वेदिनो ममालम् ।
भागवताभिमान-विषय-भूत-देश-वासित्वं तत्-कैङ्कर्यं च ममापेक्षितम्
इति तात्पर्यम् ।
अपि-शब्दस् तत्र गाढाभिसन्धिं द्योतयति ।
यथोक्तम् –
‘मम मद्-भक्त-भक्तेषु
प्रीतिर् अभ्यधिका भवेत् ।
तस्मान् मद्-भक्त-भक्ताश् च
पूजनीया विशेषतः ॥’
(भार.आश्व. ११६-२३)
इति ।
इतिहाससमुच्चये (२५-२) च
‘तस्माद् विष्णुप्रसादाय
वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस्
तेनैव स्यान्न संशयः ॥’ +++(5)+++
इति ।
शाण्डिल्यस्मृतौ (१-९५,९६) च
‘सिद्धिर्भवति वा नेति
संशयोऽच्युतसेविनाम् ।
न संशयो ऽत्र तद्-भक्त-
परिचर्या-रतात्मनाम् ॥
केवलं भगवत्-पाद-
सेवया विमलं मनः ।
न जायते यथा नित्यं
तद्-भक्त-चरणार्चनात् ॥’ +++(5)+++
इति । श्रीपौष्करे च
‘दुर्लभा भगवद्-योग-
भाविनो भुवि मानवाः ।
तद्-दर्शनात् तद्-आलापात्
सुलभं शाश्वतं पदम् ॥’
इति । एवम्
‘आराधनानां सर्वेषां
विष्णोर् आराधनं परम् ।
तस्मात् परतरं प्रोक्तं
तदीयाराधनं परम् ॥’+++(5)+++
(पाद्मोत्तरे २९-८१)
‘तस्य यज्ञ-वराहस्य
विष्णोर् अ-मित-तेजसः ।
प्रणामं येऽपि कुर्वन्ति
तेषाम् अपि नमोनमः ॥’
(भार.शान्ति. ४६-१३०; विष्णुधर्मे ९०-५५)
इत्यादि द्रष्टव्यम् ।
इतरावसथेषु अभागवतनिवासेषु ।
चतुर्मुखात्मनाऽपि जन्म मा स्म भूत् –
किं पुनर् मनुष्याद्य्-आत्मनेति तात्पर्यम् ।
त्वन्-नाभि-पद्मे चतुर्-मुखात्मनाऽपि जन्म
मद्-अभिसन्धि-विरुद्धम् इत्य् अभिप्रायेण
पुनरपि मे इत्य् उक्तम् ॥
एतेन भागवतानाम् अ-भागवत-संसर्गः परिहार्य इत्युक्तं भवति ।
तथा च बह्व्-ऋचा आमनन्ति
‘नेदं-विद् अन्-इदं-विदा समुद्दिशेन्, न सह भुञ्जीत, न वसथम् आविश्यात्’
इति ।+++(5)+++
स्मर्यते च
‘शैवान् पाशुपतान् स्पृष्ट्वा (दृष्ट्वा)
लोकायतिक-नास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान्
स-वासा जलम् आविशेत् ॥’ +++(5)+++
(पराशरस्मृतिः) इति ।
‘असतां दर्शनात् स्पर्शात्
सम्पर्काच् च सहासनात् ।
धर्माचाराः प्रणश्यन्ति
यथा सैकतम् अम्भसा ॥’
इति च ।
शाण्डिल्यस्मृतौ (१-१२१) च
‘मूढैः पापरतैः क्रूरैः सद्-आगम-पराङ्-मुखैः
(भगवच्छास्त्रदूषकैः) ।
संबन्धं नाचरेद् भक्तिर्
नश्यत्य् एतैस् तु सङ्गमात् ॥’
इति । वैष्णवे च पुराणे (३-१८-१०५)
‘पुंसां जटा-भरण-मौण्ड्यवतां वृथैव
मोघाशिनाम् अ-खिल-शौच-बहिष्-कृतानाम् ।
तोय-प्रदान–पितृ-पिण्ड-विना-कृतानां
संभाषणाद् अपि नरा नरकं प्रयान्ति ॥’ +++(4)+++
इति । अन्यत्र च
‘वरं हुतवह-ज्वाला-
पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-
जन-संवास-वैशसम्+++(←शस् हिंसायाम्)+++ ॥’
(कात्यायनस्मृतिः)
इति । तथा
‘अद्यप्रभृति हे लोकाः!
यूयं यूयं वयं वयम् ।
अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥
नास्ति सङ्गतिर् अस्माकं
युष्माकं च परस्परम् ।
वयं तु किङ्करा विष्णोर्
यूयम् इन्द्रिय-किङ्कराः ॥’
इति । पितृभिश् चैवमुक्तं
‘मा जनिष्ट स नो वंशे,
जातो वा द्राग् विपद्यताम् ।+++(4)+++
आ-जन्म-मरणं यस्य
वासुदेवो न दैवतम् ॥’
(वराहपुराणे)
इति ।
‘अवैद्यः (आविद्यः) प्राकृतः प्रोक्तो
वैद्यो वैष्णव उच्यते ।
(आवि) अवैद्येन न केनापि
वैद्यः किञ्चित् समाचरेत् ॥’
(सात्त्वसंहिता)
इति ॥ ५५ ॥
वेङ्कतनाथार्यः - सङ्गतिः
एवम् अभागवत-संसर्ग-परिहारेण भागवतैः सन्निकर्षस् तव भवतु,
तैस् ते किं साध्यमित्यत्राह – सकृदिति ॥
विश्वास-प्रस्तुतिः
सकृत् त्वद्-आकार-विलोकनाशया
+++(न तु विलोकनेन, बहुवारं विलोकनाशया वा!)+++
तृणी-कृतानुत्तम-भुक्ति-मुक्तिभिः ।
महात्मभिर् माम् अवलोक्यतां नय
क्षणेऽपि ते+++(=तव)+++ यद्-विरहो ऽतिदुस्-सहः
+++(तवापि स्पृहणीया किं मम न स्युः?)+++॥ ५६ ॥+++(5)+++
MS Rajajee (En)
Make me an object worthy of the benign look of great souls, who with the object of having a single glance at You, have even given up the highest enjoyments and liberation. Separation from such great souls is unendurable to You.
In the previous sloka, the prayer was to be with the devotees and not to be with the non-devotees. The Lord may ask what he hopes to achieve? The answer is in this sloka.
The prayer is that those great people from whom separation is unendurable for the Lord, should cast a benign look on him. What have these great people done? They have rejected (the word used is “trinikrita”, that is treated as a blade of grass) even the highest enjoyment (“bhukti”) and liberation (“mukti”) so that they may have a glance at the Lord (“akara vilokana asaya”).
Why should separation from such devotees be unendurable to the Lord (yad virahah te kshanepi ati dussahah")? It is for the simple reason that the Lord resides where the bhagavathas reside. Hence, He cannot bear separation from them.
81 There is a difference between the previous sloka and this sloka. In the previous sloka, the prayer was that he should be born in the house of the devotees whereas in this sloka the hymnologist only seeks that such great souls should glance (‘avalokyatam’) at him.
मूलम्
सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६ ॥
वेङ्कटनाथार्यः
सदा दर्शनस्यापेक्षितत्वेऽपि
सकृद्-विलोकनोक्तिस्
तस्य पुरुषार्थ-भूयस्त्व-व्यञ्जनार्था ।
तथा चायोध्यावासिनां वाक्यम् –
“अलमद्य हि भुक्तेन
परमार्थैर् अलं च नः ।
यथा पश्याम निर्यान्तं
रामं राज्ये प्रतिष्ठितम् ॥”,
“इच्छामो हि महाबाहुं
रघुवीरं महाबलम् ।
गजेन महता यान्तं
रामं छत्त्रावृताननम् ॥” (रामा.अयो. १७.१०,११)
इति । तथा
“मेघ-श्यामं महा-बाहुं
स्थिर-सत्त्वं दृढ-व्रतम् ।
कदा द्रक्ष्यामहे रामं
जगतश् शोक-नाशनम् ॥
दृष्ट एव हि नश् शोकम्
अपनेष्यति राघवः ।
तमस् सर्वस्य लोकस्य
समुद्यन्न् इव भास्करः" +++(5)+++
(रामा.अयो. ८३.८,९)
इति ।
“यश्च रामं न पश्येत् तु
यं च रामो न पश्यति ।
निन्दितस् स भवेल् लोके
स्वात्माऽप्य् एनं विगर्हति ॥”
(रामा.अयो. १७.१४)
इति चोक्तम् ।
अनुत्तम-भुक्तिः – ब्रह्मादीनां भुक्तिः ।
सा च, मुक्तिश् च यैस् तृणीकृते तैः - तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
अनुत्तम-शब्दस्य मुक्तावन्वयेऽपि
न मुक्त्यन्तरं व्यवच्छेद्यं,
मुक्तितारतम्यस्य प्रागेव निरस्तत्वात् ।
भगवन्तम् अनुभवतां तद्-अन्य-तृणीकारः श्रूयते
“किं प्रजया करिष्यामो येषां नायमात्मा” (बृहदारण्यके ६.४.२२) +++(5)+++
इत्यादि ।
पुराणे चोक्तं
“पत्युः प्रजानाम् ऐश्वर्यं
पशूनां वा न कामये ।
अहं कदम्बो भूयासं
कुन्दो वा यमुनातटे ॥”, +++(5)+++
इति ।
निदर्शन-विवक्षया चोच्यते
“तृणं नारी विरक्तस्य,
तृणं शूरस्य जीवितम् ।
तृणं ब्रह्मविदो विश्वं,
निःस्पृहस्य नृपस् तृणम् ॥”+++(5)+++
इति ।
“महात्मानस्तु मां पार्थ” (गीता. ७.१३),
“स महात्मा सुदुर्लभः” (गीता. ७.१९)
इति भगवदुक्तं सूचयन्नाह – महात्मभिर् इति ।
उज्जीवनत्वे पुरुषार्थत्वे च भूयस्त्वापेक्षया बहुवचनम् ।
मां – त्वत्कटाक्षेक्षणात् पूर्वं राजस-तामस-दृष्टि-गोचरतया दूषितम्
इदानीं त्वद्-अवेक्षणेन प्रतिबुद्धम् इति भावः ।
अवलोक्यताम् – अवलोकनयोग्यताम् ।
तिष्ठतु तद्-भवनेषु जन्म;
तत्-कटाक्ष-विषयत्व-मात्रम् अपि मे पुरुषार्थ इति चाभिप्रेतम् ।+++(5)+++
प्रख्यातो हि भागवतावलोकन-प्रभावः
“यस्यानुभव-पर्यन्ता
बुद्धिस् तत्त्वे प्रतिष्ठिता ।
तद्-दृष्टि-गोचराः सर्वे
मुच्यन्ते सर्व-किल्बिषैः ॥”
(सात्त्वसंहिता)
इति ।
नय – एतावद् उपकर्ता त्वम् एव शेषं पूरयेति भावः ।
यथा त्वया तद्विश्लेषो दुस्सहः,
तथा मया तद्-अवलोकन-विरहो ऽतिदुस्सह इत्यभिप्रायेणाह – क्षणेऽपि ते यद्विरहोऽतिदुस्सह इति ।+++(5)+++
तद् इदम् आमनन्ति तैत्तिरीयाः (आरण्यके ३.१४.४३) –
“सन्धां च यॉं सन्दधे ब्रह्मणैषः ।
रमते तस्मिन्न् उत जीर्णे शयाने ।
नैनं जहात्य् अहस्सु पूर्व्येषु”+++(5)+++
इति । स्वयम् अप्याह – “न त्यजेयं कथंचन” (रामा.यु. १८.३),
“ज्ञानी त्वात्मैव मे मतम्” (गीता. ७.१८) इति ।
आहुश् च महर्षयः –
“पराङ्मुखानां गोविन्दे
विषयासक्त-चेतसाम् ।
तेषां तत् परमं ब्रह्म
दूराद् दूरतरे स्थितम् ॥”
(विष्णुधर्मे. ९९.१३),
“तन्मयत्वेन गोविन्दे
ये नरा न्यस्त-चेतसः ।
विषय-त्यागिनस् तेषां
विज्ञेयं च तद्+++(=ब्रह्म)+++-अन्तिके ॥”
(विष्णुधर्मे. ९९.१५)
इति । तथा
“नारायणेति यस्यास्ये
वर्तते नाम मङ्गलम् ।
नारायणस् तम् अन्वास्ते
वत्सं गौर् इव वत्सला ॥”, +++(5)+++
इति ।
“वसन्ति वैष्णवा यत्र
तत्र सन्निहितो हरिः”
इति च ।
अत्र विरह-शब्देन सर्व-व्यापिनस् सर्वज्ञस्य
भक्तानां स्व-विग्रहाद्य्-अनुभव-विच्छेदो विवक्षितः ।
न तु तद्विरहो विश्लेषः ।
दुस्सह-शब्देन खेदो न विवक्षितः,
सर्व-शक्तेर् हेयप्रत्यनीकस्य तद्-अयोगात् ।
अतस् तादृशावस्थावतां स्वविश्लेषं नोत्पादयतीत्येव तात्पर्यम् ।
यत्कर्तृक-वियोगस् ते निराकर्तुमिष्टतम इति वा विवक्षितम् । “अवबोधितवान्” (श्लो.५४) इत्यादिश्लोकत्रयेण स्वयंप्रयोजनोत्तरकृत्ये काम्यनिषिद्धसंभेदप्रसङ्गोऽपि निरस्तः ॥ ५६ ॥
वेङ्कतनाथार्यः - सङ्गतिः
एवमिष्टं सर्वं दास्यामि; अनिष्टं त्विह किं ते निवर्तनीयमित्यत्राह –
न देहमिति ॥
विश्वास-प्रस्तुतिः
न देहं न प्राणान् न च सुखम् अशेषाभिलषितं
न चात्मानं नान्यत् किम् अपि तव शेषत्व-विभवात् ।
बहिर् भूतं नाथ क्षणम् अपि सहे, यातु शतधा
विनाशं, तत् सत्यं मधु-मथन विज्ञापनम् इदम् ॥ ५७॥
विश्वास-टिप्पनी
अयं तिरु-वाय्-मॊऴि 4-8 इति दशकस्यानुवादो ऽयम्।
MS Rajajee (En)
I shall not tolerate, even for a moment, any thing which is beyond the domain of Your service, be it this body, life or the happiness which is desired by all beings or soul or anything whatsoever. Let them all be destroyed into thousand bits. Oh, slayer of Madhu, this submission of mine is true.
In the previous sloka, the fulfillment by the Lord of Alavandar’s desires, was prayed for by him (Ishta prapti). In this sloka, what is prayed for is the elimination of the undesirable things (anishta nivarana). He begins by saying that he will not tolerate even for a moment the body which separates him from the ‘kainkarya’ to the Lord (“seshatva vibhavat’). Similarly he will not tolerate even for a moment (“kshanam api) the life, the happiness which is sought by everybody (‘asesha abhilashitam’), the soul or any thing which does not enable him to render service to the Lord. He will break them into hundred bits (‘sathadha vinaasam’). What is being conveyed here is that a ‘mumukshu’ should give up all those things which do not assist him in the service of the Lord.
The Lord has been described as “Madhu mathana”. Just as the asura was killed, so should all the impediments in the way of rendering service to the Lord be broken into bits and annihilated.
We had earlier quoted sloka (15) of Mukunda Mala. It has relevance here also. Says Kulasekhara: “O Madhava, I cannot look at those who do not have even for a moment devotion to your feet. I will not listen to stories other than those relating to your pastimes, which are worth listening. O Lord of the Universe, let me pay no attention to those who avoid thinking of you. Let me be able to serve you, birth after birth.”
मूलम्
न देहं न प्राणान्न च सुखमशेषाभिलषितं
न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ! क्षणमपि सहे यातु शतधा
विनाशं तत्सत्यं मधुमथन! विज्ञापनमिदम् ॥ ५७ ॥
विस्तारः (द्रष्टुं नोद्यम्)
यद्वा, भागवतकटाक्षलब्धरुचिविशेषात् सपदि सर्वं विरोधिवर्गं सङ्ग्रहेण निर्दिश्य तन्निवृत्तिमभ्यर्थयते । अशेषाभिलषितमित्येतद् देहादिषु सर्वेष्वन्वेति; अन्येषां सुखार्थत्वात् प्रधानभूते सुखमात्रे वा । आत्मानम् – स्वस्वरूपमित्यर्थः । पुत्रमित्रगृहक्षेत्रादिकं दूरतो निरस्तमित्यभिप्रायेणाह – नान्यत् किमपीति । तव शेषत्वविभवाद्बहिर्भूतं – त्वच्छेषत्वफलभूतकैङ्कर्याख्यसमृद्धेरनुपयुक्तमित्यर्थः । न हि विश्वपतेरशेषभूतं किञ्चित् कदाचित् संभवति । नाथशब्देन सर्वशेषित्वमिह विवक्षितम् । क्षणमपि सहे इत्येतत्, न देहमित्यादौ सर्वत्र योज्यम् । आत्माभिमानार्हतया दुस्त्यजपरिग्रहस्य देहादेर्ब्रह्मादिस्थावरान्तसर्वापेक्षितस्य प्रभूतस्याल्पस्य तद्भोक्तुः ‘आत्मार्थे पृथिवीं त्यजेत्’, इति स्वेतरसकलपरित्यागेनापि परिग्राह्यस्यात्मनः तदनुबन्ध्यैश्वर्यादेरपि प्रत्येकमसह्यत्वद्योतनाय नञ्प्रयोगावृत्तिः । अत्र ‘यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना’ (रामा.अयो. ३०.१८), ‘न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥’, (रामा.अयो.३१.५) ‘न च सीता त्वया हीना न चाहमपि राघव! । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥’, (रामा.अयो. ५३.३१) ‘न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥” (रामा.सुन्द.२६.५) इत्यादिषूक्तः प्रकारोऽनुसन्धेयः । एवमसत्यत्वादेव तेषामत्यन्तनिवृत्तिः कार्येत्यभिप्रायेणाह – यातु शतधा विनाशमिति । निरवयवस्य नित्यस्यात्मनः शतधा विनाशप्राप्त्ययोगात् कैङ्कर्यविरुद्धावस्थानिवर्तनमेवात्र विवक्षितम् । ननु सर्वेष्वसंभावितार्थत्वादहृदयमेतद्वाक्यमित्यत्राह – तत्सत्यमिति । न हि त्वदन्य ईदृशप्रबलविरोधिनिवर्तनक्षम इति सूचयति – मधुमथनेति । पूर्व ‘शृणु विज्ञापनमेकम्’ (श्लो. ५०) इत्युक्तम्; तद्वदिदमपि दयनीयत्वानुबन्धिविज्ञापनमित्याह – विज्ञापनमिदमिति । तदिदं विज्ञापनं सत्यमिति समानाधिकरणं वा । विज्ञापितमिति केचित्पठन्ति । मुमुक्षुणा भगवत्कैङ्कर्यानुपयुक्तपरिग्रहस्त्याज्य इत्युक्तं भवति ॥ ५७ ॥
देवस्य प्रधानोपायता
वेङ्कतनाथार्यः - सङ्गतिः
एतत् सर्वम्
अत्यन्तानर्हस् त्वं
किम् अवलम्ब्य प्रार्थयसे?
इति पुनर् भगवता पूर्वोक्तार्थ-स्थिरीकरणाय पृष्ट आह –
दुरन्तस्येति ॥
विश्वास-प्रस्तुतिः
दुरन्तस्यानादेर् अ-परिहरणीयस्य महतो
निहीनाचारोऽहं नृ-पशुर् अ-शुभस्यास्पदम् अपि ।
दया-सिन्धो बन्धो निरवधिक-वात्सल्य-जलधे!
+++(तथापि)+++ तव स्मारं स्मारं गुण-गणम्, +++(पुर्वोक्तश्लोकाः←)+++इतीच्छामि गत-भीः ॥ ५८ ॥
MS Rajajee (En)
I am a beast, without any standard of conduct. I have all the vices and am cruel. 1 am fated for an eternal and calamitous des¬ tiny. Yet, 1 am free from fear, as I am remembering You, again and again - You who are an ocean of mercy and parental love and innumerable virtues of a similar nature.
We may recall sloka 47. In that sloka it had been said that though he is not holy, though he is sinful, merciless and shameless, he is seeking to attain the Lord. Lest the Lord ask, as to how he, who was so ineligible was aspiring to attain him, the reply is given in this sloka. The hymn says that he is a vile beast (’nihinaachaarah nripashuh’), that he is of sinful conduct but yet he is not afraid, as he is remembering again and again (‘smaram smaram’) the endless ocean of auspicious traits (“niravadhika vaatsalya jaladhe”).
There are two adjectives used to address the Lord - “dayasindho” and “vatsalya jaladhe”. They are to specially signify that the listed demerits would be drowned in the ocean that is the Lord. Kulasekhara, in one sloka, calls the Lord as83 “kripajalanidhe” (as compared to the word “dayasindho” used here).
मूलम्
दुरन्तस्यानादेरपरिहरणीयस्य महतो
निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे!
तव स्मारंस्मारं गुणगणमितीच्छामि गतभीः ॥ ५८ ॥
वेङ्कटनाथार्यः
प्रायश्चित्तानवसरातिघोरविपाकस्येत्यर्थः । अनादेः – पूर्वकोटिरहितप्रवाहस्य । अपरिहरणीयस्य – सर्वशक्तेस्तवैव सङ्कल्पमन्तरेण दुष्परिहरस्य । महतः – महापातकातिपातकादिरूपस्यासङ्ख्यातस्य वा । अनाचारदोषादप्यहमुपहत इत्याह – निहीनाचार इति । अत्यन्तनिकृष्टाचार इत्यर्थः । अत्र ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥” (दक्षस्मृतिः २.२७), ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादि द्रष्टव्यम् । अहं – मदन्यः क ईदृश इति भावः । नृपशुः नरजातीयतया चतुष्पाद्व्यावृत्तः पशुः, सम्यग्ज्ञानयोग्यजन्मलाभेऽपि ‘ज्ञानेन हीनः पशुभिस्समानः’ (नरसिंहपुराणे १६.१३) इत्युक्तः । अशुभस्यास्पदम् – त्वदपचारत्वदीयापचारादीनां सर्वेषामेकाश्रयः ।
अहमशुभस्यास्पदं, त्वं तु ‘गुणानामाकरो महान्’ (रामा.किष्कि. १५-२१) इति प्रसिद्ध इति हृदयम् । अपिशब्देन विरोधद्योतनम् ।
एवंविधस्वदोषपरिहारौपयिकगुणविशेषवत्तया संबोधयति – दयासिन्धो इति । बन्धो ‘माता पिता’ (सुबाल. ६) इत्यादिना निरुपाधिकसर्वविधबन्धुत्वेन प्रसिद्ध! । निरवधिकवात्सल्यजलधे – ‘रिपूणामपि वत्सलः’ (रामा.यु. ५०-५६) इति ह्युक्तम् । अत्र दयावात्सल्यसिन्धुत्वरूपणेनातितुङ्गानामपि स्वापराधानां तत्र निमज्जनं सूच्यते । तव – स्वाभाविकासंख्यातगुणवत्तया शास्त्रप्रसिद्धस्य ।
गुणगणम् – ज्ञानशक्तिकारुण्यादिकम् ।
स्मारंस्मारं – स्मृत्वा स्मृत्वा । निर्बाधतया विस्मर्तुमशक्यतया च निरन्तरमनुसन्धायेति भावः ।
तेनैव गतभीः – विरोधिभूयस्त्व-दर्शनजन्यभयरहितः ।
इतीच्छामि – ‘विलासविक्रान्त’ (श्लोक.३०) इत्यादिभिः ‘अवबोधितवानिमां यथा’ (श्लोक. ५४) इत्यादिभिश्चोक्तप्रकारेण निरन्तरेच्छावान् भवामीत्यर्थः ॥ ५८ ॥
वेङ्कतनाथार्यः - सङ्गतिः
यद्येवमिच्छसि तदा ते सर्वमिष्टं संपत्स्यते ।
शास्त्रजन्य-परोक्ष-ज्ञान-मात्रेणादुष्टतया ऽवगतेऽपि
प्रत्यक्ष-वासना-वशाद् अन्यत्र रुच्य्-अनुवृत्ताव्
असत्-कल्पाहृदय-प्रार्थना-मात्रेण यदि मुक्तिं दास्यामि,
तदा तवानिष्टमेव मया कृतं स्याद्
इत्यत्राह –
विश्वास-प्रस्तुतिः
अनिच्छन्न् अप्य् एवं, यदि पुनर् इतीच्छन्न् इव रजस्-
तमश्-छन्नश् छद्म-स्तुति-वचन-भङ्गीम् अरचयम् ।
तथाऽपीत्थं-रूपं वचनम् अवलम्ब्यापि कृपया,
त्वम् एवैवं-भूतं धरणि-धर! मे शिक्षय मनः ॥ ५९ ॥
MS Rajajee (En)
I am enveloped in Rajas and Tamas. I am incapable, but I pretend to be capable and have composed this text of feigned praise. Atleast making this as the reason, please save me. O Dharanidhara (sustainer of the universe), make my mind to give up other thoughts and discipline it, so as to think of You alone.
Alavandar says that he is surrounded by passion and inertia. He is guilty of singing praises, which are not coming from the heart. He uses the words “false praise” (chadma stuti). He wants them to be taken at their face value (that is make it the base or authority, “avalambya api”) and the redemptive grace of the Lord extended to him, so that his mind is disciplined (“me manah sikshaya”).
Two points are spelt out in this sloka. One is that if the Lord is worshipped by non-sattvic people, their sins also will be washed away by the grace of the Lord. The second point that is made is that if the name of the Lord is repeated, even casually or facetiously, the sins would get obliterated. The second of the above two points is clearly borne out by the story of Ajamila, given in the Srimad Bhagavatam. The Bhagavatam tells us that the efficacy of the Name, which a man obtains by abstract meditation in the Krita Age, by sacrifice in the Treta Age, by adoration in the Dvapara Age, he obtains in the Kali Age by reciting the names of Narayana. Slokas 23 and 24 of Mukunda Mala need to be recalled in this context. Says Kulasekhara: “The holy formula of Sri Krishna is an unparalleled mantra to cut off everything hostile to one’s good. It is the sum total of the mantras consisting of the sacred Upanishadic statements. It is the mantra which rescues one from “samsara”. It is the mantra that expels the mass of accumulated darkness. It is the only mantra for the attainment of complete Lordship. It is the mantra that completely delivers those who are bitten by the snake of addiction to passions. O my tongue, always chant this Mantra, so that you may attain the fruition of your life”. (Sloka 23) “The medicine in the form of the divine name of Sri Krishna cures ignorance and discrimination. It inspires sages to engage their minds in meditation and it torments the demons. It is the medicine for restoring the three worlds to life and for bestowing unlimited blessings on the devotees of the Supreme Lord. Indeed, it is the only medicine that can destroy one’s fear of material existence and lead one to the attainment of supreme good”. (Sloka 24) Alavandar prays for the mind being penalized (“shikshaya”) or disciplined. What is this disciplining which is spoken of here? Having said that the utterings have not come from the heart, the obvious prayer is that there should be no duplicity in the supplication. The related offshoot is that the mind should be disciplined so that the thoughts are centred only on the Lord.
The Lord is addressed as “Dharanidhara”. He is the Sustainer of the Earth. He absorbs all the sins and absolves the true seeker. One should recall the episode in the Srimad Bhagavatam. Mother Earth complains to the Lord that she is unable to bear the weight of the sinners, as they have increased greatly in numbers. The Lord assures her that He will manifest Himself to rid the earth of the sinners. The Lord bears all this weight. One should also recall the Varaha Avatara. The Lord playfully held up the earth, as if it was a ball to be played with by Him.
मूलम्
अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नश्छद्मस्तुतिवचनभङ्गीमरचयम् ।
तथाऽपीत्थंरूपं वचनमवलम्ब्यापि कृपया त्वमेवैवंभूतं धरणिधर! मे शिक्षय मनः ॥ ५९ ॥
वेङ्कटनाथार्यः
अनिच्छन्निति ॥ इत आरभ्य सप्तभिः श्लोकैः शिक्षणीयत्वे तन्मुखेन रक्षणीयत्वे च हेतुविशेषा उच्यन्ते । यदीत्यत्र यद्यपीति योज्यं, तथाऽपीति प्रतिनिर्देशात् । पुनश्शब्दोऽन्याभिप्रायत्वेऽपि संग्राह्यत्वरूपविशेषद्योतनार्थः । इतीच्छन्निव इत्यादिना ‘साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघ(हरं विदुः)विनाशनम् ॥’ (भगवते ६.२.१४), ‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥’ (हर्यष्टके १), ‘अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥’ (वि.पु. ६.८.१९), ‘एतावताऽलमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । आक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण उपैति (इत्याय) मुक्तिम् ॥’ (भगवते ६.३.२४), ‘नारायणेति शब्दो(मन्त्रो)ऽस्ति वागस्ति वशवर्तिनी । तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतम् ॥’, ‘रोगापद्भयदुःखेभ्यो मुच्यन्ते नात्र संशयः । अपि नारायणेत्येतच्छब्दमात्रप्रलापिनः ॥’ (नारदीये १.३८) इत्यादीनि प्रमाणानि सूच्यन्ते । रजस्तमश्छन्नः – स्वकर्मोपात्तप्रकृतिगुणभूतरजस्तमोभ्यामावृतज्ञानतया यथावस्थितस्वपरप्रकाशरहित इति भावः । छद्मस्तुतिवचनभङ्गीं कुहनाप्युक्तस्तोत्ररूपकुटिलवाक्यप्रक्रियामित्यर्थः । इत्थंरूपं वचनमवलम्ब्यापि – द्वयार्थविषयच्छद्मवाक्यरूपं व्याजमङ्गीकृत्यापीति यावत् । एवंविधवचनमात्रेऽपि हि यमभयनिवृत्तिः स्मर्यते ‘कमलनयन! वासुदेव! विष्णो! धरणिधराच्युत! शङ्खचक्रपाणे! । भव शरणमितीरयन्ति ये वै त्यज भट! दूरतरेण तानपापान् ॥’ (वि.पु. ३.७.३३) इति । कृपया – स्वसङ्कल्पितयत्किञ्चिद्व्याजमात्रापेक्षिण्येति हृदयम् । त्वमेव – ‘राघवं शरणं गतः’ (रामा. यु. १७.१४) इत्यपरीक्षितवाक्यमवलम्ब्य ‘न त्यजेयं कथञ्चन’ (रामा. यु. १८.३), ‘दोषो यद्यपि तस्य स्यात्’ इति हि त्वयैवोक्तमिति भावः । यद्वा ‘सुहृदं सर्वभूतानाम्’ (गीता. ५.२९), ‘ददामि बुद्धियोगं तम्’ (गीता. १०.१०) इत्यादिवादी । एवकारेण अन्यनैरपेक्ष्यमन्याशक्यत्वं च द्योत्यते । एवंभूतम् – स्वतः सर्वज्ञं त्वामपि विप्रलब्धुमुद्यतमित्यभिप्रायः । धरणिधरेति संबुद्धिः सर्वलोकहितैषिण्या सर्वंसहया क्षमया युक्तस्त्वमिति सूचयति । अत्र वसुन्धरोद्धरणनिदर्शनेन स्वात्मसमुद्धरणार्हत्वमपि प्रकाश्यते । उक्तं हि भगवच्छास्त्रे – ‘नमः सकलकल्याणदायिने चक्रपाणये । विषयार्णवमग्नानां समुद्धरणहेतवे ॥’ इति । मे – अन्यैश्शिक्षयितुमशक्यस्येति भावः । यथोच्यते ‘एकः शास्ता न द्वितीयोऽस्ति’ (भार.आश्व. २७१ अ.), ‘शास्ता विष्णुरशेषस्य’ (वि.पु. १.१७.२०) इति । शिक्षय – छद्मरहितं सम्यगिच्छायुक्तं कुरुष्वेत्यर्थः । ‘शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं मुनिवर्यं जगत्पतिः ॥ ततः प्रसन्नवदनस्तत्क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥’ (वि.पु.) इति न्याय इहानुसन्धेयः ॥ ५९ ॥
स्वाभाविक-सम्बन्धः, निर्भरता
वेङ्कतनाथार्यः - सङ्गतिः
एवं स्वचेतश्-शिक्षणे
ऽन्यान् अपि सामान्यतो विशेषतश् च बहुविधान् हेतून् आह –
पितेति ॥
विश्वास-प्रस्तुतिः
पिता त्वं, माता त्वं, दयित-तनयस् त्वं, प्रिय-सुहृत्
त्वम् एव, त्वं मित्रं, गुरुर् असि, गतिश् चासि जगताम् ।
त्वदीयस् त्वद्-भृत्यस्, तव परिजनस्, त्वद्-गतिर् अहं
प्रपन्नश्, चैवं सत्य् अहम् अपि तवैवास्मि हि भरः ॥ ६० ॥
MS Rajajee (En)
For all the worlds, You alone are the father, mother, the beloved son, the dear friend, the confidant, the preceptor and the sole refuge. I am Yours, Your servant, Your attendant and Your protectee who has sought Your refuge. The responsibility for my welfare rests solely on You.
In the previous sloka, Alavandar had said that he had composed the text which was “chadma stuti”, that is, it had not come from the heart. That being the case, the Lord may well ask why he should take to heart the pleadings of Alavandar which had not come from his heart. Alavandar replies in this sloka that the relationship between the two of them cannot be pushed aside. The Lord is the father, the mother, the son, the friend, the confidant and the sole refuge. He (the hymnologist) is the servant, the attendant and the “prapanna” who has sought the Lord as the sole refuge. Hence the Lord has to save him (“bharah asmi hi”.) In this connection, one may recall sloka (5). While paying obeisance to the effulgent feet of Nammalwar, Alavandar had said that the feet constitute to all Vaishnavites at all times “..the aggregate of all worldly relations, such as mother, father, wife, sons, daughters and wealth in general”.
In the sloka, two words are used which apparently look similar - “priya suhrut” and “mitram”. We have translated them as confidant and a friend. There is a subtle difference between the two. A friend is one where the relationship is on a reciprocal basis while a confidant is one in whom we confide, a person who works for and helps one, without expecting any thing in return.
मूलम्
पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत् त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम् ।
त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥ ६० ॥
वेङ्कटनाथार्यः
पिता त्वम् – उत्पादकस्त्वं हितप्रवर्तकश्च । माता त्वम् – सा हि पुत्रार्थं भूयांसि कर्माण्यारभमाणा प्रियप्रवर्तनशीला च, तादृशस्त्वम् । सर्वाधिकप्रीतिविषयतया निरयनिस्तारकतया प्राप्तावसरेषु रक्षकतया च दयिततनयस्त्वम् । प्रियश्चासौ सुहृच्चेति प्रियसुहृत् – निरतिशयानन्दस्वरूपत्वं नित्यहितैषित्वं च अत्र विवक्षितम् । उक्तसर्वप्रकारविशिष्टस्त्वदन्यो नास्तीति व्यञ्जनार्थम् एवकारः सर्वत्र योज्यः । ‘निवासः शरणं सुहृत्’ इति सुबालोपनिषदि (६ खण्डे) गीतोपनिषदि (९.१८) च अधीतम् । त्वं मित्रम् – हितः कार्येषु सवयाः सर्वरहस्ययोग्यश्च मित्रमित्युच्यते, त्वमपि तादृशः; गुहधनञ्जयगोपालादिषु तथात्वव्यक्तिः । उच्यते च – ‘मित्रमौपयिकं कर्तुम्’ (रामा.सुन्द.), ‘तेन मैत्री भवतु ते’ (रामा.सुन्द. २१.२०), ‘अहो! भाग्यमहो! भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्’ इति । गुरुरसि – सर्वेषां यथाधिकारं ‘मन्मना भव मद्भक्तः’ (गीता १८.६५), ‘मामेकं शरणं व्रज’ (गीता. १८.६६) इत्यादिभिस्तत्त्वहितपुरुषार्थोपदेष्टा, तत एव सर्वाज्ञाननिवर्तकश्च । तथा च निरुच्यते, ‘गुशब्दस्त्वन्धकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥’ इति । गतिश्चासि – उपायः प्राप्यश्चासि । श्रूयते हि ‘अमृतस्यैष सेतुः’ (मुण्डके २.२.५) इति, ‘यमेवैष वृणुते तेन लभ्यः’ (कठ. १.२.२३) इति च । जगतामित्यनेन ‘पिताऽहमस्य जगतो माता धाता पितामहः’ (गीता. ९.१७), ‘भूतानां योऽव्ययः पिता’ (सहस्रनामाध्याये), ‘चराचरगुरुं हरिम्’, ‘ममाप्यखिललोकानां गुरुर्नारायणो गुरुः’ (वि.पु. ५.१.१४), ‘तमिमं सर्वसंपन्नमाचार्यं पितरं गुरुम् । अर्च्यमर्चितुमिच्छामः सर्वे संमन्तुमर्हथ ॥’ (भार.सभा. ४१.३), ‘पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्’ (गीता. ११.४३) इत्यादिषूक्तं देवदानवादिसर्वसाधारण्यं व्यज्यते । एतत्सर्वं पूर्वम् (श्लो. २२,५८) शरण्यबन्धुशब्दाभ्यां सङ्गृहीतस्य प्रपञ्चनम् ।
अथ त्वदीय इत्यादिना स्वगतान् हेतूनाह । त्वच्छेषत्वप्रतिबोधवानहमस्मीति भावः । त्वद्भृत्यः – त्वयैव भरणीयः, पोषणीयश्च । तव परिजनः – स्वतः त्वत्सेवार्हः स्तुतिरूपसेवायां त्वया नियुक्तश्च । त्वद्गतिः – त्वदेकप्रयोजनः । अहम् – ईदृशीमवस्थां त्वयैव प्रापित इति भावः । प्रपन्नश्च ‘त्वत्पादमूलं शरणं प्रपद्ये’ (श्लो. २२) इति यथाहृदयमहृदयं वा भावितभरन्यासः । एतेन – ‘सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित्’ (वि.पु. ५.२३.४७), ‘अहमात्मा न देहोऽस्मि विष्णुशेषोऽपरिग्रहः । तमेव शरणं प्राप्तस्तत्कैङ्कर्यचिकर्षिया ॥’ इत्यादिष्विव स्वनिष्ठा विज्ञाप्यते । भगवत्प्रपन्नस्य चैवं विशेष उच्यते – ‘देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥’ (भगवते ११.५.४१) इति । त्वद्गतिरहं, प्रपन्नश्चेत्युभाभ्यामनन्यप्रयोजनतया भगवन्तमाश्रितानां नरकादिनिवृत्तिश्च सूच्यते । श्रूयते हि रहस्याम्नाये – ‘तत्किममी यमविषयं गच्छन्ति यमो वैतान् यातयतीति, न भो इत्याह, न खलु भागवता यमविषयं गच्छन्ति, किं तर्हि? हहैवैषां केचिदुपक्लेशा भवन्ति, खञ्जा भवन्ति, काणा भवन्ति’ इत्यारभ्य ‘तानुपक्लेशान् सहेरन्’ इति । वैष्णवे च पुराणे (३.७.१४) ‘स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥’ इति । वामने च (९४.४३) ‘देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न च ते नरकौकसः ॥’ इति । श्रीनारसिंहे ‘पुण्डरीकाक्ष! देवेश! नरसिंह! त्रिविक्रम! । त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥’ इति । तथाऽन्यत्र ‘यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः । वासुदेवरता नित्यं यमलोकं न यान्ति ते ॥’ इति । एवं सति – त्वयि भरस्वीकारार्हे, मयि च भरन्यासवाक्यप्रयोक्तरि स्थिते सतीत्याशयः । अहमपीत्यनेन पूर्वोक्तसर्वदोषाकरोऽपि छद्मस्तुतिकर्ताऽपीति सूच्यते । यद्वा, यथा प्राचीनाः पूर्णप्रपत्तिनिष्ठाः त्वया भरत्वेन स्वीकृताः – तथाऽहमपीति भावः । तव – प्रस्तुतप्रभूतभरस्वीकारे प्राप्तस्य समर्थस्य च । न ह्येतादृशं भरं सोढुमहं वाऽन्यो वा त्वद्व्यतिरिक्तः कश्चित् समर्थ इत्यवधारणाभिप्रायः । हिशब्देन ‘मनीषिणो हि ये केचिद् यतयो मोक्षकाङ्क्षिणः । तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥’, ‘स्थिते मनसि’ (वराहचरमश्लोकः) इत्यादिप्रमाणप्रसिद्धिर्द्योत्यते; स्वाङ्गीकारस्य सिद्धवत्कारं वा व्यनक्ति । भरः – ‘रक्षितव्यास्त्वया राजन्! गर्भभूतास्तपोधनाः’ (राम.आर. १.२१) इति महर्षिवाक्यप्रकारेण मद्व्यापारनिरपेक्षं रक्षणीय इति भावः ॥ ६० ॥
अनन्य-गतिकता
वेङ्कतनाथार्यः - सङ्गतिः
‘अहमपि तवैवास्मि हि भरः’ (श्लो. ६०) इत्युक्ते
महा-योगि-कुल-प्रसूतत्वम् अपि हेतुर् अस्तीत्य् अभिप्रायेणाह –
जनित्वेति ॥
यद्वा, योगिवंशप्रसूतेन त्वया
कथम् अत्यन्ताकिञ्चनत्वं पुरस्कृत्य मय्य् एव भरन्यासः क्रियते?
इत्यत्र प्रागुक्तम् (श्लो. २२) अकिञ्चनत्वम् एवासमञ्जवद् अभिजनविरुद्ध-स्वभावतयाऽपि स्थापयति ।
विश्वास-प्रस्तुतिः
जनित्वा ऽहं वंशे महति जगति ख्यात-यशसां
शुचीनां युक्तानां गुण-पुरुष-तत्त्व-स्थिति-विदाम् ।
निसर्गाद् एव त्वच्-चरण-कमलैकान्त-मनसाम्
अधोऽधः पापात्मा शरणद! निमज्जामि तमसि ॥ ६१ ॥
MS Rajajee (En)
O refuge of all, though born in the exalted lineage of those of world renown, who are pure and ever abiding of You, who know the real nature of matter and spirit, who by their very nature have their minds solely devoted to Your lotus feet, I, being evil minded, am sinking deeper and deeper into the darkness of ignorance.
Thinking that the Lord may say that Alavandar is born in a good family, with a good lineage and that this is itself sufficient to attain the Lord, why then does he have to depend on the Lord? Alavandar replies that though he has an excellent lineage, he is a sinner. The poet describes the lineage - those of world renown (“jagati khyata”), those who are pure (“suchinam”), those who cannot bear to be separated from the Lord (“yuktanam”), those who know the qualities of matter and spirit (“guna purusha tattvasthiti vidam”) and those who naturally have their minds devoted to the lotus feet of the Lord (“tvat charana kamala ekanta manasaam”). But then, he is a sinner. He is sinking into the darkness of ignorance. Since he is sinking deeper and deeper, into the abyss of ’tamas’ called ignorance, the Lord, by His mercy has to redeem him.
Three descriptive phrases have been used to describe the worth of the lineage - those who are unable to bear separation from the Lord, those who know the difference between matter and spirit, and those who are devoted to the feet of the Lord. Alavandar thereby is referring to the Karma, Jnana and Bhakti Yoga knowledge of his ancestors.
This prayer of Alavandar to save him from sinking into the abyss of ignorance (samsara) is similar to sloka (34) in Mukunda Mala. Says Kulasekhara: “O Supreme Lord, Bhagavan, You are the most compassionate. So, please show me Your favour and bestow Your mercy upon 87 this helpless soul. You alone can lift me from the ocean of samsara into which I am sinking. O Lord Hari, You are verily the Purushottama, the Supreme Person! (Sloka 34)
मूलम्
जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।
निसर्गादेव त्वच्चरणकमलैकान्तमनसाम् अधोऽधः पापात्मा शरणद! निमज्जामि तमसि ॥ ६१ ॥
वेङ्कटनाथार्यः
जनित्वा – ‘एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्’ (गीता. ६.४२) इत्युक्तदुर्लभतरं जन्म लब्ध्वाऽपीति भावः । अहमित्यनेनास्मिन् वंशेऽहमेक एव विपरीतवृत्त इति व्यज्यते । वंशे महति – अमानित्वाद्यात्मगुणसम्यग्वृत्तविद्यादिभूयिष्ठे महाभागवतकुले । ‘भूतले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्’ इति च स्मर्यते । ईदृशवंशजन्मनः कृच्छ्रलभ्यत्वं वाराहे प्रोक्तं ‘वर्णाश्रमाचारपरः सप्तजन्मानि यो द्विजः । एकान्तसूर्यभक्तस्स्यात् स विप्रः सप्तजन्मसु ॥ ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्यति । तथैव सप्त जन्मानि शिवभक्तिपरायणः ॥ महता तेन पुण्येन वैष्णवत्वं लभेत सः । विष्णुभक्तिपरस्तद्वत् सप्तजन्मानि मानवः ॥ एकान्तभगवद्याजी विप्रो भागवतान्वये । ततस्स लभते जन्म देवैरत्यन्तदुर्लभम् ॥’ इति । जगति ख्यातयशसां – ‘यद्वंशोऽधीत्य वेदान्’ इत्याद्युक्तप्रकारेणानुकूलप्रतिकूलरूपसर्वजनप्रसिद्धकीर्तिनाम् । शुचीनां – ‘योऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः’, ‘क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता’ (याज्ञवल्क्यस्मृतिः ३.३४) इत्यादिप्रसिद्धसर्वप्रकारशुद्धिमताम् । एतेन प्रयोजान्तरसङ्गरूपाशुद्धिराहित्यं चाभिप्रेतम् । युक्तानाम् – आत्मावलोकनक्षमाणाम् । यद्वा, त्वया सह नित्ययोगमाशंसमानानाम्, त्वदनुभवविश्लेषरहितानामिति वा । गुणपुरुषतत्त्वस्थितिविदाम् – त्रिगुणात्मकप्रकृतेः पुरुषस्य च तत्त्वस्थितिं याथात्म्यप्रतिष्ठां विजानताम् । यद्वा, प्रकृतिपुरुषतत्त्वयोः स्वरूपस्वभावादिव्यवस्थितिवेदिनामित्यर्थः । निसर्गादित्यादि । जन्मप्रभृतित्वच्चरणारविन्दनियतभक्तीनामित्यर्थः । ईदृशव्यतिरिक्तो हि निन्दितः पितृभिः ‘मा जनिष्ट’ (वराहपुराणे) इत्यादिना । अत्र युक्तानामित्यादिपदत्रयं स्वपूर्वेषु यथार्हं कर्मयोगज्ञानयोगभक्तियोगान्वयं वा विवक्षति । पापेष्वात्मा बुद्धिर्यस्य स पापात्मा । यद्वा पापमेव स्वरूपं स्वभावो यस्य सोऽहं पापात्मेति स्वनिन्दाप्रकर्षार्थ औपचारिकः प्रयोगः । स्मर्यते हि ‘मानुष्यं प्राप्य लोकेऽस्मिन् मूको वा वधिरोऽपि वा । नापक्रामति संसारात् स खलु ब्रह्महा भवेत् ॥’ इति । वाराहे च ‘लब्ध्वा तु मानुषं देहं पञ्चभूतसमन्वितम् । मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम्? ॥’ इति । नारसिंहे च ‘शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः । रचयति, कुरुते न मोक्षमार्गम्, स दहति चन्दनमाशु भस्महेतोः ॥’ इति । अधिकारानुरूपमुपायं त्वमेव प्रयच्छे(च्छसी)त्यभिप्रायेण संबोधयति – शरणदेति । यद्वा, मत्स्वभावादसत्कल्पमपि महायोगिवंशजननं त्वत्स्वभावात् त्वमेव प्रस्तुतविषयमच्छिक्षणव्याजतया स्वीकृत्योपायपूर्तिं कुरुष्वेति भावः । तमस्यधोऽधो निमज्जामीत्यन्वयः । तमश्शब्द इह सम्यक्प्रकाशविरुद्धमज्ञानं विपरीतज्ञानं चाभिसन्धत्ते । तमो गुणमयी प्रकृतिर्वा । तमसः समुद्रस्थानीयत्वमभिप्रेत्य मज्जनशब्दः । एतेन स्वपरप्रकाशराहित्यं च सूच्यते । मद्वंश्यास्त्वदनुभवरसे निमज्जन्ति, अहं तु तमसि निमज्जामीति निर्वेदविशेषश्च । ‘महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया । प्राप्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥’ (वराहपुराणे) इति संसारतरणहेतुतया त्वद्दत्तेन शरीरेणैव संसारे निमज्जामीत्युक्तं भवति । अधोऽध इत्यनेन स्वेनान्यैश्च स्वस्याशक्योद्धरणत्वमभिप्रेतम् । निमज्जामीति वर्तमानव्यपदेशः पापवशात् तादृशस्य तमसोऽद्याप्यनुवृत्तिं द्योतयति । एतेन स्वयमुपायान्तरानर्हस्य मे त्वत्प्राप्त्यर्थं सर्वंसहे त्वयि भरन्यासश्छद्मस्तुतिनिबन्धोऽपि त्वयैव यथावस्थितः कार्य इति विज्ञापितं भवति ॥ ६१ ॥
वेङ्कतनाथार्यः - सङ्गतिः
यदि सर्वशक्तिः परम-कारुणिकस् त्वम्
अकिञ्चनस्य प्रपत्ति-वाक्य-मुखर-मुखस्य मम
शिक्षणे रक्षणे च न प्रवर्तसे,
तदा (दुस्तर) महत्तर-विपरीत-गुण-गण-भराक्रान्तोऽहं
कथं संसारजलधिम् उत्तीर्य
त्वत्-पाद-परिचर्यां प्राप्नुयाम्
इति प्रागुक्त-कार्पण्य-स्थेम्ने
स्व-दोषाद् भीतस्य शरण्य-गुणैर् आश्वासनीयत्वं द्रढयितुं च
‘पापात्मा’ (श्लो. ६१) इति सङ्गृहीतमेव विस्तृणीते –
विश्वास-प्रस्तुतिः
+++(जन्मान्तरेषु वा)+++ अमर्यादः क्षुद्रश् चल-मतिर् असूया-प्रसव-भूः
कृत-घ्नो दुर्-मानी स्मर-पर-वशो वञ्चन-परः ।
नृ-शंसः पापिष्ठः कथम् अहम् इतो दुःख-जलधेर्
अपाराद् उत्तीर्णस् तव परिचरेयं चरणयोः ॥ ६२ ॥
राजगोपालः - En
“How can I ever cross the sea of Sorrow and render service at Thy feet -
I who have transgressed all the regulations of the śāstra s
who am mean, fickle-minded, cavious, ungrateful, arrogant, lustful, deceitful, wicked and sinful?”
MS Rajajee (En)
I have been a transgressor (of the Sastras), an evil person, fickle minded, the home for envy, lascivious, deceitful, cruel and most wicked. How may I, crossing the boundless sea of misery, serve Your lotus feet?
In the previous sloka, the word “paapaatma” had been used. Alavandar now elaborates all the bad qualities he is guilty of having in himself. He is a 1) heretic having no respect for scriptural injunctions (amaryadah) 2) an evil person (“kshudrah”), 3) a person with an unstable mind (“chalamatih”), meaning one who does not think of sastras, 4) the home for jealousy (“asuya prasavabhuh”), 5) one who forgets the good done to him, one who is ungrateful (“kritaghnah”), 6) one who is arrogant (durmaani), 7) one who is a slave to cupid (“smara paravasah”), 8) a deceitful person (“vanchanaparah”), 9) a cruel person (nrisamsah) 10) a wicked person (“papishthah”). He wants to know how he should get ashore from this unfathomable and boundless ocean of miseries and serve the Lord’s feet? One must record here that once Sri Parasara Bhattar recited this sloka in the shrine of Ranganatha at Srirangam and said that he was in the same position as the hymnographer. There was a Vaishnava, a contemporary of Parasara Bhattar, who was jealous of the growing popularity of Bhattar and his own declining popularity. He was present in the shrine at the same time. Out of jealousy he burst out that Bhattar was not only guilty of the above sins, but that he was guilty of several more. All present there were shocked. Parasara Bhattar completed his worship and presented his gold ring to the jealous Vaishnava after covering him with a shawl. The Vaishnava was ashamed and nonplussed. Bhattar said that he was grateful to the Vaishnava for opening his (Bhattar’s) eyes to the several sins about which he was not aware of himself. So great was the humility of Bhattar. It was this sloka which Bhattar had recited. Actually, Alavandar is not even remotely guilty of the above deficiencies. This sloka is intended for a majority of us and we are expected to recite it, with humility, before the Lord and purge ourselves of our sins.
Self-deprecation while worshipping the Lord is a common device used by the great Vaishnavite hymnographers. We had, in this work, quoted several such slokas from the works of Sri Vedanta Desika. We will quote two more. Says Desika in Saranagati Dipika: “Though I am more sinful than a hundred Ravanas put together, I have understood the declarations made by You on the seashore and on Arjuna’s chariot, that You would offer refuge to all beings. So I realize that You have offered protection to me, for Your own sake."(Sloka 53).
“After making me say these unique and unvolitional words “I am yours, I have to be protected by you”, You should not, like others, stand helplessly before Your queens, with Your virtues, overcome by my sins…."(Sloka 54).
मूलम्
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ ॥
वेङ्कटनाथार्यः
अमर्याद इति ॥
‘वयसः कर्मणोऽर्थस्य
श्रुतस्याभिजनस्य च ।
वेष-वाग्-वृत्ति-सारूप्यम्
आचरन् विचरेदिह ॥’ (मनुस्मृतिः ४.१८)
इत्यादिषूक्तां श्रुतिस्मृतिमर्यादाम् अतिक्रान्तोऽहम् ।
क्षुद्रः – उपायदारिद्र्यहेयपुरुषार्थकार्पण्यादियुक्तः ।
‘क्षुद्रो दरिद्रे कृपणे
नृशंसे ऽल्प-निकृष्टयोः’
इति निघण्टूक्तेषु नृशंसत्वस्य पृथगुक्तत्वाच्छेषं यथोचितं ग्राह्यम् ।
‘पण्डितैर् अर्थ-कार्पण्यात्
पण्य-स्त्रीभिर् इव स्वयम् ।
आत्मा संस्कृत्य संत्कृत्य
परोपकरणी-कृतः ॥’ । +++(4)+++
चल-मतिः – बहुभ्यो बहुशश् च सम्यक्-छ्रुतेष्व् अपि शास्त्रेष्व् अ-प्रतिष्ठित-बुद्धिः ।
अ-सद्-अर्थेषु तु
‘दृढ-पूर्व-श्रुतो मूर्खो
धर्माणाम् अविशारदः ।
वृद्धान् अ-पृच्छन् सन्देहान्
अन्धः श्वभ्रम्+++(=गुहाम्)+++ इव र्च्छति ॥’
(भार. कर्ण. ७२.५७)
इत्यादिषूक्तं स्थिर-मतित्वम् अपि हि दोषः ।+++(5)+++
‘व्यवस्थितः प्रशान्तात्मा
कुपितोऽप्य् अ–भयङ्-करः ।
अ-व्यवस्थित-चित्तस्य
प्रसादोऽपि भयङ्-करः ॥’
इत्याद्यपि ग्राह्यम् ।+++(5)+++
असूया-प्रसव-भूः – गुणेषु दोषाविष्करणमसूया, तद्वतः प्रकारं
‘राजन्! सर्षप-मात्राणि
पर-च्छिद्राणि पश्यसि ।
आत्मनो मेरु-मात्राणि
पश्यन्नपि न पश्यसि! ॥’
इत्यादिभिराहुः ।
तस्याः प्रथम-प्रादुर्भावस्थानम् ।
‘असूयकायानृजवे जनाय न मां ब्रूयाः’, (भार. मेक्ष. २४६.१७),
‘असूयकाय मां मा दाः’ (मनु. २.१४),
‘न च मां योऽभ्यसूयति’ (गीता. १८.६७)
इत्यादिष्व् असूयावान् विद्या-प्रदानादिषु परिहरणीय उच्यते ।
कृतघ्नः – त्वदन्यैस्त्वया च परमोपकारकेण कृतमनन्तमुपकारमपह्नुत्यापकारेष्वपि प्रवृत्त इति भावः । स चासौ सर्वेभ्यः पापकृद्भ्यः समधिकः स्मर्यते –
‘गोघ्ने चैव सुरापे च
चोरे भग्नव्रते तथा ।
निष्कृतिर् विहिता सद्भिः
कृतघ्ने नास्ति निष्कृतिः ॥’
(रामा.किष्कि. ३४.१२),
‘सत्-कृताश् च कृतार्थाश् च
मित्राणि न भवन्ति ये ।
तान् मृतान् अपि क्रव्यादाः
कृतघ्नान् नोपभुञ्जते ॥’
इति ।
एतस्य कल्मषनिबर्हणार्थप्रायश्चित्तसंभवेऽपि संसर्गानर्हताऽपि स्मर्यते –
‘शरणागत-बाल-स्त्री-
हिंसकान् संवसेन् न तु ।
चीर्ण-व्रतान् अपि सतः
कृत-घ्न-सहितान् इमान्’
(याज्ञवल्क्यस्मृतिः ३-५-२९८) इति ।
दुर्मानी – निकृष्टम् अप्यात्मानम् ‘ईश्वरोऽहम् अहं भोगी’ (गीता. १६.१४) इत्यादिप्रकारेणात्युत्कृष्टं मन्यमानः; तेन ह्युत्कृष्टजनावमानादौ शिशुपालादिवत् प्रवर्तते । यथाऽऽह शाण्डिल्यः – (४.२५१)
‘मूर्खाश्च पण्डितंमन्याः
अधर्मा धार्मिका इव ।
धर्म-युक्तान् प्रबाधन्ते
साधूनां लिङ्गम् आस्थिताः ॥’
इति । आह च विदुरः –
‘अतिमानोऽतिवादश् च
तथाऽत्याशा नराधिप! ।
क्रोधश् चातिविवित्सा च
मित्र-द्रोहश्च तानि षट् ॥
एत एवासयस् तीक्ष्णाः
कृन्तन्त्य् आयूंषि देहिनाम् ।
एतानि मानवान् घ्नन्ति
न मृत्युर् भद्रम् अस्तु ते ॥’
इति ॥
स्मर-पर-वशः – धर्मविरुद्धकामोपभोगश्रद्धाविह्वलः । अत एव ह्यस्वतन्त्रस्य स्वातन्त्र्याभिमानोऽपि जडकृत्यम् ।
‘अङ्गार-सदृशी नारी
घृत-कुम्भ-समः पुमान् ।
तस्मान् नारीषु संसर्गं
दूरतः परिवर्जयेत् ॥’,
‘रागाद्य्-अपेतं हृदयं
वाग् अ-दुष्टा ऽनृतादिना ।
हिंसादि-रहितः कायः
केशवाराधनं त्रयम् ॥’,
‘पर-रन्ध्रेषु जात्यन्धाः
पर-दारेष्व् अ-पुंसकाः ।
परीवादेषु ये मूकाः
तेऽतीव दयिता मम ॥’
(विष्णुधर्मे ७६.२२)
इत्यादिकम् अत्र भाव्यम् ।
वञ्चन-परः – परद्रव्यापहाराद्यर्थं दम्भवृत्त्या स्वदोषापह्नवेन त्वदितरानिव स्वतस्सर्वज्ञं त्वामपि विप्रलब्धुकामः । ईदृशानां सर्वेषु कृत्येषु बहिष्कारः स्मर्यते –
‘पाषण्डिनो विकर्मस्थान्
बैडाल-व्रतिकान् शठान् ।
हैतुकान् बक-वृत्तींश् च
वाङ्मात्रेणापि नार्चयेत् ॥’
(वि.पु. ३.१८.१०१; मनु. ४.३०),
‘धर्मध्वजस् सदा लुब्धश्
छाद्मिको लोक-डाम्भिकः ।
बैडाल-व्रतिको ज्ञेयो
हिंस्रः सर्वातिसन्धकः ॥’,
‘अधोदृष्टिर् नैकृतिकः
स्वार्थ-साधन–तत्-परः ।
शठो मिथ्या-विनीतश् च
बक-व्रत-चरो द्विजः ॥’
इति । नृशंसः – आसन्नेषु व्याघ्रादिवत् क्रूरकर्मा । ‘आनृशंस्यं परो धर्मः’ (रामा.सुन्द. ३८.४१) इति त्वदुक्तविपरीतस्वभावः ।
एवंप्रकारतया मम ‘पापात्मा’ (श्लो. ६१) इति पूर्वोक्तमुपपन्नमित्यभिप्रायेणाह – पापिष्ठ इति ।
यद्वा, प्रदर्शनार्थं किञ्चिदुक्तम् ।
‘अनृतं च समुत्कर्षे
राजगामि च पैशुनम् ।
गुरोश् चालीक-निर्बन्धः
समानि ब्रह्म-हत्यया ॥’,
‘पिशुनो यश्च विप्राणां
रन्ध्रान्वेषण-तत्परः ।
दद्यान् मर्मान्तिकं शोकं
सोऽक्षयं नरकं व्रजेत् ॥’,
‘दह्यमानास् सुतीव्रेण
नीचाः परयशोऽग्निना ।
अशक्तास् तत्-पदं गन्तुं
ततो निन्दां प्रकुर्वते ॥’,
‘यो राज्ञः प्रतिगृह्यैव
शोचितव्ये प्रहृष्यति ।
स न जानाति मूढात्मा
नरकान् एकविंशतिम् ॥’,
‘कृष्णाजिन-प्रतिग्राही
रेतसश् चैव विक्रयी ।
गज-च्छायासु भोक्ता च
न भूयः पुरुषो भवेत् ॥’,
‘वादेन ब्राह्मणं जित्वा
हृष्टो भवति यो द्विजः ।
श्मशाने पादपः स स्याद्
गृध्र-कङ्क-निषेवितः ॥’, +++(4)+++
‘गुरुं त्वङ् कृत्य हुं-कृत्य
विप्रं निर्जित्य वादतः ।
अरण्ये निर्जले देशे
भवति ब्रह्म-राक्षसः’,
‘यो मोहाद् अथवाऽऽलस्याद्
अकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान्
सूकरेष्व् अपि जायते ॥’,
‘पितरं मातरं वाऽपि
तथा दत्ताभयं सुतम् ।
त्यजेच्च तरुणीं भार्यां
तं विद्याद्ब्रह्मघातुकम् ॥’,
‘राक्षसाः कलिमाश्रित्य
जायन्ते ब्रह्मयोनिषु ।
ब्राह्मणानेव बाधन्ते
विष्णुभक्तान् विशेषतः ॥’,
‘विद्याचोरो गुरुद्रोही
वेदेश्वर-विदूषकः ।
त एते बहुपाप्मानः
सद्यो दण्ड्या इति श्रुतिः ॥’,
‘परद्रोहेष्व् अभिध्यानं
मनसा ऽनिष्ट-चिन्तनम् ।
वितथाऽभिनिवेशश् च
त्रिविधं मानसं स्मृतम् ॥पारुष्यम् अनृतं चैव
पैशुन्यं चैव सर्वशः ।
अनिबद्ध-प्रलापश् च
वाङ्मयं स्याच् चतुर्विधम् ॥अदत्तानाम् उपादानं
हिंसा चैवाविधानतः ।
परदारोपसेवा च
शारीरं त्रिविधं स्मृतम् ॥’
इत्यादिषूक्तान्यतिघोराण्यनन्तानि मे पापानि सन्तीत्य् अभिप्रायः । अहं प्रागुक्तप्रकारेण त्वत्परिचर्यामिच्छन्निव भावयन् । अथवा, उक्तानुक्तदोषसहस्रसंपूर्णतया
‘दया सर्वभूतेषु
क्षान्तिर् अनसूया शौचम्
अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा’ (गौतमधर्मसूत्रे १.९)
इत्यादि-प्रतिपादित-विपरीताकार इति भावः ।
कथं – न कथंचिदित्यापाततोऽर्थः । ईदृशोऽपि शरणागतवत्सलं त्वामाश्रितः क्षत्रबन्धुवृत्रादिनयान्न विनश्यतीति गूढोऽभिप्रायः । तथा हि शरण्यस्स्वयमाह – ‘अपि चेत्सुदुराचारः’ (गीता. ९.३०) इत्यारभ्य ‘न मे भक्तः प्रणश्यति’ (गीता. ९.३१) इति । श्रीवैष्णवधर्मशास्त्रे (भार. आश्व. ९६.४६) च –
‘अपि पापेष्वभिरता
मद्भक्ताः पाण्डुनन्दन! ।
मुच्यन्ते पातकैस्सर्वैः
पद्मपत्रम् इवाम्भसा ॥’
इति । श्रीपुण्डरीकनारदसंवादे (इतिहाससमुच्चये ३१.१७०) च
‘अश्वमेधशतैरिष्ट्वा
वाजपेयशतेन च (शतैरपि) ।
न प्राप्नुवन्ति सुगतिं
नारायणपराङ्मुखाः ॥’,
‘ये नृशंसा दुरात्मानः
पापाचार-रतास् तथा (सदा) ।
तेऽपि यान्ति परं धाम (स्थानं)
नरा नारायणाश्रयाः (श्रिताः)’
(इति.समु. ३१.११९) इति ।
श्रीनारसिंहपुराणे च
‘भगवति च हराव् अनन्यचेता
भृश-मलिनोऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभविताम् उपैति चन्द्रः ॥’
इति । श्रीसात्त्वते (१६.२३.२४) च
‘दुराचारोऽपि सर्वाशी
कृतघ्नो नास्तिकः पुरा ।
समाश्रयेद् आदिदेवं
श्रद्धया शरणं यदि ॥
निर्दोषं विद्धि तं जन्तुं
प्रभावात् परमात्मनः ।’
इति । एवं
‘मेरुमन्थरमात्रोऽपि
राशिः पापस्य कर्मणः ।
केशवं वैद्यम् आसाद्य
दुर्व्याधिर् इव नश्यति ॥’,
‘सकृत् स्मृतोऽपि गोविन्दो
नृणां जन्मशतैश् चितम् ।
पापराशिं दहत्याशु
तूल-राशिम् इवानलः ॥’
इत्यादि वचनानि भाव्यानि । एवमभिप्रायानभ्युपगमे शास्त्रविरोधः पूर्वापरविरोधश्च स्यात् । इतः – ऊर्मिषट्कबहुलत्वेनातिदुस्सहतयोपलभ्यमानादित्यर्थः । अत्र दुःखशब्देन विषसंपृक्तमधुन्यायात् सांसारिकं सुखमपि सङ्गृह्यते । दुःखस्य जलधित्वरूपणमानन्त्यव्यञ्जनार्थम् । दुस्तरत्वाभिप्रायेण अपारत्वोक्तिः । उत्तीर्णशब्द इहौपाधिकसमस्ताकारात्यन्तिकनिवृत्तिपरः । अनिष्टनिवृत्तेरिष्टप्राप्तिपर्यन्तत्वं तवेत्यादिनोच्यते । परिशुद्धप्राप्यस्य तव चरणयोरीदृशोऽहं त्वत्कृपामन्तरेण कथं परिचरेयमित्युक्तं भवति । अत्र परिचरणोक्त्या
‘येन येन धाता गच्छति,
तेन तेन सह गच्छति,
तद् यथा तरुणवत्सा वत्सम्,
वत्सो वा मातरम्,
छाया वा सत्त्वम् अनुगच्छेत् तथाकारम्’ (रहस्याम्नायब्राह्मणे),
‘एतम् आनन्दमयम् आत्मानम् उपसंक्रम्य
इमाल्ँ लोकान् कामान्नी कामरूप्य् अनुसञ्चरन्’
(तै.भृ. १०.५),
‘स तत्र पर्येति’ (छान्दोग्ये ८.१२.१३)
इत्यादिमुक्तविषयश्रुत्युक्ताः सर्वे व्यापाराः स्वाम्य्-अभिमत-कैङ्कर्य-रूपाः सूच्यन्ते ॥ ६२ ॥
क्षमा-स्मृतिः, महाविश्वासः
वेङ्कतनाथार्यः - सङ्गतिः
एवंविधस्यापि स्वस्य यत् किञ्चिद्-व्याज-मात्रेण
सर्वेषाम् अपराधानां क्षन्तव्यत्वे प्राङ्-न्यायम् अपि दर्शयति –
रघुवरेति ।
विश्वास-प्रस्तुतिः
रघु-वर! यद् अभूस् त्वं तादृशो वायसस्य
प्रणत इति दयालुर्, यच् च चैद्यस्य कृष्णः ।
प्रतिभवम् अपराद्धुर् मुग्ध! सायुज्य-दोऽभूर्
वद किम् अ-पदम् आगस् तस्य तेऽस्ति क्षमायाः ॥ ६३ ॥
MS Rajajee (En)
69 O Lord, as Raghuvara, you were compassionate to Kakasura, merely because he had sought You, though he had committed a transgression which could not be tolerated. As Sri Krishna, you had pardoned Sisupala, and granted him the Supreme bliss of attaining You, despite his having wronged You, birth after birth. So then, tell me, whether there is any crime, which is excluded from the scope of Your clemency? In the previous sloka Alavandar had said that he is the worst sinner. Lest the Lord ask him as to how he, a transgressor hopes to be redeemed, Alavandar reminds the Lord of the episode of Kakasura and of the episode of Sisupala, to remind the Lord that transgressors have all been redeemed by the Lord. He asks the Lord what transgression is there that the Lord will not forgive (“kshamayah apdam agah kim asti”)? The story of Kakasura, the crow, is well known. It appears in the Sundara Kanda of the Ramayana. Hanuman has seen and conversed with Sita. He asks for a token so that he would be able to convince Rama that it was indeed Sita he had seen. Sita gives a jewel as a token of remembrance and additionally recounts the story relating to the pardon of Kakasura, which incident is known only to Rama and Sita. Sita was resting on the lap of Rama, when a crow made a bold attack on her. Rama woke up and angry as a five headed cobra saw the bloodstained talons of the crow. He released the Brahma astra against the crow. The crow circumambulated the world, but the arrow pursued it. None could save the crow. On the advice of Brahma, the crow sought the ref uge of Lord Ramachandra and sought forgiveness. The Lord, in His compassion granted life to the crow, but took away its eye, as the Brahmastra cannot be rendered ineffective. Hence, even the transgressor who had directly transgressed and committed an ‘apachara’ against the Lord, when he approaches Him and seeks His grace, the Lord will grant the grace.
The episode of Sisupala is well known. It is chronicled in the Srimad Bhagavatham. Jaya and Vijaya, the attendants of the Lord, at Vaikuntha, had prevented the Kumaras from having an audience with Lord Vishnu. The sages cursed them that they should eternally be asuras, after being born in the world. On the intervention of the Lord, the curse was modified. They were to be born as asuras, but thrice and in all the births they were to meet their death at the hands of the Lord. Though they were in constant conflict with the Lord, in each birth, their thoughts were always centred on the Lord. In succession they were born as Hiranyakasipu and Hiranyaksha, Ravana and Kumbhakarna, Sisupala and Dantavaktra. In all the cases, they were killed by the Lord. The manner of death of Sisupala was as follows. In a Rajasuya Yaga conducted by Yudhishthira, all the kings including Krishna, from Dwaraka, had been invited. A question arose, as to whom ‘agrapuja’ was to be done. Sahadeva suggested that it should be done to Krishna, who had stood by the Pandavas and was a respected elder statesman. Sisupala opposed this and made contemptuous remarks against Krishna, both because of past enmity and because of jealousy. When, in addition to the abusive speech, Sisupala sought to attack Krishna, the Lord beheaded Sisupala with his disc. Says the Bhagavatham (Skanda X Chapter 74) “while all the world looked on, a centre of brilliance, coming out of the dead body of Sisupala, was found to reach Krishna and get absorbed in him, like a meteor falling on the earth. Continously communing in confrontation with the Lord as his enemy, during three births, he attained to his being. For, continuous contemplation turns one into the nature of one contemplated upon…..” It is to these two episodes that Alavandar makes a reference and states that there is no transgression that the Lord will not forgive - one has to turn to Him with concentration. He then becomes the refuge.
मूलम्
रघुवर! यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः ।
प्रतिभवमपराद्धुर्मुग्ध! सायुज्यदोऽभूर्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ६३ ॥
वेङ्कटनाथार्यः
यद्वा, स्वदोषाद्भीतः शरण्येन स्वगुणानाविष्कृत्य प्रत्याश्वासितः स्वदोषाणामपि काकादिदोषन्यायात् क्षन्तव्यत्वे किमाश्चर्यमित्याह । अत्र संबुद्ध्या शरणागतरक्षणादिधर्मप्रवर्तनाय तदुचितवंशेऽवतीर्णत्वं तादृशेषु शरण्येषु च मुख्यत्वं व्यज्यते । आह च विभीषणः – ‘सर्वलोकशरण्याय राघवाय महात्मने’ (रामा.यु. १७.१५) इति । दृष्टं चैतत्स्वविषयवासिजन्तुजातस्य समरलीलासहायीकृतानां वानराणां च जातिगुणवृत्तादिवैषम्यानादरेण यत्किञ्चिदानुकूल्यमात्रेण संरक्षणे । त्वम् – ‘ब्रह्मा स्वयंभूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥’ (रामा.सुन्द. ५१.१५), ‘सदेवगन्धर्वमनुष्यपन्नगाम् (रामा.), ‘पिशाचान् दानवान् यक्षान्’ (रामा.यु. १८.२२), ‘चापमानय सौमित्रे!’ (रामा.यु. २१.२२) इत्यादिषु प्रसिद्धप्रभावस्त्वम् । न ह्यशक्तः क्षाम्यसीति भावः । तादृशः – देवीविषयासह्यापचारकर्तुः ।
वायसस्येत्यनेन
‘पुत्रः किल स शक्रस्य
वायसः पततां वरः ।
धरान्तरचरः शीघ्रं
पवनस्य गतौ समः ॥’ (रामा. सुन्द.)
इत्य्-उक्तं सूच्यते ।
नात्र जयन्तः काकतया समागत इति श्रीरामायणोक्तं,
‘न चाप्य् उपारमन् मांसाद्
भक्षार्थी बलिभोजनः’
(रामा.सुन्द.),
‘भक्ष-गृध्नेन काकेन
दारितं तु स्तनान्तरम्’ (रामा.सुन्द.)
इत्य्-आदि-मात्र-वचनात् ।
अतो वालिवदसाविन्द्रजन्मा प्रबलः कश्चिद्वायसः ।
‘मत्-कृते काक-मात्रे तु
ब्रह्मास्त्रं समुदीरितम्’ (रामा.सुन्द.)
इति चोक्तम् ।
प्रणत इति । ‘त्रींल्लोकान् संपरिक्रम्य’ गत्वा भूमौ निपतितं दयार्द्रबुद्ध्या प्रणतत्वेन परिगृह्येत्यर्थः । यद्वा, सकृत्प्रणत इत्येतावन्मात्रेणेति । तदा तु प्रणतशब्दः प्रकृष्टप्रह्वीभावरूपप्रपत्तिपरः, ‘स तं निपतितं भूमौ शरण्यः शरणागतम्’ (रामा.सुन्द. ३३.३४) इति वचनात् । उक्तं चाभियुक्तैः – ‘काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः’ (श्रीगुणरत्नकोशे ५०) इति । ‘वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्’ (रामा.सुन्द. ३८.३४) इत्युक्तमाह – दयालुरभूरिति ॥
ननु दक्षिणाक्षिहिंसनेन दण्डयतः कथं दयालुत्वम्? ‘राजभिर्धृतदण्डास्तु’ (मनुस्मृतिः) इति न्यायाद्दण्डोऽपि दयामूल इति चेत् – तर्हि प्रणत इति हेतूक्तिर्न घटते । मैवम्; प्राणार्थिनः काकस्य प्राणरक्षणेन प्रपत्तिफलस्य संपूर्णत्वात्, अमोघस्य ब्रह्मास्त्रस्य लक्ष्यानुबन्धियत्किञ्चिन्निरसनीयत्वकॢप्तेरवश्यापेक्षितत्वात्, तदर्थमेकाक्षिहरणेऽपि सव्यदक्षिणभागसंचारितारकाव्यापारकल्पनेन दृष्टिद्वयफलसिद्धेः । दुष्प्रकृतेः काकस्य भूयोऽपराधभयानुवृत्त्यर्थं स्वल्पावयवखण्डनस्यापि शिक्षारूपत्वात्, तस्य काकजात्यनुबन्धत्वकॢप्तेः सर्वत्र सर्वेषां प्रस्तुतवृत्तान्तप्रख्यापनार्थत्वाच्चेति भावः ॥
एवं दयाक्षमयोरुदाहरणान्तरमाह – यच्चेति ॥ अत्र कृष्णशब्देन सर्वलोककर्षणार्थमवतीर्णत्वम् ‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं प्रकुर्वीत कृष्ण इत्यभिधीयते ॥’ इति निरुक्तिश्च सूच्यते । प्रतिभवमपराद्धुरित्यनेन काकादप्याधिक्योक्तिः । जन्मत्रये सर्वदाऽपराधशीलस्येत्यर्थः । ‘अविज्ञाता’ (भार. आनु. १४९.५१) इतिवदपराधक्षमाभिप्रायेणाह – मुग्धेति । मुग्धो ह्युपराधमनपराधं च विवेक्तुं न शक्नोति । अयं तु विविक्तं पश्यन्नपि ‘क्षमया पृथिवीसमः’ (रामा.बाल. १) इत्युक्तगुणविशेषेणापश्यन्निव भवतीति मुग्धत्वोपचारः । ‘तस्मिन्नेव लयमुपयौ’ (वि.पु.) इति परशरवाक्याभिप्रेतमाह – सायुज्यदोऽभूरिति ।
नात्र (वि.पु.) लयशब्देन जीवप्रध्वंसो विवक्षितः; श्रुतिस्मृतिसूत्रैर्जीवनित्यत्वस्थापनात् । न चैक्यापत्तिः ‘पारमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः’ (वि.पु. २.१४.२७) इति तत्प्रतिषेधात् । ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुण्डके. ३.२.९) इत्यादिकं तु परमसाम्यापत्तिपरम्, ‘निरञ्जनः परमं साम्यमुपैति’ (मुण्डके. ३.१.३), ‘यथोदकं शुद्धे शुद्धमासितक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम! ॥’, ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ (गीता. १४.२) इत्यादिश्रुतिस्मृत्यनुसारात् । सूत्रितं च ‘भोगमात्रसाम्यलिङ्गाच्च’ (ब्र.सू. ४.४.२१) इति । अतः – सालोक्यसारूप्यादिशब्दवत् सायुज्यशब्दोऽपि युक्साम्यपरः । सर्वं हि भगवता मुक्तेन च भोग्यत्वेन युक्तं ‘ते सर्वं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति’, ‘सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः’ (छान्दोग्ये ७.२६.२) इत्यादिश्रुतेः, ‘ब्रह्मविदाप्नोति परम्’ (तै.आन.) इत्यादिकर्मकर्तृव्यपदेशाच्च ॥
अत्र पदवाक्यप्रमाणानभिज्ञैः सायुज्यमैक्यम् इति परिकल्पितम्, ‘एतासामेव देवतानॉं सायुज्यं सार्ष्टितॉं समानलोकतामाप्नोति’ (तै. उप.) इत्यत्र युगपत्, क्रमेण वाऽनेकदेवतासायुज्ये तत्तदैक्यापत्तेरघटितत्वात् । ‘सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः ॥’ इति परमसंहितायाम् (३०.९४) उक्तम् । शाण्डिल्यस्मृतौ च ‘यादृग्रूपस्तु भगवान् यत्र यत्रावतिष्ठते । मुक्तश्च पञ्चकालज्ञः तादृशस्सह मोदते ॥’ इति । सायुज्यशब्देन ‘शरवत् तन्मयो भवेत्’ इत्यादिषूक्तसंयोगविशेषो विवक्षितः, इति वदन्तस्त्वर्थविरोधाभावान्मर्षणीयाः । आगश्शब्दोऽपराधवाची । तस्य ते क्षमायाः किमपदमागः? न किंचिदस्ति । सर्वदर्शिना त्वया दृष्टमस्ति चेद्वद । त्वयाऽपि द्रष्टुं वक्तुं च न शक्यमिति भावः । दयाक्षमयोरिहाविनाभावात् अन्यतरोक्तौ इतरदन्तर्गतम् ।
ननु देहपातावधिनिरन्तरापराधस्य शिशुपालस्य केन व्याजेन मुक्तिः प्राप्तेति चेत्; इह तावत्प्रागेव भगवल्लोकविशेषवासिनः शापाक्रान्तस्य प्रतिकूलजन्मत्रयान्ते मुक्तिर्भविष्यतीति प्रतिविधाननियतिः परमं निदानम् । अत एव ह्युपात्तचक्रे वधोद्यते भगवति शिशुपालस्य प्रद्वेषसंस्कारभूयस्तयाऽपि निरन्तरस्मृतिमतः प्रकाशितपारम्यं भगवद्रूपं पश्यतोऽनुकूलावस्थाप्राप्तिरुच्यते । ‘अपगतद्वेषानुबन्धो भगवन्तमद्राक्षीत्, तावच्च भगवच्चक्रेणाशु व्यापादितः, तत्स्मरणदग्धाखिलाघसञ्चयो भगवताऽन्तमुपानीतस्तस्मिन्नेव लयमुपययौ’ (वि.पु.) इति ॥ ६३ ॥
वेङ्कतनाथार्यः - सङ्गतिः
एवं त्वत् क्षमा-विशेष-दर्शनान् निर्भयोऽस्मि,
तथा त्वद्-व्रत-विशेषानुसन्धानान् निर्भरश् चास्मीत्य्
अभिप्रायेण ‘सकृदेव प्रपन्नाय’ (रामा.यु. १८.३) इति श्लोकोक्तं ममापि साधारणमित्याह –
नन्विति ।
विश्वास-प्रस्तुतिः
ननु प्रपन्नस् सकृद् एव नाथ!
तवाहम् अस्मीति च याचमानः ।
तवानुकम्प्यस् स्मरतः प्रतिज्ञां
मद्-एक-वर्जं किम् इदं व्रतं ते? ॥ ६४ ॥
MS Rajajee (En)
91 16 I have sought Your refuge. You had promised that if one surrenders but once to You, You will protect that person. I have also done so. Does your promise exclude me?
Since Alavandar had, in the previous sloka, made specific reference to the episodes of Kakasura and Sisupala, the Lord may state that the grace of redemption is only extended on individual - specific basis and is certainly not applicable on a general basis. Alavandar therefore states in this sloka that he is a “prapanna”, and he had sought the refuge of the Lord. He reminds the Lord that he has made a vow (“pratijnam”) that if a person surrenders but once (“sakrudeva”) to the Lord, He would protect the person. Alavandar says that he has also sought the grace. Does the vow (“vratam”) of the Lord exclude him alone (“mad ekavarjam kim”)? One should recall here the episode of Vibheeshana in the Ramayana. After Hanuman leaves Lanka in a shambles, setting fire to half the city, Ravana calls for a meeting of his counsellors. Vibheeshana gives wholesome advice. He asks Ravana to sue for peace and return Vaidehi. Ravana treats him with contempt. Vibheeshana with four of his followers goes to Lord Ramachandra and seeks his refuge. Angada, Sugriva and others suggest that Vibheeshana should be imprisoned and not given refuge. Rama quotes scriptures and citing Sage Kanva says “…In the name of humanity, one should not strike even an enemy who has arrived at one’s door and is piteously soliciting protection with joined palms. Even an enemy who has come for protection should be protected, even at the cost of one’s life. If from fear or folly or even from desire, a man does not justly protect a refugee according to his capacity, the sin incurred by him is despised in the world…” Lord Ramachandra gives refuge to Vibheeshana.
The hymnologist has this episode in mind and therefore says that if a person surrenders but once to the Lord, the Lord has extended His protection. The Lord may well say that this was individual-specific, that this was made applicable to Vibheeshana only and how does he expect it to be extended to him? Alavandar has in mind Lord Ramachandra’s statement that even if Ravana were to seek his refuge, he would make it available. That is why Alavandar asks, am I alone excluded (“mat ekavarjam kim”)? In this sloka, the words used are “…if one surrenders but once to you…” We do not wish to go into a religious discussion as to whether a ‘prapanna’ should do ‘saranagati’ only once or again and again. We will leave it to the Vaishnavite theologians to discuss this. We will, however, quote one sloka from ‘Daya Satakam”. Says Desika, “The Lord of Vrishachala does not abandon you even in anger, like the ocean which does not lose the quality of coolness, even after being heated. O Daya, You do not like Prapatti done a second time. Please touch me with the sporting lotuses, that is, the glances of the Lord”. (Sloka 98).
We have quoted several slokas of Desika on the subject of ‘Prapatti’, ‘Saranagati’, during the course of this work. We will quote two more slokas from Saranagati Dipika. Says Desika: “O Lord, long ago you yourself truly said that compassion to those who seek refuge is the highest virtue. Because You are the one who gives refuge, You are now being reminded by me. Indeed, these undertakings of Yours are meant for people like me, is it not? (Sloka 45) “O Lord, Your forgiveness which was established as true in the case of Kakasura, Siva and others and which always devours the sins of those who try to say ‘protect me’ should not exclude me among beings” (Sloka 46)
मूलम्
ननु प्रपन्नस्सकृदेव नाथ! तवाहमस्मीति च याचमानः ।
तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते? ॥ ६४ ॥
वेङ्कटनाथार्यः
‘सकृत् कृतः शास्त्रार्थः’ (पू.मी. ११.१.२२) इति स्वतःप्राप्तस्य विद्यान्तरनयादत्रापवादशङ्कायां तन्निरासार्थ एवकारः । सकृदेवेत्यस्य ‘सहसैव – सर्वागसां निष्कृतिमकृत्वा’ इति कैश्चिद्व्याख्यातम् । आवृत्तिव्यवच्छेदे तु प्रसिद्धिप्रकर्षः प्रयोजनभूयस्त्वं ‘सकृदेव हि शास्त्रार्थः’ (लक्ष्मीतन्त्रे १७.९०), ‘मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यति’ (सात्यकितन्त्रे) इत्यादिप्रमाणानुगुण्यं च विद्यते । अत एव ‘सकृदेव ददामी’ति व्यवहितान्वयश्चात्र न युक्तः ॥
प्रचयापचयध्वंसप्रत्यूहरहिता प्रभौ । प्रपत्तिः कॢप्तकाले तु फलतीत्यपि सूच्यते ॥ ३४ ॥
अत्र नाथशब्देन ‘लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति’ (रामा.किष्कि. ५.२०), ‘सर्वलोकशरण्याय’ (रामा.यु. १७.१५) इत्यादिकं ख्याप्यते । शरण्यत्वं कैङ्कर्योद्देश्यत्वं च तवैव प्राप्तमिति भावः । तवाहमस्मीति च याचमानः – तव दासभूतोऽहमित्येवंविधानुसन्धानपूर्वकं शेषवृत्तिं प्रपत्तिफलत्वेन प्रार्थयमान इत्यर्थः । अस्मीत्यस्य स्यामिति वाऽभिप्रेतम् । तदाऽपि तवाहं किङ्करः स्यामिति फलप्रार्थना ।
अत्र गोप्तृत्ववरणमात्मनिक्षेपश्च यथार्हं पृथङ्निर्दिश्यते, इति केचित्; ‘मानसी वाचिकी च’ इति एके; ‘प्रयोजनान्तरार्थप्रपत्तिरनन्यप्रयोजनप्रपत्तिश्च’ इति अन्ये; ‘प्रपत्तिर्भक्तिश्च’ इति अपरे ।
तकानुकम्प्य इत्यादिना लोकरक्षार्थमवतीर्णस्य दक्षिणसागरवेलायां महापरिषदि दुरपह्नवप्रतिज्ञाकर्तृत्वं सूच्यते । प्रतिज्ञाम् – ‘अभयं सर्वभूतेभ्यो ददामि’ (रामा.युद्ध. १८.३५) इत्येवंरूपाम् । अत्र नित्यसिद्धसर्वसाक्षात्कारस्य भगवतः स्मरत इत्युक्तिर्लौकिकबुद्ध्यनुसारादौपचारिकी । अनुकम्प्यः – त्वत्प्रतिज्ञाभङ्गपरिहारार्थं त्वयैवानुकम्पा कर्तव्येति भावः । ननु यदर्थं मया प्रतिज्ञातं तेषु विभीषाणादिषु प्रतिज्ञा सफला, किं त्वयेत्यत्राह – मदेकवर्जं किमिदं व्रतं ते इति । ‘प्रपन्नाय’ ‘याचते’ इति हि सामान्यतस्त्वया प्रतिज्ञातम्; ‘विभीषणो वा (धर्मात्मा) सुग्रीव! यदि वा रावणस्स्वयम् । आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥’ (रामा. यु. १८.३४) इति चोक्तम् । न च त्वया तदानीं मद्व्यतिरिक्तायाभयं ददामीति व्रतमुपात्तम्; अतोऽहमपि त्वद्व्रतविषयभूत इति व्यज्यते । सर्वसाधारणस्वामित्वशरण्यत्वयोगम् ‘रामो द्विर्नाभिभाषते’ (रामा.अयो. १८.३०) इत्यादिवैघट्यात्स्ववाक्यस्य व्यावृत्तिविशेषणात् स्वप्रक्षेपानर्हत्वं च सूचयितुं पुनरपि ते इत्युक्तम् ॥ ६४ ॥
वेङ्कतनाथार्यः - सङ्गतिः
ननु काकस्य
‘स पित्रा च परित्यक्तः
सुरैश्च समहर्षिभिः ।
त्रींल्लोकान् संपरिक्रम्य
तमेव शरणं गतः ॥
स तं निपतितं भूमौ
शरण्यः शरणागतम् ।
परिद्यूनं विषण्णं च….’
(रामा.सुन्द. ३८.३३,३४)
इत्युक्तावस्था-विशेषोऽस्ति;
चैद्यस्य च प्राचीन-नियतिर् मातुर् वर-विशेषश् च विद्यते;
तव पुनः स्वोक्तानाम् अ-मर्यादत्वादीनाम् आकरस्य
उपायानुष्ठाने फल-प्रार्थनायां छद्म-स्तुति-मात्र-वादिनो
ऽनन्यथा-सिद्धेन केन हेतुना क्षन्तव्यत्वं शिक्षणीयत्वं रक्षणीयत्वं चेत्य् अत्र
‘पिता त्वं माता त्वम्’ (श्लो.६०), ‘दयासिन्धो बन्धो’ (श्लो. ५८), ‘रघुवर’ (श्लो. ६३), ‘ननु प्रपन्नः’ (श्लो.६४) इत्यादिभिः शरण्यगताः स्वरक्षणौपयिकगुणविशेषा ये प्रतिपादिताः;
ये च ‘अकिञ्चनोऽनन्यगतिः’ (श्लो. २२), ‘दयनीयस्तव नाथ’ (श्लो. ५०), ‘त्वदीयस्त्वद्भृत्यः’ (श्लो. ६०) इत्यादिभिः स्वगतगुणाः प्रदर्शितास्
तेभ्यः सर्वेभ्यः समधिकं निरङ्कुश-स्वातन्त्र्येण सर्वेश्वरेणाप्य् अनतिलङ्घनीय-स्वासाधारण-स्वाङ्गीकार-हेतुम् आह –
अकृत्रिमेति ॥
आचार्य-सम्बन्ध-महत्त्वम्
विश्वास-प्रस्तुतिः
अ-कृत्रिम-त्वच्-चरणारविन्द-
प्रेम-प्रकर्षावधिम् आत्मवन्तम् ।
पितामहं नाथ-मुनिं विलोक्य
प्रसीद मद्-वृत्तम् अचिन्तयित्वा ॥ ६५ ॥
MS Rajajee (En)
Keeping in view the pure and guileless love of supreme devotion to your lotus feet by my grand father Nathamuni, the truly enlightened one, at least for his sake, please bless me, overlooking all my lapses and shortcomings.
In the first three slokas, obeisance had been offered to Nathamuni. In the last sloka, again a reference is being made. Alavandar says that the devotion displayed by Nathamuni is pure and gentle. It is abiding, unlike in the case of Alavandar. In sloka (62) Alavandar had submitted that he is fickle minded. His devotion may therefore not be constant and abiding. Alavandar pleads that atleast for the sake of Nathamuni, he has to be blessed without looking at his shortcomings. He says, without looking at his conduct (mad vrittam achintayitva), to please accept him (‘praseeda’).
This sloka underscores the fact that service to the feet of the Acharya is a sure pathway to liberation.
मूलम्
अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् ।
पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ॥ ६५ ॥
वेङ्कटनाथार्यः
क्रियया निर्वृत्तः कृत्रिमस्तदन्योऽकृत्रिमः, भगवत्कटाक्षविशेषाधीनमहावंशसंभवादेतस्मिन् जन्मनि प्रभूतयत्ननिरपेक्ष इत्यर्थः । अकृत्रिमत्वमिह प्रेमविशेषणम् । त्वच्छब्देन प्राप्यत्वप्रापकत्वौपयिकसर्वाकारवैशिष्ट्यं सूच्यते । चरणारविन्दशब्देन तु दासभूतस्य स्वतः प्राप्तसेव्यत्वं पावनतमत्वं निरतिशयभोग्यतमतया परमप्रेमार्हत्वं च प्रकाश्यते । ‘अनुरागमहिमातिशयान्तसीम्रे’ (श्लो. २) इति प्रागुक्तमेव विधेयान्तरार्थमनुवदति – प्रेमप्रकर्षावधिमिति । लोके च राजादयः स्वभक्तानुबन्धिनामपि रक्षणं कुर्वन्तीति भावः । आत्मवन्तम् – जितमनस्कमित्यर्थः । तेन प्रयोजनान्तरवैमुख्यं व्यञ्जितम् । तदपि प्राप्तविषये प्रेमप्रकर्षहेतुः । तादृशप्रेम्णा सपरिकरभक्तियोगसामर्थ्येऽपि विलम्बाक्षमतया प्रपत्तिनिष्ठत्वं सूच्यते । यद्वा, यथावस्थितभगवत्प्रेमजनिततद्ध्यानादिभिर्लब्धात्मेति पदद्वयाभिप्रायः । अयं च स्वभावो गीतार्थसङ्ग्रहेऽपि ‘ज्ञानी तु परमैकान्ती’ (२९) इत्यारभ्य, ‘भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥’ (श्लो. ३०) इत्युक्तः । ‘आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते’ इत्यादिषूक्तानामाचार्यगुणानां सर्वेषां सार इह सङ्गृहीतः । तस्यैवं गुणवत्त्वे तव किमायातमित्यत्राह – पितामहमिति । अत्र विद्यया जन्मना चेति भाव्यम् । एतेन ‘नास्यावरपुरुषाः क्षीयन्ते, नास्याब्रह्मवित् कुले भवति’ इति श्रुत्यर्थः सूच्यते । नाथमुनिम् – श्रीरङ्गनाथ इति त्वन्नामधारिणं त्वदेकमननशीलं चेति भावः । विलोक्य – ‘पशुर्मनुष्यः पक्षी वा’ (शाण्डिल्य. १.१५) इत्यादिन्यायादनुबन्धिपर्यन्तमनुग्राह्यत्वेन मत्वेत्यर्थः ।
‘आचार्यस्य प्रसादेन
मम सर्वमभीप्सितम् ।
प्राप्नुयामिति यस्यास्ति
विश्वासः स सुखी भवेत् ॥’
इत्युक्ताचार्य-प्रसादोऽपि
भगवत्-प्रसाद-हेतुर् इत्य् अभिप्रायेणाह – प्रसीदेति ।
अनाद्य्-अनन्त-मद्-अपराध-जनित-कालुष्यं विहाय
मामैकान्तिकात्यन्तिककैङ्कर्य-साम्राज्य-धन्यं कुरुष्वेत्यभिप्रायः ।
मद्वृत्तमचिन्तयित्वा –
मदीयम् अमर्यादत्वादि-प्रतिकूल-वृत्तम् उपायोपेय-विषयच्-छद्म-स्तुति-वचनाद्य्–अनुकूल-वृत्ताभासं चातन्त्री-कृत्य
इत्य् अर्थः ।
स्मर्यते हि –
‘पापिष्ठः क्षत्रबन्धुश्च
पुण्डरीकश्च पुण्यकृत् ।
आचार्यवत्तया मुक्तौ
तस्माद् आचार्यवान् भवेत् ॥’
इति ।
अत्र
‘पूर्वकृत-प्रपत्त्य्-आदिकम् अपराध-कोटौ निवेश्य
प्रपदनान्तरम् उच्यते’
इति वादोऽप्य् आचार्यसंबन्ध-प्राधान्य-परः;
अन्यथा सर्वशास्त्राणाम्, संप्रदायस्य, ‘त्वदङ्घ्रिमुद्दिश्य’ (श्लो. २८) इत्यादिस्ववचनानां च विरोधः स्यात् ।
‘स्वकृत-प्रपत्तेर् वैकल्यम् आशङ्क्य
पूर्ण-प्रपत्ति-निष्ठम् आचर्यं
स्व-रक्षणाय पुरस्करोति’
इति पक्षेऽपि मत्-प्रपत्तिर् विकला चेद्
अ-विकलां कुरुष्वेति तात्पर्यं ग्राह्यम् ।
अत्र वृत्त-शब्देन प्रतिकूल-वृत्त-मात्र-विवक्षायां तु न किञ्चिच् चोद्यम् ॥
वेङ्कतनाथार्यः - सिंहावलोकनम्
तद् इह यामुनाचार्यस् त्रय्य्-अन्त-रहस्य-भूतं द्वयार्थ-गर्भं स्तोत्रं चिकीर्षुर्
आदौ पञ्चभिः श्लोकैः कृतज्ञता-प्रकाशन-पूर्वकं प्रकृतौपयिक-सम्यग्-ज्ञान-प्रदातॄन् प्रणनाम ।
षष्ठेन प्राप्य-प्रापक-सङ्ग्रह-पूर्वकं स्तोत्रारम्भं समकल्पयत् ।
सप्तमेन स्तोत्रारम्भाक्षेप-मुखेन
भगवतः परत्वं समगृह्णात् ।
अष्टम-नवमाभ्यां तत्-समाधान-मुखेन सौलभ्यं प्राचीकशत् ।
‘नावेक्षसे’ (१०) इत्यादिभिर् द्वादशभिर्
नारायण-शब्द-वाच्यस्यैव सर्वस्मात् परत्वं सौलभ्यं च प्रपञ्च्य प्रह्वीबभूव ।
एवं सर्व-शरण्य-तत्त्वे निरूपिते
‘न धर्मनिष्ठोऽस्मि’ (२२) इत्यनेन
तद्-विषयां साधिकारां सपरिकरां च
अनन्य-प्रयोजन-शरणागतिं प्रायुङ्क्त ।
एतावता शब्दतो ऽर्थतश् च
+++(द्वयस्य)+++ पूर्व-खण्डोऽपि प्रत्यभिज्ञापितः ।
‘न निन्दितम्’ (२३) इत्यादिभिः पञ्चभिः ‘अकिञ्चनोऽनन्यगतिः शरण्य’ (२२) इत्युक्तमेव व्यवृणुत ।
‘त्वदङ्घ्रिमुद्दिश्य’ (२८) इत्यादि-द्वाभ्यां
फल-गौरवोपाय-लाघव-निमित्त-शङ्का-व्युदासाय लघुतर-भगवद्-धर्म-प्रभावम् उदाजहार ॥
‘विलास’ (३०) इत्यादिभिः सप्त-दशभिश्
चतुर्थ्यन्त-पद-द्वयाभिप्रेतं व्यस्तृणीत ॥
तत्र ‘प्रहर्षयिष्यामि’ (४६) इति सर्व-देश–सर्व-कालोचित-निरुपाधिक-निरवधिक-
सर्व-विध-कैङ्कर्यस्य परम-प्रयोजनतया
नमश्-शब्द-तात्पर्यम् अप्य् असूचयत् ॥
‘धिगशुचिम् (४७) इति श्लोकेन
स्व-निन्दा-व्याजेन स्वापेक्षित-परम-पुरुषार्थस्य सर्वातिशायित्वं,
स्वस्य त्वरां च व्यञ्जयामास ॥
‘अपराध’ (४८) इत्यादिभिश्चतुर्भिः शरण्यगुणविशेषेण प्रपत्त्यैव सर्वविरोधिनिवृत्तिं प्रादर्शयत् ॥ ‘वपुरादिषु’, (५२) ‘मम नाथ’ (५३) इति द्वाभ्यां शेषवृत्तेः पुरुषार्थत्वाय स्वस्य नित्य-निरुपाधिकानन्यार्ह-शेषत्वाध्यवसायम् आचष्ट ॥
‘अवबोधितवान् इमाम्’ (५४) इत्य्-आदिभिश् चतुर्भिर्
अनन्य-प्रयोजनस्य स्वस्यात्रत्याम् इष्ट-प्राप्तिम् अनिष्टनिवृत्तिं च प्रार्थयामास ॥
‘दुरन्तस्य’ (५८) इति श्लोकेन
स्वनिन्दाव्याजेन स्वापेक्षित-पुरुषार्थस्य सर्वातिशायित्वम्,
स्वस्य त्वरां च सूचयन्
‘शरणागतस्य प्रपत्तव्य-गुण-विशेषैर् एव प्रार्थितं सर्वं सिध्यति’
इति प्राग्-उक्तम् एव
स्थूणा-निखनन-न्यायेन स्थिरीचकार ॥
‘अनिच्छन्’ (५९) इति श्लोकेनानन्यप्रयोजनस्य रक्षणोद्यतो भगवान्
‘नेहाभिक्रमनाशोऽस्ति’ (गीता. २.४०) इति न्यायात्
स्वयमेव शेषं पूरयतीत्यभाषत ॥
तत्र ‘त्वमेव’ (५९) इत्यादिना ऽभिप्रेतं,
‘पिता त्वम्’ इत्यादिना विवृण्वन् परगतैः स्वगतैश्च हेतुभिश्
शरण्यस्य स्वाभिमत-भर-स्वीकारेण
स्वस्य निर्भरत्वं निरणैषीत् ॥
‘जिनत्वाऽहम्’ (६१), ‘अमर्यादः’ (६२) इति द्वाभ्यां स्वस्योपायान्तरेण परमपुरुषार्थप्राप्तिर्न संभवतीति पूर्वोक्तमेव पुनः प्रतिसमाधत्त ॥
‘रघुवर’ (६३) इति श्लोकेन
शरण्यस्य प्राक्तनानुष्ठान-न्यायात्
स्वस्मिन्न् अपि सर्वापराध-क्षमा प्राप्तेत्य् आह ॥
‘ननु प्रपन्नः’ (६४) इति श्लोकेन शरण्य-व्रत-विशेष-स्वभावाद् अपि तद् एव प्रथयामास ॥
अथान्तिमेन
स्वपरगतेषु स्वरक्षणहेतुषु
भगवत्-कटाक्ष-विशेष-जनित–
सद्-आचार्य-संबन्ध एव प्रधानतम
इति निर्धार्य तद्-अधीन-भगवत्-प्रसादेन निर्भयः प्रहृष्टश् चासीत्॥
वेङ्कतनाथार्यः - सङ्गतिः
इति किल निगमान्त-भागधेय-
स्तुति-परिवाहसमीक्षया प्रपत्त्या ।
अलभत परमं पदं मुरारेर्
अनघ-मनो-रथ एष यामुनेयः ॥ ३५ ॥
कथिताकथिते विभाव्य सद्भिस्
सद्-अ-सद्-वेदिभिर् अत्र सावधानैः ।
बलवत्-प्रथित-प्रमाण-दृष्ट्या
बहुमन्तव्यम् इदं यदस्मद्-उक्तम् ॥ ३६ ॥
उनिषद्-उपधेय-स्तोत्र-तात्पर्यम् एतत्
यति-पतिर् अवधत्ते यामुनार्यस् स्वयं वा ।
अहम् इह तु नियुक्तस् सद्भिर् आचार्य-निघ्नैर्+++(=परतन्त्रैः)+++
अधिगत-शुक-वृत्तिर् व्याक्रियाम् अन्वभूवम् ॥ ३७ ॥
स्वकम् इति हरि-दत्तं यामुन-स्तोत्र-वृत्त्या
व्यवृणुत निगमान्ताचार्यकं वेङ्कटेशः ।
अगणि सदसि सद्भिर् यस् समस्या-सहस्री+++(=??-)+++
कवि-कथक-मृगेन्द्रस् सर्व-तन्त्र-स्वतन्त्रः ॥ ३८ ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु रहस्यरक्षायां स्तोत्ररत्नभाष्यं समाप्तम् ॥
MS Rajajee (En)
Conclusion: The Stotra Ratna, the hymn of 65 slokas, is a bench mark in Vaishnavite literature. It greatly influenced Bhagavan Ramanuja. This stotra brings out the essential teaching that the Lord is the means, the end and the goal of human endeavour. It also brings out the significance of the Dvayamantra. The sloka brings out clearly the efficacy of ‘prapatti’ in attaining liberation. The supremacy of Lord Vishnu is highlighted in many a verse, including indicating how the entire universe evolves out of him and is absorbed by him. The sovereignty of the Lord is impressed on us by highlighting His compassion, His beatific form and His eternally benevolent activities. This hymn is the centre piece of the concept of the Supreme Being and the concept of Surrender to him.