तिलकम्, पुण्ड्रम्

भावना

उक्तस्थानेषु नाडिशोधनं तिलकधरणेन कल्पयेत्।
श्वेत-मृत्तिका श्वेतद्वीपमृत्तिका-प्रतिनिधिर् इति स्मरेत्।
पादाकृतिं धार्यमाणम् भावयेत्।

पुण्ड्रेषु केशवादीन् आवाहयेत् ।

द्रव्यम्

  • विषान् वारयेत् - विशिष्य हरिद्रादौ। (विजयकथा)
  • स्वयम् एव निर्मिनुयात्
  • श्री-विग्रह-स्पर्शात् परं हि प्रयोक्तव्यम्।

क्रमः

अभिमन्त्रितम् अनामिकया धार्यं (गृहस्थेन ब्राह्मणेन विशिष्य)।

  • ललाटे, (४-अङ्गुलम् ऊर्ध्वं
    २/३-अङ्गुलं विस्तृतं)

  • नाभौ, (नाभ्यादि १२-अङ्गुलम् ऊर्ध्वं, ३-अङ्गुलं विस्तृतं)

  • हृदये (अष्टाङ्गुलं वा ऊर्ध्वं चतुरङ्गुलं विस्तृतं,)

  • कण्ठे (चतुर्-अङ्गुलम् ऊर्ध्वं द्व्यङ्गुलं विस्तृतम्)

  • नाभेर् दक्षिणे, (१२-अङ्गुलम् ऊर्ध्वं, ३-अङ्गुलं विस्तृतं)

  • दक्षिण-भुजे (१०-अङ्गुलम् ऊर्ध्वं, ३-अङ्गुलं विस्तृतं),

  • ग्रीवा-दक्षिणे (३-अङ्गुलम् ऊर्ध्वं विस्तृतं च)

  • नाभेर् वामे, वाम-भुजे, ग्रीवा-वामे

  • पृष्ठ-वंशे, (३-अङ्गुलम् ऊर्ध्वं विस्तृतं च)

  • ग्रीवा-पृष्ठे (३-अङ्गुलम् ऊर्ध्वं विस्तृतं च)

इतिहासः

सम्प्रदाया

  • श्रीवैष्णवेषु
    • उत्तरकलार्याः U-आकृत्या धरन्ति।
    • दक्षिणकलार्याः सपीठं पुण्ड्रं धरन्ति।
      • तेषु केचिन् नासा-मूलं नाम नासापुटदेशं गृह्णन्ति। (यथा धनुर्दासयतिः। )
      • अन्ये भ्रूमध्यभागस्याधस्ताद् आरब्धुं ईहन्ते।
  • वैखानसाः

AP and telengana - vaikhanasas generally sport so called vdk namam. The vaikhanasa pathasalas also sport that style of namam only.

Vaikhanasas in TN simply apply namam of the temple murti in many places. They don’t care much about which namam they use. A vaikhanasa from ayindhai (who generally sports so called vdk namam) changed his namam to tk style when he was asked to do so at tirukkovilur where he took part in some utsava.

व्याख्यानानि