अष्टाक्षरे प्रणवाधिकारः

प्रमाणानि

शास्त्रोक्तिः -

“न स्वरः प्रणवोऽङ्गानि
नाप्य् अन्य-विधयस् तथा ।
स्त्रीणान्तु शूद्राजातीनां
मन्त्रमात्रोक्तिर् इष्यते”(नारदीयकल्पम्)

“तत्रोत्तरायणस्यादिर्
बिन्दुमान् विष्णुर् अन्ततः ।
बीजम् अष्टाक्षरस्य स्यात्
तेनाष्टाक्षरता भवेत्”
(नारदीयम् 1-57)

सर्वाधिकार-पक्षः

Source: श्रीरामशर्मा

श्रीरामशर्मादयः - अन्ततः, उत्तरायणस्यादिः (= उकारः) बिन्दुमान्, विष्णुः (=अकारः) (च) = बीजम् अष्टाक्षरस्य।

इत्थम् अष्टाक्षरमन्त्रान्तर्गतस्य प्रणवस्य द्विजेतरैर् अपि प्रयोगो विहित उच्यते।
किञ्च व्याख्यानम् एतद् विचारणीयम् भाति।

तथा व्याकृते तु,
तद् इदं नारदीयं शास्त्रं
द्विजेतरपक्षे प्रणवं निषिध्य
पुनस् तम् एव प्रणवं विदधातीति
अहो विचित्रम्।

यथाह भाष्यकारः -

न हि
ब्रह्मणो विशेषणतया
प्रमाणान्तराप्रज्ञातं सर्वं तद्-विशेषणत्वेन +उपदिश्य
पुनस् तद् एवानुन्मत्तः प्रतिषेधति

For none but a person not in his right mind
would first teach that all the things mentioned in the earlier part of the section are distinctive attributes of Brahman–
as which they are not known by any other means of proof–
and thereupon deliberately negative negate his own teaching.

अहो स्खालित्यम् एकदेशिनां पदे पदे भाष्यकारम् पूजयताम् अपि
तदीय-प्रामाणिकताम् अननुकुर्वताम्।

द्विजाधिकार-पक्षः

अत्र वेदान्तदेशिको रहस्यत्रय-सारे -

इप्पडि प्रणवविहीनमान मूलमन्त्रत्तिऱ्‌कु अष्टाक्षरत्वसंभवप्रकारत्तैच् चॊल्लुगिऱदु ‘‘तत्रोत्तरायणस्यादिः’’ ऎन्गिऱ श्लोकम्. इदऱ्‌कु अर्थम्ः- तत्र – मूलमन्त्रत्तिलुळ्ळ, उत्तरायणस्यादिः – ‘‘नारायणायेत्युपरिष्टात्’’ ऎण्ड्रु उत्तरत्तिल् सॊन्न नारायणशब्दसंबन्धियान अयनशब्दत्तिनुडैय आदियाय्, अन्ततः - मुडिविले, बिन्दुमान् - अनुस्वारत्तैयुडैयदाय्, विष्णुः – विष्णुवाचकमान अकारमानदु, अष्टाक्षरस्य बीजं स्यात् - अष्टाक्षरत्तिऱ्‌कु बीजमागक् कडवदु. अन्द बीजत्तै प्रणवस्थानत्तिल् सेर्त्ताल् प्रणवमॊऴिन्द मूलमन्त्रत्तिऱ्‌कुम् अष्टाक्षरत्वमुपपन्नमागुमॆण्ड्रु करुत्तु.

श्रीवेङ्कटनाथार्यः - उत्तरस्य अयन-शब्दस्यादिस् विष्णुः (=अकारः) बिन्दुमान् अन्ततः = बीजम् अष्टाक्षरस्य।