सम्प्रदायान्तराध्ययनम् अत्र ।
न्यास-क्रमः
भूतशुद्धौ संहारक्रमेण सृष्टिक्रमेण च मन्त्रा न्यस्यन्ते।
प्राकृत-भूत-सृष्टिक्रमः - आत्मन आकाशः, आकाशाद् वायुः, वायोर् अग्निः, अग्नेर् आपः, अद्भ्यः पृथिवी।
भूतशुद्धाव् अप्राकृतभूतान्य् अभिप्रेतानि चेद् अपि, तेनैव क्रमेण सृष्टि-संहारौ कल्पनीयौ।
पूर्णमन्त्राः
विश्वासाभिप्रायः
- ओं꣡ षौंं꣡(क्षौं꣡ / हां꣡) न꣡मः प꣡राय, परमेष्ठ्या꣡त्मने वासुदेवा꣡य न꣡मः
- ओं꣡ यां꣡ न꣡मः प꣡राय, पु꣡रुषात्मने सङ्क꣡र्षणाय न꣡मः
- ओं꣡ रां꣡ न꣡मः प꣡राय, वि꣡श्वात्मने प्र꣡द्युम्नाय न꣡मः
- ओं꣡ वां꣡ न꣡मः प꣡राय, नि꣡वृत्त्यात्मने +अ꣡निरुद्धाय न꣡मः
- ओं꣡ लां꣡ न꣡मः प꣡राय, स꣡र्वात्मने [श्री꣡मते] नारायणा꣡य न꣡मः
एषु “पर”-शब्देन तत्-तद्-भूतानां साधिपतीनां
नित्यविभूतौ वैकुण्ठे स्वाभाविकतया वर्तमानत्वम् अभिप्रेतम्।
भावनम्
भगवद्-अर्चना-योग्यम् अप्राकृतं शरीरं पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयं कल्पनीयम् भगवद्-आराधनोचितम् -
न जातु प्राकृत-शरीरस्य नाशो वा सृष्टिर् वा कल्पयितुं योग्या॥
पञ्चानां भूतानां नित्यानां न भवति सृष्टिः संहारो वा।
ते च वैकुण्ठे भवन्ति प्रायेण,
तथापि प्राकृते लोकय् आविशन्ति कदाचित्।
भूत-शुद्धि-गत–सृष्टि-संहार-शब्दाभ्यां
तावन् नित्यानां भूतानाम् उत्सारणम् आस्थापनञ् चोच्येते
पञ्चोपनिषन्-मन्त्रैर् क्रियमाणे।
तद्वत् भूत-क्रमो ऽप्य् अत्र न पारमार्थिकः, अपि तु सृष्टि-संहार-व्यञ्जनार्थ एव।
प्राकृत-शरीरं तावद् अ-प्राकृत-शरीरस्याधारो भवति।
तद् एव शोषणादिभिश् शोध्यते
तथा-कथित-संहार-सृष्टि-न्यासयोर् मध्ये।