प्राप्ति-काङ्क्षा
वेङ्कतनाथार्यः - सङ्गतिः
तद् एवम् इह तत्त्व-ज्ञानादि-पूर्वकं
मोक्षार्थतया प्रवृत्तस्य प्रपत्ति-शास्त्रार्थस्याधिकारेण “न निन्दितम्” (श्लेक. २३)
इत्य्-आदिभिः सप्तभिः सामर्थ्य-भागः समर्थितः ।
अथ “विलासेत्यादिभिः” सप्त-दशभिः उत्तर-खण्डार्थ-प्रदर्शकैः
प्राप्य-वैलक्षण्य-प्रपञ्चन-पूर्वकम् अर्थित्व-भागः स्पष्टी-क्रियते ।
तत्र प्रथमेन स्व-विषय-भक्ति-प्रभाव-प्रतिपादन-प्रीतेन भगवता
यथा-मनो-रथं सर्वं करिष्यामीत्य् उक्ते
तद्-दत्त-तीव्र-भक्तेः
स्वस्य तत्-पादारविन्द-सन्दर्शने काल-क्षेपाक्षमत्वं व्यनक्ति –
विश्वास-प्रस्तुतिः
विलास-विक्रान्त-परावरालयं
नमस्यद्-आर्ति-क्षपणे कृत-क्षणम् ।
धनं मदीयं तव पाद-पङ्कजं
कदा नु साक्षात् करवाणि चक्षुषा ॥ ३० ॥+++(5)+++
MS Rajajee (En)
Your lotus feet which measured the earth and the Satyaloka and the feet which get rid of the miseries of those who worship them, which feet are my dearest treasure, when will I be able to see them with these eyes? In the previous slokas, the easy method of attaining the Lord has been described. In the next 17 slokas, the qualities of the Lord are amply explained.
47 The present sloka begins by referring to the lotus feet of the Lord which measured the earth and the Satyaloka. The reference is to the episode of Mahabali, which is well known. Since Mahabali had conquered all the devas, they sought the intervention of Lord Vishnu, who assumed the form of a brahmachari Vamana, attended a sacrifice of Mahabali, asked and obtained the gift of land covered by three paces, assumed a Cosmic Form and measured the whole of Bali’s kingdom in one step and with the second step covered the whole of heaven covering Maharloka, Janaloka, Tapoloka and Satyaloka (Chapter 20 of Skanda VIII of Srimad Bhagavatam). Alavandar refers to these lotus feet which measured the earth and Satyaloka, the feet which get rid of the miseries of those who worship the feet. The Bhagavatam tells us that when the Cosmic Form covered upto the Satyaloka with the second step, Brahma rushed there with the sages and the devotees “….who by the contemplation of the Lord’s feet through Bhakti have attained to Satyaloka”. Alavandar prays to be one of those devotees.
The feet of the Lord are a treasure. They are the feet which are washed by Ganga, which in turn washes away the sorrows of all people. Alavandar is in a hurry to seek the treasure. He says with urgency “when will I be able to see those Feet.” There is another point to be emphasised. Alavandar in his query asks, when will I be able to see them with these eyes. The comparison with the situation in the Gita is obvious. Arjuna has heard the profound words of spiritual wisdom. He has heard about the immortal glory of the Lord. Arjuna then requests the Lord: “If You think that it can be seen by me, then O Lord of Yoga, reveal to me your imperishable Form”. The Lord replies “But, surely you cannot see Me with these human eyes of yours. Therefore, I vouchsafe to you the divine eye. With this, you behold My divine power of yoga “(Chapter 11 of the Gita verse 8). Alavandar prays that he wishes to see the Feet (not the Form) with ’these’ eyes (“chakshusha kada sakshatkara vani”).
मूलम्
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ॥ ३० ॥
वेङ्कटनाथार्यः
विलासेति ॥ परावरशब्दाभ्यां हिरण्यगर्भादयो मनुष्यादयश्च गृह्यन्ते । तेषामालयाः पृथिव्यादयः सत्यान्ता लोकाः, ते विलासेन विक्रान्ता येन तत् विलासविक्रान्तपरावरालयम् । “यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा” (ऋग्वेदे विष्णुसूक्तम्), “क्रान्त्वा धरित्रीं गगनं तथा दिवम्” इत्यादिप्रमाणप्रसिद्धमिदम् । विक्रमस्यानायासलीलारूपत्वव्यञ्जनाय विलासशब्दः । अत्र सर्वसुलभत्वं च सूच्यते । एवं सुलभस्य अयत्नसेव्यत्वम् अनिष्टनिवर्तकत्वं चाह – नमस्यदार्तिक्षपणे कृतक्षणमिति । नमस्यतां प्रह्वीभवतां तदैवाशेषार्तिविनाशने कृतक्षणं दत्तावसरं निवृत्तव्यापारान्तरं वा । “क्षणो व्यापारवैकल्ये कालभेदाल्पकालयोः” इति नैघण्टुकाः । धनं मदीयम् – अनन्योपायस्य ममाभिमतसाधनं पुरुषार्थभूतं च । तव पादपङ्कजं – स्वरूपादिभिर्निरतिशयभोग्यस्य अश्रितवत्सलस्य मुमुक्षुध्येयं मुक्तभोग्यं च पादारविन्दम् । कदेत्यादि । “न चक्षुषा पश्यति कश्चनैनम्”, “स्वाध्यायश्चक्षुरुत एकमस्य योगो द्वितीयमभिवीक्षणाय । अध्ययनमनननयनोऽस्य द्रष्टा न मांसचक्षुरभिवीक्षते तम् ॥”, “न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते”, “प्रत्यक्षोऽसि न कस्यचित्” इत्यादिषु मादृशैर्दुर्दर्शतया प्रसिद्धं त्वामद्यैवानेनैव चक्षुषा साक्षात्कर्तुमिच्छामीत्यभिप्रायः । एतेन “तासामाविरभूच्छौरिः” (भागवते १०.स्क.) इति न्यायेन, धनञ्जयादिषु दिव्यचक्षुःप्रदानन्यायेन च दिदृक्षूणां यथामनोरथं सहसैव दृश्यो भवतीति प्रकाश्यते । अत्र मुक्तिदशाविवक्षायां “स वा एव दिव्येन चक्षुषा मनसा” इतिवत्स्वाभाविकज्ञानरूपेण चक्षुषेति योज्यम् ॥ ३० ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथ “दिव्यं ददामि ते चक्षुः” (गीता. ११.८) इतिवद्
अपेक्षितं साक्षात्कारं दास्यामीति भगवतोक्ते
दूरस्थस्य कालान्तरेऽपि तत्-संभवम् आशङ्क्य
शीघ्रं स्वोचितं तत्-संश्लेष-विशेषम् अपेक्षते –
विश्वास-प्रस्तुतिः
कदा पुनश् शङ्ख-रथाङ्ग-कल्पक-
ध्वजारविन्दाङ्कुश-वज्र-लाञ्छनम् ।
त्रि-विक्रम त्वच्-चरणाम्बुज-द्वयं
मदीय-मूर्धानम् अलङ् करिष्यति ॥ ३१ ॥+++(4)+++
MS Rajajee (En)
O Trivikrama, when will the pair of Your lotus feet bearing the marks of conch, discus, kalpavriksha (the wish granting heavenly tree), flagstaff, lotus hook and thunderbolt adorn my head?
In the previous sloka, a reference was made to the Form of the Lord which measured earth and Satyaloka in two strides. This is continued in this sloka by invoking Trivikrama. It may be recalled that Indra had lost his kingdom and Aditi had pleaded with Lord Vishnu for the restoration of his kingdom which had been annexed by Maha Bali. Maha Vishnu agreed to be born in the womb of Aditi. When Lord Vishnu was born, “..he was of pure blue complexion, in a form characterized by lotus eyes, yellow wearing cloth and four arms holding the conch, the mace, the lotus and the discus. His hallowed lotus like face shone in the brilliance of the fish marked ear-rings he wore. The Srivatsa mark on his chest, bracelets, armlets, brilliant diadem, girdle and anklets were his other decorations…."(Srimad Bhagavatam Skanda VIII Chapter 18). Mahavishnu appeared in this Form, so that the parents (and others like Brahma) would recognize him. He then transformed himself as Vamana.
There is a slight variation between the description in the Bhagavatam and in the above sloka. While in the Bhagavatam the Form is described, with the Lord carrying the conch, the mace and the discus in his arms, Yamuna poeticaly says that the pair of his feet were bearing the marks of the conch, the discus, the kalpavriksha, the flagstaff, the lotus, the hook and the thunderbolt.
49 While Yamuna carries forward the theme of the Feet of Trivikrama from the previous sloka, there is a subtle change. In the previous sloka, he had prayed as to when he would be able to see the Feet. In this sloka, he has gone a step(!) further - he wishes to know when he would be able to keep it on his head. Because of this, devout Vaishnavas recite this sloka when the “satari” is kept on their head, after worship is offered in a temple.
मूलम्
कदा पुनश्शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ ३१ ॥
वेङ्कटनाथार्यः
कदा पुनरिति ॥ पुनश्शब्दः साशङ्कत्वद्योतकः । साक्षात्कारमात्राद्विशेषद्योतको वा । “शङ्खचक्रगदापद्मैरङ्कितं पादपङ्कजम् । शरच्चन्द्रप्रतीकाशनखराजिविराजितम् ॥ सुरासुरैर्वन्द्यमानमृषिभिश्चिन्तितं सदा । मूर्धानं मामकं देव! तावकं मण्डयिष्यति ॥”, “सञ्चिन्तयेद् भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्” इत्यादिप्रसिद्धमाकारमनुसन्धत्ते – शङ्खरथाङ्गेत्यादिना । “एष ब्रह्मलोकः सम्राडिति होवाच”, “राजाधिराजः सर्वेषाम्” (भार. आश्व. ४३.१३) इति श्रुतिस्मृतिप्रसिद्धसाम्राज्यचिह्नत्वाभिप्रायेण लाञ्छनशब्दः । तथा चोक्तं नारदीये “भृङ्गारासनवाजिकुञ्जररथश्रीवत्सचापेषुभिर्मालाकुण्डलचामराङ्कुशयवैः शैलध्वजैस्तोमरैः । मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः पादे पाणितले नरा नृपतितां यान्ति, स्त्रियो राज्ञिताम् ॥” इति । त्रिविक्रमेति सम्बुद्ध्या निम्नोन्नतविभागानादरेण सर्वेषां शिरसि कृतपदन्यासत्वं, स्वस्य तदलाभेन निर्वेदश्च सूच्यते । त्वच्चरणाम्बुजद्वयम् “अप्राप्यः केशवो राजन्! इन्द्रियैरजितैर्नरैः” इत्यादिष्वजितेन्द्रियैर्दुर्लभतया प्रसिद्धस्य तव लक्ष्मीभूमिलीलाकमलं शङ्खादिरेखालंकृताभरणस्थानीयं चरणयुगलम् । मदीयमूर्धानम् अत्यन्तनिहीनस्य त्वत्पादस्पर्शानर्हस्य दुष्टतमतया कालियवत् पादपद्मदमनीयस्य मे चिरकालम् “न नमेयम्” (रामा. यु.) इति त्वत्प्रणामविरहेण दूषितमुत्तमाङ्गम् । अलङ्करिष्यति पश्यतां सत्त्वस्थानां प्रेक्षणीयं करिष्यतीति भावः । एतेन कलिदोषनिवृत्तिरप्यर्थिता भवति । उक्तं हि महाभारते “यावत् स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् । तावत् पृथ्वीपरिष्वङ्गे समर्थो नाभवत् कलिः ॥” इति । संसाराग्निदग्धोऽहं त्वत्पादस्पर्शेन परीक्षिदिव यथार्हं सञ्जीविष्यामीति भावः । अत्र “यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥” (रामा. अयो.) इति भरतवाक्यम्, “तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ ।” (भार. आर. १६०. १३५) इति मार्कण्डेयवचनं च दर्शनीयम् । यद्वा, मुक्तिदशायां परिगृहीताप्राकृतशरीरस्य स्वस्य परमपदपर्यङ्कनिलयभगवत्पादमूलप्रवेशे त्वरातिशय इह प्रकाश्यते ॥ ३१ ॥
वेङ्कतनाथार्यः - सङ्गतिः
उक्त-प्रकार-सन्दर्शन-संश्लेष-समनन्तर-भावि–सर्व-विध-कैङ्कर्योद्देश्यं भगवन्तं
समस्त-कल्याण-गुण-दिव्य-मङ्गल-विग्रहादि-विशिष्टतया प्राप्यं
चतुर्-दशभिर् विशदम् अनुसन्धत्ते ।
तत्र प्रथम-श्लोकस्य पूर्वार्धेन पीताम्बरपरभागविचित्रिताम्
“अतसीपुष्पसङ्काशः
पीतवासा जनार्दनः ।
व्यभ्राजत सभामध्ये
हेम्नीवोपहितो मणिः ॥”,
इति महाभारतोक्तां दिव्यस्वरूपस्य समुदाय-शोभाम् अनुभवति –
विश्वास-प्रस्तुतिः
विराजमानोज्ज्वल-पीत-वाससं
स्मितातसी+++(-कृष्ण)+++-+++(प्र)+++सून-समामल-च्छविम् ।
निमग्न-नाभिं तनु-मध्यम् उन्नतं
विशाल-वक्षस्-स्थल-शोभि-लक्षणम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ३२ ॥
विश्वास-टिप्पनी
अहो भाग्यं वैष्णवानं यद् अस्मद्-देव-च्छवेः स्मारकं खम्। यदा हि दुर्जनेषु विरक्तिर् जायते, गगनदर्शनमात्रेण लोकभृत् सनित्यकिङ्करः, तद्-अनुरक्तिश् चास्मद्-हृदय-वर्तिनी स्मर्यते।
MS Rajajee (En)
(One) who is beautifully attired in shining yellow clothes, whose splendour is equal to that of a blooming black flower, who is endowed with a slender waist and a depressed navel, the shining Srivatsa mark on his chest (when will I be able to serve you).
From now on, for the next 14 slokas, the Lord is extolled and hymned. In these slokas, the word “bhavantam” has to be read into each sloka and the prayer which appears in sloka 45 has to be presumed to appear in each of these slokas.
In this sloka the splendour of the yellow raiment on the dazzling blue body, the navel (which is the origin of Brahma and thence of the universe), the waist which includes the belly into which the entire universe is resumed at the time of the great deluge (compare the description of the Markandeya episode in the Srimad Bhagavatam and the vision of the cosmic Form granted to Arjuna), the broad chest which is the residence of Lakshmi (when she emerged from the ocean, at the time of the churning by the devas and the asuras) and also the adorning place of the Srivatsa mark are described.
In the first line in this verse, the word used is “virajamarojjwala”. Both the words “virajamana” and “ujjwala” are used because of the yellow raiment is itself a shining piece and in conjunction with the dazzling blue form of the Lord, it makes for a lustrous splendour.
The entire object is to offer worship to the Lord, to serve the Lord. That is why, a reference is made to the lustre of the Lord. The splendour of the Lord is compared to a blossoming flower - not just any flower, not even the tender or bloomed lotus but to a blooming flower (which the Alwars used to refer to in Tamil as “poovaipoo”, when they sing about the Lord as “poovaipoo vanna”).
मूलम्
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२ ॥
वेङ्कटनाथार्यः
विराजमानोज्ज्वलपीतवाससमिति ॥ पीताम्बरस्य श्यामवर्णविग्रहयोगात् स्वतश्च विराजमानत्वमुज्ज्वलत्वं भास्वरत्वं च । स्मितशब्दोऽत्र विकासार्थः । अतसीसूनम् अतसीप्रसूनम् । श्यामलरमणीयतया विग्रहस्य तत्समत्वम् । अमलच्छविम् उज्ज्वलकान्तिम् । ध्यायतां दोषप्रतिभटद्युतिमिति वा । अवयवेषु प्रथमम् “अजनिष्ट च कस्य नाभेः” (श्लोक. १४) इति प्रागुक्तपारम्यव्यञ्जकं पितामहोत्पत्तिस्थानं निर्दिशति – निमग्ननाभिमिति । निम्ननाभिमित्यर्थः । उदरस्याशेषभुवनगर्भत्वेऽपि कृशत्वेनाद्भुतत्वमभिप्रेत्याऽह – तनुमध्यमिति । तथा चाहुः श्रीवत्साङ्कमिश्राः – “अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद्वरद कथं नु कार्श्यमस्य । माहात्म्यं स्वत इह येषु नूनमेषामृद्धिः स्यान्महिमकरी न हीतरेषाम् ॥” (वरदराजस्तवे. ४९) इति । उन्नतम् – अतिह्रस्वत्वादिदोषरहितसर्वाधिकत्वव्यञ्जकदिव्यविग्रहमित्यर्थः । विशालेत्यादि । अतिविशालभुजान्तरशोभमानप्रकृतितत्त्वनिरूपकलक्ष्मीनिवासश्रीवत्सलक्षणम् । अत्र द्वितीयान्तानां सर्वेषां “भवन्तम्” (श्लो. ४६) इति वक्ष्यमाणेनान्वयः ॥ ३२ ॥
वेङ्कतनाथार्यः - सङ्गतिः
भुजमध्यशोभाऽनुसंहिता ।
अथ वीरशृङ्गार-चित्रितां भुजशोभामनुसन्धत्ते –
विश्वास-प्रस्तुतिः
चकासतं ज्या-किण-कर्कशैः शुभैश्
चतुर्भिर् आ-जानु-विलम्बिभिर् भुजैः ।
+++(गन्धेन वलिभिश् च)+++ प्रियावतंसोत्पल–कर्ण-भूषण-
+++(शिथिल=)+++श्लथालकाबन्ध-विमर्द-शंसिभिः +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ३३ ॥
MS Rajajee (En)
You (who) shine with the four auspicious arms which reach upto the knees,
which bear the rough scars of the bowstrings,
which speak of the contact with Sri
and have sweet-smelling fragrance and which are holy (when will I be able to serve You).
In the previous sloka the Lord had been described as one wearing a yellow raiment and His lustre had been described as also His broad chest, which was adorned by the Srivatsa mark. In this sloka, the reference is to his arms. The Lord is depicted as tall and handsome - ajanubaahu. His arms are adorning His sides and extend upto the knee joint. Hanuman crosses the ocean, proceeds to the Asoka vana, remains concealed in a tree, gently recites the story of Rama and introduces himself to Sita. Sita wants to be sure that he is an envoy of Lord Ramachandra and not a rakshasa 51 who has assumed the shape of a monkey. Sita asks Hanuman to describe the Lord. Hanuman says that He is four cubits tall and His arms extend upto the knees. Says Hanuman “….Sri Rama has eyes resembling a lotus petal. His countenance resembles the full moon. O, daughter of Janaka, he is richly endowed with charm from his birth. He vies with the sun in effulgence and with the earth in forbearance….” It is this long limbed Lord that Alavandar is describing in this sloka. Being long limbed is a sign of Lordship.
The arms bear the signs of friction with the bowstring. Yamuna does not draw a distinction between the Para roopa and avatara roopa. That is why while describing the Lord in the Para roopa, he refers to the marks made by the bowstring in the avatara roopa as Lord Ramachandra or Lord Krishna. Desika says much the same thing in a verse in “Sri Bhagavaddhyana Sopanam” The Lord (Ranganatha) reclines on the serpent. His four hands are handsome and generous, marked by the scars left by bracelets and bowstring are like huge bolts for the mansion of Lakshmi (His own chest)….” One may refer also to sloka 29 in ‘Sri Devanayaka Panchasat’.
The goddess resides on the chest (please see above). Hence when She is resting on the arms of the Lord, her ear ornaments and ornaments worn on the head come into contact with the arms of the Lord and leave a mark. It is to this Alavandar makes a reference.
The goddess has bedecked her head with flowers. Hence, when she is resting on the arms of the Lord, the flowers leave their fragrance on the arms of the Lord. Sri Yamuna refers to this - “priya avatamsa utpala karnabhushana suladha alakabandha vimarda samsibih”.
मूलम्
चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥ ३३ ॥
वेङ्कटनाथार्यः
चकासतमिति ॥ अवतारदशायां विरोधिनिराकरणार्थव्यापारव्यञ्जकैर्ज्याकिणैरङ्कितत्वं परविग्रहभुजेष्वपि तदभेदानुसन्धानेन निर्दिशति ज्याकिणकर्कशैरिति । शुभैः औदार्यवीर्यसौन्दर्यादिशालिभिः । पररूपेऽपि चतुर्भुजत्वं प्रमाणसिद्धमिति प्रकाशयितुमाह – चतुर्भिरिति । यथोक्तं विष्वक्सेनसंहितायां
“वैकुण्ठे तु परे लोके
श्रीसहायो जनार्दनः ।
उभाभ्यां भूमिनीलाभ्यां
सेवितः परमेश्वरः ॥
महायोगी जगद्धाता
दिव्यसिंहासनोपरि ।
दिव्यसंस्तरणोपेते
शेषाहिफणमण्डिते ॥
पञ्चोपनिषदाम्नात-
दिव्यमङ्गलविग्रहः ॥
अप्राकृत-तनुर्देवो
नित्याकृतिधरो युवा ॥
नित्यातीतो जगद्धाता
नित्यैर्मुक्तैश्च सेवितः ।
बद्धाञ्जलि-पुटैर् हृष्टैर्
निर्मलैर् निरुपद्रवैः ॥
चतुर्भुजः श्यामलाङ्गः
श्रीभूभ्यां सह नीलया ।
विमलैर्भूषणैर् नित्यैर्
भूषितो नित्यविग्रहः ॥
पञ्चायुधैः सेव्यमानः
शङ्खचक्रधरो हरिः ।
सहस्रस्थूण-संयुक्ते
मण्डपे परमेश्वरः ॥
विन्यस्य वामकं बाहुम्
आसने वामपार्श्वके ।
दक्षिणं जानुके न्यस्तं
लम्बयन् जगतां पतिः ॥”
इति ।
एवम् एव ध्यानं भाष्यकारैर् नित्ये प्रोक्तम् ।
बलपौष्करे तु
“देवो वैकुण्ठनाथस्तु
अनन्तासनसंस्थितः ।
सेव्यः श्रीभूमिनीलाभिः
प्रादुर्भावैस् तु चाखिलैः ॥
शङ्ख-चक्रधरो नित्यं
जानुन्यस्तैक-हस्तवान् ।
अभयप्रद-हस्तश्च
नील-जीमूतसन्निभः ॥
ध्यातव्यो नित्यलोकस्थो
भुक्तिमुक्तिफलप्रदः ।”
इति । अत्र अभयप्रदहस्तत्वादिवैषम्यम् अवस्थाभेदाद् उपपद्यते ।
यत्तु कैश्चिदुक्तं –
“मुखं किमस्य कौ बाहू”, “बाहू राजन्यः कृतः” इति पुरुषसूक्तवाक्याभ्याम्
“दश हस्त्या, अङ्गुलयो दश, पद्या द्वावूरू, द्वौ बाहू, आत्मैव पञ्चविंशः”, इत्यैतरेयोक्त्या,
“पाणिभ्यां त्रयीं संभरति”, इत्यादि-रहस्याम्नायोक्त्या च
परस्य द्विभुजत्वं सिध्यति
इति, तद्-अयुक्तम्;
तेषां वाक्यानां प्रकरणादिभिर्
अन्यपरत्वेन परस्य चतुर्भुजत्व-प्रतिषेधादर्शनात् ।
यच्चोक्तं श्रीसात्त्वते
“नादावसान-गगने
देवोऽनन्तः सनातनः ।
शान्तः संवित्-स्वरूपस्तु
भक्तानुग्रह-काम्यया ॥अनौपम्येन वपुषा
ह्यमूर्तो मूर्ततां गतः ।
विश्वम् आप्याययन् कान्त्या
पूर्णेन्द्व-युत-तुल्यया ।वरदाभयदेनैव
शङ्खचक्राङ्कितेन च ।
त्रैलोक्योद्धृति-दक्षेण
युक्तः पाणिद्वयेन सः ॥”
इति, तदिदं तत्रत्य-हृद्याग-विशेषविधिपरम् ।
श्रीपौष्करे
“द्विभुजं पुरुषाकारं
युक्तमादित्यसन्निभैः ।
ध्वजैर् आभरणैश्चिह्नैः
शङ्खचक्रादिसंज्ञितैः ॥”
इति, सौमन्तवे च
“निरस्त्रा द्विभुजां सौम्या
शङ्खचक्रकराङ्किता ।
महापुरुषरूपा च
सुप्रसन्ना विलक्षणा ॥”
इति
भारद्वाजे च –
“द्विबाह्वोश् चक्रधृत् पाणिर्
दक्षिणः शङ्खधृत् परः ।
उपविष्टं तु मोक्षार्थी
उत्थितं विश्वसिद्धये”
इति, साङ्कर्षणे च
“पुरुषोत्तमस्य देवस्य
शुद्धस्य स्फटिकत्विषः ।
समपादस्य पद्मोर्ध्वे
ह्य् एक-वक्त्रस्य संस्थितिः ॥
वरदाभयहस्तौ द्वाव्
अप्रवृत्ताख्य-कर्मणः ।”
इति ।
एतान्य् अन्यानि च एवंविधानि वाक्यानि
तत्-तद्-रूप–सद्-भाव-मात्र-पराणि ।
यत्पुनः आनन्दाख्यसंहितायामुक्तम्
“स्थूलमष्टभुजं प्रोक्तं
तस्मादेतत्त्रयं यजेत्”
इति, एतद् अपि पररूपमधिकृत्यैव बह्वीषु संहितासु चतुर्भुजत्वप्रतिपादनात्,
इच्छागृहीताभिमतोरुदेहस्य देवस्य वैकल्पिकध्यानपरतया सुसङ्गतम् ।
दृश्यते च नृसिंहकृष्णाद्येकैकरूपेष्व् एव द्विभुजत्व-चतुर्भुजत्व-वर्ण-भेदाद्य्-अवान्तर-वैषम्यम् ।
परस्मिंश्च नित्योदित-शान्तोदितादि-विभागः सम्प्रतिपन्न इति सर्वं सुस्थम् ।
अत्र श्लोके ज्याकिणेत्यादिना
स्वभक्तसंरक्षणार्थं महावीरत्वम्,
प्रियावतंसेत्यादिना स्वानुरूप-वीर-पत्नी-संबन्धस्
तत्-पुरस्कारेण सर्वैर् अभिगमनीयत्वं च सूच्यते ॥ ३३ ॥
वेङ्कतनाथार्यः - सङ्गतिः
एवं पीताम्बरप्रभृत्य्-आरोहण-क्रमेण भुजानुभवानन्तरं
दिव्यकण्ठशोभां मुखशोभां चानुसन्धत्ते –
विश्वास-प्रस्तुतिः
उदग्र-पीनांस-विलम्बि-कुण्डल+
+अलक+आवली-बन्धुर-कम्बु-कन्धरम् ।
मुख-श्रिया न्यक्-कृत-पूर्ण-निर्मल-+
+अमृतांशु-बिम्ब-+अम्बु-रुहोज्ज्वल-श्रियम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ३४ ॥
MS Rajajee (En)
Whose conch-like neck is adorned by the lustre of the earrings which are extending upto the large and broad shoulders, whose sheen of face surpasses the lustre of the full moon as also the glow of red lotus, in full bloom (when will I serve You and be blessed?)
Alavandar is now describing the shoulders, the curls of hair and the worshipful face. It is regarded as a royal sign to have three lines on the neck. The conch is believed to have three lines. Hence, the comparison of the neck to the conch is descriptive of royal excellence. Hence, Alavandar refers to the neck as conchlike (“kambu”). In the previous sloka, we had referred to Hanuman’s description of Lord Ramachandra in reply to a query of Sita. In the same description, Hanuman refers to the Lord having three lines on his neck (and his belly). Desika in Sloka 28 of ‘Sri Devanayaka Panchasat’ says “…O Lord of the divine, my mind blooming beautifully entwines your conchlike neck like the Vanamala garland, which is darkened by Your lustre and which clearly bears the charming impressions of Sri’s bangles.” The shoulders of the Lord are, as is to be expected, broad and large. The Lord is wearing ear rings. These extend upto the shoulder and have a great shine, a great lustre.
Alavandar describes the sheen of the face as surpassing the lustre of the full bloom (“amritamsu bimba” and “amburuha”). Alavandar compares the face of the Lord to both the moon which is spotless (“nirmala”) and to the blooming lotus because they both have an appeal of their own. The moon conveys a sense of serenity, peace and hence of subdued joy while the lotus conveys a sense of tenderness and charm. Desika also has a like statement, while refering to the curls and the face, “…O Lord of the celestials! This night in the Form of Your curly forelocks, through association with your moonlike face, with its beautiful nectar like pleasant53 smile becomes fit for our contemplation to remove the fever of transmigratory existence…” (Sloka 17 of ‘Sri Devanayaka Panchasat’).
मूलम्
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ ३४ ॥
वेङ्कटनाथार्यः
उदग्रेति ॥ उदग्रमुन्नतं पीनमकृशमुदग्रपीनांसविलम्बिभ्यां कुण्डलालकावलिभ्यां बन्धुरा सुन्दरा कम्बुवदभिरामा त्रिरेखालंकृता कन्धरा यस्य तथोक्तः । “रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते” । कुण्डलालकसमभिव्याहारः परभागकान्तिव्यञ्जनार्थः । “पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् । तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥” (वि. पु. ५.१७.४) इत्यादिप्रसिद्धां पावनमनोहरां मुखशोभामनुभवति – मुखश्रियेति । मुखकान्त्येत्यर्थः । न्यक्कृतेत्यादि । यस्य मुखश्रिया न्यक्कृतं पूर्णनिर्मलामृतांशुबिम्बमम्बुरुहोज्ज्वलश्रीश्च स एवमुदीरितः । अम्बुरुहश्रिय उज्ज्वलत्वं नूतनविकासकान्तिसौकुमार्यादिभिः । अमृतांशुबिम्बाम्बुरुहयोर्वा द्वन्द्वः । तयोरुज्ज्वलश्रीरिति तत्पुरुषः ॥ ३४ ॥
वेङ्कतनाथार्यः - सङ्गतिः
उक्तप्रकारां मुखशोभां प्रत्येकावयव-भावनया पुनरपि निर्विशति –
विश्वास-प्रस्तुतिः
प्रबुद्ध-मुग्धाम्बु-ज–चारु-लोचनं
सविभ्रम-भ्रू-लतम् उज्ज्वलाधरम् ।
शुचि-स्मितं, कोमल-गण्डम्, उन्नसं
ललाट-पर्यन्त-विलम्बितालकम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ३५ ॥
MS Rajajee (En)
Who has eyes which are beautiful like a lotus, who has graceful creeperlike brows, shining lips which have a half-smile, soft cheeks, prominent nose, curls hanging upto the forehead (when will I serve You and be blessed?)
In the previous sloka, the prayer was addressed to the Lord, describing the whole of the face. In this sloka, the reference is to parts of the face - the eyes, the eyebrows, the cheeks, the lips and the nose. The eyes are compared to a fully bloomed lotus (“prabuddha mugdha ambuja”). The eye brows are graceful as creepers (“savibhrama bhrulatam”). The lips of the Lord are shining and He has a half-smile. In addition, the smile is pure (“suchi smitam”). But then, which part of the Lord is not pure? What is sought to be highlighted here is that the smile has no duplicity (unlike the smile of a king, who always practises duplicity). Or, the word “suchi” meaning “white”, we can take it as referring to the whiteness of the smile, by way of poetic convention.
In the previous sloka, the curls were described as extending upto the big and broad shoulders. In this sloka, we are told that the curls are hanging down the forehead. (“lalata paryanta vilambitalakam”). The description in this sloka is of the frontal view.
मूलम्
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ ३५ ॥
वेङ्कटनाथार्यः
प्रबुद्धेति ॥ प्रबुद्धं विकसितं मुग्धं नूतनं सौम्यं वा । तथा च नैघण्टुकाः “मुग्धं सौम्ये नवे मूढे” इति । अम्बुजवल्लोचनयोश्चारुत्वमाश्रितदर्शनप्रीतिविकसितत्वेन, तदनुग्रहयोगसौम्यतया कान्त्यतिशयाच्च । सविभ्रमभ्रूलतमित्यनेनापि स्वभक्तसम्प्राप्तिजनितोल्लासातिशयः सूच्यते । उज्ज्वलाधरं प्रवालादिभ्योऽप्यधिकप्रकाशमानाधरम् । विद्रुममौक्तिकन्यायेनाधरशोभया विशेषितां स्मितशोभामाह – शुचिस्मितमिति । अवदातस्मितमित्यर्थः । अथवा “स्मयन्निव नृपो हन्ति” इतिवद्विरुद्धाभिसन्धिं परिहर्तुमिह शुचित्वोक्तिः । एवं चोक्तं श्रीपौष्करे “पूर्वकर्मानलार्तानां ध्यायतां खेदशान्तये । स्वदन्तेन्दुचयोत्थेन ह्लादयन् गोगणेन तु ॥” इति । कोमलगण्डं सुकुमारकपोलम् । उन्नसम् उन्नतनासावंशम् । अलकानां पश्चादंसलम्बित्वं प्रागुक्तम् । अत्र तु पुरस्ताल्ललाटोर्ध्वभागलम्बित्वमाह – ललाटपर्यन्तविलम्बितालकमिति ॥ ३५ ॥
वेङ्कतनाथार्यः - सङ्गतिः
ईश्वरत्वेन शङ्कनीययोः ब्रह्मरुद्रयोर्
आदिमं रूपं तापस-वेषेण कर्म-वश्यत्व-व्यञ्जकम् ।
भगवतस् तु किरीटादियोगात् सर्वेश्वरत्वख्यापकम् इत्य् अभिप्रायेणाऽह –
विश्वास-प्रस्तुतिः
स्फुरत्-किरीटाङ्गद-हार-कण्ठिका-
मणीन्द्र–काञ्ची-गुण–नूपुरादिभिः ।
रथाङ्ग-शङ्खासि-गदा-धनुर्-वरैर्
लसत् तुलस्या वन-मालयोज्ज्वलम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ३६ ॥
MS Rajajee (En)
(You) who are wearing a shining diadem, bracelets, a garland of pearls, a necklace, the kaustubha gem, the girdle and anklets, who has the five weapons, the conch, the discus, the sword, the club and the bow, who is wearing a garland of basil leaves (when will I be able to serve you and be blessed?).
In this sloka, the description is of the garlands, jewels adorning the Lord and the weapons of the Lord. The jewels are all shining (“sphurat”). What are they? Alavandar begins with the glorious crown (“kireeta”) and then refers to “angada”. This is what is popularly known as the “Keyuuram”. He then refers to the “haara”, “kanthika” (the neck adornment or the necklace), the kaustubha and the girdle (“kanchiguna”). The effulgent Lord can only be dazzling with all these adornments.
The sloka then goes on to describe the weapons of the Lord. They are the discus (poetically described as “Rathanga”), the conch (“sankha”), the sword (“asi”), the club (“gada”), and the bow (“dhanus”).
The Lord is not just having the items of jewelleries and holding the weapons. He is wearing a garland of basil leaves (“thulasya vanamalaya). Alavandar calls it the shining (“lasat”) garland. It is to highlight the fact that when the Lord wears a garland, even the garland shines, as it does not ever fade.
मूलम्
स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥ ३६ ॥
वेङ्कटनाथार्यः
स्फुरत्किरीटेति ॥ कण्ठिका कण्ठभूषणं, मणीन्द्रः कौस्तुभः, स च जीवतत्त्वाभिमानी । आदिशब्देनापरिमितानि दिव्याभरणान्तराणि संगृह्यन्ते । रथाङ्गादयः पञ्च मनस्तत्त्वतामसाहङ्कारसम्यग्ज्ञानबुद्धितत्त्वसात्त्विकाहङ्काराभिमानित्वेन प्रसिद्धाः । स्पर्शरूपगन्धविशेषैर्लसन्ती तुलसी लसत्तुलसी तया; यद्वा लसन्ती तुलसी यस्यास्सा तयेति वनमाला विशेष्यते । स्फुरदुज्ज्वलमिति पादाभ्यामाभरणादेर्विग्रहस्य चान्योन्ययोगादपि शोभमानत्वं ख्याप्यते । अत्र “स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः । चिन्मयैः स्वप्रकाशैश्च अन्योन्यरुचिरञ्जितैः ॥” (पौष्कसंहिता) इत्यादिकं द्रष्टव्यम् । चिन्मयैः अस्पृष्टसंसारतत्तद्देवतात्मकैरित्यर्थः ॥ ३६ ॥
वेङ्कतनाथार्यः - सङ्गतिः
ईदृशकिरीटादिभिः सर्वेश्वरत्वेन व्यञ्जितस्य भगवतः
साम्राज्यं सलक्ष्मीकस्येति त्रिभिः श्लोकैः सहेतुकमनुसन्धत्ते ।
तत्र
“ततोऽवलोकिता देवा
हरिवक्षःस्थलस्थया” (वि. पु. १.९.१०६),
“श्रियम् उन्निद्र-पद्माक्षीं
विष्णुवक्षस्स्थले स्थिताम्”,
“का चान्या त्वामृते देवि!
सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य
योगिचिन्त्यं गदाभृतः ॥” (वि. पु. १.९.१२२)
इत्यादिषूक्तमाह –
विश्वास-प्रस्तुतिः
चकर्थ यस्या भवनं +++(विष्णु-)+++भुजान्तरं,
तव प्रियं धाम यदीय+++(=लक्ष्मी)+++-जन्म-भूः ।
जगत्-समस्तं यद्-अपाङ्ग-संश्रयं
यद्-अर्थम् अम्भो-धिर् अमन्थ्य् +++(रामावतारे)+++ अबन्धि च +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ३७॥+++(5)+++
MS Rajajee (En)
55 Who has made His chest the abode of Sri, whose (Sri’s) birthplace is your beloved abode, in whose side-glances the entire universe takes refuge and for whose sake the ocean was churned and bunded (when will I be blessed to serve You?).
From sloka 32 to sloka 36 the Lord has been described. These slokas have to be read along with Sloka 46 (as already mentioned) wherein the anxious query is raised as to when the Lord may be served and the poet is to be blessed.
Slokas 37, 38 and 39 describe Sri. The episode relating to the advent of Sri is well known. Indra and the devas had been defeated by the asuras. The devas approach Brahma, who submits their representation to Lord Narayana. The Lord replies that the time is not propitious to the devas, advises them to cooperate with the asuras, and invites them to together churn the ocean, so that nectar may be obtained. Though this was mentioned, the real purpose of the Lord was to obtain Sri. Our acharyas have given the interpretation that the real purport was to enable Sri to be born. When Sri emerged, there were many among the gods who desired that she may choose them. Sri looked only at Lord Narayana and chose the broad chest of the Lord as her permanent residence. That is why the Goddess is described as “Hari Vaksha Sthalalaya” and “Vishnu Vaksha Sthalalaya” and “Vishnu Vaksha Sthala Sthitha”. As the Goddess emerged from the ocean, she is referred to as “Sindhukanya”. In this sloka, while addressing the Lord, Alavandar exclaims “bhujantaram bhavanam” meaning the chest being the residence. Since the goddess emerged from the ocean, which milky ocean is the ocean on which the Lord rests, Alavandar says that her birthplace is his fond living place (“janmabhuh tava priyam dhaama”).
The entire universe is under her benign glance. That is why in the Lakshmi Ashottaram, there is a description of the goddess as “Srimanmanda Kataakshalabdha Vibhava brahmendra gangaadharam” meaning that it is only due to the grace of the Goddess Lakshmi that Brahma, Siva and Indra regained their powers. This has been put in a slightly different manner in this sloka. Alavandar says that the entire universe is under the sovereignty of Her benign glance (“samastam jagat yad apanga samsrayam”).
A similar sloka appears in the “Sristuti” of Vedanta Desika. Says Desika in Sloka 2, “How can people of trivial intellect praise you of innumerable virtues, who appeared from the milky ocean and from the sacrificial ground; whose abode is a forest of lotuses and the chest of Vishnu and whose wealth is the entire universe and the highest abode (Vaikuntha)?”.
मूलम्
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ॥ ३७ ॥
वेङ्कटनाथार्यः
चकर्थ यस्या भवनं भुजान्तरमिति ॥ “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम्॥” (हरिवंशे विष्णुपर्वणि ५५.५९) इत्यादिप्रसिद्धमाह – तव प्रियं धाम यदीयजन्मभूरिति । ब्रह्मादीनां सर्वेषां तत्कटाक्षाधीनवैभवत्वमाह – जगत्समस्तं यदपाङ्गसंश्रयमिति । यथोच्यते “त्वया देवि! परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥” (वि. पु. १.९.१२३), “त्वयाऽवलोकितास्सद्यः शीलाद्यैस्सकलैर्गुणैः । धनैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥” (वि. पु. १.९.१२९,१३०) इत्यादि । श्रीमहाभारते च श्रीवासवसंवादे स्वयमेव देवदेव्या स्ववैभवं प्रदर्शितं – “पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः । ममात्मभावमिच्छन्तो यतन्ते परमात्मना ॥ साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ अहं लक्ष्मीरहं भूमिः श्रीश्चाहं बलसूदन! । अहं श्रद्धा च मेधा च सन्नतिर्विजितिस्स्मृतिः ॥ अहं धृतिरहं सिद्धिरहं त्वद्भूतिरेव च । अहं स्वाहा स्वधा चैव सन्नतिर्नियतिः कृतिः ॥ राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च । निवासे धर्मशीलानां विषयेषु पुरेषु च ॥ जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि । निवसामि मनुष्येषु सदैव बलसूदन! ॥ धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले च सदैव निवसाम्यहम् ॥ यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः । सप्त देव्यो मदष्टम्यो वासं चैष्यन्ति चाष्टधा ॥ आशा श्रद्धा धृतिः क्षान्तिर्विभूतिस्सन्नतिः क्षमा ॥ अष्टमां विद्धि मां तासां पुरोगां पाकशासन! ।” इति । श्रीविष्णुस्मृतेरन्ते, ब्रह्मपुराणे च सहस्रनामस्तोत्रे, भगवच्छास्त्रे च हिरण्यगर्भकाश्यपमङ्कणधनदादिसंहितासु ब्रह्मरुद्रेन्द्रादीनां तदधीनवैभवत्वं विस्तरेण द्रष्टव्यम् । यदर्थं यत्प्राप्त्यर्थमिति यावत् । परस्परविश्लेषप्रसङ्गरहितयोरेव लक्ष्मीतद्वल्लभयोः विश्लेषाभिनयेन पुनः प्राप्तिरुच्यते । स्वसङ्कल्पनियता च स्वतन्त्रलीला न पर्यनुयोगमर्हति । अमन्थि विष्ण्ववतारे । अबन्धि रामावतारे । यथोक्तं “ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्माद् उत्थिता धृतपङ्कजा ॥” (वि. पु. १.९.१००) इत्यारभ्य “दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः” (वि. पु. १.९.१०५) इति, “एष सेतुर्मया बद्धस्सागरे मकरालये । तव हेतोर्विशालाक्षि! नलसेतुस्सुदुष्करः” (रामा. युद्ध. १२६.१२) इति च । अत्र जगत्समस्तमिति पादेनानुरूपत्वं, पादान्तरैरभिमतत्वं च प्रख्यापितम् ॥ ३७ ॥
वेङ्कतनाथार्यः - सङ्गतिः
उक्तम् एवाभिमतानुरूपत्वम् अनन्तर-श्लोकेन प्रपञ्चयति –
विश्वास-प्रस्तुतिः
स्व-वैश्वरूप्येण सदा ऽनुभूतया
ऽप्य् अ-पूर्ववद् विस्मयम् आदधानया ।
गुणेन रूपेण विलास-चेष्टितैस्
सदा तवैवोचितया तव श्रिया +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ३८॥
MS Rajajee (En)
Although You enjoy the bliss of perpetual communion with Sri Mahalakshmi through your cosmic form, yet Sri surprises you with her ever fresh attributes, personal charms and sportive enterprises. She is your inestimable fortune, she never leaves you and provides fitting complementarity in your forms like Para, Vyuha, Vibhava and Archa (When will I be able to serve you and be blessed?).
This sloka continues from the previous sloka and describes the greatness of Goddess Lakshmi. The Lord is not ever separated from the Goddess. The Lord has the bliss of perpetual communion with the Goddess. Yet, she surprises him by the 57 everfreshness of her qualities - her ever-fresh attributes, personal charms and sportive enterprises. One should turn to line (3) in the sloka “gunena, rupena, vilasa chestitaih”. The word “gunena” refers to attributes like compassion. The principle of intercession is central to Vaishnavaite philosophy. The Lord is like the father. When a transgressor appears before Him, He is inclined to inflict a punishment. The Goddess is like the mother. She shows extreme compassion. She intercedes with the Lord and the ever merciful Lord extends protection. It must be remembered that the innate nature of the Lord is mercy and compassion. Vedanta Desika has written 108 slokas on the compassion of the Lord, titled Daya Satakam. Says Desika (as stated in this line of Alavandar) in slokas (23) and (24): “O Daya, just like coolness which is intrinsic to the ocean, you are the innate nature of the Lord of Vrishasaila. You control the devastating dance of destruction of His angry glances and convert it into a gentle dance of grace.
O Daya, the anger of the Lord of Vrishachala becomes your servant by uprooting the enemies of those who bow down, just like removing weeds in a field”.
There is a subtle difference. In the Daya Satakam, the quality of compassion is personified as a goddess and the eulogy is authored while Alavandar refers to the quality of compassion which is inherent and ever dominant in the Goddess.
What else surprises the Lord? Alavandar uses the word “Rupena” (ie) the divya mangala form of the Goddess or the eternally holy and divine Form. The word “chestita” refers to the quality of extending protection to those who sought it. We may once again quote Sri Vedanta Desika. Says Desika in slokas 27 and 48: “O Daya, the Lord of Vrishna mountain often gets infuriated with those who transgress His commands. But then, by certain acts (like atonement) borne out by forgiveness which are subservient to you, He forgives them.” “O Daya, due to your grace a person may come to the Vrishagiri and casually utter the words “Lord! Protect” and then lapse into sleep. Before such a person, the Lord, desiring to obtain your (appealing) side-glances manifests Himself in the company of Sri, with the reply “Om” which is the opening word of all the Vedas (OM also means Yes)”.
Why does Yamuna use the word “Vismaya” (ie) “surprises You”? Does the Lord not expect these qualities in Sri? The parents know that they have a gifted child. Yet, every time the child does well, it amazes the parents. The Lord is aware that Sri has all these and more qualities. But, just as a diamond sparkles, the more one sees the different facets, the Lord is surprised by these qualities.
The words used in the last line are “tavaiva uchitaya” meaning, fitting you alone in every respect. The Goddess has all the qualities that the Lord possesses. There is a sloka in the Sri Stuti (Sloka 9) of Desika which says all follows: “Some say You are the supreme, some say that Your beloved is the supreme. What is the use of these arguments which are vitiated by mutual contradictions and which come up some times and go down some other times? It is to please you that Lord Hari is sporting in the presence of the Vedas. For us, of course, O Goddess, You, the couple constitute the Supreme Godhood”. That is why Alavandar says that the Goddess is fitting in every respect.
The Goddess does not leave Him at any time (“tava shriya”). In all the Avataras of the Lord, the Goddess is always present. In the Rama Avatara, she is born as Vaidehi. In the Krishna Avatara, she is born as Rukmini. Even in the Vamana Avatara, it is believed that though Vamana is a brahmachari, the Goddess is inseparably associated with him, covered as she was by the deer skin on his chest.
मूलम्
स्ववैश्वरूप्येण सदाऽनुभूतयाऽप्यपूर्ववद् विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैः सदा तवैवोचितया तव श्रिया ॥ ३८ ॥
वेङ्कटनाथार्यः
स्ववैश्वरूप्येणेति ॥ स्वस्य विश्वशरीरकत्वेनेत्यर्थः । सदाऽनुभूतया “यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः” (न्यायतत्तवे) इतीदृशेन सहजप्रत्यक्षेण सदा साक्षात्कृतयेत्यर्थः । एतदभिप्रायेण तदविनाभूतवैश्वरूप्यस्य हेतुत्वोक्तिः । यद्वा, स्वरूपादिसर्वाकारेण “शान्तानन्त” (चतुःश्लोकि. ४) इत्यादिप्रक्रियया सर्वदा गाढोपगूढत्वेनानुभवो विवक्षितः । अपूर्ववत् अदृष्टपूर्ववत् । यद्वा, इतः पूर्वमनालोचितवत इवेत्यर्थः । विस्मयम् अद्भुतरसहेतुभूतं भावम्, अनवधिकं प्रीतिविशेषमित्यर्थः । आदधानयेत्यत्रापि सदेत्यभिप्रेतम् । एतेन स्वभावसिद्धमभिमतत्वं प्रपञ्चितम् । गुणेनेत्यादिना तु सर्वप्रकारानुरूपत्वमुच्यते । गुणशब्द इह ज्ञानकारुण्यादिविषयः । रूपेणाप्राकृतेनाखिलजगन्मातृत्वाभिव्यञ्जकेन दिव्यविग्रहेण । विलासैः भगवदभिमतैर्लीलाविशेषैः । चेष्टितैः आश्रितरक्षणावतारादिभिः । तवैवोचितयेत्यनेन “तुल्यशीलवयोवृत्ताम्” (रामा. सु. १६.५), “देवत्वे देवदेहेयम्” (वि. पु. १.९.१४५), “देवतिर्यङ्मनुष्येषु” (वि. पु. १.८.३५) इत्यादिषूक्तमनुरूपत्वं प्रतिपाद्यते । तव श्रियेत्यनेन “विष्णोः श्रीरनपायिनि” (वि. पु. १.८.१७) इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं प्रतिष्ठापितम् । तृतीयान्तानां तयेत्युत्तरश्लोकस्थपदेनान्वयः ॥ ३८ ॥
वेङ्कतनाथार्यः - सङ्गतिः
“वैकुण्ठे तु परे लोके
श्रिया सार्धं जगत्पतिः ।
आस्ते विष्णुरचिन्त्यात्मा” (लैङ्गे)
इति पुराणप्रसिद्धमाह –
विश्वास-प्रस्तुतिः
तया सहासीनम् अनन्त-भोगिनि
प्रकृष्ट-विज्ञान-बलैक-धामनि +++(→वैकुण्ठे)+++।
फणा-मणि-व्रात-मयूख-मण्डल–
प्रकाशमानोदर-दिव्य-धामनि +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ३९ ॥
MS Rajajee (En)
59 (You who are) seated along with Sri, on the great serpent Ananta, who is the sole seat of excellent knowledge and great strength, in the divine abode in Vaikuntha, the inside of which is illumined by the rays emanating from the cluster of gems in the hoods (when will I be able to serve and be blessed?).
In this sloka and the next one, Ananta on whom the Lord is resting along with the Goddess is described. Adisesha is called in this sloka as “Anantabhogini”. Even if the gandharvas, the apsaras and the siddhas become one, they cannot estimate the limit of His qualities. Hence, He is called “Ananta”. “Bhoga” refers to the hoods (the thousand headed Ananta). One who has these is the Bhogi and hence the description as “Anantabhogi”.
He has been described as “prakrishta vijnana balaika dhaaman”. He has great knowledge of the six sastras and is “the abode” of knowledge (vijnana dhama). He is able to bear the Lord who is resting on him. He has to have great strength. Hence he is “balaika dhaama”.
Adisesha is reputed to have sparkling gems in his hoods. These gems are shiny and have such lustre that they are lighting up the whole of Vaikuntham. That is why the description has been given as “prakasamaana phanaamanivraata”. On such an Adisesha, the Lord and Sri are resting on the middle portion.
मूलम्
तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ ३९ ॥
वेङ्कटनाथार्यः
तया सहेति ॥ भूम्यादिपत्न्यन्तरवतोऽपि श्रियः प्राधान्यादिह तदुक्तिः; तदपेक्षयाऽपि भगवतः प्राधान्यव्यञ्जनाय सहशब्दः । आसीनमित्यनेन “सहस्रस्थूणे विनिर्मिते दृढ उग्रे, यत्र देवानामधिदेव आस्ते” (जेमिनीयब्राह्मणे ४.३८४) इति तलवकारश्रुतिः स्मार्यते । उपात्ता चेयमभियुक्तैः – “सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्रस्थूणादिनाऽऽम्नातमवाप्नवानि” (श्रीरङ्गराजस्तवे. १.३८) इति । अनन्तभोगिनि “गन्धर्वाप्सरसः सिद्धास्सकिन्नरमहोरगाः । नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते” (वि. पु. १.१५.१५७) इति सुप्रसिद्धानन्तनाम्नि विश्वंभराधारणविनियुक्ते महाभोगिनि । प्रकृष्टविज्ञानबलैकधामनि प्रकृष्टयोर्विज्ञानबलयोरेकाश्रये । अस्य सङ्कर्षणाख्यव्यूहाभिमानविशेषयोगात् तदनुगुणौ गुणाविह निर्दिश्येते । पञ्चविधज्योतिस्सिद्धान्तप्रवर्तकत्वेन ज्ञानप्रकर्षोऽस्य प्रसिद्धः । सर्वाधारभूतभगवद्विग्रहधारणेन बलप्रकर्षोऽस्य व्यक्तः । “तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥” (वि. पु. २.५ अ.) इत्यादिभिश्च । यस्य फणामणिव्रातमयूखमण्डलैः प्रकाशमानोदरं दिव्यधाम स एवमाश्चर्याकारतयोत्तरार्धेनोक्तः । दिव्यधामशब्दोऽत्र वैकुण्ठाख्यमप्राकृतं नित्यं दिव्यं भगवद्विमानं वदति ॥ ३९ ॥
वेङ्कतनाथार्यः - सङ्गतिः
उक्तप्रभावं पर्यङ्कभोगिनं वृत्तिविशेषानुगुण-समाख्यान्तरेणापि विशिनष्टि –
विश्वास-प्रस्तुतिः
निवास-शय्यासन-पादुकांशुक+-
+उपधान–वर्षातप-वारणादिभिः ।
शरीरभेदैस् तव शेषतां गतैर्
यथोचितं शेष इतीरिते जनैः +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++ ॥ ४० ॥
MS Rajajee (En)
(You who are resting on Sesha) who has been aptly called by the devotees as Sesha, on account of the different forms he assumes for serving you as a residence, as a couch, as a throne, as sandals, as a pillow and as a shelter from the sun and rain (when will I be able to serve you and be blessed?).
“Seshatva” means not caring for oneself and doing good for others, always. Since he is serving the Lord at all times as a couch, as a seat, as a throne, as a pillow, as an umbrella etc., he is called Sesha. Since he is first among those who render service, he is called Adisesha. One may not entertain any doubt as to how Adisesha functions as a divine abode (“nivasa”), as a couch (‘sayya), throne (“asana”) but one may wonder how he is useful as the foot rest or as the umbrella. When the Lord gets off Adisesha, He steps on the coils of Adisesha and then only gets off. When, the Lord is resting, Adisesha spreads out the hood and protects Him. There is a description in the Srimad Bhagavatam. When the Lord is born to Devaki in the middle of the night and Vasudeva is directed to carry the newborn babe across the river, Adisesha walks behind Vasudeva, with the hoods spread out to protect Krishna from the pouring rain. Adisesha is therefore, both the couch and the canopy of the Lord.
Just as Yamuna has described the Lord as resting on Adisesha (who doubles up as manifold other items), Kulasekhara has a picturesque description of the Lord. Says he in, Sloka 39: “Obeisance to Lord Madhava, enemy of the asura Madhu His beautiful form lying on the couch of the serpent Ananta, Is sparkled by the shower of spray from the waves of the milk ocean, Making him bedecked by a cluster of stars”.
मूलम्
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः ॥ ४० ॥
वेङ्कटनाथार्यः
निवासेति ॥ निवासो दिव्यायतनम् । शय्यात्वं योगनिद्रावस्थायाम् । आसनं पर्यङ्कविद्यादिषु (कौषीतकीब्राह्मणे) आम्नातं दिव्यसिंहासनम् । पादुके “अधिरोहार्य! पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥” (रामा. अयो.) इत्यवतारदशायां प्रसिद्धवैभवे । अंशुकं पीताम्बरादि । उपधानम् – उत्तमाङ्गधारकं पादधारकं च । वारणशब्दस्य द्वन्द्वात्परत्वाद्वर्षवारणमातपवारणं चेति योज्यम् । आदिशब्देन पादपीठादिसंग्रहः । शरीरभेदैरित्यनेन “अपरिमितधा भवति” (छा. उ. ७.२६.२) इति न्यायोऽभिप्रेतः । तव कैङ्कर्योद्देश्यदिव्यमङ्गलविग्रहविशिष्टस्य । शेषतां स्वोपकारताप्राधान्यानादरेण परोपकारार्हताम् । “शेषः परार्थत्वात्” (पू. मी. ३.१.२ सू.) इति सूत्राभिप्रेतं वेदार्थसंग्रहे विवृतं “परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं स शेषः”, इति । यथोचितम् उक्तप्रवृत्तिनिमित्तानुगुणमित्यर्थः । जनैरित्येतत् पामरपरीक्षकसर्वलोकप्रसिद्धिज्ञापनार्थम् ॥ ४० ॥
वेङ्कतनाथार्यः - सङ्गतिः
एवमनन्तवत् तत्तदवसरोचित-सेवार्थ-नाना-विध-रूप-भेदैः किंकुर्वाणेन गरुत्मता सेवितत्वमाह –
विश्वास-प्रस्तुतिः
दासः सखा वाहनम् आसनं ध्वजो
यस् ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता
त्वद्-अङ्घ्रि-संमर्द-किणाङ्क-शोभिना +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ४१ ॥
MS Rajajee (En)
61 You having Garuda as Your servant, Your friend, Your vehicle, Your seat, Your banner, Your canopy to protect You from the rain and the sun, who is shining as a result of the scars received from the contact with Your feet, whose form is made up of the Vedas (when will I be able to serve You and be blessed?).
Just as in the previous sloka, Adisesha was described, Garuda Alwar is described in this sloka. The sloka begins with the words “daasah” and “sakhaa”. They refer to a dependent person and to a friend. Garuda is both a dependent person and a friend. He is a dependent person because it is the Lord who saved him and subsequently accepted him as a mount. He is also a friend. In the Rama avatara, Ramachandra is felled by the Nagaastra. It is Garuda who comes there and frees Ramachandra from the nooselike bonds of the serpents. Ramachandra required to be freed, because he had adopted a human form in this avatara.
Adisesha renders service to the Lord, when the Lord is in Vaikuntham. As stated in the previous sloka, he is the seat, the throne and the canopy. In the same manner, Garuda is the seat, the vehicle and the banner when the Lord is on the move. The Lord has to move here and there in response to the appeals of the devotees. He has to rush to their rescue. Since both render service and provide a seat, the words “daasa” and “asana” have been used in respect of both Adisesha and Garuda.
When the Lord is coursing through the skies, He should not be exposed to the sun and rain and He should also feel comfortable. That is why Garuda provides a canopy (“vitanam”) and also provides a fan (“vyajanam”) in the form of the flapping wings. Garuda is addressed as “trayimayah”. He symbolizes the Vedas. The Yajurveda has a sloka to this effect.
Garuda has some shining scars. This is because, the Lord rushes to the rescue of those who beseech Him, as in the case of Gajendra. Though Garuda is taking the Lord with great speed (to which we will make a reference a little later), the Lord, out of compassion for the supplicants who are beseeching him, wants Garuda to fly faster still and nudges him with his feet. These leave some scars (“tvadt anghri sammarda”). These scars are themselves shining.
What Yamuna has succinctly put in one sloka has been elaborated by Desika into several slokas in his two stotras “Sri Garuda Dandaka” and “Sri Garuda Panchasat”. In sloka 1 of Sri Garuda Dandaka, Desika eulogizes Garuda as “I praise Garuda who is seated in the nest of the Vedas, whose shoulders have become the seat for the powerful Lord Vishnu….” While in sloka (2) he refers to Garuda (among other things) by saying “your greatness is established by ascending the victorious banner of the enemy of the demons (that is the banner of Lord Vishnu)…” Yamuna had said that Garuda symbolizes the Vedas. Says Desika in Sloka (2) of Sri Garuda Panchasat: “May that Mantra of Garuda in which Garuda (embodying the Veda) manifests himself within and without along with his import (ie., Lord Vishnu) protect us…” In sloka (3) he says that the Vedas proclaim that the eye of Garuda is the Gayatri-sama, his name the Yajurmantras, his limbs are the metres etc. Yamuna had said that Garuda fans the Lord. Says Desika in Sloka 14 (ibid) that the wind produced by the flapping of the wings was capable of throwing the stars around like cubes of ice and divide the ocean into two halves (Sloka 33) so as to enable Garuda to dive into the nether world. Yamuna has described Garuda as the friend and banner. Says Desika (Ibid, Sloka 46) that Garuda is Lord Vishnu’s speedy canopy, the befitting fan, the victorious flag, the friend who decimates enemies and an indispensable servant. While Yamuna says that while Garuda was moving fast, the Lord nudges him with the feet to make him move faster still, Desika puts it differently. Says Desika (Sloka 47, Ibid) “May the magnanimous Lord of Birds, who went ahead of the mind of Lord Vishnu, who was worried at the thought of the elephant in the grip of the crocodile, destroy our predicament of falling into hell….”
मूलम्
दासः सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसंमर्दकिणाङ्कशोभिना ॥ ४१ ॥
वेङ्कटनाथार्यः
दास इति ॥ पूर्वश्लोके शेषत्वमुक्तम् । अत्र तु दासशब्देन तदेव विशेष्यते । शेषत्वं हि अचेतनत्वं प्रत्यचेतनस्यापि भवति । दासत्वं तु चेतनं प्रत्येव चेतनस्यैव स्यात्, तथैव लोकव्यवहारात् । अत्र प्रथमं दास इत्युक्तिः सखित्वाद्यवस्थायामपि स्वाभाविकस्य दासत्वस्यानपगमद्योतनार्था । उच्यते हि “लोकनाथस्य रामस्य सखा दासोऽस्मि रावण” (रामा. सु.) इति । गरुत्मतस्तु सखित्वं कदाचिदभिनयप्रयुक्तम् । यद्वा “समानचित्तवृत्तित्वं सखित्वमिति दर्शितम्” इत्याद्युक्तचित्तवृत्तिसाम्यमिह विवक्षितम् । वाहनत्वादिकं तु गमनाद्यवस्थासु यथार्हं भाव्यम् । त्रयीमयः सर्ववेदमयविग्रह इत्यर्थः । श्रूयते हि “सुपर्णोऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः” (यजु. ४.१.४२) इत्यादि । तथा “तस्य गायत्री जगती च पक्षावभवताम्, उष्णिक् च त्रिष्टुप् च पृष्ठ्यौ, अनुष्टुप् च पङ्क्तिश्च धुर्यौ, बृहत्येवोक्तिरभवत्, स एवं छन्दोरथमास्थाय, एतमध्वानमनुसमचरत्” इति । पुरः उपस्थितं पुरस्तादाभिमुख्येन सेवितमित्यर्थः । त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना इत्येतत्पूर्वोक्तज्याकिणन्यायेन कर्मवश्यत्वाभिनयदशायां भाव्यम् ॥ ४१ ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथ भगवतः स्ववैभवानुरूपं स्वसङ्कल्पकल्पित-नित्याधिकार(सेनापति)-सेवा-प्रकारम् अभिदधानः “श्रीशभुक्तोज्झितशेषजीवनः”, इति तन्मन्त्रोक्तमाह –
विश्वास-प्रस्तुतिः
त्वदीय-भुक्तोज्झित-शेष-भोजिना
त्वया निसृष्टात्म-+++(सेना-नीत्वादि-)+++भरेण यद् यथा ।
प्रियेण सेनापतिना न्यवेदि तत्
तथा ऽनुजानन्तम् उदार-वीक्षणैः +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ४२ ॥
MS Rajajee (En)
63 (O Lord) Your Commander-in-chief, Vishvaksena, who eats the left overs,
after You have taken your food,
he who is beloved of You,
who enjoys his power only because of You,
who secures Your assent through Your lofty glances and significant looks, for the submissions made by him (when will I be able to serve and be blessed?).
In the previous two slokas, Adisesha and Garuda had been eulogized. In this sloka, the reference is to Vishvaksena. Though all the Nityasuris are equal, it is only in this sloka, the word “priyena” (the one who is beloved of you) is used. Maybe for this reason, it is said that Parasara Bhattar often used to give discourses on this sloka alone.
Vishvaksena is the commander-in-chief of the army. He is delegated with authority by the Lord. He accordingly exercises his powers. On occasions, he may have to seek the approval of the Lord, either for what he has done or for what is proposed to be done. On such occasions, the Lord would accord his approval by a mere glance (“udaara veekshanaih”) when the proposal was submitted to him (“nyavedi”).
Vishvaksena is referred to as one who eats what is left by the Lord. What is the significance? Any devotee more so a Nityasuri will only eat whatever is the residue, after the food (naivedya) is offered to the Lord. Since among the Nityasuris, he enjoys a special position with the Lord, being “priyena”, this point of “seshabhojana” is emphasised. Vishvaksena eats what is left by 6 the Lord and exercises the power given by the Lord (tvaya nisrishta atmabharena).
मूलम्
त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥ ४२ ॥
वेङ्कटनाथार्यः
त्वदीयभुक्तोज्झितशेषभोजिनेति । त्वदीयभुक्तं – त्वद्भुक्तमित्यर्थः । यद्भोक्तव्यतया भोजनपात्रनिहिते किञ्चिदभुक्तं स्यात् तद्भुक्तोज्झितमित्युदीर्यते । तदेवात्र भुक्तशिष्टतया शेषशब्दार्थः । यद्वा, भुक्तोज्झितैकदेशविषयोऽयं शेषशब्दः, अंशान्तरस्यान्यार्थतया विभजनीयत्वोक्तेः ।
त्वया निसृष्टात्मभरेण स्वच्छन्दवृत्तिना त्वया समर्पितात्मभरेणेत्यर्थः ।
असुरनिराकरणादिषु सेनानिर्वहणादिभारः सेनापतित्वेन कल्पिते ह्यस्मिन् विन्यस्यते । अतस्तन्नियोगपूर्वकमन्ये प्रवर्तन्ते । “जगत्सृष्ट्यादिभारोऽस्मिन् समर्पितः” इति केषांचिद्व्याख्यानं तु भगवदधीनतत्प्रभावातिशयप्रशंसार्थम् । एकस्यैव हि सर्वशरीरिणो “बहु स्याम्” (तै. भृ) इति सङ्कल्पक्षमत्वमिति प्रागेव स्थापितम् । अत एव “श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम्”, इति श्रीवैकुण्ठगद्योक्तिरपि भक्तानां स्वामिसेवाविघ्नप्रशमने परिजननियोगादौ च योजनीया । विष्वक्सेनमन्त्रे तु “विश्वसृजः” इति पदं मुक्तवत्प्रभूतसृष्टिमात्रपरम्, विशेष्यभूतपरमात्मपर्यन्तं वा नेतव्यम् । नित्यानां ज्ञानभोगयोः ईश्वरेण मिथश्चात्यन्तसाम्येऽपि विग्रहाधिकारयोर्वैषम्यं भगवन्नित्येच्छासिद्धम् । प्रियेणेत्येतदनन्तगरुडादिष्वपि समानम् । अत्र तु विज्ञापनाधिकारिणि वाक्यानतिलङ्घनार्थं विशेषत उक्तम् । निवेदितमिति पाठे यदित्यस्य तदिति प्रतिनिर्देशोऽध्याहर्तव्यः । न्यवेदि तदिति पाठस्समीचीनः । “यद्वृत्ते पूर्वं प्रयुक्ते तद्वृत्तमनन्तरं प्रयोक्तव्यमेव” इति ह्याहुः । सेनापतिनिवेदितस्य भगवदभिमतत्वमाह – तत्तथाऽनुजानन्तमुदारवीक्षणैरिति । भगवति तत्परिजने च सर्वज्ञेऽप्येवं निवेदनप्रेक्षणादिव्यापाराः स्वच्छन्दलीलाप्रवृत्ताः । यद्यथा तत्तथेति स्वरूपप्रकारयोरविसंवादार्थम् । वीक्षणानामुदारत्वमैश्वर्यव्यञ्जकतया सौन्दर्यादिगुणातिशयात् तदाज्ञाभिप्रायगर्भतयाऽऽनन्दप्रदत्वाच्च ॥ ४२ ॥
वेङ्कतनाथार्यः - सङ्गतिः
त एते नित्यसूरिषु प्रधानतमास् त्रय उक्ताः ।
अथ तद्वद् असङ्ख्यात-नित्य-सूरि-सेवा-प्रकारम् आत्मनः प्राप्यत्वेनाभिसन्धायाह –
विश्वास-प्रस्तुतिः
हताखिल-क्लेश-मलैः स्वभावतः
त्वद्-आनुकूल्यैक-रसैस् तवोचितैः ।
गृहीत-तत्-तत्-परिचार-साधनैर्
निषेव्यमाणं सचिवैर् यथोचितम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ४३ ॥
MS Rajajee (En)
You are attended on by a host of Nityasuris, who by their nature are untainted by afflictions and blemishes, and who by their singular devotion are fully equipped to serve you in the most appropriate manner and are best suited to attend on you (when will I be able to serve you and be blessed?).
In the previous slokas Ananta, Garuda and Vishvaksena had been hymned. Alavandar now eulogizes the Nityasuris - those who are always attending on the Lord at Vaikuntham. These people are not contaminated by afflictions - attractions and repulsive things, caused by and through worldly contacts. They seek pleasure only by and in serving the Lord. Yamuna seeks the Lord, who is attended on by this retinue.
The Nityasuris do not have (have lost) “klesha” and “malaih”, that is sorrows and sins. They are free from afflictions like Avidya (ignorance), Ahankara (ego), Raga, Dvesha (likes and hatred). The sloka has the word “svabhavatah” as a word preceding the above, meaning that the Nityasuris are naturally free from the afflictions, as the Nityasuris have never been contaminated with the sins of “samsara”, while on the other hand, the “muktas” or the liberated souls have only through an effort succeeded in liberating themselves from the samsaric bonds. Hence, the use of the word “svabhavatah”.
These nityasuris are singularly (ekarasaih) devoted to serving the Lord (tvat anukulya). They are fully equipped for serving 65 the Lord (tattat parichara sadhanah). “Equipped” here should be interpreted to mean that they have the fan, the whisk etc., for offering service to the Lord.
मूलम्
हताखिलक्लेशमलैः स्वभावतः त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितम् ॥ ४३ ॥
वेङ्कटनाथार्यः
हताखिलेति ॥ “अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः (योगसूत्रे); त एव मलत्वेनोच्यन्ते । तदविनाभूतत्रिगुणात्मकप्रकृतिसंबन्धो वा । अप्रतिबुद्धाः सर्वक्लेशाक्रान्ताः, प्रतिबुद्धास्तु कतिपयक्लेशरहिताः, उपायतो निवृत्तनिखिलक्लेशास्तु मुक्ताः, नित्यास्त्वनादिनिर्धूतनिखिलक्लेशाः इत्यभिप्रायेण स्वभावत इत्युक्तम् । श्रूयते हि “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” (नृसिंहतापनीयोपनिषदि) इति । न ह्येतन्मुक्तप्रवाहविषयं, सदा दर्शनकर्तॄणां बहूनामभिधानात् । नित्यसर्वज्ञत्वादेव क्लेशादेरनवकाशः । एतेषां “तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते” (नृ. ताप. उप.) इत्युक्तमनुभवप्रकारमभिप्रेत्याह – त्वदानुकूल्यैकरसैरिति । त्वच्छेषत्वानुरूपपारतन्त्र्यानुगुणकैङ्कर्यैकरुचिभिरित्यर्थः । सदानुकूल्येति पाठेऽप्ययमेवार्थः । तवोचितैः
अनादिसर्वज्ञत्वाप्राकृतविग्रहत्वादिभिस्त्वदनुरूपैरित्यर्थः । एतद्विशेषणत्रयमेतेषां भगवदायत्तम् । इदं च अनन्तगरुडादीनामपि समानम् । परिचारसाधनानि च्छत्रचामरादिसेवोपकरणानि । सचिवैः – आसन्नसेवायां तत्तद्विभूतिशेषनिर्वहणे च नियुक्तैः सूरिभिः । यथोचितं तत्तदधिकारनियोगस्य सेव्याभिप्रायस्य स्वाभाविकदासत्वस्य चानुगुणमित्यर्थः ॥ ४३ ॥
वेङ्कतनाथार्यः - सङ्गतिः
ईदृशस्य भगवतः सर्वेषु व्यापारेषु लक्ष्मीसामरस्यम् अभिप्रेत्याह –
विश्वास-प्रस्तुतिः
अ-पूर्व-नाना-रस-भाव-निर्भर-
प्रबद्धया मुग्ध-विदग्ध-लीलया ।
क्षणाणुवत् क्षिप्त-+++(चतुर्मुखायुः=)+++परादि-कालया
प्रहर्षयन्तं महिषीं महा-भुजम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ४४ ॥
MS Rajajee (En)
You, who are of long arms, exhilarate Sri with lovely and skilful sport, which consists of diverse and new sentiments and emotions as to make aeons of time pass quickly, like brief moments.
In slokas 37, 38 and part of 39, the reference was to Sri alone. In this sloka, Alavandar is hymning the Lord sporting with Sri. In a sense, this sloka is complementary to sloka (38). In sloka (38), it was mentioned that the Lord enjoys the bliss of perpetual communion with Sri and that Sri surprises the Lord with her ever fresh attributes. In this sloka, the reference is to the “leela” (plays) of the Lord. They are fresh and many (“apoorva” and “nana”). They are to make the Queen (“mahishim”) the goddess, in this case, happy. What is the duration of these “leelas”? Two words are used “para” and “adi”. The word “para” refers to the lifetime of Brahma while the word “Adi” refers to the lifetime of crores of Brahmas. Though the “leelas” may be for an eternally long time, it appears as if it was for a fraction of a second (“kshana anuvat”).
मूलम्
अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ ४४ ॥
वेङ्कटनाथार्यः
अपूर्वेति ॥ उक्तं च श्रीवत्साङ्कमिश्रैः – “क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात् तया” (श्रीस्तवे १) इति । अपूर्वशब्देन रसभावपरंपरायामुत्तरोत्तरस्य विलक्षणत्वमननुभूतजातीयवदाश्चर्यत्वं वा विवक्षितम् । रसभावाः गान्धर्ववेदप्रदर्शिताः वीरशृङ्गारादयः, उत्साहादयश्च । तैः निर्भरप्रबद्धया – प्रभूतसन्ततया । मौग्ध्यवैदग्ध्यसम्भेदादद्भुतत्वमभिप्रेत्याह – मुग्धविदग्धलीलयेति । लीलाया नित्यनिरतिशयत्वं व्यनक्ति – क्षणाणुवत् क्षिप्तपरादिकालयेति । क्षणमेव पर्वतस्थानीयं कृत्वा तस्याणुः सूक्ष्मतम एकदेश इति कल्पितोऽयं दृष्टान्तः, तद्वत्परादिकालः क्षिप्तः इत्यतिशयोक्तिः । चतुर्मुखस्यायुः परो नाम कालः । आदिशब्देन असङ्ख्यातचतुर्मुखातिक्रान्तिकालव्यञ्जनम् । स्मर्यते हि “गङ्गायास्सिकताः धारा तथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥” (भार. आश्व. वैष्णवधर्मशास्त्रे) इति । महिषीं प्रधानपत्नीं श्रियमित्यर्थः । उक्तं च तस्याः प्रधानतमत्व(वैषम्य)म् श्रीवैकुण्ठगद्ये – “शेषशेषाशनादिसर्वं परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या” इति । प्रहर्षयन्तमिति वर्तमाननिर्देशस्सदातनत्वाभिप्रायः । एवं प्रहृष्टायाः प्रियायाः “बभूव हृष्टा वैदीही भर्तारं परिषस्वजे” (रामा. अर.) इत्युक्तप्रकारेण सर्वस्वभूतपरिष्वङ्गप्रदानानुगुणं प्रियस्य भुजवैभवमाह – महाभुजमिति । उक्तं ह्यवतारे तद्भुजमहत्त्वं “बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः” (रामा.) इति ॥ ४४ ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथ प्रथमप्रस्तुतां यौवनविशेषितां सर्वचित्ताकर्षक-समुदाय-शोभाम् आश्रयणीयत्व-भोग्यत्वौपयिक-गुण-विशेषांश् च सङ्कलय्यानुभवति –
विश्वास-प्रस्तुतिः
अ-चिन्त्य–दिव्याद्भुत-नित्य-यौवन-
स्वभाव–लावण्यमयामृतोदधिम् ।
श्रियः श्रियं भक्त-जनैक-जीवितं
समर्थम् आपत्-सखम् अर्थि-कल्पकम् +++(अनुचरन् कदा प्रहर्षयिष्यामि?)+++॥ ४५ ॥
MS Rajajee (En)
(You) who are the nectar ocean of natural beauty, who have perpetual (eternal) youth, beyond all comprehension, You who are the fortune of the goddess of Fortune herself, are the sustaining force of the devotees, are the great helper in adversity and are a veritable wish-yielding tree to the supplicants (when will I be able to serve you and be blessed?).
The qualities of the Lord are enumerated - His eternal youth, sustaining force for the devotees, the one who helps at all times, and gives all that the supplicants seek. In this sloka we see a description of the divya-mangala-vigraha and the divya-atmasvaroopa, that is a description of both the physical and psychic aspects of the Lord.
The Lord is the nectar ocean of natural beauty. What this means is that the beauty of the Lord has the appeal of nectar. There is no satiety and one feels like quaffinig it, again and again. This is partly because the Lord is eternally handsome and in appearance is perpetually youthful. (“nitya yauvana”). We have used the words “partly because” in the above sentence, as it is not just the youthfulness or the handsome features which makes us to feast our eyes on him. It is an innate and inherent quality of perpetual appeal.
The Lord is beyond comprehension. He is beyond description. One may recall the Vishvaroopa darsana, sought and had by Arjuna. Arjuna was petrified when he saw in the Lord hundreds of Brahmas and the Lord had an effulgence equal to many Suns.
The Lord is the sustaining force for the devotees (“bhaktajana ekajivitam”), the great helper in adversity (“aapat sakham”) and the veritable wish/yielding tree to the supplicants (“arthi kalpakam”). It may be noticed that there is a graceful set up in the above three descriptions. He sustains the devotees at all times, whether they are prosperous or not. When adversity strikes, He helps the devo67 tee, to tide over the difficulty. The devotee or the supplicant seeks something, which the Lord grants immediately. These are so well depicted in the episodes of Prahlada and Gajendra.
The Lord is the fortune of the goddess of Fortune (“shriyah shriyam”). The goddess gives refuge to all the supplicants. The Lord gives refuge to Sri Herself. It may be recalled that in sloka 12, Yamuna had written “kah Srih sriyah - who else but you (is the source of prosperity even for Sri) the resting place for Lakshmi”. It may be mentioned that in Sloka (11) of Mukunda Mala, Kulasekhara Alwar says “…….How can your enemies touch you, your enemies being the sins that you have accumulated, when your master is Sridhara, the husband of goddess Sri….” Parasara Bhattar has expressed identically “Shriyah Shri Rangesayah”.
While describing the Lord, in line 4, the word “samartham” (capable) occurs in isolation. What is he capable of? The answer is what is the Lord not capable of? The Lord is capable of making the common devotees experience what Nitya Suris are experiencing.
मूलम्
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम् ॥ ४५ ॥
वेङ्कटनाथार्यः
अचिन्त्येति ॥ अचिन्त्यम् – परमयोगिभिरप्यपरिच्छेद्यम्, कुतर्कैरसंभावितमिति प्रतिक्षेप्तुमशक्यं च । दिव्यम् – अप्राकृम् । अद्भुतम् – सदाऽनुभूतत्वेऽप्यदृष्टपूर्ववदाश्चर्यावहम् । नित्यम् – कौमारवार्धकावस्थापरिच्छेदरहितम् । यौवनम् – लोके बाल्यानन्तर्येणोपलक्षणीयः कश्चिद्रमणीयसंस्थानविशेषः । स एव स्वभावः स्वासाधारणधर्मो यस्य स इत्यमृतोदधिर्विशेष्यते, स च लावण्यमयः लावण्यप्रचुरः । लावण्यम् – समुदायशोभा । तदेतल्लक्षयन्ति “भूयिष्ठं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम् । चक्षुरानन्दजननं लावण्यमिति कथ्यते ॥” इति । निरतिशयभोग्यमहत्तराकारत्वमभिप्रेत्य अमृतोदधित्वोपचारः । अप्राकृतामृतद्रव्यात्मकत्वं वा विवक्षितम् । पूर्वं “कः श्रीः श्रियः” (श्लो. १२) इति परत्वस्थापनायोक्तम् । अत्र तु कैङ्कर्योद्देश्यं निरतिशयभोग्यं रूपं सपत्नीकमिति ज्ञापयितुमाह – श्रियः श्रियमिति । भक्तजनैकजीवितं – भक्तजनानां प्रधानजीवितम् । “मच्चित्ता मद्गतप्राणाः” (गीता. १०-९) इत्यादिकमिह भाव्यम् । यद्वा, भक्तजना एव एकजीवितं यस्य स तथोक्तः । तथाविधप्रीत्यतिशयादेव हि स्वयमेवाह – “ज्ञानी त्वात्मैव मे मतम्” (गीता. ७-१८) इति, “मम प्राणा हि पाण्डवाः” (भारतसावित्री. २३) इति च । समर्थं जगत्सृष्ट्यादाविवाश्रितानां (स्वात्म)सात्म्यभोगप्रदाने तद्विरोधिनिरसने च प्रतिबन्धकैः प्रतिहन्तुमशक्यमिति भावः । तथा च गीयते – “परित्राणाय साधूनाम्” (गीता. ४-८) इत्यादि । आपत्सखम् आश्रितानामापदि प्रियसखन्यायेन समानार्थतयाऽवस्थितमित्यर्थः । अर्थिकल्पकमित्यत्र स्वार्थे कः । अर्थिनां कल्पद्रुमवत् सर्वापेक्षितप्रदमिति यावत् । तथा च सूत्रितम् – “फलमत उपपत्तेः” (ब्र.सू. ३-२-३७) इति । यद्वा, अर्थिनः कल्पद्रुमभूता यस्य सोऽर्थिकल्पकः; तदाह – “उदाराः सर्व एवैते” (गीता. ७-१८) इति । अथवा, स्वयमर्थिनः कल्पयतीत्यर्थः । क्षेत्रज्ञानां तत्तत्पुरुषार्थाधिकारदशाऽपि हि परमपुरुषकल्पिता ॥ ४५ ॥