वेङ्कतनाथार्यः - सङ्गतिः
एवं प्राप्यस्य शरण्यस्य
प्राप्तुश् च शरणार्थिनः स्व-रूपादिषु भगवता प्रकाशिते(षु)
तद्-विश्लेषम् अ-सहमानस्
तस्मिन्न् एव स्वरूपानुरूप-पुरुषार्थ-विरोधि-निवृत्त्य्-अर्थं
स्वाधिकारोचितां प्रपत्तिं विशदं प्रयुङ्क्ते –
विश्वास-प्रस्तुतिः
न +++(कर्म-योगेन)+++ धर्म-निष्ठोऽस्मि, न +++(ज्ञान-योगेन)+++ चात्मवेदी
न +++(भक्ति-योगेन)+++ भक्तिमांस् त्वच्-चरणारविन्दे ।
अकिञ्चनोऽनन्य-गतिश् शरण्य
त्वत्-पाद-मूलं शरणं प्रपद्ये ॥ २२ ॥
MS Rajajee (En)
O Lord, You who are worthy of being sought as a refuge; I am not one who is established in Dharma. I have no knowledge of the Self. I do not have fervent devotion to your lotus feet. I am without any support. I am resorting to You, as You are the protector (of all persons).
In this sloka, Alavandar proclaims the superiority of doing “saranagati” to the feet of the Lord. To attain the Lord, four methods have been indicated by the learned - the Karma marga, the Jnana marga, the Bhakti marga and Prapatti. This sloka says that since the poet has no capability (as is the case with most of us) to follow the Karma or Jnana or the Bhakti marga, the grace of the Lord is to be solicited through “prapatti”. Alavandar says that he does not know about Dharma and hence he is not capable of following the Karma marga. Since, he does not have the capability of constantly worshipping the Lord, he is not able to follow the Bhakti marga. Alavandar concludes that since he knows nothing else, and since the feet of the Lord is the refuge of all the seekers, he is resorting to Him, as the sole support.
Though it is very clear to most people, it may be worthwhile to mention, in passing, as to what is the difference between Bhakti 39 and Prapatti. Bhakti is the practice of the love of God, taking the help of various aids, on the assumption that such aids will help in the attainment of the Lord, which is the end. In the case of “prapatti”, both the means and the end are the same, namely the Lord. In the Sri Vaishnava tradition they are illustrated by the Markata - Kisoranyaya and Marjara Kisoranyaya. Markata kisora is the young of a monkey. It clings fast to the mother monkey and is taken from place to place. Marjara Kisoranyaya is the small kitten of a cat. It does not cling to the mother cat. It mews in a helpless manner and knows none else (ananya) than the mother cat. The mother cat it is that catches the small ones in her mouth and transfers them to places of safety. Prapatti refers to this type of surrender, a surrender in utter helplessness, wherein the Lord is sought both as the means and as the end.
There is an interpretation which holds that the Bhagavad Gita itself says at one place that one should practice “prapatti”. In chapter 18 verse 66, the Lord says, “Completely relinquishing all Dharmas, seek Me alone for refuge. I will release you from all sins. Grieve not.” “Relinquishing all Dharmas” has been interpreted by some to mean the relinquishment of the agency in the practice of Karma, Jnana and Bhakti margas. It must be remembered that for the sastraic persons, the Bhakti marga has to include the performance of some expiatory rites. It may not be possible for some to perform those rites. It is for such people, the Lord has prescribed the “prapatti” method, is the interpretation given by some to this verse in the “Gita”.
Before leaving this verse of Yamuna, we may refer also to verse 22 of Kulasekhara Alvar’s Mukunda Mala. Says Kulasekhara “O, mortals, please listen to me. I concisely declare unto you, what is supremely good. You are immersed in samsara, rife with severe afflictions and dangerous situations, like successive waves. Keeping aside varied and different kinds of knowledge, start repeating continously in your mind “Om Namo Narayana”. Thereafter, prostrate to the Lord with love”.
It may be added that this sloka of Yamuna is recited, as a matter of convention, by the Sri Vaishnavaites, when they go to a temple for the worship of the Lord.
मूलम्
न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ २२ ॥
वेङ्कटनाथार्यः
न धर्मेति ॥ धर्मे निष्ठा स्थितिर्यस्य स धर्मनिष्ठः; धर्मरूपा निष्ठा यस्येति वा, धर्मे नितिष्ठतीति वा । अहं धर्मनिष्ठो नास्मि यथावस्थितकर्मयोगतत्परिकरानर्ह इत्यर्थः । अत एव न चात्मवेदी न परिशुद्धात्मवेदनशीलः । ज्ञानयोगरूपं तदपेक्षितं वा पुष्कलं ज्ञानं मे नास्तीत्यर्थः । तदुभयाभावादेव न भक्तिमान् “भक्त्या त्वनन्यया शक्यः” (गीता. ११.५४) इत्यादिषूक्ता भक्तिर्मे न विद्यते । अत्र “शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥” (ब्राह्मे. ५०) इति ब्राह्मवचनमनुसन्धेयम् । त्वच्चरणारविन्दे इत्यनेन पवित्रत्वभोग्यत्वे व्यज्येते । अत्रायं क्रमः – शास्त्रार्थतत्त्वज्ञानतः कर्मयोगः, तेन जितस्वान्तस्य परिशुद्धात्मभावनारूपो ज्ञानयोगः । तद्द्वारा वा साक्षात्कर्मयोगेनैव वा आत्मावलोकनम्; तेन लब्धाधिकारस्य भक्तियोगः । ततस्तत्प्राप्तिरिति ।
अस्मिन् जन्मनि कर्मयोगाभावेऽपि पूर्वजन्मकृतेन ज्ञानयोगस्स्यात् । इदानीं तदुभयाभावेऽपि “जन्मान्तरसहस्रेषु” (इतिहाससमुच्चये. ३१.१२१) इत्यादिप्रतिपादितक्रमेण भक्तियोगस्स्यादित्युत्तरोत्तरनिषेध इत्यपि गमनिका । एवमनन्यसाधनोऽहमित्यभिप्रायेणाह – अकिञ्चन इति । यद्वा कर्मयोगादिहेतुभूतगुणक्रियादिसंपादनदौष्कर्याभिप्रायेणाकिञ्चनत्वोक्तिः । ईदृशस्य ते किं मया? शरण्यान्तरं प्रयोजनान्तरं वा परिगृह्यतामित्यत आह – अनन्यगतिरिति । शरण्यान्तरप्राप्यान्तररहित इत्यर्थः । उभयत्र हेतुमभिप्रेत्याह – शरण्य त्वत्पादमूलमिति । शरण्येति संबुद्ध्या “मामेकं शरणं व्रज” (गीता. १८.६६) “मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयम् ॥” (भागवते ११.१२.१५) इति स्ववाक्यानि सूच्यन्ते । तथा “सर्वलोकशरण्याय” (रामा. यु. १७.१७), “शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः” (रामा. यु. १२०.१९) इत्याद्यपि । तथा लैङ्गेऽपि “य एकः पुरुषश्रेष्ठः परमात्मा सनातनः । यस्माद्ब्रह्मा ततस्सर्वं तमाश्रित्यैव मुच्यते ॥” इति । पुराणसारसमुच्चये च “नान्यं देवमुपासीत विष्णोः परमकारणात् । मायामुत्तर्तुकामो वै मायी यो देवतागणः ॥ न चान्यज्ञानकर्मभ्यां नान्यभक्त्या परं पदम् । प्राप्नोति पुरुषस्तस्मात् तमेव शरणं व्रजेत् ॥” (बोधायनीये) इति । सङ्कर्षणसंहितायां च “सर्वधर्मान् परित्यज्य तमेव शरणं व्रजेत् । भगवन्तं वासुदेवं परानन्दविभूतिदम् ॥” इति । जयाख्यसंहितायां च “तमेव सर्वभावेन प्रयाहि त्वं महामुने”, “अन्यत्सर्वं परित्यज्य तमेवं शरणं व्रजेत्” इति । विष्वक्सेनसंहितायां च “सर्वधर्मान् सर्वकामानैहिकामुष्मिकानपि । सन्त्यज्य विधिना नित्यं षड्विधां शरणागतिम् । आचार्यानुज्ञया कुर्याच्छास्त्रदृष्टेन वर्त्मना” इति । “कालेष्वपि च सर्वेषु (जिन्तन्तेस्तोत्रे. ३.९) इत्यादि प्रसिद्धम् । ततोऽन्यत्र सर्वत्र भयातिशयं व्यञ्जयितुं त्वत्पादमूलमित्युक्तम् । परमप्राप्यस्य तवैव पादमूलं प्रविष्टानामेवापुनरावृत्तिः । अतस्तद्धारणं मे फलमित्यपि सूच्यते । अनन्यगतिरित्येतत्सामर्थ्याच्च तत्सिद्धिः । “मुमुक्षुर्वै शरणमहं प्रपद्ये” (श्वे. उ. ६.१८) इति श्रुत्युक्तमाह – शरणं प्रपद्य इति । एतावता स्वनिष्ठावचनेन मन्त्रे पूर्वखण्डः शब्दतोऽर्थतश्च दर्शितः । प्रपत्तिप्रकरणे शरणशब्द उपायपर इति अहिर्बुध्न्यसंहितायामुक्तम् – (३७.२९) “उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते सांप्रतं त्वेष उपायार्थैकवाचकः ॥” इति ।
प्रपत्तिप्रयोगश्चैवं प्रदर्शितः – (अहि. सं. ३७.३०) “अहमस्म्यपराधानामालयोऽकिञ्चनोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः । शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ॥” इति । तन्माहात्म्यं चैवं प्रकाशितम् – “अनेनैवं प्रपन्नस्य भगवन्तं सनातनम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्ति तत्क्षणात् ॥ कृतान्यनेन सर्वाणि तपांसि तपतां वर! । सर्वतीर्थास्सर्वयज्ञास्सर्वदानानि तत्क्षणात् ॥ कृतान्यनेन मोक्षश्च तस्य हस्ते न संशयः ।” (अहि. सं ३७.३३,३४) इति । सकलफलसाधनत्वं चोक्तम् – “यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्साङ्ख्येन योगेन (कर्मणा) न च भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेनतेनाप्यते तत्तन्न्यासेनैव महामुने! ॥ परमात्मा च तेनैव साध्य(द्य)ते पुरुषोत्तमः (अहि. सं. ३७.२५,२६,२७) इति । अत्र “अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायता याञ्चा प्रपत्तिश्शरणागतिः ॥” इति भरतमुनिप्रणीतं लक्षणमपि सुसङ्गतम् । इह च अनन्यसाध्ये इति प्रपत्तव्यव्यतिरिक्तेन स्वेनान्येन चासाध्यत्वं प्रपत्तव्यस्य साध्यत्वं च विवक्षितम् । स्वाभीष्टे इति सुखस्य दुःखनिवृत्तेः तत्साधनानां च संग्रहः । तत्र प्रमाणविरुद्धं न फलम् । शरण्यविरुद्धं चानुकूल्यसङ्कल्पादिना न सङ्गच्छते । स्वाधिकारविरुद्धं तु निपुणस्य स्वाभीष्टे इत्यनेन निरस्तम् । उपायलाघवादिभिरकम्पनीयो विश्वासो महाविश्वासः । तदेकोपायताशब्देन पश्चात् स्वयत्ननैरपेक्ष्यं च व्यज्यते । “प्रपत्तिश्शारणागतिः” इति पर्यायपाठः । “आनुकूल्यस्य सङ्कल्पः” (अहि. सं. ३७.२८) इत्यादौ तु षाड्विध्योक्तिरङ्गाङ्गिसमुच्चयाभिप्राया । “षडङ्गं तमुपाय च” इत्यत्र षडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्यथा “निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः” (लक्ष्मीतन्त्रे. १७.७६) । “प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरावृताम्” (ल. त. २८. ११) इत्यादिभिर्विरोधप्रसङ्गात् । “शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् । पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ॥ इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनि ।” (अहि. सं. ५२.१३) इत्यहिर्बुध्न्योक्तमङ्गान्तरं तु निःश्रेयसार्थप्रपत्तिनियतम् । अङ्गिनश्चात्र भरन्यासरूपत्वम् “आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते” (ल. त. १७. ७९) इति निर्धारितम् ।
तदिह पूर्वश्लोकस्थनमःप्रयोगेणानुकूल्यसङ्कल्पप्रातिकूल्यवर्जने दर्शिते । न धर्मनिष्ठ इत्यादिभिरकिञ्चनाधिकारत्वं कार्पण्यरूपमङ्गं च । (अहि. सं. ३७.२८) “रक्षिष्यतीति विश्वासः” तु शरण्येति संबुद्ध्या व्यज्यते । रक्षणसमर्थः कारुणिकश्च शरण्यः । स च प्रपन्नं मां रक्षिष्यतीति विस्रम्भणीयः । सोपसर्गधातुविशेषश्चात्राध्यवसायवैशिष्ट्यं व्यनक्ति । त्वत्पादमूलं शरणं प्रपद्य इत्यनेनैव गोप्तृत्ववरणात्मनिक्षेपौ सिद्धौ । प्रार्थनान्वितो हि भरन्यासः प्रपत्तिः, [र]भिक्षादिमात्रप्रार्थनायामाज्ञादिपूर्वकभरन्यासे च प्रपत्तिशब्दप्रयोगदर्शनात् । न चात्र गुरुलघुविकल्पानुपपत्त्या प्रपत्तेर्भक्त्यङ्गत्वं शङ्कनीयम् । स्नानादिविकल्पवदधिका(रि)रभेदेन व्यवस्थापनात् ॥
प्रणवादिनयादत्र प्रपत्तेस्तत्त्ववेदिभिः । यथाधिकारमङ्गत्वं स्वतन्त्रत्वं च दर्शितम् ॥ ३१ ॥
अत्र प्रपद्य इति वर्तमानव्यपदेशश्च “बर्हिर्देवसदनं दामि” इत्यादिवदनुष्ठानकालाभिप्रायः ॥ २२ ॥
कार्पण्यम्
पापानि
वेङ्कतनाथार्यः - सङ्गतिः
अथ सप्त श्लोकाः प्रस्तुतोपाय-प्रयोग-स्थिरी-करणार्थाः ।
तेषु क्रमात्
परस्य सर्वविरोधि-निवर्तनोचित-गुण-विशेष(वत्त्वं)त्वं,
रक्ष्य-रक्षकयोर् इतरेतर-लाभः,
स्वपरित्यागे परस्यानिष्ट-प्रसङ्गः,
स्वस्यानन्य-गतित्वेन तत्-प्रहाणानर्हत्वं,
शरण्यस्य भोग्यतमत्वेन प्रयोजनान्तर-वैमुख्यम्,
उपायस्य सौकर्यं,
स्वादुतमत्वं च तात्पर्यतः स्थाप्यते ।
तत्रादिमे
यद्य् अप्य् एवम् उपाय-परम्-परा नास्ति,
तथाऽप्य् अपाया न सन्ति चेत्
तद्-अवलम्बनेन क्रमात् कर्म-योगादीन् उत्पाद्य मोक्षफलं लभस्व ।
किं तदर्थं प्रपत्त्या
इत्यत्र स्वस्याकिञ्चनत्वमेव स्थिरीकरोति –
विश्वास-प्रस्तुतिः
न निन्दितं कर्म तद् अस्ति लोके
सहस्रशो यन् न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द!
क्रन्दामि सम्प्रत्य् अगतिस् तवाग्रे ॥ २३ ॥+++(5)+++
MS Rajajee (En)
Sri Yamunacharya’s O Mukunda, all those sinful acts which have been denounced by the world have been committed by me thousands of times. When the time to suffer for those deeds has come, I cannot turn to any one and am helplessly crying before You.
In the next seven slokas, we will see a recital of the misdeeds done in this life and the appeal made thereon to the Lord, seeking succour and relief.
The poet says contritely that he has committed sinful deeds thousands of times. He adds that there is no sinful deed that he has not committed. When sins are committed, there may be some atonement to be done, to expiate the sin, in this life itself. But Alavandar says that in his case, the sins are such that even an atonement as above is not possible. The results of the sins have started fructifying (“vipaka avasare samprati”). He has no other support (“agatih”). He is standing before the Lord in sorrow (“tava agre krandani”).
This concept of helplessly standing before the Lord as He is the only refuge is reflected in Mukunda Mala also. In verse 34, says Kulasekhara Alavar, “O Supreme Lord, Bhagavan, You are the most compassionate. So, please show me Your favour and bestow mercy upon this helpless soul. You alone can lift me from the ocean of samsara into which I am sinking. O Lord Hari, You are verily the Purushottama”.
We may refer in this connection to Sloka 29 in the Daya Satakam of Vedanta Desika. While Yamuna says that he has com41 mitted sinful deeds thousands of times and that there is no sinful deed that he has not committed, Desika says “O Daya, when the foremost among sinners is present here, how are You able to survive on the limited sins of others, which will not be sufficient to fill your stomach”?
मूलम्
न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३ ॥
वेङ्कटनाथार्यः
न निन्दितमित्यर्धेन ॥ निन्दितं गर्हितम् । “यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः, यद्गर्हन्ते सोऽधर्मः” इत्यापस्तम्बः । अत्र निन्दितशब्देन काम्यकर्मापि संगृह्यते; मुमुक्ष्वपेक्षया तस्यापि निन्दितत्वात् । लोके सर्वस्मिन् संसारिजने । अथवा लोक्यते अनेनेति लोकः – प्रमाणं तस्मिन्, नास्ति अप्रामाणिकमित्यर्थः । अत्र शास्त्ररूपप्रमाणविशेषविवक्षा । सहस्रश इत्यसङ्ख्यातावृत्तिपरम् । “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इति पठन्ति । यत् शरणागतपरित्यागाद्यपि; तदपि वेदनिन्दितम् । यथाऽऽह मनुः (११.१९८) – “शरणात्तं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस्तत्पापमवसीदति ॥” इति । “बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥” (मनु. ११.१९०) ॥ इति च । रघुश्च राक्षसं प्रत्याह – “शक्तोऽपि रक्षणे लोभात् भयाद्वा शरणागतम् । यस्त्यजेत् पुरुषो लोके ब्रह्महत्यां स विन्दति ॥ प्रायश्चित्तेन शुद्ध्यन्ति महापातकिनोऽपि (हि) ये । शरणागतहन्तॄणां शुद्धिः क्वापि न विद्यते (सिध्यति) ॥ पूयन्ते हयमेधेन महापातकिनोऽपि हि । शरणागतहन्तारो न त्वेव रजनीचर! ॥” इति । “अपि चेत्सुदुराचारः केनापि नरकात् पुमान् । मुच्यते न तु पापात्मा शरणागतहिंसकः ॥” इत्यादि । ब्रह्मणा च गीतम् – बृहस्पतिरुवाच – “न चास्य बीजं रोहति रोहकाले न चास्य वर्षं वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् ॥ मोघमन्नं विन्दते (च) अप्रचेताः स्वर्गाल्लोकान्नश्यति भ्रष्टचेष्टः (ताः) । भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥” (भार. उद्यो. १२. १९,२०) इति । एवं “शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहन्तुस्तु न दृष्टा निष्कृतिः क्वचित् ॥ लोभाद्वेषाद्भयाद्वाऽपि यस्त्यजेच्छरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥” (इतिहाससमुच्चये ४.१८,१९) ॥ इत्यादि द्रष्टव्यम् । आह च रघुपतिरभयप्रदानप्रकरणे – (रामा. यु. १८.२६,२७,२८,२९,३०,३१) “ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा । श्रृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ॥ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् । न हन्याच्चानृशंस्यार्थमपि शत्रुं परन्तप ॥ आर्तो वा यदि वा दृप्तः परेषां शरणागतः । अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ॥ स चेद्भयाद्वा लोभाद्वा कामाद्वाऽपि न रक्षति । स्वया शक्त्या यथासत्यं तत्पापं लोकगर्हितम् ॥ विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः । आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥ अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥” इति । एवंविधशरणागतपरित्यागाद्यपि यन्मया न कृतं तन्नास्ति । मया – रागादिदूषितचित्तेन भोगमरुकान्तारपान्थेनेति भावः ।
एवमनन्तप्रतिबन्धकाक्रान्तस्वावस्थामनुवदन् भगवतोऽशरण्यशरणत्वं च स्वाध्यवसितमुत्तरार्धेन व्यनक्ति – सोऽहमिति । अद्यापि तादृशस्वभावः प्रायश्चित्तावसरे त्वच्चोदितेषु तत्तत्प्रायश्चित्तेष्वप्रवृत्तस्तदिच्छाधिकारशकनानुशयानभिज्ञश्चेति भावः । संप्रति विपाकावसर इत्यन्वयः । प्रायश्चित्तकालातिक्रान्तौ दुर्निवारोद्गमानां फलानां भोगादन्येन क्षपयितुमशक्यावस्थायामित्यर्थः । मुकुन्द! – प्रपन्नानामनादिप्रवृत्तमपराधजातमनादृत्य मुक्तिभूमिप्रद । यथोक्तं श्रीसात्त्वते – (१६.२३,२४) “दुराचारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ॥” इति । श्रीपुण्डरीकोपाख्याने (इतिहाससमुच्चये ३१.१२९) च “अश्वमेधशतैरिष्ट्वा वाजपेयशतेन च । न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः ॥ ये नृशंसा दुरात्मानः पापाचाररतास्तथा (सदा) । तेऽपि यान्ति परं धाम (स्थानं) नरा नारायणाश्रयाः (श्रिताः) ॥” इति । क्रन्दामि – आक्रोशामि । अनेन “गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥” (भार. उद्यो. ४७.२२) इति शरण्यवाक्यं सूच्यते । अगतिः – पुण्यविपाकादपि भृशं भीततया (श्लो. २२) पूर्वोक्तानन्यगतिः । “तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति” (यजुषि) इति सर्वेषां शरण्यानां सामान्यतः प्राप्तम्, किं पुनः “विभीषणो वा सुग्रीव! यदि वा रावणः स्वयम्” (रामा. यु. १८.३५) इत्यादिवादिनो भवत इत्यभिप्रायेणाऽह – तवेति । अग्रे विश्वसाक्षात्कारिणस्तव सार्वत्रिकसन्निधावित्यर्थः । सविग्रहस्य वा शरण्यस्याभिमुख्यमिहाभिप्रेतम् ॥ न ह्यसमर्थानामकारुणिकानां च सन्निधौ विपन्नैराक्रोष्टव्यमिति भावः । यद्वा, संसारतन्त्रवाहितया पुण्यपापफलप्रदातुस्त्वत्त एव भीतस्त्वदग्रे क्रन्दामि । रागानुवृत्तिहेतुभूतपुण्यफलाद्भीतिरधिकमाक्रोशकारणम् । अथवा, भक्तियोगमनुष्ठाय तत्फलमलब्धवानिव युक्तदण्डस्य तवाग्रे आक्रोशनेनाप्यपराध्यामीति भावः ।
एवं पूर्वश्लोके सपरिकरोपायान्तराभाव उक्तः । अत्र तु तन्निदानमपायबाहुल्यमनुसंहितम् । शरण्येत्युक्तं मुकुन्देत्यनेन स्थापितम् । तदिह दुर्विषहसंसारनिवर्तनोपायनैराश्यजनितशोकाविष्टः शरण्यगुणाध्यवसायवानपवर्गार्थप्रपत्त्यधिकारीति दर्शितं भवति । तथा चोक्तम् – “अहं भीतोऽस्मि देवेश! संसारेऽस्मिन् भयावहे । त्राहि मां पुण्डरीकाक्ष! न जाने शरणं परम् ॥” (जितन्ते १.८) “वृथैव भवतो याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संचिन्त्य शरणं व्रज ॥” (व्यासोक्तिः), “अथ पातकभीतस्त्वं सर्वभावेन भारत! । विमुक्तान्यसमारम्भो नारायणपरो भव ॥” (विष्णुधर्मे ६६. ७२), सर्वयोग्यमनायासमप्रमादमनूपमम् । प्रणतार्तिहरं विष्णुं शरणं गन्तुमर्हसि ॥” इत्यादि ॥ २३ ॥
वेङ्कतनाथार्यः - सङ्गतिः
नन्व् अनादौ संसारे
संप्रति केन विशेषेणाक्रन्द्यत
इत्य(त्रा)नन्य-गतिश् शरण्येत्युभाभ्यां सूचितं रक्ष्य-रक्षकयोर् इतरेतर-लाभ-प्रतिबोधस्याद्यतनत्वम् आह –
विश्वास-प्रस्तुतिः
निमज्जतो ऽनन्त भवार्णवान्तश्
चिराय मे कूलम् इवासि लब्धः ।
त्वयाऽपि लब्धं भगवन्न् इदानीम्
अनुत्तमं पात्रम् इदं दयायाः ॥ २४ ॥+++(5)+++
MS Rajajee (En)
O Ananta, I am getting drowned in the great ocean of transmigratory existence. At last, I have found the end (shores) of the ocean in You. And, You, O Lord, have found in me, a worthy recipient of Your mercy.
In this sloka, Yamuna says that both the saviour and the saved stand benefited. The one to be saved had said in the previous sloka that he is standing before the Lord, crying helplessly. He is drowning in the samsaric ocean. He sees the Lord and finds a shore in the ocean, which is limitless. The Lord finds in the drowning person, one who is fit and eligible to receive His mercy. He has found the most appropriate person to justify his appellation as the Merciful Lord.
Parts of sloka 12 and Sloka 13 of Mukunda Mala may be recalled in this connection. Says Kulasekhara Alwar in the second half of the Sloka 12 “…They struggle in the perilous water of sense indulgence. They have no raft to carry them to any shelter. Lord Vishnu is the only boat which can save them when they surrender to the Lord”. And again in Sloka 13: “O mind! Do not be afraid (anxious) as to how you are to cross this ocean of material existence. Devotion to the lotus eyed Lord Krishna, will surely take you to the ocean’s shore”.
मूलम्
निमज्जतोऽनन्त भवार्णवान्तश्चिराय मे कूलमिवासि लब्धः ।
त्वयाऽपि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥ २४ ॥
वेङ्कटनाथार्यः
निमञ्जत इति ॥ अनादिप्रवृत्तनिमज्जनमिदानीमप्यनुपरतमित्यभिप्रायेण वर्तमाननिर्देशः । अनन्त – स्वरूपरूपगुणविभूतिभिरपरिच्छेद्य । सर्वत्र सर्वदा सन्निहिते हि त्वयि, “एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव ह्रदम् । शाम्यामि परिनिर्वामि सुखमासे च सर्वदा ॥” इत्युक्तं निमज्जनं सर्वेषामनन्यशरणानां प्राप्तम् । अहं तु भवार्णवे निमज्जामि । यद्वा, अनन्तत्वं भवार्णवविशेषणम् । निवर्तकस्य तव माहात्म्यमिव निवर्तनीयः संसारोऽपि मे निरवधिरिति भावः । भवस्यार्णवत्वरूपणेन “संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् । विष्णुपोतं विना नान्यत् किञ्चिदस्ति परायणम् ॥” (विष्णुधर्मे. १-५९), “संसारसागरं घोरम्” (जितंते. १.४) इत्यादिप्रमाणानि सूच्यन्ते । सनकादिवन्न तीरासन्नप्रदेशस्थोऽहमित्यभिप्रायेण अन्तश्शब्दः । इतःपूर्वमनादौ काले न लब्ध इति निर्वेदाभिप्रायेणाद्यतनलाभसन्तोषाभिप्रायेण वा चिरायेत्युक्तम् । मे – कर्मणः प्रवाहैरितःपूर्वमुत्तारोपायानभिज्ञस्य मम । “मामेकं शरणं व्रज” (गीता. १८.६६) इति वादिनं त्वामुपेक्षितवतः इदानीमपि मज्जनहेतूनार्जयतः त्वयैव त्वदाश्रयणाय सङ्कल्पितस्येति भावः । अत्र मे लब्ध इति संबन्धसामान्ये षष्ठी । मे कूलमिवेति वाऽन्वयः । अर्णवान्तर्निमज्जतः कूलमिवेत्याश्चर्यपरम् । अनन्तत्वात् तत्राप्यसौ सन्निहित इति शरण्यसौलभ्यव्यञ्जनं च । लब्धोऽसि – उपायतया लब्धव्यशेषं नास्ति, न च लब्धस्य प्रच्युतिरिति भावः । न केवलं ममैव लाभः; किन्तु त्वयाऽपि लब्धं सर्वसमत्वसंरक्षणाय सदाचार्यवीक्षणादिव्याजविशेषापेक्षिणा तत्संपत्तिसन्तुष्टेनेति तात्पर्यम् । अत्र भगवन् इति संबुद्ध्या तस्यैकस्यैव सर्वहितवेदित्वं तन्निष्पादनशक्त्यादिकं च व्यज्यते । ज्ञानबलादिपूर्णस्य तव पुनरयं महोदयलाभः । ततश्च त्वमेव वेत्सि त्वयाऽपि दुरपह्नवमिति च । इदानीम् – नाथमुनिप्रभृतिसद्गुरुसमीक्षणदशायामित्यर्थः । अयं चापर्यनुयोज्यानादिसामग्रीप्रवाहानुगुण्येन त्वयैव सङ्कल्पितः काल इत्याकूतम् । एकवचनान्तानुत्तमादिशब्दैर्दयापात्रस्य निस्समाभ्यधिकत्वं सूच्यते । समसद्भावेऽप्यधिकनिषेधमात्रं वा विवक्षितम् । पात्रं विषयः । वाङ्मनसापरिच्छेद्यानन्तापराधिनमात्मानमिदमिति साभिनयं निर्दिशति । एतत्परित्यागे कस्मिन् विषये तव दयादिगुणजातं चरितार्थं स्यात्, न ह्यतोऽधिकः कृपाविषयोऽस्ति । “अपि कश्चिन्मुमुक्षुः स्यात्” इति हि त्वत्कृपा जगज्जनयति । अतस्त्वत्प्रपत्तेरन्यन्न मे कर्तव्यमस्ति । आक्रन्दनमप्येतत् अरतिमात्रकृतम् । तव तु स्वीकृतभरस्य “मोक्षयिष्यामि” (गीता. १८.६६) इति स्वेनैवोक्तं कर्तव्यमवशिष्यत इति भावः ॥ २४ ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथ स्यात् – परतन्त्रस्य शेषभूतस्य स्वतन्त्रस्वाम्यभीष्टविनियोगः सोढव्यः ।
अन्यथाऽपि दुर्निवारश्च ।किंच
“हरिर्दुःखानि भक्तेभ्यो
हितबुद्ध्या करोति हि ।
शस्त्र-क्षाराग्नि-कर्माणि+++(←cauterization)+++
स्वपुत्राय यथा पिता ॥”,+++(5)+++“परीक्षां च जगन्नाथः
करोत्य् अदृढचेतसाम्” (विष्णुधर्मे ७४.८९),“यस्यानुग्रहम् इच्छामि
तस्य वित्तं हराम्य् अहम् ।
बान्धवैश्च वियोगेन
सदा भवति दुःखितः ॥
तेन दुःखेन सन्तप्तो
यदि मां न परित्यजेत् ॥
तं प्रसादं करिष्यामि
यत् सुरैर् अपि दुर्लभः ॥” (भागवते)इत्यपि स्मर्यते ।
अतस्स्वकर्मविपाकः क्षन्तव्यः, किं क्रन्दितेन?
इत्यत आह –
विश्वास-प्रस्तुतिः
अभूतपूर्वं मम भावि किं वा
सर्वं सहे मे सहजं हि दुःखम् ।
किं तु त्वद्-अग्रे शरणागतानां
पराभवो नाथ! न तेऽनुरूपः ॥ २५ ॥+++(5)+++
MS Rajajee (En)
O Lord, I have borne the earlier miseries and I am ready to bear all the miseries that may be visited on me, in future. But it is not becoming of You that those who sought Your refuge should feel frustrated.
Alavandar says in this sloka that he is ready to suffer the miseries, but it is the reputation of the Lord that he instantaneously rushes to the rescue of those who seek His refuge which will suffer.
Alavandar says that he is accustomed to experiencing miseries, as miseries were born along with him. He is also mentally prepared to suffer miseries in the future, having lived amidst miseries. But, Alavandar bemoans that the Lord has a reputation to uphold - a reputation that He rushes to the rescue of those who have sought His protection - as evidenced by the incidents of Gajendra and Draupadi.
Alavandar submits that if the Lord does not save him, he who has sought the Lord’s protection after surrendering to him, it is the reputation of the Lord that will suffer. He says that he would not suffer because being made to experience some more miseries would be a normal experience for him!
मूलम्
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ! न तेऽनुरूपः ॥ २५ ॥
वेङ्कटनाथार्यः
अभूतपूर्वमिति ॥ इतः पूर्वं सञ्जातेभ्यो विलक्षणमित्यर्थः । मम “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥” (भार. शा. १२.३६) इत्युक्तस्वभावस्य गर्भजन्मजरामरणनरकादिदुःखचक्रमध्यवर्तिनः । भावि – भविष्यत् । किंशब्दः क्षेपार्थः । वाकारः स्वानभ्युपगतसोढव्यत्वपक्षान्वारोहार्थः । तेनासह्यत्वाभिप्रायमन्तर्धायाह – सर्वं सह इति । कर्मपरतन्त्रतया यथापूर्वमनुभूतजातीयं सर्वं दुःखमनुभविष्यामि । मे सहजं हि दुःखम् अनर्थपर्यन्तापुरुषार्थसक्तस्य मम कर्मप्रवाहैरात्मस्वरूपानुबन्धिवदपरिहार्यमित्यर्थः । तथाऽप्यन्यदसह्यमापतिष्यतीत्यभिप्रायेणाह – किंतु इति ।
त्वदग्रे अपारकारुण्यस्य सर्वत्र सन्निहितस्य सर्वस्वामिनः सर्वशक्तेः तव सन्निधौ । शरणागतानामिति बहुवचनमन्येष्वपि प्रपन्नेष्वयमेव न्याय इति द्योतनार्थम् । मत्परिभवस्त्वदेकान्तिनां सर्वेषां चित्तक्षोभहेतुरिति वाऽभिप्रेतम् । पराभवः कर्मभिः कामक्रोधादिभिरिन्द्रियैर्विषयैश्च घोरैः त्वद्विमुखीकरणम् । नाथेति संबुद्ध्या भगवतो भरस्वीकारयोग्यत्वं, स्वस्य सनाथत्वेन निर्भरत्वं च व्यनक्ति । उक्तं हि युधिष्ठिरकार्यार्थं बलभद्रं प्रति सात्यकिना – “ये नाथवन्तो हि भवन्ति लोके ते नात्मकर्माणि समारभन्ते । कार्येषु तेषां प्रभवन्ति नाथाश्शैब्यादयो राम! यथा ययातेः ॥” (भार. आर. ९६. २) इति । भगवच्छास्त्रे च “प्रपन्नश्चातको यद्वत्प्रपत्तव्यः कपोतवत् । रक्ष्यरक्षकयोरेतल्लक्ष्यं लक्षणमेतयोः ॥” इति । स्वतन्त्रस्याकर्मवश्यस्य मे शरणागतपरित्यागेऽपि को दोष इत्यत्राह – न तेऽनुरूप इति । ते “स्थिते मनसि (वराहचरमश्लोकः), “सकृदेव (रामा. यु. १८.३३), “सर्वधर्मान्” (गीता. १८. ६६) इत्यादिवादिनः । नानुरूपः न च तद्युक्तम् । “रामो द्विर्नाभिभाषते” (रामा. अयो. १८. ३०), “अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन” (रामा.) इत्यादिस्ववचनविरोधप्रसङ्गात् । ततश्च “तस्य नाम महद्यशः” (तै. ना. १.१.२) इति श्रुतिसिद्धवैपरीत्यं स्यात् । अतो मया सहजदुःखभाजनेन सर्वमपि दुःखं सोढुं शक्यम् । त्वया तु नित्यनिरवद्येन दोषप्रसङ्गो न सोढव्य इत्यनिष्टलाभस्ते मत्तोऽप्यतिरिच्यते । मम च स्वाम्यवद्यप्रसङ्गोऽनिष्टतमः । तस्मान्मद्रक्षणेन द्वयोरनिष्टपरिहारस्त्वयैव कार्य इति भावः । तदिदं व्याजमात्रेण स्वार्थं “रक्षिष्यतीति विश्वास”दार्ढ्यव्यञ्जनपरम् । शेषभूतस्य स्वलाभकथनं स्वार्थप्रार्थनं चायुक्तमिति शङ्का च प्रधानभूतपरलाभोक्त्या परावद्यप्रसङ्गपरिहारप्राधान्येन च निरस्ता ॥ २५ ॥
आकर्षकता
वेङ्कतनाथार्यः - सङ्गतिः
अस्त्वेवं प्रतिबुद्धस्य तव मद्-अवलम्बनम्,
तथाऽपि मद्-अनुगृहीतेन त्वया
सर्वेषां पापानां क्रमात् प्रतिपदोक्तानि प्रायश्चित्तानि क्रियन्ताम् ।
पुण्य-क्षयार्थं भोगाश् च भुज्यन्ताम् ।
मत्-स्व-भावश् चैवं प्रसिद्धः“शरीरारोग्यम् अर्थांश्च
भोगांश् चैवानुषङ्गिकान् ।
ददाति ध्यायतां (ध्यायिनां) नित्यम्
अपवर्गप्रदो हरिः ॥” (विष्णुधर्मे. ७४.४३)इति । अतः
“भुक्त्वा च भोगान्विपुलान्
(लक्ष्म्यष्टोत्तरशतनामस्तोत्रान्ते फलश्रुतिश्लोकः)"इत्य्-आदिक्रमेण मुक्तिं प्राप्स्यसि
इति भगवतोऽभिप्रायम् आशङ्क्य
पूर्वोक्तम् अनन्योपायत्वम् अनन्य-प्रयोजनत्वं चानन्तर-श्लोक-द्वयेन प्रपञ्चयिष्यन्
स्वस्य भगवत्-पद-प्राप्तौ विलम्बाक्षमत्वं विज्ञापयति –
विश्वास-प्रस्तुतिः
निरासकस्यापि न तावद् उत्सहे
महेश! हातुं तव पाद-पङ्कजम् ।
रुषा निरस्तो ऽपि शिशुः स्तनन्-धयो
न जातु मातुश् चरणौ जिहासति ॥ २६ ॥+++(4)+++
MS Rajajee (En)
1335 43 Just as a sucking baby does not give up clinging to the feet of its mother, even if in anger the mother pushes it away, O Lord, I will not be wanting to give up your lotus feet, even if I am pushed away.
This sloka continues from the previous one. In sloka 25, Alavandar had said that if the Lord does not protect, it is the reputation of the Lord that would suffer. Alavandar now has a doubt. Since the Lord is secure about His reputation and since he (Alavandar) had made a confession of his sins, the Lord may refuse to accept him because of his transgressions. He may push him away. Alavandar brings in the simile of the baby clinging to the mother and says that he cannot be pushed away. Alavandar says that he would not give up clinging to the feet of the Lord, even if the Lord wishes to push him away.
मूलम्
निरासकस्यापि न तावदुत्सहे महेश! हातुं तव पादपङ्कजम् ।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ॥ २६ ॥
वेङ्कटनाथार्यः
निरासकस्येति ॥ पूर्वं दुःखस्य स्वतः प्रतिकूलतया दुस्सहत्वेन हेयत्वमुक्तम् । अनयोस्तु परमपुरुषार्थप्रतिकूलतया सुखस्यापि हेयत्वमुच्यत इति विशेषः । निरासकस्य निरङ्कुशस्वातन्त्र्यात् स्वावद्यं सोढ्वाऽपि क्षुद्रैरुपच्छन्दनैर्मां प्रतार्य मदभिमतमप्रदायान्यत्र प्रेरयितुमिच्छत इति भावः । अपिशब्देन दयापरवशस्त्वं दीनस्य मम निरासे कथं क्षम इति व्यज्यते । तावच्छब्दोऽवधारणार्थः । नोत्सहे – न शक्नोमीत्यर्थः । महेश! संभावितस्वपदभ्रंशानामपूर्णानां त्वदन्येषां हि स्वाश्रितेष्वसूयोपेक्षादिस्स्यात् – यथेन्द्रादीनां ययातिप्रभृतिषु । भवतस्तु निरुपाधिकस्वामित्वस्वातन्त्र्यवतः निरवधिकदयाम्बुधेर्मामीदृशीमवस्थां प्रापयतो मन्निरसने हेतुर्नास्ति । मम च त्वामेकमेव सर्वेश्वरमधिगच्छतो न हि त्वत्परित्यागे कारणमस्तीति भावः । मातुरिति वक्ष्यमाणपदस्थाने महेशशब्दः । तेन “मता पिता भ्राता” (सुबालोपनिषत्. ६) इत्यादिश्रुतिप्रसिद्धस्वभावसूचनम् । हातुमित्यत्र उपायतया फलतयेति योज्यम् । तदुभयं तव पादपङ्कजमित्युभाभ्यां सूच्यते । सर्वभूतसुहृदः संसारनिवृत्त्युपायभूतस्य भवतो देवदानवसामान्यदैवतं निरवधिकभोग्यं पादपद्ममिति भावः ।
उक्तमर्थं सर्वलोकसंमतार्थान्तरनिदर्शनेन स्थापयति – रुषेति । अपिशब्द इह स्वतो निरासानर्हत्वं स्तनदंशनादिजनितक्रोधलेशवशात् कदाचित् तत्संभवं च द्योतयति । शिशुः स्तनन्धय इति पदाभ्यां स्वरक्षणे स्वयमसमर्थस्य बालस्य तदेकरक्ष्यत्वं तदेकाधीनजीवनत्वं च सूच्यते । जातु – क्रोधदशायां प्रसाददशायां चेति भावः। मातुरित्यनेन सर्वदोषप्रसहनानुगुणवात्सल्यं व्यज्यते । चरणौ इत्यत्र निरासाय विनियुक्तावपीति काक्वा ग्राह्यम् । हातुमिच्छाऽपि न संभवति, किमुत हानमित्यभिप्रायेण सन्प्रयोगः ॥ २६ ॥
वेङ्कतनाथार्यः - सङ्गतिः
ननु नासौ निरासः
यत् प्रजापति-प्रभृति-भोगेभ्योऽतिशयित-भोग-प्रदानम्;मा भूद्वा केवल-भोग-परता;
इदानीं मद्-दत्त-भोगान् भुङ्क्ष्व;
पश्चान् मोक्षम् अपि दास्यामि
इति भगवतोऽभिप्रायमुत्प्रेक्ष्य, विलम्बाक्षमः प्राप्यतया हातुमशक्यत्वं विवृणोति –
विश्वास-प्रस्तुतिः
तवामृत-स्यन्दिनि पाद-पङ्कजे
निवेशितात्मा कथम् अन्यद् इच्छति ।
स्थिते ऽरविन्दे मकरन्द-निर्भरे
मधुव्रतो नेक्षुरसं हि वीक्षते ॥ २७ ॥+++(5)+++
MS Rajajee (En)
My mind which is firmly set upon your nectar-yielding lotus feet, cannot desire any thing else. It is well known that when there is a honeyladen lotus flower nearby, a bee will not seek a thorny flower, which has no honey (Ikshuraka flower).
In the previous sloka, Yamuna had said that even if the Lord were to push him away, he wold not give up clinging to the feet of the Lord. Yamuna now explains the reason. He says that he would cling only to the nectar yielding Lotus-feet of the Lord and not desire anything else. He brings in the simile of a bee seeking honey. Will a bee seeking honey, give up a honey laden lotus flower, for a thorny flower? “Amritasyandi padapankaja” means the nectar laden lotus feet. Really speaking, achieving this is not the object. Liberation or moksha is what is meant here. Liberation can be attained, only by clinging to the feet of the Lord. Hence, it is His feet which are sought as a refuge.
It is the seeking of or clinging to the feet which is important. Kulasekhara Alwar puts this across, forcefully, in Sloka 25 of Mukunda Mala. “All glories to Lord Narayana!. Without remembrance of His lotus feet, recitation of the scriptures is a cry in wilderness, regular observance of the severe vows enjoined in the Vedas is only a way to lose weight, discharge of prescribed pious duties amounts to mere pouring of oblations onto the ashes and bathing at various sites is no better than an elephant’s bath.”
मूलम्
तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं हि वीक्षते ॥ २७ ॥
वेङ्कटनाथार्यः
तवामृतेति ॥ तव “रसो वै सः”, (तै. आन.), “सर्वगन्धः सर्वरसः” (छान्दोग्ये), इत्यादिषु सर्वप्रकारनिरतिशयभोग्यतया प्रसिद्धस्य सर्वस्वामिनः । अमृतस्यन्दिनि मोक्षप्रदे भोग्यतमतया च श्रुतिस्मृतिप्रसिद्धे । निवेशितात्मा रक्षणोन्मुखेन “ददामि बुद्धियोगं तम्” (गीता. १०. १०) इत्यादिवादिना त्वयैव दृढावस्थापितबुद्धिरित्यर्थः । तस्मादितः परं पुरुषार्थान्तरे मनो निवेशयितुं न शक्यमिति भावः । अत्र सामान्यनिर्देशस्त्वत्प्रसादविषयभूतानां मादृशानां सर्वेषां साधारणोऽयं स्वभाव इति ज्ञापनार्थः । त्वत्पादपद्मे मनो निवेशयन् त्वमेवात्र परिचोदनीय इत्यभिप्रायेण कथंशब्दः । अन्यत् अल्पमस्थिरमनर्थमिच्छताऽतीच्छानिवृत्तिवचनात् तदर्थप्रवृत्तिरप्यत्र निरस्ता भवति ।
उक्तमर्थं निदर्शनेन द्रढयति – स्थितेऽरविन्द इति । भोक्तॄणामक्लेशेन भोग्यतमतयोपस्थितवतीत्यभिप्रेतम् । अरविन्दशब्द इह सुरभित्वसुखस्पर्शत्वादिव्यञ्जकः । प्रथमविकसितावस्थामभिप्रेत्याह – मकरन्दनिर्भर इति । मधुव्रतशब्देन तदेकजीवनत्वम्, तत्रापि सारतमग्राहित्वं च व्यज्यते । स्वाभिमतविपरीतैरुपच्छन्दनोपदेशतर्जनादिभिर्दुर्निवारत्वं सूचयितुं तिर्यग्दृष्टान्त उक्तः । इक्षुरकं – कण्टकावृतमस्थिरात्यल्परसं भ्रमरस्पर्शमात्रेऽपि म्लानतामश्नुवानं देवार्चनाद्यनर्हं निर्गन्धं किमपि क्षुद्रपुष्पम् । तन्न वीक्षते अत्यासन्नमपि मकरन्दलिप्सया नाद्रियते । तदुपसदनं तु दूरतो निरस्तमिति भावः ॥ २७ ॥
उपायलाघवेऽपि महाविश्वासः
वेङ्कतनाथार्यः - सङ्गतिः
अथ गुरुतरोपाय-साध्यं पुरुषार्थं लघुतरेणोपायेन कथं लप्स्यसे?
इत्यत्र ततोऽपि लघुतरस्य निवृत्तिधर्म-कोटि-निविष्टस्याञ्जल्यादेः प्रभावं
त्वद्-अङ्घ्रिम् इत्य्-आदिश्लोक-द्वयेन निदर्शयन्न्
आश्रयण-सौकर्याद् अपि हातुम् अशक्यत्वम् एव स्थापयति ।
तत्र प्रथमेन लघुतरकायिक-व्यापार-विशेष-प्रभाव उच्यते –
विश्वास-प्रस्तुतिः
त्वद्-अङ्घ्रिम् उद्दिश्य कदाऽपि केनचिद्
यथा तथा वाऽपि सकृत् कृतो ऽञ्जलिः ।
तदैव मुष्णात्य् अ-शुभान्य् अशेषतः
शुभानि पुष्णाति, न जातु हीयते ॥ २८ ॥
MS Rajajee (En)
Whosoever, in whatever manner, and at any time folds his palms and offers obeisance to your feet, even once, it rids him of all his impurities, and contributes to his well being at all times.
In the previous sloka, we found Alavandar submitting that he would not let go of the feet of the Lord. In this sloka, Alavandar builds on this base and elaborates the theme. He explains that even if Anjali is done once, and that too in any manner it will rid a person of all impurities. It is not necessary to identify a good day, 45 a favourable week or a propitious star (“tithi, vara, nakshatra”). It has nothing to do with caste, an accident of birth or with riches, an accident of inheritance or earning. It is not necessary to do it for a lifetime, as one does “Sandhyavandana” or an “agnihotra” (done by a deeply religious ritualisitc person). Offering the obeisance by folding one’s palms is a simple but an effective expedient. It has only to be sincere and from the heart.
The word “Anjali” can be interpreted as “am” and “jalayati”, meaning what makes the Lord melt like water. In this sloka, the ease with which the “anjali” can be offered is mentioned in the first two lines, while its efficacy is mentioned in the next two lines.
We may recall in this context, sloka 20 of Mukunda Mala. Says Kulasekhara Alwar, “O lotus-eyed Lord, may our lives be enriched constantly in this manner, palms of our hands reverently brought together in prayer for your Grace and protection. Our heads bowed down and our bodies thrilled by the fervour of devotion, indicated by the hair standing on end, our voice choked with feelings of deep devotion, our eyes swimming in tears of joy as a result of the delight of the nectar of meditation on your lotus feet”. The Anjali tersely referred to by Yamuna is elaborated upon by Kulasekhara.
मूलम्
त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचिद् यथा तथा वाऽपि सकृत् कृतोऽञ्जलिः ।
तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥ २८ ॥
वेङ्कटनाथार्यः
त्वदङ्घ्रिमिति ॥ त्वदङ्घ्रिं सर्वलोकशरण्यस्य तव पादपङ्कजम् । न तु साक्षान्मोक्षप्रदानानधिकृतस्य हिरण्यगर्भादेरिति भावः । तदुक्तं मोक्षधर्मे – (३५०.३६) “ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥” इति । अत्र भगवत्स्वरूपस्य शुभत्वेऽप्यनिष्पन्नसमाधीनां प्रथमं भावयितुमशक्यतया तद्विग्रहस्यैव शुभाश्रयत्वम् । तत्रापि “अनतिक्रमणीयं हि चरणग्रहणम्” (भाष्यम्) इति न्यायात्, “स भ्रातुश्चरणौ गाढम्” (रामा. अयो. ३१.२) इत्यादि दर्शनाच्चाङ्घ्रेरुद्देश्यत्वमुच्यते । उद्दिश्य – उपायतया कैङ्कर्यलक्ष्यतया चाभिसन्धायेत्यर्थः । एवमनन्यदेवताकत्वमनन्यप्रयोजनत्वं चोक्तं भवति ।
ईदृशस्याधिकारिणोऽञ्जलिबन्धरूपे सुकरे प्रसादने दर्शपूर्णमासादिवत् तिथिनक्षत्रपक्षमासर्त्वयनहायनादिकालनियमो नास्तीत्याह – कदाऽपीति । विधेयहस्तस्य शास्त्रीयव्यापारान्तररहितदशायां सर्वदेत्यर्थः । एतेन कालविशेषप्रतीक्षणविलम्बाभावाद् यदेच्छति तदैव सहसा कर्तुं शक्यतयाऽपि सौकर्यं सूचितम् । उक्तः कालनियमाभावः “जातपुत्रः कृष्णकेशोऽग्नीनादधीत”, इत्याद्युक्तकृष्णकेशत्वाद्यवस्थानियमाभावस्य, देशनियमाभावस्य चोपलक्षणम् ।
एवं वर्णाश्रमवेदवेदाङ्गयुक्तत्वादिनियमाभावेन सामान्यधर्मतया सत्यवचनादिवत् सर्वाधिकारत्वमाह – केनचिदिति । आस्त्रीबालपण्डितम् आब्रह्मश्वपाकं च सुकरत्वं शास्त्रीयत्वं चात्र विवक्षितम् । कर्मान्तरवद् दुष्करप्रकारविशेषव्यवस्थाऽप्यत्र नास्तीत्याह – यथा तथा वाऽपीति । अत्र विकल्पसमुच्चयविषयाव्ययद्वयस्यैवमभिप्रायः – परावरतत्त्वहितपुरुषार्थेषु विशदा बुद्धिर्भवतु वा मा वा, मस्तिष्कसम्पुटादिषु यथेष्टप्रकारश्च भवतु, विधेयहस्तरहितस्य वाचा मनसा वा स्यात्, अस्तु वाऽञ्जलिरचनायां किंचिदचातुर्यम्; सर्वथा सफल एवायमिति । न पुनः “एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् । न्याय्यस्तस्य करच्छेद इति वेदविदो विदुः ॥”, “एकहस्तप्रणामश्च एकं चापि प्रदक्षिणम्” इति शक्तं प्रत्युक्त एकहस्तप्रणामनिषेध इह प्रतिषिध्यते । “तौ युतावञ्जलिः पुमान्” (अमरः) इति च नैघण्टुकाः । गत्यभावे तु सर्वत्र यथाशक्ति करणमनुज्ञातम्; “सकृत् कृतः शास्त्रार्थः”, (पू. मी. ११अ.) इति सामान्यप्राप्तस्यात्र निरपवादत्वात् । “वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिवदावृत्त्यपेक्षाऽपि नेत्याह – सकृत्कृत इति । यद्यपि प्रीत्यादिप्रकर्षादस्यावृत्तिर्भवति, तथाऽप्यत्र सकृत्कृतस्य फलाविनाभावेन प्रभावातिशयप्रतिपादने तात्पर्यम् । “सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्चितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥”, “सकृदु(च्चा)च्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥”, (वि. ध. ७०.८४), “ऋचो यजूंषि सामानि योऽधीतेऽसकृदञ्जसा । सकृदष्टाक्षरं जप्त्वा फलं तस्य समश्नुते ॥” (नारदीयकल्पे. १.१०), “विष्णोरायतनं नित्यं सायं प्रातर्दिनेदिने । प्रदक्षिणद्वयं कुर्यादश्वमेधफलं लभेत् ॥ उत्सवे बलिदाने च तथा कुर्वन् प्रदक्षिणम् । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ॥”, “यानि यानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥” इत्यादिषूक्तस्य सकृत्स्मरणसङ्कीर्तनादिप्रभावस्य प्रदर्शनमिदम् । “सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः । रक्षते भगवान् विष्णुर्भक्तान् आत्मशरीरवत् ॥” (भार.आनु. ३६.२४) इति सर्वाधिकत्वेन कथितेभ्यः सम्मार्जनोपलेपनमालाकरणदीपारोपणादिप्रसा(ध)दनान्तरेभ्यः समधिकं बहुवित्तव्ययायासनिरपेक्षं विवक्षितस्य सुकरं स्वरूपमाह – अञ्जलिरिति । “अञ्जलिः परमा मुद्रा” (द्रोणपर्वाणि २०० अध्याये, विष्णुधर्मोत्तरे तृतीय ३३.१०५) इति ह्युच्यते । श्रीमद्रामायणे (किष्कि. ३२.१७) च “कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्”, इति । नारायणास्त्रवृत्तान्तोऽपि (भार. शान्ति. ३५२ अध्यायः) अत्रानुसन्धेयः ।
“क्षिप्रं देवप्रसादिनी” (भार. द्रोण. २००. अ) इत्युक्तमाह – तदेति । अवधारणेन शरीरान्तरकालान्तरभाविफलसाधनेभ्यः कर्मभ्यो व्यावृत्तिः । यद्यप्यनादिवासनावशात् सांसारिकपुण्यरूपनिगलभङ्गः पुरुषस्यानिष्टः स्यात् । तथाऽपि अर्भकापथ्यपरिहारन्यायेन तान्यपि चोरयतीत्यभिप्रायेण मुष्णातीत्युक्तम् । अशुभानि शुभप्रतिभटानि । यथार्हमपवर्गतदुपायविरोधीनीत्यर्थः । अशेषतः कार्त्स्न्येन । एतेन कृच्छ्रचान्द्रायणादिवत् प्रतिनियताशुभमात्रनिवर्तकत्वं व्युदस्यते । न केवलमनिष्टनिवर्तकत्वमात्रम्, “तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्” (वि.पु. १.१७.९१) इति न्यायेनात्रत्यानुभवप्रभृतिपरिपूर्णकैङ्कर्यपर्यन्तसर्वापेक्षितसाधकत्वं चास्तीत्याह – शुभानि पुष्णातीति । कर्तर्येकस्मिन् उपकृतमपर्याप्तं मन्यमानस्य भगवतः प्रसादात् तदनुबन्धिनामपि तद्वदुपकाराय भवतीत्यभिप्रायेणाह – न जातु हीयत इति । “यज्ञोऽनृतेन क्षरति” (मनु. ४.२३७) इत्यादिवद् अस्य न केनापि हानिरिति भावः । यद्वा, स्वर्गादिवदेव तत्साध्यस्य परमफलस्य न कदाचिदपि विनाश इत्यभिप्रायः । अथवा, फलभूताञ्जलिरूपेण स्वयं सन्तन्यत इति विवक्षितम् । दृश्यते हि “नित्याञ्जलिपुटा हृष्टाः” (भार.शा. ३४४.४५) इत्युक्त्वा, “ये तु मुक्ता भवन्तीह नरा भरतसत्तम । तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ॥” (भार. मोक्ष. ३४४.४६) इति ।
ननु च यथाधिकारं न्यासोपासनरूपौ द्वौ मोक्षोपायौ शास्त्रेषु निर्णीतौ; तत् कथमञ्जलिमात्रस्य तत्साधनत्वोक्तिः? इथम्; यद्यसावाकिञ्चन्यादिलाभात् प्रपत्त्यधिकारिणः पुरुषस्य स्वरक्षणार्थस्वव्यापारान्तरनिवृत्तिव्यञ्जकमुद्रात्मनाऽवतिष्ठते, तदा तदुपलक्षितायाः प्रपत्तेः प्रागुक्तसकलफलसाधनत्वरूपप्रतिपादने ताप्पर्यान्न विरोधः । यदा तु प्रदक्षिणप्रणामादिवदयमपि भक्त्यङ्गकर्मविशेषः, तदा “नेहाभिक्रमनाशोऽस्ति” (गीता. २.४०) इत्यादिन्त्यायात् कल्मषनिबर्हणसत्त्वोन्मेषसम्यग्ज्ञानभक्त्यादिपरम्परया मोक्षसाधनत्वमिति निष्कण्टकोऽयं घण्टापथः ।
अतिवादपक्षस्त्वत्र संभवन्त्यां गतौ न युज्यते । अधिकारिविशेषमाश्रित्याञ्जलिरूपलघुतरक्रियामात्रस्य साक्षान्मोक्षसाधनत्वकथने कर्मान्तराणामपि तथात्वप्रसङ्गः । तदभ्युपगमस्तु सर्वप्रमाणाननुगुणो भाष्यादिविरुद्धः; वक्तुर्यामुनमुनेः प्रागनुष्ठितगुरुतरविश्वासादिगर्भप्रपत्तिवैयर्थ्यं च स्यात् ।
ननु “ध्यायन् कृते, यजन् यज्ञैस्त्रेतायाम्, द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥” ( वि. पु. ६.२.१७), “कलेर्दोषनिधे राजन्! अस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत्” (भागवते १२.३.५१) इति कालविशेषव्यवस्थया सङ्कीर्तनमात्रस्यैव साक्षान्मोक्षसाधनत्वमुच्यते । सत्यम्; तथाऽपि तस्मिन् काले धर्मान्तरमनपेक्ष्य सङ्कीर्तनमात्रस्यैवाव्यवहितमोक्षोपायनिष्पादकत्वे तात्पर्यं ग्राह्यम्; अन्यथा चरमयुगे प्रपत्तिरप्यनपेक्षिता स्यात् ।
तदयमञ्जलिर्भक्तिवत् प्रपत्तिवच्च प्रयोजनान्तरपराणां यथार्हं तत्तदभिमतसाधनं स्यात् । अनन्यप्रयोजनानां तूक्तेनैव प्रकारेणापवर्गपर्यवसायीति ॥ २८ ॥
वेङ्कतनाथार्यः - सङ्गतिः
अथाञ्जलिमात्रानर्हाणाम् अपि
“विषये ते महाराज!
राम-व्यसन-कर्शिताः ।
अपि वृक्षाः परिम्लानाः
सपुष्पाङ्कुरकोरकाः” (रामा. अयो.)
इत्य्-उक्त-कोसल–जनपद–पादप–न्यायेनानुराग-लेश-मात्रेणापि
शरण्य-चित्त-रञ्जनेन
प्राप्त-काले परमपुरुषार्थसिद्धिः स्याद् इत्याह –
विश्वास-प्रस्तुतिः
उदीर्ण-संसार-दवाशु-शुक्षणिं
क्षणेन निर्वाप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्-चरणारुणाम्बुज-
द्वयानुरागामृत-सिन्धु-शीकरः ॥ २९ ॥+++(5)+++
MS Rajajee (En)
Just a drop from the nectar-ocean of love to Your feet immediately extinguishes the blazing conflagration called “samsara”. Thereafter, it bestows supreme bliss. “Samsara” has been referred to as a burning conflagration or what is called “davagni” (“dava asu sukshanim”). Fire is put out by water. Hence, the love bestowed on the feet of the Lord is compared to an ocean and is referred to as “amritasindhu”. As it is a nectar-ocean, an entire ocean is not required. Just a drop (“sikarah”) will do. Just as quantities of water are not required to put out the fire, much time is also not required. The conflagration can be put down in an instant (“kshanena”). After the conflagration put out, there is supreme bliss.
One may, with advantage, refer to Sloka 23 of Mukunda mala. Says Kulasekhara, “The holy formula of Sri Krishna is an unparalleled mantra to cut off everything hostile to one’s good. It is the sum total of the mantras consisting of the sacred Upanishadic statements. It is the mantra which rescues one from “samsara”. It is the mantra that expels the accumulated darkness. It is the only mantra for the attainment of complete Lordship (freedom and mastery). It is the mantra that completely delivers those who are bitten by the snake of addiction to passions. O my tongue, always chant this mantra so that you may attain the fruition of your life.”
मूलम्
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥ २९ ॥
वेङ्कटनाथार्यः
उदीर्णेति ॥ उदीर्णः नित्यमप्यात्मानमसत्कल्पं कर्तुमनुपरमेण जाज्वल्यमान इत्यर्थः । संसारः कर्मिणः पुरुषस्य पूर्वपूर्वदेहप्रहाणेनोत्तरोत्तरदेहैरेकीकृत्याविच्छिन्नसंसरणरूपावस्थाप्रवाहः । दवाग्नित्वरूपणेन तापत्रयप्रचुरतया दुस्सहतमत्वम् अन्यैरनुपशमनीयत्वं च व्यज्यते । आर्तिपौष्कल्यवतां प्रपन्नानामविलम्बेन सर्वानिष्टप्रशमनमभिप्रेत्याह – क्षणेन निर्वाप्येति । न केवलमनिष्टप्रशमनमात्रमित्याह – परां च निर्वृतिं प्रयच्छतीति । निर्वृतिः – सुखम् । अत्र संभवन्त्या निर्वृतेः मुक्तानुभवसाम्यम्, मुक्तिदशायां परिपूर्णानुभवरूपत्वं चाभिप्रेत्य परामिति विशेषितम् । त्वच्छब्देन – “एष ह्येवानन्दयाति” (तै. अैन), “रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति” (आनन्द.) इत्याम्नातमाकारद्वयमभिप्रैति । सूत्रितं च – “तद्धेतुव्यपदेशाच्च” (ब्र. सू.), “अस्मिन्नस्य च तद्योगं शास्ति” (ब्र. सू. १-१-२०) इति । चरणस्यारुणाम्बुजत्वरूपणेन विग्रहस्य श्यामतया परभागशोभा व्यज्यते । अन्योन्यसन्निकर्षजनितशोभयाऽप्यनुरागातिशयहेतुत्वमभिप्रेत्य द्वयोपादानम् । अनुरागः “नाथ! योनिसहस्रेषु या प्रीतिरविवेकिनाम्” इत्यादिनिदर्शिता विषयस्वभावनिबन्धना निरतिशयप्रीतिः । अमृतसिन्धुत्वरूपणेन सञ्जीवनत्वं स्वयंप्रयोजनत्वमक्षय्यत्वं च व्यज्यते । भाग्यविशेषवशात् भगवति निरुपाधिकभोग्यताविर्भावेन स्वयंप्रयोजनभक्तिलेशोऽपि परमभक्तिदशां प्राप्य नित्यकैङ्कर्यपर्यन्तः स्यादित्यभिप्रायेण शीकरशब्दः ॥ २९ ॥