वैश्वदेव-त्याग-पक्षः
वासुदेवसंहितायाम् अयं श्लोकः (मूलं त्व् अदृष्टम्) -
मध्याह्नानन्तरं देवि
वैश्वदेवं विना रमे।
अनुयागस् तदा कार्यः
परमैकान्तिभिर् द्विजैः॥
अस्याधारेण शुद्ध-सत्त्व-वरदाचार्यः सद्-अनुष्ठान-दर्पणे वैश्वदेवं न कार्यम् इति निश्चिनोति (निवेदितम् एव वैश्वदेवे प्रयोक्तव्यं स्याद् इति) ।
एवं लोकाचार्यानुयायिषु वैश्वदेवं लुप्तप्रायम् इव।
तैत्तिरीयकादिभिः त्यक्तश् चेत् पूर्वाचार्य-विरोधः
वैश्वदेवादि-स्वशाखोक्त-वैदिक-नित्य-कर्म न कथञ्चित् त्याज्यम् इति यामुनार्यस्याभिप्रायः,
एवं हि ततोऽपि प्राचीनस्य भाष्यकारस्य द्रमिडाचार्यस्यापीति ज्ञायते ।
यामुनस्यागमप्रामाण्यय् इदम् अभिहितम् -
नन्वत्र भवतां भाष्यकाराणां विरुद्धांशाप्रामाण्याभिधानं कथम् इव?
यद्य् अपि विरोधः - कृत्वा चिन्तया परिहृतस्
तद् अपि गम्भीर-न्याय-सागरम् अवगाढुम् अपरिवृढानां कोमल-मनसां
वेदानादरो मा भूद् इत्य्-एवम्-परम्,
नाम, पाञ्चरात्र-वैदिकयोर् विरोधो न वस्तुतो वर्तते, यदि तथा ऽल्पधीभ्यो भाति पाञ्चरात्र-गत-विरुद्धांशस् त्याज्यः।
पुनः, अग्रे स्पष्टीकरोति यामुनार्यः -
ये पुनः सावित्र्य्-अनुवचन-प्रभृति–त्रयी-धर्म-त्यागेन एकायन-श्रुति-विहितान् एव चत्त्वारिंशत् संस्कारान् कुर्वते
तेऽपि स्व-शाखा-गृह्योक्तम् अर्थं यथावद् अनुतिष्ठमानाः
न शाखान्तरीय–कर्माननुष्ठानाद् ब्राह्मण्यात् प्रच्यवन्ते।
…
सर्वत्र हि जाति-चरण-गोत्राधिकारादि-व्यवस्थिता एव समाचारा उपलभ्यन्ते ।
… विलक्षणाश् च त्रयी-विहित-स्वर्ग-पुत्रादि-विषयोपभोग-साधनैन्द्राग्नेयादि-कर्माधिकारिभ्यो द्विजेभ्यस्त्रय्य्-अन्तैकायन-श्रुति-विहित-विज्ञानाभिगमनोपादानेज्या-प्रभृति-
भगवत्-प्राप्त्य्-एकोपायक-कर्माधिकारिणो मुमुक्षवो ब्राह्मणा
इति नोभयेषाम् अप्य् अन्योन्य-शाखा-विहित-कर्माननुष्ठानम् अ-ब्राह्मण्यम् आपादयति।
एवम्, सर्वेऽपि वैष्णवाः स्व-स्व-शाखानुसारेण कर्माणि कुर्युः।
एकायनशाखिनाम् एव तत्र महान् व्यत्यासो वर्तते।
इयम् अपि वासुदेवसंहितोक्तिः, एकायनशाखि-विषयिकैव स्याद् इत्य् अनुमातव्यम् ।
पुनः, यामुनार्यकाले तु न हि तैत्तिरीयकैर् वैश्वदेवादि त्यक्तम् इति च ज्ञेयम्।