०० प्रवेशः

विश्वास-प्रस्तुतिः - कर्तृ-प्रशस्तिः

स्वादयन्न् इह सर्वेषां
त्रय्य्-अन्तार्थं सुदुर्ग्रहम् ।
स्तोत्रयाम् आस योगीन्द्रस्
तं वन्दे यामुनाह्वयम् ॥

नमो नमो +++(गोकुलस्थाय)+++ यामुनाय
+++(वृन्दावनस्थाय)+++ यामुनाय नमो नमः ।
नमो नमो +++(द्वारिकास्थाय)+++ यामुनाय
+++(द्राविडाय)+++ यामुनाय नमो नमः ॥

नमो यामुन-पादाब्ज-
रेणुभिः पावितात्मने
विदिताखिल-वेद्याय
गुरवे विदितात्मने

मूलम् - कर्तृ-प्रशस्तिः

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् ।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः ।
नमो नमो यामुनाय यामुनाय नमो नमः ॥

नमो यामुनपादाब्जरेणुभिः पावितात्मने ।
विदिताखिल वेद्याय गुरवे विदितात्मने ॥

वेङ्कटनाथार्यः

॥ श्रीरस्तु ॥
॥ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥
**॥ स्तोत्ररत्नभाष्यम् ॥

श्रीमान् वेङ्कटनाथार्यः
कवितार्किक-केसरी ।
वेदान्ताचार्यवर्यो मे
सन्निधत्तां सदा हृदि ॥

श्रीमद्-यामुन-मुनिना
नाथ-सहायेन नाथवान् अस्मि
यद्-वदन-चन्द्र-जनिता
स्तोत्र-सुधा भवति सुमनसां भोग्या ॥ १ ॥

प्राप्य-प्रापक-भूते भगवति
यामुन-मुनेर् अयं प्रसृतः
दुरितानि हरति जगतां
द्वयानुसन्धान-सिन्धु-परिवाहः ॥ २ ॥

विमलम् अमृतोल्बण-रसं
विगाह्य निर्विशति वेङ्कटेश-कविः ।
यदु-पति-चरणार्हम् इदं
यमुना-तीर्थम् इव यामुनं स्तोत्रम् ॥ ३ ॥

यद्य् अप्य् अत्र न संदृष्टं
परार्थ-प्रतिपादनम् ।
तथाऽपि तादृग्-रूपत्वं
पर-सङ्कल्पतः स्थितम्+++(=??)+++ ॥ ४ ॥

स्तोत्र-रत्नम् इदं न्यस्तम्
आचार्य-स्तुति-सम्पुटे ।
निधानम्+++(=सम्पत्)+++ इव निस्सीमं
निर्विशन्ति विपश्चितः ॥ ५ ॥