नाथमुनिः
वेङ्कतनाथार्यः - सङ्गतिः
मङ्गलाचरणत्वेन
ख्याता गुरु-नमस्-कृतिः ।
स्मृत्य्-आचारानुसारेण
स्तोत्रारम्भे विधीयते ॥ ६ ॥
नमस्-कारोऽत्र विज्ञेयः
प्रणिपात-पुरस्सरः ।
आचार्याद् अन्यतो ज्ञेया
या केवल-नमस्-क्रिया ॥ ७ ॥
प्रमाणमिह विज्ञेयं
मैत्रेयाचरणं सताम् ।
“मैत्रेयः परिपप्रच्छ
प्रणिपत्याभिवाद्य च ॥ (वि. पु. १.१.१)” ॥ ८ ॥
इति ।
प्रणिपातश् च साष्टाङ्गप्रणामः ।
प्रणाम-लक्षणं च भाष्यकारैर् एव नित्यानुष्ठान-लक्षण-संग्रहे प्रदर्शितम्
“मनोबुद्ध्य्-अभिमानेन
सह न्यस्य धरातले ।
कूर्मवच् चतुरः पादान्
शिरस् तत्रैव पञ्चमम् ॥
(श्रीसात्त्वते २.१८७)”
इति । नित्यानुष्ठानाधिकारिणः परमैकान्तिनो भगवत्-कैङ्कर्यैक-रतित्वात्
प्रपन्नाधिकारिण एव,
उपासकानाम् उपाय-भक्ताव् अप्य् एतद् अनुष्ठानम् उपयुज्यत
इति विभागः ॥
तत्रेदम् आगतं स्वस्य
सदाचार्येक्षणादिकम् ।
यत्-संबन्धाद् अमुं नाथ-
मुनिं प्रणमति त्रिभिः ॥ ९ ॥
उक्तं च
“आचार्य-प्राचार्य-सन्निपाते प्राचार्यायोपसंगृह्योपसञ्जिघृक्षेद् आचार्यम् ।
प्रतिषेधेद् इतरो लुप्यते पूजा चास्य सकाशे (आप. धर्म. १.२.८, १९-२१)”
इति प्राचार्य-वन्दन-प्राधान्यम् ।
अत्र पुनः स्वाचार्य-वन्दन-प्रसङ्गे
तत्-सन्निधौ स्वाचार्यैर् निषेधाद् एव
स्वाचार्य-वन्दन-श्लोक-निर्माणाभाव
इति सुसङ्गतम् एतत् ॥+++(4)+++
भगवद्-भक्ति-तत्-स्ने(तास्ने)हौ
लोकानुग्रह इत्य् अमी ।
प्राधान्येन प्रकाश्यन्ते
तत् स्वभावास् त्रिषु क्रमात् ॥ १० ॥
वैराग्य–पर-भक्त्य्-आदेस्
तत्त्व-ज्ञानं प्रसाधकम् ।
इति ज्ञापयितुं तस्य
त्रिषु पद्येषु संग्रहः ॥ ११ ॥
तत्रापि पर्व-भेदेन
ज्ञान-भक्त्योः परस्परम् ।
हेतु-कार्यत्वयोर् ज्ञप्त्यै
द्विधाऽत्र स्थापितः क्रमः ॥ १२ ॥
गुरोर् ज्ञानादि-संपत्तिस्
तस्यास् सर्वातिशायिता ।
लोकोपकारिता ऽप्य् उक्तेत्य्
अतो न पुनर्-उक्तता ॥ १३ ॥
करण-त्रय-संबन्ध-
प्रतिबन्ध-प्रशान्तये ।
त्रि-वारं मङ्गलाचार
इति केचित् प्रचक्षते ॥ १४ ॥
अन्ये मङ्गलभूयस्त्व-
सिद्ध्यै मङ्गल-कर्मणाम् ।
क्रिया-समभिहारोऽयम्
इति साफल्यम् अभ्यधुः ॥ १५ ॥
इत्थम् एवं विभाव्यं तद्
उभयं भव्य-सिद्धये ।
पराशर-नमस्-कारो
वकुलाभरणानतिः ॥ १६ ॥
सर्वाण्य् एतानि भागवत-वन्दनानि
भगवद्-वन्दननान्तरीयकतयाऽनुष्ठीयन्ते -
कृत्स्नस्यापि प्रबन्ध-निर्माणस्य भगवद्-अभिवन्दन-रूपत्वाद् इति ॥
भगवद्वन्दनं स्वाद्यं
गुरुवन्दन-पूर्वकम् ।
क्षीरं शर्करया युक्तं
स्वदते हि विशेषतः ॥ १७ ॥
इह तावत् “आचार्यदेवो भव (तै. उ. शि. ११)” इति तैत्तिरीयाः । “आचार्यवान् पुरुषो वेद (छा. उ. ६.१४.२)” इति छन्दोगाः । “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते (ऽ) कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥” इति कठाः । रहस्याम्नाये तु “यथा भगवत्येवं वक्तरि भक्तिः” इति । अमानित्वादीन् सम्यग्ज्ञानहेतून् प्रक्रम्य गीयते च “आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः (१३.७)” इति । आचार्यप्रसादस्य च सर्वसिद्धिहेतुत्वं बोधायनीये पुराणसारसमुच्चये प्रोक्तम् “देवताया गुरोश्चापि मन्त्रस्यापि प्रकीर्तनात् । ऐहिकामुष्मिकी सिद्धिर्द्विजस्यास्ते न संशयः ॥” इति । सिद्धिरिह ज्ञानादिसमस्तापेक्षितलाभः । उक्तं हि जयाख्यसंहितायाम् (१.६३) “यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान्कारुण्याच्छास्त्रपाणिना ॥ तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ॥” इति । एवं “देवमिवाचार्यमुपासीत (आप. धर्म. १.६.१३)”, “नम आचार्येभ्यः (छान्दोग्योपनिषत्)” इति ॥ “आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते (वराहपुराणे)”, “मन्त्रे तद्देवतायां च तथा मन्त्रप्रदे गुरौ । त्रिषु भक्तिस्सदा कार्या सा हि प्रथमसाधनम् ॥ (विष्णुतत्त्वे)”, “मन्त्रनाथं गुरुं मन्त्रं समत्वेनाभिपूजयेत्”, “चक्षुर्गम्यं गुरुं त्यक्त्वा शास्त्रगम्यं तु यस्स्मरेत् । करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति ॥ (विहगेश्वरसंहितायाम्)”, “सुलभं तु गुरुं त्यक्त्वा दुर्लभं य उपासते । बद्धं त्यक्त्वा धनं मूढो गुप्तमन्वेषते क्षितौ ॥ (श्रीसात्त्वते)” इत्यादि वचनशतमिह द्रष्टव्यम् । “स चाऽऽचार्यवंशो ज्ञेयो भवत्याचार्याणामसावसावित्याभगवत्तः (रहस्याम्नाये)” इत्याम्नानात् प्राचार्यभजनमपि कर्तव्यम्, तत्स्वाचार्यस्याप्यधिकं प्रीणनम्, अतोऽत्र गुरोरपि गुरुं नाथमुनिं प्रणमति –
विश्वास-प्रस्तुतिः
नमोऽचिन्त्याद्भुताक्लिष्ट-
ज्ञान-वैराग्य-राशये ।
नाथाय मुनये ऽगाध-
भगवद्-भक्ति-सिन्धवे ॥ १॥
MS Rajajee (En)
“Obeisance to Saint Nathamuni, whose devotion is like an ocean, whose depth cannot be measured (who is an unfathomable ocean of divine love) who is the embodiment of knowledge and renunciation, which are marvellous, and have been so easily acquired but are beyond our comprehension.”
Sri Yamunacharya is offering obeisance to his grandfather Sri Nathamuni. In the introduction, we have seen who is Nathamuni. He is the person who weaned away Sri Yamuna to the spiritual path. What sort of a person is Nathamuni? This sloka explains his knowledge is not like that of others; his ‘vairagya’ (renunciation) is not like that of others; his devotion is not like that of others. they are all “achintya”-beyond one’s comprehension. They are marvellous (‘adbhuta’). They are “aklishta” easily acquired i.e., innate. Sages like Vyasa, Parasara and others also had knowledge and renunciation. But, they were acquired through severe penance. In the case of Nathamuni, (as in the case of Alwars), they were conferred by the Lord himself and therefore acquired with ease.
Sri Nathamuni is like a deep ocean of divine love (“agadha bhagavad bhakti sindhave”). It is not possible to so easily assess the depth of the ocean. It is not possible to disturb or agitate the ocean. The devotion of Sri Nathamuni is of the same nature. It is possible to glean two meanings from this sloka. One may say that he was an ocean as far as devotion to the Lord is concerned or one can say that he had within him, the ocean called divine love. It 6 Sri Yamunacharya’s may be mentioned that devotion (divine love) has been separately referred to, so as to emphasise that devotion is the product of jnana and vairagya.
This is precisely what the Lord had said in the Srimad Bhagavad Gita (Chapter 12). The Lord had explained the path of knowledge and the path of devotion to the manifest and to the unmanifest. Arjuna has a doubt. He asks the Lord “Those devotees, whoever integrated, those who meditate on you and those again, who meditate on the Imperishable and Unmanifest - which of these have, greater knowledge of Yoga? The Lord replies “Those, who, ever integrated with Me and possessed of supreme faith, worship Me, focussing their minds on Me - these are considered by Me the highest among the Yogins”.
मूलम्
नमोऽचिन्त्याद्भूताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ १ ॥
वेङ्कटनाथार्यः
नमोऽचिन्त्येति ॥ यद्यप्यत्र गुरुपङ्क्तिः स्वयमभिवन्द्यते, तथाऽपि परप्रतिबोधनार्थं प्रबन्धमुखेनोपकर्तॄणामेवात्र ग्रन्थे निवेशः । अत्र नमश्शब्दः प्रह्वीभावपरः आत्मनिवेदनपरो वा, स तु प्रणिपतनपूर्वकम् इत्युक्तम्, “दण्डवत्प्रणमेद्भूमौ निर्लज्जो गुरुसन्निधौ । शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ (विहगेश्वरसंहिता)” इति विधानात् । नमसश्चात्मनिवेदनपरत्वमीश्वरसंहितायां मन्त्रराजपदस्तोत्रे (११) प्रोक्तम् “नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । मुक्तदुःखोऽखिलान्कामानश्नुते तं नमाम्यहम् ॥” इति । “गुणैर्दास्यमुपागतः (रामा. कि. ४.१२)” इति चाभिप्रायेणात्र गुरोर्ज्ञानादिगुणगणोक्तिः । ज्ञानमिह “सा विद्या या विमुक्तये (वि. पु. १.१९.४१)”, “संज्ञायते येन तदस्तदोषम् (वि. पु. ६.५.८७)” इत्यादिषूक्तमपवर्गोपयुक्तं परस्वरूपरूपादिज्ञानम् । ईदृशज्ञानवानेव गुरुराश्रयणीयः “भिन्ननावाश्रितस्तब्धो य(त)था पारं न गच्छति । ज्ञानहीनं गुरुं प्राप्य कुतो मोक्षमवाप्नुयात् ॥ (सात्त्वतसंहितायाम्)” इति व्यतिरेकनिन्दनात् । वैराग्यम् – अल्पास्थिरत्वादिदोषविदूषितेषु स्वर्गस्वाराज्यादिषु स्वात्मानुभवमात्रे च निस्स्पृहत्वम् । अचिन्त्यत्वादित्रिकं च द्वन्द्वात् पूर्वत्वात् प्रत्येकमन्वेति । अस्मदादिभिः स्वरूपतः कारणतो विशेषतो विषयतश्च परिच्छेत्तुमशक्यत्वमिहाचिन्त्यत्वम्; कुतर्कैरपह्नोतुमशक्यत्वं वा । अद्भुतत्वमवगतांशस्यापि लोकोत्तरतया आश्चर्ययुक्तत्वम् । अक्लिष्टत्वं “स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः (भार. शान्ति. ३४९.७१)” इतिवत् प्राचीनसुकृतविशेषजनितेन परावरगुरुप्रसादेनायत्नलब्धत्वम्; विरुद्धधर्मसंमर्दरहितत्वं वा । ज्ञानादेरक्षयत्वव्यञ्जनार्थमिह तदाश्रये राशिशब्दः । अचिन्त्यत्वादिविशिष्टौ ज्ञानवैराग्यराशी यस्येति बहुव्रीहिर्वा । तदा तु ज्ञानवैराग्ययोः प्रत्येकं विषयानन्त्येन भेदमनुसन्धाय राशित्वकॢप्तिः । नाथशब्देन – “नामोक्तावर्धोक्तिरपि पूर्णोक्तिकार्यकरी”ति न्यायेन श्रीरङ्गनाथ इति नामधेयं स्वापेक्षितसिद्ध्यै याचनीयत्वं स्वामित्वं च विवक्षितम् । स्वाभाविकं भगवदनन्यार्हशेषत्वं तदिष्टविनियोगसिद्धस्याऽऽचार्यशेषत्वस्य न विरुद्धम् । पापकृतमेवान्यशेषत्वं परिहार्यम् । “नाथाय नाथमुनये (स्तो. २)” इति वक्ष्यमाणेऽप्येवं विवक्षा ग्राह्या । मुनये भक्तिप्रेरिततया प्रकृष्टमननशीलाय । उभयलिङ्गत्ववाचिना भगवच्छब्देन सर्वशेषिणः परभक्तियोग्यत्वं व्यज्यते । महनीयविषये प्रीतिर्भक्तिः । एतद्भक्तिस्सनकादिभिरप्यनुष्ठिता । अशक्यतलस्पर्शत्वमगाधत्वं क्षोभणार्थिभिरक्षोभ्यत्वं च । भक्तेरपारत्वाशोष्यत्वादिख्यापनाय तदाश्रये सिन्धुत्वोक्तिः । भक्तिं वा सिन्धुत्वेन रूपयित्वा बहुव्रीहिः । अत्र मुमुक्षूणां चित्तपरिष्कारभूतेषु बहुषु गुणेषु प्राधान्यतस्त्रय उपात्तः, तत्रापि प्रधानतमत्वव्यक्त्यै भक्तेः पृथगुक्तिः ॥१॥
वेङ्कतनाथार्यः - सङ्गतिः
एवं भगवत्परत्वानुभवजनितभक्तिपरिपूर्णं प्रणम्य
तम् एवावतार-हेतु-भूत–सौलभ्य-गुण-विशेषानुभव-जनित-स्नेह-पूर्णं
“नमस्तस्मै नमस्तस्मै (वि. पु. १.१९.७९)”,
“नमो नमस्तेऽस्तु सहस्रकृत्वः (गीता. ११.३९)”
इतिवद् आदरातिशयात् पुनर्नमस्यति –
विश्वास-प्रस्तुतिः
तस्मै नमो मधुजिद्-अङ्घ्रि-सरो-ज-तत्त्व-
ज्ञानानुराग-महिमातिशयान्त-सीम्ने ।
नाथाय नाथमुनये ऽत्र परत्र चापि
नित्यं यदीय-चरणौ शरणं मदीयम् ॥ २॥
MS Rajajee (En)
Obeisance to that master, Nathamuni, whose feet are my eternal refuge in this and the next world and who represents the farthest landmark of that surpassing greatness which consists of the true knowledge of the lotus feet of the vanquisher of Madhu and intense love for them.
In the previous sloka, Sri Alavandar had paid obeisance to Sri Nathamuni. Since in Vaishnava Sampradaya, the principal acharya after Nammalwar is Sri Nathamuni, Yamuna continues to offer salutations to him. The lotus feet of Nathamuni are the refuge in this world and the next world. Sri Nathamuni has a perfect spiritual knowledge about the Lord and hence is himself a “complete” person. He had personally experienced the love and 7 affection of the Lord. The Lord had come to reside in him. Hence, Sri Alavandar is paying obeisance, both before and after obtaining liberation.
A doubt may arise as to the appropriateness of paying obeisance to the feet of the Acharya, both before and after obtaining liberation (“atra paratra chapi”). Should not the refuge, after obtaining the liberation, be with the Lord? The answer is two fold. Firstly, it is common to refer to those who have obtained liberation from this world as persons who have attained the feet of the Acharya. Secondly, the Bhagavathas are to be worshipped in preference to the Bhagavan.
मूलम्
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥ २ ॥
वेङ्कटनाथार्यः
तस्मै नम इति ॥ तस्मै – “स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः (आगमप्रामाण्ये)” इति सुप्रसिद्धाय । मधुजिच्छब्दः प्रादुर्भावविशेषकृतदुष्कृद्विनाशनं, हिरण्यगर्भादिसाधुपरित्राणं, तद्वदस्मदादिष्वपि रजस्तमःप्रभृतिसर्वदोषनिरासार्हत्वं, वेदाहरणवृत्तान्तेन धर्मसंस्थापनं च सूचयति । अङ्घ्रिशब्देन शुभाश्रयविग्रहद्वाराऽनुरागातिशयहेतुत्वं, तत्रापि शेषभूतस्योद्देश्यतमांशश्च प्रदर्श्यते । सरोजत्वरूपणेन मङ्गलत्वं भोग्यत्वं च व्यञ्जितम् । भगवदङ्घ्रिबलेन मधुर्जितः, अयं तु तद्भोग्यतातिशयेन जित इति भावः । तद्विषयं तत्त्वज्ञानं च तत्पदद्वयमेव मुमुक्षूणां सिद्धोपायः प्राप्यं चेति याथार्थ्यबुद्धिः । “अजायमानो बहुधा विजायते, तस्य धीराः परिजानन्ति योनिम् (उत्तरनारायणानुवाके)”, “अजोऽपि सन्नव्ययात्मा (गीता ४.६)”, “जन्म कर्म च मे दिव्यम् (गीता ४.९)” इत्यादिषूक्तमवताररहस्यज्ञानं वा । अनुराग इह अवतारप्रकाशितगुणविशेषकृतः सुहृन्मित्रादिष्विव स्नेहः । सेवकस्य स्नेहो भक्तिश्च “स्नेहो मे परमो राजन् त्वयि नित्यं प्रतिष्ठितः । भक्तिश्च नियता वीर! भावो नान्यत्र गच्छति ॥ (रामा. उत्त. ४०.१५)” इत्यत्र संबुद्धिद्वयसूचितसेव्यगुणभेदनिबन्धनतया विभज्योच्येते । ज्ञानानुरागयोर्महिमा महत्त्वं, तस्यातिशयः प्रकर्षः, तस्यान्तसीम्ने – परमावधिभूताय । (येऽन्ये) अन्ये योगिनः एतदपेक्षयाऽर्वाचीनाः, तेषां ज्ञानादिकं हि समुद्रे गोष्पदमस्तीतिवदेतस्य ज्ञानादावन्तर्गतं भवतीति भावः । भगवदनुरागातिशयोक्त्या तदितरविषयवैराग्यातिशयोऽप्यर्थसिद्धः । अत्र मुक्तेः पूर्वावस्थायां ज्ञानभक्त्याद्युत्पादनमुखेन शरणत्वम्, परत्र तु मुक्तिदशायां सूरिवच्छेषित्वेन विशिष्टप्राप्यान्तर्भावात् तत्रापि प्राचीनमहोपकारसाक्षात्कारेण विशेषप्रतिपत्तिविषयतयै (तया वे) वेत्याशयः । अपिचेतिवत् चापीत्यव्ययमनतिरिक्तार्थम् । यद्वा, परत्र शरणत्वासंभवप्रतिक्षेपार्थोऽयमपिशब्दः । नित्यं – यावदात्मभावि । यदीयचरणौ – यस्य चरणावित्यर्थः । शरणमिति यथासंभवमुपायत्वप्राप्यत्वरक्षितृत्वादीनां तन्त्रेणोपादानम् । अत्र परत्र चेत्युभाभ्यामन्वयात् । उक्तं च गुरोरपि प्राप्यप्रापकभावेन संश्रयणीयत्वं सात्त्वततन्त्रे “गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव परः कामो गुरुरेव परं धनम् । यस्मात्सदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥” इति । अन्यत्र गुरुं प्रस्तुत्य “अर्चनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा । ध्यायेज्जपेन्नमेद्भक्त्या भजेदभ्यर्चयेन्मुदा ॥ उपायोपेयभावेन तमेव शरणं व्रजेत् ॥” इति ॥ २ ॥
वेङ्कतनाथार्यः - सङ्गतिः
पुनरपि तमेव स्वनिष्ठा-प्रधा(दा)न-लक्षण-परमौदार्य-विशिष्टं भावयन्
“पुनश्च भूयोऽपि नमो नमस्ते (गीता ११.३९) इति न्यायेन प्रणमति –
विश्वास-प्रस्तुतिः
भूयो नमो ऽपरिमिताच्युत-भक्ति-तत्त्व-
ज्ञानामृताब्धि-परिवाह-शुभैर् वचोभिः ।
लोके ऽवतीर्ण-परमार्थ-समग्र-भक्ति-
योगाय नाथ-मुनये यमिनां वराय ॥ ३॥
MS Rajajee (En)
Obeisance again to Nathamuni, the best among those who know and who practise divine love, by whose holy precepts, which are the overflow of the boundless nectarine divine love, the world has benefited.
Sri Alavandar is paying obeisance once again to the crown jewel among the sages (“yaminaam varaaya”). Why? Because, Sri Nathamuni, by his precepts (“Srisuktis) made Bhakti Yoga to shine in this world. These precepts are like the torrential flow of the ocean of divine love, a love which has no limits. A tank, which is full, has the sluice opened so that the bunds may not be breached by the rushing waters. This is called “parivaha”. Thus, by calling the holy precepts as “bhakti parivaha”, we are being reminded that if we do not imbibe this divine love and if we do not practise it, 2 8 Sri Yamunacharya’s then this body which is compared to a tank will be breached (that is, destroyed).
It is believed that the precepts of Nathamuni referred to here are (perhaps) what were recorded by Nathamuni in his great work “Nyaya Tattva” or the Yogarahasya which have become extinct today. (Please see the Introduction, wherein a reference has been made to the works of Sri Yamunacharya). In those days, the works must have been current and Yamuna has made a reference to them.
मूलम्
भूयो नमोऽपरिमिताच्युतभक्तित्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ॥ ३ ॥
वेङ्कटनाथार्यः
भूय इति ॥ स्तवप्रियस्य भगवतः स्वविषयस्तुतौ योजयितुमिच्छतः स्तोत्रं तावदास्ताम्, ततोऽप्यसाधारण्येनोपकारकतमो नाथमुनिरेव मे नन्तव्य इति भावः । आश्रितसंरक्षणव्रतान्न च्युत इत्यच्युतः; तदभिप्रायेण हि स्वयमुक्तं भगवता “सत्त्वान्न च्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्” इति । सत्त्वमिह व्यवसायः “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इति नानार्थपाठात् । “न कर्मणा वर्धते नो कनीयान् (तै. आर.)”, “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् (बृ. उप. ६.४.२२)” इत्यादिषूक्तं ज्ञानबलैश्वर्यादेरप्रच्युतत्वं वा विवक्षितम् । “यस्मात्प्राप्ता न च्यवन्ते सोऽच्युतः” इत्यपि निरुच्यते । अत्र च्युतो यस्मान्नास्ति सोऽच्युत इति बहुव्रीहिः । भक्तिश्च तत्त्वज्ञानं चेति द्वन्द्वः । तत्त्वज्ञानमनारोपिताकारेण बुद्धिः । भक्त्यादियोगादस्य वचसां विस्रम्भणीयत्वं सूचितम् । अपरिमितत्वमिह भक्तिज्ञानयोर्विशेषणम् । तयोरमृताब्धित्वरूपणं सञ्जीवनत्वस्वयंप्रयोजनत्वाक्षयत्वादिव्यञ्जनार्थम् । परिवाहः तटाकादिरक्षणार्थमधिकजलापगमनप्रवाहः, तद्वच्छुभैः; प्रसन्नमधुरशी(त)लत्वादिस्वभावैरित्यर्थः । अत्रानुक्त्वा स्थातुमशक्यत्वं प्रेरकान्तरप्रयोजनान्तरनैरपेक्ष्यं च दृष्टान्तेन व्यज्यते । वचोभिः परतत्त्वपरमहितपरमपुरुषार्थविषयैः न्यायतत्त्वादिप्रबन्धनिवेशितैरन्यैश्च वाक्यैः । “संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च (रामा. आ. १६-३९)”, “संस्कारक्रमसंपन्नाम् (रामा. कि. ३.३३)” इत्यादिप्रकारोऽत्रानुमन्धेयः । लोके – सात्त्विके जने; यद्वा, भगवद्विमुखाधिष्ठिते भुवने; अत्यद्भुतं ह्येतदिति भावः । यथा परमपदनिलयो भगवानत्रावतरति, तथा नाथमुनौ स्थितो भक्तियोगस्तदाश्रितेषु मत्पर्यन्तेष्वित्यभिप्रायेणावतीर्णत्वोक्तिः । पूर्वं दुरारोहसीमावस्थितत्वं च सूचितम् । परमार्थशब्दः स्वयंप्रयोजनत्वमकैतवत्वं वा वक्ति । फलं प्रत्यव्यवहितसाधनत्वज्ञापनाय समग्रत्वोक्तिः । भक्तिश्चासौ योगश्चेति भक्तियोगः, प्रीतिरूपापन्नध्यानमुपायो वा “योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु (अमर. ३.३.२२)” इति नैघण्टुकाः । भक्तिशब्द इह वचःपरिवाहमूलतया सहोक्तं तत्त्वज्ञानमुपलक्षयति; भक्तियोगस्यापि तत्त्वज्ञानात्मकत्वसूचनार्थं वा पृथगत्रानुक्तिः । नाथमुनिशब्दस्य प्रतिश्लोकं निबन्धनात् “गुरुपादाम्बुजं ध्यायेद्गुरुनाम जपेत्सदा । गुरोर्वार्तां कथां चैव गुरोरन्यं न भावयेत् ॥” इत्यादिकमनुसन्धेयम् । यमिनां – भगवदेकनियतकरणत्रयवृत्तीनां, वराय – वरणीयाय, श्रेष्ठाय वा । एतत्तु भगवद्विषययोगारूढतया प्राप्तम्, यद्गीयते “योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ (गीता. ६.४७)” इति ॥ ३ ॥
तुष्टूषन्नपि लक्ष्मीशमाचार्यगुणयन्त्रितः । क्रमात्स्वस्य स्तुतौ योक्तुं प्रभुणाऽन्यत्र कृष्यते ॥ १८ ॥
पराशरः
वेङ्कतनाथार्यः - सङ्गतिः
अत्र हि प्रबन्धनिर्माणद्वारा परम्परयोपकारकान् नमश् चिकीर्षुस्
तेष्व् अपि धर्मशास्त्रकृतां
प्राचुर्येण धर्ममार्गोपबृंहण-प्रधानत्वाद् भारतादिकृतां
मनुष्यत्व-कञ्चुकित–महा-पुरुषानुगुण-
काव्यत्व-कवचितातिगहन-गभार??-वितत-ग्रन्थ-निर्मातृतया
तत्त्व-त्रयादि-विवेकस्य तत्-प्रबन्धेषु कृच्छ्र-साध्यत्वाच्
चानन्य-पराव्यामिश्र–व्यक्त-तात्पर्य–
संक्षिप्त-सात्त्विकोपबृंहण-प्रधानतम-पुराण-निर्माणेनात्यन्तोपकारकं पराशरं प्रणमति –
विश्वास-प्रस्तुतिः
तत्त्वेन यश् चिद्-अचिद्-ईश्वर–तत्-स्वभाव-
भोगापवर्ग–तद्-उपाय-गतीर् उदारः ।
सन्दर्शयन् निरममीत पुराणरत्नं
तस्मै नमो मुनिवराय पराशराय ॥ ४॥
MS Rajajee (En)
Obeisance to Sri Parasara, who wrote the gem among the Puranas, the Vishnu Purana, and who in his large-heartedness explained chit, achit, Isvara (the tattva traya), the Jiva’s worldly enjoyment, liberation, the method of achieving it and the path taken by the Jivas.
In the earlier slokas, Alavandar had paid obeisance to Sri Nathamuni. Here he pays obeisance to Parasara who retold the Vishnu Purana. Among the 18 Maha puranas, it is a gem (“Purana Ratnam”). It states things with clarity and with lustre. The Tattvatraya-chit, achit and Isvara are explained in the Purana.
Why does Sri Yamuna pay obeisance to Parasara? Parasara was the grandson of Vasishta. Due to the enmity between Vasishta and Vishvamitra, Vishvamitra arranged to see that all the one hundred sons of Vasishta were devoured by rakshasas. When Parasara came to know that his father had been killed by a rakshasa, he went about exterminating all the rakshasas. Vasishta interceded 9 and told his grandson that the rakshasas, in general, had not killed his father, that he was showing excessive wrath and that it was only the foolish who displayed their passions in this manner. He advised Parasara that anger eats into one’s asceticism and that pious people should show asceticism. Parasara accepted the advice and Vasishta was gratified. At that time, Pulastya, father of the rakshasas arrived there and blessed Parasara that he would master all the branches of knowledge. Since Parasara had not killed all of his (Pulastya’s) sons he conferred a boon. He said that he would be the author of the Purana and Samhitas. Thus, when Maitreya asked Parasara to tell him about the creation of the Universe, Parasara replied that he would completely retell the Purana, that the Universe had sprung from Vishnu, that the creation, maintenance, and destruction of the Universe is done by Vishnu, as Vishnu is the Universe. This is the reason why, Yamuna pays obeisance to Parasara.
मूलम्
तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।
संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ ४ ॥
वेङ्कटनाथार्यः
तत्त्वेनेति ॥ तत्त्वमिहाऽनारोपितं रूपम्; यथाऽवस्थिताकारेणेत्यर्थः । यच्छब्देन प्रजापतिनप्ता वसिष्ठपुत्रः “स होवाच व्यासः पाराशर्यः (तै. आर. १.९)” इति व्यासस्याप्तत्वाय तत्पितृत्वेन श्रुत्युपात्तः पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवत्तया प्रसिद्ध इति व्यज्यते । अत्र चिदचिच्छब्दौ गोबलीवर्दन्यायात् चेतनाचेतनविशेषपरौ, चेतनविशेषाः बद्धमुक्तादयः, अचेतनविशेषास्त्रिगुणकालादयः । ईश्वर इह स्वेतरसर्वनियन्ता स्वयमन्यैस्स्वसङ्कल्पमन्तरेणानियाम्यः, पुरुषोत्तमः । अत्र स्वस्वरूपावगतिपूर्वकत्याज्योपादेयविभागार्थं प्रकृत्यात्मभ्रमस्वतन्त्रात्मभ्रमनिवृत्त्यर्थं च त्रय्यन्तोक्तभोक्तृभोग्यनियन्तृक्रमो निबद्धः । तत्स्वभावाः – तेषां त्रयाणां साधर्म्यवैधर्म्यरूपाः धर्माः । तत्र कारणत्वादयस्साधर्म्यरूपाः, परतन्त्रत्वभोक्तृत्वपराक्त्वसर्वशरीरत्वादयो वैधर्म्यरूपाः ।
भोग इह स्वर्गस्वाराज्यादिसुखानुभवः, स्वात्मानन्दानुभवश्च । तस्मिन् मुक्तिशब्दं केचिदुपचरन्ति । न हि नित्यं किञ्चित् स्वात्मानन्दमात्रानुभवरूपं कैवल्यमस्ति “चतुर्विधा मम जना भक्ता एव हि ते श्रुताः । तेषामेकान्तिनः श्रेष्ठाः ते चैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् । ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ॥ सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ॥ (भार. शान्ति. ३५०.३३,३४,३५)” इति विशेषणात् । किञ्च,
सर्वकर्मविनिर्मोक्षे मुक्तिभेदः कथं भवेत् । कर्मैकदेशयोगे तु न मुक्तिर्भुक्तिभेदवत् ॥ १९ ॥
न च कैवल्यवाङ्मात्रात् मुक्तिरेषेति युज्यते । स्वमात्रभुक्तितात्पर्यात्तत्र तस्य प्रयोगतः ॥ २० ॥
आत्ममात्रानुभवसक्तस्य तदुपायानुष्ठायिनः का गतिरिति चेत्, ब्रह्मविद्यानुप्रवेशा(शे)नामपवर्गविश्रान्तौ तदभावे च तत्तदनुगुणेति भाष्यादिषु द्रष्टव्यम् । ऐश्वर्याद्यर्थिनां तत्तत्प्रदर्शनमप्यौदार्यकृत्यमेव । अपवर्गः – सर्वकर्मात्यन्तोच्छेदेन निश्शेषाविद्यानिवृत्तिलक्षणपरिपूर्णब्रह्मानुभवः; स चाकर्माधीनस्वाम्यभिमतस्वच्छन्दशेषवृत्तिपर्यन्तः । ईदृशानुभवे “यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात् (खननात्) क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ (विष्णुधर्मे १०४.५५,५६)” इत्यादिकमनुसन्धेयम् ।
तदुपायाः – तत्तदधिकारिसाध्याः “प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् (भार. शा. २१९.४)”, “निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ (भार. शा. २१९.२)” इति विभज्योक्ताः । सिद्धिरूपाश्च देवतादयस्सर्वसाधारणाः; प्रधानतमस्सिद्धोपायस्तु यथार्हं तथाविधधर्मद्वयवशीकरणीयतया नित्यसिद्धः पुरुषोत्तम एव । गतावपि तच्छब्दोऽन्वेति, तत्संबन्धिनी गतिरर्चिरादिका धूमादिका च । यद्वा सात्त्विकराजसतामसादिभिन्ना । तथा च गीयते “ऊर्ध्वं गच्छन्ति सत्त्वस्थाः (गीता १४.१८)” इत्यादि । गतिपर्यन्तानामष्टानामिह द्वन्द्व उचितः, गतयः सप्तानां प्रकारा इति केचित् । उक्तैरेवानुक्तं विरोध्यादिकमप्यत्रोपलक्ष्यते । उदारः – मैत्रेयादीनामस्मदादीनां च प्रत्युपकारमनपेक्ष्य तत्त्वज्ञनमहानिधिप्रदाता । येन चैवमाशास्यते पुराणान्ते “प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम् (वि. पु. ६.८.६४)” इति । अत्र “अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥”, “ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छक्तित आदरात् ॥ (शाण्डिल्यस्मृतिः १.११७)”, “विद्यादानं ततोऽधिकम्” इत्यादिकमनुसन्धेयम् । संदर्शयन् – सम्यग्दर्शयन् । कण्ठोक्त्याऽर्थसिद्ध्या च विशदं प्रकाशयितुमित्यर्थः । “लक्षणहेत्वोः क्रियायाः (पा. सू. ३.२.१२६)” इति शतृप्रत्ययः । “चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्” इति न्यायाद्दर्शनशब्द औपचारिकः । तदभिप्रायेण हि श्रूयते “तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः (छा. उ. ५.२४.३)” इति । तत्त्वेन संदर्शयन् इत्यनेन “प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् (मु. उ. १.२.१२)” इति श्रुत्युक्तं सूच्यते । एवं सर्ववेदसारभूत(श्रुत)सकलार्थोपबृंहणपरत्वं ख्यापितम् ।
अत्र जीवस्वरूपस्वभावतदवान्तरभेदाः “पिण्डः पृथग्यतः पुंसः (वि. पु. २.१३.८५)”, “पुमान् न देवो न नरः (वि. पु. २.१६.९८)”, “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः (वि. पु. ६.७.२२)”, “आत्मा शुद्धोऽक्षरश्शान्तो निर्गणः प्रकृतेः परः (वि. पु. २.१३.७१)”, “अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः (वि. पु. १.६.३९)”, “यद्वै पश्यन्ति सूरयः (वि. पु. १.६.३९)” इत्यादिभिरुक्ताः । अचित्स्वरूपस्वभावतद्भेदास्तु “त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । व्यक्ताव्यक्ते तथैवान्ये रूपे कालास्तथा परः ॥ (वि. पु.)”, “कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः (वि. पु. ४.१.८४)” इत्यादिभिर्दर्शिताः । ईश्वरस्वरूपादिकं तु “अविकाराय शुद्धाय (वि. पु. १.२.१)”, “परः पराणां परमः (वि. पु. ६.३.८५)”, “शास्ता विष्णुरशेषस्य (वि. पु.)”, “समस्तकल्याणगुणात्मकोऽसौ (वि. पु. ६.५.८४)”, “आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ (वि. पु. ६.७.३०)”, इत्यादिषु स्पष्टम् । भोगतत्स्थानभोग्यभोगोपकरणादिकं भुवनकोशादिषु प्रपञ्चितम् । “योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् (वि. पु. १.६.३८)” इत्यनेन स्वात्मानुभवपराणां स्थानमप्युक्तम् । सनकादियोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणामपि स्थानं भवतीत्यर्थः । अत्र पूर्वपरवाक्यप्रवृत्तिप्रकारः परामर्शनीयः । स्वधर्ममनुवर्तिनामिति केषांचित्पाठेऽपि योगिन एतेऽर्वाचीनाः, तत्स्थानमपि तथैव “एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानम्….. ॥ (वि. पु. १.६.३९)” इति तदधिकस्य स्थानस्यानन्तरोक्तेः । अपवर्गस्वरूपं “निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ (वि. पु. ६.५.५९)”, “तद्भावभावमापन्नः (वि. पु. ६.७.९५)” इत्यादिभिरुक्तम् । अत्र कर्मकृतवैधर्म्यस्यात्यन्तनिवृत्तिर्विवक्षिता । भोगोपायास्तु ध्रुवादिवृत्तान्तैरुदाहृताः । अपवर्गोपायश्च भक्तियोगसंज्ञः “तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिःस्पृहा । तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते नृप ॥ (वि. पु. ६.७.९१)”, इत्यादिषु सुव्यक्तः । प्रपत्तिस्वरूपं च “तावदार्तिलथा वाञ्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ (वि. पु. १.९.७३)” इत्यादिषूक्तम् । भोगापवर्गार्थगतिश्च तत्तदुपायफलमध्ये यथाश्रुति प्रतिपत्तव्या ।
“पुराणसंहिताकर्ता भवान् वत्स भविष्यति (वि. पु. १.१.३०)” इति वैष्णवलैङ्गयोरुक्तमाह – निरमिमीत पुराणरत्नमिति । न केवलं पूर्वसिद्धप्रबन्धप्रवर्तनमात्रमिति भावः । पुरैव विद्यमानत्वेऽपि संप्रति नवत्वात् पुराणत्वम्; चिरानुभूतत्वेऽपि अपूर्ववन्नित्यानुभाव्यमित्यर्थः । अनादिवैदिकार्थविषयतया विद्यान्तरेभ्यः पुरातनत्वाद्वा पुराणत्वम् । यथोक्तं वायव्ये “प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणोदितम् । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिस्सृताः ॥” इति । नन्वेवं सति पराशरः पुराणरत्नं निरमिमीतेति कथं स्यात्, शैवपुराणे च “ब्रह्मा चैव तु वेदानां पुराणानां प्रदर्शकः” इत्युक्तमिति चेत्, सत्यम् । तथाऽपि तत्रैव प्रत्येकं पुराणसंहिताविशेषप्रणेतारः प्रतिपाद्यन्ते “ब्राह्मं तु ब्रह्मणा प्रोक्तं पाद्मं तेनैव शोभनम् । पराशरेण कथितं वैष्णवं मुनिपुङ्गवाः ॥ शैवं शैलालिना प्रोक्तम्….. ॥” इत्यादि । तथा आग्नेयपुराणे “यद्ब्रह्मकल्पवृत्तान्तमधिकृत्य प्रजापतिः । अकल्पयत्पुराणं तद्ब्राह्ममित्यभिधीयते ॥” इत्यादि । मात्स्येऽपि “वराहकल्पवृत्तान्तमधिकृत्य पराशरः । यत्प्राह धर्मानखिलान् विष्णोस्तद्वैष्णवं विदुः ॥ यत्तददीशानकल्पस्य वृत्तान्तमधिकृत्य च । कल्पितं लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ॥” इत्यादि । “अष्टादशपुराणानां कर्ता सत्यवतीसुतः” इत्येतदपि प्राक्सिद्धसर्वपुराणप्रवर्तनविशेषाद्वा सर्वपुराणसारोद्धारेण “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् (भार. आदि. ६२.५३)” इत्युक्तमहाभारतकरणाद्वा निर्वाह्यम् । अत एव ह्युच्यते “अष्टादश पुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥” इति । एतेन “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहणम् ॥” इति भविष्यन्मात्स्यपुराणयोरुक्तमपि नेतव्यम् । इदं तु पुराणं “सर्गश्च प्रतिसर्गश्च (वायुपुराणे ४.१०)” इत्यादिना पञ्चलक्षणयुक्तम् । तस्य रत्नत्वरूपणेन त्रासरहितत्वस्थिरत्वसुग्रहत्वसुरक्षत्वभोग्यत्वप्रकाशकत्वमङ्गलत्वमहार्घत्वमान्यत्वमाननहेतुत्वादि व्यज्यते ॥
(अत्रासं मानदं रत्नं स्थिरं भोग्यं प्रकाशकम् । महार्घं मङ्गलं मान्यं सुरक्षं सुग्रहं नृणाम् ॥ २१ ॥)
एतस्य च परिग्रहातिशयस्सर्वसंमतः । तस्मै – उक्तप्रकारपरमौदार्यविशिष्टाय “इतिहासपुराणाभ्याम् (मनु. महा. आ. १.२७३)” इत्यादिना मनुप्रतिपादितवेदभयप्रशमनाय । मुनिवराय – परब्रह्ममननशीलेषु श्रेष्ठाय, तैर्वरणीयायेति वा । मुनिभिर्दत्तवराऽसौ तेषामपि प्रत्युपकर्तेति भावः । “पराशरं मुनिवरम् (वि. पु. १.१.१)” इति पुराणारम्भोक्तिसूचकाभ्यां मुनिवरपराशरशब्दाभ्यां स्वपक्षस्थापकत्वं परपक्षप्रतिक्षेपकत्वं च प्रकाश्येते । परान् – बाह्यकुदृष्टीन् प्रमाणतर्कशरैराशृणातीति पराशरः ॥ ४ ॥
शठकोपः
वेङ्कतनाथार्यः - सङ्गतिः
अथ पराशर-प्रबन्धाद् अपि
वेदान्त-रहस्य-वैशद्यातिशय-हेतु-भूतैस्
सद्यः परमात्मनि चित्त-रञ्जकतमैः सर्वोप-जीव्यैर् उपबृंहणैः
मधुर-कवि-प्रभृति-संप्रदाय-परंपरया नाथ-मुनेर् अप्य् उपकर्तारं
काल-विप्रकर्षेऽपि परम-पुरुष-सङ्कल्पात् कदाचित् प्रादुर्भूय
साक्षाद् अपि सर्वोपनिषत्-सारोपदेष्टारं पराङ्कुश-मुनिं
“माता पिता भ्राता (सुबाल. ६)” इत्य्-आद्य्-उपनिषत्-प्रसिद्ध-भगवत्–स्व-भाव–दृष्ट्या प्रणमति –
विश्वास-प्रस्तुतिः
माता पिता युवतयस् तनया विभूतिस्
सर्वं यद् एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः कुल-पतेर् वकुलाभिरामं
श्रीमत्-तद्-अङ्घ्रि-युगलं +++(शठकोपरूपं)+++ प्रणमामि मूर्ध्ना ॥ ५॥
MS Rajajee (En)
I lay my head, in reverence, at the effulgent feet of Nammalvar, the pristine chief of the line of Prapannas, bedecked with the beautiful “vakula” flowers, whose feet are the all in all, the father, the mother, the wife, the son for all my community, those who came before me and for those who will come after me.
As great as the Vishnu Puranam is the Tiruvaymozhi of Nammalvar-the adherents of Dravida Vedas would even rate it higher than Parasara’s work. It contains the essence of the Vedas. While offering salutations to Nammalvar, Yamuna calls him “adyasya nah kulapateh”-he is the primordial head of our family. Yamuna elevates him to the stage of the gotra sages, who head the various families. For all the “prapannas” (who pin their faith solely on God’s spontaneous grace and look upon him as the highest goal as also as the means for attaining that goal), Sri Nammalvar is the shining effulgent head. Who are all the “prapannas”? They are all the Vaishnavas who happened to be born earlier and who are to be born later.
There is also an interpretation, whereunder, the words “adyasya nah kulapateh” are interpreted as referring to the Lord. Since, the feet of the Lord rest on the sathari (Sri Sathagopa), the concluding words “anghri yugalam” refer to Sri Nammalvar. This may also be correct, as there is a reference to “vakula” flowers. Nammalvar is also called as “vakulabharanar”.
Sri Yamuna shows his great humility. It is not just obeisance he is offering. He uses the words “moordhna pranamami”.–I offer my salutations by bowing my head. Any one who surrenders, with all his limbs, will undoubtedly reach God earlier.
मूलम्
माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपनेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ५ ॥
वेङ्कटनाथार्यः
मातेति ॥ उपजीव्यप्रबन्धनिर्माणक्रमादत्र पराशरपराङ्कुशनमस्कारक्रमः । “माता पुत्रस्य भूयांसि कर्माण्यारभते यतः । तस्यां तु शुश्रूषा नित्या पतितायामपि…..”, “आचार्यः श्रेष्ठो गुरूणां मातेत्येके (गौतमधर्मसूत्रे १.२)”, “पितुः शतगुणं माता गौरवेणातिरिच्यते” इत्यादिषु मातुर्गौरवं प्रतिपादितम् । एवं “माता भ्राता पितुः पुत्रो यस्माज्जातः स एव सः ॥” इति पितापि प्रसिद्धगौरवः । युवतयश्च “यत्रानुकूल्यं दम्पत्योः त्रिवर्गः तत्र वर्धते । (मनुस्मृतिः)” इति धर्मार्थकामहेतुतयोक्ताः । तनयाः – संन्दर्शनादिभिराह्लादहेतवः, असमर्थावस्थायां संरक्षकाः, पुन्नाम्नो नरकात्त्रातारः । “अपि स्यात् स कुलेऽस्माकं सर्वभावेन यो हरिम् । प्रयायाच्छरणं विष्णुं देवेशं मधुसूदनम् ॥ (महाभारते)”, “आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातस्स नः सन्तारयिष्यति ॥ (वराहपुराणे)” इत्यादिभिः स्वगुणेन पितृपङ्क्तेरपि निस्तारकाः प्रसिद्धाः । एकस्मिन्नेवास्मिन् बहुभिस्साध्य उपकारस्समुदित इत्यभिप्रायेण बहुवचनम् । विभूतिः – दासभृत्यधनरत्नादिरूपः शेषभूतो नियन्तव्यवर्गः । धारकपोषकादिविभूत्यभावे पूर्वोक्तमखिलं सदप्यसत्समं स्यात् । सर्वम् – अन्यदैहिकामुष्मिकपुरुषार्थतत्साधनादि यत् प्रसिद्धं सात्त्विकसमाजेष्विति भावः । यदेकमेव दृष्टादृष्टरूपं सर्वमुपजीव्यमासीत्, एवंविधमन्यदपेक्षणीयं नास्तीत्यवधारणाभिप्रायः । मातापित्रादिशब्दविवक्षिताः प्रियप्रवर्तकत्वहितप्रवर्तकत्वादयः तत्स्वभावाः तदङ्घ्रावुपचर्यन्ते । नियमेन – सर्वदा, मुक्तावपीत्यर्थः । यद्वा, अवधारणनियमाभ्यामाचार्यस्य सर्वेश्वरादपि तत्प्रसादार्थमतिशयेन सर्वदा बहुमन्तव्यत्वमत्र सूच्यते । ईश्वरकृपा ह्यनादिरप्याचार्यकृपामपेक्षते, लीलारससहचरिता च । आचार्यकृपा तु तन्निग्रहमपि शमयति, अनुग्रहैकरसा च । ईश्वरस्य क्वचिदधोनिनीषाऽपि वर्तते, असाधुकारयितृत्वं च; आचार्यस्य तु सर्वत्रोन्निनीषैव, स साध्वेव कारयति । “आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यपि । स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥ (रहस्यरत्नावली)” इति स्मरणात् । भगवतो दैत्यादिषु विपरीतोपदेशोऽप्यस्ति; अस्य तु सर्वत्र यथार्थवादित्वमेवेत्यादि वैषम्यमनुसन्धेयम् । मदन्वयशब्देन स्वान्विताः पुरुषा गृह्यन्ते, विद्यया जन्मना वा स्ववंश्यानां पूर्वेषामुत्तरेषां चेत्यर्थः । स्वपूर्वेषामपि ज्ञानवैराग्यादेर्हेतुतया आद्यस्येति विशेषणम् । नः – नाथमुनिसंप्रदायभाजामस्माकम् । गोत्रर्षिवदसावित्यभिप्रायेण कुलपतित्वोक्तिः, ईश्वरस्तु परमाचार्योऽपि सर्वेषां साधारणः, अयं त्वस्मदसाधारण इति भावः । योगरूढिप्रदर्शिताभ्यां रक्षकत्वशेषित्वाभ्यां वा पतित्वोक्तिः । वकुलाभिरामं श्रीमदित्युभाभ्यां वेषतः स्वभावतश्च सौम्यत्वमङ्गलत्वे विवक्षिते । परतत्त्वनिर्णयहेतूनां तत्प्रबन्धानां स्थिरपरिमलत्वसूचनार्थं तदातनसात्त्विकजनप्रयुक्तैः सपर्यार्थवकुलकुसुमैरभिरामम् । वैष्णवत्वसाम्राज्यचिह्नैः श्रीमत् स्वाश्रितानां तादृशसंपत्प्रदानयोग्यं च । “स तु नागवरः श्रीमान् (विष्णुधर्मे ६९.४७)”, “अन्तरिक्षगतः श्रीमान् (रामा. युद्ध. १६.१७)” इतिवत् भगवत्सेवोद्यतत्वं वा श्रीमत्त्वम् । तत् – उक्तप्रकारनिरतिशयभोग्यत्वनिरपायशरण्यत्वाभ्यां प्रसिद्धम् । अङ्घ्रियुगलम् – उपमान्तरराहित्येनान्योन्यसदृशं देवताद्वन्द्ववच्चाविभक्तोद्देश्यम् । प्रणमामि – भक्तिप्रकर्षपूर्वकं प्रह्वीभावेन भजामीत्यर्थः । नित्यानुवृत्तिविवक्षया वर्तमानव्यपदेशः । मूर्ध्ना – न केवलं वाङ्मात्रेण, नापि मनसा, “समस्तिष्कः प्रणामः स्यादञ्जलिं मस्तके न्यसेत् । प्रणामस्संपुटस्स स्यात् हृदयेऽञ्जलिमर्पयेत् । प्रह्वाङ्गस्संपुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ॥” इत्युक्तमस्तिष्कसंपुटादिमात्रेणेति भावः । नमस्कारप्रकरणे च “तद्यथा पुनरयं जानुभ्यां पाणिभ्यां शिरसा च (रहस्याम्नायब्राह्मणे)” इत्यारभ्य “इत्येवं नमति स सर्वैः करणैर्नमति” इत्युक्तम् । तादृशप्रणामश्चैवं प्रशस्यते “सर्वैः करणैर्नमन् समग्रो भवति, समग्रो नमन्नाप्तकारी भवत्याप्तकारी भगवन्तमाप्नोति (रहस्याम्नायब्राह्मणे)” इति । अयं च मूर्ध्ना प्रणामश्चतुर्विधः, तत्र पञ्चाङ्गस्तावत् श्रीवैखानसे प्रोक्तः “पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशन् । बद्धाञ्जलिर्नमस्कुर्यात् स पञ्चाङ्ग उदीर्यते” इति । षडङ्गश्च “पादौ हस्तौ प्रसार्य वा (वैखानसशास्त्रे)” इत्यादिनोक्तः । शाण्डिल्यस्मृतौ च (द्वितीयाध्याये) “निधाय दण्डवद्देहं प्रसार्य चरणौ करौ । बद्ध्वा मुकुलवत्पाणी प्रणामो दण्डसंज्ञितः ॥ पादौ शिरस्तथा हस्तौ निकुञ्च्य मुकुलाकृती । मनोबुद्ध्यभिमानैश्च प्रणामोऽष्टाङ्गसंज्ञितः ॥ मस्तिष्कं संपुटं चैव प्रह्वाङ्गं च त्रयं बुधैः । कृतयोरनयोः कार्यमन्यथा विकलं भवेत्” इति । श्रीसात्वते (६.१८७) “मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः” इति । सङ्कर्षणसंहितायां तु सुकृतप्रणामविधौ “ललाटोदरजान्वङ्घ्रियुगा (ग्रानूर्ध्वगौ) न्यूर्ध्वगतौ करौ । भूमौ संधाय मनसा वासुदेवमनुस्मरन् ॥” इति करचरणजानुशिरःप्रभृतिद्वादशाङ्गश्च प्रणामो द्रष्टव्यः । भगवतीव सम्यज्ज्ञानप्रदातृष्वपि भक्तिप्रकर्षादीदृशाः प्रणामा उपपद्यन्ते ॥
द्रविडोपनिषद्द्रष्टुरस्य याथात्म्यमद्भुतम् । सम्यक् श्रुतवतां नात्र शङ्कनीय उपप्लवः ॥ २२ ॥
“देवगुह्येषु चान्येषु हेतुर्देवि! निरर्थकः” (भार. आनु. २०६.६०) । इत्यादिन्यायदृष्ट्या च तोष्टव्यमिह सूरिभिः ॥ २३ ॥ ॥ ५ ॥