काले स्वाध्याययोग्ये शुभकृति दिवसे श्रीपतेर्मन्दिरादौ
कृत्वा स्नानाद्यनुष्ठां शुचिचरणकरो द्विस्तथाऽऽचम्य हृष्टः ।
दर्भेषु प्रागुदग्वोपविशतु शुचिभिर्निर्मितं यज्ञसूत्रं
तारेणामन्त्र्य चापस्त्विति तु तदभिषिञ्चेज्जपेत्सप्ततारम् ॥ 1.1 ॥
भूरादिव्याहृतीभिस्त्रिगुणितमथ तत् स्वेन मानेन तार-
व्याहृद्भिः प्रोक्ष्य कूर्चोपरि निहितमधो मार्जयेद्दर्भपुञ्जैः ।
आपो हि ष्ठादिमन्त्रैरथ च तदनुवर्त्योर्ध्वदक्षं कराभ्यां
तारेण व्याहृतीभिस्त्रिगुणितमथ सावित्रमन्त्रेण भूयः ॥ 1.2 ॥
प्राणानां ग्रन्थिमन्त्रग्रथितमुपरि यद्वामहस्तं कराभ्यां
भूरग्निं भूर्भुवस्स्वरिति च तदनुवर्त्योद्यजेद्दर्भघृष्टम् ।
दर्भास्तीर्णे प्रदेशे तदुपरि च कुशौ प्रास्य हस्ताग्रतालं
त्रिः कृत्वा नावपश्येद्वममथ च तरौ याज्ञिये तं निबध्य ॥ 1.3 ॥
उक्त्वा मन्त्रं पितृभ्यो नम इति कुटिलं तारतो व्याहृतीभिः
चर्जूकृत्य स्वहस्ते त्रिगुणितभथ चावेष्ट्य मध्यं शिखाभ्याम् ।
तस्यामावेष्ट्य सूत्रत्रयमपि कलयेद्वनियवा ग्रन्थिमन्त्रात्
अश्वत्थाद्युक्तशाखाविनिहितमथ तत् स्थण्डिले व्रीहियुक्ते ॥ 1.4 ॥
न्यस्ते ताम्रादिपात्रे शुभजलभरिते सूत्रसंवेष्टिते स
ल्द्वार्चे तारादिमन्त्रैर्निहितमुपचितं गन्धपुष्पाक्षताद्यैः ।
आयम्यासून् करिष्ये सकलशुभकृते यज्ञसूत्रप्रतिष्ठां
संकल्प्येत्थं स्पृशंस्तत्कलयतु सुमना व्याहृतीभिः प्रतिष्ठाम् ॥ 1.5 ॥
व्यस्ताभिस्संहताभिस्तदनु तदनुगावर्तिताभिः क्रमाद्धू
रग्निं पर्यायभेदैरभिजपतु पुनः पञ्चभूतासुकाद्यान् ।
यद्वा ताराग्निनागाशिपितृविधयो वायुसूर्यादिशेषाः
तन्तूनां दैवतास्स्युर्विधिहरिगिरिशा ग्रन्थिदेवाः क्रमेण ॥ 1.6 ॥
श्रीशो यज्ञोपवीतस्य च खलु तदिमानाह्वयेत्तत्र कुम्भे
गन्धाद्यैरर्ध्यपाद्यादिभिरपि कलयेदर्चनं वीटिकान्तैः ।
सत्कारैरर्चयित्वा सुविहितमथ तद्दर्शयित्वा सवित्रे
त्वा सत्येनेति चर्ग्भिश्चतसृभिदथ तन्निक्षिपेत्पूर्णकुम्भे ॥ 1.7 ॥
तत्स्पृष्ट्वाऽष्टोत्तरं वै शतमनुकलयेत्सूर्यगायत्रजापं
तत्स्वाचान्तस्समन्त्रं हरिदिगभिमुखो धारयेत्सासुयामः ।
पादौ प्रक्षाल्य पाणी शुचिचरणकरो द्विस्तथाऽऽचाम
दर्भेष्वासीनोऽसून्नियम्य स्पृशतु जपतु च त्र्यम्बकं यज्ञसूत्रम् ॥ 1.8 ॥
सर्षिच्छन्दोऽधिदैवं मनुमथ सुजपन् धारयेद्यज्ञसूत्रं
प्रत्येकं मन्त्र आचान्तिरथ बहुषु चेन्नाशुचिर्नावतिष्ठेत् ।
वेदान्ताचार्य इत्थं विविधमुनिमतां यज्ञसूत्रप्रतिष्ठां
व्यातानीद्वैदिकाध्वस्थितिविहितमतिः वैधनिष्ठां गरिष्ठाम् ॥ 1.9 ॥