सन्न्यासः

एक-दण्ड-परित्यागः

केचिद् वैष्णवा एक-दण्ड-सन्न्यासं तत्यजुः।

शतदूषण्याम् उच्यते -

भवदीय-यूथ्य–भास्कराचार्य–यादव-प्रकाश–भगवन्-नाथ-मुनि–पारम्-पर्य–विघटितत्वाद्,

भवत्-पक्ष-प्रवेशित-विसंवादैक्याच् चानुविधेयाचारत्वासंभवाद् इति ।

यादवप्रकाशो रामानुजशिष्यताम् उपगतः सप्रायश्चित्तम् एकदण्डिसन्न्यासं त्यक्त्वा त्रिदण्डी भूत्वा यति-धर्म-समुच्चयं ग्रन्थम् अरचयत्।

विग्रहाराधनम्

यतिर् विग्रहाराधनं न कुर्याद् (सालग्रामम् एवाराधयेत्) इति शास्त्रम् ।
एवम् आण्डवन्-आश्रमे यति-कृत-विग्रहाराधनं नोचितम् इत्य् अहोबिल-मठ-विद्वांसः।
किञ्च, भगवद्-आदेशो स्वप्न-प्रत्यक्षादि-प्राप्तः शास्त्रम् बाधते ।
ततो ह्य् अहोबिल-मठे परकाल-मठे च
यतिभिर् विग्रहाराधनम् उपपन्नम्।

गृहस्था अपि स्युर् गुरवः

सन्न्यासिनाम् अपि गृहस्थाचार्यास् सम्भवन्त्य् एव, यथा -

  • गोष्ठीपूर्णः → रामानुजः
  • वेङ्कटनाथार्य-शिष्यः प्रथम-पर-काल-यतिः।
  • तिरुक्कुडन्तै-गोपाल-देशिकः → वऴुतूर्-आण्डवन्-वेदान्त-रामानुजः।

ते सर्वे गृहस्थेभ्यः स-नमस्कारं कालक्षेपाख्यं रहस्याद्य्-उपदेशं लेभिरे
सन्न्यासात् परम् अपि।
पश्चाद् अपि नमश् चक्रुः।