ताप-संस्कारः

करणीयता

पञ्चमे वेदे भीष्म-पर्वणि चतुर्थेऽह्नि देवगुह्ये -

ब्राह्मणैः क्षत्रियैर् वैश्यैः
शूद्रैश् च कृत-लक्षणैः
अर्चनीयश् च सेव्यश् च
नित्य-युक्तैस् स्व-कर्मसु ॥
सात्त्वतं विधिम् आस्थाय
गीतः संकर्षणेन यः॥

वेङ्कटनाथार्येण सच्-चरित्र-रक्षायाम् स्पष्टं निश्चितम् -

तद् एवं भगवच्-छास्त्रे
समाराधकादीनां सर्वेषाम् अपि
चक्रादि-लाञ्छन-धारणस्यावश्य-कर्तव्यतया ऽभिहितत्वात्
प्रमाणान्तर-गवेषणं चापवरक-निहित-हिरण्य-निधेः पुरुषस्य
कोद्रवाद्य्-अर्थं कृपण-जन-याचनम्
इति परिहसन्ति सन्तः ।

अहोबिलाचारः

अहोबिल-मठे होमं विनैव तप्त-मुद्राङ्कनं कुर्वते।
ते मुद्रे नित्यं नृसिंहविग्रहेण सहाभिषेकादिभिर् आराध्यते (भक्ताङ्ग-स्पर्शात् परम् अपि)।
तेन नित्य-सान्निध्यं रक्ष्यत इति होमस्यापेक्षा नास्ति शास्त्रानुसारेणैव।
मालोलदत्ते मुद्रय् इत्य् ऐतिह्यं गौणम् एव।

लक्ष्यालोकनम्

माध्वेषु तप्त-मुद्राङ्कनं प्रतिवर्षम् इव दृष्टय् आचार्ये क्रियते।

रामानुजः

रामानुजस् सभार्यो न समाश्रयणं (ताप-संस्कार-सहितं) यदा लेभे,
तदा ऽपि काञ्चीपूर्णेन तद्-अन्नम् भुक्तम्,
रामानुजार्येण च तीर्थ-कैङ्कर्यं कृतं देवालये।

आराधनय् अधिकारार्थम् उपदेशो यथाऽपेक्षं स्पृहणीयः,
न तावत् ताप-संस्कारादि।

इत्य् एतावता न मन्तव्यम् -
रामानुजादिभिः स्व-काल-गत-दुराचारानाचारादेः परिष्कृतेः प्रसिद्धत्वात् -
नाथमुनि–यादव-प्रकाशाभ्याम् एक-दण्डि-सन्न्यास-हानम् इव।
तथा, “यान्य् अस्माकं सुचरितानि तानि त्वयोपास्यानी"ति प्रसिद्धम्।

पुनस् तद् ऐतिह्यं पूर्णतया प्रामाणिकं नेति केचित्।