स्वाग्निं संस्थाप्य पूर्वं कुशनिचयलसत्संस्तरस्सासुयामः
स्वाकूत्याधिश्रयोक्तिप्रतिवचनहविःप्रोक्षणं स्थापनं स्यात् ।
अन्नं द्वेधोत्तरार्धं त्रिविधविभजितं पश्चिमारम्भमन्यत्
भागे द्वेधा विभक्ते हुतभुजि जुहुयात्तत्र पूर्वस्थमन्नम् ॥ १ ॥
आद्यैष्षड्भिस्सतारैर्मनुभिरथ पृथक्पाणिना होममग्नौ
कृत्वा तत्रैकदेशं हविरथ समिध(हितं) पश्चिमांशेन तेन ।
पश्चादग्नेर्धरण्यां बलिहरणविधौ मार्जनप्रोक्षणादेः
पात्रेष्वाहृत्य तोयं क्रमविधिविहिते मार्जनप्रोक्षणे च ॥ २ ॥
धर्माधर्मादिभेदप्रचुरबलिविधिस्थाननिर्देशनं तत्
सर्वं चक्रान्तरस्थं व्यजनविकृतिगं वेदशास्त्रानुरोधम् ।
पित्र्ये रौद्र्ये तथा स्यात्क्रमविधिविहिते मार्जनप्रोक्षणादौ
यद्यत्प्राचीनसूत्रं यदपि तदितरत्तच्च तीर्थं निवीतम् ॥ ३ ॥
पश्चाद्वैहायसस्य प्रथमबलिमतो वायसस्याग्रभागे
श्वभ्यां तस्याग्रभागे बलिमथ निविशेदत्रपादात्मशुद्धिः ।
धर्मादेर्दर्शनं चेदसुखकरमतश्चान्द्रमत्रोपवासः
स्याद्देवे पित्र्यभूतद्वययजनविधौ पश्चिमस्थं हविस्स्यात् ॥ ४ ॥
मध्यादुद्धृत्य भागान्मनुजयजनमित्यग्रभागेऽग्रदानं
कृत्वा गोदोहकालक्षपणविधिबलात्तत्र लब्ध्वातिथिभ्यः ।
दद्याल्लक्ष्मीविशिष्टस्वदितिमपि हविर्यज्ञशिष्टान्नयुक्तं
कृत्वा पाद्यासनार्घ्यैर्विधिवदपचितं कल्पयित्वा यथार्हम् ॥ ५ ॥
सायं रौद्रान्तमन्नाद्यदि हितमशनं यद्यथा तद्यथा स्यात्
नक्तं चामेन तोयाद्यदि मनुजपतस्तच्च रौद्रान्तमाहुः।
केचित्त्वामेन तोयान्मनुजपकरणैः षड्भिरेवाज्यमन्त्रैः
नक्तं स्यात्सायमेव त्वनशननियतश्राद्धभोक्तुर्जपस्स्यात् ॥ ६ ॥
धर्मादीशानदत्तं हविरपि च मनः पञ्चयज्ञे च दत्तं
भागं रौद्रावशिष्टं महदनभिमतं त्वातिथेयान्नदाने ।
स्वार्थेऽप्यन्नादिकृद्भ्यामिति नियमविधिश्चाग्रयज्ञादिशिष्टं
सर्वं पित्रोर्मृताहे द्विजमुखहवने नेष्टमित्याहुरार्याः ॥ ७ ॥
नेत्रेन्दू नयनं युगं शशिविधू चन्द्रावतारश्शशी
चन्द्रश्चन्द्रशशीन्दवोऽत्र गणिता धर्मादिकास्सेचने ।
तद्दैवे नयनं क्रमात्पितृमुखे चन्द्रश्च भूते शशी
मर्त्येन्दुश्च तथागृहे हुतवहे पूर्वाहुतीष्वीक्षणम् ॥ ८ ॥
इत्थं व्यासपराशरादिमुनिभिस्सिद्धान्तितार्थोऽप्ययं
श्रीमल्लक्ष्मणयोगियामुनमुखैर्नाथादिभिर्निर्णितः ।
तत्सर्वं त्ववलोक्य तत्करुणया तद्वैश्वदेवक्रमः
सम्मोदाय च वेङ्कटेशकविना प्रोक्तोऽभवद्धीमता ॥ ९ ॥